Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
चतुर्णां स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, चतुर्णां सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, चतुर्णाम् ऋद्धिपादानाम् अनुपलम्भयोगेन, पञ्चानाम् इन्द्रियाणाम् अनुपलम्भयोगेन, पञ्चानां बलानाम् अनुपलम्भयोगेन, सप्तानं बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गस्य मार्गस्यानुपलम्भयोगेन, चतुर्णाम् आर्यसत्यानाम् अनुपलम्भयोगेन, चतुर्णां ध्यानानाम् अनुपलम्भयोगेन, चतुर्णाम् अप्रमाणानाम् अनुपलम्भयोगेन, चतसृणाम् आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, अष्टानां विमोक्षाणाम् अनुपलम्भयोगेन, नवानाम् अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, पञ्चानाम् अभिज्ञानाम् अनुपलम्भयोगेन, सर्वसमाधीनाम् अनुपलम्भयोगेन, सर्वधारणीमुखानाम् अनुपलम्भयोगेन, दशानां तथागतबलानाम् अनुपलम्भयोगेन, चतुर्णां वैशारद्यानाम् अनुपलम्भयोगेन, चतसृणां प्रतिसंविदाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणायाम् अनुपलम्भयोगेन, अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन, स्रोतआपत्तिफलस्यानुपलम्भयोगेन, सकृदागामिफलस्यानुपलम्भयोगेन, अनागामिफलस्यानुपलम्भयोगेन, अर्हत्त्वस्यानुपलम्भयोगेन, प्रत्येकबोधेर् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताताया अनुपलम्भयोगेन.
तद् यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्राणां नानापुष्पाणां नानाफलानां नानासंख्यानां नानारोहपरिणाहानां तेषां छायाया विशेषो वा नानाकरणं वा नोपलभ्यते, अन्यत्र च्छाया च्छायेत्य् एवं संख्यां गच्छन्ति. एवम् एव कौशिक पञ्चानां (श्स्प्_इइ-4_122) पारमितानां प्रज्ञापारमिता परिगृहीतानां सर्वज्ञज्ञानपरिणामितानां च विशेषो नानाक्रणं वोपलभ्यते.
शक्र आह: महागुणसमन्वागता भगवन् प्रज्ञापारमिता, सर्वगुणपरिपूरिका, अप्रमेयगुणसमन्वागता भगवन् प्रज्ञापारमिता अप्रमाणगुणसमन्वागता अपर्यन्तगुणसमन्वगता भगवन् प्रज्ञापारमिता अपर्यवसानगुणसमन्वागतया तया हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयेत् ताश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् उत्तरे च यथोपदिष्टां प्रज्ञापारमितां योनिशो मनसिकुर्याद् यो ऽपि कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा परस्मै दद्यात् कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्?
भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिपक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात् सो ऽपि कुलपुत्रो वा कुलदुहिता वा, तत् सर्षपफलमात्रं तथागतशरीरं गृहीत्वा सत्कुयाद् गुरुक्रुयात् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्.
शक्र आह: यथाहं भगवन् भगवता भाषितस्वार्थम् आजानामि, यो यं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः, यो ऽपि परस्मै सर्षपफलमात्रं तथागतशरीरं दद्याद् अयं ततो बहुतरं पुण्यं प्रसवेत्, इमम् एव भगवन्न् अर्थवशं संपश्यत्, तथागतेनार्हता सम्यक्संबुद्धेन वज्रोपमं समाधिः समापद्यः वज्रोपमम् आत्मभावं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय्य सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोः? ये हि केचिद् भगवन् तथगतस्यान्तसः सर्षपफलमात्रं धातुं पूजयिष्यन्ति विविधाभिः पूजाभिः सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् (श्स्प्_इइ-4_123) अधिगम्य दुःखस्यान्तं करिष्यन्ति.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा सत्कुर्याद् गुरुक्रुयाद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् चेमां प्रज्ञापारमितां परस्मै लिखित्वा दद्याद् धर्मप्रीत्या अयं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
[क्. 202अ11, न्. 398ब्2, त्. 319ब्11, प्. 281ब्6, छ्. 709अ18] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टा परेभ्यो गत्वा आचक्षीत् देशयेत् संप्रकाशयेत् विचरेत् विभजेत् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितॄणाञ् चान्तिकाद् बहुतरं पुण्यं प्रसवेत्, शास्तैव संप्रतिकाङ्क्षितव्यान्यतरान्यतरीया गुरुस्थानीया विज्ञाः सब्रह्मचारी. तत् कस्य हेतोः? एष एवात्र कौशिक शास्ता यद् उत प्रज्ञापारमिता न ह्य् अन्यः शास्तान्या प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता शास्तैः प्रज्ञापारमिता. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षमाणैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते ऽभिसंभोत्स्यते च, ये ऽपि ते विज्ञाः सब्रह्मचारिणस् ते ऽपि नान्ये अन्यत्रावैवर्तिकबोधिसत्त्वेभ्यो यत्र प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते ऽभिसंभोत्स्यते च. अत्र हि कौशिक प्रज्ञापारमितायां श्रावकयानिका अपि शिक्षित्वा स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिका अपि शिक्षित्वा प्रत्येकबोधिन् अभिसंबुद्धा अभिसंवुद्ध्यते अभिसंभोत्स्यते च, बोधिसत्त्वा अपि महासत्त्वाः शिक्षित्वा बोधिसत्त्वनियमम् अवक्रान्ता अवक्रामन्ति अवक्रामिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्धान्ते अभिसंभोत्स्यन्ते च.
तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तथागतान् अर्हतः सयक्षंबुद्धानां मुखं सत्कर्तुकामैर् गुरुकर्तुकामैर् मानयितुकामैः पूजयितुकामैः पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् (श्स्प्_इइ-4_124) माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इमं चार्थवशं संपश्यतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैतद् अभूत्, कतमद् अहं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं सो ऽहं कौशिक सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायाम् आत्मनः सदृशं चाधिकं वा न समनुपश्यामि, तस्य ममैतद् अभूद्, य न्व् एव मया धर्माभिसंबुद्धः शान्तः प्रणीतस् तम् एव धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं कतमश् चासौ कौशिक धर्मा यद् उत सैव प्रज्ञापारमिता अहम् एव तावत् कौशिकेमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरामि, किम् अङ्ग पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेनेयं प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, श्रावकयानिकैर् वा कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा प्रत्येकबुधयानिकैर् अपि कुलपुत्रैर् वा कुलदुहितृभिर्
वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनिर्याताश् च तथागता अर्हन्तः सम्यक्संबुद्धस् तथागतनिर्याताः श्रावकप्रत्येकबुद्धास् तस्मात् तर्हि कौशिक बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा श्रावकयानिकैश् च प्रत्येकबुद्धयनिकैश् च कुलपुत्रैः कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यन्ते ऽभिसंभोत्स्यन्ते च श्रावकयानिकाश् चार्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च प्रत्येकबुद्धयानीकाश् च प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च.
शतसाहस्र्याः प्रज्ञापारमितया द्वाविंशतितमः परिवर्तः
[क्. 2ओ2ब्11, न्. 399ब्3, त्. 32ओब्6, प्. 283ब्4, छ्. 709च्23] अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयेत: सचेत् कौशिक जाम्बूद्वीपकान् सत्त्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानां बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत् यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात् पठनाय वा लिखनाय वा वाचनाय वा. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् च सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति च अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनगामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनुत्तरा सम्यक्संबोधिं संप्रस्थिता सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति चावक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते.
कतमे च ते कौशिक सास्रवा धर्मा विस्तरेणोपदिष्टाः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यत्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा अष्टादशावेणिकबुद्धधर्मः,
इमे ते कौशिक अनास्रवा धर्मा ये प्रज्ञापारमितया निर्दिष्टा यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाश् चाभिसंबुध्यन्ते चाभिसंभोत्स्यन्ते च, एवं कौशिकैकं सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य कुलपुत्रो वा कुलदुहिता वा (श्स्प्_इइ-4_126) बहुतरं पुण्यं प्रसवेत्, न त्व् एव जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोः? दशसु कौशिक कुशलेषु कर्मपथेषु प्रतिष्ठापितः सत्त्वा अपरिमुक्ता एवं नरकतिर्यग्योनेर् यमलोकान् स्रोतआपत्तिफले कौशिक सत्त्वः प्रतिष्ठापितः परिमुक्तो नरकतिर्यग्योनेर् यमलोकान्, कः पुनर् वादः सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत्, यश् च पुनः कौशिक सर्वजाम्बूद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत्, यश् चैकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्, यो वा कश्चित् कुलपुत्रो वा कुलदुहिता वा सर्वजाम्बूद्वीपकान् प्रत्येकबोधौ प्रतिष्ठापयेद् यश् च कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा एकम् अपि सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? बुद्धनेत्र्याः सो व्यवच्छेदाय प्रतिपन्नो भवति, य एकसत्त्वम् अप्य् अनुत्तरायै सम्यक्संबोधये प्रतिष्ठापयति. तत् कस्य हेतोः? बोधिसत्त्वनिर्जाता हि कौशिक स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वनिर्याता हि कौशिक तथागता अर्हन्तः सम्यक्संबुद्धास् तद् अनेन कौशिक पर्यायेणैवं वेदितव्यम्. बोधिसत्त्वो ऽपि पूजयितव्यो मानयितव्यः सत्कर्तव्यो गुरुकर्तव्यः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, स देवकेन लोकेन समारकेन सश्रवणब्राह्मणिकायाः प्रज्ञायाः, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलधिता वा जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लिखनाय वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्व सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतअपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति (श्स्प्_इइ-4_127) प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् अर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखनि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखनि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा उपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते. अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा (श्स्प्_इइ-4_128) देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. 203ब्15, न्. 402अ5, त्. 322ब्1, प्. 287ब्1, छ्. 711ब्1] तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता (श्स्प्_इइ-4_129) वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा इएखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् चशिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां (श्स्प्_इइ-4_130) विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (श्स्प्_इइ-4_131) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 204ब्1, न्. 403ब्5, त्. 323ब्3, प्. 289ब्4, छ्. 715च्3] तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो या कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमित प्रज्ञापारमिता.
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, (श्स्प्_इइ-4_132) अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताब्बा देवाः प्रज्ञायन्ते, अप्रमाणभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. पेयालं
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (श्स्प्_इइ-4_133) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. 1 - -, न्. 405अ6, त्. 324ब्4, प्. 291ब्7, छ्. 717अ8] तिष्ठन्तु कौशिक सहस्रचूडिका लोकधातुः यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
शक्र आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो स्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (श्स्प्_इइ-4_134) कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे च ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहरसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सन्तधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात्. पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (श्स्प्_इइ-4_135) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्साः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (श्स्प्_इइ-4_136) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - - , न्. 406ब्7, त्. 325ब्6, प्. 294अ1, छ्. 718ब्13] तिष्ठन्तु कौशिक द्विसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च,
स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च,
कतमे ते कौशिकानस्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वर्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि (श्स्प्_इइ-4_137) दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता (श्स्प्_इइ-4_138) प्राज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थनानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञत प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 408अ9, त्. 326ब्10, प्. 296अ1, छ्. 720अ5] यावन्तः कौशिक दशषु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वान्स् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्येत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहुता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता (श्स्प्_इइ-4_139) अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्माःतद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता. अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशलकुलानि प्रज्ञायन्ते, गृहपतिमहाशलकुलानि प्रज्ञायन्ते.
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना (श्स्प्_इइ-4_140) देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसम्विदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञयते, स्रोतआपन्नः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते.
[क्. - -, न्. 410अ1, त्. 328अ1, प्. 298अ3, छ्. 722च्19] पुनर् अपरं कौशिक ये केचिज् जाम्बूद्वीपका मनुष्यास् तान् कश्चिद् एव कुलपुत्रो वा कुलधिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयेत् (श्स्प्_इइ-4_141) पञ्चस्व् अभिज्ञासु प्रतिष्ट्छापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा नोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि (श्स्प्_इइ-4_142) प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देयाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, (श्स्प्_इइ-4_143) तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 411ब्1, त्. 329अ3, प्. 300अ5, छ्. 724ब्5] तिष्ठन्तु कौशिक जांबूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (श्स्प्_इइ-4_144) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (श्स्प्_इइ-4_145) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 413अ3, त्. 330अ7, प्. 302अ7, छ्. 725च्15] तिष्ठन्तु कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः यावन्तः कौशिक साहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो या कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (श्स्प्_इइ-4_146) प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रंइष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च.
कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वद्धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्द्बधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायपि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते. गृहपतिमहाशालकुलानि प्रज्ञायन्ते,
चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यमा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (श्स्प्_इइ-4_147) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते.
दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते.
अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते.
स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, विमोक्षाः प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (श्स्प्_इइ-4_148) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते.
[क्. - -, न्. 414ब्4, त्. 331अ10, प्. 304ब्3, छ्. 730अ22] तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक द्विसाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलद्तिहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ःव् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठपयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
आह: बहु भगवन् बहु सुगत.
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखित्वा परेभ्यो दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च.
कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यनपारमिता प्रज्ञापारमिता.
अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थनानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपदः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः (श्स्प्_इइ-4_149) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्म विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
