Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, स इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, स बलशून्यतायां शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गशून्यतायां शिक्षते ऽद्वैधीकारेण, स आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, (श्स्प्_इइ-3_83) सो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, स धारणीमुखशून्यतायां शिक्षते द्वैधीकारेण, स तथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, स वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, स महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, स आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
यः कौशिक रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायं शिक्षते ऽद्वैधीकारेण, यः संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
यश् चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःशून्यतायां शिक्षते ऽद्वैधीकारेण.
यो रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, यो गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, यो रसशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण.
यश् चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण.
यश् चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण.
यश् चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो (श्स्प्_इइ-3_84) घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण.
यः पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, य आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण.
यो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः षडायतनशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, य उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो भवशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण.
यो दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण.
यो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यताशून्यतायां (श्स्प्_इइ-3_85) शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण.
यः स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, य इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गशून्यतायां शिक्षते ऽद्वैधीकारेण, य आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टौ विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धारणीमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो दशतथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, यो महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, य आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
स दानपारमितायां शिक्षते ऽद्वैधीकारेण, स शीलपारमितायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण.
सो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, स (श्स्प्_इइ-3_86) सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकरेण, सो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण.
स स्मृत्युपस्थान्नेषु शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, स इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, स बलेषु शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गे शिक्षते ऽद्वैधीकारेण, स आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, स ध्यानेषु शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, सो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, सो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, स समाधिषु शिक्षते ऽद्वैधीकारेण, स धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, स तथागतबलेषु शिक्षते ऽद्वैधीकारेण, स वैशारद्येषु शिक्षते ऽद्वैधीकारेण, स प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, स महामैत्र्यां शिक्षते ऽद्वैधीकारेण, स महाकरुणायां शिक्षते ऽद्वैधीकारेण, सो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स स्रोतआपत्तिफलेषु शिक्षते ऽद्वैधीकारेण, स सकृदागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽनागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, स प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, स बुद्धत्वे शिक्षते ऽद्वैधीकारेण, स सर्वज्ञतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञतायां शिक्षते ऽद्वैधीकारेण.
यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमितायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण.
यो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यतायां शिक्षते (श्स्प्_इइ-3_87) ऽद्वैधीकारेण, यो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण.
यः स्मृत्युपस्थानेषु शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, य इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, यो बलेषु शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, य आर्याष्टङ्गे मार्गे शिक्षते ऽद्वैधीकारेण, य आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, यो ध्यानेषु शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, यः समाधिषु शिक्षते ऽद्वैधीकारेण, यो धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, यस् तथागतबलेषु शिक्षते ऽद्वैधीकारेण, यो वैशारद्येषु शिक्षते ऽद्वैधीकारेण, यः प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, यो महामैत्र्यां शिक्षते ऽद्वैधीकारेण, यो महाकरुणायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, यः स्रोतआपत्तिफले शिक्षते ऽद्वैधीकारेण, यः सकृदागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽनागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, यः प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञत्वे शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण.
यो ऽसंख्येयाप्रमेयेषु बुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स न रूपस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न संज्ञाया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते.
न चक्षुषो वृद्धये न हानये शिक्षते, न श्रोत्रस्य वृद्धये न हानये शिक्षते, न घ्राणस्य वृद्धये न हानये शिक्षते, न जिह्वायां वृद्धये न हानये शिक्षते, न कायस्य वृद्धये न हानये शिक्षते, न (श्स्प्_इइ-3_88) मनसो वृद्धये न हानये शिक्षते.
न रूपस्य वृद्धये न हानये शिक्षते, न शब्दस्य वृद्धये न हानये शिक्षते, न गन्धस्य वृद्धये न हानये शिक्षते, न रसस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न धर्माणां वृद्धये न हानये शिक्षते.
न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, न कायविज्ञानस्य वृद्धये न हानये शिक्षते, न मनोविज्ञानस्य वृद्धये न हानये शिक्षते.
न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते,
न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते.
न पृथिवीधातोर् वृद्धये न हानये शिक्षते, न अब्धातोर् वृद्धये न हानये शिक्षते, न तेजोधातोर् वृद्धये न हानये शिक्षते, न वायुधातोर् वृद्धये न हानये शिक्षते, न आकाशधातोर् वृद्धये न हानये शिक्षते, न विज्ञानधातोर् वृद्धये न हानये शिक्षते.
नाविद्याया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते, न नामरूपस्य वृद्धये न हानये शिक्षते, न षडायतनस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न तृष्णाया वृद्धये न हानये शिक्षते, नोपादानस्य वृद्धये न हानये शिक्षते, न भवस्य वृद्धये न हानये शिक्षते, न जातेर् वृद्धये न हानये शिक्षते, न जरामरणस्य वृद्धये न हानये शिक्षते.
न दानपारमिताया वृद्धये न हानये शिक्षते, न शीलपारमिताया (श्स्प्_इइ-3_89) वृद्धये न हानये शिक्षते, न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, न वीर्यपारमिताया वृद्धये न हानये शिक्षते, न ध्यानपारमिताया वृद्धये न हानये शिक्षते, न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते.
नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, न शून्यताशून्यताया वृद्धये न हानये शिक्षते, न महाशून्यताया वृद्धये न हानये शिक्षते, न परमार्थशून्यताया वृद्धये न हानये शिक्षते, न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, नानवकारशून्यताया वृद्धये न हानये शिक्षते, न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, नाभावशून्यताया वृद्धये न हानये शिक्षते, न स्वभावशून्यताया वृद्धये न हानये शिक्षते, नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते.
न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, न ऋद्धिपादानां वृद्धये न हानये शिक्षते, न इन्द्रियाणां वृद्धये न हानये शिक्षते, न बलानां वृद्धये न हानये शिक्षते, न बोध्यङ्गानां वृद्धये न हानये शिक्षते, न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, न आर्यसत्यानां वृद्धये न हानये शिक्षते, न ध्यानानां वृद्धये न हानये शिक्षते, नाप्रमाणानां वृद्धये न हानये शिक्षते, न आरूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, नाभिज्ञानां वृद्धये न हानये शिक्षते, न समाधीनां वृद्धये न हानये शिक्षते, न धारणीमुखानां वृद्धये न हानये शिक्षते, न तथागतबलानां वृद्धये न हानये शिक्षते, न वैशारद्यानां वृद्धये न हानये शिक्षते, न प्रतिसंविदां वृद्धये न हानये शिक्षते, न महामैत्र्या वृद्धये न हानये शिक्षते, न महाकरुणाया वृद्धये न हानये शिक्षते, नावेणिकबुद्धधर्माणां वृद्धये न हानये शिक्षते, न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, न सकृदागामिफलस्य (श्स्प्_इइ-3_90) वृद्धये न हानये शिक्षते, नानागामिफलस्य वृद्धये न हानये शिक्षते, नार्हत्त्वस्य वृद्धये न हानये शिक्षते, न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, न मार्गाकरज्ञताया वृद्धये न हानये शिक्षते, न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते.
यो न रूपस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न संज्ञाया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते.
यो न चक्षुषो वृद्धये न हानये शिक्षते, यो न श्रोत्रस्य वृद्धये न हानये शिक्षते, यो न घ्राणस्य वृद्धये न हानये शिक्षते, यो न जिह्वाया वृद्धये न हानये शिक्षते, यो न कायस्य वृद्धये न हानये शिक्षते, यो न मनसो वृद्धये न हानये शिक्षते.
यो न रूपस्य वृद्धये न हानये शिक्षते, यो न शब्दस्य वृद्धये न हानये शिक्षते, यो न गन्धस्य वृद्धये न हानये शिक्षते, यो न रसस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न धर्माणां वृद्धये न हानये शिक्षते.
यो न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, यो न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, यो न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, यो न कायविज्ञानस्य वृद्धये न हानये शिक्षते, यो न मनोविज्ञानस्य वृद्धये न हानये शिक्षते.
यो न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते,
यो न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते.
यो न पृथिवीधातोर् वृद्धये न हानये शिक्षते, यो न अब्धातोर् (श्स्प्_इइ-3_91) वृद्धये न हानये शिक्षते, यो न तेजोधातोर् वृद्धये न हानये शिक्षते, यो न वायुधातोर् वृद्धये न हानये शिक्षते, यो नाकाशधातोर् वृद्धये न हानये शिक्षते, यो न विज्ञानधातोर् वृद्धये न हानये शिक्षते.
यो नाविद्याया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते, यो न नामरूपस्य वृद्धये न हानये शिक्षते, यो न षडायतनस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न तृष्णाया वृद्धये न हानये शिक्षते, यो नोपादानस्य वृद्धये न हानये शिक्षते, यो न भवस्य वृद्धये न हानये शिक्षते, यो न जातेर् वृद्धये न हानये शिक्षते, यो न जरामरणस्य वृद्धये न हानये शिक्षते.
यो न दानपारमिताया वृद्धये न हानये शिक्षते, यो न शीलपारमिताया वृद्धये न हानये शिक्षते, यो न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, यो न वीर्यपारमिताया वृद्धये न हानये शिक्षते, यो न ध्यानपारमिताया वृद्धये न हानये शिक्षते, यो न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते.
यो नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, यो न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो न शून्यताशून्यताया वृद्धये न हानये शिक्षते, यो न महाशून्यताया वृद्धये न हानये शिक्षते, यो न परमार्थशून्यताया वृद्धये न हानये शिक्षते, यो न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, यो नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, यो नानवकारशून्यताया वृद्धये न हानये शिक्षते, यो न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, यो न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, यो न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, यो नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, यो नाभावशून्यताया वृद्धये न हानये शिक्षते, यो न स्वभावशून्यताया वृद्धये न हानये शिक्षते, यो नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते.
यो न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, यो न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, यो न ऋद्धिपादानां वृद्धये न हानये शिक्षते, यो नेन्द्रियाणां वृद्धये न हानये शिक्षते, यो न बलानां वृद्धये न हानये शिक्षते, यो न बोध्यङ्गानां वृद्धये न हानये (श्स्प्_इइ-3_92) शिक्षते, यो न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, यो नार्यसत्यानां वृद्धये न हानये शिक्षते, यो न ध्यानानां वृद्धये न हानये शिक्षते, यो नाप्रमाणानां वृद्धये न हानये शिक्षते, यो नारूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, यो नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, यो नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, यो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, यो नाभिज्ञानां वृद्धये न हानये शिक्षते, यो न समाधीनां वृद्धये न हानये शिक्षते, यो न धारणीमुखानां वृद्धये न हानये शिक्षते, यो न तथागतबलानां वृद्धये न हानये शिक्षते, यो न वैशारद्यानां वृद्धये न हानये शिक्षते, यो न प्रतिसंविदां वृद्धये न हानये शिक्षते, यो न महामैत्र्या वृद्धये न हानये शिक्षते, यो न महाकरुणाया वृद्धये न हानये शिक्षते, यो नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां वृद्धये न हानये शिक्षते, यो न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, यो न सकृदागामिफलस्य वृद्धये न हानये शिक्षते, यो नानागामिफलस्य वृद्धये न हानये शिक्षते, यो नार्हत्त्वस्य वृद्धये न हानये शिक्षते, यो न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, यो न मार्गाकारज्ञताया वृद्धये न हानये शिक्षते, यो न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते.
स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
स न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वायां परिग्रहाय शिक्षते नान्तर्धानाय, स न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
स न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न (श्स्प्_इइ-3_93) श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
स न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
स न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
स न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न अब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न तेजोधातोः परिग्रहाय शिक्षते नन्तर्धानाय, स न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय.
स नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय,स नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, स न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
स न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न वीर्यपारमितायाः परिग्रहाय (श्स्प्_इइ-3_94) शिक्षते नान्तर्धानाय, स न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय.
स नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानुपलम्भशून्यतायः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
स न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, स न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ऋद्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, स नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, स न बलानां परिग्रहाय शिक्षते नान्तर्धनाय, स न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, स न आर्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ध्यानानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धनाय, स नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धनाय, स नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धनाय, स न समाधीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, स न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धनाय, स न प्रतिसंविदां (श्स्प्_इइ-3_95) परिग्रहाय शिक्षते नान्तर्धानाय, स न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, स न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, स न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
अथ खल्व् आयुष्माञ् छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य (श्स्प्_इइ-3_96) परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय.
नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय.
नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न महाशून्यतायाः परिग्रहाय शिक्षते (श्स्प्_इइ-3_97) नान्तर्धानाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धारिआय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यान्नां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धाणाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, न आरूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते (श्स्प्_इइ-3_98) नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय सिक्षते नान्तर्धानाय.
न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धनाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय.
नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, न जातेः परिग्रहाय शिक्षते नान्तर्धनाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय.
न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय.
नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते (श्स्प्_इइ-3_100) नान्तर्धानाय.
न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यांनां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
आह: किंकारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संस्कारानं परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वायाः (श्स्प्_इइ-3_101) परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनसः परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाकाशधातोः परिग्रहाय (श्स्प्_इइ-3_102) शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय.
किंकारणं नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्काराणां परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धनाय.
किंकारणं न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय.
किंकारणं नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवराग्रशून्यतायः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते (श्स्प्_इइ-3_103) नान्तर्धानाय, किंकारणं नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
किंकारणं न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धाणाय, किंकारणं न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टादशानाम् आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं ननागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय.
सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संज्ञायाः परिग्रहो नास्ति, न हि संज्ञा संज्ञां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि चक्षुषः परिग्रहो नास्ति, न हि चक्षुश् चक्षुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रस्य परिग्रहो नास्ति, न हि श्रोत्रं श्रोत्रं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणस्य परिग्रहो नास्ति, न हि घ्राणं घ्राणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वायाः परिग्रहो नास्ति, न हि जिह्वा जिह्वां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायस्य परिग्रहो नास्ति, न हि कायः कायं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनसः परिग्रहो नास्ति, न हि मनो मनसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शब्दस्य परिग्रहो नास्ति, न हि शब्दः शब्दं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि गन्धस्य परिग्रहो नास्ति, न हि गन्धः गन्धं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि रसस्य परिग्रहो नास्ति, न हि रसो रसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धर्माणां परिग्रहो नास्ति, न हि धर्म धर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि चक्षुर्विज्ञानस्य परिग्रहो नास्ति, न हि चक्षुर्विज्ञानं चक्षुर्विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रविज्ञानस्य परिग्रहो नास्ति, न हि श्रोत्रविज्ञानं श्रोत्रविज्ञाननि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणविज्ञानस्य परिग्रहो नास्ति, न हि घ्राणविज्ञानं घ्राणविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (श्स्प्_इइ-3_105) उपादाय, तथा हि जिह्वाविज्ञानस्य परिग्रहो नास्ति, न हि जिह्वाविज्ञानं जिह्वाविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायविज्ञानस्य परिग्रहो नास्ति, न हि कायविज्ञानं कायविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनोविज्ञानस्य परिग्रहो नास्ति, न हि मनोविज्ञानं मनोविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि चक्षुःसंस्पर्शस्य परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शस्य परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शस्य परिग्रहो नास्ति, न हि घ्राणसंस्पर्शो घ्राणसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शस्य परिग्रहो नास्ति, न हि जिह्वासंस्पर्शो जिह्वासंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शस्य परिग्रहो नास्ति, न हि कायसंस्पर्शः कायसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शस्य परिग्रहो नास्ति, न हि मनःसंस्पर्शो मनःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि पृथिवीधातोः परिग्रहो नास्ति, न हि पृथिवीधातुः पृथिवीधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अब्धातोः परिग्रहो नास्ति, न ह्य् अब्धातुर् अब्धातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तेजोधातोः परिग्रहो नास्ति, न हि तेजोधातुस् तेजोधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वायुधातोः परिग्रहो नास्ति, न हि वायुधातुर् वायुधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आकाशधातोः परिग्रहो नास्ति, न ह्य् आकाशधातुर् आकाशधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानधातोः परिग्रहो नास्ति, न हि विज्ञानधातुर् विज्ञानधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा ह्य् अविद्यायाः परिग्रहो नास्ति, न ह्य् अविद्याविद्यां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि नामरूपस्य परिग्रहो नास्ति, न हि नामरूपं नामरूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि षडायतनस्य परिग्रहो नास्ति, न हि षडायतनं षडायतनं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तृष्णायाः परिग्रहो नास्ति, न हि तृष्णा तृष्णां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् उपादानस्य परिग्रहो नास्ति, न ह्य् उपादानम् उपादानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि भवस्य परिग्रहो नास्ति, न हि भवो भवं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जातेः परिग्रहो नास्ति, न हि जातिर् जातिं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जरामरणस्य परिग्रहो नास्ति, न हि जरामरणं जरामरणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि दानपारमितायाः परिग्रहो नास्ति, न हि दानपारमिता दानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शीलपारमितायाः परिग्रहो नास्ति, न हि शीलपारमिता शीलपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि क्षान्तिपारमितायाः परिग्रहो नास्ति, न हि क्षान्तिपारमिता क्षान्तिपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (श्स्प्_इइ-3_107) उपादाय, तथा हि वीर्यपारमितायाः परिग्रहो नास्ति, न हि वीर्यपारमिता वीर्य पारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानपारमितायाः परिग्रहो नास्ति, न हि ध्यानपारमिता ध्यानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रज्ञापारमितायाः परिग्रहो नास्ति, न हि प्रज्ञापारमिता प्रज्ञापारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा ह्य् अध्यात्मशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मशून्यताध्यात्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बहिर्धाशून्यतायाः परिग्रहो नास्ति, न हि बहिर्धाशून्यता बहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अध्यात्मबहिर्धाशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यताशून्यतायाः परिग्रहो नास्ति, न हि शून्यताशून्यता शून्यताशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाशून्यतायाः परिग्रहो नास्ति, न हि महाशून्यता महाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि परमार्थशून्यतायाः परिग्रहो नास्ति, न हि परमार्थशून्यता परमार्थशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्कृतशून्यतायाः परिग्रहो नास्ति, न हि संस्कृतशून्यता संस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् असंस्कृतशून्यतायाः परिग्रहो नास्ति, न ह्य् असंस्कृतशून्यतासंस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अत्यन्तशून्यतायाः परिग्रहो नास्ति, न ह्य् अत्यन्तशून्यतात्यन्तशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवराग्रशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवराग्रशून्यतानवराग्रशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवकारशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवकारशून्यतानवकारशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रकृतिसून्यतायाः परिग्रहो नास्ति, न
हि प्रकृतिशून्यत प्रकृतिशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वधर्मशून्यतायाः परिग्रहो नास्ति, न हि सर्वधर्मशून्यता सर्वधर्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वलक्षणशून्यतायाः परिग्रहो नास्ति, न हि स्वलक्षणशून्यता स्वलक्षणशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपलम्भशून्यतायाः परिग्रहो (श्स्प्_इइ-3_108) नास्ति, न ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावशून्यताभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वभावशून्यतायाः परिग्रहो नास्ति, न हि स्वभावशून्यता स्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावस्वभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
तथा हि स्मृत्युपस्थानानां परिग्रहो नास्ति, न हि स्मृत्युपस्थानानि स्मृत्युपस्थानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सम्यक्प्रहाणानां परिग्रहो नास्ति, न हि सम्यक्प्रहाणानि सम्यक्प्रहाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् ऋद्धिपादानां परिग्रहो नास्ति, न ह्य् ऋद्धिपादा ऋद्धिपादान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हीन्द्रियाणां परिग्रहो नास्ति, न हीन्द्रियाणीन्द्रियाणि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बलानां परिग्रहो नास्ति, न हि बलानि बलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बोध्यङ्गानां परिग्रहो नास्ति, न हि बोध्यङ्गानि बोध्यङ्गानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आर्याष्टाङ्गस्य मार्गस्य परिग्रहो नास्ति, न हि मार्गो मार्गं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आर्यसत्यानां परिग्रहो नास्ति, न ह्य् आर्यसत्यान्य् आर्यसत्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानानां परिग्रहो नास्ति, न हि ध्यानानि ध्यानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अप्रमाणानां परिग्रहो नास्ति, न ह्य् अप्रमाणान्य् अप्रमाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आरूप्यसमापत्तीनां परिग्रहो नास्ति, न ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विमोक्षाणां परिग्रहो नास्ति, न हि विमोक्षा विमोक्षां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपूर्वविहारसमापत्तीनां परिग्रहो नास्ति, न ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तीः
परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहो नास्ति, न हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभिज्ञानां परिग्रहो नास्ति, न ह्य् (श्स्प्_इइ-3_109) अभिज्ञा अभिज्ञाः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि समाधीनां परिग्रहो नास्ति, न हि समाधयः समाधीन् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धारणीमुखानां परिग्रहो नास्ति, न हि धारणीमुखानि धारणीमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तथागतबलानां परिग्रहो नास्ति, न हि तथागतबलानि तथागतबलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वैशारद्यानां परिग्रहो नास्ति, न हि वैशारद्यानि वैशारद्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रतिसंविदां परिग्रहो नास्ति, न हि प्रतिसंविदः प्रतिसंविदः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महामैत्र्यां परिग्रहो नास्ति, न हि महामैत्री महामैत्रीं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाकरुणायाः परिग्रहो नास्ति, न हि महाकरुणा महाकरुणां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आवेणिकबुद्धधर्माणां परिग्रहो नास्ति, न ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वज्ञतायाः परिग्रहो नास्ति, न हि सर्वज्ञता सर्वज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मार्गाकारज्ञतायाः परिग्रहो नास्ति,
न हि मार्गाकारज्ञता मार्गाकरज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वाकारज्ञतायाः परिग्रहो नास्ति, न हि सर्वाकारज्ञता सर्वाकारज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय.
एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मपरिग्रहयोगेन सर्वाकारज्ञतायां निर्यास्यति.
आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति.
सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वधर्मा परिग्रहयोगेन.
आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिग्रहायान्तर्धानाय शिक्षित्वा कथं सर्वाकारज्ञतायां निर्यास्यति?
सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् न रूपस्योत्पादं पश्यति, न निरोधं पश्यति (श्स्प्_इइ-3_110) नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते,
न वेदनाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते,
न संज्ञाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संज्ञा संज्ञास्वभावे न संविद्यते नोपलभ्यते,
न संस्काराणाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते नोपलभ्यते,
न विज्ञानस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते.
न चक्षुष उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुश् चक्षुःस्वभावे न संविद्यते नोपलभ्यते,
न श्रोत्रस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रं श्रोत्रस्वभावे न संविद्यते नोपलभ्यते,
न घ्राणस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणं घ्राणस्वभावे न संविद्यते नोपलभ्यते,
न जिह्वाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति (श्स्प्_इइ-3_111) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वा जिह्वास्वभावे न संविद्यते नोपलभ्यते,
न कायस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायः कायस्वभावे न संविद्यते नोपलभ्यते,
न मनस उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनो मनःस्वभावे न संविद्यते नोपलभ्यते.
न रूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते,
न शब्दस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शब्दः शब्दस्वभावे न संविद्यते नोपलभ्यते,
न गन्धस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि गन्धो गन्धस्वभावे न संविद्यते नोपलभ्यते,
न रसस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रसो रसस्वभावे न संविद्यते नोपलभ्यते,
न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते,
न धर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (श्स्प्_इइ-3_112) पश्यति. तत् कस्य हेतोः? तथा हि धर्मा धर्मस्वभावे न संविद्यते नोपलभ्यते.
न चक्षुर्विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानस्वभावे न संविद्यते नोपलभ्यते,
न श्रोत्रविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानस्वभावे न संविद्यते नोपलभ्यते,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
