Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 13/31

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

शतसाहस्रिका प्रज्ञापारमिता-2

Thông tin
GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

तृष्णा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

उपादानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, उपादानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.

भवो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, भवः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, भव आत्मेत्य् अनात्मेति (श्स्प् इइ-2 162) न स्थातव्यम् उपलम्भयोगेन, भवः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, भवः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, भवो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, भवः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, भवो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, भवः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.

जातिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जातिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जातिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जातिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जातिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जातिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जातिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

जरामरणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.

दानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता प्रणिहितेत्य् अप्रनिहितेति न स्थातव्यम् उपलम्भयोगेन.

शीलपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता (श्स्प् इइ-2 163) आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

क्षान्तिपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

वीर्यपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

ध्यानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

प्रज्ञापारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अध्यात्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

बहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अध्यात्मबहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न (श्स्प् इइ-2 165) स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

शून्यताशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

महाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

परमार्थशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

संस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 166) संस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

असंस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अत्यन्तशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अनवराग्रशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता सुखेति दुह्खेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अनवकारशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 167) अनवकारशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

प्रकृतिशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

सर्वधर्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

स्वलक्षणशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 168) स्वलक्षणशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अनुपलम्भशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

स्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

अभावस्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् (श्स्प् इइ-2 169) उपलम्भयोगेन, अभावस्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

स्मृत्युपस्थानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

सम्यक्प्रहाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

ऋद्धिपादा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा निमित्ता इत्य् अनिमित्त इति न (श्स्प् इइ-2 170) स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

इन्द्रियाणि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाण्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

बलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

बोध्यङ्गानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

आर्याष्टाङ्गमार्गो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्ग आत्मा इत्य् अनात्मा इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 171) आर्याष्टाङ्गमार्गः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.

आर्यसत्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि सुखानिति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

ध्यानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

अप्रमाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

आरूप्यसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 172) आरूप्यसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

अष्टौ विमोक्षा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

अनुपूर्वविहारसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (श्स्प् इइ-2 173) विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

अभिज्ञा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

समाधयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, समाधय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयो निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

धारणीमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

तथागतबलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 174) तथागतबलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

वैशारद्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन.

प्रतिसंविदो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

महामैत्री नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महामैत्र्य् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 175) महामैत्री प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

महाकरुणा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

आवेणिकबुद्धधर्मा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.

स्रोतआपत्तिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.

सकृदागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् (श्स्प् इइ-2 176) उपलम्भयोगेन, सकृदागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन.

अनागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.

अर्हत्त्वं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.

प्रत्येकबोधिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

सर्वज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

मार्गाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

सर्वाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.

पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनुत्तरायाः सम्यक्संबोधिर् असंस्कृतप्रभावितम् (श्स्प् इइ-2 178) इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्ना दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हन् दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन, तथागतो ऽर्हन् सम्यक्संबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम् उपलम्भयोगेन, द्वितीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, तृतीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, चतुर्थायां भूमौ न स्थातव्यम् उपलम्भयोगेन, पञ्चम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, षष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, सप्तम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, अष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, नवम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन.

पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन.

स्मृत्युपस्थानानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बलानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्गं परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रमिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रम्य बुद्धभूमौ स्थास्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन.

पञ्चबोधिसत्त्वाभिज्ञाः परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वा अप्रमेयान्य् असंख्येयानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामि बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय श्रुत्वा च तथत्वाय परेभ्यो देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.

यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्रानि तदृशानि एव परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, सत्त्वान् बोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.

अप्रमेयासंख्येयांश् च लोकधातुं गत्वा तान् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पूजयिष्यामीति, पुष्पमाल्यगन्धविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः कोटीनियुतशतसहस्रैश् च तांस् तथागतां पूजयिष्यामीत्य् एवम् अपि न स्थातव्यम् उपलम्भयोगेन, अप्रमेयासंख्येयां सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन.

पञ्चचक्षुष्य् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. कतमानि पञ्च? मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सर्वसमाधीं परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, येन येन पुनः समाधीन् आकाङ्क्षयिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यम् उपलम्भयोगेम, सर्वधारणीमुखानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन.

दशतथागतबलानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चत्वारि वैशारद्यानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चतस्रः प्रतिसंविदः परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महामैत्रीं परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणां परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, द्वात्रिंशतानि महापुरुषलक्षणानि काये परिनिष्पादयिष्यामीति न स्थातव्यम् (श्स्प् इइ-2 180) उपलम्भयोगेन, अशीत्य् अनुव्यञ्जनानि काये परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन.

शुद्धानुसारीनि न स्थातव्यम् उपलम्भयोगेन, धर्मानुसारीनि न स्थातव्यम् उपलम्भयोगेन, अष्टमक इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्न इति न स्थातव्यम् उपलम्भयोगेन, सप्तकृत्वभवपरमम् इति न स्थातव्यम् उपलम्भयोगेन, कुलंकुल इत्य् एकवीचिक इति न स्थातव्यम् उपलम्भयोगेन, समशीर्षपुद्गल इति न स्थातव्यम् उपलम्भयोगेन, आयुःक्षये क्लेशक्षये चेति न स्थातव्यम् उपलम्भयोगेन, अविनिपातधर्मा इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामि सकृद् इमं लोकम् आगम्य दुःखस्यां तं करिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अनागगामिफलसाक्षात्क्रियायै प्रतिकन्नक इति न स्थातव्यम् उपलम्भयोगेन, अनागामि तत्रैव निर्वास्यतीति न स्थातव्यम् उपलम्भयोगेन, अर्हत्फलसाक्षात्क्रियायैः प्रतिपन्नक इति न स्थातव्यम् उपलम्भयोगेन, अर्हन्न् इहैवानुपधिशेषनिर्वाणधातौ परिनिर्वापयिष्यतीति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्ध इति न स्थातव्यम् उपलम्भयोगेन, अतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ स्थास्यामीति इति न स्थातव्यम् उपलम्भयोगेन.

मार्गाकारज्ञताज्ञाने सर्वाकारज्ञतायां च न स्थातव्यम् उपलम्भयोगेन, सर्वाकारैः सर्वधर्मान् अभिसंबुद्धा सर्वावासना न संविक्ते शक्षयायां न स्थातव्यम् उपलम्भयोगेन, अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रप्रवर्तयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बुद्धकार्ये कृत्वा अप्रमेयान् असंख्येयान् लोकधातून् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम् उपलम्भयोगेन.

चतुर्षु ऋद्धिपादेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपं समाधिं समापद्य गङ्गानदीवालुकोपमान् कल्पान् तिष्ठेयम् इति न स्थातव्यम् उपलम्भयोगेन, अपरिमितश् च मे आयुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन.

द्वात्रिंशतां मे महापुरुषलक्षणानाम् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पूर्वेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातव उत्तरेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः उत्तरपूर्वेण, यावन्तो गङ्गानदीवालुकोपमा (श्स्प् इइ-2 181) लोकधातवः पूर्वदक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणपश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमोत्तरेण, तावन्त एकं मे बुद्धक्षेत्रं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, वज्रोपमो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन.

बोधिवृक्षाश् च मे तादृशो गन्धो निश्चरेत्, ये सत्त्वास् तं गन्धम् आजिघ्रेयुस् तेषाम् न रागद्वेषमोहाश् च व्याबाधेयुर् इति न स्थातव्यम् उपलम्भयोगेन, न श्रावकचित्तं न प्रत्येकबुद्धचित्तम् उत्पद्येयुर् इति न स्थातव्यम् उपलम्भयोगेन, सर्वे च ते नियता भवेयुर् अनुत्तराया सम्यक्संबुद्धाव् इति न स्थातव्यम् उपलम्भयोगेन, ये च सत्त्वास् तं बोधिवृक्षगन्धम् आजिघ्रेयुस् तेषां न कश्चिद् व्याधिर् भवेद् काये वा चित्ते वेति न स्थातव्यम् उपलम्भयोगेन.

तत्र च मे बुद्धक्षेत्रे न रूपशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न वेदनाशब्दो भवेन् न संज्ञाशब्दो भवेन् न संस्कारशब्दो भवेन् न विज्ञानशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन,

न धातुशब्दो नायतनशब्दो न प्रतीत्यसमुत्पादशब्दो भवेद् इति स्थातव्यम् उपलम्भयोगेन,

न दानपारमिताशब्दो भवेन् न शीलपारमिताशब्दो भवेन् न क्षान्तिपारमिताशब्दो भवेन् न वीर्यपारमिताशब्दो भवेन् न ध्यानपारमिताशब्दो भवेन् न प्रज्ञापारमिताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन,

नाध्यात्मशून्यताशब्दो भवेन् न बहिर्धाशून्यताशब्दो भवेन् नाध्यात्मबहिर्धाशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न शून्यताशून्यताशब्दो भवेन् न महाशून्यताशब्दो भवेन् न परमार्थशून्यताशब्दो भवेन् न संस्र्तशून्यताशब्दो भवेन् नासंस्कृतशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नात्यन्तशून्यताशब्दो भवेन् नानवराग्रशून्यताशब्दो भवेन् नानवकारशून्यताशब्दो भवेन् न प्रकृतिशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न सर्वधर्मशून्यताशब्दो भवेन् न स्वलक्षणशून्यताशब्दो भवेन् नानुपलम्भशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नाभावशून्यताशब्दो भवेन् न स्वभावशून्यताशब्दो भवेन् नाभावस्वभावशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 182) न स्मृत्युपस्थानशब्दो भवेन् न सम्यक्प्रहाणशब्दो भवेन् न ऋद्धिपादशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नेन्द्रियशब्दो भवेन् न बलशब्दो भवेन् न बोध्यङ्गशब्दो भवेन् नार्याष्टाङ्गमार्गशब्दो भवेन् नार्यसत्यशब्दो भवेद् इति न स्थातवय्म् उपलम्भयोगेन, न ध्यानशब्दो भवेन् नाप्रमाणशब्दो भवेन् नारूप्यसमापत्तिशब्दो भवेन् न विमोक्षशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नानुपूर्वविहारसमापत्तिशब्दो भवेन् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशब्दो भवेन् नाभिज्ञाशब्दो भवेन् न समाधिशब्दो भवेन् न धारणीमुखशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न तथागतबलशब्दो भवेन् न वैशारद्यशब्दो भवेन् न प्रतिसंविद्शब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न महामैत्रीशब्दो भवेन् न महाकरुणाशब्दो भवेन् नावेणिकबुद्धधर्मशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न स्रोतआपत्तिशब्दो भवेन् न सकृदागामिशब्दो भवेन् नानागामिशब्दो भवेन् नार्हत्त्वशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न प्रत्येकबुद्धशब्दो भवेन् न बुद्धशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन. तत् कस्य हेतोः? तथा हि तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्मा नोपलब्धाः.

एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन.

अथायुष्मतः शारद्वतीपुतस्यैतद् अभूत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्?

अथायुष्मतः सुभूतिर् आयुष्मतः शारद्वतीपुत्रस्य चेतस्यैव चेतःपरिवितर्कम् आज्ञायायुष्मतं शारद्वतीपुत्रम् आमन्त्रयति स्म. तत् किं मन्यसे? आयुष्मञ् छारद्वतीपुत्र क्व तथागतो ऽर्हन् सम्यक्संबुद्धः स्थितः.

आह: न क्वचिद् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स्थित इति अप्रतिस्थितमानसः खलु पुनर् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स रूपे न स्थितो वेदनायां न स्थितः संज्ञायां न स्थितः संस्कारेषु न स्थितो विज्ञाने न स्थितः.

न चक्षुषि स्थितो न श्रोत्रे स्थितो न घ्राणे स्थितो न जिह्वायां स्थितो न काये स्थितो न मनसि स्थितः.

न रूपे स्थितो न शब्दे स्थितो न गन्धे स्थितो न रसे स्थितो न स्पर्शे स्थितो न धर्मेषु स्थितः.

न चक्षुर्विज्ञाने स्थितो न श्रोत्रविज्ञाने स्थितो न घ्राणविज्ञाने स्थितो न जिह्वाविज्ञाने स्थितो न कायविज्ञाने स्थितो न मनोविज्ञाने स्थितः.

न चक्षुःसंस्पर्शे स्थितो न श्रोत्रसंस्पर्शे स्थितो न घ्राणसंस्पर्शे स्थितो न जिह्वासंस्पर्शे स्थितो न कायसंस्पर्शे स्थितो न मनःसंस्पर्शे स्थितः.

न चक्षुःसंस्पर्शप्रत्ययवेदनायां स्थितो न श्रोत्रसंस्पर्शप्रत्ययवेदनायां स्थितो न घ्राणसंस्पर्शप्रत्ययवेदनायां स्थितो न जिह्वासंस्पर्शप्रत्ययवेदनायां स्थितो न कायसंस्पर्शप्रत्ययवेदनायां स्थितो न मनःसंस्पर्शप्रत्ययवेदनायां स्थितः. न पृथिवीधातौ स्थितो नाब्धातौ स्थितो न तेजोधातौ स्थितो न वायुधातौ स्थितो नाकाशधातौ स्थितो न विज्ञानधातौ स्थितः.

नाविद्यायां स्थितो न संस्कारेषु स्थितो न विज्ञाने स्थितो न नामरूपे स्थितो न षडायतने स्थितो न स्पर्शे स्थितो न वेदनायां स्थितो न तृष्णायां स्थितो नोपादाने स्थितो न भवे स्थितो न जातौ स्थितो न जरामरणे स्थितः.

न दानपारमितायां स्थितो न शीलपारमितायां स्थितो न क्षान्तिपारमितायां स्थितो न वीर्यपारमितायां स्थितो न ध्यानपारमितायां स्थितो न प्रज्ञापारमितायां स्थितः.

नाध्यात्मशून्यतायां स्थितो न बहिर्धाशून्यतायां स्थितो नाध्यात्मबहिर्धाशून्यतायां स्थितो न शून्यताशून्यतायां स्थितो न महाशून्यतायां स्थितो न परमार्थशून्यतायां स्थितो न संस्कृतशून्यतायां स्थितो नासंस्कृतशून्यतायां स्थितो नात्यन्तशून्यतायां स्थितो नानवराग्रशून्यतायां स्थितो नानवकारशून्यतायां स्थितो न प्रकृतिशून्यतायां स्थितो न सर्वधर्मशून्यतायां स्थितो न स्वलक्षणशून्यतायां स्थितो नानुपलम्भशून्यतायां स्थितो नाभावशून्यतायां स्थितो न स्वभावशून्यतायां स्थितो नाभावस्वभावशून्यतायां स्थितः. न स्मृत्युपस्थानेषु स्थितो न सम्यक्प्रहाणेषु स्थितो न ऋद्धिपादेषु स्थितो नेन्द्रियेषु स्थितो न बलेषु स्थितो न बोध्यङ्गेषु स्थितो नार्याष्टाङ्गे मर्गे स्थितो नार्यसत्येषु स्थितो न ध्यानेषु स्थितो नाप्रमाणेषु स्थितो नारूप्यसमापत्तिषु स्थितो न विमोक्षेषु स्थितो नानुपूर्वविहारसमापत्तिषु स्थितो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितो नाभिज्ञासु स्थितो न समाधिषु स्थितो न धारणीमुखेषु (श्स्प् इइ-2 184) स्थितो न तथागतबलेषु स्थितो न वैशारद्येषु स्थितो न प्रतिसंवित्सु स्थितो न महामैत्र्या स्थितो न महाकरुणायां स्थितो नावेणिकबुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितो न मार्गाकारज्ञतायां स्थितो न सर्वाकारज्ञतायां स्थितः.

सुभूतिर् आह: एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा तथागतो ऽर्हन् सम्यक्संबुद्धो रूपे नैव स्थितो नास्थितो वेदनायां नैव स्थितो नास्थितः सम्ज्ञायाम् नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितः.

चक्षुषि नैव स्थितो नास्थितः श्रोत्रे नैव स्थितो नास्थितो घ्राणे नैव स्थितो नास्थितो जिह्वायां नैव स्थितो नास्थितः काये नैव स्थितो नास्थितो मनसि नैव स्थितो नास्थितः.

रूपे नैव स्थितो नास्थितः शब्दे नैव स्थितो नास्थितो गन्धे नैव स्थितो नास्थितो रसे नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो धर्मेषु नैव स्थितो नास्थितः.

चक्षुर्विज्ञाने नैव स्थितो नास्थितः श्रोत्रविज्ञाने नैव स्थितो नास्थितो घ्राणविज्ञाने नैव स्थितो नास्थितो जिह्वाविज्ञाने नैव स्थितो नास्थितः कायविज्ञाने नैव स्थितो नास्थितो मनोविज्ञाने नैव स्थितो नास्थितः.

चक्षुःसंस्पर्शे नैव स्थितो नास्थितः श्रोत्रसंस्पर्शे नैव स्थितो नास्थितो घ्राणसंस्पर्शे नैव स्थितो नास्थितो जिह्वासंस्पर्शे नैव स्थितो नास्थितः कायसंस्पर्शे नैव स्थितो नास्थितो मनःसंस्पर्शे नैव स्थितो नास्थितः.

चक्षुःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः श्रोत्रसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो घ्राणसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो जिह्वासंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः कायसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो मनःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः

पृथिवीधातौ नैव स्थितो नास्थितो ऽब्धातौ नैव स्थितो नास्थितः तेजोधातौ नैव स्थितो नास्थितो वायुधातौ नैव स्थितो नास्थित आकाशधातौ नैव स्थितो नास्थितो विज्ञानधातौ नैव स्थितो नास्थितः.

अविद्यायां नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितो नामरूपे नैव स्थितो नास्थितः षडायतने नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो वेदनायां नैव स्थितो (श्स्प् इइ-2 185) नास्थितः तृष्णायां नैव स्थितो नास्थित उपादाने नैव स्थितो नास्थितो भवे नैव स्थितो नास्थितो जातौ नैव स्थितो नास्थितो जरामरणे नैव स्थितो नास्थितः.

दानपारमितायां नैव स्थितो नास्थितः शीलपारमितायां नैव स्थितो नास्थितः क्षान्तिपारमितायां नैव स्थितो नास्थितो वीर्यपारमितायां नैव स्थितो नास्थितो ध्यानपारमितायां नैव स्थितो नास्थितः प्रज्ञापारमितायां नैव स्थितो नास्थितः.

अध्यात्मशून्यतायां नैव स्थितो नास्थितो बहिर्धाशून्यतायां नैव स्थितो नास्थितो ऽध्यात्मबहिर्धाशून्यतायां नैव स्थितो नास्थितः शून्यताशून्यतायां नैव स्थितो नास्थितो महाशून्यतायां नैव स्थितो नास्थितः परमार्थशून्यतायां नैव स्थितो नास्थितः संस्कृतशून्यतायां नैव स्थितो नास्थितो ऽसंस्कृतशून्यतायां नैव स्थितो नास्थितो ऽत्यन्तशून्यतायां नैव स्थितो नास्थितो नवराग्रशून्यतायां नैव स्थितो नास्थितो ऽनवकारशून्यतायां नैव स्थितो नास्थितः प्रकृतिशून्यतायां नैव स्थितो नास्थितः सर्वधर्मशून्यतायां नैव स्थितो नास्थितः स्वलक्षणशून्यतायां नैव स्थितो नास्थितो ऽनुपलम्भशून्यतायां नैव स्थितो नास्थितो ऽभावशून्यतायां नैव स्थितो नास्थितः स्वभावशून्यतायां नैव स्थितो नास्थितो ऽभावस्वभावशून्यतायां नैव स्थितो नास्थितः.

स्मृत्युपस्थानेषु नैव स्थितो नास्थितः, सम्यक्प्रहाणेषु नैव स्थितो नास्थितः, ऋद्धिपादेषु नैव स्थितो नास्थितः, इन्द्रियेषु नैव स्थितो नास्थितः, बलेषु नैव स्थितो नास्थितः, बोध्यङ्गेषु नैव स्थितो नास्थितः, आर्याष्टाङ्गे मर्गे नैव स्थितो नास्थितः, आर्यसत्येषु नैव स्थितो नास्थितः, ध्यानेषु नैव स्थितो नास्थितः, अप्रमाणेषु नैव स्थितो नास्थितः, आरूप्यसमापत्तिषु नैव स्थितो नास्थितः, विमोक्षेषु नैव स्थितो नास्थितः, अनुपूर्वविहारसमापत्तिषु नैव स्थितो नास्थितः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नैव स्थितो नास्थितः, अभिज्ञासु नैव स्थितो नास्थितः, समाधिषु नैव स्थितो नास्थितः, धारणीमुखेषु नैव स्थितो नास्थितः, तथागतबलेषु नैव स्थितो नास्थितः, वैशारद्येषु नैव स्थितो नास्थितः, प्रतिसंवित्सु नैव स्थितो नास्थितः, महामैत्र्यां नैव स्थितो नास्थितः, महाकरुणायां नैव स्थितो नास्थितः, आवेणिकबुद्धधर्मेषु नैव स्थितो नास्थितः, सर्वज्ञतायां नैव स्थितो नास्थितः, मार्गाकारज्ञतायां नैव स्थितो नास्थितः, सर्वाकारज्ञतायां नैव स्थितो नास्थितः.

एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं स्थातव्यम् इत्य् अस्थानयोगेन.

अथ खलु तत्र पर्षदि केषाञ्चिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षपदानि यक्षमन्त्रितानि यक्षरुतानि यक्षप्रव्याहृतानि विज्ञायन्ते, तानि मन्त्रयमाणानि, इदं पुनर् अपि न विज्ञायते यद् आर्यसुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयति विभजत्य् उत्तानीकरोति उपदिशति.

अथायुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयते स्म, न विज्ञायते देवपुत्राणाम् आमन्त्रयते.

देवपुत्रा आहुः: न विज्ञायते आर्यसुभूते.

सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अपि न प्रव्याह्रिते तन् न श्रुयते यन् न श्रुयते तन् न विज्ञायते. तत् कस्य हेतोः? न ह्य् अक्षराणि प्रज्ञापारमिता न चात्र कश्चिद् देशयिता न श्रोता न विज्ञाता. तत् कस्य हेतोः? अनक्षरा हि देवपुत्रास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः तद् यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीते. स च पुनर् निर्मितश् चतस्रपर्षदो निर्मिमीतः भिक्षुभिक्षुण्युपासकोपासिकाः.

अथ स निर्मितः ताभ्यो निर्मिताभ्यश् चतसृभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः. अपि तु तत्र पर्षदि केनचिद् देशितं भवेत्? केनचिच् छ्रुतम् आज्ञातं च भवेत्?

आहुः: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्मा निर्मितोपमास् तत्र केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्राः स्वप्नान्तरगतः पुरुषस् तथागतम् अर्हन्तं सम्यक्संबुद्धधर्मं देशयन्तं पश्येत्. तत् किं मन्यध्वे? देवपुत्राः. अपि नु तत्र देशितं वा श्रुतं वा आज्ञातं वा भवेत्.

आहुः: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: एवम् एव देवपुत्राः स्वप्नोपमाः सर्वधर्मास् तत्र न केनचिद् देशितं न केनचिद् श्रुतं न केनचिद् आज्ञातं तद् यथापि नाम देवपुत्राः द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयातां, तत्र उभयतः प्रतिश्रुत्कात् स्वरो निश्चतेत्. तत् किं मन्यध्वे? (श्स्प् इइ-2 187) देवपुत्राः. अपि नु तेनैकेन प्रतिश्रुत्काशब्देन द्वितीयप्रतिश्रुत्काशब्दो विज्ञापितो भवेत्.

आहुह्: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्माः प्रतिश्रुत्कोपमाः, तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभिनिर्मिमीते. चतस्रश् च पर्षदो ऽबिनिर्मिमीतो भिक्षुभिक्षुण्युपासकोपाशिकाः स च निर्मितस् ताभ्यो निर्मिताभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः, अपि नु तत्र केनचिद् देशितं वा श्रुतं वा आज्ञातं वा भवेत्.

आहुह्: नो हीदं भदन्त सुभूते.

सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्.

अथ तेषाम् देवपुत्राणाम् एतद् अभूत्: उत्तरीकरिष्यति बतायम् आर्यस्थविरः सुभूतिर् उत्तानीकरिष्यति बतायम् आर्यस्थविरः सुभूतिः प्रज्ञापारमिताम् इति, अथ च पुनर् गम्भीराद् गम्भीरतरं देशयति, शूक्ष्मात् शूक्ष्मतरं प्रविशति.

अथायुष्मान् सुभूतिस् तेषाम् देवपुत्राणाम् चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: न खलु देवपुत्रा रूपं गम्भीरं न शूक्ष्मं, न वेदना गम्भीरा न शूक्ष्मा, न संज्ञा गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न संज्ञास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः.

न चक्षुर् गम्भीरं न शूक्ष्मं, न श्रोत्रं गम्भीरं न शूक्ष्मं, न घ्राणं गम्भीरं न शूक्ष्मं, न जिह्वा गम्भीरा न शूक्ष्मा, न कायो गम्भीरो न शूक्ष्मः, न मनो गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुःस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वास्वभावो (श्स्प् इइ-2 188) गम्भीरो न शूक्ष्मः, न कायस्वभावो गम्भीरो न शूक्ष्मः, न मनःस्वभावो गम्भीरो न शूक्ष्मः.

न रूपं गम्भीरं न शूक्ष्मं, न शब्दो गम्भीरो न शूक्ष्मः, न गन्धो गम्भीरो न शूक्ष्मः, न रसो गम्भीरो न शूक्ष्मः, न स्पर्शो गम्भीरो न शूक्ष्मः, न धर्मा गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न शब्दस्वभावो गम्भीरो न शूक्ष्मः, न गन्धस्वभावो गम्भीरो न शूक्ष्मः, न रसस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न धर्मस्वभावो गम्भीरो न शूक्ष्मः.

न चक्षुर्विज्ञानं गम्भीरं न शूक्ष्मं, न श्रोत्रविज्ञानं गम्भीरं न शूक्ष्मं, न घ्राणविज्ञानं गम्भीरं न शूक्ष्मं, न जिह्वाविज्ञानं गम्भीरं न शूक्ष्मं, न कायविज्ञानं गम्भीरं न शूक्ष्मं, न मनोविज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुर्विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वाविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न कायविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न मनोविज्ञानस्वभावो गम्भीरो न शूक्ष्मः.

न चक्षुःसंस्पर्शो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शो गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः.

न चक्षुःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न श्रोत्रसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न घ्राणसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न जिह्वासंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न कायसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न मनःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शप्रत्ययवेदनास्वभावो (श्स्प् इइ-2 189) गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः.

न पृथिवीधातुर् गम्भीरो न शूक्ष्मः, नाब्धातुर् गम्भीरो न शूक्ष्मः, न तेजोधातुर् गम्भीरो न शूक्ष्मः, न वायुधातुर् गम्भीरो न शूक्ष्मः, नाकाशधातुर् गम्भीरो न शूक्ष्मः, न विज्ञानधातुर् गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न पृथिवीधातुस्वभावो गम्भीरो न शूक्ष्मः, नाब्धातुस्वभावो गम्भीरो न शूक्ष्मः, न तेजोधातुस्वभावो गम्भीरो न शूक्ष्मः, न वायुधातुस्वभावो गम्भीरो न शूक्ष्मः, नाकाशधातुस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानधातुस्वभावो गम्भीरो न शूक्ष्मः.

नाविद्या गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मं, न नामरूपं गम्भीरं न शूक्ष्मं, न षडायतनं गम्भीरं न शूक्ष्मं, न स्पर्शो गम्भिरो न शूक्ष्मः, न वेदना गम्भीरा न शूक्ष्मा, न तृष्णा गम्भीरा न शूक्ष्मा, नोपादानं गम्भीरं न शूक्ष्मं, न भवो गम्भीरो न शूक्ष्मः, न जातिर् गम्भीरा न शूक्ष्मा, न जरामरणं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? नाविद्यास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न नामरूपस्वभावो गम्भीरो न शूक्ष्मः, न षडायतनस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न तृष्णास्वभावो गम्भीरो न शूक्ष्मः, नोपादानस्वभावो गम्भीरो न शूक्ष्मः, न भवस्वभावो गम्भीरो न शूक्ष्मः, न जातिस्वभावो गम्भीरो न शूक्ष्मः, न जरामरणस्वभावो गम्भीरो न शूक्ष्मः.

न दानपारमिता गम्भीरा न शूक्ष्मा, न शीलपारमिता गम्भीरा न शूक्ष्मा, न क्षान्तिपारमिता गम्भीरा न शूक्ष्मा, न वीर्यपारमिता गम्भीरा न शूक्ष्मा, न ध्यानपारमिता गम्भीरा न शूक्ष्मा, न प्रज्ञापारमिता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? न दानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न शीलपारमितास्वभावो गम्भीरो न शूक्ष्मः, न क्षान्तिपारमितास्वभावो गम्भीरो न शूक्ष्मः, न वीर्यपारमितास्वभावो गम्भीरो न शूक्ष्मः, न ध्यानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न प्रज्ञापारमितास्वभावो गम्भीरो न शूक्ष्मः.

नाध्यात्मशून्यता गम्भीरा न शूक्ष्मा, न बहिर्धाशून्यता गम्भीरा न शूक्ष्मा, नाध्यात्मबहिर्धाशून्यता गम्भीरा न शूक्ष्मा, न शून्यताशून्यता (श्स्प् इइ-2 190) गम्भीरा न शूक्ष्मा, न महाशून्यता गम्भीरा न शूक्ष्मा, न परमार्थशून्यता गम्भीरा न शूक्ष्मा, न संस्कृतशून्यता गम्भीरा न शूक्ष्मा, नासंस्कृतशून्यता गम्भीरा न शूक्ष्मा, नात्यन्तशून्यता गम्भीरा न शूक्ष्मा, नानवराग्रशून्यता गम्भीरा न शूक्ष्मा, नानवकारशून्यता गम्भीरा न शूक्ष्मा, न प्रकृतिशून्यता गम्भीरा न शूक्ष्मा, न सर्वधर्मशून्यता गम्भीरा न शूक्ष्मा, न स्वलक्षणशून्यता गम्भीरा न शूक्ष्मा, नानुपलम्भशून्यता गम्भीरा न शूक्ष्मा, नाभावशून्यता गम्भीरा न शूक्ष्मा, न स्वभावशून्यता गम्भीरा न शूक्ष्मा, नाभावस्वभावशून्यता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? नाध्यात्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न बहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाध्यात्मबहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न शून्यताशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न महाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न परमार्थशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न संस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नासंस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नात्यन्तशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानवराग्रशून्यतास्वभावो गम्भीरो न शूक्ष्मः नानवकारशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न प्रकृतिशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वधर्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वलक्षणशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानुपलम्भशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावस्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.