Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां (श्स्प्_इइ-4_262) प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः.
[क्. 235अ19, न्. 477ब्3, त्. 381ब्6, प्. 87अ7, छ्. 899अ4] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिता कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये (श्स्प्_इइ-4_263) संप्रस्थितायै यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च यदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व, यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो यिस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय (श्स्प्_इइ-4_264) वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञतधर्माणं लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्षंबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमितां उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
[क्. 236अ6, न्. 479अ5, त्. 382ब्4, प्. 89ब्6, छ्. 900ब्8] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्येयम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायं सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिसेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेनोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारामितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं च वदेद् एहि क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्.
तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो नान्यार्थं धर्मम् उपदेष्टव्यो नियता हि ते संबोधि परायणानते भुयो विवर्तित्तिते अनुत्तराया सम्यक्संबोधेर् अयम् अभू कश्चिच् चितः संसारात् महाकरुणासंपीडितश् च.
[क्. 236ब्8, न्. 480अ8, त्. 383अ4, प्. 91ब्5, छ्. 904ब्7] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यथा यथा भगवन् बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तारायाः सम्यक्संबोधेस् तथा तथा बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शीलपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा क्षान्तिपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा वीर्यपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा ध्यानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायाम् अववदितव्यो ऽनुशासितव्यः.
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा अध्यात्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा बहिर्धाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अध्यात्मबहिर्धाशून्यतयाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शून्यताशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा महाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा परमार्थशून्यतायाम् (श्स्प्_इइ-4_267) अववदितव्यो ऽनुशासितव्यः, तथा तथा संस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा असंस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अत्यन्तशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवराग्रशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवकारशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रकृतिशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा सर्वधर्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वलक्षणशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनुपलम्भशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावस्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः.
यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा स्मृत्युपस्थानेष्व् अववदितव्यो ऽनुशासितव्यः, सम्यक्प्रहाणेष्व् अववदितव्यो ऽनुशासितव्यः, ऋद्धिपादेष्व् अववदितव्यो ऽनुशासितव्यः, इन्द्रियेष्व् अववदितव्यो ऽनुशासितव्यः, बलेष्व् अववदितव्यो ऽनुशासितव्यः, बोध्यङ्गेष्व् अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आर्याष्टाङ्गे मर्गे ऽववदितव्यो ऽनुशासितव्यः, आर्यसत्येष्व् अववदितव्यो ऽनुशासितव्यः, ध्यानेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आरूप्यसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, विमोक्षास्व् अववदितव्यो ऽनुशासितव्यः, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववदितव्यो ऽनुशासितव्यः, अभिज्ञास्व् अववदितव्यो ऽनुशसितव्यः, समाधिष्व् अववदितव्यो ऽनुशासितव्यः, धारणीमुखेष्व् अववदितव्यो ऽनुशासितय्यः, तथागतबलेष्व् अववदितव्यो ऽनुशासितव्यः, वैशारद्येष्व् अववदितव्यो ऽनुशासितव्यः, प्रतिसंवित्स्व् अववदितव्यो ऽनुशासितव्यः, महामैत्र्याम् अववदितव्यो ऽनुशासितव्यः, महाकरुणायाम् अववदितव्यो ऽनुशासितव्यः, अष्टादशावेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः, चीवरपीण्ड्पात्रसयनसनग्लानप्रत्ययभैषज्यपरिष्कारैश् चानुगृहीतव्यः.
ते खलु पुनर् बोधिसत्त्वं महासत्त्वं धर्मसंग्रहश् चामिषसंग्रहेणं चानुश् चानुगृहून्तो बहुतरं ते कुलपुत्र कुलदुहितरश् च पुण्यं प्रसविष्यन्ति. न त्व् एव ते पौर्वकाः कुलपुत्रा कुलदुहितरश् च. तत् कस्य हेतोः? एवं त्वेन तद् भगवन् भवति, यो बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववद्यते ऽनुशासिष्यते, शीलपारमितायाम् अववद्यते ऽनुशासिष्यते, क्षान्तिपारमितायाम् अववद्यते ऽनुशासिष्यते, वीर्यपारमितायाम् (श्स्प्_इइ-4_268) अववद्यते ऽनुशासिष्यते, ध्यानपारमितायाम् अववद्यते ऽनुशासिष्यते, प्रज्ञापारमितायाम् अववद्यते ऽनुशासिष्यते.
अध्यात्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, बहिर्धाशून्यतायाम् अववद्यते ऽनुशासिष्यते, अध्यात्मबहिर्धाशून्ययाम् अववद्यते ऽनुशासिष्यते, शून्यताशून्यतायाम् अववद्यते ऽनुशासिष्यते, महाशून्यतायाम् अववद्यते ऽनुशासिष्यते, परमार्थशून्यतायाम् अववद्यते ऽनुशासिष्यते. संस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, असंस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, अत्यन्तशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवराग्रशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवकारशून्यतायाम् अववद्यते ऽनुशासिष्यते, प्रकृतिशून्यतायाम् अववद्यते ऽनुशासिष्यते. सर्वधर्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वलक्षणशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनुपलम्भशून्यतायाम् अववद्यते ऽनुशासिष्यते, अभावशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वभावशून्यतायाम् अववद्यतेऽनुशासिष्यते, अभावस्वभावशून्यतायाम् अववद्यते ऽनुशासिष्यते.
स्मृत्युपस्थानेष्व् अववद्यते ऽनुशासिष्यते, सम्यक्प्रहाणेष्व् अववद्यते ऽनुशासिष्यते, ऋद्धिपादेष्व् अववद्यते ऽनुशासिष्यते, इन्द्रियेष्व् अववद्यते ऽनुशासिष्यते, बलेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, बोध्यङ्गेष्व् अववद्यते ऽनुशासिष्यते, मार्गेष्व् अववद्यते ऽनुशासिष्यते, आर्यसत्येष्व् अववद्यते ऽनुशासिष्यते, ध्यानेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, आरूप्यसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, अष्टासु विमोक्षेष्व् अववद्यते ऽनुशासिष्यते, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववद्यते ऽनुशासिष्यते, अभिज्ञास्व् अववद्यते ऽनुशासिष्यते, समाधिष्व् अववद्यते ऽनुशासिष्यते, धारणीमुखेष्व् अववद्यते ऽनुशासिष्यते, दशतथागतबलेष्व् अववद्यते ऽनुशासिष्यते, चतुर्षु वैशारद्येष्व् अववद्यते ऽनुशासिष्यते, चतस्प्सु प्रतिसंवित्स्व् अववद्यते ऽनुशासिष्यते, महामैत्र्याम् अवद्यते ऽनुशासिष्यते, महाकरुणायाम् अववद्यते ऽनुशासिष्यते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अववद्यते ऽनुशासिष्यते.
[क्. 237अ17, न्. 482अ1, त्. 384अ7, प्. 94अ2, छ्. 905ब्28] अथायुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् आमन्त्रयते: साधु साधु कौशिक यस् त्वं बोधिसत्त्वेभ्या उत्साहं ददासि बोधिसत्त्वानाम् उगृहीष्वे अनुपारयसि, एवम् एष त्वया कौशिक करणीयं य आर्यश्रावकः सत्त्वानाम् अनुग्रहं कर्तुकामः स बोधिसत्त्वानां महासत्त्वानाम् (श्स्प्_इइ-4_269) अनुत्तरायां सम्यक्संबोधाव् उत्साहं दधातु धर्माम् इषानुग्रहेण च बोधिसत्त्वान् अनुगृहात्व् अनुपरिपारयतु. तत् कस्य हेतोह्? अतः प्रसबोहि कौशिक भगवतः श्रावकसंघाः यद् उत बोधिसत्त्वेभ्यो महासत्त्वेभ्यः यदि च बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये चित्तन् नोत्पादयन् न बोधिसत्त्वो महासत्त्वः शिक्षेत षट्सु पारमितासु दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्षणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावशून्यतायाम्.
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, नानुत्तरां सम्यक्संबोधिं न प्रत्येकबुद्धा प्रज्ञापरन् न श्रावकाः, यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः शिक्षते षट्सु पारमितासु दनपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्.
अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्सणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावसुन्यतायाम्.
स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, (श्स्प्_इइ-4_270) अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु.
तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्यते, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धैः सर्वलोकधातुषु नरक उच्छिद्यन्ते तिर्यग्योनि उच्छिद्यन्ते यमलोक उच्छिद्यन्ते, आसुराश् च काया परिहीयन्ते दिव्यांस् च काया अभिवर्तन्ते, क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति.
चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति, यामानां देवानां लोके प्रादुर्भावो भवति, तुषितानां देवानां लोके प्रादुर्भावो भवति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति, परनिर्मितवशवर्तिनां देवानं लोके प्रादुर्भावो भवति, ब्रह्मकायिकानां देवानां लोके प्रादुर्भावो भवति, ब्रह्मपुरोहितानां देवानं लोके प्रादुर्भावो भवति, ब्रह्मपार्षद्यानं देवानां लोके प्रादुर्भावो भवति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भवति, आभानां देवानां लोके प्रादुर्भावो भवति, परीत्तभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति, आभास्वराणां देवानां लोके प्रादुर्भावो भवति, शुभानं देवानां लोके प्रादुर्भावो भवति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति, बृहाणां देवानां लोके प्रादुर्भावो भवति, परीत्तबृहाणां देवानां लोके प्रादुर्भावो भवति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भवति, बृहत्फलानां देवानां लोके प्रादुर्भावो भवति, अतपानां देवानां लोके प्रादुर्भावो भवति, सुदृशानां देवानां लोके प्रादुर्भावो भवति, सुदर्शनानां देवानां लोके प्रादुर्भावो भवति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, आकाशानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, विज्ञानानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, आकिञ्चन्यायतनानां देवानां लोके प्रादुर्भावो भवति, नैवसंज्ञनासंज्ञायतनानां देवानां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमितया लोके प्रादुर्भावो भवति.
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महासुन्यताया लोके प्रादुर्भावो भवति, परमार्थसुन्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यतया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यतया लोके प्रादुर्भावो भवति.
स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, ऋद्धिपादानां लोके प्रादुर्भावो भवति, इन्द्रियाणां देवानां लोके प्रादुर्भावो भवति, बलानां देवानां लोके प्रादुर्भावो भवति, बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, आर्यसत्यानां लोके प्रादुर्भावो भवति, ध्यानानां लोके प्रादुर्भावो भवति, अप्रमाणानां लोके प्रादुर्भावो भवति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, समाधीनां लोके प्रादुर्भावो भवति, धारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति, श्रावकयानस्य लोके प्रादुर्भावो भवति, प्रत्येकबुद्धस्य लोके प्रादुर्भावो भवति, महायानस्य लोके प्रादुर्भावो भवति.
शतसाहस्र्यां प्रज्ञापारमितायां शक्रपरिवर्तो नामस् त्रयोविंशतितमः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
