Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
नाध्यात्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति.
न स्मृत्युपस्थानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, (श्स्प्_इइ-3_26) नानुत्पादं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति.
न सम्यक्प्रहाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति.
नर्द्धिपादान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति.
नेन्द्रियाणि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् इन्द्रियाणीति विकल्पयिष्यन्ति.
न बलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बलानीति विकल्पयिष्यन्ति, न बलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बलानीति विकल्पयिष्यन्ति, (श्स्प्_इइ-3_27) न बलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बलानीति विकल्पयिष्यन्ति, न बलानि शान्तम् इति विकल्पयिष्यन्ति, न शान्तं बलानीति विकल्पयिष्यन्ति, न बलानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं बलानीति विकल्पयिष्यन्ति.
न बोध्यङ्गानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं बोध्यङ्गानीति विकल्पयिष्यन्ति.
नार्याष्टाङ्गं मार्गं शून्यत इति विकल्पयिष्यन्ति, न शून्यताम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तं आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं शान्त इति विकल्पयिष्यन्ति, न शान्तम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् आर्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति.
नार्यसत्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् आर्यसत्यानीति विकल्पयिष्यन्ति.
न ध्यानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं ध्यानानीति विकल्पयिष्यन्ति.
नाप्रमाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् अप्रमाणानीति विकल्पयिष्यन्ति.
नारूप्यसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति.
नाष्टौ विमोक्षान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टौ विमोक्षा इति (श्स्प्_इइ-3_29) विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति.
न नवानुपूर्वविहारसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यतां नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति.
न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति,
नाभिज्ञाः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् (श्स्प्_इइ-3_30) अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञाः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अभिज्ञा इति विकल्पयिष्यन्ति.
न समाधीन् शून्या इति विकल्पयिष्यन्ति, न शून्यतां समाधय इति विकल्पयिष्यन्ति, न समाधीन् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं समाधय इति विकल्पयिष्यन्ति, न समाधीन् शान्ता इति विकल्पयिष्यन्ति, न शान्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं समाधय इति विकल्पयिष्यन्ति.
न धारणीमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं धारणीमुखानीति विकल्पयिष्यन्ति.
न दशतथागतबलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं दशतथागतबलानीति विकल्पयिष्यन्ति.
न चत्वारि वैशारद्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति.
न चतस्रः प्रतिसंविदः शून्या इति विकल्पयिष्यन्ति, न शून्यतां चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविद आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदः शान्ता इति विकल्पयिष्यन्ति, न शान्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति.
न महाकरुणां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाकरुणेति विकल्पयिष्यन्ति.
नाष्टादशावेणिकबुद्धधर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टादशावेणिकबुद्धधर्मा (श्स्प्_इइ-3_32) इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति.
न स्रोतआपत्तिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति,
न सकृदागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति,
नानागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनागामिफलम् इति विकल्पयिष्यन्ति, (श्स्प्_इइ-3_33) नानागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अनागामिफलम् इति विकल्पयिष्यन्ति,
नार्हत्त्वं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति,
न प्रत्येकबोधिं शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति,
न मार्गाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति,
न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति,
न संस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति,
नासंस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति.
अनेन देवपुत्राः पर्यायेणास्या गम्भीरायाः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृश्याया एवंदुरवबोधाया एवंशान्ताया एवंप्रणीताया (श्स्प्_इइ-3_35) एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया न केचित् प्रत्येषितारो भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् अत्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते. यथैवात्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते तथैवात्र न कश्चित् सत्त्वः प्रत्येषिता भविष्यति.
अथ आयुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न त्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां विस्तरेण त्रीणि यानानि व्यवस्थाप्यन्ते. श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादम् उपादाय बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रसून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वानां च महासत्त्वानाम् अभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृध्यन्ति. यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ता समाहितयोगेन.
असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (श्स्प्_इइ-3_36) सहितप्रतिभानाश् च भविष्यन्ति, मुक्षप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, त्रन्यप्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारद्वतीपुत्र एवम् एतत्, तथा यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्टः, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः,
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य्, उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानीमानि तथारूपाणि कुशलमूलानि समृध्यन्ते, यश् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ता समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, अक्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च (श्स्प्_इइ-3_37) भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति, तथानुपलम्भयोगेन.
आत्मनो ऽनुपलम्भयोगेन, सत्त्वस्यानुपलम्भयोगेन, जीवस्यानुपलम्भयोगेन, पोषस्यानुपलम्भयोगेन, पुरुषस्यानुपलम्भयोगेन, पुद्गलस्यानुपलम्भयोगेन, मनुजस्यानुपलम्भयोगेन, मानवस्यानुपलम्भयोगेन, कारकस्यानुपलम्भयोगेन, वेदकस्यानुपलम्भयोगेन, जनकस्यानुपलम्भयोगेन, पश्यकस्यानुपलम्भयोगेन,
रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन.
चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन.
रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन.
चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन.
चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन.
चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन.
पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन.
अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, (श्स्प्_इइ-3_38) विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन.
दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन,
अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतस्ण्न्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन.
स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, ऋद्धिपादाम् अनुपलम्भयोगेन, इन्द्रियाणाम् अनुपलम्भयोगेन, बलानाम् अनुपलम्भयोगेन, बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गमार्गस्यानुपलम्भयोगेन, आर्यसत्यानाम् अनुपलम्भयोगेन, ध्यानानाम् अनुपलम्भयोगेन, अप्रमाणानाम् अनुपलम्भयोगेन, आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, विमोक्षाणाम् अनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, अभिज्ञानाम् अनुपलम्भयोगेन, समाधीनाम् अनुपलम्भयोगेन, धारणीमुखानाम् अनुपलम्भयोगेन, तथागतबलानाम् अनुपलम्भयोगेन, वैशारद्यानाम् अनुपलम्भयोगेन, प्रतिसंविदानाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणाया अनुपलम्भयोगेन, आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताया अनुपलम्भयोगेन.
अथायुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. केन कारणेन सुभूते बोधिसत्त्वानां महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्तसमाहितयोगेन. असङ्गप्रतिभानश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा भविष्यन्त्य् अनुपलम्भयोगेन.
एवम् उक्त आयुष्मन् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: अध्यात्मशून्यताम् उपादाय, आयुष्मन् शारद्वतीपुत्र त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, बहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, शून्यताशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, महाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, परमार्थशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, संस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, असंस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अत्यन्तशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवराग्रशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवकारशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, प्रकृतिशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, सर्वधर्मशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वलक्षणशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनुपलम्भशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उच्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (श्स्प्_इइ-3_41) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
बहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (श्स्प्_इइ-3_42) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ते. सदासमाहिताश् च भविष्यन्ति अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
अध्यात्मबहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
शून्यताशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकान्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (श्स्प्_इइ-3_44) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
महाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, (श्स्प्_इइ-3_45) श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महाइअत्त्वा अनुपलम्भयोगेन.
परमार्थशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
संस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो (श्स्प्_इइ-3_46) बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
असंस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (श्स्प्_इइ-3_47) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
अत्यन्तशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (श्स्प्_इइ-3_48) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदा समाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
अनवराग्रशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, (श्स्प्_इइ-3_49) महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
अनवकारशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता,
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् (श्स्प्_इइ-3_50) भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
प्रकृतिशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (श्स्प्_इइ-3_51) समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
सर्वधर्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता.
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
स्वलक्षणशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह (श्स्प्_इइ-3_52) उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता,
चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः.
बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य् उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन.
अनुपलम्भशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
