Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

शार्दूलकर्णावदान [= अवदान 33 of the दिव्यावदान]

Thông tin
GRETIL — Mukhopadhyaya, Sujitkumar: The Sardulakarnavadana, Calcutta : The Visvabharati Publishing Department 1954.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

p.67.4/.कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्ग^मगधानां / रोहिणी सर्व^प्रजायाः/ मृगशिरा विदेहानां राजोपसेवकानां च/ एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च/ पुनर्वसुः सौपर्णानां/ पुष्य^नक्षत्रं सर्वेषाम् अवदात^वदात^वसनानां/ राज^पदसेवकानां च/ अश्लेषा नागानां हैमवतानां च/ मघा^नक्षत्रं गौडिकानां/ पूर्वफल्गुनी चौराणां/ उत्तरफल्गुनी अवन्तीनां/ हस्ता सौराष्ट्रिकाणां/ चित्रा पक्षिणां द्विपदानां/ स्वाती सर्वेषां प्रव्रज्यासमापन्नानां/ विशाखा औदकानां/ अनुराधा वाणिजकानां शाकटिकानां च/ ज्येष्ठा दौवालिकानां/ (68) मूला पथिकानां/ पूर्वाषाढा वाह्लीकानां च/ उत्तराषाढा काम्बोजानां/ अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च/ श्रवणा घादकानां चौराणां च/ धनिष्ठा कुरु^पाञ्चालानां/ शतभिषा मौलिकानाम् आर्थवणिकानां च/ पूर्वभाद्रपदा गन्धिकानां यवन^काम्बोजानां च/ उत्तरभाद्रपदा गन्धर्वाणां/ रेवती नाविकानां च/ अश्विनी अश्ववाणिजानां च/ भरणी भद्रपदकर्मणां भद्रकायाकानां च/

p.68.1/.अयं भोः पुष्करसारिन् नक्षत्राणां स्थान^निर्देश^व्याकरणो नाम^अध्यायः/

%ऋतुवर्षः

p.68.2/.पठ भोस् त्रिशङ्को ऋतुवर्षं नाम^अध्यायं/ तद् अहं वक्ष्ये श्रूयतां/ कथयतु भगवान्/

p.68.3/.कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति/ वर्षो दश^रात्रिकः/ श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति/ पश्चाद् वर्षं संजनयति/ हेमन्ते ग्रीष्मे ग्रीणि च^अत्र (69) भय^प्रग्रहाणि भवन्ति/ अग्नि^भयं शस्त्र^भयं च^उदक^भयं च भवति/ उक्तं कृत्तिकासु/

p.69.1/.रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति/ द्वौ च^अत्र रोगौ प्रबलौ भवतः/ कुक्षिरोगश् चक्षूरोगश् च/ चौर^बहुलाश् च^अत्र दिशो भवन्ति/ उक्तं च रोहिण्यां/

p.69.2/.मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति/ सारोपरोधो वर्षारात्रः/ पश्चाद् वर्षं संजनयति/ निक्षिप्तशस्त्राश् च^अत्र (70) राजानो भवन्ति/ क्षेमिणः सुनीतिकाश् च दिशो भवन्ति/ मुदिताश् च^अत्र जनपदा भवन्ति/ उक्तं मृगशिरसि/

p.70.1/.आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ निधयश् च रक्षयितव्याः/ चौर^बहुलाश् च^अत्र दिशो भवन्ति/ निक्षिप्तशस्त्राश् च राजानो भवन्ति/ त्रयश् च^अत्र रोगाः प्रबला भवन्ति/ ज्वरः श्वासो गलग्रहश् च/ बालानां दारकदारिकाणां च मरणं भवति/ इत्य् उक्तम् आर्द्रायां/

p.70.2/.पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति/ नवत्याढकानि प्रवर्षति/ महा^मेघान् उत्पादयति/ आषाढायां प्रविष्टायां मृदूनि प्रवर्षति/ अनन्तरं च निरन्तरेण प्रवर्षति/ निक्षिप्तशस्त्राश् च राजानो भवन्ति/ उक्तं पुनर्वसौ/

p.71.1/.पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति/ अत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ व्यक्तं प्रधान^वर्षाणि भवन्ति/ सस्यं च निष्पादयति/ ब्राह्मण^क्षत्रियाणां च विरोधो भवति/ दंष्ट्रिणश् च^अत्र प्रबला भवन्ति/ तत्र त्रयो रोगाश् च भवन्ति/ गण्डाः पिटकाः पामानि च / इत्य् उक्तं पुष्ये/

p.71.2/.अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ विषमाश् च वायवो वान्ति/ संविग्नाश् च^अत्र ज्ञानिनो राजानश् च भवन्ति/ एषो वर्षः सर्व^सस्यानि सम्पादयति/ जायापतिकानां राजामात्यानां च विरोधो भवति/ उक्तम् अश्लेषायां/

p.71.3/.मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि (72) प्रवर्षति/ एषो वर्षः सर्व^सस्यानि सम्पादयति/ मृगपक्षिपशुमनुष्याणां च^अत्र गर्भा विनश्यन्ति/ जन^मरणं च^अत्र भविष्यति^इति/ उक्तं मघायां/

p.72.1/.पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति/ एषो वर्षः सर्व^सस्यानि सम्पादयति/ तच् च सस्यं जनयित्वा पर^चक्र^पीडिता मनुष्या न सुखेनोपभुञ्जते/ पशूनां मणुष्याणां च^अत्र गर्भाः सुखिनो भवन्ति/ उक्तं पूर्वफल्गुन्यां/

p.72.2/.उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति/ एषो वर्षः सर्व^सस्यानि च सम्पादयति/ निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति/ ब्रह्म^क्षत्रिययोश् च विरोधो भवति/ क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति/ च^उक्तम् उत्तरफल्गुन्यां/

p.72.3/.हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि (73) प्रवर्षति/ देवश् च तद् यथा परिक्षिपति/ पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्प^साराण्य् अल्पोदकानि/ दुर्भिक्षश् च^अत्र भविष्यति/ उक्तं हस्ते/

p.73.1/.चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति/ सारोपरोधस् ततः पश्चाद् वर्षं संजनयति/ निक्षिप्तशस्त्राश् च राजानो भवन्ति/ मुदिताश् च^अत्र जनपदा भवन्ति/ उक्तं चित्रायां/

p.73.2/.स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^विंशत्याढकानि प्रवर्षति/ निक्षिप्तशस्त्राश् च राजानो भवन्ति/ चौराश् च^अत्र बलवत्तरा भवन्ति/ उक्तं स्वात्यां/

p.73.3/.विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति/ एषा वर्षः सर्व^सस्यानि सम्पादयति/ राजानश् च^अत्र छिद्र^युक्ता भवन्ति/ अग्निदाहाश् च^अत्र प्रबला भवन्ति/ दंष्ट्रिणश् च^अत्र बलवन्तो +अपि क्षयं गच्छन्ति/ उक्तं विशाखायां/

p.74.1/.अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति/ एषो वर्षः सस्यं सम्पादयति/ मित्राणि च^अत्र दृढानि भवन्ति/ उक्तम् अनुराधायां/

p.74.2/.ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति/ तत्र कृषि^कर्मान् तानि प्रतिसंहर्तव्यानि/ युगवरत्राणि वर्जयितव्यानि/ स्वधान्यानि उपसंहर्तव्यानि/ अग्नयः प्रतिसंहर्तव्याः/ लाङ्गलानि प्रतिसंहर्तव्यानि/ अवश्यम् अनेन जनपदेन विनष्टव्यं भवति/ पर^चक्र^पीडितो भवति/ उक्तं ज्येष्ठायां/

p.74.3/.मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि (75) प्रवर्षति/ एषो वर्षः सस्यं सम्पादयति/ चौर^बहुलाश् च^अत्र दिशो भवन्ति/ त्रयश् च^अत्र व्याधयो बलवन्तो भवन्ति/ वात^गण्डः पार्श्वशूलम् अक्षिरोगश् च/ पुष्प^फलानि च^अत्र समृद्धानि भवन्ति/ निक्षिप्तशस्त्राश् च^अत्र राजानो भवन्ति/ उक्तं मूले/

p.75.1/.पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति/ द्वौ च^अत्र ग्राहौ भवतः / प्रोष्ठपदे वा +अश्वयुजौ वा पक्षे/ एषो वर्षः सर्व^सस्यानि सम्पादयति/ द्वौ च^अत्र रोगौ प्रबलौ भवतः/ कुक्षिरोगो +अक्षिरोगश् च / उक्तं पूर्वाषाढायां/

p.75.2/.उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति/ तत्र स्थलानि कृषि^कर्तव्यानि/ निम्नानि परिवर्जयितव्यानि/ महा^स्रोतांसि च^अत्र प्रवहन्ति/ अग्रोदका च^अत्र वर्षा भवति/ सर्व^सस्यानि निष्पादयति/ त्रयश् च^अत्र रोगाः प्रबला भवन्ति/ गण्डः कच्छः कण्ठ^रोग इति/ उक्तम् उत्तराषाढायाम्//

p.75.3/.अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्^आढाकानि (76) प्रवर्षति/ मण्डलवर्षं च देवः प्रवर्षति/ पश्चाद् वर्षः सस्यं जनयति/ औदकानां भूतानाम् उत्सर्गो भवति/ उक्तम् अभिजिति/

p.76.1/.श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति/ मण्डलवर्षं च देवो वर्षति/ पश्चाद् वर्षा सस्यं सम्पादयति/ औदकानां भूतानाम् उत्सर्गो भवति/ व्याधि^बहुलाश् च नरा भवन्ति/ राजानश् च तीव्र^दण्डा भवन्ति/ उक्तं श्रवणे/ p.76.2/.धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^पञ्चाशदाढकानि प्रवर्षति/ विभक्ताश् च^अत्र वर्षा भवन्ति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ दुर्मुखो रात्रौ वर्षो भवति/ सस्यानि सम्पादयति/ एकश् च^अत्र रोगो भवति/ गण्ड^विकारः/ शस्त्र^समादानाश् च राजानो भवन्ति/ उक्तं धनिष्ठायां/

p.76.3/.शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि (77) प्रवर्षति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ एषो वर्षः सर्व^सस्यानि सम्पादयति/ चक्र^समारूढा जनपदा भवन्ति/ मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देश^अन्तरं गच्छन्ति/ उक्तं शतभिषायं/

p.77.1/.पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्^आढकानि प्रवर्षति/ वर्षामुखे च^अत्र एकोनविंशति रात्रिको +अवग्रहो भवति/ पुष्प^सस्यं च नाशयति/ एताश् च वर्षा बहु^चौरा भवन्ति/ द्वौ च^अत्र महा^व्याधी भवतः/ प्रथमं पित्ततापज्वरो भवति/ पश्चाद् बलवान् महा^ग्रहो भवति/ मर्त्यानां नारीणां च मरणं भवति/ उक्तं पूर्वभाद्रपदायां/

p.77.2/.उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति/ महा^स्रोतांसि प्रवहन्ति/ ग्राम^नगर^निगमाः स्रोतसा उह्यन्ते/ चत्वारश् च^अत्र व्याधयः प्रबला भवन्ति/ तद् यथा कुक्षिरोगो +अक्षिरोगः (78) काशो ज्वरश् चेति/ बालानां दारकदारिकाणां मरणां भवति/ अत्र स्थलानि कृषि^कर्तव्यानि/ निम्नानि परिवर्जयितव्यानि/ एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति/ उक्तम् उत्तरभाद्रपदायां/

p.78.1/.रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एक^षष्ट्याढकानि प्रवर्षति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ एषा परिभुञ्जते/ निक्षिप्तशस्त्र^दण्डाश् च राजानो भवन्ति/ अनुद्विग्नाश् च जनपदा भवन्ति/ उद्विग्नाश् च दानपतयो भवन्ति/ देव^नक्षत्र^समायुक्ताश् च जनपदा भवन्ति/ मित्राणि समायुक्तानि भवन्ति/ उक्तं रेवत्यां/

p.78.2/.अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति/ यच् च मध्ये वर्षा भवति/ तत्र निम्नानि कृषि^कर्तव्यानि/ स्थलानि परिवर्जयितव्यानि/ एषा वर्षा सर्व^सस्यानि सम्पादयति/ (79) भय^समायुक्ताश् च^अत्र जनपदा भवन्ति/ चौराश् च प्रबला भवन्ति/ उक्तम् अश्विन्यां/

p.79.1/.भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति/ तत्र स्थलानि कृषि^कर्तव्यानि/ निम्नानि परिवर्जयितव्यानि/ दुर्भिक्षस् च^अत्र भवति/ जरामरणं जनानां भवति/ राजानश् च^अत्र अन्योन्यघातका भवन्ति/ पुत्रपौत्राणां च कलहो भवति/ उक्तं भरण्यां/

p.79.2/.अयं घोः पुष्करसारिन् नक्षत्र^र्तुवर्षाध्यायः//

% राहुग्रहे फलविपाकः

p.79.3/.अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि/

p.79.4./कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्र^ग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति/ यदि रोहिण्यां चन्द्र^ग्रहो भवति प्रजानाम् उपपीडा भवति/ यदि मृगशिरसि चन्द्र^ग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति/ राजोपसेवकनां च/ एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं/ अश्लेषायां यदि चन्द्र^ग्रहो भवति नागानां हैमवतानां च पीडा भवति/ यदि मघासु चन्द्र^ग्रहो भवति गौडिकानाम् उपपीडा भवति/ यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा (80) भवति/ यद्य् उत्तरफल्गुन्यां सोमो गृह्यते +अवन्तीनाम् उपपीडा भवति/ यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति/ यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति/ यदि स्वात्यां सोमो गृह्यते सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति/ यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च/ यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति/ यदि मूले सोमो गृह्यते +अध्वगानां पीडा भवति/ यदि पूर्वाषाढायां सोमो गृह्यते +अवन्तीनां पीडा भवति/ यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति/ बाह्लीकानां च/ यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति/ ताम्रपर्णिकानां च/ यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां च^उपपीडा भवति/ यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति/ यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति/ यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवन^काम्बोजकानां च पीडा भवति/ यद्य् उत्तरभाद्रपदायां सोमो गृह्यते (81) गन्धर्वाणां पीडा भवति/ यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति/ यद्य् अश्च्विणिजानां पीडा भवति/ यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति/

p.81.1/.एवं भोः पुष्करसारिन् नक्षत्रे चन्द्र^ग्रहो भवति तस्य तस्य देशस्य पीडा भवति/ इत्य् उक्तो राहुग्रहफलविपाकाध्यायः/

% नक्षत्रकर्म^निर्देशः

p.81.2/.प्रति^नक्षत्र^वंशशास्त्रे यथोक्तं कर्म तच् छृणु/

p.81.3ab/.उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा/

p.81.3cd/.षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्/

p.81.3ef/.अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः//

p.81.4ab/.सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्/

p.81.4cd/.अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्//

p.81.5ab/.अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्/

p.81.5cd/.हिरण्यकारकर्म^अन्तमिष्व् अस्त्रं च^उपकारयेत्//

p.81.6ab/.मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं/

p.81.6cd/.पीतलोहित^पुष्पाणां बीजान्य् अत्र तु घापयेत्//

p.82.1ab/.गृहं च मापयेत् अत्र तथा +अवासं प्रकल्पयेत्/

p.82.1cd/.नवं च छादयेद् वस्त्रं क्रयणं न^अत्र कारयेत्//

p.82.2ab/.क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्/

p.82.2cd/.परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्//

p.82.3ab/.शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्/

p.82.3cd/.तेजसानि च भाण्डानि कारयेच् च क्रीणीत च//

p.82.4ab/.आयुष्यं च शिरः^स्नानां स्त्रीणां विष्कम्भणानि च/

p.82.4cd/.प्रवर्षणं चेद् देवस्य न^अत्र वैरं प्रशाम्यति//

p.82.5ab/.क्रोधनो हर्षणः शूरस् तेजस्वी साहस^प्रियः/

p.82.5cd/.आयुष्मांश् च यशस्वी च यज्ञ^शीलो +अत्र जायते//कृत्तिकासु

p.82.6ab/.सर्वं कृषि^पदं कर्म रोहिण्यां संप्रयोजयेत्/

p.82.6cd/.क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्//

p.82.7ab/.प्रयोजयेच् चक्रान् वारान् दासांश् च^एव गृहे पशून्/

p.82.7cd/.वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्//

p.83.1ab/.ऋणं न दद्यात् तत्र^एव वैरम् अत्र तु वर्धते/

p.83.1cd/.संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्//

p.83.2ab/.प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते/

p.83.2cd/.सानुक्रोशः क्षमायुक्तः स्त्री^कामो भक्षलोलुपः/

p.83.2ef/.आयुष्मान् पशुमान् धन्यो महा^भोगो +अत्र जायते//रोहिण्यां//

p.83.3ab/.सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः/

p.83.3cd/.मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्/

p.83.3ef/.यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्//

p.83.3ab/.सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च/

p.83.3cd/.राज^प्रासादवलभीछत्राण्य् अपि च कारयेत्//

p.83.4ab/.सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्/

p.83.4cd/.उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये//

p.83.5ab/.आच्छादयेन् नवं वासश् च^अलङ्कारं च कारयेत्/

p.83.5cd/.द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्//

p.83.6ab/.प्रवर्षणं च देवस्य सुवृष्टिं च^अत्र निर्दिशेत्/

p.83.6cd/.स्वप्नशीलस् तथा त्रासी मेधावी स च जायते//मृगशिरसि//

p.84.1ab/.आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्/

p.84.1cd/.क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्//

p.84.2ab/.उदपान^परीखांश् च तडागान्य् अत्र कारयेत्/

p.84.2cd/.ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च न^अत्र गां/

p.84.2ef/.तिल^पीडानि कर्माणि शौण्डिकानां तथापणं//

p.84.3ab/.पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्/

p.84.3cd/.प्रवर्षणं च देवस्य विद्याद् बहु^परिस्रवं/

p.84.3ef/.क्रोधनो मृगयाशीलो माम्सकामो +अत्र जायते//आर्द्रायां//

p.84.4ab/.पुनर्वसौ तु युक्ते +अत्र कुर्याद् वै व्रत^धारणं/

p.84.4cd/.गोदानं च^उपनायनं सर्वम् अत्र प्रसिध्यति//

p.84.5ab/.प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्/

p.84.5cd/.पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्//

p.85.1ab/.चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं/

p.85.1cd/.प्रवर्षणं च देवस्य जन्म च^अत्र प्रशस्यते//

p.85.2ab/.अलीलश् च^अत्र जायेत स्त्री^लोलश् च^अपि मानवः/

p.85.2cd/.चित्र^शीलश् च नैकत्रार्पितचित्तः स; उच्यते//पुनर्वसौ//

p.85.3ab/.धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्/

p.85.3cd/.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्//

p.85.4ab/.राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्/

p.85.4cd/.राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु//

p.85.5ab/.श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः/

p.85.5cd/.पुरोहितं च कुर्वीत ध्वज^अग्रं च प्रकारयेत्//

p.85.6ab/.प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्/

p.85.6cd/.न च रोगो न चौरश् च क्षेमं च^अत्र सदा भवेत्//

p.85.7ab/.पुष्येण नित्य^युक्तः सन् सर्वकर्माणि साधयेत्/

p.85.7cd/.वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्/

p.85.7ef/.आयुष्मांश् च यशस्वी च महा^भोगः प्रजायते//पुष्ये//

p.86.1ab/.सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्/

p.86.1cd/.कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्//

p.86.2ab/.देहबन्धं नदी^बन्धं सन्धिकर्म च कारयेत्/

p.86.2cd/.प्रभूत^दंशमशकं वर्षं मन्दं च वर्षति/

p.86.2ef/.क्रोधनः स्वप्नशीलश् च कुहकश् च^अत्र जायते//अश्लेषायां//

p.86.3ab/.मघासु सर्वधान्यानि वापयेत् संहरेद् अपि/

p.86.3cd/.संघातकर्म कुर्वीत सुमुखं च^अत्र कारयेत्//

p.86.4ab/.कोष्ठ^आगाराणि कुर्वीत फलं च^अत्र निवेशयत्/

p.86.4cd/.सर्वदा पितृदेवेभ्यः श्राद्धं चैव^अत्र कारयेत्//

p.86.5ab/.सस्यानां बहुली^भावो यदि देवो +अत्र वर्षति/

p.86.5cd/.सुहृच् च द्वारिकश् च^एव रस^कामश् च जायते/

p.86.5ef/.आयुष्मान् बहु^पुत्रश् च स्त्री^कामो भक्त^लोलुपः//

p.86.6ab/.संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते/

p.86.6cd/.दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्//मघासु//

p.87.1ab/.फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्/

p.87.1cd/.विशेषाद् आमलक्यादि फलानाम् उपकारयेत्//

p.87.2ab/.कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्/

p.87.2cd/.कन्या^प्रवहनार्थाय विहारं च^एव कारयेत्//

p.87.3ab/.वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्/

p.87.3cd/.भागं ये च^उपजीवन्ति तेषां कर्म प्रयोजयेत्//

p.87.4ab/.अव्यक्तकेशो +अकेशः सुभगश् च^अत्र जायते/

p.87.4cd/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्/

p.87.4ef/.नष्टं विद्धं कृतं च^अपि न तद् अस्ति^इति निर्दिशेत्//पूर्वफल्गुन्यां//

p.87.5ab/.उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्/

p.87.5cd/.मेधावी दर्शनीयश् च यशस्वी च^अत्र जायते//

p.87.6ab/.अथात्र नष्टं दग्धं वा सर्वम् अस्ति^इति निर्दिशेत्/

p.87.6cd/.प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां//उत्तरफल्गुन्यां//

p.88.1ab/.हस्तेन लघु^कर्माणि सर्वाण्य् एव प्रयोजयेत्/

p.88.1cd/.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्//

p.88.2ab/.हस्त्यारोहं महा^मात्रं पुष्करिणीं च कारयेत्/

p.88.2cd/.चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्//

p.88.3ab/.प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्/

p.88.3cd/.अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं/

p.88.3ef/.कुशलं सर्वविद्यासु; आरोगं चिरजीविनं//हस्ते//

p.88.4ab/.चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्/

p.88.4cd/.राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्//

p.88.5ab/.हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्/

p.88.5cd/.अलङ्कुर्यात् तथात्मानं गन्ध^माल्यविलेपनैः//

p.88.6ab/.गणकानां च विद्यां च वाद्यं नर्तनगायनं/

p.88.6cd/.पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्/

p.88.6ef/.चित्र^करांश् च लेखकान् पुस्तकर्म च कारयेत्//

p.89.1ab/.प्रवर्षणं च देवस्य चित्र^वर्षं विनिर्दिशेत्/

p.89.1cd/.मेधावी दर्शनीयश् च चित्राक्षो भक्त^लोलुपः//

p.89.2ab/.मृदु^शीलश् च भीरुश् च चलचित्तः कुतूहली/

p.89.2cd/.आयुष्मान् सुभगश् च^एव स्त्री^लोलश् च^अत्र जायते//चित्रायां//

p.89.3ab/.स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्/

p.89.3cd/.क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्//

p.89.4ab/.भेरीमृदङ्गपणवान् मुरजान् च^उपनाहयेत्/

p.89.4cd/.आवाहंश् च विवाहंश् च सौहृद्यं च^अत्र कारयेत्//

p.89.5ab/.निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्/

p.89.5cd/.प्रवर्षणं च देवस्य वात^वृष्टिर् अभीक्ष्णशः/

p.89.5ef/.मेधावी रोग^बहुलश् चलचित्तश् च जायते//स्वातौ//

p.89.6ab/.लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्/

p.89.6cd/.यवगोधूमकर्म^अन्तान् शमीधान्यं च वर्जयेत्//

p.89.7ab/.शालयस् तिल^माषाश् च ये च वृक्षाः सुशाखिनः/

p.90.1ab/.रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्/

p.90.1cd/.शिरः^स्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्//

p.90.2ab/.प्रवर्षणं च देवस्य विद्यात् कल्प^परिस्रवं/

p.90.2cd/.मनस्वी दर्शनीयश् च मेधावी च^अत्र जायते/

p.90.2ef/.क्रोधनो +अल्पसुतश् च^एव दुर्भगो भक्त^लोलुपः//विशाखासु//

p.90.3ab/.अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं/

p.90.3cd/.सर्वाणि मृदु^कर्माणि माधुर्यं च^अत्र कारयेत्//

p.90.4ab/.क्षौरं च कारयेत् अत्र शस्त्र^कर्माणि कारयेत्/

p.90.4cd/.संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः/

p.90.4ef/.नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्//

p.90.5ab/.सुहृन्मित्रकृतश् च^अत्र धर्म^शीलश् च जायते/

p.90.5cd/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//अनुराधायां//

p.90.6ab/.ज्येष्ठायां पूर्व^कारी स्याद् राजानं च^अभिषिञ्चयेत्/

p.90.6cd/.नगरं निगमं ग्रामं मापयेद् आरभेत च/

p.90.6ef/.क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्//

p.91.1ab/.भ्रातृणां भवति ज्येष्ठो ज्येष्टायां यो +अभिजायते/

p.91.1cd/.आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली//

p.91.2ab/.प्रासादम् आरोहेच् च^अत्र गजम् अश्वं रथं तथा/

p.91.2cd/.ग्राम^निगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं//

p.91.3ab/.नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्/

p.91.3cd/.दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्/

p.91.3ef/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//ज्येष्ठायां//

p.91.4ab/.मूले तु मूलजातानि मूलकन्दालुकान्य् अपि/

p.91.4cd/.सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्//

p.91.5ab/.ऋणं वै यत् पुराणं स्याद् अर्थो च^अस्याग्रतः स्थितः/

p.91.5cd/.मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं//

p.91.6ab/.चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः/

p.91.6cd/.नदीषु स्नपनं च^एव मूले सर्वान् प्रयोजयेत्//

p.92.1ab/.दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्/

p.92.1cd/.किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह//

p.92.2ab/.धन^वान् बहु^पुत्रश् च मूलवान् अत्र जायते/

p.92.2cd/.अथात्र नष्टं दग्धं वा नैतद् अस्ति^इति निर्दिशेत्/

p.92.2ef/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//मूले//

p.92.3ab/.आषाढायां च पूर्वस्यां सरितश् च सरांसि च/

p.92.3cd/.वापीकूपप्रपाश् च^एव तडागानि च कारयेत्//

p.92.4ab/.उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च/

p.92.4cd/.आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्/

p.92.4ef/.यानि च^उग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च//

p.92.5ab/.नष्टं पर्युपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्/

p.92.5cd/.आयुष्मान् पुण्यशीलश् च दर्शनीयो +अत्र जायते//पूर्वाषाढे//

p.92.6ab/.उत्तरस्याम् आषाढायां वैराणि न समाचरेत्/

p.92.6cd/.वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति//

p.93.1ab/.न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति/

p.93.1cd/.शालाकर्म गव^आदीनां ग्रामे ग्रामणिनस् तथा/

p.93.1c/.श्रेणविन्धं च राजा नु समयं च^अत्र कारयेत्//

p.93.2ab/.प्रगल्भश् च सभाशीलः कृती च^अत्र प्रजायते/

p.93.2cd/.सुहृदाम् अभियोगी च मन्त्र^भाष्ये विचक्षणः//

p.93.3ab/.नष्टं वा^अप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्/

p.93.3cd/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//उत्तराषाढायां//

p.93.4/.अभिजिति न कुर्वीत ब्रह्म^देवस्य ह्य् अर्चनं//अभिजिति//

p.93.5ab/.श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः/

p.93.5cd/.गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति//

p.93.6ab/.कर्णयोर् वेधनं कुर्याद् राजानं च^अभिषिञ्चयेत्/

p.93.6cd/.द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्//

p.94.7ab/.बलि^कृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि/

p.94.7cd/.मेधावी अरोगी बलवान् यज्ञ^शीलो +अत्र जायते//

p.94.8ab/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्/

p.94.8cd/.नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे//श्रवणे//

p.94.9ab/.धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं/

p.94.9cd/.अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्//

p.94.10ab/.सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्/

p.94.10cd/.श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि//

p.94.11ab/.मेधावी च यशस्वी च महा^भोगी महा^धनः//

p.94.11cd/.बह्व्^अपत्यो मृदुर् दान्तो महा^आत्मा च^अत्र जायते/

p.94.11c/.प्रवर्षणं च देवस्य विद्याच् च^अत्र सुवृष्टितां//धनिष्ठायां//

p.94.12ab/.नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्/

p.94.12cd/.कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च//

p.94.13ab/.प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्/

p.94.13cd/.अदधिं खानायेत् तत्र तिल^माषांश् च वापयेत्//

p.95.1ab/.(95)सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्/

p.95.1cd/.आदेयं च तदा +अदद्याद् व्ययं च^अत्र न कारयेत्//

p.95.2ab/.सन्धिपालान् द्वार^पालांल् लेखकांश् च प्रयोजयेत्/

p.95.2cd/.भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्//

p.95.3ab/.निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं/

p.95.3cd/.धनं च^अत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्//

p.95.4ab/.अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि/

p.95.4cd/.अरोगी क्रोधनश् च^अत्र स्वप्नशीलश् च जायते/

p.95.4ef/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//शतभिषायां//

p.95.5ab/.पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते/

p.95.5cd/.नष्टविद्धोपतप्तं वा नैतद् अस्ति^इति निर्दिशेत्//

p.95.6ab/.दीर्घश्रोत्रो महा^भोगो ज्ञातीनां च सदा^प्रियः/

p.95.6cd/.महा^धनो +अक्रूरकर्मा निःक्रोहश् च^अत्र जायते/

p.95.6ef/.प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्//पूर्वभाद्रपदे//

p.96.1ab/.उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च/

p.96.1cd/.न च दक्षिनतो गच्छेत् पुरं च^अत्र प्रदापयेत्//

p.96.2ab/.आयुष्मांश् च यशस्वी च धनवांश् च^अत्र जायते/

p.96.2cd/.अत्र^अपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं/

p.96.2ef/.प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्//उत्तरभाद्रपदे//

p.96.3ab/.रेवत्यां रत्न रजतं धन^धान्यं प्रयोजयेत्/

p.96.3cd/.कोष्ठ^आगाराणि कुर्वीत किण्वं च^अत्र न कारयेत्//

p.96.4ab/.सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च/

p.96.4cd/.गोसङ्घं स्थापयेच् च^अत्र गोशालां च^अत्र कारयेत्/

p.96.4ef/.आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्//

p.96.5ab/.भिक्षुको दानशीलश् च दरिद्रश् च^अनसूयकः/

p.96.5cd/.ज्ञातीनां सेवको नित्यं धर्म^ज्ञश् च^अत्र जायते/

p.96.5ef/.सुवृष्टिं नष्ट^लाभं च रेवत्याम् अभिनिर्दिशेत्//रेवत्यां//

p.97.1ab/.स्त्री^पुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्/

p.97.1cd/.अश्वान् प्रयोजयेद् अत्र रथं च^अत्र प्रयोजयेत्//

p.97.2ab/.ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्/

p.97.2cd/.यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्//

p.97.3ab/.भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्/

p.97.3cd/.मेधावी दर्शनीयश् च राज^योग्यश् च सम्पदा//

p.97.4ab/.अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते/

p.97.4cd/.सुवृष्टिं नष्ट^लाभं च; अश्विन्याम् अभिनिर्दिशेत्//अश्विन्यां//

p.97.5ab/.त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्/

p.97.5cd/.भृत्यांश् च भृतकांश् च^अपि वृणुयाद् दर्शयेत् तथा//

p.97.6ab/.भूतिं च^उपनयेद् अत्र भार्यां च न विवाहयेत्/

p.97.6cd/.उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः//

p.98.1ab/.विधिज्ञः पापचारित्रः कदर्यश् च^अत्र जायते/

p.98.1cd/.जायते च^अत्र दुःशीलो गुरूणाम् अभ्यसूयकः/

p.98.1ef/.परोपतापी लुब्धश् च परव्याहारगोचरः//भरण्यां//

p.98.2ab/.सप्तविंशति^नक्षत्रे कृत्तिकादि यदा भवेत्/

p.98.2cd/.भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां//

p.98.3ab/.तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयो +अपि च/

p.98.3cd/.वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः/

p.98.3ef/.सर्वं प्रतिपादयितव्यम् उक्त^नक्षत्र^कर्मसु//

p.98.4/.उक्तो नक्षत्र^कर्म^निर्देशो नाम^अध्यायः//

% ध्रुव^क्षिप्र^अर्ध^रात्रिकाणि नक्षत्राणि

p.98.5/.चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि/ तच् छृणु/ तद् यथा/ त्रीणि उत्तराणि रोहिणी च/ क्षेमे +अध्यावसेत्/ (99) बीजानि च^अत्र रोपयेद्/ निवेशतं च^अत्र कल्पयेत्/ राजानं च^अभिषिञ्चयेत्/ यानि च^अन्यानि उक्तानि कर्माणि तानि कारयेत्/

p.99.1ab/.अथ नष्टं दग्धं वा विद्धं च^अपि हृतं च वा/

p.99.1cd/.एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति//

p.99.2ab/.अथात्र जातो धन्यो +असौ विद्यात्मा च यशस्वी च/

p.99.2cd/.मङ्गलीयो महा^भोगी महा^योगी भविष्यति//

p.99.3/.चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति/ तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति/ एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः/ स्वाध्यायं मन्त्र^समारम्भं प्रवास^प्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्/ धूयाणि युक्तकर्माणि च^ओषधीकर्माणि च/ भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्/

p.99.4/.तत्र यज्ञ^समारम्भं चातुर्मास्यं च कारयेत्/ अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यति^इति वक्तव्यं/

p.99.5ab/.अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं/

p.99.5cd/.महा^भोगं च राजानं महा^योगिनम् ईश्वरं//

p.99.6ab/.महा^धनं महा^भोगं तथा च महद्^उत्तमं/

p.99.6cd/.क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं//इति/

p.99.7/.पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति/तद् यथा/

p.99.8ab/.मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी/

p.99.8cd/.अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति//

p.99.9/.इति वक्तव्यं / अर्ध^रात्रिकाणि षट्/ तद् यथा/ आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति/ नवंशाः षड्ग्रासा द्विक्षेत्राणि/ रोहिणी पुनर्वसुर् विशाखा च/ त्रीणी उत्तराणि चेति/ उभयतो विभागानि/ पञ्च^दशक्षेत्राणि/ कृत्तिका च मघा मूला ग्रीणि पूर्वाणि/ इमानि षट् पूर्वभागिनानि/ मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनो चेति/ इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्^मुहूर्त^योगानि क्षेत्राणि च/

p.100.1/.अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति/ अशुभाश् च मुहूर्ता भवन्ति/ शुभ^अशुभाश् च मुहूर्ता भवन्ति/ संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभ^मुहूर्त^समापत्तयो भवन्ति तदा शोभना भवन्ति/ यदा +अशुभ^मुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति/ यदा तु पुनः शुभाश् च^अशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति/

%रात्रिदिवसयोर् ह्रासवृद्धी

p.100.2/.अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवति^इति तद् उच्यते/ वर्षाणां प्रथमे मासे पुष्य^नक्षत्रम् अमावास्यां भवति/ श्रवणा पूर्णमास्यां/ अष्टादश^मुहूर्तो दिवसो भवति/ द्वादश^मुहूर्ता रात्रिः/ षोडशाङ्गुल^काष्ठस्य मध्याह्ने +अर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ आषाढा रात्रिं नयति/ मृगशिरसि आदित्यो गतो भवति/ वर्षाणां द्वितीये मासे मघा +अमावास्यां भवति भाद्रपदा पूर्णमास्यां/ सप्तदश मुहूर्तो दिवसो भवति/ त्रयोदश^मुहूर्ता रात्रिः/ (101) द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते/ श्रवणा रात्रिं नयति/ पुष्य आदित्यो गतो भवति/ वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति/ अश्विनी पूर्णमास्यां/ षोडश^मुहूर्तो दिवसो भवति/ चतुर्^दश^मुहूर्ता रात्रिः/ चतुर्^अङ्गुलायां छायायाम् आदित्यः परिवर्तते/ पूर्वभाद्रपदा रात्रिं नयति/ मघा^आदित्यो गतो भवति/ वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां/ पञ्च^दश^मुहूर्तो भवति दिवसः/ पञ्च^दश^मुहूर्ता रात्रिः/ षडङ्गुलायां छायायाम् आदित्यः परिवर्तते/ अश्विनो रात्रिं नयति/ फलुगुन्याम् आदित्यो गतो भवति/

p.101.1/.हेमन्तानां प्रथमे मासे +अनुराधा +अमावास्यं भवति/ मृगशिरा पूर्णमास्यां/ चतुर्^दश^मुहूर्तो दिवसो भवति/ षोडश^मुहूर्ता रात्रिः/ अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ कृत्तिका रात्रिं नयति/ चित्रायाम् आदित्यो गतो भवति/ हेमन्तानां द्वितीये मासे +अमावास्यां ज्येष्ठा भवति/ पुष्यः पूर्णमास्यां/ त्रयोदश^मुहूर्तो दिवसो भवति/ सप्तदश^मुहूर्ता रात्रिः/ दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ मृगशिरा रात्रिं नयति/ विशाखायाम् आदित्यो गतो भवति/ (102) हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति/ मघा पूर्णमास्यं/ द्वादश^मुहूर्तो दिवसो भवति/ अष्टादश^मुहूर्ता रात्रिः/ द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ पुष्यो रात्रिं नयति/ ज्येष्ठायाम् आदित्यो गतो भवति/ हेमन्तानां चतुर्थे मासे श्रवणाम् आवास्यं भवति/ फल्गुनी पूर्णमास्यां/ त्रयोदश मुहूर्तो दिवसो भवति/ सप्तदश^मुहूर्ता रात्रिः/ दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ मघा रात्रिं नयति/ आषाढायाम् आदित्यो गतो भवति/

p.102.1/.ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति/ चित्रा पूर्णमास्यां चतुर्^दश^मुहूर्तो दिवसो भवति/ षोडश^मुहूर्ता रात्रिः/ (103) अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते/ फल्गुनी रात्रिं नयति/ श्रवणायाम् आदित्यो गतो भवति/ ग्रीष्माणां द्वितीये मासे +अश्विनी अमावास्यायां भवति/ विशाखा पूर्णमास्यां/ पञ्च^दश^मुहूर्तो दिवसो भवति/ पञ्च^दश^मुहूर्ता रात्रिः/ षडङ्गुलायां छायायाम् आदित्यः परिवर्तते/ चित्रा रात्रिं नयति/ उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति/ ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति/ ज्येष्ठा पूर्णमास्यां/ षोडश^मुहूर्तो दिवसो भवति/ चतुर्दश^मुहूर्ता रात्रिः/ चतुर्^अङ्गुलायां छायायाम् आदित्याः परिवर्तते/ विशाखा रात्रिं नयति/ कृत्तिकायाम् आदित्यो गतो भवति/ ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति/ उत्तराषाढा पूर्णमास्यां/ सप्तदश^मुहूर्तो दिवसो भवति/ त्रयोदश^मुहूर्ता रात्रिः/ मध्याह्ने द्वि^अङ्गुलायां छायायाम् आदित्यः परिवर्तते/ ज्येष्ठा रात्रिं नयति/ पुष्य आदित्यो गतो भवति/

p.103.1/.संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि च^एतानि (नक्षताणि) भागानुभगेन^अमावास्ययं पूर्णमास्यं च युज्यन्ते/ ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं/ तत्र तृतीये वर्षे +अधिको मासो युज्यते/ षण्णां मासानाम् अहोरात्राणि समानि भवन्ति/ अतः षण्^मासाद् दिवसो वधते/ षण्^मासाद् रात्रिर् (104) वर्धते/ षण्^मासाद् दिवसो मासे मासे समम् एव हीयते/ षण्^मासाद् रात्रिर् मासे मासे परिहीयते/

p.104.1/.षण्^मासाद् आदित्यः परिवर्तते/ उत्तरां दिशं संचरति/ षण्^मासाद् दक्षिणां दिशं/ षण्^मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति/ सूर्य^गत्या चन्द्र^गत्या च समुद्र^उदक^वेला^अभिवृद्धिर् भवति/ अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति/

%ग्रहः

p.104.2/.चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरो +अङ्गारको बुधश् च/ इमे ग्रहाः/ एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो/ एवं शनैश्चरो बुधो +अङ्गारकः शुक्रश् च^इमे मण्डल^चारिणः/

%नक्षत्रमण्डलं

p.104.3/.भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं/ आर्द्रा पुनर्वसुः पुष्यो +अश्लेषा एतत् साधारनं द्वितीयं मण्डलं/ मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं/ स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं/ ज्येष्ठा मूलाषाढाद्वयम् (105) अत्र सर्वाणि महा^भायानि भवन्ति/ इदं पञ्चमं मण्डलं/ अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं/ रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं/ संवत्सरम् एतेषु यद् यन् नक्षत्र^मण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या/

p.105.1/.द्वादश^मुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ/ षण्^मुहूर्ताः सञ्चारिणः/ कतमे षट्/ नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च/ इतीमे सञ्चारिणः षट्/

p.105.2/.अथात्र श्रावणे मासे पूर्णे +अष्टादश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा नाम मुहूर्तो भवति/ रोहितस्य च मुहूर्तस्य बलस्य च^अन्तरे मध्याह्नो भवति/ सूर्यावतारे तु विचारी नाम मुहूर्तो भवति/ द्वादश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति/ आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति/ भाद्रपदे मासे पूर्णे सप्तदश^मुहूर्ते दिवसे सूर्य^उदये च चतुरोजा एवं नाम मुहूर्ता भवति/ मध्याह्ने +अभिजितो नाम मुहूर्तो भवति/ (106) सूर्यावतारे रौद्रो नाम मुहूर्तो भवति/ त्रयोदश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति/ अर्ध^रात्रे महा^भयो वायावो नाम मुहूर्तो भवति/

p.106.1/.रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति/ अश्वयुजे मासे पूर्णे षोडश^मुहूर्तो दिवसो भवति/ सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति/ समुद्गतस्य च मुहूर्तस्य अभिजितस्य च^अन्तरे मध्याह्नो भवति/ सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति/

p.106.2/.चतुर्^दश^मुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति/ अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेण^अर्ध^रात्रं भवति/ रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति/

p.106.3/.कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति/ पञ्च^दश^मुहूर्तो दिवसो भवति पञ्च^दश^मुहूर्तो रात्रिः/ समाने +अहोरात्रे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति/ संमुखो नाम मुहूर्तो भवति मध्याह्ने/ सन्ततो नाम मुहूर्तः (107) सूर्यावतारे/ रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति/ अर्ध^रात्रे +अभिजिन् मुहूर्तो भवति/ रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति/

p.107.1/.मार्गशीर्षे मासे च पूर्णे चतुर्^दश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नाम मुहूर्तो भवति/ विरतस्य संमुखस्य च मुहूर्तस्य^अन्तरे मध्याह्नो भवति/ सूर्य^अवतारे वरुणो नाम मुहूर्तो भवति/ षोडश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति/ राक्षसस्याभिजितस्य च मुहूर्तस्य^अन्तरे +अर्ध^रात्रं भवति/ रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति/

p.107.2/.पौषमासे पूर्णे त्रयोदश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा एवं नम मुहूर्तो भवति/ मध्याह्ने विरतो नाम मुहूर्तो भवति/ सूर्यावतारे नैरृतो नाम मुहूर्तो भवति/ सप्तदश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति/ अर्ध^रात्रे राक्षसो नाम मुहूर्तो भव्ति/ रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति/

p.107.3/.माघ^मासे पूर्णे द्वादश^मुहूर्ते दिवसे सूर्य^उदये चतुरोजा नाम मुहूर्तो भवति/ सावित्रस्य च विरतस्य च मुहूर्तस्य^अन्तरेण मध्याह्नो भवति/ सूर्यावतारे विजयो नाम मुहूर्तो भवति/ अष्टादश^मुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति/ गर्दभस्य मुहूर्तस्य च राक्षसस्य च^अन्तरम् अर्ध^रात्रं भवति/ रात्र्यवसान आतपाग्निर् एवं नाम मुहूर्तो भवति/

p.108.1/.यथा श्रावणे तथा माघे/ यथा भाद्रपदे तथा फाल्गुने/ यथा +अस्वयुजे तथा चैत्र/ यथा कार्त्तिके तथा वैशाखे/ यथा मार्गशीर्षे तथा ज्यैष्ठे/ यथा पौषे तथा +अषाढे/ एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं/ नक्षत्र^विचरणं नाम प्रथमो +अध्यायाः/

p.108.2/.यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन च^उत्कर्षापकर्षौ कर्तव्यौ/ हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णे +अर्ध^मासे वा/ द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्र^अन्तरे दिवसे कला वर्धते रात्रौ कला हीयते/

% भूमि^कम्प^निर्देशः

p.108.3ab/.चत्वारो महा^राजानो ध्रियते यैर् वसुन्धरा/

p.108.3cd/.अतिवृद्धिर् विशुद्धश् च वर्धमानः पृथक्श्रवाः//

p.108.4ab/.महा^भूतानि चत्वारि कम्पयन्ति वसुन्धरां/

p.108.4cd/.आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि//

p.108.5ab/.त्रयस् तु ते यत्र भवन्ति पक्षे षडेक^मासे तु भवन्ति वेगाः/

p.108.5cd/.परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं//

p.109.1ab/.विशाखा दश^रात्री अयाज् ज्येष्ठा द्वादश^रात्रिका/

p.109.1cd/.पञ्च^विंशतिर् आषाढा श्रवणा पञ्च^सप्ततिः//

p.109.2ab/.रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः/

p.109.2cd/.अध्यर्धं तु पञ्च^पञ्चाशन् माघे रात्रिशतं स्मृतं/

p.109.3ab/.अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः/

p.109.3cd/.विपाको भूमि^वेगानाम् अतः कम्पः प्रवर्तते//

p.109.4ab/.यदा सर्वेषु मासेषु सततं कम्पते मही/

p.109.4cd/.वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते/ p.109.4ef/.पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्//

p.110.1ab/.नगराण्य् अथ वा ग्रामा घोषा ये च^अत्र संश्रिताः/

p.110.1cd/.शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः//

p.110.2ab/.अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च/

p.110.2cd/.अनावासा दिशो विद्याद् भूमि^चालविचालिताः//

p.110.3ab/.कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा/

p.110.3cd/.अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्//

p.110.4ab/.कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः/

p.110.4cd/.आगाराश् च निवर्तन्ते संवर्तेनेव धातवः//

p.110.5ab/.ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः/

p.110.5cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.110.6ab/.रोहिण्यां चलिता भूमिः सर्व^बीज^विनाशनं/

p.110.6cd/.प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता//

p.111.1ab/.गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं/

p.111.1cd/.दुर्भिक्ष^व्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा//

p.111.2ab/.महा^आत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः/

p.111.2cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.111.3ab/.मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं/

p.111.3cd/.चिकित्सकाः श्रोत्रियाश् च घटकाः सोम^याजकाः//

p.111.4ab/.सोम^पीताश् च ये विप्रा वानप्रस्थाश् च तापसाः/

p.111.4cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.111.5ab/.आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः/

p.111.5cd/.अन्न^पानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः//

p.111.6ab/.कूपखाः परिखाखाश् च पापका ये च तस्कराः/

p.111.6cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.111.7ab/.पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिका^अपि च/

p.111.7cd/.वागुरिकाः कारण्डवाश् चक्रिणः शुक^सारिकाः//

p.111.8ab/.अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः/

p.111.8cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.112.1ab/.पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा/

p.112.1cd/.दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः//

p.112.2ab/.पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः/

p.112.2cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः/

p.112.2ef/.शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्//

p.112.3ab/.अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः/

p.112.3cd/.कीटाः पिपीलिकाः श्वाना; एक^खुराश् च ये मृगाः//

p.112.4ab/.वैद्या विसकराश् च^अपि ये च सत्वा दरीश्रयाः/

p.112.4cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.112.5ab/.मघासु चलिता भूमिर् महा^राजो +अत्र तप्यते/

p.112.5cd/.ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा/

p.112.5ef/.यज्ञाश् च देव^कृत्यं च सर्वम् अत्र निवर्तते//

p.112.6ab/.ये जाता ये च संवृद्धा ये च^अन्ये +अप्य् अग्रपण्डिताः/

p.112.6cd/.गन्धर्वाश् च विनश्यन्ति नरा ये च महा^कुलाः/

p.112.6ef/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.112.7ab/.फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा/

p.112.7cd/.त्रियग्वातश् च^एव वाति कृतं नश्यति शाश्वतं/

p.112.7ef/.पथिकाश् च^उपतप्यन्ति माषयाच्योपजीविकाः//

p.113.1ab/.धर्मे रता; आसनिका ये च शुल्कोपजीविनः/

p.113.1cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.113.2ab/.चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः/

p.113.2cd/.सार्थवाहा; आसनिका ये च शिल्पोपजीविनः//

p.113.3ab/.अङ्गाविदेहमगधा नैरृताः स्त्री^परिग्रहाः/

p.113.3cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.113.4ab/.हस्तेन चलिता भूमिः कुम्भ^कार चिकित्सकाः/

p.113.4cd/.गणमुख्या महा^मात्राः सेनाध्यक्षाश् च ये नराः//

p.113.5ab/.तारमका (?) नारपटा (?) विप्सरः (?) कौटिका; अपि/

p.113.5cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.113.6ab/.चित्रायां चलिता भूमिः कारुका; उपकल्पकाः/

p.113.6cd/.कुमार्यः सर्व^रत्नं च सस्यानां बीज^कैः सह//

p.113.7ab/.वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा/

p.113.7cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.113.8ab/.स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः/

p.113.8cd/.हिंसका ये च तत् कर्म^रता +अभ्यर्थितमूषकाः//

p.113.9ab/.हिमवत; उत्तरेण वायुभक्षास् तपस्विनः/

p.113.9cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.114.1ab/.विशाखायां चलेद् भूमिर् महा^शैल^क्षयो भवेत्/

p.114.1cd/.उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः//

p.114.2ab/.अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्/

p.114.2cd/.विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः//

p.114.3ab/.अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः//

p.114.3cd/.मित्रभेदश् च बलवान् तदा जगति जायते//

p.114.4ab/.ज्येष्ठायां चलिता भूमिर् महा^राजः प्रतप्यते/

p.114.4cd/.वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये//

p.114.5ab/.कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः/

p.114.5cd/.प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः/

p.114.5ef/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.114.6ab/.मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा/

p.114.6cd/.ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः/

p.114.6ef/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.115.1ab/.दुर्भिक्षं च करोत्य् आशु धान्यम् अल्प^उदकं भवेत्/

p.115.1cd/.दरीपर्वतमूलानि गच्छन्ति च तदा भुवि//

p.115.2ab/.पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्य^शुक्तिकाः/

p.115.2cd/.शिशुमारा; उद्रकाश् च नक्रा मकर^कच्छपाः//

p.115.3ab/.जातिगोत्र^प्रधानाश् च धनिनो +अथ विचक्षणाः/

p.115.3cd/.द्वितीयाभिजाताश् च महा^विद्याकराश् च ये/

p.115.3ef/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.115.4ab/.उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्/

p.115.4cd/.अयस्काराः स्थापतयस् त्रपु^काराश् च तक्षकाः//

p.115.5ab/.दरिद्रा धनिनश् च^अपि शिल्पिनो विविधा; अपि/

p.115.5cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः/

p.115.5ef/.ग्राम^कुटानि च घ्नन्ति सचलस्थावराणि च//

p.115.6ab/.वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं/

p.116.1ab/.अध्यापकाः शास्त्र^विदः कवयो मन्त्र^पारगाः/

p.116.1cd/.युगन्धराः शूरसेना; अभिराजाः पटच्चराः//

p.116.2ab/.कुशण्डाः शरदण्डाश् च ये नरा राज^पूजिताः/

p.116.2cd/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.116.3ab/.धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्/

p.116.3cd/.महेश्वरास् तथा महा^नागराः श्रेष्ठिनस् तथा//

p.116.4ab/.प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः/

p.116.4cd/.पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि/

p.116.4ef/.एते व्यसनम् अर्च्छन्ति भूमि^चालविचालिताः//

p.116.5ab/.वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्/

p.116.5cd/.हस्तिनो +अश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं//

p.116.6ab/.तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि/

p.116.6cd/.अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्//

p.117.1ab/.साजेन चलिता भूमी राक्षसान् घातकांस् तथा/

p.117.1cd/.औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्//

p.117.2ab/.वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि/

p.117.2cd/.यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्//

p.117.3ab/.अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्/

p.117.3cd/.धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः//

p.117.4ab/.शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्/

p.117.4cd/.सिन्धुराज^धनुष्पानीन् सर्वान् अर्दयते +अचिरात्//

p.117.5ab/.रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः/

p.117.5cd/.ग्राम^घाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति//

p.117.6ab/.नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्/

p.117.6cd/.सुधन्वान् अभिसारांश् च सर्व^सेनांश् च निर्दहेत्//

p.118.1ab/.अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्/

p.118.1cd/.ग्राम^घाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति//

p.118.2ab/.या च^अत्र गभम् आधत्ते ये च जाताश् च तान् इह/

p.118.2cd/.त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं//

p.118.3ab/.सहिताश् चित्र^गर्भाश् च ये ह्य् अन्ये च^अङ्गनाजनाः/

p.118.3cd/.आर्जुनायना राजन्याः सुष्ठु त्रींश् च^अपि हिंसति//

p.118.4ab/.भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्/

p.118.4cd/.विटा द्यूत^कराश् च^एव ग्रन्थिभेदाश् च ये नराः//

p.118.5ab/.आदर्शचक्राटाधूर्तास् तथा बन्धन^रक्षकाः/

p.118.5cd/.अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः/

p.118.5ef/.ते +अपि तत्र विपद्यन्ते भूमि^चालविचालिताः//

p.118.6ab/.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं/

p.118.6cd/.सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः//

p.119.1ab/.स्निग्धो ह्य् अङ्जन^संकाशो महा^पर्वतसन्निभः/

p.119.1cd/.इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा//

p.119.1ef/.[एवं निगदितं नार्थैर् इन्द्रश् च^अत्र प्रवर्षति//]

p.119.2ab/.स्वस्तिका कार^संकाशा; इन्द्रवज्रध्वयोपमाः/

p.119.2cd/.दृश्यन्ते +अभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ//

p.119.3ab/.तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः/

p.119.3cd/.लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्/

p.119.3ef/.स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा//

p.119.4ab/.अतीव तत्र विश्वस्तः सर्व^बीजानि वापयेत्/

p.119.4cd/.व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः/

p.119.4ef/.सर्वेषां भूमि^कम्पानां प्रशस्ता; इन्द्रकंपिताः//

p.119.5ab/.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं/

p.119.5cd/.सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः//

p.120.1ab/.ततो +अनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः/

p.120.1cd/.अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं//

p.120.2ab/.शिशुमार^उद्रकाणां मत्स्य^मकर^सन्निभाः/

p.120.2cd/.दृश्यन्ते +अभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्र^दिवा^करौ//

p.120.3ab/.लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्/

p.120.3cd/.स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा//

p.120.4ab/.स्थालेषु गिरि^कूटेषु क्षेत्रेषूपवनेषु च/

p.120.4cd/.स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा//

p.120.5ab/.पञ्केण^अपि जलेन^अपि नश्येयू रजसा^अपि वा/

p.120.5cd/.एतेषां भूमि^कम्पानां प्रशस्ता जलकम्पिताः//

p.120.6ab/.वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं/

p.120.6cd/.सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः//

p.120.7ab/.दृश्यते कपिला सन्ध्या चन्द्र^सूर्यौ तु लोहिताउ/

p.120.7cd/.लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्//

p.121.1ab/.ततो भवति निर्देशो महर्षेर् वचनं यथा/

p.121.1cd/.न तत्र प्रवसेत् प्राज्ञ; आत्मानं च^अत्र गोपयेत्//

p.121.2ab/.गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्/

p.121.2cd/.प्रातिसीमा विरुध्यन्ते नराणां जायते भयं//

p.121.3ab/.एतेषां भूमि^कम्पनं सर्वेषां कीर्तिता गुणाः/

p.121.3cd/.विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः//

p.121.4ab/.कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं/

p.121.4cd/.सप्ताहाभ्यन्तरात् तत्र; उल्का^पाताः सुदारुणाः//

p.121.5ab/.सन्ध्या च लोहिता भाति चन्द्र^सूर्यौ तु लोहितौ/

p.121.5cd/.लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः//

p.121.6ab/.अग्निर् दहति काष्ठानि रक्षितानि धनानि च/

p.121.6cd/.दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं//

p.121.7ab/.वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति/

p.121.7cd/.एतेषां भूमि^कम्पानां जघन्या; अग्निकम्पिताः//

p.121.8a/.जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च/ p.121.8b/.हय^गज^रथ^मुख्यान् मन्त्रिणो मध्यम^अह्ने/

p.122.1ab/.व्यथयति; आपर^अह्णे गोपशून् वैश्य^शूद्रान्/

p.122.1cd/.प्रदहति निशि^सन्ध्या तस्कर^अनन्त^वासान्//

p.122.2a/.रजनिम् इह प्रदोषे हिंसते म्लेच्छ^संघान्/

p.122.2b/.स्त्रियम् अपि च नपुंसश् च^अर्ध^रात्रेष्व् अनन्तान्/

p.122.2c/.कृषि^वणिग् उपजीव्यान् हन्ति यामे तृतीये/

p.122.2d/.व्यथयति सुरपक्षं रौद्र^कर्म^अन्तकृष्णे//

p.122.3a/.प्रदहति शशिपक्षे याज्ञिकं ब्रह्म^क्षत्रं/

p.122.3b/.श्रपयति शुचि^वृत्ताम् एव धर्मे प्रधानान्/

p.122.3c/.विदुषि च मृदु^भावं विन्दते यो ह्य् अधीते/

p.122.3d/.स भवति नृप^पूज्यो बाह्मणो देव^दर्शी//

p.123.1ab/.बृहस्पतेश् च चत्वारि समानि शुभ^कर्मणा/

p.123.1cd/.चत्वारि सूर्य^कर्माणि तुल्यानि शुक्र^कर्मणा/

p.123.1ef/.सोम^कर्माणि चत्वारि ब्रह्म^कर्म च तत्समं//

p.123.2/.अयं भोः पुष्करसारिन् भूमि^कम्प^निर्देशो नाम^अध्यायः/

% व्याधि^समुत्थानं

p.123.3/.अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोग^उत्पत्तिं नाम^अध्यायं व्याख्यामि/ तच् छ्रूयतां/ कथयतु भगवान्/

p.123.4ab/.कृत्तिकासु^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.123.4cd/.चतूरात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.123.5ab/.अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्/

p.123.5cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.123.6ab/.रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.123.6cd/.पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.123.7ab/.देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्/

p.123.7cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.123.8ab/.व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा/

p.123.8cd/.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.123.9ab/.सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्/

p.123.9cd/.अनेन बलि^दानेन तस्माद् रोगाद् विमुच्यते//

p.124.1ab/.(124) आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.124.1cd/.दश^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.124.2ab/.रुद्रो हि देवता तत्र पायसेन बलिं हरेत्/

p.124.2cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.124.3ab/.पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.124.3cd/.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.124.4ab/.आदित्यो देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.124.4cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.124.5ab/.पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.124.5cd/.स्तोककालं भवेत् तस्य पञ्च^रात्राद् विमुच्यते//

p.124.6ab/.देवो बृहस्पतिस् तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.124.6cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.124.7ab/.अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा/

p.124.7cd/.न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः//

p.124.8ab/.मघा^समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.124.8cd/.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.124.9ab/.पितरो देवतास् तत्र कृसरेण बलिं हरेत्/ p.124.9cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.124.10ab/.पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा/

p.124.10cd/.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.125.1ab/.(125) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/ %भग

p.125.1cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.125.2ab/.उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.125.2cd/.न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता//%अर्यमन्

p.125.3ab/.हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.125.3cd/.पञ्च^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.125.4ab/.रविर् हि देवता तत्र गन्ध^पुष्पैर् बलिं हरेत्/

p.125.4cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.125.5ab/.चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.125.5cd/.अष्ट^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.125.6ab/.त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्/

p.125.6cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.125.7ab/.स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा/

p.125.7cd/.क्लेशितो हि भवेद् व्याधिः पञ्च^विंशति^रात्रिकः//

p.125.8ab/.देवता^अत्र भवेद् वायुश् चित्र^माल्यैर् बलिं हरेत्/

p.125.8cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.125.9ab/.विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.125.9cd/.गुरुको +असौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः//

p.126.1ab/.(126) इन्द्राग्नी^देवते तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.126.1cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.126.2ab/.अनुराधा^उत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा/

p.126.2cd/.अर्ध^मासं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.126.3ab/.मित्रो हि देवता तत्र घृत^पात्रं बलिं हरेत्/

p.126.3cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.126.4ab/.ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.126.4cd/.क्लेशिको हि भवेद् व्याधिर् अहोरात्र^त्रयोदश//

p.126.5ab/.इन्द्रो हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.126.5cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.126.6ab/.मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.126.6cd/.मासिको हि भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.126.7ab/.नैरृतिर् देवता तत्र मद्य^मांसैर् बलिं हरेत्/

p.126.7cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.126.8ab/.पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.126.8cd/.सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः//

p.126.9ab/.आपो हि देवतास् तत्र कृसरेण बलिं हरेत्/

p.126.9cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.126.10ab/.उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.126.10cd/.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.126.11ab/.विश्वो हि देवता तत्र पायसेन बलिं हरेत्/

p.126.11cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.127.1ab/.(127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.1cd/.षण्^मासान् संभवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.127.2ab/.विष्णुश् च देवता तत्र दधि^मण्डं बलिं हरेत्/

p.127.2cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.127.3ab/.श्रवणेन^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.3cd/.गुरुको हि भवेद् व्याधिः पूर्णं द्वादश^मासिकं//

p.127.4ab/.विष्णुर् हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.127.4cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.127.5ab/.धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.5cd/.गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश//

p.127.6ab/.वसवो देवतास् तत्र घृत^माल्यैर् बलिं हरेत्/

p.127.6cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.127.7ab/.शतभिषा^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.7cd/.त्रयोदश^दिवस् तत्र ततश् च^ऊर्ध्वं विमुच्यते//

p.127.8ab/.वरुणो देवता तत्र पायसेन बलिं हरेत्/

p.127.8cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.127.9ab/.पूर्वभद्र^उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.9cd/.न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्यो +अत्र दैवतः//

p.127.10ab/.उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.127.10cd/.सप्त^रात्रं भवेद् व्याधिस् ततश् च^ऊर्ध्वं विमुच्यते//

p.128.1ab/.(128) अर्यमा देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.128.1cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.128.2ab/.रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.128.2cd/.मृदुको हि भवेद् व्याधिर् अष्टाविंशति^रात्रिकः//

p.128.3ab/.पूषा हि देवता तत्र गन्ध^माल्यैर् बलिं हरेत्/

p.128.3cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.128.4ab/.अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.128.4cd/.सांक्लेशिको भवेद् व्याधिः पञ्च^विंशति^रात्रिकः//

p.128.5ab/.गन्धर्वो देवता तत्र यावकेन बलिं हरेत्/ %गन्धर्व!

p.128.5cd/.अनेन बलि^कर्मेण तस्माद् रोगाद् विमुच्यते//

p.128.6ab/.भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा/

p.128.6cd/.न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः/

p.128.7ab/.शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति//

p.128.7cd/.अयं भोः पुष्करसारिन् व्याधि^समुत्थानो नाम^अध्यायः/

% बन्धन^निर्मोक्षः

p.128.8/.अथ खलु भोः पुष्करसारिन् बन्धन^निर्मोक्षं नाम^अध्यायं व्याख्यास्यामि/ तच् छ्रूयतां/ कथयतु भगवान्//

p.129.1/.कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति वक्तव्यः/ रोहिण्यां बद्धो वा रुद्धो वा त्रि^रात्रेण मोक्ष्यति^इति/ मृगशिरसि बद्धो वा रुद्धो वा एक^विंशति रात्रेण मोक्ष्यति^इति/ आर्द्रायां बद्धो वा रुद्धो वा +अर्ध^मासेन मोक्ष्यति^इति/ पुनर्वसौ रुद्धो वा बद्धो वा सप्त^रात्रेन/ पुष्ये त्रि^रात्रेण/ अश्लेषायां त्रिंशद्^रात्रेण/ मघासु षोडश^रात्रेण/ चित्रायां सप्त^रात्रेण/ स्वात्यां दश^रात्रेण/ विशाखायां षड्विंशद्^रात्रेण/ अनुराधायाम् एक^त्रिंशद् रात्रेण/ ज्येष्ठायाम् अष्टादश^रात्रेण/ मूले षट्त्रिंशद् रात्रेण/ पूर्वाषाढायां चतुर्^दश^रात्रेण/ उत्तराषाढायां चतुर्^दश^रात्रेण/ अभिजिति षड्^रात्रेण/ श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्^दश^रात्रेण/ अश्विन्यां त्रि^रात्रेण/ भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यति^इति वक्तव्यः/

p.129.2/.अयं भोः पुष्करसारिन् बन्धन^निर्मोक्षो नाम^अध्याय/

% तिलक^अध्यायः

p.129.3/.अथ बोः पुस्करसारिन् तिलक^अध्यायं व्याख्यास्यामि/ तच् छ्रूयतां/ कथयतु भगवान्//

p.129.4/.मूर्ध्नि तु यस्यास् तिलको +अस्ति सूक्ष्मः स्निग्धो भवेत् पद्म^समान^वर्णः/

p.129.5/.राजा तु तस्या भवति^इह भर्ता स्तन^उपरिष्टात् प्रतिबिम्बम् आहुः//

p.130.1ab/.शीर्षे तु यस्यास् तिलक^अलकः स्यात् सूक्ष्मो भवेद् अञ्जन^चूर्ण^वर्णः/

p.130.1cd/.सेनापतिस् तस्या भवेद् धि भर्ता स्तन^अन्तरे +अस्याः प्रतिबिम्बकं स्यात्//

p.130.2ab/.भ्रूवोन्तरे +अस्यास् तिलक^अलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति/

p.130.2cd/.पञ्च^एव तस्याः पतयो भवन्ति बह्व्^अन्न^पानं लभते च नारी//

p.131.1ab/.गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः/

p.131.1cd/.तां शोक^भाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः//

p.131.2ab/.कर्णे तु यस्यास् तिलक^अलकः स्याद् बहु^श्रुतां तां प्रमदां वदन्ति/

p.131.2cd/.बहु^श्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्//

p.131.3ab/.यस्य^उत्तरोष्ठे तिलक^अलकः स्यात् तां भिन्न^सत्यां प्रमदां वदन्ति/

p.131.3cd/.कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिल^बिम्बम् आहुः//

p.132.1ab/.यस्या +अधरोष्ठे तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति/

p.132.1cd/.मिष्ट^अन्न^पानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्//

p.132.2ab/.चिबुके तु यस्यास् तिलक^अलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति/

p.132.2cd/.मिष्ट^अन्न^पानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्//

p.132.3/.अयं भोः पुष्करसारिंस् तिलक^अध्यायो नाम^अध्यायः/

p.132.4/.अथ खलु भोः पुष्करसारिन् नक्षत्र^जन्म^गुणं नाम^अध्यायं व्याख्यास्यामि/ तच् छ्रूयतां/ कथयतु भवान् त्रिशङ्क्को/

p.132.5a/.कृत्तिकासु नरो जातस् तेजस्वी प्रिय^साहसः/

p.132.5b/.भवेच् छूरस् तथा चण्डः प्रिय^वादी च मानवः//

p.132.6a/.रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा/

p.132.6b/.व्यवसायी स्थिरः शूरो ध्रुवं च^अस्य सदा मुखं//

p.133.1ab/.जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः/

p.133.1cd/.दर्शनीयो भवेच् च^असौ स्त्री^कान्तस् तु विशेषतः//

p.133.2ab/.आर्द्रा^जातस् तु हिंसात्मा चण्डः परम^जल्पकः/

p.133.2cd/.रोद्रकर्मा भवेच् च^असाव् ईश्चरश् च शतैर् महान्//

p.133.3ab/.जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः/

p.133.3cd/.धर्म^शीलो भवेच् च^असौ जात^क्रोधश् च मानवः//

p.133.4ab/.पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्/

p.133.4cd/.क्षत्रियश् च भवेद् राजा वैश्य^सूद्रौ च पूजितौ//

p.133.5ab/.श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषा^सम्भवो नरः/

p.133.5cd/.दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्//

p.133.6ab/.बहु^प्रज्ञः श्राद्ध^करो बहु^भाग्यस् तथा^एव च/

p.133.6cd/.धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्//

p.133.7ab/.पूर्वफाल्गुनी^जातस् तु यः कश्चित् पुरुषो भवेत्/

p.133.7cd/.अर्धम् अबुच्छिशीलश् च गुरु^दारा^अभिमर्दकः//

p.133.8ab/.उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्/

p.133.8cd/.दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्//

p.133.9ab/.हस्ते जातश् च शुद्ध^आत्मा विक्रान्तो मृदु^भोजनः/

p.133.9cd/.सेनापत्यम् च कुरुते +अस्तेय^कर्मा भवेद् असौ//

p.133.10ab/.चित्रासु जातश् चित्रा^अक्षस् तथा चित्र^कथा^करः/

p.133.10cd/.दर्शनीयो बहु^स्त्रीकश् चित्र^शीलो भवेन् नरः//

p.134.1ab/.स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः/

p.134.1cd/.मृदुकः पान^शौण्डश् च मित्र^कारी विचारवान्//

p.134.2ab/.विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्/ p.134.2cd/.शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ//

p.134.3ab/.अनुराधा^उद्भवो मर्त्यो मित्रवान् संग्रही नरः/

p.134.3cd/.शुचिश् च^एव कृत^ज्ञश् च धर्म^आत्मा च भवेच् च सः//

p.134.4ab/.ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते/

p.134.4cd/.धनुर्वेद^अभिरामश् च नारीषु कुरुते मनः//

p.134.5ab/.मूलेषु पुरुषो जातो +अकृतज्ञः स्याद् अधर्मिकः/

p.134.5cd/.दृढो वीरो भवेच् च^असौ किल्विषी च स मानवः//

p.134.6ab/.आषाढासु च पूर्वासु मत्सरी चलित^इन्द्रियः/

p.134.6cd/.मत्स्य^मांस^प्रियश् च^अपि घातकः स्यात् स मानवः//

p.134.7ab/.स^अनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः/

p.134.7cd/.विश्वदैवे नरो जातो भवेद् अपि च निश्चितः//

p.134.8ab/.आचार्यः शास्त्र^कर्ता च विश्वासी च क्रियापरः/

p.134.8cd/.श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्//

p.134.9ab/.अनवस्थित^चित्तश् च च्चित्र^द्रव्यश् च मानवः/

p.134.9cd/.धनिष्ठासु भवेज् जातः पुरुषः सर्व^शाङ्कितः//

p.135.1ab/.वारुणे यदि नक्षत्रे जातो भवति मानवः/

p.135.1cd/.परुषो क्वेषशीलश् च परिवादी च सर्वशः//

p.135.2ab/.जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः/

p.135.2cd/.चारित्र^गुण^युक्तश् च कृत^ज्ञो मुखरस् तथा//

p.135.3ab/.उत्तरस्यां नरो जातो भविष्यति विचक्षणः/

p.135.3cd/.मेधावी बह्व् अपत्यश् च धर्म^शीलो महा^धनः//

p.135.4ab/.रेवत्यां पुरुषो जातो धर्म^आत्मा ज्ञाति^सेवकः/

p.135.4cd/.दरिद्रो +अल्प^धनो नित्यं दायको न^अनुसूयकः//

p.135.5ab/.अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः/

p.135.5cd/.महा^जन^प्रियश् च^अपि शूरश् च सुभगश् च सः//

p.135.6ab/.भरण्यां पुरुषो जातः पापा^चारो +अविचक्षणः/

p.135.6cd/.कन्दर्पे दातुकामश् च परतश् च^उपजीवकः//

p.135.7/.अयं भोः पुष्करसारिन्न् नक्षत्र^जन्म^गुणो नाम^अध्यायः/

p.135.8/.पठ भोस् त्रिशङ्को उत्पात^चक्रं नाम^अध्यायं/ कथयति च/

उ1 उत्पात^चक्र^निर्देशः (p.136)

उ1.1अब्/.अष्टाविंशति^पर्यन्त^कृत्स्ने नक्षत्र^मण्डले/

उ1.1च्द्/.दिव्या विकारा दृश्यन्ते सूर्य^चन्द्र^ग्रहादिषु//

उ1.2अब्/.माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि/

उ1.2च्द्/.धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते/

u1.2ef/.vidyuto vā^atha dṛśyante tadā vidyāj jana^kṣayaṃ//

उ1.3अब्/.अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्/

उ1.3च्द्/.अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश//

उ1.4अब्/.भरण्यां माघ^मासे तु पीतसूर्यो +अथ दृश्यते/

उ1.4च्द्/.समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्//

उ1.5अब्/.फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि/

उ1.5च्द्/.नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति//

उ1.6अब्/.चैत्र^मासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते/

उ1.6च्द्/.अचिरोदयकाले तु क्षिति^पालो +अवरुध्यते//

उ1.7अब्/.वैशाखमासे च^अर्द्रायाम् आदित्यः प्रतिसूर्यकः/

उ1.7च्द्/.संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ//

उ1.8अब्/.गृह्येतां चन्द्र^सूर्यौ वा ज्यैष्ठे भरणि^ज्येष्ठयोः/

उ1.8च्द्/.स^अमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्//

उ1.9अब्/.आषाढे च यदा^आदित्ये पूर्वभाद्रपदे स्थिते/

उ1.9च्द्/.सायाह्ने दृश्यते +अत्यर्थं लोहितो मण्डले ब्रणः//

उ1.10अब्/.पर^चक्रेण तद्^राष्ट्रं षण्^मासान् पीड्यते तदा/

उ1.10च्द्/.क्षिति^पालश् च स^अमात्यः पुत्रदारेण वध्यते//

उ1.11अब्/.पूर्वायां च^उत्तराषाढायाम् आषाढे गृह्यते शशी/

उ1.11च्द्/.विद्याद् दुर्भिक्ष^कलह रोगांश् च^अत्र विनिर्दिशेत्//

उ1.12अब्/.मासे +अथ श्रावणे मूले चन्द्र^सूर्यौ न भासतः/

उ1.12च्द्/.स्फुलिङ्गाश् च^अत्र दृश्यन्ते विद्याद् रोग^भयं महत्//

उ1.13अब्/.मासे +अश्वयुजि गृह्येतां एक^पक्षेन्दुभास्करो/(p.137)

उ1.13च्द्/.राज^पुत्र^सहस्राणां तदा जायेत संक्षयः//

उ1.14अब्/.अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके/

उ1.14च्द्/.चन्द्र^सूर्याव् अग्निवर्णौ रक्त^वर्णे नभस्^तले//

उ1.15अब्/.रविवद् भाति तद्^राष्ट्रं विनश्येत पुनः पुनः/

उ1.15च्द्/.राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं//

उ1.16अब्/.भरण्यां माघ^मासे तु कृष्णो वायुः समुत्थितः/

उ1.16च्द्/.छादयेच् चन्द्र^सूर्यौ तु शीघ्रं राष्ट्रं विनश्यति//

उ1.17अब्/.मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं/

उ1.17च्द्/.वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथा^अपरे//

उ1.18अब्/.सह^आदित्येन चन्द्रे +अथ यदा कश्चिद् ग्रहश् चरेत्/

उ1.18च्द्/.वायुर् वा विषमो वातिइ विद्याद् राज^वधं तदा//

उ1.19अब्/.अशन्युल्के तु वैशाखे; आदित्येन सह^उत्थिते/

उ1.19च्द्/.षण्^मास^अभ्यन्तरेण^अथ राष्ट्रे व्यसनम् आदिशेत्//

उ1.20अब्/.ज्येष्ठ^मासे यदा^आदित्यो ग्रहतो निर्गतो भवेत्/

उ1.20च्द्/.आदित्यस्य^उपघातेन ग्रहाः सर्वे +अथ पीडिताः//

उ1.21अब्/.ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते/

उ1.21च्द्/.क्षिति^पाल^सहस्राणां एक; एकस् तु वध्यते//

उ1.22अब्/.आषाढे वायवो वान्ति गच्छन्तो भरणी^स्थिताः/

उ1.22च्द्/.उदपानानि शुष्यन्ते सर्व^शस्यं च शुष्यति//

उ1.23अब्/.श्रावणे वायवः पीताः सदा कृष्णं नभस्^तलं/

उ1.23च्द्/.भयं तत्र विजानीयात् समन्तात् समुपस्थितं//

उ1.24अब्/.श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा/

उ1.24च्द्/.मेघाः शब्दम् उत्कुर्वन्ति रोग^दुर्भिक्षम् आदिशेत्//

उ1.25अब्/.यदा भाद्रपदे मासे नभः स्याच् छन्न^गर्जितं/(p.138)

उ1.25च्द्/.पर^चक्रं तदा राष्ट्रे हरते धन^सञ्चयं//

उ1.26अब्/.अश्वयुजि वात^वृष्टिः स्याद् आगत्य^उत्तरां दिशं/

उ1.26च्द्/.पातयेच् च^एवम् आघातं कृत्स्नं राष्ट्रं विनश्यति//

उ1.27अब्/.कार्त्तिके शुक्ल^त्रयोदश्यां यदा चन्द्रे धनुर् भवेत्/

उ1.27च्द्/.समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्//

उ1.28अब्/.उल्का^पाता ह्य् अशनयो माघ^मासे भवन्ति वा/

उ1.28च्द्/.अश्विन्यां विषये तत्र प्रजा +अश्वासेन वध्यते//

उ1.29अब्/.मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्^तलात्/

उ1.29च्द्/.भवेच् छब्दस् तदाकाशे तद्^राष्ट्रं नश्यते लघु//

उ1.30अब्/.स्वात्यां चैत्रे यदा वर्षं निरुद्धं वात^वर्षितं/

उ1.30च्द्/.दृश्यत^इन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते//

उ1.31अब्/.भरण्यां ज्येष्ठ^मासे तु शब्द; उत्तरतो भवेत्/

उ1.31च्द्/.पीतवर्णं तदाकाशं पर^चक्र^भयं भवेत्//

उ1.32अब्/.आषाढे मासि पुष्ये +अथ दृश्यन्ते व्योग्नि विद्युतः/

उ1.32च्द्/.सतृण^उदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा//

उ1.33अब्/.श्रावणे तु यदा मूले बहु देवः प्रवर्षति/

उ1.33च्द्/.दृश्यत^इन्द्रधनुस् तत्र क्षत्रियाणां महद्^भयं//

उ1.34अब्/.मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ/

उ1.34च्द्/.सुकृच्छ्रा वायवो वान्ति महद्^रोग^भयं तदा//

उ1.35अब्/.मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः/

उ1.35च्द्/.क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा//

उ1.36अब्/.भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि/

उ1.36च्द्/.सतृणं च^उत्सृजेत् पांशुं तापसानां महद्^भयं//

उ1.37अब्/.कार्त्तिके तु यदा^आर्द्रायां शब्दः श्रयेत भैरवः/

उ1.37च्द्/.चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्//

उ1.38अब्/.मार्गशीर्षे धनिष्ठायां तूर्यशब्दो +अम्बरे भवेत्/(p.139)

उ1.38च्द्/.वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः//

उ1.39अब्/.पौष^मासे यदा स्वात्यां शब्दो भवति भैरवः/

उ1.39च्द्/.अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्^भयं//

उ1.40अब्/.माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां/

उ1.40च्द्/.जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं//

उ1.41अब्/.ज्येष्ठायां फाल्गुने मासे कृष्ण^वायुः समाकुलः/

उ1.41च्द्/.अभीक्ष्णं कम्पते भूमिर् ब्रह्म^चारि^भयं तदा//

उ1.42अब्/.पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा/

उ1.42च्द्/.तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्^भयं//

उ1.43अब्/.पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्/

उ1.43च्द्/.असिभिर् हन्यते राजा हन्यते च महा^जनः//

उ1.44अब्/.वैशाखे कम्पिता भूमिः कृष्ण^पक्षे ह्य् अभीक्ष्णशः/

उ1.44च्द्/.अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्//

उ1.45अब्/.ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा/

उ1.45च्द्/.विद्याद् योध^सहस्राणां मही पास्यति शोणितं//

उ1.46अब्/.ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते/

उ1.46च्द्/.प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्//

उ1.47अब्/.आषाढे कम्पते भूमिः पुष्य^नक्षत्र^संस्थिते/

उ1.47च्द्/.शस्यं विनश्यते तत्र कलिकर्म च जायते//

उ1.48अब्/.प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा/

उ1.48च्द्/.ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु//

उ1.49अब्/.चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च/

उ1.49च्द्/.सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति//

उ1.50अब्/.श्रावणे कम्पते भूमिः पूर्वभाद्रपदा^स्थिते/(p.140)

उ1.50च्द्/.सदा पराजितो राजा चौर^राष्ट्रे च वध्यते//

उ1.51अब्/.कार्त्तिके क्षिति^कम्पेन यदा चैत्यं विशीर्यते/

उ1.51च्द्/.द्वारं वा नगरस्य^अथ भूयिष्ठं नश्यते प्रजा//

उ1.52अब्/.वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः/

उ1.52च्द्/.महा^भोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः//

उ1.53अब्/.सूर्याचन्द्रमसोः सृङ्गे लोहित^अङ्गो यदा +अरुहेत्/

उ1.53च्द्/.क्रूर^अक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्//

उ1.54अब्/.शनैश्चरो यदा शृङ्गे सोमस्य^अभिरुहेत् तदा/

उ1.54च्द्/.ज्ञेयं रोग^भयं घोरं दुर्भिक्षं च^अत्र निर्दिशेत्//

उ1.55अब्/.राहुणा निगृहीतस् तु च^उल्ल्कया हन्यते शशी/

उ1.55च्द्/.षण्^मास^अभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्//

उ1.56अब्/.यस्य चैव^अथ नक्षत्रे शशी सूर्यो विगृह्यते/

उ1.56च्द्/.राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्//

उ1.57अब्/.राज्ञो वै च^अथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्/

उ1.57च्द्/.प्रत्यन्त^राजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्//

उ1.58अब्/.चन्द्र^मध्य^गतः शुक्रः फाल्गुन्याथ मघा यदा/

उ1.58च्द्/.सर्व^धान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्//

उ1.59अब्/.बृहस्पतिश् च शुक्रश् च लोहित^अङ्गः शनैश्चरः/

उ1.59च्द्/.लिख्यन्ति सोम^शृङ्गस्य तदा विद्यान् महद्^भयं//

उ1.60अब्/.धूमकेतुर् महा^भागः पुष्यम् आरुह्य तिष्ठति/

उ1.60च्द्/.चतुर्^दिशं तदा विंच्यात् पर^चक्रैः पराभवं//

उ1.61अब्/.मघायां लोहित^अङ्गो वा श्रवणे वा बृहस्पतिः/

उ1.61च्द्/.तिष्ठेत् संवत्सर^त्रीणि भयं विद्यात् समागरं//

उ1.62अब्/.तिष्ठेच् छुक्रो +अथ रोहिण्यां ज्येष्ठे मासे कथंचन/

उ1.62च्द्/.व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्^भयं//

उ1.63अब्/.विशाखायां समीपस्थौ बृहस्पति^शनैश्चरौ/(p.141)

उ1.63च्द्/.सोमो वा रविणा सार्धं पर^चक्र^भयं तदा//

उ1.64अब्/.काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा/

उ1.64च्द्/.मैथुनं वारितं वेयुः परैः सह रणस् तदा//

उ1.65अब्/.श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः/

उ1.65च्द्/.पर^चक्रेण युद्धं तु भवेच् च^अपि पुनः पुनः/.

उ1.66अब्/.कन्या प्रसूयते यत्र चतुर्^हस्ता चतुस्तनी/

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.