Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता (श्स्प्_इइ-4_150) प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थाननि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते,
स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. 205अ6, न्. 416अ6, त्. 332अ12, प्. 306ब्6, छ्. 731ब्28] तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च. सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, (श्स्प्_इइ-4_151) अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षाः, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यम्. यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां लिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभ देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, (श्स्प्_इइ-4_152) अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूयतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनगामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 205ब्11, न्. 417ब्7, त्. 333ब्2, प्. 309अ1, छ्. 734ब्30] यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखितां कृत्वा परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पऋयायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता (श्स्प्_इइ-4_154) वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलाङि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, (श्स्प्_इइ-4_155) ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, अरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते. अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 206अ18, न्. 419अ7, त्. 334ब्4, प्. 311अ4, छ्. * *] यावन्तः कौशिक दक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अर्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः?
तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिक देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभ देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता (श्स्प्_इइ-4_157) प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 207अ3, न्. 420ब्9, त्. 335ब्6, प्. 313अ4, छ्. * *] यावन्तः कौशिक पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (श्स्प्_इइ-4_158) पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयनिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमित.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भाशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः शर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिक देवाः प्रज्ञायन्ते, त्रयस्त्रिंश देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका (श्स्प्_इइ-4_159) देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, (श्स्प्_इइ-4_160) प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 207ब्10, न्. 422अ9, त्. 336ब्9, प्. 315अ5, छ्. * *] यावन्तः कौशिक उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
अह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलंप्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (श्स्प्_इइ-4_161) षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शन देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यत्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता (श्स्प्_इइ-4_162) प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूङ्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 208अ15, न्. 423ब्9, त्. 337ब्10. प्. 317ब्1, छ्. * *] यावन्तः कौशिक उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः (श्स्प्_इइ-4_163) प्राप्नुवन्ति प्राप्स्यन्ति ःअ, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः (श्स्प्_इइ-4_164) प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 208ब्19, न्. 425ब्1, त्. 338ब्13, प्. 319ब्5, छ्. * *] यावन्तः कौशिक पूर्वदक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु (श्स्प्_इइ-4_165) ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते. कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा (श्स्प्_इइ-4_166) उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (श्स्प्_इइ-4_167) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 209ब्4, न्. 427अ1, त्. 340अ2, प्. 321ब्7, छ्. * *] यावन्तः कौशिक दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठपयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्रः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (श्स्प्_इइ-4_168) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यताणिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टा. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायपि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, याम देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिमितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकशनन्त्ययतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञयतन देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमित प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (श्स्प्_इइ-4_169) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni wprajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.
[क्. 210अ7, न्. 428ब्2, त्. 341अ5, प्. 324अ1, छ्. * *] यावन्तः कौशिक पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः (श्स्प्_इइ-4_170) कुलदुहितरस् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धा अऊन्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुकानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, (श्स्प्_इइ-4_171) आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, (श्स्प्_इइ-4_172) बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 210ब्11, न्. 430अ1, त्. 342अ6, प्. 326अ3, छ्. * *] यावन्तः कौशिकाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमपत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा (श्स्प्_इइ-4_173) महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंसा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः (श्स्प्_इइ-4_174) प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयह् प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 211अ15, न्. 431ब्3, त्. 343अ7, प्. 32स6, छ्. * *] यावन्तः कौशिक उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना (श्स्प्_इइ-4_176) देवाः प्रज्ञायन्ते.
दानपारन्ञ्ता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते. बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 211ब्19, न्. 433अ5, त्. 344अ10, प्. [32] 1.2, छ्. 736अ8] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, अयम् एव बहुतरं पुण्यं प्रसविष्यति.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
