Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 16/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, (श्स्प्_इइ-3_53) अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.

चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.

बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.

अभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.

अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.

चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (श्स्प्_इइ-3_54) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.

बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं, तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.

स्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.

अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.

चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.

बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.

अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.

अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.

चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.

बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (श्स्प्_इइ-3_56) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.

शतसाहस्र्याः प्रज्ञापारमितायाः पञ्चदशमः परिवर्तः समाप्तः

अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: अस्याः सर्वधर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः यन् न्व् अहं पुष्याण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वान् भिक्षुसंघं च सुभूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अवकिरेयम् अभ्यवकिरेयम् अभिप्राकिरेयं, यावन्तश् च त्रिसाहस्रमहासाहस्रलोकधातौ चातुर्महाराजिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्राह्मपर्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवाः आभास्वरा देवाः शुभा देवाः परित्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फरा देवा अबृहा देवा अतपा देवाः सुदृशा देवा सुदर्शना देवा अकनिष्ठा देवास् तेषाम् एतद् अभूवन्: अस्या धर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः. यं नूनं वयं पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च भिक्षुसंघं च सुभूतिस्थविरञ् चास्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरेयम्.

अथ खलु शक्रो देवानाम् इन्द्रो ये त्रिसाहस्रमहासाःस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवाः यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभस्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभाकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् ते सर्वे दिव्यानि मान्दारवानि पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वांश् च भिक्षुसंघं च सुहूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्राकिरन्ति स्म, महावर्णकैश् च तैः पुष्पैः, अयं त्रिसाहस्रमहासाहस्रो लोकधातुः पुष्पसंस्तरसंस्तृतो ऽभूत्, उपरिष्ठाद् अंतरीक्षे त्रिसाहस्रमहासाहस्रलोकधातुः प्रमाणः पुष्पकूटागारः संस्थितो ऽभूत् रमणीयो मनोरमः,

सचेत् सुभूतेः स्थविरस्यैतद् अभूत्: न पुनर् इमानि पुष्पाणि मया (श्स्प्_इइ-3_58) सर्वदेवभवनेष्व् अदृष्टपूर्वाणि प्रवरमाणानि, यानीमानि पुष्पाणि देवैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि, न स्तंभनिर्यातानि न स्थलजानि न जलजानि यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि मनोमयानीमानि पुष्पाणि, नेमानि स्तम्भनिर्यातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि.

अथ शक्रो देवानाम् इन्द्रः सुभूतेः स्थविरस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं सुभूतिस्थविरम् एतद् अवोचन्: अनिर्यातानि भदन्त सुभूते इमानि पुष्पाणि, न मनोमयानि न स्तम्भनिर्यातानि.

सुभूतिर् आह: यत् पुनः कौशिक एवं वदसि, अनिर्यातानीमानि पुष्पाणि नेमानि पुष्पाणि मनोनिर्यातानि न स्तम्भनिर्यातानि, यानि कौशिकानिर्यातानि नेतानि पुष्पाणि.

शक्र आह: किं पुनर् भदन्त सुभूते, इमान्य् एव पुष्पाण्य् अनिर्यातानि, अथ रूपम् अप्य् अनिर्जातम् एवं वेदनाप्य् अनियाता संज्ञाप्य् अनिर्याता संस्कारा अप्य् अनिर्याता विज्ञानम् अप्य् अनिर्यातम्.

सुभूतिर् आह: यत् कौशिकैवं वदसि, न कौशिकेमान्य् एव पुष्पान्य् अनिर्यातानीति, रूपम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, वेदनापि कौशिकानिर्याता या चानिर्याता न सा वेदना, संज्ञापि कौशिकानिर्याता या चानिर्याता न सा संज्ञा, संस्कारा अपि कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानम्.

चक्षुः कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुः, श्रोत्रं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रं, घ्राणं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणं, जिह्वा कौशिकानिर्याता या चानिर्याता न सा जिह्वा, कायः कौशिकानिर्यातो यश् चानिर्यातो न स कायः, मनः कौशिकानिर्यातं यच् चानिर्यातं न तन् मनः.

रूपं कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, शब्दः कौशिकानिर्यातो यश् चानिर्यातो न स शब्दः, गन्धः कौशिकानिर्यातो यश् चानिर्यातो न स गन्धः, रसः कौशिकानिर्यातो यश् चानिर्यातो न स रसः, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, धर्माः कौशिकानिर्याता ये चानिर्याता न ते धर्माः.

चक्षुर्विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणविज्ञानं, जिह्वाविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तज् जिह्वाविज्ञानं, कायविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तत् कायविज्ञानं, (श्स्प्_इइ-3_59) मनोविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तन् मनोविज्ञानम्.

चक्षुःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स जिह्वासंस्पर्शः, कायसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न सः कायसंस्पर्शः, मनःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स त्ननःसंस्पर्शः.

चक्षुःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, श्रोत्रसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चनिर्याता न सा मनःसंस्पर्शप्रत्ययवेदना.

पृथिवीधातुः कौशिकानिर्यातो यश् चानिर्यातो न स पृथिवीधातुः, अब्धातुः कौशिकानिर्यातो यश् चानिर्यातो न सो ऽब्धातुः, तेजोधातुः कौशिकानिर्यातो यश् चानिर्यातो न स तेजोधातुः, वायुधातुः कौशिकानिर्यातो यश् चानिर्यातो न स वायुधातुः, आकाशधातुः कौशिकानिर्यातो यश् चानिर्यातो न स आकाशधातुः, विज्ञानधातुः कौशिकानिर्यातो यश् चानिर्यातो न स विज्ञानधातुः.

अविद्या कौशिकानिर्याता या चानिर्याता न सा अविद्या, संस्काराः कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानं, नामरूपं कौशिकानिर्यातं यच् चानिर्यातं न तन् नामरूपं, षडायतनं कौशिकानिर्यातं यच् चानिर्यातं न तत् षडायतनं, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, वेदना कौशिकानिर्याता या चानिर्याता न सा वेदना, तृष्णा कौशिकानिर्याता या चानिर्याता न सा तृष्णा, उपादानं कौशिकानिर्यातं यच् चानिर्यातं न तद् उपादानं, भवः कौशिकानिर्यातो यश् चानिर्यातो न स भवः, जातिः कौशिकानिर्याता या चानिर्याता न सा जातिः, जरामरणं कौशिकानिर्यातं यच् चानिर्यातं न तज् जरामरणम्.

दानपारमिता कौशिकानिर्याता या चानिर्याता न सा दानपारमिता, शीलपारमिता (श्स्प्_इइ-3_60) कौशिकानिर्याता या चानिर्याता न सा शीलपारमिता, क्षान्तिपारमिता कौशिकानिर्याता या चानिर्याता न सा क्षान्तिपारमिता, वीर्यपारमिता कौशिकानिर्याता या चानिर्याता न सा वीर्यपारमिता, ध्यानपारमिता कौशिकानिर्याता या चानिर्याता न सा ध्यानपारमिता, प्रज्ञापारमिता कौशिकानिर्याता या चानिर्याता न सा प्रज्ञापारमिता.

अध्यात्मशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मशून्यता, बहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यता कौशिकानिर्याता या चानिर्याता न सा शून्यताशून्यता, महाशून्यता कौशिकानिर्याता या चानिर्याता न सा महाशून्यता, परमार्थशून्यता कौशिकानिर्याता या चानिर्याता न सा परमार्थशून्यता, संस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सा संस्कृतशून्यता, असंस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सासंस्कृतशून्यता, अत्यन्तशून्यता कौशिकानिर्याता या चानिर्याता न सात्यन्तशून्यता, अनवराग्रशून्यता कौशिकानिर्याता या चानिर्याता न सानवराग्रशून्यत, अनवकारशून्यता कौशिकानिर्याता या चानिर्याता न सानवकारशून्यता, प्रकृतिशून्यता कौशिकानिर्याता या चानिर्याता न सा प्रकृतिशून्यता, सर्वधर्मशून्यता कौशिकानिर्याता या चानिर्याता न सा सर्वधर्मशून्यता, स्वलक्षणशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वलक्षणशून्यता, अनुपलम्भशून्यता कौशिकानिर्याता या चानिर्याता न सानुपलम्भशून्यता, अभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावशून्यता, स्वभावशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वभावशून्यता, अभावस्वभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावस्वभावशून्यता.

स्मृत्युपस्थानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि सम्यक्प्रहाणानि, ऋद्धिपादाः कौशिकानिर्याता ये चानिर्याता न ते ऋद्धिपादाः, इन्द्रियाणि कौशिकानिर्यातानि यानि चानिर्यातानि न तानीन्द्रियाणि, बलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बलानि, बोध्यङ्गानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बोध्यङ्गानि, आर्याष्टङ्गो मार्गः कौशिकानिर्यातो यश् चानिर्यातो न स आर्याष्टाङ्गो मार्गः, आर्यसत्यानि कौशिकांइर्यातानि यानि चानिर्यातानि न तानि आर्यसत्यानि, ध्यानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि ध्यानानि, अप्रमाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तान्य् अप्रमाणानि, आरूप्यसमापत्तयः कौशिकानिर्याता ये चानिर्याता न ता आरूप्यसमापत्तयः, अष्टौ विमोक्षाः कौशिकानिर्याता ये (श्स्प्_इइ-3_61) चानिर्याता न ता अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः कौशिकानिर्याता याश् चानिर्याता न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाः कौशिकानिर्याता यास् चानिर्याता न ता अभिज्ञाः, समाधयः कौशिकानिर्याता ये चानिर्याता न ते समाधयः, धारणीमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि धारणीमुखानि, दशतथागतबलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि दशतथागतबलानि, चत्वारि वैशारद्यानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि चत्वारि वैशारद्यांइ, चतस्रः प्रतिसंविदः कौशिकानिर्याता याश् चानिर्याता न ताः प्रतिसंविदः, महामैत्री कौशिकानिर्याता या चानिर्याता न सा

महामैत्री, महाकरुणा कौशिकानिर्याता या चानिर्याता न सा महाकरुणा, अष्टादशावेणिका बुद्धधर्माः कौशिकानिर्याता ये चानिर्याता न ते अष्टादशावेणिका बुद्धधर्माः, स्रोतआपत्तिफलं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोतआपत्तिफलं, सकृदागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तत् सकृदागामिफलं, अनागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तद् अनागामिफलं, अर्हत्त्वं कौशिकानिर्यातं यच् चानिर्यातं न तद् अर्हत्त्वं, प्रत्येकबोधिः कौशिकानिर्याता या चानिर्याता न सा प्रत्येकबोधिः, मार्गाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा मार्गाकारज्ञता, सर्वाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा सर्वाकारज्ञता, स्रोतआपन्नः कौशिकानिर्यातो यश् चानिर्याओ न स स्रोतआपन्नः, सकृदागामी कौशिकानिर्यातो यश् चानिर्यातो न स सकृदागामी, अनागामी कौशिकानिर्यातो यश् चानिर्यातो न सो अनागामी, अर्हत् कौशिकानिर्यातो यश् चानिर्यातो न सो अर्हत्, प्रत्येकबुद्धः कौशिकानिर्यातो यश् चानिर्यातो न स प्रत्येकबुद्धः, बोधिसत्त्वः कौशिकानिर्यातो यश् चानिर्यातो न स बोधिसत्त्वः, तथागतः कौशिकानिर्यातो यश् चानिर्यातो न स तथागतः.

अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: गम्भीरप्रज्ञो बतायं सुभूतिस्थविरो यत्र हि नाम प्रज्ञप्तिं च न विरोधयति धर्मताञ् चोपदिशति.

अथ भगवान् शक्रं देवानाम् इन्द्रम् आमन्त्रयते स्म: एवम् एतत् कौशिकैवम् एतद् गम्भीरप्रज्ञो बतायं सुभूतिः स्थविरः यत्र हि नामं प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति.

अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति?

एवम् उक्ते भगवाञ् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रा यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संज्ञा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

चक्षुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शब्दः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, गन्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, रसः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रूध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति (श्स्प्_इइ-3_63) न च विरोधयति. चक्षुर्विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वाविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनोविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

चक्षुःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

चक्षुःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसर्न्स्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शप्रत्ययवेदितं (श्स्प्_इइ-3_64) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

पृथिवीधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अब्धातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तेजोधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वायुधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आकाशधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

अविद्या कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नामरूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, षडायतनं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तृष्णा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, उपादानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, भवः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जातिः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा (श्स्प्_इइ-3_65) धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जरामरणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

दानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शीलपारमिताकौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, क्षान्तिपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वीर्यपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रज्ञापारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

अध्यात्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अध्यात्मबहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शून्यताशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, परमार्थशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, असंस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अत्यन्तशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवराग्रशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवकारशून्यता (श्स्प्_इइ-3_66) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रकृतिशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वधर्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो

ऽविरोधेनोपदिशति, स्वलक्षणशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनुपलम्भशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावस्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

स्मृत्युपस्थानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्प्रहाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ऋद्धिपादाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, इन्द्रियाणि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोध्यङ्गानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आर्याष्टाङ्गो मार्गः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आर्यसत्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अप्रमाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आरूप्यसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टौ विमोक्षाः कौशिक (श्स्प्_इइ-3_67) प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नवानुपूर्वविहारसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभिज्ञाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, समाधयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धारणीमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, दशतथागतबलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चत्वारि वैशारद्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चतस्रः प्रतिसंविदः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महामैत्री कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाकरुणा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टादशावेणिकबुद्धधर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

स्रोतआपत्तिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत्त्वं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबोधिः कौशिक प्रज्ञप्तिमात्रं यत् (श्स्प्_इइ-3_68) प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मार्गाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति.

स्रोतआपन्नः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत् कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोधिसत्त्वः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्संबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. एवं खलु कौशिक सुभूतिः स्थविरः प्रज्ञप्तितो न च विरोधयति.

अथ खल्व् आयुष्मन् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिक एवम् एतद्, तद् यथा पि नाम भगवता प्रज्ञप्तिमात्रं सर्वधर्मान् उपदिष्टाः. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रं सर्वधर्मान् विदित्वा प्रज्ञापारमितां शिक्षितव्यम्.

एवं शिक्षमानः पुनः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. संज्ञायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संज्ञां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न समनुउपश्यति यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति (श्स्प्_इइ-3_69) यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चक्षुषि न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर् न समनुपश्यति यत्र शिक्षते. श्रोत्रे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रं न समनुपश्यति यत्र शिक्षते. घ्राणे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणं न समनुपश्यति यत्र शिक्षते. जिह्वायां न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वां न समनुपश्यति यत्र शिक्षते. काये न शिक्षते. तत् कस्य हेतोः? तथा हि स कायं न समनुपश्यति यत्र शिक्षते. मनसि न शिक्षते. तत् कस्य हेतोः? तथा हि स मनो न समनुपश्यति, यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. शब्दे न शिक्षते. तत् कस्य हेतोः? तथा हि स शब्दं न समनुपश्यति यत्र शिक्षते. गन्धे न शिक्षते. तत् कस्य हेतोः? तथा हि स गन्धं न समनुपश्यति यत्र शिक्षते. रसे न शिक्षते. तत् कस्य हेतोः? तथा हि स रसं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति यत्र शिक्षते. धर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धर्मान् न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुर्विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर्विज्ञानं न समनुपश्यति यत्र शिक्षते. श्रोत्रविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रविज्ञानं न समनुपश्यति यत्र शिक्षते. घ्राणविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणविज्ञानं न समनुपश्यति यत्र शिक्षते. जिह्वाविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वाविज्ञानं न समनुपश्यति यत्र शिक्षते. कायविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स कायविज्ञानं न समनुपश्यति यत्र शिक्षते. मनोविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स मनोविज्ञानं न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शं न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शं न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शं न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स (श्स्प्_इइ-3_70) जिह्वासंस्पर्शं न समनुपश्यति यत्र शिक्षते. कायसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शं न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शं न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शप्रत्यय वेदनां न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शप्रत्ययवेदनां न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शप्रत्ययवेदनायां न शिक्षते, तत् कस्य हेतोः? तथा हि स जिह्वासंस्पर्शप्रत्ययवेदनां न सममुपश्यति यत्र शिक्षते. कायसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः पृथिवीधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स पृथिवीधातुं न समनुपश्यति यत्र शिक्षते. अब्धातौ न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽब्धातुं न समनुपश्यति यत्र शिक्षते. तेजोधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स तेजोधातुं न समनुपश्यति यत्र शिक्षते. वायुधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स वायुधातुं न समनुपश्यति यत्र शिक्षते. आकाशधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स आकाशधातुं न समनुपश्यति यत्र शिक्षते. विज्ञानधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानधातुं न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽविद्यायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽविद्यां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न समनुपश्यति यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति यत्र शिक्षते. नामरूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स नामरूपं न समनुपश्यति यत्र शिक्षते. षडायतने न शिक्षते. तत् कस्य हेतोः? तथा हि स षडायतनं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति (श्स्प्_इइ-3_71) यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. तृष्णायां न शिक्षते. तत् कस्य हेतोः? यथा हि स तृष्णां न समनुपश्यति यत्र शिक्षते. उपादाने न शिक्षते. तत् कस्य हेतोः? तथा हि स उपादानं न समनुपश्यति यत्र शिक्षते. भवे न शिक्षते. तत् कस्य हेतोः? तथा हि स भवं न समनुपश्यति यत्र शिक्षते. जातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स जातिं न समनुपश्यति यत्र शिक्षते. जरामरणे न शिक्षते. तत् कस्य हेतोः? तथा हि स जरामरणं न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः दानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. शीलपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शीलपारमितां न समनुपश्यति यत्र शिक्षते. क्षान्तिपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स क्षान्तिपारमितां न समनुपश्यति यत्र शिक्षते. वीर्यपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वीर्यपारमितां न समनुपश्यति यत्र शिक्षते. ध्यानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानपारमितां न समनुपश्यति यत्र शिक्षते. प्रज्ञापारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यत्र शिक्षते. बहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स बहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. अध्यात्मबहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मबहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. शून्यताशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यताशून्यतां न समनुपश्यति यत्र शिक्षते. महाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाशून्यतां न समनुपश्यति यत्र शिक्षते. परमार्थशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स परमार्थशून्यतां न समनुपश्यति यत्र शिक्षते. संस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. असंस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽसंस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. अत्यन्तशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽत्यन्तशून्यतां न समनुपश्यति यत्र शिक्षते. अनवराग्रशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवराग्रशून्यतां न समनुपश्यति (श्स्प्_इइ-3_72) यत्र शिक्षते. अनवकारशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवकारशून्यतां न समनुपश्यति यत्र शिक्षते. प्रकृतिशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतां न समनुपश्यति यत्र शिक्षते. सर्वधर्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वधर्मशून्यतां न समनुपश्यति यत्र शिक्षते.

स्वलक्षणशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यतां न समनुपश्यति यत्र शिक्षते. अनुपलम्भशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपलम्भशून्यतां न समनुपश्यति यत्र शिक्षते. अभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावशून्यतां न समनुपश्यति यत्र शिक्षते. स्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वभावशून्यतां न समनुपश्यति यत्र शिक्षते. अभावस्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावस्वभावशून्यतां न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चतुर्षु स्मृत्युपस्थानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स चत्वारि स्मृत्युपस्थानानि न समनुपश्यति यत्र शिक्षते. चतुर्षु सम्यक्प्रहाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सम्यक्प्रहाणानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ऋद्धिपादेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ऋद्धिपादां न समनुपश्यति यत्र शिक्षते. पञ्चेन्द्रियेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स इन्द्रियाणि न समनुपश्यति यत्र शिक्षते. पञ्चषु बलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बलाणि न समनुपश्यति यत्र शिक्षते. सप्तसु बोध्यङ्गेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बोध्यङ्गानि न समनुपश्यति यत्र शिक्षते. आर्याष्टाङ्गे मर्गे न शिक्षते. तत् कस्य हेतोः? तथा हि स आर्याष्टाङ्गं मार्गं न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चतुर्ष्व् आर्यसत्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आर्यसत्यानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ध्यानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानानि न समनुपश्यति यत्र शिक्षते. चतुर्ष्व् अप्रमाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स अप्रमाणानि न समनुपश्यति यत्र शिक्षते. चतसृषु आरूप्यसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आरूप्यसमापत्तिन् न समनुपश्यति यत्र शिक्षते. अष्टाषु विमोक्षेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टौ विमोक्षान् न समनुपश्यति यत्र शिक्षते. (श्स्प्_इइ-3_73) नवानुपूर्वविहारसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपूर्वविहारसमापत्तीन् न समनुपश्यति यत्र शिक्षते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति यत्र शिक्षते. पञ्चस्व् अभिज्ञासु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभिज्ञा न समनुपश्यति यत्र शिक्षते. सर्वसमाधिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वसमाधीन् न समनुपश्यति यत्र शिक्षते. धारणीमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धारणीमुखानि न समनुपश्यति यत्र शिक्षते. दशतथागतबलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स दशतथागतबलानि न समनुपश्यति यत्र शिक्षते. चतुर्षु वैशारद्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स वैशारद्यानि न समनुपश्यति यत्र शिक्षते. चतसृषु प्रतिसंवित्सु न शिक्षते. तत् कस्य हेतोः? तथा हि स चतस्रः प्रतिसंविदो न समनुपश्यति यत्र शिक्षते. महामैत्र्या न शिक्षते. तत् कस्य हेतोः? तथा हि स महामैत्रीन् न समनुपश्यति यत्र शिक्षते. महाकरुणायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाकरुणां न समनुपश्यति यत्र शिक्षते. अष्टादशावेणिकेषु बुद्धधर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति यत्र शिक्षते.

एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः स्रोतआपत्तिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स स्रोतआपत्तिफलं न समनुपश्यति यत्र शिक्षते. सकृदागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स सकृदागामिफलं न समनुपश्यति यत्र शिक्षते. अनागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स अनागामिफलं न समनुपश्यति यत्र सिक्षते. अर्हत्त्वे न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽर्हत्त्वं न समनुपश्यति यत्र शिक्षते. प्रत्येकबोधौ न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रत्येकबोधिं न समनुपश्यति यत्र शिक्षते. मार्गाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मार्गाकारज्ञतां न समनुपश्यति यत्र शिक्षते. सर्वाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वाकारज्ञतां न समनुपश्यति यत्र शिक्षते.

अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो रूपं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन संज्ञां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, (श्स्प्_इइ-3_74) केन कारणेन विज्ञानं न समनुपश्यति.

केन कारणेन चक्षुर् न समनुपश्यति, केन कारणेन श्रोत्रं न समनुपश्यति, केन कारणेन घ्राणं न समनुपश्यति, केन कारणेन जिह्वां न समनुपश्यति, केन कारणेन कायं न समनुपश्यति, केन कारणेन मनो न समनुपश्यति.

केन कारणेन रूपं न समनुपश्यति, केन कारणेन शब्दं न समनुपश्यति, केन कारणेन गन्धं न समनुपश्यति, केन कारणेन रसं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन धर्मान् न समनुपश्यति.

केन कारणेन चक्षुर्विज्ञानं न समनुपश्यति, केन कारणेन श्रोत्रविज्ञानं न समनुपश्यति, केन कारणेन घ्राणविज्ञानं न समनुपश्यति, केन कारणेन जिह्वाविज्ञानं न समनुपश्यति, केन कारणेन कायविज्ञानं न समनुपश्यति, केन कारणेन मनोविज्ञानं न समनुपश्यति.

केन कारणेन चक्षुःसंस्पर्शं न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शं न समनुपश्यति, केन कारणेन घ्राणसंस्पर्श्ं न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शं न समनुपश्यति, केन कारणेन कायसंस्पर्शं न समनुपश्यति, केन कारणेन मनःसंस्पर्शं न समनुपश्यति.

केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति.

केन कारणेन पृथिवीधातुं न समनुपश्यति, केन कारणेन अब्धातुं न समनुपश्यति, केन कारणेन तेजोधातुं न समनुपश्यति, केन कारणेन वायुधातुं न समनुपश्यति, केन कारणेन आकाशधातुं न समनुपश्यति, केन कारणेन विज्ञानधातुं न समनुपश्यति.

केन कारणेनाविद्यां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, केन कारणेन विज्ञानं न समनुपश्यति, केन कारणेन नामरूपं न समनुपश्यति, केन कारणेन षडायतनं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन तृष्णां न समनुपश्यति, केन कारणेनोपादानं (श्स्प्_इइ-3_75) न समनुपश्यति, केन कारणेन भवं न समनुपश्यति, केन कारणेन जातिं न समनुपश्यति, केन कारणेन जरामरणं न समनुपश्यति.

केन कारणेन दानपारमितां न समनुपश्यति, केन कारणेन शीलपारमितां न समनुपश्यति, केन कारणेन क्षान्तिपारमितां न समनुपश्यति, केन कारणेन वीर्यपारमितां न समनुपश्यति, केन कारणेन ध्यानपारमितां न समनुपश्यति, केन कारणेन प्रज्ञापारमितां न समनुपश्यति.

केन कारणेनाध्यात्मशून्यतां न समनुपश्यति, केन कारणेन बहिर्धाशून्यतां न समनुपश्यति, केन कारणेनाध्यात्मबहिर्धाशून्यतां न समनुपश्यति, केन कारणेन शून्यताशून्यतां न समनुपश्यति, केन कारणेन महाशून्यतां न समनुपश्यति, केन कारणेन परमार्थशून्यतां न समनुपश्यति, केन कारणेन संस्कृतशून्यतां न समनुपश्यति, केन कारणेनासंस्कृतशून्यतां न समनुपश्यति, केन कारणेनात्यन्तशून्यतां न समनुपश्यति, केन कारणेनानवरग्रशून्यतां न समनुपश्यति, केन कारणेनानवकारशून्यतां न समनुपश्यति, केन कारणेन प्रकृतिशून्यतां न समनुपश्यति, केन कारणेन सर्वधर्मशून्यतां न समनुपश्यति, केन कारणेन स्वलक्षणशून्यतां न समनुपश्यति, केन कारणेनानुपलम्भशून्यतां न समनुपश्यति, केन कारणेनाभावशून्यतां न समनुपश्यति, केन कारणेन स्वभावशून्यतां न समनुपश्यति, केन कारणेनाभावस्वभावशून्यतां न समनुपश्यति.

केन कारणेन स्मृत्युपस्थानानि न समनुपश्यति, केन कारणेन सम्यक्प्रहाणानि न समनुपश्यति, केन कारणेन ऋद्धिपादां न समनुपश्यति, केन कारणेनेन्द्रियाणि न समनुपश्यति, केन कारणेन बलानि न समनुपश्यति, केन कारणेन बोध्यङ्गानि न समनुपश्यति, केन कारणेनार्याष्टाङ्गमार्गं न समनुपश्यति, केन कारणेनार्यसत्यानि न समनुपश्यति, केन कारणेन ध्यानानि न समनुपश्यति, केन कारणेनाप्रमाणानि न समनुपश्यति, केन कारणेनारूप्यसमापत्तीं न समनुपश्यति, केन कारणेनाष्ट्;औ विमोक्षां न समनुपश्यति, केन कारणेन नवानुपूर्वविहारसमापत्तीं न समनुपश्यति, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति, केन कारणेन अभिज्ञा न समनुपश्यति, केन कारणेन समाधीन् न समनुपश्यति, केन कारणेन धारणीमुखानि न समनुपश्यति, केन कारणेन दश (श्स्प्_इइ-3_76) तथागतबलानि न समनुपश्यति, केन कारणेन चत्वारि वैशारद्यानि न समनुपश्यति, केन कारणेन चतस्रः प्रतिसंविदो न समनुपश्यति, केन कारणेन महामैत्रीं न समनुपश्यति, केन कारणेन महाकरुणां न समनुपश्यति, केन कारणेन अष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति, केन कारणेन सर्वज्ञतां न समनुपश्यति, केन कारणेन मार्गाकारज्ञतां न समनुपश्यति, केन कारणेन सर्वाकारज्ञतां न समनुपश्यति.

सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्.

चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण शून्यं, घ्राणं घ्राणेन्सि शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यम्.

रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धरैः शून्याः.

चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं श्रोत्रविज्ञानेन शून्यं, कायविज्ञानं जिह्वाविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यम्.

चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शः घाणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शः मनःसंस्पर्शेन शून्यः.

चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनया शून्या.

पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुः तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुः पृथिवीधातुना शून्यः.

अविद्या अविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं (श्स्प्_इइ-3_77) विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यम्.

दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या.

अध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्यता, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यताध्यात्मशून्यतया शून्या, अभावशून्यताध्यात्मशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताध्यात्मशून्यतया शून्या.

स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः, आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः, विमोक्षा विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधिभिः शून्यः, धारणीमुखानि धारणीमुखैः शून्यानि, दशतथागतबलानि दशतथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, सर्वज्ञता सर्वज्ञतया शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया (श्स्प्_इइ-3_78) शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या.

न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न संज्ञाशून्यता संज्ञाशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति.

न चक्षुःशून्यता चक्षुःशून्यतां समनुपश्यति, न श्रोत्रशून्यता श्रोत्रशून्यतां समनुपश्यति, न घ्राणशून्यता घ्राणशून्यतां समनुपश्यति, न जिह्वाशून्यता जिह्वाशून्यतां समनुपश्यति, न कायशून्यता कायशून्यतां समनुपश्यति, न मनःशून्यता मनःशून्यतां समनुपश्यति.

न रूपशून्यता रूपशून्यतां समनुपश्यति, न शब्दशून्यता शब्दशून्यतां समनुपश्यति, न गन्धशून्यता गन्धशून्यतां समनुपश्यति, न रसशून्यता रसशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न धर्मशून्यता धर्मशून्यतां समनुपश्यति.

न चक्षुर्विज्ञानशून्यता चक्षुर्विज्ञानशून्यतां समनुपश्यति, न श्रोत्रविज्ञानशून्यता श्रोत्रविज्ञानशून्यतां समनुपश्यति, न घ्राणविज्ञानशून्यता घ्राणविज्ञानशून्यतां समनुपश्यति, न जिह्वाविज्ञानशून्यता जिह्वाविज्ञानशून्यतां समनुपश्यति, न कायविज्ञानशून्यता कायविज्ञानशून्यतां समनुपश्यति, न मनोविज्ञानशून्यता मनोविज्ञानशून्यतां समनुपश्यति.

न चक्षुःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न कायसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न मनःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति,

न चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यता श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न कायसंस्पर्शप्रत्ययवेदनाशून्यता कायसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न (श्स्प्_इइ-3_79) मनःसंस्पर्शप्रत्ययवेदनाशून्यता मनःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति,

न पृथिवीधातुशून्यता पृथिवीधातुशून्यतां समनुपश्यति, नाब्धातुशून्यताब्धातुशून्यतां समनुपश्यति, न तेजोधातुशून्यता तेजोधातुशून्यतां समनुपश्यति, न वायुधातुशून्यता वायुधातुशून्यतां समनुपश्यति, नाकाशधातुशून्यताकाशधातुशून्यतां समनुपश्यति, न विज्ञानधातुशून्यता विज्ञानधातुशून्यतां समनुपश्यति.

नाविद्याशून्यताविद्याशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति, न नामरूपशून्यता नामरूपशून्यतां समनुपश्यति, न षडायतनशून्यत षडायतनशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न तृष्णाशून्यता तृष्णाशून्यतां समनुपश्यति, नोपादानशून्यता उपादानशून्यतां समनुपश्यति, न भवशून्यता भवशून्यतां समनुपश्यति, न जातिसून्यता जातिशून्यतां समनुपश्यति, न जरामरणशून्यता जरामरणशून्यतां समनुपश्यति.

न दानपारमिताशून्यता दानपारमिताशून्यतां समनुपश्यति, न शीलपारमिताशून्यता शीलपारमिताशून्यतां समनुपश्यति, न क्षान्तिपारमिताशून्यता क्षान्तिपारमिताशून्यतां समनुपश्यति, न वीर्यपारमिताशून्यता वीर्यपारमिताशून्यतां समनुपश्यति, न ध्यानपारमिताशून्यता ध्यानपारमिताशून्यतां समनुपश्यति, न प्रज्ञापारमिताशून्यता प्रज्ञापारमिताशून्यतां समनुपश्यति.

नाध्यात्मशून्यताशून्यताध्यात्मशून्यताशून्यतां समनुपश्यति, न बहिर्धाशून्यताशून्यता बहिर्धाशून्यताशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यताशून्यताध्यात्मबहिर्धाशून्यताशून्यतां समनुपश्यति, न शून्यताशून्यताशून्यता शून्यताशून्यताशून्यतां समनुपश्यति, न महाशून्यताशून्यता महाशून्यताशून्यतां समनुपश्यति, न परमार्थशून्यताशून्यता परमार्थशून्यताशून्यतां समनुपश्यति, न संस्कृतशून्यताशून्यता संस्कृतशून्यताशून्यतां समनुपश्यति, नासंस्कृतशून्यताशून्यतासंस्कृतशून्यताशून्यतां समनुपश्यति, नात्यन्तशून्यताशून्यतात्यन्तशून्यताशून्यतां समनुपश्यति, नानवराग्रशून्यताशून्यतानवराग्रशून्यताशून्यतां समनुपश्यति, नानवकारशून्यताशून्यतानवकारशून्यताशून्यतां समनुपश्यति, न प्रकृतिशून्यताशून्यता प्रकृतिशून्यताशून्यतां समनुपश्यति, न सर्वधर्मशून्यताशून्यता (श्स्प्_इइ-3_80) सर्वधर्मशून्यताशून्यतां समनुपश्यति, न स्वलक्षणशून्यताशून्यता स्वलक्षणशून्यताशून्यतां समनुपश्यति, नानुपलम्भशून्यताशून्यतानुपलम्भशून्यताशून्यतां समनुपश्यति, नाभावशून्यताशून्यताभावशून्यताशून्यतां समनुपश्यति, न स्वभावशून्यताशून्यता स्वभावशून्यताशून्यतां समनुपश्यति, नाभावस्वभावशून्यताशून्यताभावस्वभावशून्यताशून्यतां समनुपश्यति.

न स्मृत्युपस्थानशून्यता स्मृत्युपस्थानशून्यतां समनुपश्यति, न सम्यक्प्रहाणशून्यता सम्यक्प्रहाणशून्यतां समनुपश्यति, न ऋद्धिपादशून्यता ऋद्धिपादशून्यतां समनुपश्यति, नेन्द्रियशून्यता इन्द्रियशून्यतां समनुपश्यति, न बलशून्यता बलशून्यतां समनुपश्यति, न बोध्यङ्गशून्यता बोध्यङ्गशून्यतां समनुपश्यति, न मार्गशून्यता मार्गशून्यतां समनुपश्यति, नार्यसत्यसून्यतार्यसत्यशून्यतां समनुपश्यति, न ध्यानशून्यता ध्यानशून्यतां समनुपश्यति, नाप्रमाणशून्यताप्रमाणशून्यतां समनुपश्यति, नारूप्यसमापत्तिशून्यतारूप्यसमापत्तिशून्यतां समनुपश्यति, न विमोक्षशून्यता विमोक्षशून्यतां समनुपश्यति, नानुपूर्वविहारसमापत्तिशून्यतानुपूर्वविहारसमापत्तिशून्यतां समनुपश्यति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतां समनुपश्यति, नाभिज्ञाशून्यताभिज्ञाशून्यतां समनुपश्यति, न समाधिशून्यता समाधिशून्यतां समनुपश्यति, न धारणीमुखशून्यता धारणीमुखशून्यतां समनुपश्यति, न दशतथागतबलशून्यता दशतथागतबलशून्यतां समनुपश्यति, न वैशारद्यशून्यता वैशारद्यशून्यतां समनुपश्यति, न प्रतिसंविच्छून्यता प्रतिसंविच्छून्यतां समनुपश्यति, न महामैत्रीशून्यता महामैत्रीशून्यतां समनुपश्यति, न महाकरुणाशून्यता महाकरुणाशून्यतां समनुपश्यति, नावेणिकबुद्धधर्मशून्यतावेणिकबुद्धधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यता सर्वधर्मशून्यतां समनुपश्यति, न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति, न मार्गाकारज्ञताशून्यता मार्गाकारज्ञताशून्यतां समनुपश्यति, न सर्वाकारज्ञताशून्यता सर्वाकारज्ञताशून्यतां समनुपश्यति.

यः कौशिक इह शून्यतायां न शिक्षते स शून्यतायां शिक्षते ऽद्वैधीकारेण, स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां (श्स्प्_इइ-3_81) शिक्षते ऽद्वैधीकारेण, स संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.

स चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःशून्यतायां शिक्षते ऽद्वैधीकारेण.

स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, स गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, स रसशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण,

स चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.

स चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण.

स चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण.

स पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण.

सो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स षडायतनशून्यतायां (श्स्प्_इइ-3_82) शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, स उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, स भवशून्यतायां शिक्षते ऽद्वैधीकारेण, स जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, स जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण.

स दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकरेण.

सो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यताशून्यतायं शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.