Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता-2
- Thông tin
- GRETIL — Takayasu Kimura, Tokyo: Sankibo Busshorin 2009-2014.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, आकाशधातुर् अनित्यतो मनसिकर्तव्यः, आकाशधातुर् दुःखतो मनसिकर्तव्यः, आकाशधातुर् अनात्मतो मनसिकर्तव्यः, आकाशधातुः शान्ततो मनसिकर्तव्यः, आकाशधातुर् विविक्ततो मनसिकर्तव्यः, आकाशधातू रोगतो मनसिकर्तव्यः, आकाशधातुर् गण्डतो मनसिकर्तव्यः, आकाशधातुः शल्यतो मनसिकर्तव्यः, आकाशधातुर् अघतो मनसिकर्तव्यः, आकाशधातुर् आबाधतो मनसिकर्तव्यः, आकाशधातुः परतो मनसिकर्तव्यः, आकाशधातुः प्रलोपधर्मतो मनसिकर्तव्यः, आकाशधातुश् चलतो मनसिकर्तव्यः, आकाशधातुः प्रभङ्गुलतो मनसिकर्तव्यः, आकाशधातुर् भयतो मनसिकर्तव्यः, आकाशधातुर् उपसर्गतो मनसिकर्तव्यः, आकाशधातुः शून्यतो मनसिकर्तव्यः, आकाशधातुर् अनात्मीयतो मनसिकर्तव्यः, आकाशधातुर् अनाश्वासिकतो मनसिकर्तव्यः, आकाशधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानधातुर् अनित्यतो मनसिकर्तव्यः, विज्ञानधातुर् दुःखतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मतो मनसिकर्तव्यः, विज्ञानधातुः शान्ततो मनसिकर्तव्यः, विज्ञानधातुर् विविक्ततो मनसिकर्तव्यः, विज्ञानधातू रोगतो मनसिकर्तव्यः, विज्ञानधातुर् गण्डतो मनसिकर्तव्यः, विज्ञानधातुः शल्यतो मनसिकर्तव्यः, विज्ञानधातुर् अघतो मनसिकर्तव्यः, विज्ञानधातुर् आबाधतो मनसिकर्तव्यः, विज्ञानधातुः परतो मनसिकर्तव्यः, विज्ञानधातुः प्रलोपधर्मतो मनसिकर्तव्यः, विज्ञानधातुश् चलतो मनसिकर्तव्यः, (श्स्प् इइ-2 132) विज्ञानधातुः प्रभङ्गुलतो मनसिकर्तव्यः, विज्ञानधातुर् भयतो मनसिकर्तव्यः, विज्ञानधातुर् उपसर्गतो मनसिकर्तव्यः, विज्ञानधातुः शून्यतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मीयतो मनसिकर्तव्यः, विज्ञानधातुर् अनाश्वासिकतो मनसिकर्तव्यः, विज्ञानधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अविद्यानित्यतो मनसिकर्तव्या, अविद्या दुःखतो मनसिकर्तव्या, अविद्यानात्मतो मनसिकर्तव्या, अविद्या शान्ततो मनसिकर्तव्या, अविद्या विविक्ततो मनसिकर्तव्या, अविद्या रोगतो मनसिकर्तव्या, अविद्या गण्डतो मनसिकर्तव्या, अविद्या शल्यतो मनसिकर्तव्या, अविद्याघतो मनसिकर्तव्या, अविद्याबाधतो मनसिकर्तव्या, अविद्या परतो मनसिकर्तव्या, अविद्या प्रलोपधर्मतो मनसिकर्तव्या, अविद्या चलतो मनसिकर्तव्या, अविद्या प्रभङ्गुलतो मनसिकर्तव्या, अविद्या भयतो मनसिकर्तव्या, अविद्योपसर्गतो मनसिकर्तव्या, अविद्या शून्यतो मनसिकर्तव्या, अविद्यानात्मीयतो मनसिकर्तव्या, अविद्यानाश्वासिकतो मनसिकर्तव्या, अविद्या व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश् चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानम् अनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानम् अनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानम् अघतो मनसिकर्तव्यम्, विज्ञानम् आबाधतो मनसिकर्तव्यम्, विज्ञानम् परतो (श्स्प् इइ-2 133) मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानम् उपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, नामरूपम् अनित्यतो मनसिकर्तव्यं, नामरूपं दुःखतो मनसिकर्तव्यं, नामरूपम् अनात्मतो मनसिकर्तव्यं, नामरूपं शान्ततो मनसिकर्तव्यं, नामरूपं विविक्ततो मनसिकर्तव्यं, नामरूपं रोगतो मनसिकर्तव्यं, नामरूपं गण्डतो मनसिकर्तव्यं, नामरूपं शल्यतो मनसिकर्तव्यं, नामरूपम् अघतो मनसिकर्तव्यं, नामरूपम् आबाधतो मनसिकर्तव्यं, नामरूपं परतो मनसिकर्तव्यं, नामरूपं प्रलोपधर्मतो मनसिकर्तव्यं, नामरूपं चलतो मनसिकर्तव्यं, नामरूपं प्रभङ्गुलतो मनसिकर्तव्यं, नामरूपं भयतो मनसिकर्तव्यं, नामरूपम् उपसर्गतो मनसिकर्तव्यं, नामरूपं शून्यतो मनसिकर्तव्यं, नामरूपम् अनात्मीयतो मनसिकर्तव्यं, नामरूपम् अनाश्वासिकतो मनसिकर्तव्यं, नामरूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, षडायतनम् अनित्यतो मनसिकर्तव्यम्, सदायतनम् दुह्खतो मनसिकर्तव्यम्, सदायतनम् अनात्मतो मनसिकर्तव्यं, षडायतनं शान्ततो मनसिकर्तव्यं, षडायतनं विविक्ततो मनसिकर्तव्यं, षडायतनं रोगतो मनसिकर्तव्यं, षडायतनं गण्डतो मनसिकर्तव्यं, षडायतनं शल्यतो मनसिकर्तव्यं, षडायतनम् अघतो मनसिकर्तव्यं, षडायतनम् आबाधतो मनसिकर्तव्यं, षडायतनं परतो मनसिकर्तव्यं, षडायतनं प्रलोपधर्मतो मनसिकर्तव्यं, षडायतनं चलतो मनसिकर्तव्यं, षडायतनं प्रभङ्गुलतो मनसिकर्तव्यं, षडायतनं भयतो मनसिकर्तव्यं, षडायतनम् उपसर्गतो मनसिकर्तव्यं, षडायतनं शून्यतो मनसिकर्तव्यं, षडायतनम् अनात्मीयतो मनसिकर्तव्यं, षडायतनम् अनाश्वासिकतो मनसिकर्तव्यं, षडायतनं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्पर्शो ऽनित्यतो मनसिकर्तव्यः, संस्पर्शो दुःखतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मतो (श्स्प् इइ-2 134) मनसिकर्तव्यः, संस्पर्शः शान्ततो मनसिकर्तव्यः, संस्पर्शो विविक्ततो मनसिकर्तव्यः, संस्पर्शो रोगतो मनसिकर्तव्यः, संस्पर्शो गण्डतो मनसिकर्तव्यः, संस्पर्शः शल्यतो मनसिकर्तव्यः, संस्पर्शो ऽघतो मनसिकर्तव्यः, संस्पर्श आबाधतो मनसिकर्तव्यः, संस्पर्शः परतो मनसिकर्तव्यः, संस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, संस्पर्शश् चलतो मनसिकर्तव्यः, संस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, संस्पर्शो भयतो मनसिकर्तव्यः, संस्पर्श उपसर्गतो मनसिकर्तव्यः, संस्पर्शः शून्यतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, संस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, संस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदनानाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तृष्णानित्यतो मनसिकर्तव्या, तृष्णा दुःखतो मनसिकर्तव्या, तृष्णानात्मतो मनसिकर्तव्या, तृष्णा शान्ततो मनसिकर्तव्या, तृष्णा विविक्ततो मनसिकर्तव्या, तृष्णा रोगतो मनसिकर्तव्या, तृस्णा गण्डतो मनसिकर्तव्या, तृष्णा शल्यतो मनसिकर्तव्या, तृष्णाघतो मनसिकर्तव्या, तृष्णाबाधतो मनसिकर्तव्या, तृष्णा परतो मनसिकर्तव्या, तृष्णा प्रलोपधर्मतो मनसिकर्तव्या, तृष्णा चलतो मनसिकर्तव्या, तृष्णा प्रभङ्गुलतो मनसिकर्तव्या, तृष्णा भयतो मनसिकर्तव्या, तृष्णोपसर्गतो मनसिकर्तव्या, तृष्णा शून्यतो मनसिकर्तव्या, तृष्णानात्मीयतो मनसिकर्तव्या, तृष्णानाश्वासिकतो मनसिकर्तव्या, तृष्णा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, उपादानम् अनित्यतो मनसिकर्तव्यं, उपादानं दुःखतो मनसिकर्तव्यं, उपादानम् अनात्मतो मनसिकर्तव्यं, उपादानं शान्ततो मनसिकर्तव्यं, उपादानं (श्स्प् इइ-2 135) विविक्ततो मनसिकर्तव्यं, उपादानं रोगतो मनसिकर्तव्यं, उपादानं गण्डतो मनसिकर्तव्यं, उपादानं शल्यतो मनसिकर्तव्यं, उपादानम् अघतो मनसिकर्तव्यं, उपादानम् आबाधतो मनसिकर्तव्यं, उपादानं परतो मनसिकर्तव्यं, उपादानं प्रलोपधर्मतो मनसिकर्तव्यं, उपादानं चलतो मनसिकर्तव्यं, उपादानं प्रभङ्गुलतो मनसिकर्तव्यं, उपादानं भयतो मनसिकर्तव्यं, उपादानम् उपसर्गतो मनसिकर्तव्यं, उपादानं शून्यतो मनसिकर्तव्यं, उपादानम् अनात्मीयतो मनसिकर्तव्यं, उपादानम् अनाश्वासिकतो मनसिकर्तव्यं, उपादानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, भवो ऽनित्यतो मनसिकर्तव्यः, भवो दुःखतो मनसिकर्तव्यः, भव अनात्मतो मनसिकर्तव्यः, भवः शान्ततो मनसिकर्तव्यः, भवो विविक्ततो मनसिकर्तव्यः, भवो रोगतो मनसिकर्तव्यः, भवो गण्डतो मनसिकर्तव्यः, भवः शल्यतो मनसिकर्तव्यः, भवो ऽघतो मनसिकर्तव्यः, भव आबाधतो मनसिकर्तव्यः, भवः परतो मनसिकर्तव्यः, भवः प्रलोपधर्मतो मनसिकर्तव्यः, भवश् चलतो मनसिकर्तव्यः, भवः प्रभङ्गुलतो मनसिकर्तव्यः, भवो भयतो मनसिकर्तव्यः, भव उपसर्गतो मनसिकर्तव्यः, भवः शून्यतो मनसिकर्तव्यः, भवो ऽनात्मीयतो मनसिकर्तव्यः, भवो ऽनाश्वासिकतो मनसिकर्तव्यः, भवो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जातिर् अनित्यतो मनसिकर्तव्या, जातिर् दुःखतो मनसिकर्तव्या, जातिर् अनात्मतो मनसिकर्तव्या, जातिः शान्ततो मनसिकर्तव्या, जातिर् विविक्ततो मनसिकर्तव्या, जाती रोगतो मनसिकर्तव्या, जातिर् गण्डतो मनसिकर्तव्या, जातिः शल्यतो मनसिकर्तव्या, जातिर् अघतो मनसिकर्तव्या, जातिर् आबाधतो मनसिकर्तव्या, जातिः परतो मनसिकर्तव्या, जातिः प्रलोपधर्मतो मनसिकर्तव्या, जातिश् चलतो मनसिकर्तव्या, जातिः प्रभङ्गुलतो मनसिकर्तव्या, जातिर् भयतो मनसिकर्तव्या, जातिर् उपसर्गतो मनसिकर्तव्या, जातिः शून्यतो मनसिकर्तव्या, जातिर् अनात्मीयतो मनसिकर्तव्या, जातिर् अनाश्वासिकतो मनसिकर्तव्या, जातिर् व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन.
सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जरामरणम् अनित्यतो मनसिकर्तव्यं, जरामरणं दुःखतो मनसिकर्तव्यं, जरामरणम् अनात्मतो मनसिकर्तव्यं, जरामरणं शान्ततो मनसिकर्तव्यं, जरामरणं विविक्ततो मनसिकर्तव्यं, जरामरणं रोगतो मनसिकर्तव्यं, (श्स्प् इइ-2 136) जरामरणं गण्डतो मनसिकर्तव्यं, जरामरणं शल्यतो मनसिकर्तव्यं, जरामरणम् अघतो मनसिकर्तव्यं, जरामरणम् आबाधतो मनसिकर्तव्यं, जरामरणं परतो मनसिकर्तव्यं, जरामरणं प्रलोपधर्मतो मनसिकर्तव्यं, जरामरणं चलतो मनसिकर्तव्यं, जरामरणं प्रभङ्गुलतो मनसिकर्तव्यं, जरामरणं भयतो मनसिकर्तव्यं, जरामरणम् उपसर्गतो मनसिकर्तव्यं, जरामरणं शून्यतो मनसिकर्तव्यं, जरामरणम् अनात्मीयतो मनसिकर्तव्यं, जरामरणम् अनाश्वासिकतो मनसिकर्तव्यं, जरामरणं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः क्षान्तिपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् वीर्यपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् ध्यानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः प्रज्ञापारमितायां चरत्य् अनुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि स्मृत्युपस्थानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि सम्यक्प्रहाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार ऋद्धिपादं भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्चेन्द्रियाणि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्च बलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः सप्त बोध्यङ्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टाङ्गमार्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् आर्यसत्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि ध्यानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् अप्रमाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् (श्स्प् इइ-2 137) चित्तोत्पादैश् चतस्र आरूप्यसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टौ विमोक्षां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनुपूर्वविहारसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अभिज्ञां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः समाधीं भावयत्य्
अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् धारणीमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दशतथागतबलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि वैशारद्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चतस्रः प्रतिसंविदो भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महामैत्रीं भावयन्त्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महाकरुणां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टा दशावेणिकबुद्धधर्मान् भावयत्य् अनुपलम्भयोगेन.
पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रतिसंशिक्षते धर्मा एवैते धर्मान् अभिष्यन्दयन्ति परिष्यन्दयन्ति परिपूरयन्ति परिस्फरयन्ति परिमीमांस्यन्ते, नास्त्य् अत्रात्मा वा आत्मीयं व. तत् कस्य हेतोः? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य परिणामनाचित्तं तद् बोधिचित्ते न समवहितं, यद् बोधिचित्तं तत् परिणामनाचित्ते न समवहितं, यत् कौशिक परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते, यद् बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. इयं कौसिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्माश् च प्रत्यवेक्षते न क्वचिद् धर्मेषु परिचरति.
एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्:
कथं भदन्त सुभूत्ते परिणामनाचित्तं बोधिचित्ते न समवहितम्?
कथं बोधिचित्तं परिणामनाचित्ते न समवहितम्?
कथं परिणामनाचित्तं बोधिचित्ते न संविद्यते नोपलभ्यते?
कथं बोधिचित्तं परिणामनाचित्ते न संविद्यते नोपलभ्यते?
सुभूतिर् आह: यत् कौशिक परिणामनाचित्तं तद् अचित्तं, यद् बोधिचित्तं तद् अचित्तम्, इति हि यद् अचित्तं तद् अचिन्त्यं, यद् अचिन्त्यं तद् अचित्तं न ह्य् अचित्तता अचित्ततायां परिणामयति, नाचिन्त्यता अचिन्त्यतायां परिणामयति, इति हि या अचित्तता सा अचिन्त्यता या अचिन्त्यता सा अचित्तता, इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते साधु खलु पुनस् त्वं बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदिशस्य् उत्साहं ददासि.
सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि पौर्वकानां तथागतानाम् अर्हम् अर्हन्तां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैस् तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु चोदितो ऽनुशिष्टाः संदर्शितः समादायितः समुत्तेजितः संप्रहर्षितः निवेशितः प्रतिष्ठापितः यतो भगवं पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षितः. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः एवम् एव भगवन्न् अस्माभिर् बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशिक्षितव्याः संहर्षितव्या, समादापयितव्याः, समुत्तरे ज्ञयितव्या, संप्रहर्षयितव्याः निवेशयितव्या, प्रतिष्ठापयितव्या, अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदिता अनुशिष्टाः संहर्षिताः समादापितः समुत्तेजिताः संप्रहर्षितः निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते.
अथायुष्मान् सुभूतिः शक्रम् देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा च न स्थातव्यं रूपं कौशिक रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च वेदनाशून्यता च संज्ञाशून्यता च संस्कारशून्यता च विज्ञानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण (श्स्प् इइ-2 139) शून्यं, घ्राणं घ्राणेन शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःशून्यता च श्रोत्रशून्यता च घ्राणशून्यता च जिह्वाशून्यता च कायशून्यता च मनःशून्यता च बोदिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च शब्दशून्यता च गन्धशून्यता च रसशून्यता च स्पर्शशून्यता च धर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुर्विज्नानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं, कायविज्ञानं कायविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुर्विज्ञानशून्यता च श्रोत्रविज्ञानशून्यता च घ्राणविज्ञानशून्यता च जिह्वाविज्ञानशून्यता च कायविज्ञानशून्यता च मनोविज्नानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शशून्यता च श्रोत्रसंस्पर्शशून्यता च घ्राणसंस्पर्शशून्यता च जिह्वासंस्पर्शशून्यता च कायसंस्पर्शशून्यता च मनःसंस्पर्शशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना (श्स्प् इइ-2 140) जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्श्जावेदना मनःसंस्पर्शजावेदनया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शजावेदनाशून्यता च श्रोत्रसंस्पर्शजावेदनाशून्यता च घ्राणसंस्पर्शजावेदनाशून्यता च जिह्वासंस्पर्शजावेदनाशून्यता च कायसंस्पर्शजावेदनाशून्यता च मनःसंस्पर्शजावेदनाशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं क्लिअलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुस् तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुर् विज्ञानधातुना शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुशून्यता च् आकाशधातुशून्यता च विज्ञानधातुशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक अविद्याविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाविद्याशून्यता च संस्कारशून्यता च विज्ञानशून्यता च नामरूपशून्यता च षडायतनशून्यता च स्पर्शशून्यता च वेदनाशून्यता च तृष्णाशून्यता चोपादानशून्यता च भवशून्यता च जातिशून्यता च जरामरणशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक दानपारमिताशून्यता च शीलपारमिताशून्यता च क्षान्तिपारमिताशून्यता च वीर्यपारमिताशून्यता च ध्यानपारमिताशून्यता च प्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. (श्स्प् इइ-2 141) एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिकाध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या, अभावशून्यताभावशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च शून्यताशून्यता च महाशून्यता च परमार्थशून्यता च संस्कृतशून्यता चासंस्कृतशून्यता चात्यन्तशून्यता चानवराग्रशून्यता चानवकारशून्यता च प्रकृतिशून्यता च सर्वधर्मशून्यता च स्वलक्षणशून्यता चानुपलम्भशून्यता चाभावशून्यता च स्वभावशून्यता चाभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक स्मृत्युपस्थानशून्यता च सम्यक्प्रहाणशून्यता च ऋद्धिपादशून्यता चेन्द्रियशून्यता च बलशून्यता च बोध्यङ्गशून्यता च मार्गशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय (श्स्प् इइ-2 142) आरूप्यसमापत्तिभिः शून्याः, विमोक्षाः विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधयः शून्याः, धारणीमुखानि धारणीमुखैः शून्यानि, तथागतबलानि तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकार्यसत्यशून्यता च ध्यानशून्यता चाप्रमाणशून्यता चारूप्यसमापत्तिशून्यता च विमोक्षशून्यता चानुपूर्वविहारसमापत्तिशून्यता च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता चाभिज्ञाशून्यता च समाधिशून्यता च धारणीमुखशून्यता च तथागतबलशून्यता च वैशारद्यशून्यता च प्रतिसंविद्शून्यता च महामैत्रीशून्यता च महाकरुणाशून्यता चावेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं, प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकयानशून्यता च प्रत्येकबुद्धयानशून्यता च बुद्धयानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक श्रावकः श्रावकेन शून्यः, प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः, बुद्धो बुद्धेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकशून्यता च प्रत्येकबुद्धशून्यता च बुद्धशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
पुनर् अपरं कौशिक स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यं, सकृदागामिफलं सकृदागामिफलेन शून्यं, अनागामिफलम् अनागामिफलेन शून्यं, अर्हत्त्वम् अर्हत्त्वेन शून्य्ं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रोत्रआपत्तिफलशून्यता च सकृदागामिफलशून्यता चानागामिफलशून्यता चार्हत्फलशून्यता च प्रत्येकबोधिशून्यता च मार्गाकारज्ञताशून्यता (श्स्प् इइ-2 143) च सर्वाकारज्ञताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्.
अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम्?
सुभूतिर् आह: इति हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, संज्ञायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन.
चक्षुषि न स्थातव्यम् उपलम्भयोगेन, श्रोत्रे न स्थातव्यम् उपलम्भयोगेन, घ्राणे न स्थातव्यम् उपलम्भयोगेन, जिह्वायां न स्थातव्यम् उपलम्भयोगेन, काये न स्थातव्यम् उपलम्भयोगेन, मनसि न स्थातव्यम् उपलम्भयोगेन.
रूपे न स्थातव्यम् उपलम्भयोगेन, शब्दे न स्थातव्यम् उपलम्भयोगेन, गन्धे न स्थातव्यम् उपलम्भयोगेन, रसे न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, धर्मेषु न स्थातव्यम् उपलम्भयोगेन.
चक्षुर्विज्ञाने न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञाने न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञाने न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञाने न स्थातव्यम् उपलम्भयोगेन, कायविज्ञाने न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञाने न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शजायां (श्स्प् इइ-2 144) वेदनायां न स्थातव्यम् उपलम्भयोगेन.
पृथिवीधातौ न स्थातव्यम् उपलम्भयोगेन, अब्धातौ न स्थातव्यम् उपलम्भयोगेन, तेजोधातौ न स्थातव्यम् उपलम्भयोगेन, वायुधातौ न स्थातव्यम् उपलम्भयोगेन, आकाशधातौ न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन.
अविद्यायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन, नामरूपे न स्थातव्यम् उपलम्भयोगेन, षडायतने न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, तृष्णायां न स्थातव्यम् उपलम्भयोगेन, उपदाने न स्थातव्यम् उपलम्भयोगेन, भवे न स्थातव्यम् उपलम्भयोगेन, जातौ न स्थातव्यम् उपलम्भयोगेन, जरामरणे न स्थातव्यम् उपलम्भयोगेन.
दानपारमितायां न स्थातव्यम् उपलम्भयोगेन, शीलपारमितायां न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितायां न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितायां न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितायां न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन.
अध्यात्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतायां न स्थातव्यम् उपलम्भयोगेन, महाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतायां न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतायां न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतायां न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन.
स्मृत्युपस्थानेषु न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणेषु न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादेषु न स्थातव्यम् उपलम्भयोगेन, इन्द्रियेषु न स्थातव्यम् उपलम्भयोगेन, बलेषु न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गेषु न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गे मर्गे न स्थातव्यम् उपलम्भयोगेन, आर्यसत्येषु न स्थातव्यम् उपलम्भयोगेन, ध्यानेषु न स्थातव्यम् उपलम्भयोगेन, अप्रमाणेषु न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, विमोक्षेषु न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यम् उपलम्भयोगेन, अभिज्ञासु न स्थातव्यम् उपलम्भयोगेन, समाधिषु न स्थातव्यम् उपलम्भयोगेन, धारणीमुखेषु न स्थातव्यम् उपलम्भयोगेन, तथागतबलेषु न स्थातव्यम् उपलम्भयोगेन, वैशारद्येषु न स्थातव्यम् उपलम्भयोगेन, प्रतिसंवित्सु न स्थातव्यम् उपलम्भयोगेन, महामैत्र्यां न स्थातव्यम् उपलम्भयोगेन, महाकरुणायां न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन, श्रावकयाने न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयाने न स्थातव्यम् उपलम्भयोगेन, बुद्धयाने न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफले न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफले न स्थातव्यम् उपलम्भयोगेन, अनागामिफले न स्थातव्यम् उपलम्भयोगेन, अर्हत्फले न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वे न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतायां न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन.
रूपम् इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, संज्ञेति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुर् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वेति न स्थातव्यम् उपलम्भयोगेन, काय इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 146) मन इति न स्थातव्यम् उपलम्भयोगेन.
रूपम् इति न स्थातव्यम् उपलम्भयोगेन, शब्द इति न स्थातव्यम् उपलम्भयोगेन, गन्ध इति न स्थातव्यम् उपलम्भयोगेन, रस इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, धर्मा इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुर्विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन.
पृथिवीधाताव् इति न स्थातव्यम् उपलम्भयोगेन, अब्धाताव् इति न स्थातव्यम् उपलम्भयोगेन, तेजोधाताव् इति न स्थातव्यम् उपलम्भयोगेन, वायुधाताव् इति न स्थातव्यम् उपलम्भयोगेन, आकाशधाताव् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधाताव् इति न स्थातव्यम् उपलम्भयोगेन.
अविद्येति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, तृष्णेति न स्थातव्यम् उपलम्भयोगेन, उपादानम् इति न स्थातव्यम् उपलम्भयोगेन, भव इति न स्थातव्यम् उपलम्भयोगेन, जातिर् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् इति न स्थातव्यम् उपलम्भयोगेन.
दानपारमितेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितेति न स्थातव्यम् उपलम्भयोगेन.
अध्यात्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन.
स्मृत्युपस्थानानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा इति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणीति न स्थातव्यम् उपलम्भयोगेन, बलानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानीति न स्थातव्यम् उपलम्भयोगेन, आर्याष्टाङ्गमार्ग इति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानीति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, विमोक्षा इति न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा इति न स्थातव्यम् उपलम्भयोगेन, समाधय इति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानीति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 148) महामैत्रीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणेति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा इति न स्थातव्यम् उपलम्भयोगेन, श्रावकयानम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, बुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वम् इति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन.
रूपं नित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन. वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
संज्ञा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 149) संज्ञा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुर् नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
श्रोत्रं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शुभम् इत्य् (श्स्प् इइ-2 150) अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
घ्राणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
जिह्वा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
कायो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, काय आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
मनो नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मन आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनः शुभम् इत्य् अशुभम् इति (श्स्प् इइ-2 151) न स्थातव्यम् उपलम्भयोगेन, मनः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनो विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनो निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
रूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
शब्दो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, शब्द आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शब्दः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
गन्धो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, गन्ध आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, गन्धः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
रसो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, रसः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, रस आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रसः शुभ इत्य् अशुभ इति न स्थातव्यम् (श्स्प् इइ-2 152) उपलम्भयोगेन, रसः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, रसो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, रसः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, रसो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, रसः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
धर्मा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, धर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, धर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, धर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुर्विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
श्रोत्रविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 153) श्रोत्रविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
घ्राणविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
जिह्वाविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन., जिह्वाविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
कायविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 154) कायविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
मनोविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
श्रोत्रसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
घ्राणसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
जिह्वासंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
कायसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
मनःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (श्स्प् इइ-2 156) मनःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
चक्षुःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
घ्राणसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् (श्स्प् इइ-2 157) उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
जिह्वासंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
कायसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न (श्स्प् इइ-2 158) स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
पृथिवीधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
अब्धातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
तेजोधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
वायुधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शान्त इत्य् अशान्त (श्स्प् इइ-2 159) इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
आकाशधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
विज्ञानधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः सुख इति दुह्ख इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
अविद्या नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अविद्या आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः (श्स्प् इइ-2 160) शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन.
विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
नामरूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
षडायतनं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन.
स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः (श्स्प् इइ-2 161) सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन.
वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
