Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुनर् अपरं शारद्वतीपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते दक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पश्चिमायां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उत्तरस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उत्तरपूर्वस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा (श्स्प्_इइ-4_62) देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे,
ये ऽपि ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयम् प्रज्ञापारमितानुगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे.
[क्. 186अ19, न्. 364अ8, त्. 292ब्5, प्. 222अ1, छ्. 584अ23] अथ खलु मारस्य पापीयस् एतद् अभूद्, इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः पर्षदः संमुखीभूता इमे च कामावचरा रूपावचराश् च देवाः संमुखीभूता निःसंशयम् अत्र बोधिसत्त्वा महासत्त्वा व्याकरिष्यन्ते, अनुत्तरायां सम्यक्संबोधौ य न्व् अहं येन भगवांस् तेनोपसंक्रमेयं विचक्षुष् करणीय.
अथ मार पापीयांश् चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामो ऽभूत्.
अथ शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्, मारो बतायं पापीयां चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामः, यश् चायं मारपापीयाञ् चतुरङ्गबलकायस्य व्यूहो नायं राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहो न राज्ञः प्रसेनजितो न साक्यानां न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपव्यूहः यो ऽयं चतुरङ्गो वरकायो मारेण पापियसा निर्मितः दीर्घरात्रं खलु पुनर् मारपापीयान् भगवतो ऽवतारसंप्रेक्ष्यावतारगवेषी सम्यक्प्रयुक्तानां च सत्त्वानां विहेठनाभिप्रायः, य न्व् अहम् इमां (श्स्प्_इइ-4_63) प्रज्ञापारमितां समन्वाहरेयं स्मृत्या च स्वाध्यायं कुर्यात्.
अथ शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां समन्वाहरति स्म, स्मृत्या च स्वाध्यायं करोति स्म, यथा यथा शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां स्वाध्यायं करोति स्म, तथा तथा मारपापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावर्तते स्म.
अथ तत्र पर्षदि चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाणि वासांसि चाभिनिर्माय वैहायस्य् अन्तरिक्षे स्थित्वैव येन भगवांस् तेनाक्षिपन्ति स्म, येन भगवांस् तेनाभिप्रकिरन्ति स्म. एवं च वाचम् अभाषन्त, चिरं बतेयं जाम्बूद्वीपकानां मनुष्याणां प्रज्ञापारमिता भगवतां यावत् किलेयं जाम्बूद्वीपकान् मनुष्यान् प्रज्ञापारमितानुवर्तिष्यन्ते तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकतां भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिकाङ्क्षितव्य.
[क्. 186ब्9, न्. 265अ1, त्. 293अ2, प्. 223अ2, छ्. 584च्1] अथ भगवाञ् छक्रं देवानाम् इन्द्रकांश् चाकनिष्ठपर्यतो देवपुत्रान् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, एवम् एतद् देवपुत्रा एवम् एतत्, यावद् इमां प्रज्ञापारमितां जाम्बूद्वीपका मनुष्या अनुवर्तिष्यन्ते, तावत् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकता भविष्यति संघरत्नस्य च लोके प्रज्ञायते यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ यावत् समन्तो दशसु दिक्षु लोकधातुषु तथागतस्यार्हन्तः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सर्वधर्मस्य च चिरस्थितिकता भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिभाति.
अथ ते देवपुत्रा पुनर् अपि दिव्यानि कुसुमानि अभिनिर्माय येन भगवांस् तेनाभिप्रकिरन्ति स्म, एवञ् च वाचम् अभाषन्त, यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति (श्स्प्_इइ-4_64) धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशस् मनसिकरिश्यति. न तस्य मारो वा मारकायिका वा देवता अवतारप्रक्षिणो ऽवतारं लप्स्यन्ते, वयम् अपि भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः. तत् कस्य हेतोः? शास्तारम् एव भगवंस् तम् अस्य महाशास्तारम् अन्यतरं वा यः कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति.
अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रो वा कुलदुहितरो वा अवरकेन कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, सर्वजिनमनसिकारास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बहुबुद्धपर्युपासिताश् च ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च ते भगवन् कुलपुत्रा वा कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. तत् कस्य हेतोः? अतो हि भगवन् सर्वाकारज्ञता गवेषितव्या यद् उत प्रज्ञापारमितायाः, अतश् च पुनर् भगवन् प्रज्ञापारमिता गवेषितव्या, यद् उत सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि भगवन् नान्या प्रज्ञापारमितान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता नान्याद्वयम् एतद् अद्वैधीकारम्.
भगवान् आह: एवम् एतत् कौशिकैवम् एतत् प्रज्ञापारमितानिर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता, सर्वाकारज्ञातानिर्याता च प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक नान्या प्रज्ञापारमितान्या सर्वाकारज्ञता नान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता चाद्वयम् एतद् अद्वैधीकारम्.
शतसाहस्र्यां प्रज्ञापारमितायां विंशतितमः परिवर्तः
[क्. 187अ3, न्. 365ब्8, त्. 293ब्6, प्. 224ब्2, छ्, 585अ15] अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: न तथा भगवान् दानपारमिताया नामधेयं परिकीर्तयति, न तथा शीलपारमिताया नामधेयं परिकीर्तयति, न तथा क्षान्तिपारमिताया नामधेयं परिकीर्तयति, न तथा वीर्यपारमिताया नामधेयं परिकीर्तयति, न तथा ध्यानपारमिताया नामधेयं परिकीर्तयति, न तथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
न तथा भगवान् अध्यात्मशून्यताया नामधेयं परिकीर्तयति, न तथा बहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथाध्यात्मबहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथा शून्यताशून्यताया नामधेयं परिकीर्तयति, न तथा महाशून्यताया नामधेयं परिकीर्तयति, न तथा परमार्थशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथात्यन्तशून्यताया नामधेयं परिकीर्तयति, न तथानवराग्रशून्यताया नामधेयं परिकीर्तयति, न तथानवकारशून्यताया नामधेयं परिकीर्तयति, न तथा प्रकृतिशून्यताया नामधेयं परिकीर्तयति, न तथा सर्वधर्मशून्यताया नामधेयं परिकीर्तयति, न तथा स्वलक्षणशून्यताया नामधेयं परिकीर्तयति, न तथानुपलम्भशून्यताया नामधेयं परिकीर्तयति, न तथाभावशून्यताया नामधेयं परिकीर्तयति, न तथा स्वभावशून्यताया नामधेयं परिकीर्तयति, न तथाभावस्वभावशून्यताया नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
न तथा स्मृत्युपस्थानानां नामधेयं परिकीर्तयति, न तथा सम्यक्प्रहाणानां नामधेयं परिकीर्तयति, न तथा ऋद्धिपादानां नामधेयं परिकीर्तयति, न तथेन्द्रियाणां नामधेयं परिकीर्तयति, न तथा बलानां नामधेयं परिकीर्तयति, न तथा बोध्यङ्गानां नामधेयं परिकीर्तयति, न तथार्याष्टाङ्गस्य मार्गस्य नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथार्यसत्यानां नामधेयं परिकीर्तयति, न तथा ध्यानानां नामधेयं परिकीर्तयति, न तथारूप्यसमापत्तीनां नामधेयं प्ररिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथाष्टानां विमोक्षमुखानां नामधेयं परिकीर्तयति, न तथा नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां (श्स्प्_इइ-4_66) नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामद्ःएयं परिकीर्तयति. न तथा समाधीनां नामधेयनि परिकीर्तयति, न तथा धारणीमुखानां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा दशानां तथागतबलानां नामधेयं परिकीर्तयति, न तथ चतुर्णां वैशारद्यानां नामधेयं परिकीर्तयति, न तथा चतसृणां प्रतिसंविदां नामधेयं परिकीर्तयति, न तथा महामैत्र्या नामधेयं परिकीर्तयति, न तथा महाकरुणाया नामधेयं परिकीर्तयति, न तथाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति.
भगवान् आह: प्रज्ञापारमिता आनन्दः पूर्वाङ्गमा परिणायिका यद् उत पञ्चानां पारमितानां सर्वशून्यतानां सप्तत्रिंशानां बोधिपक्षाणां धर्माणां, आर्यसत्यानां चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अष्टाणां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिज्ञानां समाधीनां धारणीमुखानां दशतथागतबलानां चतुर्णां वैशारद्यानां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम्. तत् किं मन्यसे? आनन्दापरिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति.
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं क्षान्तिं सर्वाकारज्ञतायां क्षान्तिपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति?
आह: नो हीदं भगवन्.
भगवान् आह: तत् किम् अपरिणामितं प्रज्ञां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
आह: नो हीदं भगवन्. अपि तु खलु पुनः कथं भगवन् दानपारमितां सर्वाकारज्ञतायां दानपारमिता भवति? कथं भगवन् शीलपारमितां सर्वाकारज्ञतायां शीलपारमिता भवति? कथं भगवन् क्षान्तिपारमितां सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथं भगवन् वीर्यपारमितां सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथं भगवन् ध्यानपारमितां सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथं भगवन् प्रज्ञापारमितां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति?
भगवान् आह: अद्वययोगेनानन्द परिणामितं सर्वाकारज्ञतायां दानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं सर्वाकारज्ञतायां दानपारमिता भवति, अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति, अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति, अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति, अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवति.
आह: कथं भगवन्न् अद्वययोगेन परिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां (श्स्प्_इइ-4_68) प्रज्ञापारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन?
भगवान् आह: रूपस्याद्वययोगेन, वेदनाया अद्वययोगेन, संज्ञाया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन.
चक्षुष अद्वययोगेन, श्रोत्रस्याद्वययोगेन, घ्राणस्याद्वययोगेन, जिह्वाया अद्वययोगेन, कायस्याद्वययोगेन, मनसो ऽद्वययोगेन.
रूपस्याद्वययोगेन, शब्दस्याद्वययोगेन, गन्धस्याद्वययोगेन, रसस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, धर्माणाम् अद्वययोगेन.
चक्षुर्विज्ञानस्याद्वययोगेन, श्रोत्रविज्ञानस्याद्वययोगेन, घ्राणविज्ञानस्याद्वययोगेन, जिह्वाविज्ञानस्याद्वययोगेन, कायविज्ञानस्याद्वययोगेन, मनोविज्ञानस्याद्वययोगेन.
चक्षुःसंस्पर्शस्याद्वययोगेन, श्रोत्रसंस्पर्शस्याद्वययोगेन, घ्राणसंस्पर्शस्याद्वययोगेन, जिह्वासंस्पर्शस्याद्वययोगेन, कायसंस्पर्शस्याद्वययोगेन, मनःसंस्पर्शस्याद्वययोगेन.
चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन.
पृथिवीधातोर् अद्वययोगेन, अब्धातोर् अद्वययोगेन, तेजोधातोर् अद्वययोगेन, वायुधातोर् अद्वययोगेन, आकाशधातोर् अद्वययोगेन, विज्ञानधातोर् अद्वययोगेन.
अविद्याया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन, नामरूपस्याद्वययोगेन, षडायतनस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, वेदनाया अद्वययोगेन, तृष्णाया अद्वययोगेन, उपादानस्याद्वययोगेन, भवस्याद्वययोगेन, जातेर् अद्वययोगेन, जरामरणस्याद्वययोगेन.
दानपारमिताया अद्वययोगेन, शीलपारमिताया अद्वययोगेन, क्षान्तिपारमिताया अद्वययोगेन, वीर्यपारमिताया अद्वययोगेन, ध्यानपारमिताया अद्वययोगेन, प्रज्ञापारमिताया अद्वययोगेन.
अध्यात्मशून्यताया अद्वययोगेन, बहिर्धाशून्यताया अद्वययोगेन, अध्यात्मबहिर्धाशून्यता अद्वययोगेन, शून्यताशून्यताया अद्वययोगेन, महाशून्यताया अद्वययोगेन, परमार्थशून्यताया अद्वययोगेन, संस्कृतशून्यताया अद्वययोगेन, असंस्कृतशून्यताया अद्वययोगेन, अत्यन्तशून्यताया अद्वययोगेन, अनवराग्रशून्यताया अद्वययोगेन, (श्स्प्_इइ-4_69) अनवकारशून्यताया अद्वययोगेन, प्रकृतिशून्यताया अद्वययोगेन, सर्वधर्मशून्यताया अद्वययोगेन, स्वलक्षणशून्यताया अद्वययोगेन, अनुपलम्भशून्यताया अद्वययोगेन, अभावशून्यताया अद्वययोगेन, स्वभावशून्यताया अद्वययोगेन, अभावस्वभावशून्यताया अद्वययोगेन.
स्मृत्युपस्थानानाम् अद्वययोगेन, सम्यक्प्रहाणानाम् अद्वययोगेन, ऋद्धिपादानाम् अद्वययोगेन, इन्द्रियाणाम् अद्वययोगेन, बलानाम् अद्वययोगेन, बोध्यङ्गानाम् अद्वययोगेन, आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, आर्यसत्यानाम् अद्वययोगेन, ध्यानानाम् अद्वययोगेन, अप्रमाणानाम् अद्वययोगेन, आरूप्यसमापत्तीनाम् अद्वययोगेन, विमोक्षाणाम् अद्वययोगेन, अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, अभिज्ञानाम् अद्वययोगेन, समाधीनाम् अद्वययोगेन, धारणीमुखानाम् अद्वययोगेन, दशानां तथागतबलानाम् अद्वययोगेन, चतुर्णां वैशारद्यानाम् अद्वययोगेन, चतसृणां प्रतिसंविदाम् अद्वययोगेन, महामैत्र्या अद्वययोगेन, महाकरुणाया अद्वययोगेन, अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, स्रोतआपत्तिफलस्याद्वययोगेन, सकृदागामिफलस्याद्वययोगेन, अनागामिफलस्याद्वययोगेन, अर्हत्त्वस्याद्वययोगेन, प्रत्येकबोधेर् अद्वययोगेन, अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन.
[क्. 188अ12, न्. 368ब्4, त्. 295ब्6, प्. 229ब्1, छ्. 617अ8] आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं संज्ञाया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन?
कथं चक्षुषो ऽद्वययोगेन, कथं श्रोत्रस्याद्वययोगेन, कथं घ्राणस्याद्वययोगेन, कथं जिह्वाया अद्वययोगेन, कथं कायस्याद्वययोगेन, कथं मनसो ऽद्वययोगेन?
कथं रूपस्याद्वययोगेन, कथं शब्दस्याद्वययोगेन, कथं गन्धस्याद्वययोगेन, कथं रसस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं धर्माणाम् अद्वययोगेन?
कथं चक्षुर्विज्ञानस्याद्वययोगेन, कथं श्रोत्रविज्ञानस्याद्वययोगेन, कथं घ्राणविज्ञानस्याद्वययोगेन, कथं जिह्वाविज्ञानस्याद्वययोगेन, कथं कायविज्ञानस्याद्वययोगेन, कथं मनोविज्ञानस्याद्वययोगेन?
कथं चक्षुःसंस्पर्शस्याद्वययोगेन, कथं श्रोत्रसंस्पर्शस्याद्वययोगेन, (श्स्प्_इइ-4_70) कथं घ्राणसंस्पर्शस्याद्वययोगेन, कथं जिह्वासंस्पर्शस्याद्वययोगेन, कथं कायसंस्पर्शस्याद्वययोगेन, कथं मनःसंस्पर्शस्याद्वययोगेन?
कथं चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन?
कथं पृथिवीधातोर् अद्वययोगेन, कथम् अब्धातोर् अद्वययोगेन, कथं तेजोधातोर् अद्वययोगेन, कथं वायुधातोर् अद्वययोगेन, कथम् आकाशधातोर् अद्वययोगेन, कथं विज्ञानधातोर् अद्वययोगेन?
कथम् अविद्याया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं नामरूपस्याद्वययोगेन, कथं षडायतनस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं तृष्णाया अद्वययोगेन, कथम् उपादानस्याद्वययोगेन, कथं भवस्याद्वययोगेन, कथं जातेर् अद्वययोगेन, कथं जरामरणस्याद्वययोगेन?
कथं दानपारमिताया अद्वययोगेन, कथं शीलपारमिताया अद्वययोगेन, कथं क्षान्तिपारमिताया अद्वययोगेन, कथं वीर्यपारमिताया अद्वययोगेन, कथं ध्यानपारमिताया अद्वययोगेन, कथं प्रज्ञापारमिताया अद्वययोगेन?
कथम् अध्यात्मशून्यताया अद्वययोगेन, कथं बहिर्धाशून्यताया अद्वययोगेन, कथम् अध्यात्मबहिर्धाशून्यताया अद्वययोगेन, कथं शून्यताशून्यताया अद्वययोगेन, कथं महाशून्यताया अद्वययोगेन, कथं परमार्थशून्यताया अद्वययोगेन, कथं संस्कृतशून्यताया अद्वययोगेन, कथम् असंस्कृतशून्यताया अद्वययोगेन, कथम् अत्यन्तशून्यताया अद्वययोगेन, कथम् अनवराग्रशून्यताया अद्वययोगेन, कथम् अनवकारशून्यताया अद्वययोगेन, कथं प्रकृतिशून्यताया अद्वययोगेन, कथं सर्वधर्मशून्यताया अद्वययोगेन, कथं स्वलक्षणशून्यताया अद्वययोगेन, कथम् अनुपलम्भशून्यताया अद्वययोगेन, कथम् अभावशून्यताया अद्वययोगेन, कथं स्वभावशून्यताया अद्वययोगेन, कथम् अभावस्वभावशून्यताया अद्वययोगेन?
कथं स्मृत्युपस्थानानाम् अद्वययोगेन, कथं सम्यक्प्रहाणानाम् अद्वययोगेन, कथम् ऋद्धिपादानाम् अद्वययोगेन, कथम् इन्द्रियाणाम् (श्स्प्_इइ-4_71) अद्वययोगेन, कथं बलानाम् अद्वययोगेन, कथं बोध्यङ्गानाम् अद्वययोगेन, कथम् आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, कथम् आर्यसत्यानाम् अद्वययोगेन, कथं ध्यानानाम् अद्वययोगेन, कथम् अप्रमाणानाम् अद्वययोगेन, कथम् आरूप्यसमापत्तीनाम् अद्वययोगेन, कथम् अष्टानां विमोक्षाम् अद्वययोगेन, कथम् अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, कथं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, कथम् अभिज्ञानाम् अद्वययोगेन, कथं समाधीनाम् अद्वययोगेन, कथं धारणीमुखानाम् अद्वययोगेन, कथं दशानां तथागतबलानाम् अद्वययोगेन, कथं चतुर्णां वैशारद्यानाम् अद्वययोगेन, कथं चतसृणां प्रतिसंविदाम् अद्वययोगेन, कथं महामैत्र्या अद्वययोगेन, कथं महाकरुणाया अद्वययोगेन, कथम् अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, कथं स्रोतआपत्तिफलस्याद्वययोगेन, कथं सकृदागामिफलस्याद्वययोगेन, कथम् अनागामिफलस्याद्वययोगेन, कथम् अर्हत्त्वस्याद्वययोगेन, कथं प्रत्येकबोधेर् अद्वययोगेन, कथं मार्गाकारज्ञताया अद्वययोगेन, कथं सर्वाकारज्ञताया अद्वययोगेन, कथम् अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन?
तथा हि रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? तथा हि संज्ञा च पारमिता चाद्वयम् एतद् अद्वैध्ल्कारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्कारा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुश् चक्षुषा शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रं श्रोत्रेण शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणं घ्राणेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वा जिह्वया शून्या. तत् कस्य हेतोः? तथा हि जिह्वा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायः कायेण शून्यः. तत् कस्य हेतोः? तथा हि कायं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनो मनसा शून्यम्. तत् कस्य हेतोः? तथा हि शून्यं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शब्दः शब्देन शून्यः तत् कस्य हेतोह्? तथा हि शब्दश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, गन्धः गन्धेन शून्यः. तत् कस्य हेतोः? तथा हि गन्धश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, रसो रसेन शून्यः. तत् कस्य हेतोः? तथा हि रसश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मा धर्मैः शून्याः. तत् कस्य हेतोः? तथा हि धर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायविज्ञानं कायविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि कायविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनोविज्ञानं मनोविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि मनोविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शः कायसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि कायसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया (श्स्प्_इइ-4_73) शून्या. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
पृथिवीधातुः पृथिवीधातुना शून्यः. तत् कस्य हेतोः? तथा हि पृथिवीधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अब्धातुर् अब्धातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् अब्धातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तेजोधातुः तेजोधातुना शून्यः. तत् कस्य हेतोः? तथा हि तेजोधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वायुधातुर् वायुधातुना शून्यः. तत् कस्य हेतोः? तथा हि वायुधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आकाशधातुर् आकाशधातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् आकाशधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानधातुर् विज्ञानधातुना शून्यः. तत् कस्य हेतोः? तथा हि विज्ञानधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अविद्या अविद्यया शून्या. तत् कस्य हेतोः? तथा ह्य् अविद्या च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्काराश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, नामरूपं नामरूपेण शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, षडायतनं षडायतनेन शून्यम्. तत् कस्य हेतोः? तथा हि षडायतनं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तृष्णा तृष्णया शून्या. तत् कस्य हेतोः? तथा हि तृष्णा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, उपादानम् (श्स्प्_इइ-4_74) उपादानेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् उपादानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, भवो भवेन शून्यः. तत् कस्य हेतोह्? तथा हि भवश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं. जातिर् जत्या शून्या. तत् कस्य हेतोः? तथा हि जातिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जरामरणं जरामरणेन शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
अध्यात्मशून्यता अध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? तथा हि शून्यताशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि महाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, परमार्थशून्यता परमार्तशून्यतया शून्या. तत् कस्य हेतोः? तथा हि परमार्थशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् संस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, असंस्कृतशून्यता असंस्कृअशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अत्यन्तशून्यता अत्यन्तशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवराग्रशून्यता अनवराग्रशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवकारशून्यता अनवकारशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता च पारमिता चाद्वयम् एतद्
अद्वैधीकारं, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या. तत् कस्य हेतोह्? तथा ह्य् अनुपलम्भशून्यता च पारमिता चाद्वयम् एतद्. अद्वैधीकारम्, अभावशून्यता (श्स्प्_इइ-4_75) अभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वभावशून्यता स्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि च पारमिता चाद्ययम् एतद् अद्वैधीकारं, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ऋद्धिपादा ऋद्धिपादैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? तथा हीन्द्रियानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बलानि बलैः शून्यानि. तत् कस्य हेतोः? तथा हि बलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गो मार्गेन शून्यः. तत् कस्य हेतोः? तथा हि मार्गश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? तथा हि ध्यानानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् अप्रमाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? तथा हि विमोक्षाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं,
शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षसमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अभिज्ञाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? तथा हि समाधयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धारणीमुखानि धारणीमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि (श्स्प्_इइ-4_76) धारणीमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, दशतथागतबलानि दशतथागतबलैः शून्यानि. तत् कस्य हेतोः? तथा हि दशतथागतबलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? तथा हि वैशारद्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोह्? तथा हि प्रतिसंविदश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? तथा हि महाकरुणा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यम्. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सकृदागामिफलं सकृदागामिफैएन शून्यम्. तत् कस्य हेतोः? तथा हि सकृदागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनागामिफलम् अनागामिफलेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अनागामिफलं च
पारमिता चाद्वयम् एतद् अद्वैधीकारं, अर्हत्त्वम् अर्हत्त्वेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अर्हत्त्वं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या. तत् कस्य हेतोः? तथा ह्य् प्रत्येकबोधिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अनुत्तरा सम्यक्संबोधिः सम्यक्संबोध्या शून्या. तत् कस्य हेतोह्? तथा हि बोधिसत्त्वाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्.
[क्. 190अ6, न्. 373अ2, त्. 298ब्8, प्. 237ब्2, छ्. 687ब्2] तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैव पूर्वङ्गमा आसां पञ्चानां पारमितानां प्रज्ञापारमितैव पूर्वङ्गमा सर्वशून्यतानां प्रज्ञापारमितैव पूर्वङ्गमा सप्तत्रिंशतां बोधिपक्ष्याणां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् आर्यसत्यानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णां ध्यानानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् अप्रमाणानां प्रज्ञापारमितैव पूर्वङ्गमा चतसृणाम् आरूप्यसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गम अष्टानां विमोक्षाणां प्रज्ञापारमितैव पूर्वङ्गमा नवानाम् अनुपूर्वविहारसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गमा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रज्ञापारमितैव पूर्वङ्गमा अभिज्ञानां प्रज्ञापारमितैव पूर्वङ्गमा समाधीनां प्रज्ञापारमितैव पूर्वङ्गमा सर्वधारणीमुखानां (श्स्प्_इइ-4_77) प्रज्ञापारमितैव पूर्वङ्गमा, दशानां तथागतबलानां प्रज्ञापारमितैव पूर्वङ्गमा, चतुर्णां वैशारद्यानां प्रज्ञापारमितैव पूर्वङ्गमा, चतसृणां प्रतिसंविदां प्रज्ञापारमितैव पूर्वङ्गमा, महामैत्र्याः प्रज्ञापारमितैव पूर्वङ्गमा, महाकरुणायाः प्रज्ञापारमितैव पूर्वङ्गमा, अष्टादशानाम् आवेणिकबुद्धधर्माणां प्रज्ञापारमितैव पूर्यङ्गमा, सर्वज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, मार्गाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, सर्वाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा.
तद् यथापि नामानन्द महापृथिव्यां बीजानि प्रकीर्णानि सामाग्री लभमानानि विरोहन्ति महापृथिव्यां च तेषां प्रतिष्ठानं महापृथिवी प्रतिष्ठितानि तानि बीजानि प्ररोहन्ति. एवम् एव प्रज्ञापारमिता प्रतिष्ठा इमा पञ्चपारमिता विरोहन्ति.
अध्यात्मशून्यता विरोहति, बहिर्धाशून्यता विरोहति, अध्यात्मबहिर्धाशून्यता विरोहति, शून्यताशून्यता विरोहति, महाशून्यता विरोहति, परमार्थशून्यता विरोहति, संस्कृतशून्यता विरोहति, असंस्कृतशून्यता विरोहति, अत्यन्तशून्यता विरोहति, अनवराग्रशून्यता विरोहति, अनवकारशून्यता विरोहति, प्रकृतिशून्यता विरोहति, सर्वधर्मशून्यता विरोहति, स्वलक्षणशून्यता विरोहति, अनुपलम्भशून्यता विरोहति, अभावशून्यता विरोहति, स्वभावशून्यता विरोहति, अभावस्वभावशून्यता विरोहति.
स्मृत्युपस्थानानि विरोहन्ति, सम्यक्प्रहाणानि विरोहन्ति, ऋद्धिपादा विरोहन्ति, इन्द्रियाणि विरोहन्ति, बलानि विरोहन्ति, बोध्यङ्गानि विरोहन्ति, आर्याष्टाङ्गो मार्गो विरोहति, आर्यसत्यानि विरोहन्ति, ध्यानानि विरोहन्ति, अप्रमाणानि विरोहन्ति, आरूप्यसमापत्तयो विरोहन्ति, अष्टौ विमोक्षा विरोहन्ति, नवानुपूर्वविहारसमापत्तयो विरोहन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, अभिज्ञा विरोहन्ति, समाधयो विरोहन्ति, धारणीमुखानि विरोहन्ति, दशतथागतबलानि विरोहन्ति, चत्वारि वैशारद्यानि विरोहन्ति, चतस्रः प्रतिसंविदो विरोहन्ति, महामैत्रि विरोहति, महाकरुणा विरोहति, अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वज्ञता विरोहन्ति, मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञता विरोहन्ति.
सर्वाकारज्ञताप्रतिष्ठिताः पुनर् आनन्द पञ्चपारमिता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वशून्यता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि स्मृत्युपस्थानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि सम्यक्प्रहाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चत्वार ऋद्धिपादा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि पञ्चेन्द्रियाणि विरोहन्ति, (श्स्प्_इइ-4_78) सर्वाकारज्ञताप्रतिष्ठितानि पञ्चबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सप्तबोध्यङ्गानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठित आर्याष्टाङ्गो मार्गो विरोहति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् आर्यसत्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि ध्यानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् अप्रमाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्र आरूप्यसमापत्तयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वसमाधयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सर्वधारणीमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि दशतथागतबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि वैशारद्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्रः प्रतिसंविदो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता महामैत्री विरोहति, सर्वाकरज्ञतप्रतिष्ठिता महाकरुणा विरोहति, सर्वाकारज्ञतप्रतिष्ठिता अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वाकारज्ञता विरोहन्ति.
तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैवासां पञ्चानां पारमितानां परिणायिका, सर्वशून्यतानां परिणायिका, चतुर्णां स्मृत्युपस्थानानां परिणायिका, चतुर्णां सम्यक्प्रहाणानां परिणायिका, चतुर्णाम् ऋद्धिपादानां परिणायिका, पञ्चानाम् इन्द्रियाणां परिणायिका, पञ्चानां बलानां परिणायिका, सप्तानां बोध्यङ्गानां परिणायिका, आर्याष्टाङ्गस्य मार्गस्य परिणायिका, चतुर्णाम् आर्यसत्यानां परिणायिका, चतुर्णां ध्यानानां परिणायिका, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां परिणायिका, अष्टानां विमोक्षाणां परिणायिका, नवानुपूर्वविहारसमापत्तीनां परिणायिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिणायिका, अभिज्ञानां परिणायिका, समाधीनां परिणायिका, धारणीमुखानां परिणायिका, दशानां तथागतबलानां परिणायिका, चतुर्णां वैशारद्यानां परिणायिका, चतसृणां प्रतिसंविदानां परिणायिका, महामैत्र्याः परिणायिका, महाकरुणायाः परिणायिका, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां परिणायिका, सर्वज्ञतायाः परिणायिका, मार्गाकारज्ञतायाः परिणायिका, सर्वाकारज्ञतायाः परिणायिका.
[क्. 190ब्11, न्. 374ब्2, त्. 299ब्11, प्. 240अ1, छ्. 690अ24] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न मे भगवन् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वे (श्स्प्_इइ-4_79) गुणाः परिकीर्तिता ये मया भगवतो ऽन्तिकाद् उद्गृहीता धारिता वाचितायान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृहीष्यतीमां प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् ये मया भगवतो ऽन्तिकाद् अस्याः प्रज्ञापारमिताया गुणा उद्गृहीताः पर्यवाप्ता धारिता वाचिताः प्रवर्तिताः प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति.
पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति.
दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.
अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया तोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.
चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियाणां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके (श्स्प्_इइ-4_80) प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदानां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति.
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति,
चातुर्महाराजकायिका देवा लोके प्रज्ञायन्ते, त्रायस्त्रिंशा देवा लोके प्रज्ञायन्ते, यामा देवा लोके प्रज्ञायन्ते, तुषिता देवा लोके प्रज्ञायन्ते, निर्माणरतयो देवा लोके प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवा लोके प्रज्ञायन्ते, ब्रह्मकायिका देवा लोके प्रज्ञायन्ते, ब्रह्मपुरोहिता देवा लोके प्रज्ञायन्ते, ब्रह्मपार्षद्या देवा लोके प्रज्ञायन्ते, महाब्रह्मणो देवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते. परीत्ताभा देवा लोके प्रज्ञायन्ते, अप्रमाणाभादेवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते, शुभा देवा लोके प्रज्ञायन्ते, परीत्तशुभा देवा लोके प्रज्ञायन्ते, अप्रमाणशुभा देवा लोके प्रज्ञायन्ते, शुभकृत्स्ना देवा लोके प्रज्ञायन्ते, बृहा देवा लोके प्रज्ञायन्ते, परीत्तबृहा देवा लोके प्रज्ञायन्ते, अप्रमाणबृहा देवा लोके प्रज्ञायन्ते, बृहत्फला देवा लोके प्रज्ञायन्ते, अबृहा देवा लोके प्रज्ञायन्ते, अतपा देवा लोके प्रज्ञायन्ते, सुदृशा देवा लोके प्रज्ञायन्ते, सुदर्शना देवा लोके प्रज्ञायन्ते, अकनिष्ठा देवा लोके प्रज्ञायन्ते.
प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया स्रोतआपन्ना लोके प्रज्ञायन्ते, सकृदागामिनो लोके प्रज्ञायन्ते, अनागामिनो लोके प्रज्ञायन्ते, अर्हन्तो लोके प्रज्ञायन्ते, प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वा लोके प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया तथागतानाम् अर्हतां लोके प्रादुर्भावो भवति.
[क्. 191अ14, न्. 375ब्8, त्. 300ब्8, प्. 241ब्4, छ्. 691ब्7] भगवान् आह: न पुनः कौशिक येन कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमिता उद्ग्रहीता भविष्यति धारिता भविष्यति वाचिता भविष्यति पर्यवाप्ता भविष्यति योनिशश् च मनसिकृता भविष्यति तस्येमाम् एव गुणान् वदामि. तत् कस्य हेतोः?
अप्रमाणेन ते कौशिक शीलस्कन्धेन समन्वागता, कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीता भविष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन समाधिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन प्रज्ञास्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन विमुक्तिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति,
अप्रमाणेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति.
तथागतप्रतिपन्नास् ते कौशिक कुलपुत्राः कुलदुहितरश् च वेदितव्या य इमां प्रज्ञापारमिताम् उद्गृहिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति.
यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः प्रज्ञास्कन्धो विमुक्तस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो यश् च तेषां कुलपुत्राणां वा कुलदुहितॄणां वा शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः. अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य (श्स्प्_इइ-4_82) पुरतः स सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कालां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीतमीम् अपि कलां नोपैति, कोटीशततमीम् अपि कलां नोपैति, कोटीसहस्रतमीम् अपि कलां नोपैति, कोटीशतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, गणनाम् अपि कलां नोपैति, उपमाम् अपि कलां नोपैति, उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितॄणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं न च कश्चिद् धर्म आज्ञातः ये पुनः कौशिक कुलपुत्रो वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति तां च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति. पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यस् तेषाम् अप्य् अहं कुलपुत्रणां कुलदुहितॄणां ततश् चेतद् एवेमां दृष्टधार्मिकान् सा परायिकांश् च गुणां वदामि.
शक्र आह: अहम् अपि भगवन् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञताचित्तेन इमां च प्रज्ञापारमितां लिखित्वा सत्करिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
भगवान् आह: तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां स्वध्यायमानस्य, बहूनि देवपुत्रसहस्राणि मनसिधर्मश्रवणायोपसंक्रमिष्यन्ति. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा प्रज्ञापारमिता प्रतिसंयुक्तं धर्मं देशयतस् ते देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यते, यद् अपि ते धर्मभानकानम् अत्रापि तु कामा भवन्ति, तत् तेनैव धर्मगौरवेन देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकगुणं परिग्रहीष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यत्य् एनां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् (श्स्प्_इइ-4_83) ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां भाष्यमानस्य चतसृणां पर्षदां पुरतो ऽनाचलयता भविष्यति, कश्चित् माम् अनुयोक्ष्यति चोपलप्स्यते च. तत् कस्य हेतोः? तथा हि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इयं प्रज्ञापारमिता रक्षावरणगुप्तिं संविधास्यति. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिका लोकोत्तरश् च सास्रवाश् चानास्रवाश् च साधारणाश् च कुशलाश् चाकुसलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च. तत् कस्य हेतोः? तथा ह्य् एषा सर्वं कुशलधर्माणां निधिः, स च कुलपुत्रो वा कुलदुहिता वा,
अध्यात्मशून्यतायां स्थितो बहिर्धाशून्यतायां स्थितो ऽध्यात्मबहिर्धाशून्यतायां स्थितः, शून्यताशून्यतायां स्थितो महाशून्यतायां स्थितः, परमार्थशून्यतायां स्थितः, संस्कृतशून्यतायां स्थितो ऽसंस्कृतशून्यतायां स्थितो ऽत्यन्तशून्यतायां स्थितो ऽनवराग्रशून्यतायां स्थितो ऽनवकारशून्यतायां स्थितः, प्रकृतिशून्यतायां स्थितः, सर्वधर्मशून्यतायां स्थितः, स्वलक्षणशून्यतायां स्थितो ऽनुपलम्भशून्यतायां स्थितो ऽभावशून्यतायां स्थितः, स्वभावशून्यतायां स्थितोऽभावस्वभावशून्यतायां स्थितः. स औपलभिके स्थितः प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते, तम् अपि प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते तम् अपि प्रज्ञापारमितायां न समनुपश्यति. एवं खलु तं कुलपुत्रं वा कुलदुहितरं वा प्रज्ञापारमितयोद्गृहीतया न कश्चिद् उपालप्स्यते.
पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नाचलेष्यते नोत्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति, यो ऽवलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्येद् वा, इमां कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहीष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
[क्. 192अ4, न्. 377ब्5, त्. 3ओ2अ3, प्. 244अ4, छ्. 692ब्26] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, ताञ् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति, पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. स प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितानां राज्ञां राजमहामात्राणां श्रवणब्राह्मणानां ये ऽपि ते दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च तेषाम् अपि स प्रियो भविष्यति, मनापश् च सदेवस्य लोकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः प्रियो भविष्यति, मनापश् च अनाच्छेद्य प्रतिभानश् च भविष्यति.
अनच्छेद्या दानपारमिता भविष्यति, अनाच्छेद्या शीलपारमिता भविष्यति, अनाच्छेद्या क्षान्तिपारमिता भविष्यति, अनाच्छेद्या वीर्यपारमिता भविष्यति, अनाच्छेद्या ध्यानपारमिता भविष्यति, अनाच्छेद्या प्रज्ञापारमिता भविष्यति.
अनाच्छेद्याध्यात्मशून्यताभावना भविष्यति, अनाच्छेद्या बहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्याध्यात्मबहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्या शून्यताशून्यता भावनाभविष्यति, अनाच्छेद्या महाशून्यता भावना भविष्यति, अनाच्छेद्या परमार्थशून्यताभावना भविष्यति, अनाच्छेद्या संस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यासंस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यात्यन्तशून्यताभावना भविष्यति, अनाच्छेद्यानवराग्रशून्यताभावना भविष्यति, अनाच्छेद्यानवकारशून्यताभावना भविष्यति, अनाच्छेद्या प्रकृतिशून्यताभावना भविष्यति, अनाच्छेद्या सर्वधर्मशून्यताभावना भविष्यति, अनाच्छेद्या स्वलक्षणशून्यताभावना भविष्यति, अनाच्छेद्यानुपलम्भशून्यताभावना भविष्यति, अनाच्छेद्याभावशून्यता भावनाभविष्यति, अनाच्छेद्या स्वभावशून्यताभावना भविष्यति, अनाच्छेद्याभावस्वभावशून्यताभावना भविष्यति.
अनाच्छेद्या चास्य चतुःस्मृत्युपस्थानभावना भविष्यति, आनाच्छेद्या चतुःसम्यक्प्रहाणभावना भविष्यति, अनाच्छेद्या चतू ऋद्धिपादभावना भविष्यति, अनाच्छेद्या पञ्चेन्द्रियभावना भविष्यति, अनाच्छेद्या पञ्चबलभावना भविष्यति, अनाच्छेद्या सप्तबोध्यङ्गभावना भविष्यति, अनाच्छेद्या आर्याष्ताङ्गमार्गभावना भविष्यति, अनाच्छेद्या चतुरार्यसत्यभावना (श्स्प्_इइ-4_85) भविष्यति, अनाच्छेद्या चतुर्ध्यानभावना भविष्यति, अनाच्छेद्या चतुरप्रमाणभावना भविष्यति, अनाच्छेद्या चतुरारूप्यसमापत्तिभावना भविष्यति, अनाच्छेद्या अष्टविमोक्षभावना भविष्यति, अनाच्छेद्या नवानुपूर्वविहारसमापत्तिभावना भविष्यति, अनाच्छेद्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावना भविष्यति, अनाच्छेद्या अभिज्ञाभावना भविष्यति, अनाच्छेद्या समाधिभावना भविष्यति, अनाच्छेद्या धारणीमुखभावना भविष्यति, अनाच्छेद्या दशतथागतबलभावना भविष्यति, अनाच्छेद्या चतुर्वैशारद्यभावना भविष्यति, अनाच्छेद्या चतुःप्रतिसंविद्भावना भविष्यति, अनाच्छेद्या महामैत्रीभावना भविष्यति, अनाच्छेद्या महाकरुणाभावना भविष्यति, अनाच्छेद्या अष्टादशावेणिकबुद्धधर्म भावना भविष्यति.
अनाच्छेद्या चास्य सत्त्वपरिपाको भविष्यत्य् अनाच्छेद्या बुद्धक्षेत्रपरिशुद्धिर् भविष्यत्य् अनाच्छेद्या चास्य सर्वाकारज्ञता भविष्यति प्रतिबलश् च भविष्यति पुरतः उत्पन्नोत्पन्नानां प्रत्यनुयोगानां सहधर्मेण निःशरणे इमान् अपि स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहिष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् मनसिकरिष्यत्य् अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन तांश् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.
पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा धारयिष्यति, तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या महाब्रह्माण आभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुब्बाः शुभकृत्स्नाः, बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, ते तत्रागत्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते, ये ऽपि ते शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, ते ऽपि तत्रागम्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.
तत्र कौशिक ये दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माण अभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला देवा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिताः, ये ऽपि शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते तत्रागम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते.
तत्र कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं, ये ऽपि ते दशसु दिक्षु लोकधतुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माण देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, येऽपि ते सुद्धावासकायिका देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगा इहागता इमां प्रज्ञापारमितां वाचयितुम् उद्गृहीतुं पर्यवाप्तुं वन्दितुं पूजयितुं तेभ्य इदं धर्मदानं दत्तं भवतु त इमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य पूजयित्वा वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमन्ति तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः सुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि दशसु दिक्षु लोकधातुषु
चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा (श्स्प्_इइ-4_87) यामा देवास् तुषिता देवा निर्माणरतयो देवा परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना डेवा अकनिष्ठा देवास् ते धर्मवरेण गुप्तिं संविधास्यन्ति. नास्य कौशिकावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति, ये ऽपि देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ते तत्रागन्तव्या मंस्यन्ते, अस्याः प्रज्ञापारमितायाः पूजाकर्मणे तस्य च कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तये. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः सर्वसत्त्वानां त्राणार्थाय सर्वसत्त्वानां हितसुखार्थाय प्रत्युपस्थिताः.
शक्र आह: कथम् भगवन् कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते, इह चातुर्महाराजकायिका देवा आगच्छन्ति, इह त्रायस्त्रिंशा देवा आगच्छन्ति, इह यामा देवा आगच्छन्ति, इह तुषिता देवा आगच्छन्ति, इह निर्माणरतयो देवा आगच्छन्ति, इह परनिर्मितवशवर्तिनो देवा आगच्छन्ति, इह ब्रह्मकायिका देवा आगच्छन्ति, इह ब्रह्मपुरोहिता देवा आगच्छन्ति, इह ब्रह्मपार्षद्या देवा आगच्छन्ति, इह महाब्रह्मणो देवा आगच्छन्ति, इह आभा देवा आगच्छन्ति, इह परीत्ताभा देवा आगच्छन्ति, इह अप्रमाणाभा देवा आगच्छन्ति, इह आभास्वरा देवा आगच्छन्ती, इह शुभा देवा आगच्छन्ति, इह परीत्तशुभा देवा आगच्छन्ति, इह अप्रमाणशुभा देवा आगच्छन्ति, इह शुभकृत्स्ना देवा आगच्छन्ति, इह बृहा देवा आगच्छन्ति, इह परीत्तबृहा देवा आगच्छन्ति, इह अप्रमाणबृहा देवा आगच्छन्ति, इह बृहत्फला देवा आगच्छन्ति, इह अबृहा देवा आगच्छन्ति, इह अतपा देवा आगच्छन्ति, इह सुदृशा देवा आगच्छन्ति, इह सुदर्शना देवा आगच्छन्ति, इह अकनिष्ठा देवा आगच्छन्ति. समन्ताद् दश दिग् लोकधातुभ्य इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
भगवान् आह: सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं संज्ञास्यते यत्रेयं प्रज्ञापारमिता स्थापिता भविष्यति निष्ठा (श्स्प्_इइ-4_88) तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या महेशाख्यमाहेशाख्या महर्द्धिका महानुभावा महौजस्का इह देवता आगता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्.
[क्. 193अ9, न्. 380अ4, त्. 303ब्13, प्. 248अ2, छ्. 694अ22] पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा चौक्षसमाचारो भवति तस्य तया चौक्षसमाचारतया देवता आगम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यति, याश् च तत्र प्रदेशो अल्पशाख्यदेवता अध्युषिता भविष्यन्ति तास् तत्रोपसंक्रमितव्यं मंस्यते. तासां महेशाख्यानां देवातानां तेजश् च श्रियं च गौरवं चासहमाना, यथा यथा महेशाख्यमहेशाख्या महर्द्धिका महानुभावा देवता उपसंक्रमितव्या मंस्यते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा उदाराधिमुक्तिको भविष्यति. तस्य च स्थानस्य समन्ताद् अचौक्षसमुदाचारता न प्रचारयितव्या, तेन कुलपुत्रेण वा कुलदुहित्रा वा अस्याः प्रज्ञापारमितायाः पूजाकर्मणे गन्धोदकावसिक्तः स पृथिवीप्रदेशः कर्तव्यः पुष्पगन्धावकीर्णगन्धघटिकानिधूपितः, अवसक्तपट्टदामाचैलवितानविततो नेत्रप्रचारं च तत् स पृथिवीप्रदेशो ऽलंकर्तव्यः.
न पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा कायक्लमथो भविष्यति कायसुखतां च कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते. कायलघुतां च कायकथनीयतं च चित्तसुखतां च स कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते चित्तलघुतां च चित्तकम् अथनीयतां च ततः स रात्रौ शय्यां कल्पयन्तीमाम् एव प्रज्ञापारमिताम् अशयेणाधिमुञ्चन् न पापकान् स्वप्नान् द्रक्षति स पश्यंस् तथागतम् एवार्हन्तन् सम्यक्संबुद्धं द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणैः समन्वगतम् अशीत्यनुव्यञ्जनैः समलंकृतसुवर्णवर्णेन कायेन भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयतं तस्य च तथागतस्यान्तिकाद् धर्मं श्रोष्यति, यद् उत दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम्.
अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां शून्यताशून्यतां महाशून्यतां परमार्थशून्यतां संस्कृतशून्यताम् असंस्कृतशून्यताम् अत्यन्तशून्यताम् अनवराग्रशून्यताम् अनवकारशून्यतां प्रकृतिशून्यतां सर्वधर्मशून्यतां स्वलक्षणशून्यताम् (श्स्प्_इइ-4_89) अनुपलम्भशून्यताम् अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यताम्.
स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्ग आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तयो अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिका बुद्धधर्माश् च.
तस्याश् च दानपारमिताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च शीलपारमिताया अर्थं विभज्यमानं श्रोस्यति, तस्याश् च वीर्यपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च क्षान्तिपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च ध्यानपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च प्रज्ञापारमिताया अर्थं विभज्यमानं श्रोष्यति.
तस्याश् चाध्यात्मशून्यताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च बहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, तस्यास् चाध्यात्मबहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, एवं हि शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया असंस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावशून्यतायाः स्वभावशून्यताया अभावस्वभावशून्यताया अर्थं विभज्यमानं श्रोष्यति.
तेषां च चतुर्णां स्मृत्युपस्थानानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णां सम्यक्प्रहाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णाम् ऋद्धिपादानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानाम् इन्द्रियानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च पञ्चानां बलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च सप्तानां बोध्यङ्गानाम् अर्थं विभज्यमानं श्रोष्यति, तस्य चार्याष्टाङ्गस्य मार्गस्यार्थं विभज्यमानं श्रोस्यति, तेषाञ् चार्यसत्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां ध्यानानाम् अर्थं विभज्यमानं श्रोःयति, तेषाञ् च चतुर्णाम् अप्रमाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणाम् आरूप्यसमापत्तीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् चाष्टानां विमोक्षाणाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च नवाम् अनुपूर्वविहारसमापत्तीनाम् अर्थं विभज्यमानं श्रोह्यति, तेषाञ् च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अर्थं (श्स्प्_इइ-4_90) विभज्यमानं श्रोष्यति, तासां चाभिज्ञानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च समाधीनाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च धारणीमुखानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च तथागतबलानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतुर्णां वैशारद्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेषाञ् च चतसृणां प्रतिसंविदानाम् अर्थं विभज्यमानं श्रोष्यति, तस्याश् च महाकरुणायाम् अर्थं विभज्यमानं श्रोष्यति, तस्याञ् चाष्टादशानाम् आवेणिकबुद्धधर्माणाम् अर्थं विभज्यमानं श्रोष्यति,
बोधिवृक्षं द्रक्षति बोधिसत्त्वं महासत्त्वं बोधिवृक्षमूलम् उपसंक्रामं तं द्रक्ष्यति, अनुत्तरायां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति तथाभिसंबुध्य धर्मचक्रं प्रवर्तयं तं द्रक्ष्यति, बहूनि च बोधिसत्त्वशतसहस्राणि द्रक्ष्यति धर्मसङ्गायन्ति. एवं सर्वाकारज्ञता परिगृहीतव्या. एवञ् च सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिगृहीतव्यं, एवं मारस् स परिषद्कां निर्जतव्या बहुनाञ् च बुद्धकोटीनियुतशतसहस्रणां,
पूर्वस्यां दिशि शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्वकोटीनियुतशतसहस्रैः इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
दक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिः बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
पश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति.
उत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
