Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

अभिसमाचारिकधर्म

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अभिसमाचारिकधर्म

explanatory remarks the present text is edited to facilitate word-searches. the text is based on the manuscript of the transliteration of the abhisamacarika-dharma of the mahasagghika-lokottaravadins. grammatical errors and the like have been left uncorrected, but preferred readings are occasionally given for conspicuous scribal errors. the symbols and editorial features are as follows: (1) the letters between ( ) indicate that they should be supplied. (2) the letters which seem to be wrongly written are underlined. immediately after them suggestion is supplied between ( ). (3) letters in blue and underlined are to be omitted. no suggestion is supplied after them. this applies to the omission of the virama. (4) the letters between [ ] indicate that they are obscure. (5) an illegible character (akxaras) is indicated by one "+". (6) symbols which seem to indicate virama are substituted by comma (" , "). (7) symbols which seem to be siddham, etc., are substituted by " * ". (8) cancellations in the ms. are not indicated. (9) j. refers to the jinananda edition. (10) compounds in which hiatus appears are hyphened.

(i.p.43) अभिसमाचारिकधर्म

i.1 ms.1b1 (j.1.1); ch.499a22 * नमो बुद्धाय //

अभिसमाचारिकाणाम् आदिः / भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो दायकदानपती पृच्छन्ति / आर्य किं समग्रो भिक्षुसंघो आहंसु नो दीर्घायु / को दानि नागच्छति / भिक्षू आहंसु संघस्थविरो नागच्छति / ते दानि ओज्झा(1ब्2)यन्ति / पश्यथ भणे वयन् ताव कर्म्मान्तान् च्छोरय आगच्छाम / समग्रस्य संघस्य पादान वन्दिष्याम / देयधर्म्मञ् च प्रतिष्ठापयिष्याम / संघस्थविरो नागच्छति / सो दानि पश्चाद् आगत्वा संक्षिप्तेन चत्वारि पाराजिकान् धर्म्मान् उद्देशियाण नो च दक्षिणाम् आदिशति / न परिकथां करोति / उत्थिय गतो / नवका भिक्षू पृच्छन्ति / आयुष्मान् नागतो संघस्थविरो भिक्षू आहंसु / आगतो (1ब्3) च गतो च / ते पि नवका भिक्षू आहंसु / नैव संघस्थ(j.2)विरस्य आगतिः प्रज्ञायते न गतिः / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ नन्दनं सो दानि शब्दापितो / भगवान् आह / सत्यं नन्दन एवं नाम संघस्य पोषधो ति / तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति नवका भिक्षू ओज्झायन्ति / नैव संघस्थविरस्या(1ब्4)गतिर् न्न गतिः / प्रज्ञायते ति / आह / आम भगवन् / भगवान् आह / तेन हि एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं / किन् ति दानि संघस्थविरेण पोषधे प्रतिपद्यितव्यं / यद् अहो संघस्य पोषधो भवति / तद् अहो संघस्थविरेण जानितव्यं / किम् अद्य संघस्य पोषधो चातुर्द्दशिको पाञ्चदशिको सन्धिपोषधो भविष्यतीति किं पूर्व्वं भक्तं / किं पश्चा(1ब्5)द्भक्तं, /

केत्तिक पौरुषाहि च्छायाहि कहिम् भविष्यति / प्रहाणशालायाम् वा उपस्थानशालायाम् वा / अग्निशालायाम् वा / मण्डलमाडे वा / यस्मिन् प्रदेशे यं दिवसं संघस्य पोषधो भवति / संघस्थविरेण पञ्चसूत्राणि विस्तरेण स्वाध्यायितव्यानि / यावन्तमसतो (i.p.44) चत्वारि पाराजिका गाथाश् च सिष्टकम् अभीक्ष्णश्रुतिकाया यदि दानि न(ना)गतो सं(1ब्6)घो भवति संघस्थविरेण यहिं भविष्यति तहिं आरोचयितव्यं, / आयुष्मन् अद्य संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा / अमुकहिं भविष्यति / प्रहाणशालायाम् वा / उपस्थानशालायाम् वा / मण्डलमाडे वा पुरेभक्तम् वा पश्चाद्भक्तम् वा / अति(भि)क्रमन्तु आयुष्मन्तो नापि दानि आरोचितं मया ति / यत्रोलग्गिकाय आसितव्यं / (j.3) अथ खलु प्रति(1ब्7)कृत्येव पोषधस्थानं गन्तव्यं सिञ्चापयितव्यो सन्मार्जयितव्यो गोमयकार्षी दातव्या / आसनप्रज्ञप्ति कर्त्तव्या / विभवो भवति शलाका गन्धोदकेन धोवितव्यायो पुष्पेहि ओकिरितव्यायो संघस्थविरेण जानितव्यं को शलाकां चारयिष्यति / को प्रतिच्छिष्यति / को प्रातिमोक्षसूत्रं उद्दिशिष्यति / को दक्षिणां आदिशिष्यति / को परिकथां करिष्यति / यो प्रति(2अ1)बलो भवति / सो अध्येषितव्यो अयं सानं शलाकां चारेषि / त्वं शलाकां प्रतिच्छेसि / त्वं प्रातिमोक्षसूत्रम् उद्दिशेषि त्वं भाषेसि त्वं परिकथां करेसि / त्वं दक्षिणां आदिशेसि / तेन यथाध्येष्टेन शलाका चारयितव्या / द्वितीयेन प्रतीच्छितव्या / नापि क्षमति शलाकां चारयन्तेन अनिर्म्मादिय हस्तां शलाकां चारयितुं / नापि क्षमति / ओगुण्ठिकायकृतेन उपानहा(2अ2)रूढेन वा शलाकां चारयन्त(तु)ं / अथ खलु हस्तां निर्म्मादिय

ओगुण्ठिकां अपनिय उपानहां ओमुञ्चिय एकांसकृतेन शलाका चारयितव्या / शलाकां पि दानि गृह्णन्तेन न चापि क्षमति / ओगुण्ठिकाकृतेन वा उपानहारूढेन वा शलाकां गृह्णितुं, / अथ खलु एकांशकृतेन हस्तान् निर्म्मादिय ओगुण्ठिकां अपनिय उपानहां ओमुञ्चिय शलाकां गृह्णितव्या / यं कालं (2अ3) शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति / सामग्री आरोचिता भवति / दायकदानपति परिपृच्छितव्या / किम् वसिष्यथ अथ गमिष्यथ / (j.4) यदि तावाहंसु गच्छाम ततो देयधर्म्मं प्रतिष्ठापयितव्यं / देयधर्म्मम् अनुमोदापयितव्यं / धार्म्म्या कथया संदर्शयितव्याः / समादापयितव्याः / समुत्तेजयितव्याः / संप्रहर्षयितव्याः / (2अ4) उद्योजयितव्याः //

अथ दानि आहंसु वसिष्याम न्ति(त्ति) वक्तव्यं / गच्छथ ताव बाह्यतो आमुहूर्त्तं, आगमेथ भिक्षुसंघो (i.p.45) ताव पोषधं करिष्यति / यं कालं दायकदानपति निर्द्धाविता भवन्ति / ततो सूत्रोद्देशकेन जानितव्यं, / यदि ताव नात्या(ति)शीतम् भवति / नात्याति-उष्णं न दूरदूरे विहारका भवन्ति भिक्षू वा न जरादुर्ब्बला न व्या(2अ5)धिदुर्ब्बला वा भवन्ति / न वा सिंहभयम् वा व्याघ्रभयम् वा चौरभयम् वा भिक्षू वा सुखोपविष्टा भवन्ति / यदि ताव विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा भवन्ति विस्तरेण प्रातिमोक्षसूत्रं उद्दिशितव्यं / अथ दानि अतिसि(सी)तम् वा (अति)उष्णम् वा भवति / भिक्षू वा जरादुर्ब्बला वा व्याधिदुर्ब्बला वा भवन्ति / सिंहभयम् वा व्याघ्रभयम् वा चौरभयम् वा भिक्षू (2अ6) च न विस्तरेण प्रातिमोक्षसूत्रं श्रोतुकामा भवन्ति / संक्षिप्तेन चत्वारि पाराजिकां धर्म्मां उद्दिशियानं शिष्टकं अभीक्ष्णश्रुतिकाये गाथाये च ततो यथासुखं कर्त्तव्यं / अथ दानि सर्व्वरात्रिका भवति / ततो अध्येषितव्यं / त्वं भाषयेसीति //

यथाध्येष्टेहि भाषमाणं सर्व्वरात्रिं धर्म्मवृष्टिये वीतिनामियानं दायकदानपति (j.5) धर्म्या कथया संदर्शयितव्या समादा(2अ7)पयितव्या समुत्तेजयितव्या संप्रहर्षयितव्या उद्योजयितव्या यथासुखं कर्त्तव्यं / अभिप्रमोदन्तु आयुष्मन्तो / एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिका(ं) धर्म्मां अतिक्रमति* ////

i.2 ms.2a7 (ज्. 5.5); ch.499c2 भगवान् श्रावस्त्याम् विहरति / शस्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मां नन्दनो (2ब्1) संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो आगतो भिक्षु आगता द्वितीयस्थविरो नागच्छति / दायकदानपति दानि देयधर्म्माणि आदाय प्रतिपालेन्ति / समय(ग्र)ं च भिक्षुसंघम् वन्दिष्यामः / देयधर्म्मञ् च प्रतिष्ठापयिष्यामो ति // ते दानि पृच्छन्ति / आर्य समग्रो भिक्षुसंघो अ(आ)हंसु नोहेतं दीर्घायु को खलु नागच्छति / आहंसु द्वितीयस्थविरो नाग-च्छ(2ब्2)ति / ते दानि ओज्झायन्ति वयं ये(व) ताव कर्म्मान्ता च्छोरिय आगतागच्छाम समग्रस्य संघस्य पादां वन्दिष्यामः / देयधर्म्मञ् (i.p.46) च प्रतिष्ठापयिष्यामः / द्वितीयस्थविरो पि नागच्छति / ते दानि मुहू-र्त्तमात्रं प्रतिपालिय आसित्वा देयधर्म्मं प्रतिष्ठापयित्वा गताः / सो दानि अतिविकाले आगतो संघस्थविरो ओज्झायति / अस्माकं भगवान् दण्डकर्म्मन् ददाति द्वितीयस्थविर(2ब्3)स्य मोन्ति(त्ति)का / एतं प्रकरणं भिक्षू भगवतो आरोचयन्ति / भगवान् आह // शब्दापयथ उपनन्दनं सो दानि शब्दापितो / भगवान् आह //

सत्यं उपनन्दन (j.6) एवं दानि संघस्य पोषधो ति / तद् एव सर्व्वं भगवां विस्तरेण प्रत्यारोचयति / याव संघस्थविरो पि ओज्झायति / अस्माकं भगवां दण्डकर्म्मन् देति / द्वितीयस्थविरस्य मोन्ति(त्ति)का (2ब्4) आह / आम भगवन् भगवान् आह / तेन हि एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं / किन् ति दानि द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं / यद् अहो दानि संघस्य पोषधो भवति / संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरेण जानितव्यं / किं अद्य संघस्य पोषधो चतुर्द्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा किं रा(2ब्5)त्रिपोषधो भविष्यति दिवापोषधो पुरेभक्ति भविष्यति / पश्चाद्भक्तं / कहिं भविष्यति / उपस्थानशालायाम् वा प्रहाणशालायाम् वा मण्डलमाडे वा / उच्छेदनके वा निषद्याय वा त्ति यहिम् भवति / तहिं आरोचयितव्यं / आयुष्मन् अद्य संघस्य पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा / अथ दानि संघस्थविरो न प्रतिबलो भव(2ब्6)ति / द्वितीयस्थविरेण प्रकृत्येव पोषधस्थानं सिञ्चापयितव्यं / सन्मार्जयितव्यं / गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या विभवो भवति शलाका गन्धोदकेन धोवयितव्या/यो पुष्पेहि ओकिरितव्यायो संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरेण जानितव्यं को शलाकां चारयिष्यति / को शलाकां प्रतिच्छिष्यति / को प्रातिमोक्षसूत्रम् उद्दिशिष्य(2ब्7)ति / को भाषिष्यति / को दक्षिणां आदिशिष्यति / को परिकथां करिष्यति / यो प्रतिबलो भविष्यति / सो अध्येषितव्यो / त्वं शलाकां चारयिष्यसि / त्वं प्रतिच्छेष्यसि याव त्वं परिकथां कारयसीति / ततो शलाकां चारन्तेन न (j.7) क्षमति

ओगुण्ठिकाकृतेन वा उपानहारूढेन वा हस्तेहि वा अनिर्म्मादितेहि शलाकां चारयितुं / अथ खलु हस्तान् निर्म्मादियानं उपानहां ओमुञ्चिय (3अ1) एकांसकृतेन शलाका चारयितव्या शलाकां पि प्रतिच्छन्तेन न क्षमति ओगुण्ठिकाकृतेन वा उपानहारूढेन वा (i.p.47) हस्तेहि वा अनिर्म्मादितेहि शलाकां प्रतिच्छितुं / अथ खलु हस्तान् निर्म्मादियाण उपानहां ओमुञ्चियाण एकांसकृतेन शलाका प्रतिच्छितव्या / यदा शलाका चारिता भवन्ति भिक्षू गणिता भवन्ति सामग्री आरोचिता भवति / ततो दायकदानपती पृच्छि(3अ2)तव्याः किम् वसिष्यथ उत गमिष्यथ यदि ताव जल्पन्ति / गच्छाम ततो देयधर्म्मं प्रतिष्ठापयितव्या देयधर्म्मो अनुमोदापयितव्यो परिकथा कर्त्तव्या धार्म्या कथया संदर्शिय समादापिय समुत्तेजिय सम्प्रहर्षयित्वा उद्योजयितव्या / अथ दानि जल्पन्ति वसिष्याम न्ति(त्ति) वक्तव्यं / मुहूर्त्तन् ताव बाह्यतो आगमेथ संघो ताव पोषधं करिष्यति / यदा काले दायकदानपति (3अ3) निर्द्धाविता भवन्ति ततो सूत्रोद्देशकेन जानितव्यं / यदि ताव अतिसीतम् वा अति-उष्णम् वा भवति / भिक्षू वा जरादुर्ब्बला वा व्याधिदुर्ब्बला वा भवन्ति दूरदूरे वा परिवेणा भवन्ति सिंहभयम् वा व्याघ्रभयम् वा चोरभयम् वा भवति / भिक्षू वा न विस्तरेण श्रोतुकामा भवन्ति / संक्षिप्तेन (j.8) चत्वारि पाराजिका उद्दिशितव्यं / शिष्टकं अभीक्ष्णश्रुतिकाये गा(3अ4)थायो च / ततो यथासुखं कर्त्तव्यं / अथ दानि नात्यातिशीतं न चात्याति-उष्णं न दूरदूरे परिवेणा भवन्ति / भिक्षू च सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा ततो विस्तरेण प्रातिमोक्षसूत्रं उस्सारयितव्यं / ततो यथासुखङ् कर्त्तव्यं / अथ दानि

सर्व्वरात्रिका भवति / संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरेण अध्येषितव्यं / त्व(3अ5)या भाषितव्यं त्वया भाषितव्यं यथाध्येष्टेहि भाषणाय सर्व्वरात्रिं धर्म्मवृष्टिये वीतिनामिय / (या)न दायकदानपति धार्म्म्य(या) कथया सन्दर्शिय समादापिय समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या / ततो यथासुखं कर्त्तव्यं / अभिप्रमोदयंतु आयुष्मन्तो अभिप्रमोदयंतु आयुष्मन्तो अप्रमादेन संपादयितव्यं / एवं द्वितीयस्थवि(3अ6)रेण पोषधे प्रतिपद्यितव्यं / न प्रतिपद्येति अभिसमाचारिकां धर्म्मान् अतिक्रमति //

*//

(i.p.48) i.3 ms.3a6 (ज्. 8.14); ch.499c14 भगवान् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा संघस्य दानि पोषधो आयुष्मान् नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये न आगच्छन्ति दायकदानपति पृच्छन्ति आर्य समग्रो भिक्षुसंघो भिक्षू आहं,(3अ7)सु / नोहीदं दीर्घायु को खु नागच्छति / भिक्षू आहंसु / (j.9) एते हि भिक्षू ओसरन्तिकाये न आगच्छन्ति / ते दानि ओज्झायन्ति / वयं येच(व) कर्म्मान्तां च्छोरिय च्छोरिय आगता आगच्छाम / समग्रस्य पादां वन्दिष्याम / देयधर्म्मञ् च प्रतिष्ठापयिष्यामः / इमे पि आर्यमिश्रा ओसरतिकाये नागच्छन्ति / संघस्थविरो च द्वितीयस्थविरो च ओध्यायन्ति / अस्माकं भगवां दण्डकर्म्मन् देति / एषां, (3ब्1) मोन्ति(त्ति)को भिक्षू एता(त)म् प्रकरणं आरोचयन्ति भगवान् आह / शब्दापयथ भिक्षून ते दानि शब्दापिताः / भगवान् आह / सत्यं भिक्षवो एवं दानि संघस्य पोषधो ति / तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति / याव संघस्थविरो च द्वितीयस्थविरो च ओध्यायन्ति / अस्माकं भगवान् दण्डकर्म्मन् देति / इमेषां मोन्ति(त्ति)का आहंसुः / आम भगवन् भगवान् आह / तेन हि सर्व्वेहि एवं (3ब्2) पोषधे प्रतिपद्यितव्यं / किन् ति दानि / एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं / सर्व्वेहि जानितव्यं / किं खल्व् अद्य पक्षस्य प्रतिपदा द्वितीया यावत् पञ्चदशी यदि दानि कोचि पृच्छति / भन्ते कतमाद्य न दानि वक्तव्यं / कतमा पुन हि यो भूषीति / अवश्यं वंसविदलिकाहि वा नलविदलिकाहि वा लिखित्वा सूत्रेण आब्र(बु)णित्वा द्वारकोष्ठके वा प्रासादे वा कल्पियकुटिकायां वा

बन्धितव्यं (3ब्3) कीलकानि खनेत्वा द्वारे (j.10) स्था(त)व्यं / यो दानि भवति मासचारिको वा पक्षचारिको तेन एकम् एकं संसारयितव्यं देवसिकं यथाज्ञापेत कतिम् आद्य सर्व्वेहि जानितव्यं / एषो दानि संघस्य पोषधो भवति / संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरो न प्रतिबलो भवति / यो तत्र प्रतिबलो भवति तेन जानितव्यं / किं अद्य संघस्य (3ब्4) पोषधो चातुर्द्दशिको वा पाञ्चदशिको वा सन्धिपोषधो वा दिवारात्रौ वा (i.p.49) पोषधे पुरोभक्तं वा पश्चाद्भक्तम् वा कति पौरुषाहि च्छायाहि कहिं भविष्यति / प्रहाणशालायाम् वा उपस्थानशालायाम् वा मण्डलमाडे वा ओच्छेदके चंक्रमे वा निषद्याय न्ति(त्ति) यहिं भवति तहिं आरोचयितव्यं / अभिक्रमन्तु आयुष्मन्तो ति नायं (क्षमति) आरोचितं म(3ब्5)या ति पा(य)त्रोल्लग्गिकाये आसितुं / अथ खलु यदि ताव संघस्थविरो न प्रति(बलो) भवति / द्वितीयस्थविरो न प्रतिबलो भवति / यो तत्र प्रतिबलो भवति / तेन प्रकृत्येव पोषधस्थानं गन्तव्यं पोषधस्थानं सिञ्चितव्यं / सन्मार्जितव्यं / गोमयकार्षी दातव्या आसनप्रज्ञप्तिः कर्त्तव्या / विभवो भवति शलाका गन्धोदकेन धोवितव्या / पुष्पे(3ब्6)हि ओकिरितव्या / संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरो न प्रतिबलो भवति / यो तत्र प्रतिबलो भवति / तेन जानितव्यं / को शलाकां चारयिष्यति / को शलाकां प्रतिच्छिष्यति / को प्रातिमोक्षसूत्रम् उद्दिशिष्यति / को दक्षिणां आदिशिष्यति / को परिकथां करिष्यति / यदि तावत् प्रतिबलो भवति आत्मना सर्व्वं कर्त्तव्यं / अथ दानि न प्रतिबलो भवति / यो तत्र प्रति(3ब्7)बलो भवति / सो

अध्येषितव्यो त्वं शलाकां (j.11) चारयेसि त्वं शलाकां प्रतिच्छेसि त्वं प्रातिमोक्षं उद्दिशेसि त्वं भाषेसि त्वं दक्षिणां आदिशेषि त्वं परिकथां कारयेसि / शलाकां पि च चारयन्तेन न क्षमति / अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन ओगुण्ठि(काकृ)तेन वा शलाकां चारयितुं / अथ खलु हस्तां निर्म्मादिय उपानहां ओमुञ्चिय एकांशकृतेन शलाका चारयितव्या (4अ1) शलाकां पि दानि प्रतिच्छन्तेन न क्षमति / अनिर्म्मादितकेहि हस्तेहि उपानहारूढेन वा ओगुण्ठिकाकृतेन वा शलाकां प्रतिच्छितुं //

अथ खलु हस्तां निर्म्मादियाण उपानहां मुञ्चिय एकंशकृतेन शलाका प्रतिच्छितव्या / यं कालं शलाका चारिता भवन्ति / भिक्षू गणिता भवन्ति / सामग्री आरोचिता भवति / दायकदानपति पृच्छितव्याः ः / किम् वशिष्यथ अथ (4अ2) गच्छथ / यदि ताव जल्पन्ति / गच्छाम न्ति(त्ति) देयधर्म्म प्रतिष्ठापयितव्यो / देयधर्म्मम् अनुमोदापयितव्यो / धार्म्या कथया संदर्शिय समादापिय समुत्तेजिय संप्रहर्षयित्वा उद्योजयितव्या / (i.p.50) अथेदानिं जल्पन्ति वसिष्याम न्ति(त्ति) / वक्तव्यं / बाह्यतो ताव यूयं मुहूर्त्तम् आगमेथ संघो ताव पोषधं करिष्यति / यं कालं दायकदानपति निर्द्धाविता भवन्ति / ततो सूत्रोद्देश(4अ3)केन जानितव्यं / यदि ताव नातिशीतं भवति नात्यूष्णम् वा चोरभयम् वा न भवति सिंहभयं वा व्याघ्रभयं वा न (j.12) भवति / न दूरदूरे वा परिवेणा भवन्ति भिक्षू वा न जरादुर्ब्बला वा व्याधिदुर्ब्बला भवन्ति / सुखोपविष्टा भवन्ति विस्तरेण श्रोतुकामा भवन्ति / ततो विस्तरेण प्रातिमोक्षसूत्रं उद्दिशितव्यं / अथ दानि सर्व्वरात्रिका भवति / भाषणका (4अ4) अध्येषितव्याः / त्वया भाषितव्यं त्वया भाषितव्यन् ति //

यथाध्येष्टेहि / भाषियाणं सर्व्वरात्रि धर्म्मवृष्टियेर् व्वीतिनामियान दायकदानपति धर्म्या कथया संदर्शयितव्या याव उद्योजयितव्या / ततो यथासुखं कर्त्तव्यं / अभिप्रमोदतु आयुष्मन्तो अप्रमादेन संपादयितव्यं / एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं न प्रतिपद्यन्ति विनयातिक्रमम् आ(4अ5)सादयन्ति* ////

i.4 ms.4a5 (j.12.11); ch.499c28 भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं आयुष्मान् नन्दनो संघस्थविरो द्वितीयस्थविरो उपनन्दनो आगतो भिक्षू आगताः / संघस्थविरो नागच्छाति / ओदनो शीतलो भवति / सूपो शीतलो भवति / घृतं थीयति मांसं थीयति व्यञ्जनानि शीतली(4अ6)भवन्ति / दायकदानपति पृच्छन्ति / आर्य किं समग्रो भिक्षुसंघो आहंसु नोहेदं दीर्घायु को खु नागच्छति / आहंसु संघस्थविरो नागच्छति / ते दानि ओज्झायन्ति / वयं येच(व) ताव कर्म्मान्तां च्छोरिय आगतागच्छागच्छाम समग्रं भिक्षुसंघं परिविशिष्यामः / संघस्थविरो पि नागच्छति / (j.13) सो दानि पश्चाद् आगच्छियाण भुंजियाण संक्षिप्तेन दक्षिणाम् आदिशिय न परिकथां (4अ7) करोति / नापि दायकदानपतिं धर्म्या कथया (i.p.51) संदर्शयति समादापयति / समुत्तेजयति / संप्रहर्षयति / उत्थिहि(य) गतो नवका भिक्षू पृच्छन्ति / आगतो संघस्थविरो आहंसु आगतो च गतो च ते दानि ओध्यायति नैव संघस्थविरस्य आगतिर् (न) ग्गतिः प्रज्ञायति / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् अह / शब्दापयथ नन्दनं / सो (4ब्1) दानि शब्दावितो भगवान् आह / सत्यं नन्दन एवन् नाम संघस्य बाहिरकं भक्तं (नन्दनो) संघस्थविरो उपनन्दनो द्वितीयस्थविरो ति तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति / याव नवका भिक्षू ओध्यायन्ति / याव संघस्थविरस्यागतिर् न्न गति प्रज्ञायते / आह / आम भगवन् भगवान् आह / तेन हि संघस्थविरेण एवं भक्ताग्रे प्रतिपद्यितव्यं /

किन् ति दानि संघस्थविरे(4ब्2)ण एवं भक्ताग्रे प्रतिपद्यितव्यं / संघस्थविरेण जानितव्यं / कस्याद्य भक्तं उभयतो सांघिकं सर्व्वं सांघिकं परिवेणिकं / पाटियभक्तं ग्रामे विहारे एषो दानि कोचि संघं भक्तेन शुवेतनाय निमन्त्रेति / न दानि संघस्थविरेण गतागतस्य अधिवासयितव्यं / अथ खलु संघस्थविरेण जानितव्यं को यं निमन्त्रेति / आगन्तुको गमिको गृहस्थो प्रव्रजितो स्त्री पुरुषो दा(4ब्3)रको दारिका पृच्छितव्यं / किन् नामको सि (j.14) किङ् गोत्रको सि / किं कर्म्मिका ते मातापितरौ कतमं देशं गृहं कतमायां रथ्यायां कुतो मुखं गृहस्य वा साकारं सोद्देशं पृच्छियाणं ततो धिवासयितव्यं / नापि दानि अधिवासित(ं) मयेति / यत्रोल्लग्नाये आसितव्यं /

अथ खलु प्रकृत्येव मासचारिको पक्षचारिको वा प्रेषयितव्यो गच्छ जाना(4ब्4)हि किं सज्जियतीति / अनेकाय तहि जातकं भवेयं मृतकम् वा भवेय सन्धि वा च्छिन्नो अग्निदाहो वा राजकुलातो वा उपद्रवो ढोस्सा वा विटा वा वातपुत्रो वा विहेठनाभिप्राया निमन्त्रयेंसु तेन गच्छिय पृच्छितव्यं / कोचि इमंहि इत्थन्नामो नाम उपासको यदि ताव आहंसु नास्ति अस्माकं कोचि एवं नाम उपासको वक्तव्यं [भि]क्षु(4ब्5)संघो तेन निमन्त्रितो किं सिध्यति वा पच्यति वा / यदि ताव आहंसु कस्य भक्तं कस्य सिध्यति कस्य पच्यतीति जानितव्यं / विप्रलब्धो भिक्षुसंघो ति (i.p.52) आगच्छिय यदि ताव अनुग्रहो भवति अनुग्रहो साधयितव्यो / अनुग्रहो न भवति भक्तानि भवन्ति / भक्तानि उद्दिशितव्यानि / भक्तानि न भवन्ति रणरणा(य) गण्डि आहणिय वक्तव्यं / आयु(4ब्6)ष्मन् विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं पर्येषथ / सर्व्वेहि पटिपाटिकाय पिण्डाय प्रविशितव्यं / अथ दानि ते जल्पन्ति / भन्ते एतं सिध्यति प्रविशति(तु) भिक्षुसंघो ति ततो रणरणाय गण्डी आहणिय यदि ताव हेमन्तो भवति अनुकालं (j.15) प्रविशितव्यं / मा कालो तिक्रयि(मि)ष्यतीति / अथ दानि ग्रीष्मो कालो भवति शीतलकसंगेन अनुकाल्यं प्रविशितव्यं //

अथ (4ब्7) दानि वर्षारात्रो कालो भवति देवान्तरायेन अनुकाल्यं प्रविशितव्यं / मा कालो अतिक्रमिष्यतीति / यदि ताव (न) संज्ञ(ज्ज)म् भवति / महन्तो च कालो भवति कहिञ्चि च गन्तुकामो भवति / कस्यचित भिक्षुस्य जल्पितव्यं / अमुकं कुलं उपसंक्रमिष्यथ यदा सज्जं भवेय / ततो मा पटिसरेसि / न दानि तेन आमन्त्रितं मया ति भद्रपालकृत्येहि हण्ठितव्यं / अथ खलु प्रति(5अ1)कृत्येव आगन्तव्यं प्रविशतेहि जानितव्यं / कथं आसना प्रज्ञप्ताः / अतिदक्षिणम् अनुवामां कदाचि मङ्गलकरणीये अतिदक्षिणं प्रज्ञप्तं भवति / तथा येव उपवेष्टव्यं / अथ दानि प्रेतकरणीये अनुवामं प्रज्ञप्तं भवति / तथा येव उपवेष्टव्यं नापि दानि क्षमति / प्रविशन्तेहि भण्डं लंघंतेहि कांसभाजनं लंघंतेहि दारकदारिकां लंघंतेहि गन्तुं / अथ खलु भण्डं प(5अ2)रिवर्जन्तेहि कांसभाजनं परिवर्जन्तेहि दारकदारिकांस परिवर्जन्तेहि प्रविशितव्यं / नापि दानि क्षमति गतागतस्य उपविशन्त(तु)ं / अथ खलु हस्तेन आसनं प्रत्यवेक्षितव्यं / अनैकायो तत्र गर्भरूपाणि सोपायितकानि भवेंसुः / कांसभाजनानि वा थपितकानि भवेंसुः / अथ खलु हस्तेन परांमृशियाण जानितव्यं / ओहेष्य(य्य)कानां (j.16) ग्लानकानां प्रतिकृत्ये(5अ3)व दापितव्यं / अथ दानि सो मनुष्यो अनाचीर्ण्णदानो वा भवति / तित्तिनो वा भवति न दानि अध्युपेक्षितव्यं / वक्तव्यं दीर्घायु अवश्यन् तेषां दातव्यं पिण्डपातं (i.p.53) / अथ दानि दायकदानपति जल्पन्ति पटिपाटिकाय गृह्नथ न्ति(त्ति) हेमन्तो च कालो भवति वक्तव्यं नहि न्ति(त्ति) / भगवता अनेकपर्यायेण ग्लानो परित्तो किम् वा

अम्भेहि विहारशू(5अ4)न्यं शक्यं कर्त्तुं ति लघु कालो अतिक्रमति / देथ यूयन् ति अथ दानि ग्रीष्मो वा वर्षा वा रात्रो वा कालो भवति चिरेहि कालो अतिक्रमति / पटिपाटिकाय गृह्नितव्यं / ततो संघस्थविरेण जानितव्यं / किं आरभ्य देति तथा येच(व) निमन्त्रणापेतव्यं भोजनं दीयति महन्तो पिण्डो परिगृहीतो भवति / संघस्थविरेण वक्तव्यं / सर्व्वेषां एत्त(5अ5)क-एत्तकं भविष्यति / आह / नहि आर्यस्य एतं एवं दीयति वक्तव्यं / तथा देहि / यथा सर्व्वेषां समं भवति / अथ दान् आह भविष्यतीति प्रतीच्छितव्यं / अथ दानि सो थोकिना अर्थिको भवति वक्तव्यं मम थोकं देहि हेष्ठा बहुं एवं //

पे // सूपस्य घृतस्य मांसस्य ओलंकानां दधिस्य ततो नापि क्षमति संघस्थविरेण लब्धो पिण्डो (5अ6) द्वारं पश्यिय लप्यल(प्)याये भुंजियाण उत्थिहिय गन्तुं / अथ खलु ओदनसम्पत्तिर् व्वा आगमंतेन भुंजितव्यं / व्यञ्जनसम्पत्तिर् व्वा आगमंतेन भुञ्जितव्यं न भुञ्जित्वा हस्तं निक्षिपिय आसितव्यं / मा हेव ओत्रपेंसु / अथ खलु अनुजानेतव्यं / यदा नवकाः सन्तर्पिता भवन्ति / उपग्रायन्ति पानीयं वा पिबन्ति / हस्ताम् वा उक्कढ्ढिय आसन्ति / न दानि संघस्थविरेण भुञ्ज(5अ7)न्तकेनैव उत्थाय आसनातो गन्तव्यं / लब्धो पिण्डो द्वारं पश्यिय / अथ खलु संघस्थविरेण आगमेतव्यं / दीर्घोदकं दापेतव्यं / परिकथा कर्त्तव्या / दक्षिणा आदिसितव्या / जानितव्यं / किम् आलम्बनं भक्तं जातकं मृतकम् वा चे(वे)वाहिकम् वा गृहप्रवेशकम् वा आगन्तुकस्य गमिकस्य गृहस्थस्य प्रव्रजितस्येति / यदि ताव जान(त)कंभवति / नायं दक्षिणा आदि(शि)त(5ब्1)व्या / अयं कुमारो शिवपथिकाय च्छन्दितो अङ्गुष्ठस्नेहेन यापये सप्तरात्रं शुनखा शृगाला च नं लंघयन्तु / (i.p.54) काका च अक्षिमलं हरन्ता (j.18) नायं एवं दक्षिणा आदिशितव्या /

अथ खलु दक्षिणा आदिशितव्या / अयं कुमारो शरणं उपेतु बुद्धं विपश्यिञ् च शिखि(ञ्) च विश्वभुं क्रकुच्छन्द कोनाकमुनिञ् च काश्यपं महायशं शाक्यमुनिञ् च गौतमं / एतेहि बुद्धेहि महर्द्धिकेहि (5ब्2)ये देवता सन्ति अभिप्रसन्ना ता नं रक्षंतु ता च नं पालयन्तु यथा नं इच्छति माता यथा नं इच्छति पिता अतो श्रेयतरो भोतु कुमारो कुलवर्द्धनो / एवं दक्षिणा आदिशितव्या /

अथ दानि मृतकं भवति / नायं क्षमति / एवं दक्षिणा आदिशितुं अद्य ते सुदिवसं सुमहाबलं भद्रकाक्षण मुहूर्त्तं प्रस्थिता अद्य ते सुविहिते सुविहितेहि / दक्षिणा अग्रभाजनग(5ब्3)गता विरोचति / (j.19) नायं एवं दक्षिणा आदिशितव्या /

अथ खलु दक्षिणा आदिशितव्या / सर्व्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं / यथाकर्म्म गमिष्यन्ति पुण्यपापफलोपगाः //

निरयं पापकर्म्माणो कृतपुण्या च स्वर्ग्गतिं / अपरे मार्ग्गम् भावयित्वा परिनिर्व्वान्ति अनाश्रवा इति //

(i.p.55) एवं दक्षिणा आदिशितव्या // अथ दानि वेदा(वा)हिकं भवति / ना(5ब्4)यं दक्षिणा आदिशितव्या / नग्ना नदी अनोदिका नग्नं राष्ट्रं अराजकं / इस्त्री पि विधवा नग्ना सचेस्या दश भ्रातरो (j.20) नायं एवं दक्षिणा आदिशितव्या /

अथ खलु दक्षिणा आदिशितव्या / इस्त्रि पि पेशला भवतु श्राद्धा भवतु पतिव्रतानुगा शीलवती यो(त्या)गसम्पन्ना सम्यग्दृष्टि च या इह / पुरुषो पि पेशला भवतु श्राद्धो भवतु व्रता(5ब्5)नुगो / शीलवां त्यागसम्पन्नो सम्यग्दृष्टि च यो इह //

उभौ श्रद्धाय सम्पन्ना उभौ शीलो(ले)हि संवृता / उभौ पुण्यानि कृत्वान समशीलव्रता उभौ //

विधिना देवलोकस् तु मोदन्तु कामकामिनो / ताम् एव भार्यां चरेया यो अस्या सीलेहि संवृता //

असतिं परिवर्जेया मार्ग्गं प्रतिभयं यथा / एवं दक्षिणा आदिशितव्या //

अथ दा(5ब्6)नि घरप्रवेशनिकं भवति / नायं दक्षिणा आदिशितव्या / (j.21) आदीप्तस्मिं आगरे यो निहरति भण्डकं तं खु तस्य स्वकं भवति / न खलु यो तत्र दह्यति / एवम् आदीपिते लोके मृत्युना च जरया च यो नीहरति / दानेन दिन्नं तं आहुति हुतं / नायं एवं दक्षिणा आदिशितव्या //

अथ खलु दक्षिणा आदिशितव्या विभक्तभागं रुचिरं मनोरमं (i.p.56) प्रशस्तम् आर्ये[ह्]इ नवं निवे(5ब्7)शनं / प्रविश्य वृद्धिये वराये भूरीये शिरीये लक्ष्मीपरिग्रहेण च / इमस्मि आगारे निवसन्तु देवताः / महाभिषङ्क न च अनुकम्पिका यं विभवधनधान्येन सम्भवो भूर् इमे च सा यस्मिं प्रदेशे मेधावी वा संकल्पेति पण्डितो शीलवातन्त्र(न् तत्र) भोजेया संयतां ब्रह्मचारिणो / (j.22) या तत्र देवता अस्या तासां दक्षिणाम् आदिशेहि / ताये वस्तुमालानां चिररात्राय क(6अ1)ल्पते //

भोजनावस्तुपाला सत्कृता प्रतिमानिता / ग्रामे वा यदि वारण्ये निम्ने वा यदि वा स्थले दिवा वा यदि वा रात्रौ देवा रक्षन्तु दायकान् //

देवानुकम्पितो पोषो सदा भद्राणि पश्यति //

एवं दक्षिणा आदिशितव्या /

अथ दानि गमिकं भक्तं भवति / नायं दक्षिना आदिशितव्या / सर्व्वा दिशासु भया समाकुला स-उत्तरा सपुरस्तिमा [दक्षि]णा पश्चिमा च स(6अ2)सर्व्वो च लोको संकुलजातो मा प्रमज्जि जिनशासने //

नायं एवं दक्षिणा आदिशितव्या //

अथ खलु दिशा सौवस्तिका दक्षिणा विस्तरेण दक्षिणा आदिशितव्या / यथा पात्रप्रतिसंयुक्ते एवं दक्षिणा आदिशितव्या / अथ दानि प्रव्रजितस्य भवति / नायं दक्षिणा आदिशितव्या (j.23)पुत्रम् वा पशुम् वा आरभ्य धनधान्यप्रियाणि वा (i.p.57) देवभावं वा मनुष्यम् वा पञ्चधो (6अ3) मनसि प्रीयन्ति / न एवं दक्षिणा आदिशितव्या //

अथ खलु दक्षिणा आदिशितव्या / सुदुष्करं प्रव्रजितस्य दानं पात्रेण भैक्षं अभिसाहरित्वा / कुलात् कुलं चरिय पिण्डपातं क्रुद्धप्रसन्नानां मुखं उदीक्षियं //

सो यं श्रेष्ठायतने प्रतिष्ठितो पात्रसंहृतो लाभो प्रीतिं जनेहि सुविहिता तथा हि दिन्नं इमं दानन् ति / एवं दक्षिणां / (6अ4) आदिशिय गन्तव्यं / एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं / न प्रतिपद्यति //

अभिसमाचारिकां धर्म्मान् अतिक्रमति // * //

i.5 ms.6a4 (j.23.12); ch.499c28 भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च / विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं / आयुष्मान् नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो संघस्थविरो आग(6अ5)तो द्वितीयस्थविरो नागच्छति / दायकदानपति पृच्छन्ति / आर्य किं समग्रो भिक्षुसंघो भिक्षू आहंसु / नोहेति दीर्घायु को दानि नागच्छति (j.24) आहंसु द्वितीयस्थविरो नागच्छति / ते दानि ओध्यायन्ति / पश्यथ भणे वयं येव भा(ता)व कर्म्मान्तां च्छोरिय आगच्छाम समग्रं भिक्षुसंघं परिविशिष्याम / आर्यमिश्राणाञ् च पादां वन्दिष्यामः (6अ6) द्वितीयस्थविरो नागच्छति / संघस्थविरो पि ओध्यायति / अस्माकं भगवां दण्डकर्म्मन् देति / द्वितीयस्थविरस्य मुन्ति(त्ति)का //

एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ उपनन्दनं सो दानि शब्दापितो भगवान् आह / सत्यं उपनन्दन एवं नाम संघस्य बाहिरकं भक्तं नन्दनो संघस्थविरो त्वं द्वितीयस्थविरो संघस्थविरो आगतो भि(6अ7)क्षू आगताः / त्वं नागच्छसि / दायकदानपति पृच्छति / आर्य किं समग्रो भिक्षुसंघो भिक्षू आहंसु / नहि को खलु नागच्छति द्वितीयस्थविरो नागच्छति / ते दानि ओध्यायन्ति / वयं (i.p.58) येव ताव कर्म्मान्तं / च्छोरिय आगता गच्छामः / समग्रं भिक्षुसंघं परिविशिष्यामः / आर्यमिश्राणां च पादां वन्दिष्यामः / द्वितीयस्थविरो नागच्छति / संघस्थविरो पि ओध्यायति / अ(6ब्1)स्माकं भगवान् दण्डकर्म्म देति / द्वितीयस्थविरस्य मुत्तिका / आह / आम भगवन् भगवान् आह / तेन हि एवं द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं / किन् ति दानि द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं / एषो दानि कोचि भिक्षुसंघं भक्तेन निमन्त्रयति / संघस्थविरो (j.25) न प्रतिबलो भवति / द्वितीयस्थविरेण जानितव्यं / को निमन्त्रेति / भिक्षुभिक्षुनी उपासकोपासिका आग(6ब्2)न्तुको गमिको वाणिजको सार्थवाहो किन् नामको किं जातिको किं कर्म्मिका से मातापितरौ कतमस्मिन् देशे गृहं कतमायां रथ्यायां कुतो मुखं गृहस्य द्वारं / साकारं सोद्देशं पृच्छिय ततो धिवासयितव्यं / नायं अधिवासितं मयेति / यत्रोल्लग्नाये आसितव्यं / यदि ताव संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरेण अपरेज्जुकाये च मासचा(6ब्3)रिको वा पक्षचारिको / प्रेषयितव्यो वक्तव्यं गच्छ जानाहि / असुके देशे असुकायां रथ्यायां इत्थंनामो नाम उपासको तेन

भिक्षुसंघो निमन्त्रितो जानाहि किं सिध्यति किं पच्यति / तेन प्रविसियाणं तहिं पृच्छितव्यं / आरोग्यं दीर्घायु कोचि इमंहि इत्थंनामो नाम उपासको आह भन्ते किं करिष्यसि / वक्तव्यं / तेन भिक्षुसं,(6ब्4)घो भक्तेन निमन्त्रितो किं सिध्यति वा किं पच्यति वा ति / यदि तावद् आह / भन्ते किस्य उपासको कहिं उपासको ति नामास्माकं कोचि उपासको न सिध्यति / न पच्यति त्ति जानितव्यं विप्रलब्धो भिक्षुसंघो ति / आगच्छियाणं यदि ताव अनुग्रहो भवति / अनुग्रहो साधितव्यो अनुग्रहो न भवति / भक्तकानि भवन्ति / भक्तका उद्दिशितव्यानि / (6ब्5) (j.26) भक्तकानि न भवन्ति / रणरणाय गण्डिं आहणियाणं आरोचितव्यं वक्तव्यं / आयुष्म(न्)तो विप्रलब्धो भिक्षुसंघो स्वकस्वकां वृत्तिं पर्येषथेति / सर्व्वेहि पटिपाटिकाय पिण्डाय चरितव्यं / अथ दानि आह भन्ते एतं सिध्यति एतं पच्यति / प्रविशन्तु आर्यमिश्राः रणरणाय गण्डिं आहणियाणं प्रविशितव्यं, / (i.p.59) यदि ताव हेमन्तकालो भव(6ब्6)ति अनुकल्लतरकम् प्रविशितव्यम् / ब(ल)हुं कालो अतिक्रमति / अथ दानि ग्रीष्मकालो भवति / उष्णसन्तापेन अनुकर्ण्ण(ल्ल)तरकं, प्रविशितव्यं / अथ दानि वर्षारात्रकालो भवति / देवान्तरेण प्रविशितव्यं, / ततो नापि क्षमति भण्डं लंघंयन्तेहि प्रविशितुं / अथ खलु भण्डं परिवर्जयन्तेहि / याव दारकदारिकां परिवर्जयन्तेहि / प्रविशितव्यं ततो न क्षमति / गतागतस्य (6ब्7) उपविशितुं, / अनेकाये तहिं आसनेहि दारकदारिका वा सोवापिता भवेंसु / अथ खलु हस्तेहि प्रत्यवेक्षियाणं अनन्तरिकाणां आसनानि वर्जयन्तेहि //

उपविशितव्यं / यदि ताव हेमन्तकालो भवति / लघु कालो अतिक्रमति / ओहेय्यग्लानकानां पिण्डपातो दापयितव्यो / अथ दानि दायकदानपति जल्पन्ति / भन्ते पटिपाटिकाय गृह्नथ न्ति(त्ति) / वक्तव्यं / नहि / भगव(7अ1)तानेकपर्यायेण ग्लानो परीत्तो किम् अस्माभिः विहारको शून्यको कर्त्तव्यो / लघु कालो ति(j.27)क्रमति / देथ यूयं ति अथ ग्रीष्मकालो वर्षारात्रो वा भवति / चिरेण कालो अतिक्रमति / ओहेय्यग्लानकानां पटिपाटिकाये पिण्डपातो गृह्नितव्यो / संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरो प्रतिबलो भवति न क्षमति / द्वितीयस्थविरेण हन्तहन्ताये भुञ्जियाणं लब्धो पि(7अ2)ण्डो द्वारं पश्यिय उत्थिय गन्तुं / अथ दानि संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो प्रतिबलो भवति / द्वितीयस्थविरेण ओदनसम्पत्ति आगमयन्तेन भुञ्जितव्यं / व्यञ्जनसम्पत्तिम् वा / आगमयन्तेन भुञ्जितव्यं / यं कालं नवका भिक्षू उ(प)ग्रायन्ति वा पानीयम् वा पिबन्ति हस्तानि ओकढिय आसन्ति ततो यदि ताव संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरेण जानित(7अ3)व्यं किमारंबणं / एव(त)ं भक्तं जातकं मृतकं वेवाहिकं घरप्रवेशकं आगन्तुकस्य गमिकस्य गृहस्थस्य प्रव्रजितस्येति / यथा भवति / तथा दक्षिणा आदिशितव्या / यथा प्रथमके शिक्षापदे एवं द्वितीयस्थविरेण भक्ताग्रे प्रतिपदि(द्यि)तव्यं / तथा येच(व) दक्षिणा आदिशितव्या / या(यो) ततो आगन्तव्यं / एवं द्विती-यस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं, / (7अ4) न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

(i.p.60) i.6 ms.7a4 (j.28.1); ch.501c4 (j.28) भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा संघस्य दानि बाहिरकं भक्तं / आयुष्मन् नन्दनो संघस्थविरो आयुष्मान् उपनन्दनो द्वितीयस्थविरो संघस्थविरो आगतो द्वितीयस्थविरो आगतो भिक्षू ओसरन्तिकाये आगच्छन्ति / दायकदा(7अ5)नपति पृच्छन्ति / आर्य किं समग्रो भिक्षुसंघो भिक्षु आहंसु / नोहेतं दीर्घायु को दानि नागच्छति भिक्षू आहंसु / ओसरन्तिकाये आगच्छन्ति / ते दानि ओध्यायन्ति / वयम् एव ताव कर्म्मान्तां च्छोरय आगता गच्छामः समग्रं भिक्षुसंघं परिविशिष्यामः / आर्यमिश्राणां च पादां वन्दिष्याम न्ति(त्ति) / इमे पि आर्यमिश्रा ओसरन्तिकाये आगच्छन्ति / संघस्थ(7अ6)विरो च द्वितीयस्थविरो च ओध्यायन्ति / अस्माकं भगवान् दण्डकर्म्मन् देति // इमेषां मुक्तिका / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह //

शब्दापयथ भिक्षून् / ते दानि शब्दापिताः / भगवान् आह // सत्यं भिक्षवो एवं नाम संघस्थविरस्य बाहिरकं भक्तं नन्दनो संघस्थविरो उपनन्दनो द्वितीयस्थविरो आगतो यूयं ओसरन्तिकाये आगच्छथ दायक(7अ7)दानपति पृच्छन्ति / आर्य किं समग्रो भिक्षुसंघो न्ति(त्ति) / भिक्षू आहंसु नोहीदं दीर्घायु को दानि न(ना)गच्छति भिक्षू ओसरन्तिकाये आगच्छन्ति / ते दानि ओध्यायन्ति वयम् एव ताव कर्म्मान्ता च्छोरिय आगता गच्छाम / समग्रं भिक्षुसंघं परिविशिष्याम न्ति(त्ति) / आर्यमिश्राणाञ् च पादम् वन्दिष्याम न्ति(त्ति) / इमे पि आर्यमिश्रा (j.29) ओसरन्तिकाये आगच्छन्ति / संघस्थविरो च / द्वितीयस्थविरो च ओध्या(7ब्1)यन्ति / अस्माकं भगवान् दण्डकर्म्मन् देति / इमेषां मोत्तिका आहंसु / आम भगवन् भगवान् आह / तेन हि सर्व्वेहि एवं भक्ताग्रे प्रतिपद्यितव्यं / किन् ति दानि एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं / एषो दानि कोचि संघं भक्त(क्तेन) निमन्त्रेति / संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो न प्रतिबलो भवति / यो तत्र प्रतिबलो भवति / तेन जानितव्यं / को यं नि(7ब्2)मन्त्रेति भिक्षुभिक्षुणी उपासक-उपासिका गृहस्थो प्रव्रजितो वाणिजको सार्थवाहो आगन्तुको गमिको नापि क्षमति / गतागतस्य अधिवासितुं //

अथ खलु पृच्छितव्यं / किन् नामको सि किं गोत्रको सि किं कर्म्मिका ते (i.p.61) मातापितरौ / कतमे देशे गृहं कुतो मुखं कतमाये रथ्याये कुतो मुखं गृहस्य द्वरं साकारं सोद्देशं पृच्छियाणं / ततो धिवासयितव्यं नापि दा(7ब्3)नि क्षमति / अधिवासितं मयेति / तत्रोल्लगिकाये आसितुं / अथ खलु यदि ताव संघस्थविरो न प्रतिबलो भवति / द्वितीयस्थविरो न प्रतिबलो भवति यो प्रतिबलस् तेन प्रकृत्येव मासचारिको वा पक्षचारिको वा प्रेषयितव्यो / अनेकाये तहिं जातकं मृतकम् वा भवेय राजभयं वा चोरभयम् वा ढोस्सभयम् वा वातपुत्रभयम् वा विहेठना(7ब्4)भिप्राया निमन्त्रयेंसु // तेन गच्छियाण तहिं गृहं पृच्छितव्यं / कोचि इम(ं)हि एवन्नामको उपासको दानपती वा वाणिजका (j.30) वा ति किम् वा एतत् ति वक्तव्यं भिक्षुसंघो तेन भक्तेन निमन्त्रितो यदि ताव आहंसु नास्ति कोचि इमंहि एवंनामको किःस उपासको / कस्य भक्तं कथं भक्तं ति जानितव्यं / विप्रलब्धो भिक्षुसंघो त्ति ततो आगच्छिय यदि ताव (7ब्5) अनुग्रहो भवति साधयितव्यो अनुग्रहो न भवति / भक्तकानि भवन्ति भक्तकानि उद्दिशितव्यानि / अथ दानि भक्तकानि न भवन्ति / रणरणाय गण्डिं आहणिय याव सर्व्वेहि पटिपाटिकाये पात्राणि गृह्निय प्रविशितव्यं पिण्डपातं / अथ दानि ते जल्पन्ति भन्ते एव(त)ं सिध्यति / एतं पच्यति / यावत् पात्राणि गृह्निय प्रविशितव्यं / यदि ताव हेमन्तकालो भवति / अ(7ब्6)नुकर्ण्ण(ल्ल)ं प्रविशितव्यं / लघुं कालो अतिक्रामति //

अथ दानि ग्रीष्मकालो भवति अनुकालं उष्णंशंकेन प्रविशितव्यं / वर्षारात्रो भवति देवान्तरेण अनुकर्ण्ण(ल्ल)अं प्रविशितव्यं / ततो न क्षमति / भण्डम् वा लंघयतेन प्रविशितुं भाजनम् वा लंघयन्तेहि / प्रविशितुं दारकदारिका लंघयन्तेहि प्रविशितुं / अथ खलु भण्डं परिहरन्तेहि दारकदारिकां परिहरन्तेहि प्रविशितव्यं त(7ब्7)तो नापि क्षमति / प्रविष्टेहि गतागतस्य उपविशितुं / अनेकाये तहिं आसनेहि गर्भरूपा सोवापितानि भवेंसु // भाजनकानि वा थपितकानि भवेंसुः / अथ खलु हस्तेन प्रत्यवेक्षियाण आनन्तरियाणां आसनानि वर्जयन्तेहि / यथावृद्धिकाये उपविशितव्यं / ततो यदि ताव हेमन्तकालो भवति / (j.31) लघु कालो अतिक्रमति / (i.p.62) ओहेय्यग्लानकानां पिण्डपा[तो] ++[प]यितव्यो / अ(8अ1)थ दानि दायकदानपति जल्पन्ति / भन्ते ओहेय्यग्लानकानां पटिपाटिकायो पिण्डपातं गृह्नथेति वक्तव्यं / नहीति / लघु कालो अतिक्रमति / भगवता च अनेकपर्यायेण ग्लाणो परिन्दितो किं अम्भेहि शक्यम् विहारको शून्यको कर्तुन् ति / अथ दानि ग्रीष्मो वा वर्षारात्रो वा कालो भवति / न लहुं कालो अतिक्रमति / ओहेय्यग्लानकानां पटिपाटिकाये पिण्डपातो [गृह्नितव्यो] न क्षमति ल(8अ2)ब्धालब्धं हन्तहन्ताये भुञ्जिय लब्धो पिण्डो द्वारं पश्यिय उत्थिय गन्तुं / अथ खलु यदि ताव संघस्थविरो न प्रतिबलो भवति द्वितीयस्थविरो न प्रतिबलो भवति / यो तत्र प्रतिबलो भवति / तेन ओदनसंपत्ती वा आगमेतव्यं व्यञ्जनसम्पत्ती वा आगमंतेन भुञ्जितव्यं / तेन दक्षिणा आदिशितव्या / जानितव्यं किम् आलम्बनं / एतं भक्तं जातकं मृतकं [वेवा]हिकं वा घरप्र(8अ3)वेशिकं वा आगन्तुकस्य गमिकस्य गृहस्थस्य प्रव्रजितस्येति / ततो यदि ताव जातकं भवति नायं दक्षिणा आदिशितव्या / (j.32) (अयं) कुमारो सि/वपसि(थि)का(य) च्छो(च्छ)(न्दि)तो अङ्गुष्ठस्नेह(हे)न यापयति / सप्तरात्रं शुनखा शृगा(ला) चे(च) नं लंघयन्तं / काको च से अक्षिमलं हरन्तं ति नायं एवं दक्षिणा आदिशितव्या /

अथ खलु दक्षिणा आदिशितव्या / अयं कुमारो शरणं उपेतु (8अ4) बुद्धं विपश्यिञ् च शिखिञ् च विश्वभुव / क्रकुच्छन्दो च कनकमुनिञ् च काश्यपं महामुनिं शाक्यमुनिं च गोतमं //

एतेहि बुद्धेहि महर्द्धिकेहि ये देवता सन्ति अभिप्रसन्नाः / (i.p.63) ता नं रक्षन्तु (ता च नं पालयन्तु) यथा इच्छति से माता / यथा इच्छति से मा(पि)ता अतो श्रेयतरो भवंतु कुमारो कुलवर्द्धनो (j.33) एवं दक्षिणा आदिशितव्या / तथा येव दक्षिणायो विस्तरेण कर्त्तव्यायो यथा (8अ5) संघस्थविरस्य भक्ताग्रे एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं / न प्रतिपद्यंति //

असि(भिस)माचारिकां धर्म्मां अतिक्रामति // * //

i.7 ms.8a5 (ज्. 33.5); ch.501c14 भगवान् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा / ते दानि आयुष्मन्तो नन्दनोपनन्दना षड्वर्ग्गिकाश् च उपसंपादेन्ति / ते दानि उपसंपादिय न ओवदन्ति / न अनुशासन्ति / ते दानि इन्द्र(8अ6)गवा विय वर्द्धयन्ति / शिवच्छगला धिप(विय) वर्चति(द्धयन्ति) / अनाकल्पसम्पन्नाः / अनीर्यापथसम्पन्नाः / न जानन्ति / कथम् उपाध्याये प्रतिपद्यितव्यं, / कथम् आचार्ये प्रतिपद्यितव्यं / कथं वृद्धतरके प्रतिपद्यितव्यं / कथं संघमध्ये प्रतिपद्यितव्यं / कथं ग्रामे प्रतिपत्तव्यं / कथं आरण्ये प्रतिपत्तव्यं / कथं निवासयितव्यं / कथं प्रावरितव्यं / कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं // (8अ7) एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु भगवान् आह / शब्दापयथ नन्दनोपनन्दनां / षड्वर्ग्गिकांश् च / ते दानि शब्दापिता / भगवान् आह //

एवं नाम यूयं उपसंपादेथ / उपसंपादिय न ओवदथ न अनुशासयथ न्ति(त्ति) / तद् एवं सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति / याव (j.34) कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं / आहंसु / आम भगवन् भगवान् आह / एवं (8ब्1) दाणि यूयं उपसंपादिय नैवोवदथ नानुशासथ तेन हि एवं उपाध्यायेन श्रा(सार्)द्धविहारेस्मिं प्रतिपद्यितव्यं / किन् ति दानि उपाध्यायेन श्र(सार्)द्धेविहारेस्मिं प्रतिपद्यितव्यं / उपाध्यायेन ताव श्रा(सार्)द्धेविहारिं उपसंपादेतुकेनैव उभयतो विनयो ग्राहयितव्यो उभयतो विनयं न पारयति एकतो विनयो (i.p.64) ग्राहयितव्यो / एकतो विनयं न पारयति / पञ्चसूत्राणि विस्त(8ब्2)रेण ग्राहयितव्यो पञ्चसूत्राणि न पारयति चत्वारि धा(वा) त्रीणि दुवे एकं सूत्रं विस्तरेण ग्राहयितव्यो / एकं सूत्रं न पारेति त्रिंशतो पि ग्राहयितव्यो / शिष्टकं अभीक्ष्ण(श्रुति)कायो गाथायो च त्रिंशतो पि न पारेति द्वे अनियतां ग्राहयितव्यो / शिष्टकं अभीक्ष्णश्रुतिकायो गाथायो च द्वे अनियता न पारेन्ति / अन्तमसतो चत्वारि पाराजिकां ग्राहयितव्यो शिष्टकं अभीक्ष्णंश्रुतिकायो गा(8ब्3)थायो च शेखयितव्यो / अनुशासयितव्यो काल्यं मध्यन्तिकं सायं सायं अभिधर्म्मेण वा अभिविनयेन वा अभिधर्म्मो नाम नवविधो सूत्रान्तो सूत्रं गेयं व्याकरणं गाथा उदानं इतिवृत्तकं जातकं वैपुल्याद्भुताधर्म्मा / अभिविनयो नाम प्रातिमोक्षो संक्षिप्तविस्तरप्रभेदेन / अथ दानि न प्रतिबलो भवति / उद्दिशितुं, / आपत्तिकौशल्यं शि(8ब्4)क्षितव्यो / सूत्रकौशल्यं स्कन्धकौशल्यं आयतन(j.35)कौशल्यं प्रतीत्यसमुत्पादकौशल्यं / स्थानास्थानकौशल्यं आचारं

शेखयितव्यो / अनाचारतो चा(वा)रयितव्यो / अथ दानि ओवदति / सो एव तस्य ओवादो एवं स्वाध्यायति / अरण्ये वसति / प्रहाणे उपविशति / सो एवास्य ओवादो उपाध्यायो श्र(सार्)द्धेविहारि उपसंपादिय न ओव(8ब्5)दति / न अनुशासति / न उद्दिशति / न स्वाध्यायति / न अरण्ये वसति / न प्रहाणे उपविशति / अन्तमसतो वक्तव्यो / अप्रमादेन संपादेहीति / न ओवदति विनयाति(क्र)मं आसादयति / एवम् उपाध्यायेन श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति //

* //

i.8 ms.8b5 (j.35. 9); ch.502a2 भगवान् श्रावस्त्याम् विहरति / शास्ता देवा(8ब्6)नाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपसंपादेन्ति / ते दानि उपसंपादिताः / उपाध्यायस्य न अल्लिम्य(य्य)ंति / ते दानि भिक्षू ओध्यायन्ति / अस्माकं भगवान् दण्डकर्म्मन् देति / इमेषां मुक्तिका / कथं अम्भेहि ओववदितव्याः / अनुशासितव्याः / ये इमे अस्माकं न अव(नैव अ)ल्लीयंति / न प्रत्यालीयंति / एतं प्रकरणं भिक्षू भगवतो आरोच[येंसु /] भगवान् आह / ते(8ब्7)न हि एवं सार्द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यं //

किन् ति दानि एवं सार्द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यं / सावे(र्द्धे)विहारिणा ना(ता)व कल्यत एव (j.36) उत्थंतेन उपाध्यायस्य (i.p.65) विहारस्य द्वारं आकोटयितव्यं यं कालं अभ्यनुज्ञा दिन्ना भवति / ततो द्वारं सुखाकं अपदुरियाण ततो प्रथमं दक्षिणो पादो प्रवेशितव्यो पश्चा वामो प्रवेशय वन्दित्वा सुखशयितं / पृच्छितव्यो उ(9अ1)द्दिशित्वा प्रतिपृच्छित्वा खे(ट)कट(टा)हको निक्कालयितव्यो प्रस्रावकुम्भिका निक्कालयितव्या पीठिका प्रज्ञपयितव्या / हेमन्तकालो भवति मन्दमुखि प्रज्वालयितव्या / मुखोदकं दापयितव्यं / दन्तकाष्ठं धोविय उपनामयितव्यं / सु(मु)खोदकम् आसिञ्चितव्यं / हस्तां निर्म्मादिय हस्तनिर्म्मादनं दातव्यं / पेया उक्कढितव्या / पेया पेयिंता पे(य)पात्रं शोधितव्यं / शो[धित्वा] भ[क्तु]द्देशातो (9अ2) भक्तकं ग्रहेतव्यं / भक्तविसर्ग्गो कर्त्तव्यो पात्रं निर्म्मापयितव्यं / पात्रं प्रतिशामयितव्यं / गोचरं प्रविशन्तस्य ग्रामप्रवेशनिकानि चीवराणि उपनामयितव्यानि / विहारचरणकानि चीवराणि प्रतिशामयितव्यानि / आत्मनो चीवरकं गृह्निय पृष्ठतो नुगन्तव्यं / नापि दानि खुराखुरं / अथ खलु नात्यासन्ने (j.37) नातिदूरे तेन दानि गोचरातो निर्ग्गतस्य उपाध्यायस्य चीवराणि प्रस्फो(9अ3)टिय साहरिय प्रतिसामयितव्यानि / आत्मनो स्कन्धे दपि(यि)य शीर्षं ओनामिय पुरतो गन्तव्यं / विहारं आगच्छियाण पीठिका प्रज्ञपयितव्या ग्रामप्रवेशनिकानि चीवराणि एकान्ते स्थपेतव्यानि / विहारचरणकानि चीवराणि उपनामयितव्यानि / पादोदकं उपनामयितव्यं / पादतट्ठकं उपनामयितव्यं / पादा धोपयितव्या / उष्णं भवति स्नापेतव्यो (9अ4) शीतं

भवति / मन्दमुखी प्रज्वालयितव्या / यदि पिण्डचारो अण्ठितो भवति / उपनामयितव्यो / नानानावर्ण्णितं भवति पृच्छितव्यो सुविहित कुतो इदं लब्धं असुकातो वेशिककुलातो वडं विधवाये स्थूलकुमारीये पण्डकस्य असुकाये भिक्षुणीये उश्शकियपरिशङ्कियाणि कुलानि व्यपदिशति / वारेतव्यो वक्तव्यो मा तहिं गच्छ / अथ दान् आह / असु(9अ5)केस्मि कुले बुद्धवचनं जल्पितं / ततो लब्धं / वक्तव्यं कारेहि धूमं मा च पुनो आमिषचक्षु देशेसि हस्तान् निर्म्मादिय (i.p.66) हस्तनिर्म्मादनं दातव्यं / पिण्डपातो उक्कढितव्यो पिण्डपात उपनामयितव्यो भुञ्जन्तस्य पानीयं चारितव्यं / वीजनवातो दातव्यो भक्तविसर्ग्गो व(क)र्त्तव्यो भुक्ताविश्य पात्रं अपकर्षितव्यं / अपक्का च भाजनं भक्तोपधानं श(9अ6)य्यासनं (j.38) प्रतिशामेतव्यं / चीवराणि पात्रं शोधेतव्यं / पात्रं प्रतिसामेतव्यं / विहारको सिञ्चितव्यो सन्मार्जितव्यो कालेन कालं गोमयकार्षी दातव्या / शय्याशनं प्रस्फोटयितव्यं / चीवराणि धोवेतव्यानि / सिञ्चितव्यानि / रंजितव्यानि पात्रं दहितव्यं / रञ्जितव्यं / दिवाविहारं गच्छन्तस्य पीठिका नयितव्या निषीदनं नयितव्यं / पुस्तको नयितव्यो कुण्डिका नयितव्या / उद्दे(9अ7)शं गृह्निय एकमन्ते स्वाध्यायतेन आसितव्यं / अथ दानि दिवाविहारं गन्तुकामो भवति आपृच्छिआ(य) गन्तव्यं / यदि दानि तहिं केनचि सह स्वाध्यायतुकामो भवति / आपृच्छितव्यं / वक्तव्यं / करोमि अमुकेन सह स्वाध्यायन् ति / तेन दानि जानितव्यं / यदि सो भवति शैथलिको वा बाहुलिको वा / आवड्ढको वा असिक्षाकामो वक्तव्यं / माश्रयो उत्पद्येया / अथ दानि भद्रको भव(9ब्1)ति / गुणवां शिक्षाकामो

वक्तव्यं / करोहि दिवाविहारतो आगच्छन्तस्य पीठिका आनयितव्या / निषीदनं आनयितव्यं / प्र(पु)स्तको आनयितव्यो / कुण्डिका आनयितव्या / आगतस्य समानस्य हस्तनिर्मादनं दातव्यं पुष्पाणि दातव्यानि चेतिप(य)ं च(व)न्दन्तस्य पृष्ठतो नुगन्तव्यं / पीठिका प्रज्ञपयितव्या / हेमन्तकालो भवति / मन्दमुखी प्रज्वालयितव्या / पादा धोवयितव्या / पादा म्रक्षेतव्यो / शय्या प्रज्ञापयित/(9ब्2)व्या / यदि महाजनिको भवति / अन्तमसतो हस्तेन समवधानं धातव्यं / दीपो प्रज्वालयितव्यो / खेटकटाहकं (j.39) उपनामयितव्यं / प्रस्रावकुम्भम् उपनामयितव्यं / सुखं प्रतिक्रमापयितव्यं / उद्दिशित्वा वा परिपृच्छित्वा वा यदि विहारो प्रापुणति / आपृच्छितव्यं / अमुकं विहारं गृह्नामि / अथ दानि द्वितीयेन सह प्रापुणति विहारं उपाध्यायेन जानितव्यं / यदि सो भवति शैथिलिको (9ब्3) वा बाहुलिको वा अ(आ)वड्ढको वा (अ)शिक्षाकामो वक्तव्यं / मा गृह्न (i.p.67) मा संसर्ग्गदोषो भविष्यतीति / अथ दानि भवति / भद्रको गुणवान् शिक्षाकामो वक्तव्यो गृह्न यावन् न उत्थापीयति सा एव मे आपृच्छनिका अथ दानि उत्थापीयति प(य)त्तिकां वारां आपृच्छितव्यं / यदि दानि तहिं केनचित् सह स्वाध्यायतुकामो भवति / आपृच्छितव्यं / करोमि अमुकेन सार्द्धं स्वाध्या(9ब्4)यं / उपाध्यायेन जानितव्यं / एवं श्र(सार्)द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यं / न प्रतिपद्यते(ति) / अभिसमाचारिकान् धर्म्मान् अतिक्रामति //

* //

i.9 ms.9b4 (j.39.13); ch.502b13 भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो नन्द्(अन्)ओपनन्दनो षड्वर्ग्गिका च निश्रयं दपि(यि)य नैव अन्तेवासि ओवदन्ति / न अनुशासन्ति / ते दानि इन्द्रगवा विय (9ब्5) वर्द्धन्ति शिवच्छगला विय वर्द्धन्ति / अनाकल्पसम्पन्नाः अनीर्यापथसंपन्नाः / न जानन्ति कथम् उपाध्याये प्रतिपद्यितव्यं / कथं आचार्ये प्रतिपद्यितव्यं / कथं वृद्धतरकेषु प्रतिपद्यितव्यं / (j.40) कथं संघमध्ये प्रतिपद्यितव्यं / कथं ग्रामे प्रतिपद्यितव्यं, / कथं अरण्ये प्रतिपद्यितव्यं / कथं निवासयितव्यं / कथं प्रावरितव्यं / कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं // (9ब्6) एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह //

शब्दापयथ नन्द्(अन्)ओपनन्दनां षड्वर्ग्गिकानां च ते दानि शब्दापिता / भगवान् आह / सत्यं भिक्षवो नन्द्(अन्)ओपनन्दना षड्वर्ग्गिकाश् च एवन् नाम यूयं निश्रयं देथ निश्रयं ददियाण अन्तेवासिकां न ओवदथ नानुशासथ तद् एव सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति / याव कथं संघाटीपात्रचीवरधारणे प्रतिपद्यितव्यं / आहं(9ब्7)सु / आम भगवन् भगवान् आह / एवं च यूयं निश्रयं ददियं अन्तेवासिकां नैव ओवदथ नानुशासथ / तेन हि एवं आचार्येण अन्तेवासिकस्मिं प्रतिपद्यितव्यं / किन् ति दानि आचार्येण अन्तेवासिकस्मिं प्रतिपद्यितव्यं / आचार्येण ताव निश्रयं देन्तेन अन्तेवासि उभयतो विनयं ग्राहयितव्यो / उभयतो पि विनयं न पारेति / एकतो विनयतो ग्राहयितव्यो / एकतो विनयं (i.p.68) न पारे(10अ1)ति पञ्चसूत्राणि विस्तरेण ग्राहयितव्यो / पञ्चसूत्राणि न पारेति चत्वारि त्रीणि द्वे एकं सूत्रं विस्तरेण ग्राहयितव्यो / एकं सूत्रं न पारेति / द्वानवतीतो ग्राहयितव्यो द्वानवतीतो न शक्नोति त्रिंशतितो ग्राहयितव्यो शिष्टकं अभीक्ष्णश्रुतिकायो गाथायो च त्रिंशतितो न पारेति द्वे अनियतां ग्राहयितव्यो शिष्टकं अभीक्ष्णश्रुतिकाये गाथायो च / द्वे अनियता न पारेति / अन्त(10अ2)मसतो चत्वारि पाराजिकां ग्राहयितव्यो शिष्टकं अभीक्ष्णश्रुतिकाये गाथायो व(च) शेखयितव्यो / धातुकौशल्यं (j.41) स्कन्धकौशल्यं आयतनकौशल्यं प्रतीत्यसमुत्पादकौशल्यं आचारं शेखयितव्यो / अनाचारतो धा(वा)रयितव्यो / एषो आचार्यो निश्रयं ददिय अन्तेवासि नैव ओवदति / नानुशासति / विनयातिक्रमम् आसादयति / एवम् आचार्येण अन्तेवासिस्मिं प्रतिप(10अ3)द्यितव्यं / न प्रतिपद्यति /

अभिसमाचारिकान् धर्म्मान् आतिक्रमति //

* //

i.10 ms.10a3 (j.41:6); ch.502b16 भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा ते दानि भिक्षू निश्रयन् देंति ते अन्तेवासिका आचारिकस्य निश्रयं गृह्निय नैव अल्लीयन्ति / न प्रत्यल्लीयन्ति ते दानि भिक्षू ओध्यायन्ति / अस्माकं भगवा(न्) दण्डकर्म्मन् देति / इमेषां मुक्तिका या (10अ4) दानि अस्माकं (नैव) अल्लीयन्ति न प्रत्यलीयन्ति / कथं इमे अम्भेहि ओवदितव्याः / अनुशासितव्याः / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ भिक्षून ते दानि शब्दापिताः / भगवान् आह / तेन हि एवं अन्तेवासिना आचार्ये प्रतिपद्यितव्यं / अन्तेवासिना ताव कल्प(य)तो येव उत्थत्त(न्त)केन एवं आचार्यस्य विहारस्य द्वा(10अ5)रं आकोटयितव्यं / यं कालं अभ्यनुज्ञा दिन्ना भवति / द्वारं सुखाकं अपदुरियाणं प्रथमं दक्षिणो पादो प्रवेशयितव्यो / पश्चाद् वामं पादं प्रवेशयाण आचार्यस्य सुखरात्रि

(i.p.69) पृच्छितव्या / खेटकटाहं (j.42) निष्काशयितव्यां(व्यं / ) यावत् पादोदकं दापयितव्यं / पादोदकं उपनामयितव्यं / पादतट्ठकं उपनामयितव्यं / पादा धोवयितव्या / पादा म्र(10अ6)क्षयितव्या / खेटकटाहकं प्रवेशयितव्यं / प्रस्रावकुम्भिका प्रवेशयितव्या / दीपको प्रज्वालयितव्यो / शय्या प्रज्ञपयितव्या / एवं अपरं दिवसं प्रस्रावकुम्भिका निष्काशयितव्या / तद् एव सर्व्वं नवकपरिचर्या कर्त्तव्या / विस्तरेण यथा श्र(सार्)द्धेविहारिस्य याव दीपं आदीपिय शय्यां प्रज्ञपिय सुखं प्रतिक्रामयितव्यो / एवं अन्तेवासिना आचार्ये प्रतिपद्यित(10अ7)व्यं / न प्रतिपद्यति अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

उद्दानं //

एवं संघस्थविरेण पोषधे प्रतिपद्यितव्यं, / एवं द्वितीयस्थविरेण पोषधे प्रतिपद्यितव्यं / एवं सर्व्वेहि पोषधे प्रतिपद्यितव्यं / एवं संघस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं / एवं द्वितीयस्थविरेण भक्ताग्रे प्रतिपद्यितव्यं / एवं सर्व्वेहि भक्ताग्रे प्रतिपद्यितव्यं / एवं उपाध्याये(10ब्1)न श्र(सार्)द्धेविहारिस्मिं प्रतिपद्यितव्यं / (j.43) एवं श्र(सार्)द्धेविहारिणा उपाध्याये प्रतिपद्यितव्यं / एवं आचार्येण अन्तेवासिस्मिं प्रतिपद्यितव्यं / एवं अन्तेवासिना आचार्ये प्रतिपद्यितव्यं // * //

(i.p.70) ii.1 ms.10b1 (ज्. 44.1); ch.502b25 भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा पञ्चार्थवशां संपश्यमानास् तथागता अर्हन्तः सम्यक्सम्बुद्धाः / पञ्चाहिकां विहा(10ब्2)रचारिकाम् अनुचंक्रमन्ति / अनुविचरन्ति / कतमां पञ्च कच्चिम् मे श्रावकाः न कर्म्मारामा न कर्म्मरताः / न कर्म्मारामतानुयोगम् अनुयुक्ता विहरन्ति / न भाष्यारामाः न भाष्यरताः / न भाष्यारामतानुयोगम् अनुयुक्ता विहरन्ति / न निद्रारामाः न निद्रारताः / न निद्रारामतानुयोगम् अनुयुक्ता विहरन्ति / ग्लानकानाञ् च भिक्षूणां अनुकम्पार्थं ये ते (10ब्3) श्राद्धाः कुलपुत्राः (तथागतम् एवोद्दिश्य) श्रद्धयाद् आगाराद् अनगारिकां प्रव्रजिताः / ते च तथागतं दृष्ट्वा अतीव उदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति / इमा(ं प)ञ्चार्थवशान संपश्यमानास् तथागता अर्हन्तः सम्यक्संबुद्धाः पंचाहिकां विहारचारिकाम् अनुचंक्रमन्ति / अनुविचरन्ति / अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुवि(10ब्4)चरन्तो शय्यासनं उज्झितप्रकीर्ण्णं उत्पादकं (j.45) उ(दु)त्थितकं वातातपेन विनाशियन्तं वर्षेण ओवर्षियन्तं प्राणकेहि खज्जन्तं पक्षिहि ओहयियन्तं ओमयिलमयिलं पाटितविपाटितं / आतपे दिन्नं भगवां जानन्तो य्येव भिक्षूं पृच्छति कस्येमं भिक्षवो शय्यासनं उज्झितप्रकीर्ण्णं पेयालं //

याव ओमयिलमयिलं पाटितविपाटितं / आतपे दिन्नं आहंसु / एतं (10ब्5) भगवं सांघिकं / भगवान् आह / एवं च यूयं अप्रत्यास्तरणका शय्यासनं परिभुंजथ / तेन हि एवं शय्यासने प्रतिपद्यितव्यं / किन् ति दानि (एवं) शय्यासने प्रतिपद्यितव्यं / न दानि क्षमति सांघिकं शय्यासनं अध्युपेक्षितुं / उत्पादकम् वा उ(दु)त्थितकम् वा प्राणकेहि वा खज्जन्तं वर्षेण (वा) ओवर्षपर्यन्तम् वातातपेन वा विनाशियन्तं पक्षीहि था(वा) ओह्(अय्)इयन्तं / अथ खलु यदि ता(10ब्6)व उज्झितप्रकीर्ण्णं भवति / साहरित्वा एकान्ते स्थापयितव्यं / उत्पादकं भवति / सम्(अं (i.p.71) थ्)आपेतव्यं / वर्षेण ओवर्षीयति वातातपेन चा(वा) विनाशीयति / च्छन्ने प्रविशयितव्यं / प्राणकेहि खाद्यति / पक्षीहि ओहपि(यि)यन्ते प्रस्फोटियान च्छन्ने प्रवेशयितव्यं / न दानि विहारो अध्युपेक्षितव्यो / ओद्दिर्ण्णको प्रलुग्गको अचौक्षो वा अप्रतिसंस्कृतो वा //

अथ खलु यदि ताव तृणच्छदनो भवति / तृ(10ब्7)णपूलको दातव्यो / अपक्कच्छदनो भवति / अपक्का दातव्या / (j.46) कभल्लच्छदनो भवति कभल्लिका दातव्या / सुधामृत्तिकाच्छदनो भवति मृत्पिण्डो दातव्यो / वर्षाय ओवृष्टो भवति विख(चिक्ख)ल्लिका ओपूरे(त)व्या वंघोरिका दातव्या गोमयशाटो दातव्यो न दानि क्षमति / सांघिकं शय्यासनं एवम् एव परिभुञ्जितं(तुं) / अप्रत्यास्तरणं वा तृणं वा तृणं वा अन्तराकृत्वा लेङ्कटकं वा अथ खलु प्र(11अ1)त्यास्तरणं कर्त्तव्यं / नापि क्षमति कल्पं कर्त्तुं / पटिकाम् वा लोड्ढकम् वा प्रत्यास्तरणं कर्त्तुं / अथ खलु द्विगुणिता नाम कर्त्तव्या विशिष्टा मञ्चातो वा यदि ताव कम्बलस्य भवति / एकपुटं वा द्विपुटम् वा कर्त्तव्यं / अथ दानि कर्पासस्य भवति द्विपुटा वा त्रिपुटा वा कर्त्तव्यो समन्तेन सूत्रेण शिवियाणं / ततो मध्येण दीर्घसूत्राणि दातव्यानि ततो न क्षमति / शय्यासनं ओमयिलोमयिलं वा पाटितविपाटितम् वा अध्यु(11अ2)पेक्षितुं / अथ खलु कालेन कालं बोधि(धोवि)तव्यं / कालेन कालं शिंचितव्यं / कालेन कालं आतपे दातव्यं / न क्षमति सांघिकेन शय्यासनेन प्रावृतेन भक्ताग्रे वा तर्पणाग्रे वा सामायिकम् वा उपविशितुं / न क्षमति शय्यासनं सांघिकं प्रावरियं दीर्घच(ं)क्रमं चंक्रमितुं //

अथ दानि भिक्षुः शिराविद्धको वा भवति विरेचनपीतको वा ग्लानको वा भवति वस्त्रपुग्गलिकं अन्तरीकरणं ददि(11अ3)य चंक्रमति / अनापत्तिः / नापि क्षमति सांघिकं शय्यासनं पौद्गलिकपरिभोगेन परिभुञ्जितुं / अथ खलु सांघिकं शय्यासनं प्रज्ञपयितव्यं / (j.47) प्रत्यास्तरणं ददिय ततो परिभुञ्जितव्यं / अथ दानि सांघिकं शयनासनं महन्तं भवति / उपरितो भुंजितव्यं (i.p.72) यथा नाशं न गच्छे / अथ दानि हेमन्तकालो भवति सांघिकं शय्यासनं प्रावरिय शयति / (11अ4) अन्तरीकरण(ं) दातव्यं / न देति विनयातिक्रमम् आसादयति / एवं शय्यासनं(ने) प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

ii.2 म्स्. 11अ4 (j.47.6); ch.502c13 भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा ते दानि भिक्षू उपगच्छनिका(यां) काले विहारन् न प्रतिसंस्करेन्ति / पञ्चार्थवशां संपश्यमानांस् तथागता अर्ह(11अ5)न्तः सम्यक्संबुद्धाः पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्ति / अनुविचरन्ति / कतमां पञ्च / कच्चि मे श्रावकाः न कर्म्मारामाः न कर्म्मरताः / न कर्म्मारामता-अनुत्या(यो)गम् अनुयुक्ता विहरन्ति न भाष्यारामाः / न भाष्यरताः न भाष्यारामतानुयोगम् अनुयुक्ता विहरन्ति / न निद्रारामाः न निद्रारताः न निद्रारामतानुयोगम् अनुयुक्ता विहरन्ति / ग्लानका(11अ6)नाञ् च भिक्षूणाम् अनुकम्पार्थं ये च ते श्राद्धाः कुलपुत्राः तथागतम् एवोद्दिश्य आगाराद् अनगारिकां प्रव्रजिताः / ते च तथागतं दृष्ट्वा अतिरि(ती)वोदाराणि प्रीतिप्रामोद्यानि प्रतिलभिष्यन्ति / इमां पञ्च अर्थवशां संपश्यमानास् तथागता अर्हन्तः सम्यक्सम्बुद्धाः पञ्चाहिकां विहारचारिकां अनुचंक्रमन्ति / अनुविचरन्ति / (j.48) अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकां अनुचंक्रमन्तो अनुवि(11अ7)चरन्तो विहारकान् ओन्द्रि(द्द्रि)न्नकां प्रलुग्गकां अचोक्षां अप्रतिसंस्कृतां शय्यासनं उज्झितप्रकीर्ण्णे(र्ण्णं) ओमयिलेमयिलं पाटितविपाटितं मञ्चाम् पीठा(ं) ओन्द्रि(द्द्रि)ण्णकां पलुग्गकां उच्छि(दुत्थि)तकां वातातपेन ओपूरियंतां प्राणकेहि खज्जन्तां वर्ये(षे)ण ओवर्यि(षि)यन्तां काकशकुन्तेहि ओहयियन्तां भगवान् जानन्तो पृच्छति / कस्येमे भिक्षवो विहारका ओद्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यास(11ब्1)नं उज्झितप्रकीर्ण्णं ओमयिलोमयिलं पाटितविपाटितं मञ्चा पीठा (i.p.73) ओन्द्रि(द्द्रि)ण्णका पलुग्गकां

उ(दु)त्थितकां वातातपेन ओपूरियन्तां प्राणकेहि खज्जन्तां वर्षेण ओवर्षियन्तां काकशकुन्तेहि ओहयियन्तां भिक्षू आहंसु //

इमं भगवन् संघस्य ये धर्म्मा(वर्षा)ं उपगच्छिष्यन्ति / ते प्रतिसंस्करिष्यन्ति / भगवान् आह / तेन हि एवं वर्षोपनायिके शय्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं वर्षोपनामि(यि)के शय्यासने प्र(11ब्2)तिपद्यितव्यं / एषा दानि संघस्य वर्षोपनामि(यि)का भवति / प्रकृत्यैव ताव दायकदानपति प्रतिसरितव्या / ततो विहारका प्रतिसंस्कर्त्तव्याः / ये विहारका उद्दिण्णका पलुग्गका भवन्ति / अचोक्षा वा अप्रतिसंस्कृता वा भवन्ति / (j.49) यदि ताव सुधाच्छदनो भवति / सुधापिण्डो दातव्यो / इष्टकाच्छदनो भवति / इष्टका दातव्या / अपक्काच्छदनो भवति / अपक्का दातव्या / कभल्ल(11ब्3)च्छदनो भवति / कभल्लिका दातव्या / तृणच्छदनो भवति / तृणपूलको दातव्या / मञ्चा वा पीठा वा ओन्द्रि(द्द्रि)ण्णका पलुग्गकां भवन्ति / मुंजा कर्त्तितव्या / बल्बजा कर्त्तितव्या मञ्चा ध्र(बु)णितव्या उप्पादका भवन्ति सयेच्छ(मं त्थ)पयितव्या / दुत्थपिता भवन्ति / सुत्थपिता कर्त्तव्या / वातातपेन ओत(पू)रियन्ति / काकशकुन्तेहि वा ओहपि(यि)यन्ति / च्छन्ने स्थपितव्या / एवं शय्यासनं (11ब्4) भवति / ओमयिलमयिलं पाटितविपाटितं धोविय सीवितव्यं / मृत्तिकापिण्डो दापयितव्यो / मूषिक-उच्छि(क्कि)रा वा याच(व) वंघोरिका पूरेतव्या / यं तहिं परिवेणे भवंति / भण्डं नियतकं सर्व्वं समुदानितव्यं / पञ्चेहि अङ्गेहि समन्वागतो भिक्षुः शय्यासनप्रज्ञापक संमुतीये संमन्यितव्यो / कतमेहि पञ्चहि / यो न च्छन्दाये न दो(11ब्5)षाये न मोहाये न भयाये प्रज्ञप्तं च जानाति / इमेहि पञ्चहि / पेयालं, //

(j.50) क(र्)म्मं कृत्वा याव ते दानि समन्तेन आषाढमासं शय्यासनं ग्राहेतव्यं / विहारा परिवेणा अग्निशाला भक्तशाला / उपस्थानशाला / द्वारकोष्ठको वर्च्चकुटी उदुपानो जन्ताको चंक्रमा वृक्षमूला विहारका (i.p.74) ग्राहयितव्या / असुके विहारे एत्तका मञ्च(11ब्6)का पीठका वा एत्तकं आस्तरणं एत्तकं प्रावरणं ततो लिखितव्यं / भुर्जके फलके वा पट्टिकायाम् वा / यदि ताव आरण्यकं शय्यासनं भवति / दूरे दूरो(रे) परिवेणा भव(ं)ति / त्रयोदशीयं वा चातुर्द्दशीयं वा तेन शय्यासनोद्देशो कर्त्तव्यो / अथ दानि ग्रामान्तिकं शय्यासनं भवति / आसन्ने आसन्ने परिवेणा भवन्ति / चातुर्द्दशीयम् वा पाञ्चदशीयम् वा शय्यासनो(11ब्7)द्देशो कर्त्तव्यो / तं लिखितं संघस्थविरस्य अल्लीपितव्यं / वक्तव्यं / आयुष्मन् अमुके विहारके एत्तका मञ्चा एत्तका पीठाः / एत्तकं आस्तरणं एत्तकं प्रावरणं कतमो तव विहारको रुच्यति / यो संघस्थविरस्य विहारको रुच्यति सो दातव्यो / अथ दानि संघस्थविरो जल्पति / विहारं यूयं (j.51) उद्दिशथ वर्षावासिकं समं करिष्याम न्ति(त्ति) / यं संघस्थविरो जल्पति / तथा कर्त्तव्यं, / (12अ1) ततो विहारका उद्दिशितव्याः / वृद्धान्ततो प्रभृति याव अवर्य(ष)कपर्यन्तं न क्षमति / श्रामणेराणां विहार(रा) उद्दिशितुं / अथ दानि तेषां उपाध्यायाचार्या जल्पन्ति / उद्दिशथ यूयं एतेषां वयं प्रतिसंस्करिष्याम न्ति(त्ति) / ततो श्रामणेरकाणां पि विहारका उद्दिशितव्या / अथ दानि बहुं भवति / ततो द्वितीयकालिका उद्दिशितव्या / अथ दानि तहि(ं) कोचि भवति / आटक्करसिंहनादिको (12अ2) पर्याप्तो ग्रीष्मे शय्यासनं उद्दिशितव्यं / गुप्त्यर्थं

परिभोगार्थं उत्थिष्यं उत्थापयिष्यं को विहारको ति / वक्तव्यो न एषो भव किञ्चित भोगार्थं वदिषन्ति म प्रतिसंस्कारणार्थं एषो चं उद्दिशीयति / अथ दानि स्तोका विहारका भवन्ति / द्विण्णां त्रयाणां (वा) जनानां एको विहारको उद्दिशितव्यो / अथ दानि एवं पि स्तोका भवन्ति / चतुर्ण्णां पञ्चानाम् वा जनानां एको विहा(12अ3)रको उद्दिशितव्यो / अथ दानि एकवस्तुकं भवति / भिक्षू च बहु(हू) भवंति / वृद्धानाञ् च मञ्चा प्रज्ञापयितव्याः / नवकानां पीठाः प्रज्ञापयितव्याः / अथ दानि एवं पि स्तोकं भवति / वृद्धानां पीठाः प्रज्ञापयितव्याः / नवकानां संस्तरणा (j.52) (i.p.75) प्रज्ञापयितव्याः / अथ दानि एवं पि स्तोकं भवति / (अथ दानि) अल्पो(ल्पा)वकाशो भवति / वृद्धेहि संस्तरणे प्रतिप(12अ4)द्यितव्यं / नवकेहि पर्यन(ङ्के) वीतिनामयितव्यं / अथ दानि एवं पि अल्पावकाशो भवति / वृद्धेहि च्छन्ने प्रविशितव्यं / नवकेहि वृक्षमूलेहि चंक्रमेहि निषद्याहि अभ्यवकाशे वीतिनामयितव्यं / हेमन्ते शय्यासनं उद्दिशितव्यं, / गुप्त्यर्थं परिभोगार्थं उत्थिष्यं उत्थापयिष्यं वर्षासु शय्यासनं उद्दिशितव्यं / गुप्त्यर्थं परिभोगार्थं उत्था(12अ5)स्यं उत्थापयितव्यं / नापि क्षमति शय्यासनं अध्युपेक्षितुं ओमयिलोमयिलं पाटितविपाटितं मञ्चा वा पीठा वा ओद्द्रिण्णका वा पलुग्गका वा अध्युपेक्षितुं / अथ खलु कालेन कालं शय्यासनं सीवितव्यं / बोधि(धोवि)तव्यं / कालेन कालं मुञ्जा कर्त्तितव्या / बल्बजा कर्त्तितव्या / ततो मञ्चा च पीठा च ब्र(बु)णितव्या / एवं वर्षोपनामि(यि)के शय्यासने प्रतिप(12अ6)द्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति //

* //

ii.3 ms.12a6 (j.52.15); ch.503a24 भगवान् श्रावस्त्याम् विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा याव अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो (j.53) अनुविचरन्तो विहारकां ओद्द्रिण्णकां पलुग्गकां उल्लाय गृहीतकां अचोक्षां अप्रतिसंस्कृतां उदकस्य पूरां उदकभ्रमाम् अशोधि(त)कां द्वाराहि (12अ7) द्वीपिकाहि खज्जन्तो मञ्चां पीठां ओन्द्रि(द्द्रि)ण्णकाणां पलुग्गकां उ(दु)त्थितकां वर्षेण (ओ)वर्षियन्तां प्राणकेहि खज्जन्तां भगवान जानन्तो पृच्छति / किं इमं भिक्षवो विहारका उल्लग्गका ओल्लाये गृहीतकाः / अचौक्षा अप्रतिसंस्कृता उदकस्य पूरां उदकभ्रमा अशोधितका द्वा(रे) द्वीपिकाहि खज्जन्ता मञ्चा पीठा ओन्द्रि(द्द्रि)ण्णकां पलुग्गकां उत्पादकां उ(दु)त्थितकां वर्षेण ओ(12ब्1)वर्षियन्तां प्राणकेहि खज्जन्ता(ं) भिक्षू आहंसुः / ये भगवान् (i.p.76) अर्षां वसिष्यन्ति ते प्रतिसंस्करिष्यन्ति / भगवान् आह / तेन हि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं वर्षोपगतेहि शय्यासने प्रतिपद्यितव्यं / एते दानि भिक्षवो वर्षोपगता भवन्ति / तेन हि विहारका प्रत्यवेक्षितव्या / यदि ताव ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका वा भवन्ति / यावत् मूषिकोक्कारा वा चिक्खल्लिका वा प्र(12ब्2)तिसंस्कारयितव्या / यदि ताव विहारको सुधाच्छदनो भवति (सुधापिण्डो दातव्यो) / इष्टकाच्छदनो भवति / इष्टका दातव्या / (j.54) अपक्वच्छदनो भवति / अपक्वा दातव्या / कभल्लच्छदनो भवति (कभल्लिका दातव्या / तृणच्छदनो भवति) / तृणपूलको दातव्यो / उर्ण्णा(ल्ला)ये गृहीतको भवति / पिण्डं शाटिय मृत्तिकाये लिम्पितव्यो / मूष-उक्कारा

विलिख्खि(चिक्खलि)का पूरेतव्या / यदि ताव उप्पेडनको विहारको भवति / शक्कारोटेन वा पूरेतव्या उ(अ)प(12ब्3)क्वपांसुकेन वा / अथ दानि उप्पंसुलो भवति / गोमयकार्षी दातव्या / उदकभ्रमा वा / प्रणालिभ्रमा वा परिपूरिता भवन्ति शोधयितव्याः / मुण्डहर्म्मिया प्रतिसंस्कर्त्तव्या / शय्यासनं ओमयिलोमयिलं भवति / पाटितविपाटितं धोवयितव्यं / रञ्जेतव्यं / मञ्चा वा पीठा वा भग्नका भवन्ति / छिन्नगण्ठिका कर्त्तव्या / ओन्द्रि(द्द्रि)ण्णका वा पलुग्गका भवन्ति / मु(12ब्4)ञ्जा कर्त्तितव्या / मञ्चा ब्र(बु)णितव्या / पीठिका ब्र(बु)णितव्या / उप्पादका भवन्ति समं थापेयितव्या / उ(दु)त्थितका भवन्ति / सुत्थिता थपेतव्या / वातातपेन ओपूरियन्ति / नैवाते थपितव्याः / वर्षेण ओवर्षियन्ति / च्छन्ने थपितव्या / प्राणकेहि खज्जन्ति च्छन्दियाणं प्रतिपादिकेहि थपयितव्या / नापि क्षमति / शय्यासनं अध्युपेक्षितुं / ओमयिलोमयिलं वा पाटितवि(12ब्5)पाटितं वा //

अथ खलु कालेन कालं धोवितव्यं / सीवयितव्यं / रञ्जिय(जयि)तव्यं / मञ्चा वा पीठा वा उप्पादका भवन्ति / समां थपितव्याः / दुत्थिता भवन्ति / सुस्थिता थपितव्याः / ओन्द्रि(द्द्रि)ण्णका भवन्ति / पलुग्नका वा मुञ्जा कर्त्तितव्या / बल्बजा कर्त्तितव्या / (j.55) मञ्चा बुणितव्याः / (i.p.77) पीठा बुणितव्याः / पादका उ(दु)त्थितका भवन्ति / सुथपिता कर्त्तव्याः / विहारका कालेन (12ब्6) कालं सिञ्चितव्याः / संमार्जितव्याः / गोमयकार्षी दातव्याः / उदकभ्रमाः प्रनाडिकाभ्रमा वा कालेन कालं शोधितव्याः / पञ्चाहे पञ्चाहे शय्यासनं प्रत्योतापेतव्यं / मञ्चा वा पीठा वा अन्यायतः कर्त्तव्यं / विहारो ओमस्वेदिको भवति / मञ्चो भित्ति(तो) मोचेत्वा प्रतिपादिका दातव्याः / यथा प्राणकेहि न खाद्येया सन्तानिका शाटितव्यो / अन्वर्द्धमासं गोमयशा(12ब्7)टो दातव्यो / यदि ताव विहारो ओश करोति ओदको दातव्यो / अथ दानि उस्वेदको भवति शुद्धेन गोमयेन मर्द्दितव्यं / विहारो उस्वेदको भवति / न दानि तहिं क्षमति / हस्तशौचं वा कर्त्तुं पादशौचं वा मुखम् वा धोयि(वि)तुं / पादम् वा निर्म्मादयितुं / नापि दानि क्षमति / विहारो पित्थित्वा स्थपितुं / अथ खलु कालेन कालं अपावुरितव्यो यथा वातं लभेय्या (न) धूपेतव्यो कु(13अ1)ष्ठेन भुर्जेन वा सक्तुहि वा एवं वर्षोपगतकेहि (j.56) शय्यासने प्रतिपद्यितव्यं / न प्रतिपद्यति // अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

ii.4 ms.13a1 (ज्. 56.3); ch.503b10 भगवान् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा अपरं दानि आरण्यकं शय्यासनं हिमदोषेण चित्तं न वसति / ते दानि आरण्यका विहारं बाहिरं घट्टियं कारियाण ग्रामन्तिकं शय्यासनं ओकस्ताः सो दानि वि(13अ2)हारको वनदवेन आगच्छियाण दग्धो / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु भगवान् आह / तेन हि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं वर्षवुस्तेहि शय्यासने प्रतिपद्यितव्यं / एतं दानि आरण्यकं शय्यासनं हिमदोषेण रि(चि)त्तं न वसति / न क्षमति / आरण्यकेहि अशब्दकर्ण्णिकाये ग्रामान्तिकं / शय्यासनं ओक्कसितुं / अथ खलु उच्छा(13अ3)हेतव्या / तहि(ं) एको वा द्वौ वा त्रयो वा यावतका (i.p.78) उच्छहन्ति / यो प्रतिबलो वस्तुं यदि उत्सहन्ति / तेषां आहारेण उपस्तम्भं कर्त्तव्यं / यथा न विहन्येंसु / अथ दानि उद्वहन्ति / आह / किं वयं परित्यक्ताः / किस्स (j.57) वयं वसामः / यं तहिं शय्यासनं भवति कोचवको वा उल्लीयो वा चतुरस्रका वा कुम्भीयो वा कट(टा)हकानि वा सर्व्वं ग्रामान्तिकं, (13अ4) शय्यासनं ओतारेतव्यं / मञ्चा पीठा उल्लपित्वा स्थापयितव्या / मञ्चा भित्तियो मोचेत्वा प्रतिपादका दातव्या / यथा प्राणकेहि दीपिकाहि वा न खज्जेया / नापि दानि क्षमति सो विहारो अध्युपेक्षितुं / ओन्द्रि(द्द्रि)ण्णको वा पलुग्गको वा अचौक्षो वा अप्रतिसंस्कृतो वा / अथ खलु यदि ताव तृणच्छदनो वा भवति तृणपुलको दातव्यो / याव गो(13अ5)मयशाटो दातव्यो / परिभाण्डं कर्त्तव्यं / श्वेतवर्ण्णा दातव्यं //

समन्तेन विहारस्य ताव प्रतिकृत्येव अग्निहरणी कर्त्तव्या / भृतकेहि च कर्म्मकरेहि च विहारस्य चतुःपार्श्वे कक्षं जातकं भवति सो लवापयितव्यो / यं कालं शुष्कं भवति / निष्प्राणकं ततो ग्निना दहापयितव्यो विहारको सिञ्चितव्यो / सम्मार्जितव्यो / गोमयकार्षी (13अ6) दातव्या / यं सारासारं शय्यासनं अमिला वा अस्तरणिकां वा कोचका वा मकुचका (वा) गुडुगुडुका वा मकुचका वा ते ग्रामान्तिकं शय्यासनं नापयितव्याः / मञ्चाः प्रतिपादकेहि स्थापयितव्या भित्तितो यु(मु)क्ताः / मंचस्य उपरि पीठा स्थापयितव्या / पीठस्य उपरि यं तत्र शय्यासनं ओमयिलोमयिलं पाटित(j.58)विपाटितं पीठस्य उपरि स्थापयितव्यं चीवरवंशे स्थापयितव्यं, (13अ7) भित्तितो मुक्तं / यदि ताव विहारो उप्पिडनको भवति / न क्षमति / लेनानि बन्धितुं / अथ खलु मुक्तका कर्त्तव्या / अथ दानि उप्पंसुलका विहारका बाहिरघट्टिमा कर्त्तव्याः / सर्व्वेहि नि(र्)धावितव्या एकेन अभ्यन्तरघट्टिमं विहारकां करिय रेज्जूये वा कडेवरिका /य(ये) वा ओतरितव्यं / ओतरिय रज्जूये वा कडेवरिया वा अभ्यन्तरे क्षिपितव्या / बाह्येन वा अच्छितव्या / ये (13ब्1) तत्र भवन्ति गोपालका वा पशुपालका वा तेषां सो विहारो अनुपरिन्दितव्यो ते वक्तव्याः / दीर्घायु गच्छाम ताव यं ग्रामान्तिकं शेय्यासनं एषो तुम्हाकं विहारको अनुपरिन्दितो भवतु / एवं अनुपरिन्दियाण गन्तव्यं (i.p.79) / अथ दानि ग्रामान्तिकं शेय्यासनं भवति / एवं ह्य् एव सर्व्वं प्रतिसंस्कारो कर्त्तव्याः / याव श्वेतवर्ण्णा दातव्या / एतानि महन्तानि वस्तूनि भवन्ति / यथा (13ब्2) अग्निशाला वा उपस्थानशाला वा यदि ताव सस्वामिकं भवति / तेन

प्रतिसंस्कारोये(पे)तव्या / उद्दिष्टको नाशो यो स्य भवति / तेन प्रतिसंस्कर्त्तव्या / अथ दानि नैव सस्वामिको भवति / नापि उद्दिष्टको सर्व्वसंघेन प्रतिसंस्कर्त्तव्यो / सामग्रीये संविदित्वा तहिं एकम् एको (j.59) वा शमो दातव्यो / द्वे वा द्वे वा त्रयो वा त्रयो वा यथा सर्व्वप्रतिसंस्कारो गच्छे तथा (13ब्3) दातव्यं / मञ्चा वा पीठा वा उल्लग्गका भवन्ति / अयच्छितव्या / अयं च्छन्तियो कर्त्तव्याः / उन्नियो वा बिशिओ वा चतुरस्रका वा ओमयिलोमयिला भवन्ति / पाटितविपाटिता धोवित्व सिवितव्या / प्रत्यग्गलानि दातव्यानि / भण्डं नियतकं भवति / समुदानेतव्यं / ग्रामान्तिकं शेय्यासनं उदकदोषेण रि(चि)त्तं न संवसति न क्षमति तेहि अ(13ब्4)शब्दकर्ण्णिकाये आरण्यकं शेय्यासनं गन्तुं / अथ खलु प्रतिकृत्येव ताव यं तत्र सारासारं भाण्डम् अस्तरणं वा प्रावरणं वा उपस्करो वा श्रद्धाप्रसन्नेहि उपासककुलेहि स्थापयितव्यं / विहारको संमार्जयितव्यो / गोमयकार्षी दातव्या / मंचा प्रतिपादकेहि स्थातव्या भित्तितो मुक्तं / मञ्चस्य उपरि पीठं स्थापयितव्यं / पीठस्योपरि यं त(13ब्5)त्र जर्जर बिसि वा जर्जर चतुरश्रको वा तं स्थापयितव्यं / यदि ताव उप्पीडनको विहारो भवति / ततो लेनानि मुक्तानि स्थापेतव्यानि / अथ दानि उप्पत्सु(म्सु)लको विहा(रो) भवति लेनानि बाहिरघट्टिमानि कर्त्तव्यानि सर्व्वे भिक्षूहि नि(र्)धावन्तेहि / एकेन विहारको अत्य(भ्य)न्त(र)घट्टिमो कर्त्तव्यो / प्रतिवेशिकुलातो निश्रेणियाविय ततो ओ(13ब्6)तरितव्यो / (j.60) ये तत्र प्रतिवेशिका भवन्ति / तेषाम् अनुपरिन्दितव्यं / दीर्घायु एषो विहारको तुम्हाणं अनुपरिन्दितो भवतु / (i.p.80) गच्छाम

वयं अरण्यकानि शेय्यासनानि एवं परिन्दिय गन्तव्यं / एवं वर्षवुस्तेहि शेय्यासने प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति //

* //

ii.5 ms.13b6 (ज्. 60.5); ch.503c1 भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्त(13ब्7)रेण निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावद् अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकां अनुचंक्रमन्तो अनुविचरन्तो विहारकां ओद्द्(र्)इण्णकां प्रलुग्गकां अचौक्षां अप्रतिसंस्कृतां शेय्यासनं उज्झितप्रकीर्ण्णं ओमयिलोमयिल(ं) पाटितविपाटितं मञ्चा च पीठा च / उद्द्रिण्णका प्रलुग्गका उप्पादका उ(दु)त्थितका वर्षेण ओवर्षियन्तां प्राणकेहि खज्जन्तां भगवान् (14अ1) जानन्तो भिक्षूं पृच्छति / किम् इदं भिक्षवो विहारका ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृताः शेय्यासनं उज्झितप्रकीर्ण्णं ओमयिलोमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णका पलुग्गका उप्पादका उ(दु)त्थितका वर्षेण ओवर्षयन्ता प्राणकेहि खाज्जन्ता ते दानि आहंसु वयं भगवन् आगन्तुका ये नेवासिका ते संस्करिष्यन्ति / भगवान् आह //

तेन हि एत(व)ं आगन्तुकेहि शे(14अ2; j.61)य्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं आगन्तुकेहि शेय्यासने प्रतिपद्यितव्यं / एता दानि भिक्षू आगन्तुका भवन्ति विहारको उद्दिष्टको भवति / मञ्चं पीठं पि चतुरस्रकं कुर्च्चं बि(ं)बोहनं उद्दिष्टं भवति नापि क्षमति / गतागतस्य विहारके भण्डं प्रवेशितुं / अथ खलु यदि ताव अन्धकारको विहारको भवति / प्रदीपो ज्वालयितव्यो तृणोल्का वा कण्डोल्का वा प्र(14अ3)ज्वालयितव्या / प्रविशिय चीवरंच(वं)शो ताच(व) प्रत्यवेक्षितव्यो / अनेकाये प्राणकेहि खादितको भवति / यदि ताव प्राणकेहि खायितको भवति भग्नका वा तं अपनिय अन्यो कीलको आकोटयितव्यो (i.p.81) पात्रप्रवेशिका स्थापयितव्या / मञ्चकश् च प्रत्यवेक्षितव्यः / यदि ताव विभग्नको वा च्छिन्नको वा भवति च्छिन्नकण्ठि कर्त्तव्या / ओद्द्रिण्णको (14अ4) वा पलुग्गको वा भवति मुंजा कर्त्तितव्या बल्बजा कर्त्तितव्या / मञ्चा ब्र(बु)णितव्या पीठा ब्र(बु)णितव्या / विहारको शोधयितव्यो / सम्मार्जयितव्यो / मूष-उक्किरा वा भवति आकोटयितव्या / गोमयकार्षी दातव्या / मञ्चको प्रतिपादके स्थापयितव्यो आस्तरणं प्रज्ञपिय प्रतिक्रमितव्यं / यदि सर्व्वरात्रो गच्छति प्रतिसंस्कार(j.62)यन्तस्य सर्व्वरात्री प्रतिसंस्क(स्का)रयि(14अ5)तव्यं / एवं आगन्तुकेहि शेय्यासने प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.