Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 21/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सर्वज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वज्ञतापरिमाणता सर्वज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,

मार्गाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मार्गाकारज्ञतायाः प्रमाणं (श्स्प्_इइ-3_205) नोपलभ्यते, आकाशापरिमाणतया मार्गाकारज्ञतापरिमाणता मार्गाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता,

सर्वाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्, तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वाकारज्ञतापरिमाणता सर्वाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता.

अनेन कौशिक पर्यायेणापरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, संज्ञापरिमाणतया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते.

चक्षुरनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो नान्तो न मध्यम् उपलभ्यते, श्रोत्रानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य नान्तो न मध्यम् उपलभ्यते, घ्राणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, जिह्वानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, कायानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य नान्तो न मध्यम् उपलभ्यते, मनोऽनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः (श्स्प्_इइ-3_206) नान्तो न मध्यम् उपलभ्यते.

रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, शब्दानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य नान्तो न मध्यम् उपलभ्यते, गन्धानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य नान्तो न मध्यम् उपलभ्यते, रसानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, धर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां नान्तो न मध्यम् उपलभ्यते.

चक्षुर्विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, घ्राणविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, जिह्वाविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, कायविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, मनोविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य नान्तो न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (श्स्प्_इइ-3_207) तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते.

पृथिवीधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, अब्धात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, तेजोधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् नान्तो न मध्यम् (श्स्प्_इइ-3_208) उपलभ्यते, वायुधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् नान्तो न मध्यम् उपलभ्यते, आकाशधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोर् नान्तो न मध्यम् उपलभ्यते, विज्ञानधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् नान्तो न मध्यम् उपलभ्यते.

अविद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्याया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, नामरूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य नान्तो न मध्यम् उपलभ्यते, षडायतनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, तृष्णानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया नान्तो न मध्यम् उपलभ्यते, उपादानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य नान्तो न मध्यम् उपलभ्यते, भवानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य नान्तो न मध्यम् उपलभ्यते, जात्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् नान्तो न मध्यम् उपलभ्यते, जरामरणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य नान्तो न मध्यम् उपलभ्यते.

दानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां (श्स्प्_इइ-3_209) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया नान्तो न मध्यम् उपलभ्यते, शीलपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया नान्तो न मध्यम् उपलभ्यते, क्षान्तिपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया नान्तो न मध्यम् उपलभ्यते, वीर्यपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विर्यपारमिताया नान्तो न मध्यम् उपलभ्यते, ध्यानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया नान्तो न मध्यम् उपलभ्यते, प्रज्ञापारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया नान्तो न मध्यम् उपलभ्यते.

अध्यात्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया नान्तो न मध्यम् उपलभ्यते, बहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, शून्यताशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया नान्तो न मध्यम् उपलभ्यते, महाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया नान्तो न मध्यम् उपलभ्यते, परमार्थशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया नान्तो न मध्यम् उपलभ्यते, संस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, असंस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, अत्यन्तशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया (श्स्प्_इइ-3_210) नान्तो न मध्यम् उपलभ्यते, अनवराग्रशून्यतानन्ततया

कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया नान्तो न मध्यम् उपलभ्यते, अनवकारशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया नान्तो न मध्यम् उपलभ्यते, प्रकृतिशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया नान्तो न मध्यम् उपलभ्यते, सर्वधर्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वलक्षणशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया नान्तो न मध्यम् उपलभ्यते, अनुपलम्भशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावस्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वनां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते.

स्मृत्युपस्थानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां नान्तो न मध्यम् उपलभ्यते, सम्यक्प्रहाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां नान्तो न मध्यम् उपलभ्यते, ऋद्धिपादानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां नान्तो न मध्यम् उपलभ्यते, इन्द्रियानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां नान्तो न मध्यम् उपलभ्यते, बलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानानि महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां नान्तो न (श्स्प्_इइ-3_211) मध्यम् उपलभ्यते, बोध्यङ्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां नान्तो न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य नान्तो न मध्यम् उपलभ्यते, आर्यसत्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां नान्तो न मध्यम् उपलभ्यते, ध्यानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां नान्तो न मध्यम् उपलभ्यते, अप्रमाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां नान्तो न

मध्यम् उपलभ्यते, आरूप्यसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, अष्टविमोक्षानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां नान्तो न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानन्ततया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नान्तो न मध्यम् उपलभ्यते, अभिज्ञानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां नान्तं नोपलभ्यते, तद् यथापि नम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, समाध्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां नान्तो न मध्यम् उपलभ्यते, धारणीमुखानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां नान्तो न मध्यम् उपलभ्यते, तथागतबलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां नान्तो न मध्यम् उपलभ्यते, वैशारद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां

नान्तो न मध्यम् उपलभ्यते, प्रतिसंविदनन्ततया (श्स्प्_इइ-3_212) कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां नान्तो न मध्यम् उपलभ्यते, महामैत्र्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः नान्तो न मध्यम् उपलभ्यते, महाकरुणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया नान्तो न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां नान्तो न मध्यम् उपलभ्यते, सर्वज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया नान्तो न मध्यम् उपलभ्यते, मार्गाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया नान्तो न मध्यम् उपलभ्यते, सर्वाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते.

अनेन कौशिक पर्यायेणानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

रूपानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, संज्ञानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय.

चक्षुरनन्तताम् उपादाय, श्रोत्रानन्तताम् उपादाय, घ्राणानन्तताम् उपादाय, जिह्वानन्तताम् उपादाय, कायानन्तताम् उपादाय, मनोनन्तताम् उपादाय.

रूपानन्तताम् उपादाय, शब्दानन्तताम् उपादाय, गन्धानन्तताम् उपादाय, रसानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, धर्मानन्तताम् उपादाय.

चक्षुर्विज्ञानानन्तताम् उपादाय, श्रोत्रविज्ञानानन्तताम् उपादाय, घ्राणविज्ञानानन्तताम् उपादाय, जिह्वाविज्ञानानन्तताम् उपादाय, कायविज्ञानानन्तताम् उपादाय, मनोविज्ञानानन्तताम् उपादाय.

चक्षुःसंस्पर्शानन्तताम् उपादाय, श्रोत्रसंस्पर्शानन्तताम् उपादाय, घ्राणसंस्पर्शानन्तताम् उपादाय, जिह्वासंस्पर्शानन्तताम् उपादाय, कायसंस्पर्शानन्तताम् उपादाय, मनःसंस्पर्शानन्तताम् उपादाय.

चक्षुःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय.

पृथिवीधात्वनन्तताम् उपादाय, अब्धात्वनन्तताम् उपादाय, तेजोधात्वनन्तताम् उपादाय, वायुधात्वनन्तताम् उपादाय, आकाशधात्वनन्तताम् उपादाय, विज्ञानधात्वनन्तताम् उपादाय, अविद्यानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय, नामरूपानन्तताम् उपादाय, षडायतनानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, तृष्णानन्तताम् उपादाय, उपादानानन्तताम् उपादाय, भवानन्तताम् उपादाय, जात्यनन्तताम् उपादाय, जरामरणानन्तताम् उपादाय.

दानपारमितानन्तताम् उपादाय, शीलपारमितानन्तताम् उपादाय, क्षान्तिपारमितानन्तताम् उपादाय, वीर्यपारमितानन्तताम् उपादाय, ध्यानपारमितानन्तताम् उपादाय, प्रज्ञापारमितानन्तताम् उपादाय.

अध्यात्मशून्यतानन्तताम् उपादाय, बहिर्धाशून्यतानन्तताम् उपादाय, अध्यात्मबहिर्धाशून्यतानन्तताम् उपादाय, शून्यताशून्यतानन्तताम् उपादाय, महाशून्यतानन्तताम् उपादाय, परमार्थशून्यतानन्तताम् उपादाय, संस्कृतशून्यतानन्तताम् उपादाय, असंस्कृतशून्यतानन्तताम् उपादाय, अत्यन्तशून्यतानन्तताम् उपादाय, अनवराग्रशून्यतानन्तताम् उपादाय, अनवकारशून्यतानन्तताम् उपादाय, प्रकृतिशून्यतानन्तताम् उपादाय, सर्वधर्मशून्यतानन्तताम् उपादाय, स्वलक्षणशून्यतानन्तताम् उपादाय, अनुपलम्भशून्यतानन्तताम् उपादाय, अभावशून्यतानन्तताम् उपादाय, स्वभावशून्यतानन्तताम् उपादाय, अभावस्वभावशून्यतानन्तताम् उपादाय.

स्मृत्युपस्थानानन्तताम् उपादाय, सम्यक्प्रहाणानन्तताम् उपादाय, ऋद्धिपादानन्तताम् उपादाय, इन्द्रियानन्तताम् उपादाय, बलानन्तताम् उपादाय, बोध्यङ्गानन्तताम् उपादाय, आर्याष्टाङ्गमार्गानन्तताम् उपादाय, आर्यसत्यानन्तताम् उपादाय, ध्यानानन्तताम् उपादाय, अप्रमाणानन्तताम् उपादाय, आरूप्यसमापत्त्यनन्तताम् उपादाय, अष्टौ विमोक्षानन्तताम् उपादाय, नवानुपूर्वविहारसमापत्त्यनन्तताम् उपादाय, शून्यतासमाध्यनन्तताम् उपादाय, आनिमित्तसमाध्यनन्तताम् उपादाय, अप्रणिहितसमाध्यनन्तताम् उपादाय, अभिज्ञानन्तताम् उपादाय, समाध्यनन्तताम् (श्स्प्_इइ-3_214) उपादाय, धारणीमुखानन्तताम् उपादाय, दशतथागतबलानन्तताम् उपादाय, चतुर्वैशारद्यानन्तताम् उपादाय, चतुःप्रतिसंविदनन्तताम् उपादाय, महामैत्र्यनन्तताम् उपादाय, महाकरुणानन्तताम् उपादाय, अष्टादशावेणिकबुद्धधर्मानन्तताम् उपादाय, स्रोतआपत्तिफलानन्तताम् उपादाय, सकृदागामिफलानन्तताम् उपादाय, अनागामिफलानन्तताम् उपादाय, अर्हत्त्वानन्तताम् उपादाय, प्रत्येकबोध्यनन्तताम् उपादाय, मार्गाकारज्ञतानन्तताम् उपादाय, सर्वाकारज्ञतानन्तताम् उपादाय.

पुनर् अपरं कौशिकालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

शक्र आह: यथा कथं पुनर् भदन्त सुभूते आलम्बनानन्ततयानन्ततपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?

सुभूतिर् आह: सर्वाकारज्ञतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

पुनर् अपरं कौशिक धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

शक्र आह: यथा कथं पुनर् भदन्त सुभूते धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?

सुभूतिर् आह: धर्मधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

पुनर् अपरं कौशिक तथतालम्बनानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

शक्र आह: यथा कथं पुनर् भदन्त सुभूते तथतालम्बनानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?

सुभूतिर् आह: कौशिक तथतालम्बनानन्ततया आलम्बनानन्तता आलम्बनानन्ततया तथतानन्तता तथतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

पुनर् अपरं कौशिक सत्त्वानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्.

शक्र आह: यथा कथं पुनर् भदनत सुभूते सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता?

सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं (श्स्प्_इइ-3_215) यद् उत सत्त्वः सत्त्व इति.

शक्र आह: नेदं भदन्त सुभूते धर्माधिवचनं नाधर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तम् अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम् अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति.

सुभूतिर् आह: तत् किं मन्यसे? कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता.

शक्र अह: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता काचित् तत्र सत्त्वानन्तता सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठ च सत्त्वः सत्त्व इति वाचं भाषेत, तत् किं मन्यसे? कौशिकापि नु तत्र कश्चित् सत्त्व उत्पद्यते वा निरुद्ध्यते वा.

शक्र आह: नो हीदं भदन्त सुभूते. तत् कस्य हेतोः? आदि विशुद्धत्वा सत्त्वस्य.

सुभूतिर् आह: तद् अनेन ते कौशिक पर्यायेण सत्त्वानन्तत्या प्रज्ञापारमितानन्तता वेदितव्या.

अथ सेन्द्रका देवाः सब्रह्मका देवाः सप्रज्ञापतिका देवाः सनारीनरगणास् त्रिस्कृत्वा उदानम् उदानयति स्म, अहो स्वाख्यातो धर्मः अहो स्वाख्यातो धर्मा अहो स्वाख्यातो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण भाष्यते यद् उत तथागतप्रादुर्भावो य तथागतस्याधिष्ठानेन तथागतस्यानुभावेन सूच्यते देश्यते प्रकास्यते.

अपि नु तथागतम् एव वयं भगवन् बोधिसत्त्वं महासत्त्वं धारयिष्यामः. यो न या प्रज्ञापारमितया अविरहिता भविष्यति, न च नाम कश्चिद् धर्म उपलभ्यते.

रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.

चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.

रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.

चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.

चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो वा कायसंस्पर्शो वा मनःसंस्पर्शो वा. चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.

पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.

अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.

दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.

अध्यात्मसून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.

स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा. त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषां त्रयाणां? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.

अथ भगवांस् तान् सेन्द्रकान् देवपुत्रान् आमन्त्रयते, एवम् एतत् तथा यथा वाचं भाषध्वे न च नाम कश्चिद् धर्म उपलभ्यते.

रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा.

चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा.

रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा.

चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा.

चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो (श्स्प्_इइ-3_217) वा कायसंस्पर्शो वा मनःसंस्पर्शो वा.

चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा.

पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा.

अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा.

दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा.

अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा.

स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदगामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा.

त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषं त्रयाणाम्? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य.

तथागत एव सदेवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यः.

यो ऽनया प्रज्ञापारमितया अविरहितो भविष्यत्य् अनुपलम्भयोगेन. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि. कतमाणि त्रीणि? यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं,

न चान्यत्र दानपारमितयास् तथागत उपलभ्यते, न चान्यत्र शीलपारमितायास् तथागत उपलभ्यते, न चान्यत्र क्षान्तिपारमितायास् (श्स्प्_इइ-3_218) तथागत उपलभ्यते, न चान्यत्र वीर्यपारमितायास् तथागत उपलभ्यते, न चान्यत्र ध्यानपारमितायास् तथागत उपलभ्यते, न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते.

न चान्यत्राध्यात्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र बहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्राध्यात्मबहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र शून्यताशून्यतायास् तथागत उपलभ्यते, न चान्यत्र महाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र परमार्थशून्यतायास् तथागत उपलभ्यते, न चान्यत्र संस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रासंस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रात्यन्तशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवराग्रशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवकारशून्यतायास् तथागत उपलभ्यते, न चान्यत्र प्रकृतिशून्यतायास् तथागत उपलभ्यते, न चान्यत्र सर्वधर्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वलक्षणशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानुपलम्भशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावस्वभावशून्यतायास् तथागत उपलभ्यते.

न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते, न चान्यत्र सम्यक्प्रहाणेभ्यस् तथागत उपलभ्यते, न चान्यत्र ऋद्धिपादेभ्यस् तथागत उपलभ्यते, न चान्यत्रेन्द्रियेभ्यस् तथागत उपलभ्यते, न चान्यत्र बलेभ्यस् तथागत उपलभ्यते, न चान्यत्र बोध्यङ्गेभ्यस् तथागत उपलभ्यते, न चान्यत्रार्याष्टाङ्गमार्गेभ्यस् तथागत उपलभ्यते, न चान्यत्र आर्यसत्येभ्यस् तथागत उपलभ्यते, न चान्यत्र ध्यानेभ्यस् तथागत उपलभ्यते, न चान्यत्राप्रमाणेभ्यस् तथागत उपलभ्यते, न चान्यत्रारूप्यसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र विमोक्षेभ्यस् तथागत उपलभ्यते, न चान्यत्रानुपूर्वविहारसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्राभिज्ञाभ्यस् तथागत उपलभ्यते, न चान्यत्र समाधिभ्यस् तथागत उपलभ्यते, न चान्यत्र धारणीमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्र तथागतबलेभ्यस् तथागत उपलभ्यते, न चान्यत्र वैशारद्येभ्यस् तथागत उपलभ्यते, न चान्यत्र प्रतिसंविद्भ्यस् तथागत उपलभ्यते, न चान्यत्र महामैत्र्यास् तथागत उपलभ्यते, न चान्यत्र महाकरुणायास् (श्स्प्_इइ-3_219) तथागत उपलभ्यते, न चान्यत्रावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते, न चान्यत्र सर्वज्ञतायास् तथागत उपलभ्यते, न चान्यत्र मार्गाकारज्ञतायास् तथागत उपलभ्यते, न चान्यत्र सर्वाकारज्ञतायस् तथागत उपलभ्यते.

बोधिसत्त्वाश् च देवपुत्रा महासत्त्वाः सर्वत्रात्र धर्मेषु शिक्षते, दानपारमितायां शिक्षते, शीलपारमितायां शिक्षते, क्षान्तिपारमितायां शिक्षते, वीर्यपारमितायां शिक्षते, ध्यानपारमितायां शिक्षते, प्रज्ञापारमितायां शिक्षते.

अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, शून्यताशून्यतायां शिक्षते, महाशून्यतायां शिक्षते, परमार्थशून्यतायां शिक्षते, संस्कृतशून्यतायां शिक्षते, असंस्कृतशून्यतायां शिक्षते, अत्यन्तशून्यतायां शिक्षते, अनवराग्रशून्यतायां शिक्षते, अनवकारशून्यतायां शिक्षते, प्रकृतिशून्यतायां शिक्षते, सर्वधर्मशून्यतायां शिक्षते, स्वलक्षणशून्यतायां शिक्षते, अनुपलम्भशून्यतायां शिक्षते, अभावशून्यतायां शिक्षते, स्वभावशून्यतायां शिक्षते, अभावस्वभावशून्यतायां शिक्षते.

स्मृत्युपस्थानेषु शिक्षते, सम्यक्प्रहाणेषु शिक्षते, ऋद्धिपादेषु शिक्षते, इन्द्रियेषु शिक्षते, बलेषु शिक्षते, बोध्यङ्गेषु शिक्षते, आर्याष्टाङ्गमार्गे शिक्षते, आर्यसत्येषु शिक्षते, ध्यानेषु शिक्षते, अप्रमाणेषु शिक्षते, आरूप्यसमापत्तिषु शिक्षते, अष्टौ विमोक्षेषु शिक्षते, नवानुपूर्वविहारसमापत्तिषु शिक्षते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते, अभिज्ञासु शिक्षते, समाधिषु शिक्षते, धारणीमुखेषु शिक्षते, तथागतबलेषु शिक्षते, वैशारद्येषु शिक्षते, प्रतिसंवित्सु शिक्षते, महामैत्र्यां शिक्षते, महाकरुणायां शिक्षते, आवेणिकबुद्धधर्मेषु शिक्षते, स्रोतआपत्तिफले शिक्षते, सकृदागामिफले शिक्षते, अनागामिफले शिक्षते, अर्हत्त्वे शिक्षते, प्रत्येकबोधौ शिक्षते, मार्गाकारज्ञतायां शिक्षते, सर्वाकारज्ञतायां शिक्षते.

तस्मात् तर्हि देवपुत्रास् तथागत एव बोधिसत्त्वो महासत्त्वो वक्तव्यः, यो ऽनया प्रज्ञापारमितया अविरहितश् च भविष्यति.

यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यानिके पद्मावत्यां राजधान्याम् अन्तरापणमध्यगतो दानपारमितया अविरहितो ऽभूवन्, शीलपारमितया अविरहितो ऽभूवन्, क्षान्तिपारमितया अविरहितो ऽभूवन्, वीर्यपारमितया अविरहितो ऽभूवन्, (श्स्प्_इइ-3_220) ध्यानपारमितया अविरहितो ऽभूवन्, प्रज्ञापारमितया अविरहितो ऽभूवन्.

अध्यात्मशून्यतया अविरहितो ऽभूवन्, बहिर्धाशून्यतया अविरहितो ऽभूवन्, अध्यात्मबहिर्धाशून्यतया अविरहितो ऽभूवन्, शून्यताशून्यतया अविरहितो ऽभूवन्, महाशून्यतया अविरहितो ऽभूवन्, परमार्थशून्यतया अविरहितो ऽभूवन्, संस्कृतशून्यतया अविरहितो ऽभूवन्, असंस्कृतशून्यतया अविरहितो ऽभूवन्, अत्यन्तशून्यतया अविरहितो ऽभूवन्, अनवराग्रशून्यतया अविरहितो ऽभूवन्, अनवकारशून्यतया अविरहितो ऽभूवन्, प्रकृतिशून्यतया अविरहितो ऽभूवन्, सर्वधर्मशून्यतया अविरहितो ऽभूवन्, स्वलक्षणशून्यतया अविरहितो ऽभूवन्, अनुपलम्भशून्यतया अविरहितो ऽभूवन्, अभावशून्यतया अविरहितो ऽभूवन्, स्वभावशून्यतया अविरहितो ऽभूवन्, अभावस्वभावशून्यतया अविरहितो ऽभूवन्.

स्मृत्युपस्थानैर् अविरहितो ऽभूवन्, सम्यक्प्रहाणैर् अविरहितो ऽभूवन्, ऋद्धिपादैर् अविरहितो ऽभूवन्, इन्द्रियैर् अविरहितो ऽभूवन्, बलैर् अविरहितो ऽभूवन्, बोध्यङ्गैर् अविरहितो ऽभूवन्, आर्याष्टाङ्गेन मार्गेणाविरहितो ऽभूवन्, आर्यसत्यैर् अविरहितो ऽभूवन्, ध्यानैर् अविरहितो ऽभूवन्, अप्रमाणैर् अविरहितो ऽभूवन्, आरूप्यसमापतिभिर् अविरहितो ऽभूवन्, अष्टौ विमोक्षैर् अविरहितो ऽभूवन्, नवानुपूर्वविहारसमापत्तिभिर् अविरहितो ऽभूवन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अविरहितो ऽभूवन्, अभिज्ञाभिर् अविरहितो ऽभूवन्, समाधिभिर् अविरहितो ऽभूवन्, धारणीमुखैर् अविरहितो ऽभूवन्, तथागतबलैर् अविरहितो ऽभूवन्, वैशारद्यैर् अविरहितो ऽभूवन्, चतस्रः प्रतिसंविद्भिर् अविरहितो ऽभूवन्, महामैत्र्याविरहितो ऽभूवन्, महाकरुणाया अविरहितो ऽभूवन्, आवेणिकबुद्धधर्मैर् अविरहितो ऽभूवन्.

अन्यैर् अन्यैश् चापरिमाणैर् बुद्धधर्मैर् अविरहितो ऽभूवन् तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतानुत्तरां सम्यक्संबोधौ भविष्यसि त्वं मानवानागते ऽध्वनि भद्रकल्पे, अस्मिन्न् एव लोकधाताव् असंख्येयैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सास्ता देवानां च मणुष्याणां बुद्धो बुद्धो भगवान्.

अथ देवपुत्रा भगवन्तम् एतद् अवोचन्: आश्चर्य भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका,

रूपस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, संज्ञाया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहनुत्सर्गयोगेन.

चक्षुषो ऽपरिग्रहानुत्सर्गयोगेन, श्रोत्रस्यापरिग्रहानुत्सर्गयोगेन, घ्राणस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाया अपरिग्रहानुत्सर्गयोगेन, कायस्यापरिग्रहानुत्सर्गयोगेन, मनसो ऽपरिग्रहानुत्सर्गयोगेन.

रूपस्यापरिग्रहानुत्सर्गयोगेन, शब्दस्यापरिग्रहानुत्सर्गयोगेन, गन्धस्यापरिग्रहानुत्सर्गयोगेन, रसस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, धर्माणाम् अपरिग्रहानुत्सर्गयोगेन.

चक्षुर्विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, श्रोत्रविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, घ्राणविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, कायविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, मनोविज्ञानस्यापरिग्रहानुत्सर्गयोगेन.

चक्षुःसंस्पर्शस्यापरिग्रहारिउत्सर्गयोगेन, श्रोत्रसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन.

चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन.

पृथिवीधातोर् अपरिग्रहानुत्सर्गयोगेन, अब्धातोर् अपरिग्रहानुत्सर्गयोगेन, तेजोधातोर् अपरिग्रहानुत्सर्गयोगेन, वायुधातोर् अपरिग्रहानुत्सर्गयोगेन, आकाशधातोर् अपरिग्रहानुत्सर्गयोगेन, विज्ञानधातोर् अपरिग्रहानुत्सर्गयोगेन,

अविद्याया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, नामरूपस्यापरिग्रहानुत्सर्गयोगेन, षडायतनस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, तृष्णाया अपरिग्रहानुत्सर्गयोगेन, उपादानस्यापरिग्रहानुत्सर्गयोगेन, भवस्यापरिग्रहानुत्सर्गयोगेन, जातेर् अपरिग्रहानुत्सर्गयोगेन, जरामरणस्यापरिग्रहानुत्सर्गयोगेन.

दानपारमिताया अपरिग्रहानुत्सर्गयोगेन, शीलपारमिताया अपरिग्रहानुत्सर्गयोगेन, क्षान्तिपारमिताया अपरिग्रहानुत्सर्गयोगेन, वीर्यपारमिताया अपरिग्रहानुत्सर्गयोगेन, ध्यानपारमिताया अपरिग्रहानुत्सर्गयोगेन, प्रज्ञापारमिताया अपरिग्रहानुत्सर्गयोगेन.

अध्यात्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, बहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, अध्यात्मबहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, सून्यताशून्यताया अपरिग्रहानुत्सर्गयोगेन, महाशून्यताया अपरिग्रहानुत्सर्गयोगेन, परमार्थशून्यताया अपरिग्रहानुत्सर्गयोगेन, संस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, असंस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, अत्यन्तशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवराग्रशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवकारशून्यताया अपरिग्रहानुत्सर्गयोगेन, प्रकृतिशून्यताया अपरिग्रहानुत्सर्गयोगेन, सर्वधर्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वलक्षणशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनुपलम्भशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावस्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन.

स्मृत्युपस्थानानाम् अपरिग्रहानुत्सर्गयोगेन, सम्यक्प्रहाणानाम् अपरिग्रहानुत्सर्गयोगेन, ऋद्धिपादानाम् अपरिग्रहानुत्सर्गयोगेन, इन्द्रियाणाम् अपरिग्रहानुत्सर्गयोगेन, बलानाम् अपरिग्रहानुत्सर्गयोगेन, बोध्यङ्गानाम् अपरिग्रहानुत्सर्गयोगेन, आर्याष्टाङ्गस्य मार्गस्यापरिग्रहानुत्सर्गयोगेन, आर्यसत्यानाम् अपरिग्रहानुत्सर्गयोगेन, ध्यानानाम् अपरिग्रहानुत्सर्गयोगेन, अप्रमाणानाम् अपरिग्रहानुत्सर्गयोगेन, आरूप्यसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, अष्टौ विमोक्षाणाम् अपरिग्रहानुत्सर्गयोगेन, नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहानुत्सर्गयोगेन, अभिज्ञानाम् अपरिग्रहानुत्सर्गयोगेन, समाधीनाम् अपरिग्रहानुत्सर्गयोगेन, धारणीमुखानाम् अपरिग्रहानुत्सर्गयोगेन, तथागतबलानाम् अपरिग्रहानुत्सर्गयोगेन, वैशारद्यानाम् अपरिग्रहानुत्सर्गयोगेन, प्रतिसंविदाम् अपरिग्रहानुत्सर्गयोगेन, महामैत्र्या अपरिग्रहानुत्सर्गयोगेन, महाकरुणानाम् अपरिग्रहानुत्सर्गयोगेन, अष्टादशावेणिकबुद्धधर्माणाम् अपरिग्रहानुत्सर्गयोगेन, सर्वज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, मार्गाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, सर्वाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन.

अथ भगवांश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकान् बोधिसत्त्वान् महासत्त्वांश् चातुर्महाराजकायिकांश् च देवपुत्रां त्रायस्त्रिंशांश् च देवपुत्रान् उपमांश् च देवपुत्रांस् तुषितांश् च देवपुत्रान् निर्माणरतिश् च देवपुत्राश् च देवपुत्रान् परनिर्मितवशवर्तिश् च देवपुत्रा ब्रह्मकायिकाश् च देवपुत्रा ब्रह्मपुरोहितांश् च देवपुत्रान् ब्रह्मपार्षद्याश् च देवपुत्रान् महाब्रह्माणश् च देवपुत्रान् आभाश् च देवपुत्रान् परीत्ताभांश् च देवपुत्रान् अप्रमाणाभांश् च देवान् आभास्वरांश् च देवान् शुभांश् च देवान् परीत्तशुभांश् च देवान् प्रमाणशुभांश् च देवान् शुभकृत्ष्णांश् च देवान् बृहाश् च देवान् परीत्तबृहाश् च देवान् प्रमाणबृहांश् च देवान् बृहत्फलांश् च देवान् अवृहाश् च देवान् अतपांश् च देवान् सदृशाश् च देवान् सुदर्शनांश् च देवान् अकनिष्ठांश् च देवान् संनिपतितां संनिषण्णां विदित्वा तान् सर्वां साक्षिणं कृत्वा शक्रदेवानाम् इन्द्रम् आमन्त्रयते स्म.

ये केचित् कौशिक बोधिसत्त्वा महासत्त्वाः भिक्षुभिक्षुण्युपासकोपसिकाः कुलपुत्राः कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति. न तेषां मारपापीयां मारकायिका देवता अवतारं लप्स्यते.

तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, संज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाशून्यतैव स्वधिष्ठिता भविष्यति, कायशून्यतैव स्वधिष्ठिता भविष्यति, मनःशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा रूपशून्यतैव स्वधिष्ठिता (श्स्प्_इइ-3_224) भविष्यति, शब्दशून्यतैव स्वधिष्ठिता भविष्यति, गन्धशून्यतैव स्वधिष्ठिता भविष्यति, रससून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, धर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुर्विज्ञानसून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, मनोविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न सून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वासंस्पर्शप्रत्ययवेदना सून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शप्रत्ययवेदनासून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा पृथिवीधातुशून्यतैव स्वधिष्ठिता भविष्यति, अब्धातुशून्यतैव स्वधिष्ठिता भविष्यति, तेजोधातुशून्यतैव स्वधिष्ठिता भविष्यति, वायुधातुशून्यतैव स्वधिष्ठिता भविष्यति, आकाशधातुशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानधातुशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता (श्स्प्_इइ-3_225) शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वाविद्याशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, नामरूपशून्यतैव स्वधिष्ठिता भविष्यति, षडायतनशून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, तृष्णाशून्यतैव स्वधिष्ठिता भविष्यति, उपादानशून्यतैव स्वधिष्ठिता भविष्यति, भवशून्यतैव स्वधिष्ठिता भविष्यति, जातिशून्यतैव स्वधिष्ठिता भविष्यति, जरामरणशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा दानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, शीलपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, क्षान्तिपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, वीर्यपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, प्रज्ञापारमिताशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा अध्यात्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, बहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अध्यात्मबहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, शून्यताशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, महाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, परमार्थशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, संस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, असंस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अत्यन्तशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवराग्रशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवकारशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, प्रकृतिशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वधर्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वलक्षणशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनुपलम्भशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावस्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं (श्स्प्_इइ-3_226) लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा स्मृत्युपस्थानशून्यतैव स्वधिष्ठिता भविष्यति, सम्यक्प्रहाणशून्यतैव स्वधिष्ठिता भविष्यति, ऋद्धिपादशून्यतैव स्वधिष्ठिता भविष्यति, इन्द्रियशून्यतैव स्वधिष्ठिता भविष्यति, बलशून्यतैव स्वधिष्ठिता भविष्यति, बोध्यङ्गशून्यतैव स्वधिष्ठिता भविष्यति, आर्याष्टाङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वार्यसत्यशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानशून्यतैव स्वधिष्ठिता भविष्यति, अप्रमाणशून्यतैव स्वधिष्ठिता भविष्यति, आरूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, विमोक्षशून्यतैव स्वधिष्ठिता भविष्यति, अनुपूर्वविहारसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतैव स्वधिष्ठिता भविष्यति, अभिज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, समाधिशून्यतैव स्वधिष्ठिता भविष्यति, धारणीमुखशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा तथागतबलशून्यतैव स्वधिष्ठिता भविष्यति, वैशारद्यशून्यतैव स्वधिष्ठिता भविष्यति, प्रतिसंविच्छून्यतैव स्वधिष्ठिता भविष्यति, महामैत्रीशून्यतैव स्वधिष्ठिता भविष्यति, महाकरुणाशून्यतैव स्वधिष्ठिता भविष्यति, आवेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते.

तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, मार्गाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन चावतारं लभे चरन्, यत्र चावतारं लभेरम्, यस्य चावतारं लभेरन्.

न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां मनुस्या वामनुष्या वावतारं प्रेक्षावतारगवेष्य् अवतारं लप्स्यते. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वसत्त्वानाम् अन्तिके (श्स्प्_इइ-3_227) मैत्रीकरुणामुदितोपेक्षासु भाविता तच् चानुपलम्भयोगेन. न च स कुलपुत्रो वा कुलदुहितरो वा विषमा परिहारेण कालं भविष्यति.

तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा दानपारमितायां चरद्भिः सर्वसत्त्वा सम्यक्परिहारेण नोपस्थिता यो वा कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ, चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, यैश् च देवपुत्रैर् इयं प्रज्ञापारमिता न स्रुता नोद्गृहीता न धारिता पर्यवाप्ता तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्गृहीतव्या धारयितव्या पर्यवाप्तव्या योनिसो मनसिकर्तव्या सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यम्.

पुनर् अपरं कौशिक ये कुलपुत्राः कुलदुहितरश् चेमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति सर्वाकारज्ञताचित्तेन चाविरहितो भविष्यन्ति.

न खलु पुनस् तेषां कुलपुत्राणां कुलदुहितॄणां च शून्यागारगतानां वाभ्यवकाशगतानां चोत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, बहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, शून्यताशून्यतासु भाविता तच् चानुपलम्भयोगेन, महाशून्यतासु भाविता तच् चानुपलम्भयोगेन, परमार्थशून्यतासु भाविता तच् चानुपलम्भयोगेन, संस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, असंस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, अत्यन्तशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवराग्रशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवकारशून्यतासु भाविता तच् चानुपलम्भयोगेन, प्रकृतिशून्यतासु भाविता तच् चानुपलम्भयोगेन, सर्वधर्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वलक्षणशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनुपलम्भशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावस्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन.

अथ खलु तस्यां वेलायां यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे भगवन्तम् एतद् अवोचन्: वयं भगवन् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामो य इमां गंभीरां प्रज्ञापारमिताम् अधिमोक्षन्ते उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञता मनसिकारेण. तत् कस्य हेतोः? बोधिसत्त्वं हि भगवन् महासत्त्वम् आगम्य नरका उच्छिद्यन्ते, यमलोक उच्छिद्यन्ते देवदारिद्यम् उच्छिद्यन्ते मनुष्यदारिद्यम् उच्छिद्यन्ते, इत्युपद्रवोपसर्गा सर्व उच्छिद्यन्ते विनस्यन्ति, न भवन्ति दुर्भिक्षकान्ताराः सर्व उच्छिद्यन्ते बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके पुरादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.

दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.

अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति.

चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.

बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महारजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वर देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, (श्स्प्_इइ-3_230) अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते,

बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नो प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिं प्रज्ञायते, तथागता अर्हत सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.

अनेन च भगवन् पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरेण लोकेन रक्षावरणगुप्तिः संविध्यतव्या.

एवम् उक्ते भगवांच् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतद् कौशिक एवम् एतद्, बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति.

दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति.

अध्यात्मसून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया (श्स्प्_इइ-3_231) लोके प्रादुर्भावो भवति.

चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति.

बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीतशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीतबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः (श्स्प्_इइ-3_232) प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते.

बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते.

बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागता अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते.

तस्माद् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः, सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, मान्स कौशिक सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं मन्यते, बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येत्.

तस्माद् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयीतव्यः सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, यच् च कौशिकायं त्रिसाहस्रमहासाहस्रो

लोकधातुः परिपूर्णे भवेच् छ्रावकप्रत्येकबुद्धैस् तद् यथा पि नाम नडवनं वा इक्ष्वनं वा शरवनं वा शारवनं वा शारिवनं वा तिलवनं वा तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यवज्जीवं सत्कुर्यात् मानयेत् पूजयेत् सर्वोपकरणैर् यश् चैकं बोधिसत्त्वं महासत्त्वं प्रथमचित्तोत्पादिकं षड्भिः पारमिताभिर् अविरहितं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेद् अयम् अयम् एव ततो बहुततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? न खलु पुनः कौशिक तांच् छ्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वो महासत्त्वो लोके प्रज्ञायते, न तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते.

बोधिसत्त्वं पुनः कौशिक महासत्त्वम् आगम्य सर्वश्रावकप्रत्येकबुद्धो लोके प्रज्ञायते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायते. तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चास्या रक्षावरणगुप्तिः संविधातव्या.

शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः षोडशमः

शतसाहस्रिका प्रज्ञापारमिता इइ-4

[क्. 171अ1, न्. 326ब्5, त्. 266अ1, प्. अ-156अ6, छ्. 557ब्13] अथ खलु शक्रो देवाणाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेयं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तो धारयन्तो वाचयन्तः पर्यवाप्नुवन्तो योनिशश् च मनसिकुर्वन्त इह धार्मिकान् गुणान् परिगृह्णन्ति सत्त्वांश् च परिपाचयन्ति, बुद्धक्षेत्रं परिशोधयन्ति बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन्ति, बुद्धान् भगवतः पर्युपासीनाः यैश् च कुशलमूलैर् आकाङ्क्षन्ति तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान् येषां कुशलमूलानि समृध्यन्ति यच् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृण्वति स तावन् न विप्रमुष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा भवन्ति, कुलसंपदं च परिगृह्णन्ति, जननीसंपदं च परिगृह्णन्ति, जन्मसंपदं च परिगृह्णन्ति परिवारसंपदं च परिगृह्णन्ति लक्षणसंपदं च परिगृह्णन्ति, प्रभासंपदं परिगृह्णन्ति, चक्षुःसंपदं च परिगृह्णन्ति स्वरसंपदं च परिगृह्णन्ति समाधिसंपदं च परिगृह्णन्ति धारणीसंपदं च परिगृह्णन्ति उपायकौशल्येन चात्मानं बुद्धविग्रहम् अभिनिर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् अनुत्पादः प्रादुर्भावो नास्ति, ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते, शीलपारमिताया वर्णं भाषन्ते, क्षान्तिपारमिताया वर्णं भाषन्ते, वीर्यपारमिताया वर्णं भाषन्ते, ध्यानपारमिताया वर्णं भाषन्ते, प्रज्ञापारमिताया वर्णं भाषन्ते.

अध्यात्मशून्यताया वर्णं भाषन्ते, बहिर्धाशून्यताया वर्णं भाषन्ते, अध्यात्मबहिर्धाशून्यताया वर्णं भाषन्ते, शून्यताशून्यताया वर्णं भाषन्ते, महाशून्यताया वर्णं भाषन्ते, परमार्थशून्यताया वर्णं भाषन्ते, संस्कृतशून्यताया वर्णं भाषन्ते, असंस्कृतशून्यताया वर्णं भाषन्ते, अत्यन्तशून्यताया वर्णं भाषन्ते, अनवराग्रशून्यताया वर्णं भाषन्ते, अनवकारशून्यताया वर्णं भाषन्ते, प्रकृतिशून्यताया वर्णं भाषन्ते, सर्वधर्मशून्यताया वर्णं भाषन्ते, स्वलक्षणशून्यताया (श्स्प्_इइ-4_2) वर्णं भाषन्ते, अनुपलम्भशून्यताया वर्णं भाषन्ते, अभावशून्यताया वर्णं भासन्ते, स्वभावशून्यताया वर्णं भाषन्ते, अभावस्वभावशून्यताया वर्णं भाषन्ते.

चतुर्णां ध्यानानां वर्णं भाषन्ते, चतुर्णाम् अप्रमाणानां वर्णं भाषन्ते, चतसृणाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते, पञ्चानाम् अभिज्ञानां वर्णं भाषन्ते, चतुर्णां स्मृत्युपस्थानानां वर्णं भाषन्ते, चतुर्णां सम्यक्प्रहाणानां वर्णं भाषन्ते, चतुर्णाम् ऋद्धिपादानां वर्णं भाषन्ते, पञ्चानाम् इन्द्रियाणां वर्णं भाषन्ते, पञ्चानां बलानां वर्णं भाषन्ते, सप्तानां बोध्यङ्गानां वर्णं भाषन्ते, आर्याष्टाङ्गस्य मार्गस्य वर्णं भाषन्ते, चतुर्णाम् आर्यसत्यानां वर्णं भाषन्ते, अष्टानां विमोक्षाणां वर्णं भाषन्ते, नवानुपूर्वविहारसमापत्तीनां वर्णं भाषन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वर्णं भाषन्ते, समाधीनं वर्णं भाषन्ते, धारणीमुखानां वर्णं भाषन्ते, दशानां तथागतबलानां वर्णं भाषन्ते, चतुर्णां वैशारद्यानां वर्णं भाषन्ते, चतसृणां प्रतिसंविदां वर्णं भासन्ते, महामैत्र्या वर्णं भाषन्ते, महाकरुणाया वर्णं भाषन्ते, अष्टादशानाम् आवेणिकबुद्धधर्माणां वर्णं भाषन्ते. उपायकौशल्येन च सत्त्वेभ्यो धर्मं देशयन्ति त्रिषु च यानेषु सत्त्वान् विनयन्ति, श्रावकयाने प्रत्येकबुद्धयाने महायाने.

अथ शक्रो देवानाम् इन्द्रः पुनर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेदं प्रज्ञापारमितया परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.