Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 20/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता (श्स्प्_इइ-3_174) प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता,

न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता,

नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता,

नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता,

न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता,

नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता.

न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता,

न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता,

नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, (श्स्प्_इइ-3_175) नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादधर्मतायाः प्रज्ञापारमिता,

नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता,

न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता,

न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता,

नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात् प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता,

नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता,

न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता,

नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता,

नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता,

नाष्टौ विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता,

नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता,

न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता,

नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापारमिता,

न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता,

न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता,

न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता,

न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता,

न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता,

न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता,

न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता,

नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता,

न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता,

न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता,

न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता.

अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त (श्स्प्_इइ-3_178) सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः, स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणो बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.

सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणैर् बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च.

रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य (श्स्प्_इइ-3_179) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुर्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शब्दमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, गन्धमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, रसमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां न पूर्वान्त उपलभ्यते, (श्स्प्_इइ-3_180) नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुर्विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वाविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त (श्स्प्_इइ-3_181) उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

चक्षुःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसर्न्स्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

पृथिवीधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वायुधातुमहद्गततया कौशिक महापारमितेयं (श्स्प्_इइ-3_182) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाकाशधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

अविद्यामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, नामरूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, षडायतनमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तृष्णामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते

न मध्यम् उपलभ्यते, उपादानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, भवमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (श्स्प्_इइ-3_183) तत् कस्य हेतोः? तथा हि कौशिक भ्वस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जातिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जरामरणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

दानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शीलपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, क्षान्तिपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वीर्यपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रज्ञापारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

अध्यात्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया (श्स्प्_इइ-3_184) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यताशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, परमार्थशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यतामहद्गततया

कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अत्यन्तशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रकृतिशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वधर्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वलक्षणशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते (श्स्प्_इइ-3_185) न मध्यम् उपलभ्यते, अनुपलम्भशून्यतामहद्गततया कौशिक महापारमितेयं

बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

स्मृत्युपस्थानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सम्यक्प्रहाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकर्द्धिपादानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बोध्यङ्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां (श्स्प्_इइ-3_186) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि

कौशिकार्यसत्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विमोक्षाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते

न मध्यम् उपलभ्यते, समाधिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धारणीमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तथागतबलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वैशारद्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक (श्स्प्_इइ-3_187) वैशारद्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रतिसंविद्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महामैत्रीमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्या न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाकरुणामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां

महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मार्गाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते.

अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता.

रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता (श्स्प्_इइ-3_188) वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, संज्ञापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संज्ञापरिमाणता संज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुरप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुषः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुरपरिमाणता चक्षुरपरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्राप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रापरिमाणता श्रोत्रापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणापरिमाणता घ्राणापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वायाः (श्स्प्_इइ-3_189) प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वापरिमाणता जिह्वापरिमाणतया प्रज्ञापारमितापरिमाणता, कायाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायापरिमाणता कायापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनसः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोपरिमाणता मनोपरिमाणतया प्रज्ञापारमितापरिमाणता,

रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, शब्दाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शब्दस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शब्दापरिमाणता शब्दापरिमाणतया प्रज्ञापारमितापरिमाणता, गन्धाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक गन्धस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया गन्धापरिमाणता गन्धापरिमाणतया प्रज्ञापारमितापरिमाणता, रसाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रसस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रसापरिमाणता रसापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (श्स्प्_इइ-3_190) नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, धर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धर्मापरिमाणता धर्मापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुर्विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुर्विज्ञानापरिमाणता चक्षुर्विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रविज्ञानापरिमाणता श्रोत्रविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणविज्ञानापरिमाणता घ्राणविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वाविज्ञानापरिमाणता जिह्वाविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, कायविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं

बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायविज्ञानापरिमाणता (श्स्प्_इइ-3_191) कायविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोविज्ञानापरिमाणता मनोविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शापरिमाणता चक्षुःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शापरिमाणता श्रोत्रसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शापरिमाणता घ्राणसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शापरिमाणता जिह्वासंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता,

कायसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शापरिमाणता कायसंस्पर्शापरिमाणतया (श्स्प्_इइ-3_192) प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनःसंस्पर्शापरिमाणता मनःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता.

चक्षुःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणता श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणता घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं

नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणता जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शप्रत्ययवेदनाप्रमाणतया (श्स्प्_इइ-3_193) कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शप्रत्ययवेदनापरिमाणता कायसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता.

पृथिवीधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया पृथिवीधात्वपरिमाणता पृथिवीधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, अब्धात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाब्धातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अब्धात्वपरिमाणता अब्धात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, तेजोधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तेजोधात्वपरिमाणता तेजोधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, वायुधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वायुधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वायुधात्वपरिमाणता वायुधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, आकाशधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं (श्स्प्_इइ-3_194) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक

आकाशधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाकाशधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आकाशधात्वपरिमाणता आकाशधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानधात्वपरिमाणता विज्ञानधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता.

अविद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अविद्यापरिमाणता अविद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,

संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता,

विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता,

नामरूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया नामरूपापरिमाणता नामरूपापरिमाणतया प्रज्ञापारमितापरिमाणता,

षडायतनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया (श्स्प्_इइ-3_195) षडायतनापरिमाणता षडायतनापरिमाणतया प्रज्ञापारमितापरिमाणता,

स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता,

वेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता,

तृष्णाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तृष्णापरिमाणता तृष्णापरिमाणतया प्रज्ञापारमितापरिमाणता,

उपादानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकोपादानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपादानापरिमाणता उपादानापरिमाणतया प्रज्ञापारमितापरिमाणता,

भवाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक भवस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया भवापरिमाणता भवापरिमाणतया प्रज्ञापारमितापरिमाणता,

जात्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जातेः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जात्यपरिमाणता जात्यपरिमाणतया प्रज्ञापारमितापरिमाणता,

जरामरणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोह्? तथा हि कौशिक जरामरनस्य प्रमाणं (श्स्प्_इइ-3_196) नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जरामरणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जरामरणापरिमाणता जरामरणापरिमाणतया प्रज्ञापारमितापरिमाणता.

दानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया दानपारमितापरिमाणता दानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,

शीलपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शीलपारमितापरिमाणता शीलपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,

क्षान्तिपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया क्षान्तिपारमितापरिमाणता क्षान्तिपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,

वीर्यपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमितायः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वीर्यपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वीर्यपारमितापरिमाणता वीर्यपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,

ध्यानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानपारमितापरिमाणता ध्यानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता,

प्रज्ञापारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रज्ञापारमितापरिमाणता प्रज्ञापारमितापरिमाणतया प्रज्ञापारमितापरिमाणता.

अध्यात्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

बहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बहिर्धाशून्यतापरिमाणता बहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अध्यात्मबहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मबहिर्धाशून्यतापरिमाणता अध्यात्मबहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

शून्यताशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यताशून्यतापरिमाणता शून्यताशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

महाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (श्स्प्_इइ-3_198) नोपलभ्यते, एवम् एव कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाशून्यतापरिमाणता महाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

परमार्थशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया परमार्थशून्यतापरिमाणता परमार्थशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

संस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कृतशून्यतापरिमाणता संस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

असंस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया असंस्कृतशून्यतापरिमाणता असंस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अत्यन्तशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमणतया अत्यन्तशून्यतापरिमाणता अत्यन्तशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अनवराग्रशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवराग्रशून्यतापरिमाणता अनवराग्रशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अनवकारशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवकारशून्यतापरिमाणता अनवकारशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

प्रकृतिशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रकृतिशून्यतापरिमाणता प्रकृतिशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

सर्वधर्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वधर्मशून्यतापरिमाणता सर्वधर्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

स्वलक्षणशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वलक्षणशून्यतापरिमाणता स्वलक्षणशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपलम्भशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपलम्भशून्यतापरिमाणता अनुपलम्भशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाअभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावशून्यतायाः प्रमाणं नोपलभ्यते, (श्स्प्_इइ-3_200) आकाशापरिमाणतया अभावशून्यतापरिमाणता अभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

स्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वभावशून्यतापरिमाणता स्वभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता,

अभावस्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभावस्वभावशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता.

स्मृत्युपस्थानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्मृत्युपस्थानापरिमाणता स्मृत्युपस्थानापरिमाणतया प्रज्ञापारमितापरिमाणता,

सम्यक्प्रहाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सम्यक्प्रहाणापरिमाणता सम्यक्प्रहाणापरिमाणतया प्रज्ञापारमितापरिमाणता,

ऋद्धिपादाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ऋद्धिपादानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ऋद्धिपादापरिमाणता ऋद्धिपादापरिमाणतया प्रज्ञापारमितापरिमाणता,

इन्द्रियाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां (श्स्प्_इइ-3_201) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया इन्द्रियापरिमाणता इन्द्रियापरिमाणतया प्रज्ञापारमितापरिमाणता,

बलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बलापरिमाणता बलापरिमाणतया प्रज्ञापारमितापरिमाणता,

बोध्यङ्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बोध्यङ्गापरिमाणता बोध्यङ्गापरिमाणतया प्रज्ञापारमितापरिमाणता,

आर्याष्टाङ्गमार्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्याष्टाङ्गस्य मार्गस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्याष्टाङ्गमार्गापरिमाणता आर्याष्टाङ्गमार्गापरिमाणतया प्रज्ञापारमितापरिमाणता,

आर्यसत्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्यसत्यापरिमाणता आर्यसत्यापरिमाणतया प्रज्ञापारमितापरिमाणता,

ध्यानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानापरिमाणता ध्यानापरिमाणतया प्रज्ञापारमितापरिमाणता,

अप्रमाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, (श्स्प्_इइ-3_202) एवम् एव कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अप्रमाणापरिमाणता अप्रमाणापरिमाणतया प्रज्ञापारमितापरिमाणता,

आरूप्यसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आरूप्यसमापत्त्यापरिमाणता आरूप्यसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,

अष्टविमोक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विमोक्षापरिमाणता विमोक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,

अनुपूर्वविहारसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपूर्वविहारसमापत्त्यापरिमाणता अनुपूर्वविहारसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता,

शून्यतानिमित्ताप्रणिहितविमोक्षमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणता शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,

अभिज्ञाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभिज्ञापरिमाणता अभिज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता,

समाध्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक समाधीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया समाध्यपरिमाणता समाध्यापरिमाणतया प्रज्ञापारमितापरिमाणता, धारणीमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धारणीमुखापरिमाणता धारणीमुखापरिमाणतया प्रज्ञापारमितापरिमाणता,

तथागतबलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तथागतबलापरिमाणता तथागतबलापरिमाणतया प्रज्ञापारमितापरिमाणता,

वैशारद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वैशारद्यापरिमाणता वैशारद्यापरिमाणतया प्रज्ञापारमितापरिमाणता,

प्रतिसंविदप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रतिसंविदपरिमाणता प्रतिसंविदपरिमाणतया प्रज्ञापारमितापरिमाणता,

महामैत्र्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महामैत्र्यपरिमाणता महामैत्र्यपरिमाणतया (श्स्प्_इइ-3_204) प्रज्ञापारमितापरिमाणता,

महाकरुणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाकरुणापरिमाणता महाकरुणापरिमाणतया प्रज्ञापारमितापरिमाणता,

मुदिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मुदितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मुदितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मुदितापरिमाणता मुदितापरिमाणतया प्रज्ञापारमितापरिमाणता,

उपेक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपेक्षापरिमाणता उपेक्षापरिमाणतया प्रज्ञापारमितापरिमाणता,

आवेणिकबुद्धधर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आवेणिकबुद्धधर्मापरिमाणता आवेणिकबुद्धधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता,

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.