Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 23/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तद् अनेन ते कौशिक पर्यायेणैवं वेदितव्यं, अल्पकास् ते जाम्बूद्वीपका सत्त्वा ये बुद्धे अभेद्यप्रसादेन समन्वागता धर्मे अभेद्य्प्रसादेन समन्वागता संघे अभेद्यप्रसादेन समन्वागताः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनः, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनः, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तिनां लाभिनः, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरका ये रागद्वेसमोहतनुत्वात् सकृदागामिनः ततो ऽल्पतरका ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरका ये अनुत्तरां सम्यक्संबोधये संप्रस्थिताः, ततो ऽल्पतरका ये बोधये अथ्यासयेन चरन्ति निष्ठतु कौशिक मनुष्याः. तत् किं मन्यसे? कौशिक कियन्तो जाम्बूद्वीपे प्राणिनाये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनो ये त्रयाणां विमोक्षमुखानां लाभिनो ये ऽष्टानां विमोक्षमुखानां लाभिनो ये नवानाम् (श्स्प्_इइ-4_33) अनुपूर्वविहारसमापत्तीर् लाभिनो ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः.

कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना ये रागद्वेषमोहतनुत्वात् सकृदागामिनो ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः कियन्त्स् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ निष्काङ्क्षा बुद्धे धर्मे संघे निष्काङ्क्षाः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये मातृज्ञाः ये पितृज्ञाः श्रामण्याः कुले ज्येष्टोपचायका दानानि ददति शीलं रक्षन्ति क्षान्तिपोषधम् उपवशन्ति, काष्टादीन च संज्ञिनो विहरन्ति, एवम् अनित्यसंज्ञिनः, अनात्मसंज्ञिनो ऽशुचिसंज्ञिनः सर्वलोकेष्व् अनभिरति संज्ञनः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.

[क्. 179अ5, न्. 346अ1, त्. 280अ7, प्. 190ब्3, छ्. 573ब्12] शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः, ये चतसृणां प्रतिसंविदां लाभिनः, ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणा स्रोतआपन्ना, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिता अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.

भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, तथा यथा वदसि, अल्पकास् ते कौशिक जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनो ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः, ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अतो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ (श्स्प्_इइ-4_34) चरन्ति, अतो ऽल्पतरका ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा,

इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधतुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठन्ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानद्ल्वालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापरमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? (श्स्प्_इइ-4_35) दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हिनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

इहाहं कौशिकानावरणेन बुद्धचक्षुषा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरन्ति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठते यद् भूयस्त्वेन (श्स्प्_इइ-4_36) श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनसत्त्वैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः.

तस्मात् तर्हि कौशिक ये ते कुलपुत्राः कुलदुहितरश् चानुत्तरायै सम्यक्संबोधये संप्रस्थितास् तैः क्षिप्रं सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकमैर् इयं प्रज्ञापारमिताभीक्षणं स्रोतव्योद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्याः, योनिशश् च मनसिकर्तव्याः. तैर् इयं प्रज्ञापारमितोद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य योनिशश् च मनसिकृत्वा, सर्वबुद्धा धर्मा मनसिकर्तव्याः.

तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.

अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.

चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः चत्वार्य् आर्यसत्यानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः नवानुपूर्वविहारसमापत्तयः त्रीणि विमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः महामैत्रि महाकरुणा अष्टादशावेणिका बुद्धधर्माः.

अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा यत्र प्रज्ञापारमितायाम् अन्तर्गता ते प्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं ज्ञास्यन्ति, अत्र हि तथागतः पूर्वं बोधिसत्त्वचारिकां शिक्षितो यद् उत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम्.

अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावशून्यतायां (श्स्प्_इइ-4_37) स्वभावशून्यतायाम् अभावस्वभावशून्यतायाम्.

चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेष्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे चतुर्ष्व् आर्यसत्येषु चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु त्रिषु विमोक्षमुखेषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, अन्येषु वा परिमाणेषु बुद्धधर्मेषु

अस्माभिर् अप्य् अनुशिक्षितव्यम् एषास्माकं शास्ता यद् उत प्रज्ञापारमिता, यावद् अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा एतद् बुद्धानां भगवतां शासनं प्रत्येकबुद्धानाम् अर्हताम् अनागामिनां सकृदागामिनां स्रोतआपन्नानां यद् उत प्रज्ञापारमिता अत्र प्रज्ञापारमितायां शिक्षमाणा ध्यानपारमितायां शिक्षमाणा वीर्यपारमितायां शिक्षमाणा क्षान्तिपारमितायां शिक्षमाणा शीलपारमितायां शिक्षमाणा दानपारमितायां शिक्षमाणा.

अध्यात्मशून्यतायां शिक्षमाणा, बहिर्धाशून्यतायां शिक्षमाणा, अध्यात्मबहिर्धाशून्यतायां शिक्षमाणा, शून्यताशून्यतायां शिक्षमाणा, महाशून्यतायां शिक्षमाणा, परमार्थशून्यतायां शिक्षमाणा, संस्कृतशून्यतायां शिक्षमाणा, असंस्कृतशून्यतायां शिक्षमाणा, अत्यन्तशून्यतायां शिक्षमाणा, अनवराग्रशून्यतायां शिक्षमाणा, अनवकारशून्यतायां शिक्षमाणा, प्रकृतिशून्यतायां शिक्षमाणा, सर्वधर्मशून्यतायां शिक्षमाणा, स्वलक्षणशून्यतायां शिक्षमाणा, अनुपलम्भशून्यतायां शिक्षमाणा, अभावशून्यतायां शिक्षमाणा, स्वभावशून्यतायां शिक्षमाणा, अभावस्वभावशून्यतायां शिक्षमाणा.

स्मृत्युपस्थानेषु शिक्षमाणाः, सम्यक्प्रहाणेषु शिक्षमाणाः, ऋद्धिपादेषु शिक्षमाणाः, इन्द्रियेषु शिक्षमाणाः, बलेषु शिक्षमाणाः, बोध्यङ्गेषु शिक्षमाणाः, आर्याष्टाङ्गे मार्गे शिक्षमाणाः, आर्यसत्येषु शिक्षमाणाः, ध्यानेषु शिक्षमाणाः, अप्रमाणेषु शिक्षमाणाः, आरूप्यसमापत्तिषु शिक्षमाणाः, विमोक्षेषु शिक्षमाणाः, अनुपूर्वविहारसमापत्तिषु शिक्षमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षमाणाः, अभिज्ञासु शिक्षमाणाः, समाधिषु शिक्षमाणाः, धारणीमुखेषु शिक्षमाणाः, तथागतबलेषु शिक्षमाणाः, वैशारद्येषु शिक्षमाणाः, प्रतिसंवित्सु शिक्षमाणाः, महामैत्र्यां शिक्षमाणाः, महाकरुणायां शिक्षमाणाः, आवेणिकबुद्धधर्मेषु शिक्षमाणाः, सर्वज्ञतायां शिक्षमाणाः, मार्गाकारज्ञतायां (श्स्प्_इइ-4_38) शिक्षमाणाः, सर्वाकारज्ञतायां शिक्षमाणाः, बुद्धा भगवन्तः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः पारङ्गता गच्छन्ति गमिष्यन्ति च.

[क्. 180अ13, न्. 349ब्5, त्. 282अ10, प्. 195ब्6, छ्. 575अ9] तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तिष्ठति तथागतपरिनिर्वृते वा तथागते, प्रज्ञापारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक ध्यानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वीर्यपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक वीर्यपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, क्षान्तिपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक क्षान्तिपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरयाः प्रजायाः प्रतिशरणं, शीलपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शीलपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, दानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक दानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.

अध्यात्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक बहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं. अध्यात्मबहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाध्यात्मबहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, शून्यताशून्यतैव तैः (श्स्प्_इइ-4_39) प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शून्यताशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, परमार्थशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक परमार्थशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, संस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक संस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः

प्रजायाः प्रतिशरणं, असंस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकासंस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अत्यन्तशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अत्यन्तशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवराग्रशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवराग्रशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवकारशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवकारशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रकृतिशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रकृतिशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वधर्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक सर्वधर्मशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, स्वलक्षणशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वलक्षणशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत्

सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपलम्भशून्यतैव (श्स्प्_इइ-4_40) तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकानुपलम्भशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्, स्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धाणां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावस्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावस्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्.

स्मृत्युपस्थानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक स्मृत्युपस्थानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सम्यक्प्रहाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक सम्यक्प्रहाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ऋद्धिपादा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक ऋद्धिपादाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, इन्द्रियाण्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकेन्द्रियाणि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बोध्यङ्गान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बोध्यङ्गानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्याष्टाङ्गमार्ग एव तैः प्रतिसत्कर्तव्यः. तत् कस्य हेतोः? एष एव कौशिकार्याष्टाङ्गमार्गः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं (श्स्प्_इइ-4_41) यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं,

आर्यसत्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकार्यसत्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरनं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक ध्यानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अप्रमाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकाप्रमाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आरूप्यसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आरूप्यसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, विमोक्षा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक विमोक्षाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपूर्वविहारसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकानुपूर्वविहारसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाल्ः प्रजायाः प्रतिशरणं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं

यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभिज्ञा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकाभिज्ञा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, समाधय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक समाधयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, धारणीमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक धारणीमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, तथागतबलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक (श्स्प्_इइ-4_42) तथागतबलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वैशारद्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक वैशारद्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रतिसंविद एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिक प्रतिसंविदः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाकरुणा एव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाकरुणा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत्

सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आवेणिकबुद्धधर्मा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आवेणिकबुद्धधर्माः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, मार्गाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक मार्गाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्.

[क्. 181अ21, न्. 352अ4, त्. 284अ11, प्. 200अ7, छ्. 576अ6] यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते पूजायै सप्तरत्नमयं स्तूपं कारयेद् योजनमुच्चैत्वेनार्धयोजनं विस्तरेणायां यावज् जीवं दिव्यैश् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैर् वाद्यैः सत्कुर्या गुरुकुर्याद् मानयेत् पूजयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (श्स्प्_इइ-4_43) पुण्यं प्रसवति य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यत्य् उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,

तिष्ठन्तु कौशिकैकः स्तूपः सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तथागतपरिनिर्वृते, इमं जाम्बूद्वीपं सप्तरत्नमयैस् स्तूपैः परिपूरये योजनोच्छ्रितैर् अर्धयोजनविस्तातैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः,

तिष्ठन्तु कौशिकायं जाम्बूद्वीपस् तथागतस्तूपपरिपूर्णः, सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां चातुर्महाद्वीपकं लोकधातुं तथागते परिनिर्वृते पूजयैः सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, लिखित्वा नु सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् (श्स्प्_इइ-4_44) गन्धैर् विलेपनैश् चुर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.

तिष्ठन्तु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं चूडिकं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैस् स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.

तिष्ठन्तु कौशिक साहस्रचूडिको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं मध्यमं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावत् क्षीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.

तिष्ठन्तु कौशिक द्विसाहस्रो मध्यमो लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते (श्स्प्_इइ-4_45) पूजायै इमं त्रिसाहस्रं महासाहस्रं लोकधातुं तथागते परिनिर्वृते पूजायैर् सप्तरत्नमयैस् तथागतचैत्यैः परिपूजयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्.

[क्. 182अ5, न्. 353ब्4, त्. 285अ11, प्. 203अ2, छ्. 577अ27] शक्र आह: बहु भगवन् बहु सुगत.

भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः.

तिष्ठन्तु कौशिक त्रिसाहस्रो महासाहस्रो लोकधातुस् तथागतस्तूपपरिपूर्णो ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेत् तां च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्.

शक्र आह: एवम् एतद् भगवन् एवम् एतत् सुगत प्रज्ञापारमिता भगवन् सत्कुर्वद्भिः गुरुकुर्वद्भिर् मानयद्भिः पूजयद्भिर् अतीतानगतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धाः सत्कृतो गुरुकृतो मानितो पूजितो भवन्ति,

यावन्तः पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् (श्स्प्_इइ-4_46) दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्चैस्त्वे नार्धयोजनं विस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः,

यावन्त उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? भगवन् अपि नु स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेयुः.

भगवान् आह: बहु कौशिक.

शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् (श्स्प्_इइ-4_48) कस्य हेतोः? अत्र हि भगवन् प्रज्ञापारमितायाम् अन्तर्गताः सर्वे कुशला धर्मास् तद् यथा दश कुशलः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः.

दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता.

अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता.

स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिता चत्वार्य् आर्यसत्यानि दुःखं दुःखसमुदयं दुःखनिरोधा मार्गः षड् अभिज्ञा अष्टा विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्माः सर्वज्ञता मार्गाकारज्ञता सर्वाकारज्ञता इदं तद् बुद्धानां भगवतां शासनं यत्र सर्वश्राव्कप्रत्येकबुद्धानाम् अतितानागतप्रत्युत्पन्नानां बुद्धा भगवन्तः शिक्षित्वा सर्वधर्माणां पारङ्गता गच्छति गमिष्यति च.

शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो नामाष्टादशमः

[क्. 182ब्18, न्. 355ब्6, त्. 286ब्9, प्. 207अ3, छ्. 578अ4] अथ भगवाञ् छक्रं देवानां इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यत्य् अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यति य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वज्ञता प्रज्ञापारमितानिर्याता ध्यानपारमिता प्रज्ञापारमितानिर्याता वीर्यपारमिता प्रज्ञापारमितानिर्याता क्षान्तिपारमिता प्रज्ञापारमितानिर्याता शीलपारमिता प्रज्ञापारमितानिर्याता दानपारमिता प्रज्ञापारमितानिर्याता.

अध्यात्मशून्यता प्रज्ञापारमितानिर्याता, बहिर्धाशून्यता प्रज्ञापारमितानिर्याता, अध्यात्मबहिर्धाशून्यता प्रज्ञापारमितानिर्याता, शून्यताशून्यता प्रज्ञापारमितानिर्याता, महाशून्यता प्रज्ञापारमितानिर्याता, परमार्थशून्यता प्रज्ञापारमितानिर्याता, संस्कृतशून्यता प्रज्ञापारमितानिर्याता, असंस्कृतशून्यता प्रज्ञापारमितानिर्याता, अत्यन्तशून्यता प्रज्ञापारमितानिर्याता, अनवराग्रशून्यता प्रज्ञापारमितानिर्याता, अनवकारशून्यता प्रज्ञापारमितानिर्याता, प्रकृतिशून्यता प्रज्ञापारमितानिर्याता, सर्वधर्मशून्यता प्रज्ञापारमितानिर्याता, स्वलक्षणशून्यता प्रज्ञापारमितानिर्याता, अनुपलम्भशून्यता प्रज्ञापारमितानिर्याता, अभावशून्यता प्रज्ञापारमितानिर्याता, स्वभावशून्यता प्रज्ञापारमितानिर्याता, अभावस्वभावशून्यता प्रज्ञापारमितानिर्याता.

स्मृत्युपस्थानानि प्रज्ञापारमितानिर्यातानि, सम्यक्प्रहाणानि प्रज्ञापारमितानिर्यातानि, ऋद्धिपादाः प्रज्ञापारमितानिर्याताः, इन्द्रियाणि प्रज्ञापारमितानिर्यातानि, बलानि प्रज्ञापारमितानिर्यातानि, बोध्यङ्गानि प्रज्ञापारमितानिर्यातानि, आर्याष्टाङ्गो मार्गः प्रज्ञापारमितानिर्यातः, आर्यसत्यानि प्रज्ञापारमितानिर्यातानि, ध्यानानि प्रज्ञापारमितानिर्यातानि, अप्रमाणानि प्रज्ञापारमितानिर्यातानि, आरूप्यसमापत्तयः प्रज्ञापारमितानिर्याताः, अष्टौ विमोक्षः प्रज्ञापारमितानिर्यातः, नवानुपूर्वविहारसमापत्तयः प्रज्ञापारमितानिर्याताः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमितानिर्यातानि, अभिज्ञाः प्रज्ञापारमितानिर्याताः, समाधयः प्रज्ञापारमितानिर्याताः, (श्स्प्_इइ-4_50) धारणीमुखानि प्रज्ञापारमितानिर्यातानि, दशतथागतबलानि प्रज्ञापारमितानिर्यातानि, चत्वारि वैशारद्यानि प्रज्ञापारमितानिर्यातानि, प्रतिसंविदः प्रज्ञापारमितानिर्याताः, महामैत्री प्रज्ञापारमितानिर्याता, महाकरुणा प्रज्ञापारमितानिर्याता, आवेणिकबुद्धधर्माः प्रज्ञापारमितानिर्याताः, पञ्च चक्षूंषि तथागतस्य प्रज्ञापारमितानिर्यतः, सत्त्वपरिपाको बुद्धक्षेत्रपरिशुद्धिः प्रज्ञापारमितानिर्याता, हि कौशिक सर्वज्ञता प्रज्ञापारमितानिर्याता, मार्गाकारज्ञता प्रज्ञापारमितानिर्याता, सर्वाकारज्ञता प्रज्ञापारमितानिर्याता, हि कौशिक श्रावकयानं प्रज्ञापारमितानिर्यातं, हि कौशिक प्रत्येकबुद्धयानं प्रज्ञापारमितानिर्यातं, हि कौशिक महायानं प्रज्ञापारमितानिर्यातम्, हि कौशिकानुत्तरा सम्यक्संबोधिः.

तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रा वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यति धारयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अस्य कौशिक पुण्याभिसंस्कारस्यासौ पूर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीसहस्रतमीम् अपि कोटीसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशम् अपि न क्षमते. तत् कस्य हेतोः? यावत् किलेयं कौशिक प्रज्ञापारमिता जांबूद्वीपे स्थास्यति. तावन् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्यान्तर्धानं भविष्यति न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भविष्यति चतुर्णां ध्यानानां लोके प्रादुर्भावो भविष्यति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भविष्यति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, पञ्चानाम् अभिज्ञानां प्रादुर्भावो भविष्यति.

दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.

अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया (श्स्प्_इइ-4_51) लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताय लोके प्रादुर्भावो भविष्यति.

स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, सर्वज्ञताया लोके प्रादुर्भावो भविष्यति, मार्गाकारज्ञताया लोके प्रादुर्भावो भविष्यति, सर्वाकारज्ञताया लोके प्रादुर्भावो भविष्यति, यावन् महाशालकुलानां लोके प्रादुर्भावो भविष्यति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भविष्यति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भविष्यति.

चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भविष्यति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भविष्यति, यामानां देवानां लोके प्रादुर्भावो भविष्यति, तुषितानां देवानां लोके प्रादुर्भावो भविष्यति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भविष्यति, परनिर्मितवसवर्तीनां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मकायिकानां (श्स्प्_इइ-4_52) देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भविष्यति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भविष्यति, आभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणाभाणां देवानां लोके प्रादुर्भावो भविष्यति, आभास्वराणां देवानां लोके प्रादुर्भावो भविष्यति, शुभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भविष्यति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भविष्यति, बृहाणां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तबृहाणाउन् देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, बृहत्फलानां देवानां लोके प्रादुर्भावो भविष्यति, अबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, अतपानां देवानां लोके प्रादुर्भावो भविष्यति, सुदृशानां देवानां लोके प्रादुर्भावो भविष्यति, सुदर्शनानां देवानां लोके प्रादुर्भावो भविष्यति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भविष्यति.

स्रोतआपन्नानां लोके प्रादुर्भावो भविष्यति, सकृदागामीनां लोके प्रादुर्भावो भविष्यति, अनागामिनां लोके प्रादुर्भावो भविष्यति, अर्हतां लोके प्रादुर्भावो भविष्यति, प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति. बोधिसत्त्वानां च महासत्त्वानां समुदागः प्रज्ञास्यते, अनुत्तरं बुद्धज्ञानं प्रज्ञास्यते, धर्मचक्रप्रवर्तनं प्रज्ञास्यते, सत्त्वपरिपाकं प्रज्ञास्यते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञास्यते.

[क्. 183ब्18, न्. 358अ2, त्. 288अ11, प्. 210ब्3, छ्. 579ब्13] अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवसवर्तिना ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणो आभाः परीत्तभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् तं शक्रं देवानाम् इन्द्रम् आमन्त्रयते : उद्गृहीतव्या मार्ष प्रज्ञापारमिता धारयितव्या मार्ष प्रज्ञापारमिता वाचयितव्या मार्ष प्रज्ञापारमिता पर्यवाप्तव्या मार्ष प्रज्ञापारमिता, योनिशश् च मनसिकर्तव्या मार्ष प्रज्ञापारमिता, एतया मार्ष प्रज्ञापारमितयोद्गृहीतया धारयितया वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या (श्स्प्_इइ-4_53) वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या अव्यवच्छेदो भविष्यति, धर्मनेत्र्या अव्यवच्छेदो भविष्यति, संघनेत्र्या अव्यवच्छेदो भविष्यति बुद्धनेत्र्या मार्ष अव्यवच्छेदो ऽनुधर्मनेत्र्या अव्यवच्छेदो ऽनुसंघनेत्र्या अव्यवच्छेदः.

दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति.

अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति.

स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, अभिज्ञानां लोके प्रादुर्भावो भविस्वति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो (श्स्प्_इइ-4_54) भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भविष्यति,

स्रोतआपत्तिफलस्य लोके प्रादुर्भावो भविष्यति, सकृदागामिफलस्य लोके प्रादुर्भावो भविष्यति, अनागामिफलस्य लोके प्रादुर्भावो भविष्यति, अर्हत्त्वस्य लोके प्रादुर्भावो भविष्यति, प्रत्येकबोधेर् लोके प्रादुर्भावो भविष्यति, अनुत्तरायाः सम्यक्संबोधेर् लोके प्रादुर्भावो भविष्यति.

[क्. 184अ14, न्. 359अ2, त्. 289अ2, प्. 212ब्2, छ्. 580अ24] अथ भगवाञ् छक्रं देवानाम् इन्द्रम् आमन्त्रयते: उद्गृहाण त्वं कौशिकेमां प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि योनिशश् च मनसिकुरुष्वेमां प्रज्ञापारमिताम्. तत् कस्य हेतोः? यदा कौशिकासुराणाम् एवं समुदाचारा भविष्यति, देवांस् त्रायस्त्रिंशान् योधयिष्यामो देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्यामस् तदा त्वं कौशिकेमां प्रज्ञापारमितां समन्वाहृत्य मनसा स्वध्याय कुर्याः योनिशश् च मनसिकुर्या एवं तेषाम् असुराणां ते समुदाचाराः.

पुनर् एवान्तर्द्धास्यति न पुनस् ते चित्तोत्पादा विवर्धिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां च्युतिकालः स्यां ते चात्मनः पापोपपत्तिं पश्येयुस् तेषां त्वं कौशिक पुरतः इमां प्रज्ञापारमितां स्वाध्यायं कुर्यास् ते तेन प्रज्ञापारमिता श्रवणकुशलमूलेन प्रज्ञापारनुता प्रसादेन च तत्रैव देवभवनेषूपपत्स्यते. तत् कस्य हेतोः? एवं महार्थिका हि कौशिक प्रज्ञापारमिता श्रवणं यस्य कस्यचित् कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया वा इयं प्रज्ञापारमिता श्रोतावभासं गमिष्यन्ति सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः स श्रावकसंघास् ते ऽपीहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, सर्वे ते इहैव प्रज्ञापारमितायाम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. तत् कस्य हेतोः? तथा हि कौशिकात्र प्रज्ञापारमितायां सर्वे बोधिपक्षा धर्मा अन्तर्गताः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा.

शक्र आह: महाविद्येयं भगवन् यद् उत प्रज्ञापारमिता अनुत्तरेयं भगवन् विद्या यद् उत प्रज्ञापारमिता असमसमेयं भगवन् विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि भगवन् (श्स्प्_इइ-4_55) प्रज्ञापारमिता सर्वेषां कुशलानां धर्माणां धारयित्री.

भगवान् आह: एवम् एतत् कौशिकैवम् एतत् महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं विद्या यद् उत प्रज्ञापारमिता, असमसमेयं विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् त एतां विद्याम् आगम्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दश दिग् लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ति यापयन्ति, ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा. तत् कस्य हेतोः? तथा हि कौशिकेमां विद्याम् आगम्य दशकुशला कर्मपथाः लोके प्रज्ञायन्ते, चत्वारि ध्यानानि लोके प्रज्ञायन्ते, चत्वार्य् अप्रमाणानि लोके प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः लोके प्रज्ञायन्ते, पञ्चाभिज्ञा लोके प्रज्ञायन्ते.

दानपारमिता लोके प्रज्ञायते, शीलपारमिता लोके प्रज्ञायते, क्षान्तिपारमिता लोके प्रज्ञायते, वीर्यपारमिता लोके प्रज्ञायते, ध्यानपारमिता लोके प्रज्ञायते, प्रज्ञापारमिता लोके प्रज्ञायते.

अध्यात्मशून्यता लोके प्रज्ञायते, बहिर्धाशून्यता लोके प्रज्ञायते, अध्यात्मबहिर्धाशून्यता लोके प्रज्ञायते, शून्यताशून्यता लोके प्रज्ञायते, महाशून्यता लोके प्रज्ञायते, परमार्थशून्यता लोके प्रज्ञायते, संस्कृतशून्यता लोके प्रज्ञायते, असंस्कृतशून्यता लोके प्रज्ञायते, अत्यन्तशून्यता लोके प्रज्ञायते, अनवराग्रशून्यता लोके प्रज्ञायते, अनवकारशून्यता लोके प्रज्ञायते, प्रकृतिशून्यता लोके प्रज्ञायते, सर्वधर्मशून्यता लोके प्रज्ञायते, स्वलक्षणशून्यता लोके प्रज्ञायते, अनुपलम्भशून्यता लोके प्रज्ञायते, अभावशून्यता लोके प्रज्ञायते, स्वभावशून्यता लोके प्रज्ञायते, अभावस्वभावशून्यता लोके प्रज्ञायते.

स्मृत्युपस्थानानि लोके प्रज्ञायन्ते, सम्यक्प्रहाणानि लोके प्रज्ञायन्ते, ऋद्धिपादा लोके प्रज्ञायन्ते, इन्द्रियाणि लोके प्रज्ञायन्ते, बलानि लोके प्रज्ञायन्ते, बोध्यङ्गानि लोके प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गो लोके प्रज्ञायन्ते, आर्यसत्यानि लोके प्रज्ञायन्ते, ध्यानानि लोके प्रज्ञायन्ते, अप्रमाणानि लोके प्रज्ञायन्ते, आरूप्यसमापत्तयो लोके प्रज्ञायन्ते, विमोक्षा लोके प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाणि लोके प्रज्ञायन्ते, अभिज्ञा लोके प्रज्ञायन्ते, समाधयो लोके प्रज्ञायन्ते, धारणीमुखानि लोके प्रज्ञायन्ते, तथागतबलानि (श्स्प्_इइ-4_56) लोके प्रज्ञायन्ते, वैशारद्यानि लोके प्रज्ञायन्ते, प्रतिसंविदो लोके प्रज्ञायन्ते, महाकरुणा लोके प्रज्ञायते, आवेणिकबुद्धधर्मा लोके प्रज्ञायन्ते. धर्मधातुर् लोके प्रज्ञायते, भूतकोटिर् लोके प्रज्ञायते, तथता लोके प्रज्ञायते, अवितथता लोके प्रज्ञायते, अनन्यतथता लोके प्रज्ञायते, धर्मता लोके प्रज्ञायते, धर्मस्थितिता लोके प्रज्ञायते, धर्मनियामता लोके प्रज्ञायते, पञ्च चक्षूंसि लोके प्रज्ञायन्ते, स्रोतआपत्तिफलं लोके प्रज्ञायते, सकृदागामिफलं लोके प्रज्ञायते, अनागामिफलं लोके प्रज्ञायते, अर्हत्त्वं लोके प्रज्ञायते, प्रत्येकबोधिर् लोके प्रज्ञायते, सर्वज्ञता लोके प्रज्ञायते, मार्गाकारज्ञता लोके प्रज्ञायते, सर्वाकारज्ञता लोके प्रज्ञायते, बोधिसत्त्वम् अपि कौशिकागम्य दश कुशलाः कर्मपथाः प्रभाष्यन्ते. चत्वारि ध्यानानि प्रभाव्यन्ते, चतस्र अरूप्यसमापत्तयः प्रभाव्यन्ते, पञ्चाभिज्ञा प्रभाव्यन्ते,

दानपारमिता लोके प्रभाव्यते, शीलपारमिता लोके प्रभाव्यते, क्षान्तिपारमिता लोके प्रभाव्यते, वीर्यपारमिता लोके प्रभाव्यते, ध्यानपारमिता लोके प्रभाव्यते, प्रज्ञापारमिता लोके प्रभाव्यते.

अध्यात्मशून्यता लोके प्रभाव्यते, बहिर्धाशून्यता लोके प्रभाव्यते, अध्यात्मबहिर्धाशून्यता लोके प्रभाव्यते, शून्यताशून्यता लोके प्रभाव्यते, महाशून्यता लोके प्रभाव्यते, परमार्थशून्यता लोके प्रभाव्यते, संस्कृतशून्यता लोके प्रभाव्यते, असंस्कृतशून्यता लोके प्रभाव्यते, अत्यन्तशून्यता लोके प्रभाव्यते, अनवराग्रशून्यता लोके प्रभाव्यते, अनवकारशून्यता लोके प्रभाव्यते, प्रकृतिशून्यता लोके प्रभाव्यते, सर्वधर्मशून्यता लोके प्रभाव्यते, स्वलक्षणशून्यता लोके प्रभाव्यते, अनुपलम्भशून्यता लोके प्रभाव्यते, अभावशून्यता लोके प्रभाव्यते, स्वभावशून्यता लोके प्रभाव्यते, अभावस्वभावशून्यता लोके प्रभाव्यते.

स्मृत्युपस्थानानि लोके प्रभाव्यन्ते, सम्यक्प्रहाणानि लोके प्रभाव्यन्ते, ऋद्धिपादा लोके प्रभाव्यन्ते, इन्द्रियाणि लोके प्रभाव्यन्ते, बलानि लोके प्रभाव्यन्ते, बोध्यङ्गानि लोके प्रभाव्यन्ते, आर्याष्टाङ्गो मार्गो लोके प्रभाव्यते, आर्यसत्यानि लोके प्रभाव्यन्ते, ध्यानानि लोके प्रभाव्यन्ते, अप्रमाणानि लोके प्रभाव्यन्ते, आरूप्यसमापत्तयो लोके प्रभाव्यन्ते, विमोक्षा लोके प्रभाव्यन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रभाव्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोके प्रभाव्यन्ते, अभिज्ञाः लोके प्रभाव्यन्ते, समाधयो लोके प्रभाव्यन्ते, धारणीमुखानि लोके प्रभाव्यन्ते, तथागतबलानि लोके प्रभाव्यन्ते, वैशारद्यानि लोके (श्स्प्_इइ-4_57) प्रभाव्यन्ते, प्रतिसंविदो लोके प्रभाव्यन्ते, महाकरुणा लोके प्रभाव्यते, आवेणिकबुद्धधर्मा लोके प्रभाव्यन्ते, सर्वज्ञता लोके प्रभाव्यते, मार्गाकारज्ञता लोके प्रभाव्यते, सर्वाकारज्ञता लोके प्रभाव्यते, स्रोतआपन्नो लोके प्रभाव्यते, सकृदागामी लोके प्रभाव्यते, अनागामी लोके प्रभाव्यते, अर्हन् लोके प्रभाव्यते, प्रत्येकबुद्धो लोके प्रभाव्यते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते.

तद् यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वोषधितारानक्षत्राणि प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य सर्वकुशलचर्यासम्यक्चर्यादशकुशलकर्मपथध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञापारमिताशून्यताबोधिपक्षधर्मशून्यतानिमित्ताप्रणिहितार्यसत्यविमोक्षानुपूर्वविहारसमापत्तिसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षश्रावकप्रत्येकबुद्धतारानक्षत्राणि च प्रभाव्यन्ते. तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रभाव्यन्ते.

यदापि बुद्धानां भगवतां लोके नोत्पादो भवति, तदापि बोधिसत्त्वा महासत्त्वाः सत्त्वेभ्यो लौकिकलोकोत्तरान् धर्मान् देशयन्ति. तत् कस्य हेतोः? बोधिसत्त्वनिर्याता हि श्रावकप्रत्येकबुद्धमहायानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं प्रज्ञापारमितानिर्यातं वेदितव्यं, येनोपायकौशलेन समन्वागता बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति.

अध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, शून्यताशून्यतायां चरति, महाशून्यतायां चरति, परमार्थशून्यतायां चरति, संस्कृतशून्यतायां चरति, असंस्कृतशून्यतायां चरति, अत्यन्तशून्यतायां चरति, अनवराग्रशून्यतायां चरति, अनवकारशून्यतायां चरति, प्रकृतिशून्यतायां चरति, सर्वधर्मशून्यतायां चरति, स्वलक्षणशून्यतायां चरति, अनुपलम्भशून्यतायां चरति, अभावशून्यतायां चरति, स्वभावशून्यतायां चरति, अभावस्वभावशून्यतायां चरति.

स्मृत्युपस्थानेषु चरति. सम्यक्प्रहाणेषु चरति, ऋद्धिपादेषु चरति, इन्द्रियेषु चरति, बलेषु चरति, बोध्यङ्गेषु चरति, आर्याष्टाङ्गे मर्गे चरति, आर्यसत्येषु चरति, ध्यानेषु चरति, अप्रमाणेषु चरति, आरूप्यसमापत्तिषु चरति, अष्टासु विमोक्षेषु चरति, नवस्व् अनुपूर्वविहारसमापत्तिषु (श्स्प्_इइ-4_58) चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरति, अभिज्ञासु चरति, समाधिषु चरति, धारणीमुखेषु चरति, तथागतबलेषु चरति, वैशारद्येषु चरति, प्रतिसंवित्सु चरति, महाकरुणायां चरति, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. न च श्रावकभूमौ पतति न प्रत्येकबुद्धभूमिसाक्षात् करोति, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, आयुःसंपदञ् च परिगृह्णाति सत्त्वसंपदञ् च परिगृह्णाति बुद्धक्षेत्रसंपदञ् च परिगृह्णाति, बोधिसत्त्वसंपदं च परिगृह्णाति सर्वाकारज्ञतां चानुत्प्राप्नोति.

[क्. 185अ18, न्. 361ब्8, त्. 290ब्10, प्. 217ब्4, छ्. 582च्20] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स एभिर् दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति सांपरायिकैश् च गुणैः समन्वागतो भविष्यति.

शक्र आह: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा कुलदुहिता वा भविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.

भगवान् आह: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स न विषेण कालं करिष्यति, न शस्त्रेण कालं करिष्यति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यति, यावन् नैकोत्तरेण रागशतेन कालं करिष्यति, स्थापयित्वा पूर्वकर्मविपाकं, ये च पुन राजकुलाद् उपद्रवा भविष्यन्ति, सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, न तस्य ते ऽवतारप्रेक्षिणाम् अवतारं लप्स्यते, राजपुत्राश् च राजमहामात्राश् चालपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यन्ते, प्रतिसंमोदितव्यं मंस्यन्ते. तत् कस्य हेतोः? यथापि तद् अस्या एव प्रज्ञापारमितायास् तेजोनुभावेन सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, तम् एनं ते राजपुत्रा वा राजमहामात्रा वा प्रियवचनैर् आलपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यते, प्रतिसंमोदितव्यं मंस्यते. तत् कस्य हेतोः? तथा हि कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां वा सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं, एभिः कौशिक दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा (श्स्प्_इइ-4_59) कुलदुहिता वा भविष्यति य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति.

कतमैश् च कौशिक सांपरायिकैर् गुणैः समन्वागतो भवति, यद् उत न जातु दशभिः कर्मपथैर् अविरहिता भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिः, न षड्भिः पारमिताभिर् न स्मृत्युपस्थानैर् न सम्यक्प्रहाणैर् न ऋद्धिपादैर् नेन्द्रियैर् न बलैर् न बोध्यङ्गैर् न मार्गेण नार्यसत्यैर् न ध्यानैर् नाप्रमाणैर् नारूप्यसमापत्तिभिर् न विमोक्षैर् नानुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् नाभिज्ञाभिर् न समाधिभिर् न धारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकबुद्धधर्मैर् विरहिता भविष्यन्ति, न कदाचिन् नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके, अन्यत्र प्रणिधानवशेन सत्त्वं परिपाकं करिष्यति, स न कदाचिद् अङ्गविहीनो भविष्यति, न कदाचिद् दरिद्रकुलेषु प्रत्याजनिष्यति, वेणुकरकुले वा पुष्कसकुले वा मौष्ठिकचण्डालौरानिकसौकारिककुलेषु वा शूद्रकुलेषु वा सततसमितं द्वात्रिंशन् महापुरुषलक्षणैः समन्वागतो भविष्यति, यत्र च लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रीयन्ते यापयन्ति तत्र लोकधातुषूपपत्स्यते, न जातु बोधिसत्त्वाभिज्ञाभिर् विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय स बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा इमां गुणसंपदाम् आकाङ्क्षद्भिर् इयं प्रज्ञापारमितोद्गृहीतव्या धारयितवा वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यं, त एभिर् दृष्टधार्मिकैः सांपरायिकैश् च गुणैः समन्वागतो भविष्यन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते.

शतसाहस्र्यां प्रज्ञापारमितायाम् ऊनविंशतितमः परिवर्तः

[क्. 185ब्15, न्. 362ब्8, त्. 291ब्3, प्. 219अ5, छ्. 583च्19] अथान्यतीर्थिकपरिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामं न्यासीत्.

अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूद्, इदम् अन्यतीर्थिकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामन्ति स्म, य न्व् अहं यावन् मया भगवतो ऽन्तिकात्, इतः प्रज्ञापारमिताया उद्गृहीतं तत् स्वाध्यायं कुर्यां, यदि मे ऽन्यतीर्थिकपरिव्राजकाम् उपसंक्रम्य भगवतो ऽन्तरायं च कुर्युः प्रज्ञापारमितायां भाष्यमाणायाम्.

अथ शक्रो देवानाम् इन्द्रो यावद् भगवतो ऽन्तिकात् प्रज्ञापारमितायाम् उद्गृहीतं तावत् स्वाध्यायं करोति स्म.

अथ ते ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवतं प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः

अथ भगवान् आयुष्मतः शारद्वतीपुत्रस्यैतद् अभूत्, किम् अत्र कारणं येन मे ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवन्तं प्रदक्षिणीकृत्य तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः

अथ भगवान् आयुष्मतश् छारद्वतीपुत्रस्य चेतसैव चेतः, परिवितर्कम् आजायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयतः शक्रेण सारद्वतीपुत्र देवानाम् इन्द्रेणेयं प्रज्ञापारमिता समन्वाहृता तेनैते ऽन्यतीर्थिकचरकपरिव्राजका दूरेण दूरं तां प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः, न हि शारद्वतीपुत्र एषाम् अन्यतीर्थिकचरकपरिव्राजकानाम् एकस्यापि शुक्लाङ्गं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकपरिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया इमां पर्षदम् उपसंक्रमितव्यं मंयन्ते नाहं तं शारद्वतीपुत्र समनुपश्यामि, सदेवलोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां यो ऽस्यां प्रज्ञापारमितायां प्रतिहतचित्तो वा उपारम्भाभिप्रायो वा उपसंक्रमेन् नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारद्वतीपुत्र य इह त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मण आभः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुब्बा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनभ्रका अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवाः, ये च श्रावका ये च प्रत्येकबुद्धा ये ऽपि (श्स्प्_इइ-4_61) बोधिसत्त्वा महासत्त्वास् तैर् इयं प्रज्ञापारमितां उद्गृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमिता निर्याताः सर्वम्.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.