Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 22/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अध्यात्मशून्यताः परिगृहीता भवन्ति, बहिर्धाशून्यताः परिगृहीता भवन्ति, अध्यात्मबहिर्धाशून्यताः परिगृहीता भवन्ति, शून्यताशून्यताः परिगृहीता भवन्ति, महाशून्यताः परिगृहीता भवन्ति, परमार्थशून्यताः परिगृहीता भवन्ति, संस्कृतशून्यताः परिगृहीता भवन्ति, असंस्कृतशून्यताः परिगृहीता भवन्ति, अत्यन्तशून्यताः परिगृहीता भवन्ति, अनवराग्रशून्यताः परिगृहीता भवन्ति, अनवकारशून्यताः परिगृहिता भवन्ति, प्रकृतिशून्यताः परिगृहीता भवन्ति, सर्वधर्मशून्यताः परिगृहीता भवन्ति, स्वलक्षणशून्यताः परिगृहीता भवन्ति, अनुपलम्भशून्यताः परिगृहीता भवन्ति, अभावशून्यताः परिगृहीता भवन्ति, स्वभावशून्यताः परिगृहीता भवन्ति, अभावस्वभावशून्यताः परिगृहीता भवन्ति.

स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि (श्स्प्_इइ-4_3) भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतनि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवन्ति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोत्रआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.

एवम् उक्ते भगवाञ् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितया कौशिक परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.

अध्यात्मशून्यता परिगृहीता भवति, बहिर्धाशून्यता परिगृहीता भवति, अध्यात्मबहिर्धाशून्यता परिगृहीता भवति, शून्यताशून्यता परिगृहीता भवति, महाशून्यता परिगृहीता भवति, परमार्थशून्यता परिगृहीता भवति, संस्कृतशून्यता परिगृहीता भवति, असंस्कृतशून्यता परिगृहीता भवति, अत्यन्तशून्यता परिगृहीता भवति, अनवराग्रशून्यता परिगृहिता भवति, अनवकारशून्यता परिगृहीता भवति, प्रकृतिशून्यता परिगृहीता भवति, सर्वधर्मशून्यता परिगृहीता भवति, स्वलक्षणशून्यता परिगृहीता भवति, अनुपलम्भशून्यता परिगृहीता भवति, अभावशून्यता परिगृहीता भवति, स्वभावशून्यता परिगृहीता भवति, अभावस्वभावशून्यता परिगृहीता भवति.

स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवन्ति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः (श्स्प्_इइ-4_4) परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतानि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोतआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति.

[क्. 171ब्14, न्. 328ब्2, त्. 267अ12, प्. 160अ1, छ्. 559च्16] पुनर् अपरं कौशिक प्रज्ञापारमितया परिगृहीतया धारयितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया याङ् गुणान् स कुलपुत्रो वा कुलदुहिता वा दृष्टिधार्मिकान् परिगृह्णाति, तांच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं, एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतः प्रत्यश्रोषीत्, भगवांस् तम् एतद् अवोचत्: यो हि कश्चित् कौशिक अन्यतीर्थिकचरकपरिव्राजको मारो वा मारकायिका वा देवता अधिमानिका वा पुद्गला इमां प्रज्ञापारमितां विग्रहीतुकामा भविष्यन्ति विवेचयितुकमा भविष्यन्ति विवदितुकामा भविष्यन्ति विरोधयितुकामा भविष्यन्ति तेषां विग्रहीतुकामानां विवेचयितुकमानां विवदितुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहविवेचनविवादविरोधाः क्षिप्रम् एव पुनर् एवान्तर्धानात् प्रलयं यास्यन्ति, तेषां विग्रहीतुकामानां विवेचयितुकामानां विवदितुकामानां विरोधयितुकामानां ते ऽभिप्राया न परिपूरयिष्यन्ति. तत् कस्य हेतोः? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, येषां कृतशः सत्त्वा दीर्घरात्रं कलहभण्डनविग्रहविवादान् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा दानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौःशील्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वाः शीलपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं

क्रोधव्यापादविहिंसा आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् (श्स्प्_इइ-4_5) धर्मान् परित्यज्यते सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा वीर्यपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं विक्षेपम् आपद्यते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वा ध्यानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वाः प्रज्ञानपारमितायां प्रतिष्ठापिताः, येषां कृते कौशिक सत्त्वाः संसारे संसारन्ति यद् उतानुशयपर्युत्थाने न तान् बोधिसत्त्वेन महासत्त्वेनोपायकौशलेन, तेषां सत्त्वानाम् अनुशयपर्युत्थानं विगृह्यते सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापिताश् चतुर्ष्व् अप्रमाणेषु समादापिताश् चतसृष्व् आरूप्यसमापत्तिषु समादापिता पञ्चस्व् अभिज्ञासु समादापिताः चतुर्षु स्मृत्युपस्थानेषु अमादापिताश् चतुर्षु सम्यक्प्रहाणेषु समादापिताः चतुर्ष्व् ऋद्धिपादेषु समापिताः पञ्चस्व् इन्द्रियेषु समादापिताः पञ्चसु बलेषु समादापिताः सप्तसु बोध्यङ्गेषु समादापिताः आर्याष्टाङ्गे मार्गे समादापिताश् चतुर्ष्व् आर्यसत्येषु समादापिताः, नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापिताः सर्वसमाधिषु समादापिताः सर्वधारणीमुखेषु समादापिताः, दशसु तथागतबलेषु समादापिताः चतुर्षु वैशारद्येषु प्रतिष्ठापिताः, चतसृषु प्रतिसंवित्सु प्रतिष्ठापिताः, महामैत्र्यां प्रतिष्ठापिताः, महाकरुणायां प्रतिष्ठापिताः, अष्टादशस्व् आवेणिकेषु

बुद्धधर्मेषु समादापिताः, स्रोतआपत्तिफले प्रतिष्ठापिताः, सकृदागामिफले प्रतिष्ठापिताः, अनागामिफले प्रतिष्ठापिताः, अर्हत्त्वे प्रतिष्ठापिताः प्रत्येकबोधौ प्रतिष्ठापिताः, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापिताः.

इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरता दृष्टधार्मिका न गुणानुशंसा भविष्यन्ति, संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य सत्त्वान्यथाप्रतिष्ठाने प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति.

इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य सांपरायिका गुणानुशंसा भविष्यन्ति.

[क्. 172अल्0, न्. 329ब्3, त्. 268अ5, प्. 161ब्5, छ्. 560ब्ल्7] पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा यस्मिन् पृथिवीप्रदेशे इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति (श्स्प्_इइ-4_6) योनिशश् च मनसिकरिष्यति, न तत्र पृथिवीप्रदेशे मारो वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका आधिमानिक वा पुद्गलाः शक्ष्यन्त्य् अस्याः प्रज्ञापारमिताया विग्रहाय वा विवादाय वा विरोधाय वान्तर्धानाय वा पराक्रमितुम् उत्तरे च तेषां गुणानुशंसा भविष्यन्ति. यदास्याः प्रज्ञापारमितायाः श्रवणग्रहणभावनाभिर् अनुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति, तद् यथापि नाम कौशिक मघिनाम् औषधीः सर्वविषप्रशमणी तत्राशीविषेण वा जन्तुना वा क्षुधाभिभूतेनाहारान्वेषिणा किंचिद् एव प्राणिजातं दृष्टं भवेत्. स तत् प्राणकजातं खादितुकामतयानुगच्छेत्. अथ तत् प्राणकजातं मरणभयभीतं येन सा मघी नाम्ऽ औषधिस् तेनोपसंक्रामन् ततः स आशीविषस् तस्या औषध्या गन्धेनैव प्रत्युदावर्तितव्यं मन्येत. तत् कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणो यं तस्याशीविषस्य तद् विषम् अभिभवत्य् एव बलवती हि कौशिक सा मघी औषधिः.

एवम् एव कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यन्ति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तत्र कौशिक य उत्पन्नोत्पन्ना विग्रहविवादविरोधा भविष्यन्ति, ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्ति, उपशमिष्यन्ति, यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति, न विवर्धयिष्यन्ते. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिता सर्वेषां पापकानां धर्माणाम् उपशमयित्री न विवर्धिका यद् उत रागद्वेषमोहाणाम् उपशमयित्री न विवर्धिका.

अविद्याया उपशमयित्री न विवर्धिका, संस्काराणाम् उपशमयित्री न विवर्धिका, विज्ञानस्योपशमयित्री न विवर्धिका, नामरूपस्योपशमयित्री न विवर्धिका, षडायतनस्योपशमयित्री न विवर्धिका, स्पर्शस्योपशमयित्री न विवर्धिका, वेदनाया उपसमयीत्रि न विवर्धिका, तृष्णाया उपशमयित्री न विवर्धिका, उपादानस्योपशमयित्री न विवर्धिका, भवस्योपशमयित्री न विवर्धिका, जातेर् उपशमयित्री न विवर्धिका, जरामरणस्योपशमयित्री न विवर्धिका.

स्वकपरिदेवदुःखदौर्मणस्योपायासानाम् उपशमयित्री न विवर्धिका, यावत् केवलस्य महतो दुःखस्कन्धस्योपशमयित्रि न विवर्धिका, नीवरणानाम् उपशमयित्री न विवर्धिका, आवरणानाम् उपसमयित्रि न विवर्धिका, अनुशयानाम् उपशमयित्री न विवर्धिका, पर्युत्थानानाम् उपशमयित्री न विवर्धिका, अनात्मदृष्टेर् उपशमयित्री (श्स्प्_इइ-4_7) न विवर्धिका, सत्त्वदृष्टेर् उपशमयित्री न विवर्धिका, जीवदृष्टेर् उपशमयित्री न विवर्धिका, जन्तुदृष्टेर् उपशमयित्री न विवर्धिका, पोषदृष्टेर् उपशमयित्री न विवर्धिका, पुरुषदृष्टेर् उपशमयित्री न विवर्धिका, पुद्गलदृष्टेर् उपशमयित्री न विवर्धिका, मनुजदृष्टेर् उपशमयित्रि न विवर्धिका, मानवदृष्टेर् उपशमयित्रीन विवर्धिका, कारकदृष्टेर् उपशमयित्री न विवर्धिका, वेदकदृष्टेर् उपशमयित्री न विवर्धिका, जानकदृष्टेर् उपशमयित्री न विवर्धिका, पश्यकदृष्टेर् उपशमयित्री न विवर्धिका, उच्छेदकदृष्टेर् उपशमयित्री न विवर्धिका, शाश्वतदृष्टेर् उपशमयित्री न विवर्धिका, अस्तिदृष्टेर् उपशमयित्री न विवर्धिका, नास्तिदृष्टेर् उपशमयित्री न विवर्धिका, सर्वदृष्टिगतानाम् उपशमयित्री न विवर्धिका, मात्सर्यस्योपशमयित्री न विवर्धिका, दौशील्यस्योपशमयित्री न विवर्धिका, व्यापादस्योपशमयित्री न विवर्धिका, कौशीद्यस्योपशमयित्री न विवर्धिका, विक्षेपस्योपशमयित्री न विवर्धिका, दौष्प्रज्ञस्योपशमयित्री न विवर्धिका, नित्यसंज्ञाया उपशमयित्री न विवर्धिका, सुखसंज्ञाया उपशमयित्रि न विवर्धिका, आत्मसंज्ञाया उपशमयित्री न विवर्धिका, शुभसंज्ञाया उपशमयित्री न विवर्धिका, तृष्णाविचरिताम् उपशमयित्री न विवर्धिका, रूपग्राहस्योपशमयित्री न विवर्धिका, वेदनाग्राहस्योपशमयित्री न विवर्धिका, संज्ञाग्राहस्योपशमयित्री न विवर्धिका, संस्कारग्राहस्योपशमयित्री न विवर्धिका, विज्ञानग्राहस्योपशमयित्री न विवर्धिका.

दानपारमिताग्राहस्योपशमयित्री न विवर्धिका, शीलपारमिताग्राहस्योपशमयित्री न विवर्धिका, क्षान्तिपारमिताग्राहस्योपशमयित्री न विवर्धिका, वीर्यपारमिताग्राहस्योपशमयित्री न विवर्धिका, ध्यानपारमिताग्राहस्योपशमयित्री न विवर्धिका, प्रज्ञापारमिताग्राहस्योपशमयित्री न विवर्धिका,

अध्यात्मशून्यताग्राहस्योपशमयित्री न विवर्धिका, बहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, अध्यात्मबहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, शून्यताशून्यताग्राहस्योपशमयित्री न विवर्धिका, महाशून्यताग्राहस्योपशमयित्री न विवर्धिका, परमार्थशून्यताग्राहस्योपशमयित्री न विवर्धिका, संस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, असंस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, अत्यन्तशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवराग्रशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवकारशून्यताग्राहस्योपशमयित्री न विवर्धिका, प्रकृतिशून्यताग्राहस्योपशमयित्री न विवर्धिका, सर्वधर्मशून्यताग्राहस्योपशमयित्री (श्स्प्_इइ-4_8) न विवर्धिका, स्वलक्षणशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनुपलम्भशून्यताग्राहस्योपय्शमयित्री न विवर्धिका, अभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, स्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, अभावस्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका.

स्मृत्युपस्थानग्राहस्योपशमयित्री न विवर्धिका, सम्यक्प्रहाणग्राहस्योपशमयित्री न विवर्धिका, ऋद्धिपादग्राहस्योपशमयित्री न विवर्धिका, इन्द्रियग्राहस्योपशमयित्री न विवर्धिका, बलग्राहस्योपशमयित्री न विवर्धिका, बोध्यङ्गग्राहस्योपशमयित्री न विवर्धिका, आर्याष्टाङ्गमार्गग्राहस्योपशमयित्री न विवर्धिका, आर्यसत्यग्राहस्योपशमयित्री न विवर्धिका, ध्यानग्राहस्योपशमयित्री न विवर्धिका, अप्रमाणग्राहस्योपशमयित्री न विवर्धिका, आरूप्यसमापत्तिग्राहयोपशमयित्री न विवर्धिका, विमोक्षग्राहस्योपशमयित्री न विवर्धिका, अनुपूर्वविहारसमापत्तिग्राहस्योपशमयित्री न विवर्धिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाग्राहस्योपशमयित्री न विवर्धिका, समाधिग्राहस्योपशमयित्री न विवर्धिका, धारणीमुखग्राहस्योपशमयित्री न विवर्धिका, तथागतबलग्राहस्योपशमयित्री न विवर्धिका, वैशारद्यग्राहस्योपसमयित्री न विवर्धिका, प्रतिसंविद्ग्राहस्योपशमयित्री न विवर्धिका, महामैत्रीग्राहस्योपशमयित्री न विवर्धिका, महाकरुणाग्राहस्योपशमयित्री न विवर्धिका, आवेणिकबुद्धधर्मग्राहस्योपशमयित्री न विवर्धिका, सर्वज्ञताग्राहस्योपशमयित्री न विवर्धिका, मार्गाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, सर्वाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, निर्वाणग्राहस्योपशमयित्री न विवर्धिका.

[क्. 172ब्20, न्. 331ब्1, त्. 269ब्4, प्. 165अ3, छ्. 561च्7] एतेषां कौशिक सर्वेसां मारकायिकानां धर्माणाम् इयं प्रज्ञापारमितोपशमयित्री न विवर्धिका, यावन्त कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः शक्रश् च देवानाम् इन्द्रो ब्रह्मानश् च सहापतिः आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासो देवाः, ते सर्वे तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति.

स पुनर् अकुशलेभयश् च धर्मेभ्यः परिहास्यते, कुशलैर् धर्मैर् (श्स्प्_इइ-4_9) विवर्धिष्यते, यद् उत दानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शीलपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, क्षान्तिपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वीर्यपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रज्ञापारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.

अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यताशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, परमार्थशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, संस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, असंस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अत्यन्तशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवराग्रशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवकारशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रकृतिशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वधर्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वलक्षणशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनुपलम्भशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.

स्मृत्युपस्थानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सम्यक्प्रहाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ऋद्धिपादैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, इन्द्रियैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बोध्यङ्गैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्याष्टाङ्गेन मार्गेन विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्यसत्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अप्रमाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आरूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, विमोक्षैर् विवर्धिष्यते (श्स्प्_इइ-4_10) न परिहास्यते ऽनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभिज्ञाभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, समाधिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, धारणीमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, तथागतबलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वैशारद्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रतिसंविद्भिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महामैत्र्या विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाकरुणया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आवेणिकबुद्धधर्मैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, मार्गाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन.

[क्. 173अ17, न्. 332ब्3, त्, 27ओअ12, प्. 167अ7, छ्. 562अ21] स आदेयवचनश् च भविष्यति मितवचनस् च भविष्यति न च विकीर्णवचनो भविष्यति न क्रोधाभिभूतो भविष्यति, न मानाभिभूतो भविष्यति, न मत्सरो भविष्यति, नेर्ष्यालुको भविष्यति,

आत्मना च प्रणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपातवैरमण्यां समादापयति, प्राणातिपातवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमण्यां समादापयिष्यति. अदत्तादानवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति. परांश् च काममिथ्याचारवैरमण्यां समादापयिष्यति काममिथ्याचारविरमण्याश् च वर्णं भाषिष्यते, ये चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मृषावादात् प्रतिविरतो भविष्यति. परांश् च मृषावादवैरमण्यां समादापयिष्यति मृषावादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मृषावादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पैशुन्यात् प्रतिविरतो भविष्यति, परांश् च पैशुन्यवैरमण्यां समादापयिष्यति, पैशुन्यवैरमण्याश् च वर्णं भाषिष्यति, ये चान्ये (श्स्प्_इइ-4_11) पैशून्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पारुष्यात् प्रतिविरतो भविष्यति, परांश् च पारुष्यवैरमण्यां समादायति, पारूष्यवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये पारुष्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमण्यां समादापयिष्यति, संभिन्नप्रलापवैरमण्याश् च

वर्णं भाषिष्यते, ये चान्ये संविन्नप्रलापात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमण्यां समादापयिष्यति, अभिध्यावैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमण्यां समादापयति, व्यापादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये व्यापादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमण्यां समादापयति, मिथ्यादृष्टिवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना च दानपारमितायां वर्तिष्यते, परांश् च दानपारमितायां समादापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये दानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शीलपारमितायां वर्तिष्यते, परांश् च शीलपारमितायां समादापयिष्यति, शीलपारमितयाश् च वर्णं भाषिष्यते, ये चान्ये शीलपारमितायां वर्तिष्यन्ते , तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च क्षान्तिपारमितायां वर्तिष्यते, परांश् च क्षान्तिपारमितायां समादापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये क्षान्तिपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च वीर्यपारमितायां वर्तिष्यते, परांश् च वीर्यपारमितायां समादापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये वीर्यपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च ध्यानपारमितायां वर्तिष्यते, परांश् च ध्यानपारमितायां समादापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये ध्यानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, अत्मना च प्रज्ञापारमितायां वर्तिष्यते, परांश् च प्रैञापारमितायां (श्स्प्_इइ-4_12) समादापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये चान्ये प्रज्ञापारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः.

आत्मना चाध्यात्मशून्यतां भावयिष्यति, परांश् चाध्यात्मशून्यतायां समादापयिष्यति, अध्यात्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च बहिर्धाशून्यतां भावयिष्यति, परांश् च बहिर्धाशून्यतायां समादापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये बहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाध्यात्मबहिर्धाशून्यतां भावयिष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां समादापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यताशून्यतां भावयिष्यति, परांश् च शून्यताशून्यतायां समादापयिष्यति, शून्यताशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये शून्यताशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाशून्यतां भावयिष्यति, परांश् च महाशून्यतायां समादापयिष्यति, महाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये महाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च परमार्थशून्यतां भावयिष्यति, परांश् च परमार्थशून्यतायां समादापयिष्यति, परमार्थशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये परमार्थशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संस्कृतशून्यतां भावयिष्यति, परांश् च संस्कृतशून्यतायां समादापयिष्यति, संस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये संस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना

चासंस्कृतशून्यतां भावयिष्यति, परांश् चासंस्कृतशून्यतायां समादापयिष्यति, असंस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽसंस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चात्यन्तशून्यतां भावयिष्यति, परांश् चात्यन्तशून्यतायां समादापयिष्यति, अत्यन्तशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽत्यन्तशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवराग्रशून्यतां भावयिष्यति, परांश् चानवराग्रशून्यतायां समादापयिष्यति, अनवराग्रशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवराग्रशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवकारशून्यतां भावयिष्यति, परांश् (श्स्प्_इइ-4_13) चानवकारशून्यतायां समादापयिष्यति, अनवकारशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवकारशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना च प्रकृतिशून्यतां भावयिष्यति, परांश् च प्रकृतिशून्यतायां समादापयिष्यति, प्रकृतिशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये प्रकृतिशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वधर्मशून्यतां भावयिष्यति, परांश् च सर्वधर्मशून्यतायां समादापयिष्यति, सर्वधर्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये सर्वधर्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वलक्षणशून्यतां भावयिष्यति, परांश् च स्वलक्षणशून्यतायां समादापयिष्यति, स्वलक्षणशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वलक्षणशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः,

आत्मना चानुपलम्भशून्यतां भावयिष्यति, परांश् चानुपलम्भशून्यतायां समादापयिष्यति, अनुपलम्भशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनुपलम्भशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावशून्यतां भावयिष्यति, परांश् चाभावशून्यतायां समादापयिष्यति, अभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वभावशून्यतां भावयिष्यति, परांश् च स्वभावशून्यतायां समादापयिष्यति, स्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावस्वभावशून्यतां भावयिष्यति, परांश् चाभावस्वभावशून्यतायां समादापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावस्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

[क्. 174अ11, न्. 334ब्7, त्. 272अ5, प्. 170ब्1, छ्. 564अ17] आत्मना च सर्वसमाधीन् समापत्स्यते परांश् च सर्वसमाधिसमापत्तौ समादापयिष्यति, सर्वसमाधिसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये सर्वसमाधीन् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च धारणीप्रतिलब्धो भाविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये धारणीप्रतिलम्भा भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमे (श्स्प्_इइ-4_14) ध्याने समादापयिष्यति, प्रथमध्यानस्य च वर्णं भाषिष्यते, ये चान्ये प्रथमं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च द्वितीयं ध्यानं समापत्स्यते, परांश् च द्वितीये ध्याने समादापयिष्यति, द्वितीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये द्वितीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च तृतीयं ध्यानं समापत्स्यते, परांश् च तृतीये ध्याने समादापयिष्यति, तृतीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये तृतीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थे ध्याने समादापयिष्यति, चतुर्थध्यानस्य च वर्णं भाषिष्यते, ये चान्ये चतुर्थं ध्यानं समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना च मैत्री समापत्स्यते, परांश् च मैत्रीसमापत्तौ समादापयिष्यति, मैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्री समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च करुणा समापत्स्यते, परांश् च करुणायां समादापयिष्यति, करुणासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये करुणा समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मुदितां समापत्स्यते, परांश् च मुदितासमापत्तौ समादापयिष्यति, मुदितासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये मुदितां समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चोपेक्षां समापत्स्यते, परांश् चोपेक्षासमापत्तौ समादापयिष्यति, उपेक्षासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये उपेक्षां समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना चाकाशानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकाशानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च विज्ञानानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् च विज्ञानानन्त्यायतनसमापत्तौ समादापयिष्यति, विज्ञानानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये विज्ञानानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाकिञ्चन्यायतनसमापत्तिं समापत्स्यते, परांश् चाकिञ्चन्यायतनसमापत्तौ समादापयिष्यति, आकिञ्चन्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकिञ्चन्यायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति (श्स्प्_इइ-4_15) समनुज्ञः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यते, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनतायां समादापयिष्यति, स्मृत्युपस्थानभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सम्यक्प्रहाणानि भावयिष्यति, परांश् च सम्यक्प्रहाणभावनतायां समादापयिष्यति, सम्यक्प्रहाणभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सम्यक्प्रहाणानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर ऋद्धिपादान् भावयिष्यति, परांश् च ऋद्धिपादभावनतायां समादापयिष्यति, ऋद्धिपादभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये ऋद्धिपादान् भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चेन्द्रियाणि भावयिष्यति, परांश् च पञ्चेन्द्रियभावनतायां समादापयिष्यति, पञ्चेन्द्रियभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये पञ्चेन्द्रियाणि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चबलानि भावयिष्यति, परांश् च बलभावनतायां समादापयिष्यति, बलभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये बलानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सप्तबोध्यङ्गानि भावयिष्यति, परांश् च सप्तबोध्यङ्गभावनतायां समादापयिष्यति, बोध्यङ्गभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सप्तबोध्यङ्गानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चार्याष्टङ्गमार्गं भावयिष्यति, परांश् चार्याष्टाङ्गमार्गभावनायां समादापयिष्यति, आर्याष्टाङ्गमार्गभावनायाश् च वर्णं भाषिष्यते, ये चान्ये आर्याष्टाङ्गमार्गं भावयिष्यन्ति, तेषाम् अपि वर्णवादी

भविष्यति समनुज्ञः, आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधीनां वर्णं भाषिष्यते, ये चान्ये शून्यतानिमित्ताप्रणिहितसमाधीन् भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाष्टौ विमोक्षान् अनुलोमप्रतिलोमं (श्स्प्_इइ-4_16) समापत्स्यते, परांश् चाष्टविमोक्षेषु समादापयिष्यति, चाष्टानां विमोक्षाणां वर्णं भाषिष्यते, ये चान्ये ऽष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापत्स्यते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यन्ते, परांश् च नवानुपूर्वविहारसमापत्तिषु समादापयिष्यति, अनुपूर्वविहारसमापत्तिनां वर्णं भाषिष्यते, ये चान्ये ऽनुपूर्वविहारसमापत्तीः समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च दशतथागतबलानि समापत्स्यते, परांश् च दशतथागतबलेषु समादापयिष्यति, दशानां तथागतबलानां वर्णं भाषिष्यते, ये चान्ये दशतथागतबलानि समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चत्वारि वैशारद्यानि भावयिष्यति, परांश् च वैशारद्येषु समादापयिष्यति, वैशारद्यानां वर्णं भाषिष्यते, ये चान्ये वैशारद्यानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतस्रः प्रतिसंविदो भावयिष्यति, परांश् च प्रतिसंविद्भावनायां समादापयिष्यति, प्रतिसंविद्भावनायाश् च वर्णं भाषिष्यते, ये चान्ये प्रतिसंविदो भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महामैत्रीं समापत्स्यते, परांश् च महामैत्रीसमापत्तौ

समादापयिष्यति, महामैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्रीं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाकरुणां भावयिष्यति, परांश् च महाकरुणायां समादापयिष्यति, महाकरुणायाश् च वर्णं भाषिष्यते, ये चान्ये महाकरुणां भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चावेणिकबुद्धधर्मान् निष्पादयिष्यति, परांश् चावेणिकबुद्धधर्मनिष्पत्तौ समादापयिष्यति, आवेणिकबुद्धधर्मनिष्पत्तेश् च वर्णं भाषिष्यते, ये चान्ये आवेणिकबुद्धधर्मान् निष्पादयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंप्रमोषधर्मा भविष्यति, परांश् चासंप्रमोषधर्मतायां समादापयिष्यति, असंप्रमोषधर्मतायाश् च वर्णं भाषिष्यते, ये चान्ये असंप्रमोषधर्माणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सदोपेक्षाविहारी भविष्यति, परांश् च सदोपेक्षाविहारितायां समादापयिष्यति, सदोपेक्षाविहारितायाश् च वर्णं भाषिष्यते, ये चान्ये सदोपेक्षाविहारिणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मार्गाकारज्ञतां परिपूरयिष्यति, परांश् च मार्गाकारज्ञतापरिपूर्यां समादापयिष्यति, मार्गाकारज्ञतापरिपूर्याश् च वर्णं भाषिष्यते, ये चान्ये मार्गाकारज्ञतां (श्स्प्_इइ-4_17) परिपूरयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वाकारज्ञतां प्रतिलप्स्यते, परांश् च सर्वाकारज्ञता प्रतिलम्भाय समादापयिष्यति, सर्वाकारज्ञताप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये सर्वाकारज्ञतां प्रतिलप्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः.

[क्. 175अ5, न्. 336ब्9, त्. 273ब्8, प्. 174अ1, छ्. 564अ26] स षट्सु पारमितासु चरन् यद् दानं दास्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यच् छीलं रक्षिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां क्षान्तिं भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् वीर्यं आरप्स्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् ध्यानं समापद्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां प्रज्ञां भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन.

एवं चरतः कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् उत्पत्स्यते, सचेद् दानं न दास्यामि दुर्गतेषु कुलेषूपपत्स्य न च मे सत्त्वपरिपाको भविष्यति न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेत् छीलं न रक्षिष्यामि तिसृषु मे दुर्गतीषूपपत्तिर् भविष्यति, न च मे मनुष्यप्रतिलम्भो भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेन् न क्षान्तिं भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यते मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदया बोधिसत्त्वचारिकाः चरतः सत्त्वसहदर्शने नैव नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि न बुद्धक्षेत्रं परिशोधयिष्यामि न मार्गाकारज्ञतां प्रतिलप्स्ये, सचेत् कुसीदो भविष्यति नेमं शक्ष्यामि बोधिमार्गम् अनुप्राप्तं न च मे सत्त्वपरिपाको भविष्यति, न बुद्धक्षेत्रं परिशोधनं न सर्वाकारज्ञतं प्रतिलप्स्ये, सचेद् विक्षिप्तचित्तो भविष्यामि नेदं शक्स्यामि समाधिम् उत्पादयितुं येन समाधिना सत्त्वान् परिपाचयिष्यामि न मे बुद्धक्षेत्रपरिशोधनं भविष्यामि न सर्वाकारज्ञताम् अनुप्राप्स्ये, सचेद् (श्स्प्_इइ-4_18) दुष्प्रज्ञो भविष्यामि न शक्ष्यामि प्रज्ञोपायकौशलेन श्रावकभूमिप्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्तुं, स एवं प्रतिसंशिक्षिष्यते, अयुक्तम् एतद् भवेद् यो मां मात्सर्यवशेन दानपारमितां न परिपूरयेयं दौःशील्यवशेन शीलपारमितां न परिपूरयेयं व्यापदवशेन क्षान्तिपारमितां न परिपूरयेयं कौशीद्यवशेन वीर्यपारमितां न परिपूरयेयं विक्षेपवशेन ध्यानपारमितां न परिपूरयेयं दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं, अपरिपूरयन् दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां न निर्यास्यामि सर्वाकारज्ञतायाम्.

एवं खलु कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकांश् च सांपरायिकांश् च गुणानुशंसान् प्रतिलप्स्यते, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन.

[क्. 175अ18, न्. 337ब्6, त्. 274अ11, प्. 175अ8, छ्. 564च्23] शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता.

भगवान् आह: यथा पुनः कौशिक बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितापरिदमनार्थायानुन्नमार्थाय च प्रत्युपस्थिता.

शक्र आह: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च दानं ददाति, तस्यैवं भवत्य् अहं दानं ददामि बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च स कृपणवनीयकार्थेन याचनकेभ्यश् च स तेन दानेनानुपायकौशलेनोन्नामं गच्छति, लौकिक्यां शीलपारमितायां चरतः, एवं भवत्य् अहं शीलपारमितायां चराम्य् अहं शीलपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां क्षान्तिपारमितायां चरतः, एवं भवत्य् अहं क्षान्तिपारमितायां चराम्य् अहं क्षान्तिपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां वीर्यपारमितायां चरतः, एवं भवत्य् अहं वीर्यपारमितायां चराम्य् अहं वीर्यपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां ध्यानपारमितायां चरतः. एवं भवत्य् अहं ध्यानपारमितायां चराम्य् अहं ध्यानपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां प्रज्ञापारमितायां (श्स्प्_इइ-4_19) चरतः, एवं भवत्य् अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां परिपूरयामि अहं प्रज्ञापारमितां भावयामि, सो ऽनया प्रज्ञापारमितयानुपायकौशलेनोन्नामं गच्छति.

स्मृत्युपस्थानानि भावयेत्, एवं भवत्य् अहं स्मृत्युपस्थानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, सम्यक्प्रहाणानि भावयेत्, एवं भवत्य् अहं सम्यक्प्रहाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ऋद्धिपादान् भावयेत्, एवं भवत्य् अहम् ऋद्धिपादान् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, इन्द्रियाणि भावयेत्, एवं भवत्य् अहम् इन्द्रियाणि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बलानि भावयेत्, एवं भवत्य् अहं बलानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बोध्यङ्गानि भावयेत्, एवं भवत्य् अहं बोध्यङ्गानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्याष्टाङ्गमार्गं भावयेत्, एवं भवत्य् अहम् आर्याष्टाङ्गमार्गं भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्यसत्यानि भावयेत्, एवं भवत्य् अहम् आर्यसत्यां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ध्यानानि भावयेत्, एवं भवत्य् अहं ध्यानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अप्रमाणानि भावयेत्, एवं भवत्य् अहम् अप्रमाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आरूप्यसमापत्तीर् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तिर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, विमोक्षान् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अनुपूर्वविहारसमापत्तीर् भावयेत्, एवं भवत्य् अहम् अनुपूर्वविहारसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयेत्, एवं भवत्य् अहं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अभिज्ञां भावयेत्, एवं भवत्य् अहम् अभिज्ञां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, समाधीन् भावयेत्, एवं भवत्य् अहं समाधीन् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति.

तस्यैवं भवत्य् अहं सर्वधारणीः प्रतिलप्स्ये स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं दशतथागतबलानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं (श्स्प्_इइ-4_20) भवत्य् अहं चत्वारि वैशारद्यानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं चतस्रः प्रतिसंविदा भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं महाकरुणां भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहम् अष्टादशावेणिकबुद्धधर्मान् भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सत्त्वान् परिपाचयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं बुद्धक्षेत्रं परिशोधयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सर्वाकारज्ञताम् अनुप्राप्स्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति.

एवं खलु भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन् उन्नामं गच्छत्य् अहंकाराभिनिवेशेन तस्य प्रज्ञापारमिता परिदमनार्थाय नानुन्नामार्थाय प्रत्युपस्थिता भवति.

[क्. 175ब्16, न्. 338ब्8, त्. 275अ6, प्. 177ब्4, छ्. 566ब्9] इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरायां दानपारमितायां चरन् प्रज्ञापारमितासुभावितत्वान् न दायकम् उपलभते न दानम् उपलभते न प्रतिग्राहकम् उपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्ह्तिता भवति,

स लोकोत्तरायां शीलपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाच् छीलं नोपलभ्यते शीलं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,

स लोकोत्तरायां क्षान्तिपारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् क्षान्तिं नोपलभ्यते क्षान्तिं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,

स लोकोत्तरायां वीर्यपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाद् वीर्यं नोपलभ्यते वीर्यवं तं नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,

स लोकोत्तरायां ध्यानपारमितायां चरन् प्रज्ञापारमिता सुभावितत्वाद् ध्यानं नोपलभते ध्यानं नोपलभते. एवं खलु भगवन् (श्स्प्_इइ-4_21) बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति,

स लोकोत्तरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् प्रज्ञां नोपलभते प्रज्ञां नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.

स स्मृत्युपस्थानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सम्यक्प्रहाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ऋद्धिपादान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स इन्द्रियाणि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बोध्यङ्गानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आर्याष्टाङ्गमार्गं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स आर्यसत्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ध्यानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽप्रमाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आरूप्यसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स विमोक्षा भावयति न चोपलभते प्रज्ञापारमितासु भावितत्वात्, सो ऽनुपूर्वविहारसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽभिज्ञां भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स समाधीन् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स धारणीमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.

स तथागतबलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स वैशारद्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स प्रतिसंविदो भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महामैत्रीं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महाकरुणा भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आवेणिकबुद्धधर्मान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. (श्स्प्_इइ-4_22) एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्या प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.

स सर्वज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स मार्गाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सर्वाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति.

शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः सप्तदशमः

[क्. 176अ17, न्. 339ब्2, त्. 275ब्13, प्. 179ब्6, छ्. 568अ18] अथ खलु भगवाञ् छक्रो देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति स्वाध्यापयिष्यति, योनिशश् च मनसिकरिष्यति, अभिरूढो संग्राममध्ये वर्तमाने महति संग्रामशीर्षव्यारूढः, तत्र सचेत् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां स्वाध्यायन्न् अवतरेत्, तत्रावतीर्य तिष्ठेत नासौ कुलपुत्रो वा कुलदुहिता या पराजयं यास्यति, जय एवास्य भविष्यत्य् अक्षतश् चानुपहतश् च तं संग्रामम् उत्तरिष्यति, अस्थानं कौशिकानवकाशो यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र संग्रामे समभिरूढो जीवितान्तरायं निगच्छेन् नेदं स्थानं विद्यते, सचेत् पुनर् अस्य कश्चिद् एव शस्त्रं वा काण्डं वा शरीरे क्षिपेत् न तस्य शरीरे पतिष्यति. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहिता वा दीर्घरात्रं षट्सु पारमितासु चरता, आत्मनश् च रागशस्त्राणि रागकाण्डानि निर्जितानि परेषां रागशस्त्राणि रागकाण्डाणि निर्जितानि, आत्मनश् च द्वेषशस्त्राणि द्वेषकाण्डाणि निर्जितानि परेषां द्वेषशस्त्राणि द्वेषकाण्डानि निर्जितानि, आत्मनश् च मोहशस्त्राणि मोहकाण्डाणि निर्जितानि परेषां मोहशस्त्राणि मोहकाण्डानि निर्जितानि, आत्मनश् च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डाणि निर्जितानि परेषां च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डानि निर्जितानि, आत्मनश् च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डाणि निर्जितानि परेषां च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डानि निर्जितानि, आत्मनश् चानुशयशस्त्राण्य् अनुशयकाण्डाणि निर्जितानि परेषां चानुशयशस्त्राण्य् अनुशयकाण्डानि निर्जितानि, इमाम् एव प्रज्ञापारमिताम् आगम्य तां च प्रज्ञापारमितां भावयतां, अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा संग्राममध्यगतस्य शस्त्राणि वा काण्डानि वा क्षिप्तानि शरीरे न निपतिष्यति.

पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सर्वज्ञताचित्तेन चाविरहितो भविष्यति. तस्य कश्चिद् अभैषज्यम् अवकिरेत् काखोर्दं वा कुर्याद् अग्निखदा चोपनामयेत्, शस्त्रेण वा दद्याद् विषं वा दद्याद् उदके चैनं छोरयेत् सर्वं तत् तस्य न क्रमिष्यति. तत् कस्य हेतोः? महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, (श्स्प्_इइ-4_24) निरुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, अत्र च विद्यायां शिक्षमाणेः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते. तत् कस्य हेतोः? तथा हि सो ऽत्र शिक्षमाणो नात्मानम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकं उपलभते न जानकम् उपलभते न पश्यकम् उपलभते.

न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते.

न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मन उपलभते.

न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते.

न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते.

न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते.

न चक्षुःसंस्पर्शजां वेदनाम् उपलभते, न श्रोत्रसंस्पर्शजां वेदनाम् उपलभते, न घ्राणसंस्पर्शजां वेदनाम् उपलभते, न जिह्वासंस्पर्शजां वेदनाम् उपलभते, न कायसंस्पर्शजां वेदनाम् उपलभते, न मनःसंस्पर्शजां वेदनाम् उपलभते.

न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते.

नाविद्याम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते.

न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् (श्स्प्_इइ-4_25) उपलभते, न प्रज्ञापारमिताम् उपलभते.

नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते. न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते.

न स्मृत्युपस्थानान्य् उपलभते, न सम्यक्प्रहाणान्य् उपलभते, न ऋद्धिपादान् उपलभते, नेन्द्रियाण्य् उपलभते, न बलान्य् उपलभते, न बोध्यङ्गान्य् उपलभते, नार्याष्टाङ्गमार्गम् उपलभते, नार्यसत्यान्य् उपलभते, न ध्यानान्य् उपलभते, नाप्रमाणान्य् उपलभते, न आरूप्यसमापत्तीर् उपलभते, न विमोक्षान् उपलभते, नानुपूर्वविहारसमापत्तीर् उपलभते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते, नाभिज्ञा उपलभते, न समाधीन् उपलभते, न धारणीमुखान्य् उपलभते, न तथागतबलान्य् उपलभते, न वैशारद्यान्य् उपलभते, न प्रतिसंविद उपलभते, न महामैत्रीम् उपलभते, न महाकरुणाम् उपलभते, नावेणिकबुद्धधर्मान् उपलभते.

न स्रोतआपत्तिफलम् उपलभते, न सकृदागामिफलम् उपलभते, नानागामिफलम् उपलभते, नार्हत्त्वम् उपलभते, न प्रत्येकबोधिम् उपलभते, न मार्गाकारज्ञताम् उपलभते, न सर्वाकारज्ञताम् उपलभते.

अनुपलम्भमानो नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते, अनुत्तरां सम्यक्संबोधिं प्रतिलभते, सर्वसत्त्वानां चित्तानि व्यवलोकयति. तत् कस्य हेतोः? अत्र विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिर् अभिसंबुद्धा, ये ऽपि ते भविष्यत्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि ते एतर्हि प्रत्युत्पन्ने ऽध्वनि दशसु दिक्ष्व् अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्य् अत्रैव विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.

[क्. 177अ6, न्. 341अ8, त्. 277अ4, प्. 182ब्1, छ्. 570अ21] पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा धारयिष्यते उद्गृहीष्यति न स्वाध्यापयिष्यति न वाचयिष्यति न पर्यवाप्स्यते न योनिशो मनसिकरिष्यति, न पुनर् तत्र गृहे वा ग्रामे वा नगरे वा मनुष्यो वा अमनुष्यो वावतारप्रेक्षावतारं लप्स्यते. तत् कस्य हेतोः? तथा ह्य् अस्या एव प्रज्ञापारमितायाः पूजार्थाय ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्रा यामा देवपुत्राः तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवसवर्तिनो देवपुत्रा ब्रह्मकायिका देवपुत्रा ब्रह्मपुरोहिता देवपुत्रा ब्रह्मपार्षद्या देवपुत्रा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवाः अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा ये ऽप्य् अप्रमेयासंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्राः यामा देवपुत्रास् तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति,

ये इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति, ते च देवपुत्रा आगत्यैनां प्रज्ञापारमितां सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा गमिष्यन्ति, यः कश्चित् कौशिक इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद् यथापि नाम कौशिक ये केचिद् बोधिमण्डे गता बोधिमण्डस्य च परिसामन्तगते न बोधिमण्डस्य चाभ्यन्तरे तिर्यग्योनिगताः प्राणिना मनुष्यभूता वा न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोः? अत्र हि निषद्य तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशसु दिक्षु (श्स्प्_इइ-4_27) लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिर् अभिसंबुद्धाः. तैः सर्वतथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वसत्त्वानाम् अभयायावैरायासपन्नाय प्रतिपद्याप्रमेयासंख्येयाः सत्त्वा देवमानुषीषु संपत्तिषु प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, स्रोतआपत्तिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, सकृदागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अनागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अर्हत्त्वे प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, प्रत्येकबोधौ प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च.

तत् कस्य हेतोः? अनयैव कौशिक प्रज्ञापारमितया स पृथिवीप्रदेशे सर्वसत्त्वानां चैत्यभूतः कृतो वन्दनीयो नमस्करणीयो माननीयः पूजनीयः सत्करणीयो गुरुकरणीयः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः.

[क्. 177ब्1, न्. 342अ6, त्. 277ब्5, प्. 184अ1, छ्. 570च्16] शक्र आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा, इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारय तां च पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपे तथागतशरीरानि प्रतिष्ठापयेत् परिहरेद् वा सप्तरत्नमये समुद्गते कृत्वा तानि च सत्कुर्याद् गुरुकुराद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः, कतरस् तयोर् बहुतरं पुण्यस्कन्धं प्रसवेत्?

भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक येयं तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता यश् चायम् आत्मभावो ऽभिनिवर्तितः. कतमस्यां प्रतिपति शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञतानुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.

शक्र आह: इहैव भगवन् प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः.

भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, अत्र मया प्रज्ञापारमितायां (श्स्प्_इइ-4_28) शिक्षमाणेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः, नानेन कौशिकात्मभावशरीरप्रतिलभेन, तथागतस् तथागत इति संख्यागच्छति. सर्वाकारज्ञताप्रतिलम्भेन तु तथागतस् तथागत इति. संख्यां गच्छति, येयं कौशिक सर्वाकारज्ञता सा प्रज्ञापारमिता निर्याता, एवम् अयं कौशिकात्मभावस् तस्य सर्वाकरज्ञताज्ञानस्याश्रयभूत इमं चाश्रयं निश्रित्य तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता एवं तस्य सर्वाकारज्ञताज्ञानस्यायम् आत्मभाव आश्रयभूतसर्वसत्त्वानां चैत्यभूतो वन्दनीयो माननीयो पूजनीयः सत्करणीयो गुरुकरणीयः संवृतः परिनिवृतस्यापि च कौशिक शरीरान्य् एवं शरीरपूजा भविष्यति, न त्व् अन्यथधर्मपूजाः यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सर्वाकारज्ञताज्ञानस्य तेन पूजाकृतो भविष्यति. तस्मात् तर्हि कौशिक श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतं पूजयितुकामेन इयम् एव प्रज्ञापारमिता लिखित्वोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् च कौशिक तथागतस्य परिनिर्वृतस्य

सप्तरत्नमयस्तूपैः शरीरं प्रतिष्ठापयेत्, सप्तरत्नमये वा समुगते कृत्वा परिहरेत् ततश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् चेमां प्रज्ञापारमितां लिखित्वोद्ग्रहीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तां च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. अयम् एव ततो बहुतरं पुण्यस्कन्धं प्रसवेत्. तत् कस्य हेतोः? अतो निर्याता हि कौशिक पञ्चपारमिता,

अतो निर्याता अध्यात्मशून्यता, अतो निर्याता बहिर्धाशून्यता, अतो निर्याता अध्यात्मबहिर्धाशून्यता, अतो निर्याता शून्यताशून्यता, अतो निर्याता महाशून्यता, अतो निर्याता परमार्थशून्यता, अतो निर्याता संस्कृतशून्यता, अतो निर्याता असंस्कृतशून्यता, अतो निर्याता अत्यन्तशून्यता, अतो निर्याता अनवराग्रशून्यता, अतो निर्याता अनवकारशून्यता, अतो निर्याता प्रकृतिशून्यता, (श्स्प्_इइ-4_29) अतो निर्याता सर्वधर्मशून्यता, अतो निर्याता स्वलक्षणशून्यता, अतो निर्याता अनुपलम्भशून्यता, अतो निर्याता अभावशून्यता, अतो निर्याता स्वभावशून्यता, अतो निर्याता अभावस्वभावशून्यता.

अतो निर्यातानि चत्वारि स्मृत्युपस्थानानि, अतो निर्यातानि चत्वारि सम्यक्प्रहाणानि, अतो निर्याताश् चत्वार्य् ऋद्धिपादाः, अतो निर्यातानि पञ्चेन्द्रियाणि, अतो निर्यातानि पञ्चबलानि, अतो निर्यातानि सप्तबोध्यङ्गानि, अतो निर्यात आर्याष्टाङ्गो मार्गः, अतो निर्यातानि चत्वार्य् आर्यसत्यानि, अतो निर्यातानि चत्वारि ध्यानानि, अतो निर्यातानि चत्वार्य् अप्रमाणानि, अतो निर्याता चत्वारि आरूप्यसमापत्तयः, अतो निर्याता अष्टौ विमोक्षाः, अतो निर्याता नवानुपूर्वविहारसमापत्तयः, अतो निर्यातानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अतो निर्यातानि पञ्चाभिज्ञाः, अतो निर्याताः सर्वसमाधयः, अतो निर्यातानि सर्वधारणीमुखानि, अतो निर्यातानि दशतथागतबलानि, अतो निर्यातानि चत्वारि वैशारद्यानि, अतो निर्याताश् चतस्रः प्रतिसंविदः, अतो निर्याता महाकरुणा, अतो निर्याता अष्टादशावेणिका बुद्धधर्मा, अतो निर्यातः सत्त्वपरिपाकः, अतो निर्याता बुद्धक्षेत्रसंपत्, अतो निर्याता बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्, अतो निर्याता रूपसंपत्, अतो निर्याता लाभसंपत्, अतो निर्याता परिवारसंपत्, अतो निर्याता महामैत्री, अतो निर्याता महाकरुणा, अतो निर्यातानि क्षत्रियमहाशालकुलानि, अतो निर्यातानि ब्राह्मणमहाशालकुलानि, अतो निर्यातानि गृहपतिमहाशालकुलानि.

अतो निर्याताश् चातुर्महाराजकायिका देवपुत्रा, अतो निर्यातास् त्रायस्त्रिंशा देवपुत्रा, अतो निर्याता यामा देवपुत्रा, अतो निर्यातास् तुषिता देवपुत्रा, अतो निर्याता निर्माणरतयो देवपुत्रा, अतो निर्याताः परनिर्मितवशवर्तिनो देवपुत्रा, अतो निर्याता ब्रह्मकायिका देवपुत्रा, अतो निर्याता ब्रह्मपुरोहिता देवपुत्रा, अतो निर्याता ब्रह्मपार्षद्या देवपुत्रा, अतो निर्याता महाब्रह्माणो देवपुत्रा, अतो निर्याता आभा देवा, अतो निर्याता परीत्तभा देवा, अतो निर्याता अप्रमाणाभा देवा, अतो निर्याता आभास्वरा देवा, अतो निर्याताः सुभा देवा, अतो निर्याताः परीत्तशुभा देवा, अतो निर्याता अप्रमाणाशुभा देवा, अतो निर्याताः शुभकृत्स्ना देवा, अतो निर्याता बृहा देवा, अतो निर्याताः परीत्तबृहा देवा, अतो निर्याता अप्रमाणबृहा देवा, अतो निर्याता बृहत्फला देवा, अतो निर्याता अबृहा देवा, अतो निर्याता अतपा देवा, अतो निर्याताः सुदृशा देवा, अतो निर्याताः सुदर्शना देवा, अतो निर्याता अकनिष्ठा देवाः.

अतो निर्याताः स्रोतआपन्ना, अतो निर्याताः सकृदागामिनः, अतो निर्याता अनागामिनः, अतो निर्याता अर्हन्तः, अतो निर्याताः प्रत्येकबुद्धाह्, अतो (श्स्प्_इइ-4_30) निर्याता बोधिसत्त्वाः, अतो निर्यातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्यातास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता.

[क्. 178अ10, न्. 344अ1, त्. 278ब्9, प्. 187अ1, छ्. 572अ11] शक्र आह: इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति तत् किं ते जाम्बूद्वीपका मनुष्या न जानन्त्य् एव महार्धिका प्रज्ञापारमितायाः पूजाकृता भवति?

भगवान् आह. तत् किं मन्यसे? कौशिकायं जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता ये धर्म अभेद्यप्रसादेन समन्वागता ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षा संघे निष्काङ्क्षाः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः.

शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या, ये बुद्धे अभेद्य प्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागतो ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्साः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गता संघे निष्ठाङ्गता.

भगवान् आह: तत् किं मन्यसे? कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्विपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.

शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः सत्त्वा ये सप्तत्रिंशतो बोधिपक्षाणां लाभिनः ततो ऽल्पका ये त्रयाणां विमोक्षमुखानां लाभिनस् (श्स्प्_इइ-4_31) ततो ऽल्पका ये ऽष्टानां विमोक्षमुखानां लाभिनः ततो ऽल्पका ये न वानुपूर्वविहारसमापत्तीनां लाभिनः, ततो ऽल्पका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नास् ततो ऽल्पतरका ये रागद्वेषमोहतनुत्वात् सकृदागामिनस् ततो ऽल्पतरका ये पञ्चानाम् अचलभागीयाना संयोजनानां प्रहाणाद् अनागामिनः ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां प्रहाणाद् अर्हतस् ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः.

भगवान् आह: एवम् एतत् कौशिकैवम् एतद् ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागता, ये संघे अभेद्यप्रसादेन समन्वागताः.

ततो ऽल्पतरका ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्षाः, ततो ऽल्पतरका ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ततो ऽल्पतरका ये स्रोतआपन्नास् ततो ऽल्पतरका ये सकृदागामिनस् ततो ऽल्पतरका ये अनागामिनस् ततो ऽल्पतरका ये ऽर्हन्तः ततो ऽल्पतरका ये प्रत्येकबोधये संप्रस्थितास् ततो ऽल्पतरका ये ऽनुत्तरा सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पतरका ये बोधये चरन्ति. तत् कस्य हेतोः? तथा हि पूर्वन्तैः संसारे संसरद्भिः न बुद्धादृष्टो न धर्मश्रन संघः पर्युपासितो न दानं दत्तं न शीलं रक्षितं न क्षान्तिं भाविता न वीर्यम् आलब्धं न ध्यानानि भावितानि न प्रज्ञा भाविता,

न दानपारमिता श्रुता न भाविता, न शीलपारमिता श्रुता न भाविता, न क्षान्तिपारमिता श्रुता न भाविता, न वीर्यपारमिता श्रुता न भाविता, न ध्यानपारमिता श्रुता न भाविता, न प्रज्ञापारमिता श्रुता न भाविता.

नाध्यात्मशून्यता श्रुता न भाविता, न बहिर्धाशून्यता श्रुता न भाविता, नाध्यात्मबहिर्धाशून्यता श्रुता न भाविता, न शून्यताशून्यता श्रुता न भाविता, न महाशून्यता श्रुता न भाविता, न परमार्थशून्यता श्रुता न भाविता, न संस्कृतशून्यता श्रुता न भाविता, नासंस्कृतशून्यता श्रुता न भाविता, नात्यन्तशून्यता श्रुता न भाविता, नानवराग्रशून्यता श्रुता न भाविता, नानवकारशून्यता श्रुता न भाविता, न प्रकृतिशून्यता श्रुता न भाविता, न सर्वधर्मशून्यता श्रुता न भाविता, न स्वलक्षणशून्यता (श्स्प्_इइ-4_32) श्रुता न भाविता, नानुपलम्भशून्यता श्रुता न भाविता, नाभावशून्यताश्रुता न भाविता, न स्वभावशून्यता श्रुता न भाविता, नाभावस्वभावशून्यता श्रुता न भाविता.

न स्मृत्युपस्थानानि श्रुतानि न भावितानि, न सम्यक्प्रहाणानि श्रुतानि न भावितानि, न ऋद्धिपादाः श्रुता न भाविताः, नेन्द्रियाणि श्रुतानि न भावितानि, न बलानि श्रुतानि न भावितानि, न बोध्यङ्गानि श्रुतानि न भावितानि, नार्याष्टाङ्गो मार्गः श्रुतो न भावितः, नार्यसत्यानि श्रुतानि न भावितानि, न ध्यानानि श्रुतानि न भावितानि, नाप्रमाणानि श्रुतानि न भावितानि, नारूप्यसमापत्तयः श्रुता न भाविता, नाष्टौ विमोक्षाः श्रुता न भाविता, नानुपूर्वविहारसमापत्तयः श्रुता न भाविता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि श्रुतानि न भावितानि, नाभिज्ञाः श्रुता न भाविता, न समाधयः श्रुता न भाविता, न धारणीमुखानि श्रुतानि न भावितानि, न तथागतबलानि श्रुतानि न भावितानि, न वैशारद्यानि श्रुतानि न भावितानि, न प्रतिसंविदः श्रुता न भाविता, न महाकरुणा श्रुता न भाविता, नावेणिकबुद्धधर्माः श्रुता न भाविता, न सर्वज्ञता श्रुता न भाविता, न मार्गाकारज्ञता श्रुता न भाविता, न सर्वाकारज्ञता श्रुता न भाविता.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.