Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/4

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

अभिसमाचारिकधर्म

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ii.6 ms.14a5 (j.62.4); ch.503c16 भगवान् श्रावस्त्यां विहरति शस्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा पञ्चार्थवशां विस्तरेण कृत्वा यावद् अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुविरचन्तो विहारकां ओद्द्रिण्णकां पलुग्गकां अ(14अ6)चौक्षां अप्रतिसंस्कृतां शेय्यासनं ओमयिलेमयिलं पाटितविपाटितं / मञ्चा पीठा ओद्द्रिण्णकां पलुग्गकां / उप्पादकां उ(दु)त्थितकां वर्षेण ओवर्षियन्तां प्राणकेहि खज्जन्तां भ(ग)वान् जानन्तो पृच्छति / किं इमे भिक्षवो विहारका ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता शय्यासनं ओमयिलेमयिलं पाटितविपाटितं मञ्चा पीठा ओद्द्रिण्णका पलुग्गका उप्पादका उ(दु)त्थि(14अ7)तका वर्षेण ओवर्षयन्ता प्राणकेहि खज्जन्ता भिक्षू आहंसु / वयं भगवन् नेवासिका ये आगन्तुका ते प्रतिसंस्करिष्यन्ति / भगवान् आह / तेन हि एवं नेवासिकेहि शेय्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यं / नायं ताव क्षमति / नैवासिकेहि ये विहारका ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृता ते आगन्तुकानां (14ब्1) स्थापयितुं / यदि आगन्तुकानां मातु अत्यायिकं भविष्यन्ति / ततो नं प्रतिसंस्करिष्यन्तीति //

अथ खलु (j.63) ये विहारका नवका च सुप्रतिसंस्कृता च ते आगन्तुकानां स्थापयितव्या / नापि क्षमति (i.p.82) शेय्यासनं ओमयिलोमयिलं पाटितविपाटितं आगन्तुकानां स्थापयितुं / यदि आगन्तुकानां मातु अत्यायिकं भविष्यति ततो धोविष्यन्ति / रञ्जिष्यन्ति / सीविष्यन्ति / अथ खलु यं (14ब्2) शेय्यासनं नवकं सुधोतं च सुरक्तं च तं आगन्तुकानां स्थापयितव्यं / नापि क्षमति ये मञ्चा वा पीठा वा प्रल(लु)ग्गका वा ओद्द्रिण्णका वा ते आगन्तुकानां स्थापयितुं / यदि आगन्तुकानां मातु अत्याय(यि)कं भविष्यति / ततो बुणिष्यन्ति / अथ खलु ये मञ्चा वा पीठा वा नवा च सारा च स(सु)धोता च ते आगन्तुकानां स्थापयितव्या नापि क्षमति / अध्युपेक्षितुं / अथ खलु वि(14ब्3)हारकाणां कालेन कालं खण्डफुट्टं प्रतिसंस्कर्त्तव्यं / शेय्यासनं धोवितव्यं / सिवितव्यं / रञ्जितव्यं / मञ्चा वा पीठा वा भग्ना वा भवन्ति च्छिन्नगण्ठिका कर्त्तव्या / ओद्द्रिण्णका वा पलुग्गका वा भवन्ति / मुञ्जा कर्त्तितव्या / बल्बजा कर्त्तितव्या मञ्चा ब्र(बु)णितव्या पीठा व्रणितव्या / मञ्चा वा पीठा वा उप्पादका भवन्ति / समं स्थापयितव्या / उ(दु)त्थापितका (14ब्4) भवन्ति / सुस्थिता कर्त्तव्या / (j.64) वातातपेन ते(ओ)पूरियन्ति / निवाते स्थापयितव्या / काकशकुन्न(न्त)केहि ओहयियन्ति छन्ने स्थापयितव्याः / वर्षेण ते(ओ)वर्षियन्ति निरोवर्षे स्थापयितव्या / प्राणकेहि खज्जन्ति च्छिन्नगण्डि(ण्ठि)यका करिय प्रतिपादकेहि स्थापयितव्या / एवं नेवासिकेहि शय्यासने प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रम(14ब्5)ति // * //

ii.7 ms.14b5 (ज्. 64.6); ch.503c25 भगवान् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा यावद् अद्राक्षीद् भगवान् पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुविचरन्तो विहारकां ओद्द्रिण्णकां पलुग्गकां अनभि(प्रति)संस्कृतां उल्लापे(ये) गृहीतकां शेय्यासनं ओमयिलमयिलं पाटितविपाटितं मञ्चा च पीठा च ओद्द्रिण्णकां पलुग्गकां उप्पादकां (14ब्6) उ(दु)त्थितकां वातातपेन ओपूरियन्तां काकशकुन्ने(न्ते)हि ओहर्षि(यि)यन्तां वर्षेण ओवर्षियन्तां प्राणकेहि खज्जन्तां भगवान जानन्तो येच(व) भिक्षूं पृच्छति / किं एते भिक्षवो विहारका ओद्द्रिण्णका पलुग्गका शेय्यासनं (i.p.83) ओमयिलमयिलं पाटितविपाटितं मञ्चा पीठा च ओद्द्रिण्णका पलुग्गका उप्पादका उ(दु)त्थितका वातातपेन ओपूरियन्ता काकशकुन्ने(न्ते)हि ओहयियन्तां वर्षेण (ओ)वर्षियंता प्रा(14ब्7)प्राण(j.65)केहि खज्जन्ता / भिक्षू आहंसु / ये भगवं आगन्तुका च नेवासिका च ते प्रतिसंस्करिष्यन्ति / वयं इत्वारवासिनो भगवान् आह / तेन हि एवं सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं / किन् ति दानि एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं / एते दानि विहारका भवन्ति / ओद्द्रिण्णका पलुग्गका अचौक्षा अप्रतिसंस्कृतका ततो रणरणाये गण्डिं आहणिय सर्व्वसंघेन सन्निपति(15अ1)तव्यं / अथ दानि कश्चिद् आह / अहन् धर्म्मकथिको अहं विनयधरो अहम् आरण्यको पिण्डचारिको पांसुकुलिको य एतो(ते) द्रोणी श्रमणका ते प्रतिसंस्करिष्यन्तीति //

ते विनायातिक्रमम् आसादयन्ति / अथ खलु सर्व्वेहि सन्निपतितव्यं / अन्येहि ताव मृत्तिका मर्द्दितव्या / अन्येहि खाणुका विशालिका वा पिण्डका वा परिपूरिय दातव्या / अन्येहि परिहरितव्यं / अन्येहि लिप्पितव्यं / अ(15अ2)न्येहि मज्जितव्यं / अन्येहि उदकं परिहरितव्यं / अथ दानि बहुं लिप्पितव्यं भवति / भिक्षू च शाठ्येन करेन्ति / किं कर्त्तव्यं मितकं दातव्यं / इमन् तव खण्डं इमं तव खण्डन् ति / इमं त्वया प्रतिसंस्कारयितव्यं / एते विहारका उल्लापे(ये) गृहीतका भवन्ति अप्रतिसंस्कृता वा उप्पंसुला वा सर्व्वसंघस्य गण्डिम् आकोटयित्वा अन्येहि तावद् या भित्ति ओल्लाये गृहीतकायो तायो शा(15अ3)टयितव्यायो अन्येहि मृत्तिका मर्द्देतव्या / अन्येहि उदकः परिहरितव्यः / अन्ये(हि) मृत्तिका परिहर्त्तव्या / अन्यो लेपो दातव्यः / (j.66) अन्यैः स(ं)मार्जितव्यं / विहारका उप्पेडनका भवन्ति / शर्कराटका वा आपकपांसुको वा परिहरितव्यो आकोटयितव्यो / अथ दानि उपंसुलका विहारका भवन्ति / अन्यैर् ग्गोमय परिहर्त्तव्यः / अन्यै(15अ4)र् उदकं परिहर्त्तव्यः / अन्यै(ये)हि अध्वापयितव्यं / अन्येहि गोमयकार्षी दातव्या / नापि दानि (i.p.84) अध्युपेक्षितव्यं / शेय्यासनं ओण्णियो वा कोचवको वा प्राका(वा)रा वा बिसियो वा चतुरस्रको वा बिम्बोहनका वा चिलिमिलिका वा ओमयिलमयिला वा पाटितविपाटितविपाटिता वा अचौक्षा वा अप्रतिसंस्कृता वा / अथ खलु कालेन कालं / अ(15अ5)न्येहि ओषा गालयितव्यो / अन्येहि उदकं परिहर्त्तव्यं / अन्येहि क्षारं आनयितव्यं / अन्येहि वोध(धोव)यितव्यं, / अन्येहि पीडितव्यं / अन्येहि विसयितव्यं / अन्येहि परिहर्त्तव्यं / मञ्चा वा पीठा वा ओड्डिण्णका वा पलुग्गका वा

पलुग्गका वा भवन्ति / सर्व्वेहि मुञ्जा वा बल्बजा वा कर्त्तितव्या / मञ्चा वा वातव्या पीठा वातव्या बिसी सीवयितव्या / चतुरस्रा दाप(15अ6)यितव्या //

नंगलानि उत्थापयितव्यानि / एते मञ्चा वा पीठा वा भग्नका वा भवन्ति / यो यं पश्यति (j.67) तेन य्येव गण्ठी कर्त्तव्या / उपादका भवन्ति / यो ये(व) पश्यति तेन येव समं स्थापयितव्यं / दुत्थितका भवन्ति / सुस्थितका कर्त्तव्या / वातातपेन वा ओपूरियन्ति / यो येव पश्यति तेन य्येव निवाते स्थापयितव्या / काकशकुन्तेहि वा ओहयियन्ति / यो य्येव पश्यति / तेन य्येव (15अ7) छन्ने स्थापयितव्या / वर्षेण ओवर्षयन्ति / यो येव पश्यति तेन य्येव निरोवर्षे स्थापयितव्या / प्राणकेहि खज्ज(न्)ति / यो येव पश्यति / तेन य्येव च्छिन्नगण्ठिका करियाण प्रतिपादकेहि स्थापयितव्या / एवं सर्व्वेहि शय्यासने प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

ii.8 ms.15a7 (ज्. 67.9); ch.504a14 भगवान् श्रावस्त्यां विरहति शास्ता देवानाञ् च मनुष्याणाञ् च विस्त(15ब्1)रेण निदानं कृत्वा ते दानि भिक्षू प्रकीर्ण्णकस्य उच्छ्वासं करोन्ति / जनो दानि ओध्यायति / पश्यथ भणे श्रमणका यथा उष्ट्रा वा गोणा वा गर्द्दभा वा च्छगलका वा एवम् इमे श्रमणा प्रकीर्ण्णकस्य उश्वासं करेन्ति / नष्टं भ्रष्टं कुतो एषां श्रामण्यं / एतं प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / सत्यं भिक्षवो जनो ओध्यायति आम भगव(व)(15ब्2)न् (i.p.85) भगवान् आह / तेन हि वर्च्चकुटी नाम कर्त्तव्या / वर्च्चकुटीं दानि भिक्षुणा कारापयमाणेन नापि क्षमति (j.68) विहारस्य पुरस्तिमेन वा उत्ता(त्त)रेण वा कारापयितुं / अथ खलु दक्षिणेन वा पश्चिमेन वा कारापयितव्या / वातपथं मुक्त्वा मल्लकतला खडा खणितव्या / प्रपातनिश्रितं वा यदि वा खानिया उदकान्तिका भवति / प्रथमं कल्पियकारेण ओह(15ब्3)यियापेतव्या / अथ दानि प्रपातनिश्रिता वा उर्ण्णावच्चघरं वोवत्ति गच्छति / अन्तरा(ं) काष्ठं दातव्यं / यथा तहिं, / प्रथमं निय(प)तेय परिमलं वा चतुरस्रं वा निवितव्या / इष्टकाहि वा उपलैर् व्वा च्छादयितव्या / यानि साराणि च दृढानि च स्थूला(नि) च काष्ठानि तान्य् अधस्ता दातव्यानि / तत्र काष्ठेहि वा फलकेहि वा ओहाटयितव्या / उपरि इष्ट्(अक्)आहि मृत्तिकाय (15ब्4) च्छादयितव्यानि / तच् च मुखानि कर्त्तव्यानि हस्ताम् वा आयामेन निमुष्टकम् वा हस्तम् विस्तारेण तत्र कण्ठवारिणि कर्त्तव्या / कक्षमात्री वा गलमात्री वा वंशे(न) वा नलेन वा नंगलेहि वा फलकैर् व्वा तथा कर्त्तव्या यथा उपविष्टा अन्योन्यं न पश्यन्ति /

शीर्षी(षा)न् तत्रोपरि च्छादेतव्यं कुड्ड(ं) उत्थपियाणं वलभी कारयितव्या / आकाशतलं वा लिंपितव्या मृत्ति(15ब्5)काय वा सुधाय वा तृणच्छन्ना वा कर्त्तव्या / अपरस्मिन् पार्श्वे वर्च्चकुटीका कर्त्तव्या / तहिं स्थापेतव्या काष्ठकुण्डानि वा मृत्तिकाकुण्डानि वा उदक पूरयितव्यानि / तहिं (j.69) स्थापेतव्यं करीषो मृत्तिका वा ऊषो वा ततो जानितव्यं / यदि ताव सा खानि/मा वर्च्चकुटी भवति / ततो वर्च्चकुम्भिका बाहिरोदिवा कर्त्तव्या / यथा तं उदकं अन्ये न गच्छति / अथ (15ब्6) दानि प्रपातनिस्रिता भवति / वर्चकुटी किञ् चापि तहि(ं) य्येव उदकं पतति / अनापत्तिः / वर्च्चकुम्भिकाये पुरतो कल्पियकरकि स्थापयितव्या उदकस्य पूर्ण्णतानि तानि कुण्डकानि वा कटाहकानि वा नापि क्षमति / अध्युपेक्षितुं / सप्राणकानि वा अधोतकानि वा / अथ खलु उद्दिशितव्यं / नवकान्ते वा पटिपाट्टिकाय वा यस्य वा प्रापुणति / तेन तानि कुण्डनिकानि कालेन कालं, (15ब्7) पूरयितव्यानि / कालेन कालं धोवयितव्या(नि) / कालेन कालं आतपे शोषयितव्यानि / अथ (i.p.86) तानि काष्ठमयानि भवन्ति / न क्षमति / आतपे न शोषयितुं, / मा फुट्टिंसु त्ति / शोषयित्वा च्छाता(या)यां स्थापयितव्यानि / यं कालं परिशुष्कानि भवन्ति / ततो पूरेतव्यानि / वर्च्चकुटीये पुरतो कुटी वा शाला वा कर्त्तव्या / तत्र चीवरवंशा वा चीवरबिसि वा दीर्घ(j.70)नागदन्त वा कर्त्तव्याः / य(16अ1)त्र भिक्षू कल्पिकानि चीवरकाणि विनिक्षिपिय वर्च्चकुटी प्रविशन्ति नापि दानि द्रविडेन विय प्रश्रावकरणं गृह्नित्वा वर्च्चकुम्भि(टि)का(ं) गन्तव्यं / अथ दानि वर्च्चकुम्भिकां सप्राणका भवति / न दानि (क्षमति) वक्तुं, /

आयुष्मन्तो सप्राणका वर्च्चकुटि(म्भि)का / अथ खलु तृणम् वा तूलिका वा उपरि स्थापेतव्या / यथाज्ञाये सप्राणकेत्य् अभिज्ञानं / उदककृत्यं करेन्तेन न दानि ज्झल्लज्झलेये उदकं चेतव्यं / अथ ख(16अ2)लु माता येव चेतव्यं / रिक्तकां वर्च्चकुम्भिकां पश्यति / न तदा अध्युपेक्षितव्यं / यस्य ओहेय्यको भवति / तस्य आवि(चि)क्षितव्यं / स्वयं वा पूरयितव्यं / अन्तमसतो कुम्भिकायं / एकस्य (यत्तकं) पर्यास्तं भवेया तत्तकं दातव्यं / अथ दानि ग्लानो भवति / आर्षव्याधिकं वा प्रस्कन्दिकं वा लेक्ष(ङ्क)टाखंडेहि वा भस्त्रायनंकेहि वा सुकुमारेहि दयितव्यं, //

* // एषैवार्थोत्पत्तिः / भगवा(16अ3)न् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा अपरेण दानि भिक्षुणा वंशशलाकाहि व्रणमुखं पोत्थि(च्छि)तं तस्य दानि क्षतं सरुधिरं कृतं / एतं प्रकरणं (j.71) भिक्षू भगवतः / आरोचयेंसुः / भगवान् आह / शब्दावथ भिक्षुं सो दानि शब्दापितो / भगवान् आह / एवं च त्वं वंशशलाकाहि व्रणमुखं पे(पो)च्छेसि तेन हि न क्ष(16अ4)मति वंशशलाकाहि कण्डविदलिकै(के)न वा नलकाष्ठेन वा / कठल्लेन वा अस्थिखण्डेन वा व्रणमुखं पोच्छितुं, / अथ खलु अवलेखनं नाम कर्त्तव्यं / ओलिका वा स्थापयितव्या / मृत्तिकामया वर्त्तिका कर्त्तव्या / या खानिमा वर्च्चकुटी भवति / नापि क्षमति भिक्षुणा व्रणमुखं पोच्छयता तायो वर्त्तिकायो वा कुलिकायो वा वर्च्चकुटीये प्रक्षिपितुं, / (16अ5) अथ खलु एकमन्ते (i.p.87) कूटकं कर्त्तव्यं / तायो देवसिकं च्छोरयितव्यायो वा दहिय भूयो वा दहिय भूयो वा थपयितव्यायो / अथ दानि भिक्षु पश्यति / को इमायो दहिष्यतीति / त(ता)यो च्छोरिय अन्यायो स्थापयितव्यायो / अथ दानि प्रपातनिश्रिता भवन्ति / किंचापि तहिं अपलेखाम् वा प्रक्षिपति / संकरं वा अनापत्तिः / वर्च्च(ं) करंतेन त(16अ6)था कर्त्तव्यं, / यथा उच्चारप्रश्रावखेटसिंघाणकं सर्व्वं तहिं निगच्छे / अथ दानि अन्यो चौक्षीकृतं भवति / ओहाणम् वा / खेटं वा / सिंहाणकम् वा वर्च्चे वा तहि(ं) निक्षिप्तं भवति / उच्चिकाये तहिं सर्व्वं प्रक्षिपितव्यं / नापि दानि क्षमति / अकृत्वा उदककृत्यं सांघिकं शेय्यासनं परिभुञ्जितुं // * // एषा एवार्थोत्पत्तिः //

भगवान् श्रावस्त्यां विहरति / शास्ता देवानाञ् च मनुष्याणां (16अ7) च / विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः / (j.72) उश्वासेन उद्दीपितो निवसनं ओगुहिय वर्च्चकुटिं प्रविशति / तहिं च अपरो भिक्षुः पूर्व्वप्रविष्टो सो दान् आह / मा मे आयुष्मं ओहयेसि / एतं प्रकरणं भिक्षुः / भगवतो आरोचयेंसुः / भगवान् आह / तेन हि एवं वर्च्चे प्रतिपद्यितव्यं / किन् ति दानि एवं वर्च्चे प्रतिपद्यितव्यं / नायं ताव क्षमति / भिक्षुणा क्षमयितुं, (16ब्1) याव उश्वासेन उत्पीडितो त्ति //

अथ खलु समुदाचारमात्रकेणैव वर्च्चकुटिं गन्तव्या / अथ दानि भिक्षुः / उश्वासेन सहसा उप्पडि(तो) भवति न क्षमति निवासनं ओगुहिय अशब्दकर्ण्णिकाये वर्चकुटी प्रविशितुं / अथ खलु अच्छटिकां कर(न्)तेन प्रविशितव्यं / यदि तातव(व त)हि(ं) कोचि पूर्व्वप्रविष्टो भवति तेन प्रत्यच्छटिका कर्त्तव्या / इमिना आगमयितव्यं / ताव याव उत्थित इति / अथ दानि (16ब्2) उप्पीडितो भवति / अच्छटिकां करन्तेन अल्लीपितव्यं / इमिना च पराङ्मुखेन भवितव्यं / तस्य चावकाशो दातव्यः / तेन च पराङ्मुखेन उ(प)विशितव्यं / अन्तरं दातव्यः / नापि दानि दूरतो येच(व) निवास(न)ं ओगुहिय उपवेष्टव्यं / (j.73) अथ खलु समनन्तरं उपविशितव्यं च निवसनं निगुहितव्यं च नापि दानि क्षमति वर्चकुटीयं उपविष्टेन ध्यानान्तरगतेन वा मिद्धान्तरगतेन वा उ(16ब्3)द्देशं वा (i.p.88) स्वाध्यायम् वा मनसिकरेन्तेन आसितुं / अथ खलु समुदाचारं करिय उत्थिय च्छत्ति म(ग)न्तव्यं / नापि क्षमति / सांघिकेन शेय्यासनेन प्रावृतेन वर्च्चकुटी प्रविशितुं / नापि क्षमति / कल्पिकेहि चीवरेहि प्रावृतेहि वर्च्चकुटीं प्रविशितुं / अथ खलु स्थापयित्वा प्रवेष्टव्यं नापि दानि क्षमति / दन्तकाष्ठं खादन्तेन वर्च्चकुटीं प्र(16ब्4)वेष्टुं / एकान्ते निक्षिपित्वा प्रवेष्टव्यं / नापि क्षमति / ओगुण्ठितशीर्षेण वा ओहयितहस्तेन न वा वर्च्चकुटीं प्रवेष्टुं / अथ खलु एकांसीकृतेन प्रवेष्टव्यं / एषो भिक्षुः पुरिमे वा पश्चिमे वा प्रहाणी(णे) उपविष्टो समुदाचारकृतो भवति / प्रहाणस्य आमन्त्रियाण च्छत्ति वर्च्चकुटीयं गन्तव्यं / अथ दानि भिक्षू उत्पीडितो भवति नापि क्षमति / (16ब्5) यथा

उष्ट्रेण वा गोणेन वा गर्द्दभेन वा ऊरूयो (ओ)हंय(यं)तेन गच्छितुं, / अथ खलु संघारामस्य एकहिं अन्ते उपविशितव्यं / अथ दानि भिक्षुणा दृष्टो भवति / नापि क्षमति वक्तुं, / को वा एषो कथं वा एषो मा वेड्डो भवेय त्ति / तेन उश्वासं करंतेन मल्लकेन वा कोडितेन वा च्छोरयितव्यं / च्छोरियाणं सो पृथिवीप्रदेशो गोमये(16ब्6)न उद्वर्त्तितव्यं / ततो यदि ताव विभवो भवति / तैलकार्षी वा (j.74) गन्धकार्षी वा दातव्यं / अथ दानि विभवो न भवति / अन्तमसतो गोमयकार्षी दातव्याः / एषो भिक्षुः / चेतियं वन्दितो उश्वासकृतो भवति / समुदाचारमात्रकेनैव निर्द्धावितव्यं / अथ दानि सहसा उत्पीडितो भवति / तदा न क्षमति / उष्ट्रेण वा गोणेन वा ऊरूयो ओहयन्तेन गन्तुं, / अथ (16ब्7) खलु एकमन्ते निवास(न)ं ओ(गु)हिय उपविशितव्यं / अथ दानि भिक्षूहि दृष्टो भवति तदा न क्षमति वक्तुं / को वा एषो कथं वा एषो मा चे(वे)ड्डो भवेय न्ति(त्ति) / तेनापि दानि उश्वासं करिय मल्लकेन वा कोडिल्लेन वा कठल्लेन वा च्छोडियाण सो पृथिवीप्रदेशो गोमयेन उद्वर्त्तयितव्यो / यदि ताव आहत्या पृथिवी भवति / उत्तत्थपितव्या / कृतकर्म्मा पृथिवी भवति उदकेन धोवित(17अ1)व्यं / यदि ताव विभवो भवति चेतियघरे तैलकार्षी वा दातव्या / अथ दानि न विभवो भवति / अन्तमसतो तंहि पृथिवीप्रदेशे गन्धकार्षी वा दातव्या / अथ दानि आरण्यकं शेय्यासनं भवति / दुर्लभो गन्धो अन्तमसतो तैलकार्षी दातव्या / एते (i.p.89) द्वे भिक्षू वे(चे)तियं वन्दन्ति यं पश्यन्ति तत्र शुनखेन वा शृगालेन वा उश्वासं कृतकं यो नवको भवति / ते(17अ2)न च्छोरितव्यं /

अथ दानि नवतरको शैथिलिको बाहुलिको भवति / वृद्धतरेण च्छोरितव्यं / (j.75) एते द्वे भिक्षू गोचरं प्रविशन्ति प्रकृत्येव ताव च्छड्डयितव्यं, / अथ दानि भिक्षूः प्रविष्टो समानो समुदाचारं कृतो भवति / किं कर्त्तव्यं ग्रामान्तिकं शेय्यासनं गन्तव्यं / प्रतिक्रमणम् वागन्तव्यं / नापि क्षमति / भिक्षुणी-उपाश्रये गतागतस्य वर्च्चकुटिं प्रविशितुं / अनेकाये (17अ3) भिक्षुणिका उपविष्टा भवेय / अथ खलु पृच्छितव्यं / भगिनि किं रिक्ता वा वर्च्चकुटी नेति नापि क्षमति / तरुणिका पृच्छितुं / मा वेण्णा भवेय न्ति(त्ति) / अथ खलु वृद्धा पृच्छितव्या / यदि तावद् आह / आर्य रिक्ता वर्च्चकुटीति / कनकेन वा दकानकेन वा उदकं गृह्णिय प्रविशितव्यं / उश्वासं करिय उदककृत्यं करिय गन्तव्यं, / अथ दानि एवं पि न भवति नी(17अ4)लमञ्चं गन्तव्यं / नापि दानि क्षमति / स्त्रीणां निग(नील)मंच(ं) गन्तुं / अथ खलु यो पुरुषाणां नीलमंचो तहिं गन्तव्यं नीलमञ्चो न भवति / उत्सृष्टगृहं गन्तव्यं / पृच्छितव्यं रिक्तो उक्खरो ति न दानि तरुणिका स्त्री पृच्छितव्या / मा अऽप्रहासं देया महन्तिका पृच्छितव्या / यदि तावद् आह / ऋक्तो उदकदकानका आदाय प्रवेष्टव्यं / एवं पि न भवति / शून्य(17अ5)घरं वा जम्बालम् वा भवति / तहिं गन्तव्यं / न दानि तहिं गन्तव्यं / न दानि तहिं अतिनि(ः)शब्दप्रवे(दे)शे उपवेष्टव्यं / मा (j.76) उग्गंकितो भवेयं छन्नप्रवे(दे)शे उपवेष्टव्यं / अथ दानि एवं पि न भवति / उत्क्षिप्तरथ्यायां कुड्यं पृष्ठतो कृत्वा उश्वासो कर्त्तव्यो / यो सौ द्वितीयो सहायो भवति / तेन पुरतो पराङ्मुखेन स्थातव्यं / एते भिक्षु सार्थेन

सा(17अ6)र्द्धम् अध्वानं गच्छंति / भिक्षु उश्वासितो भवति नापि क्षमति / य(प)त्थेस्मिं उश्वासं कर्त्तुं, / मा (जनो) ओध्यायेंसु केन् इमं (i.p.90) य(प)त्थेस्मि(ं) अन्त्राणि विकीर्ण्णानि / अथ खलु एकतमं ज्झटम् वा वृक्षं वा पृष्ठतो करियाण उपविशितव्यं / नापि दानि अनुवातं कर्त्तव्यं / मा सर्व्वसार्थं गन्धेन व्यावहेय्या अपवातं कर्त्तव्यं / सार्थे निसृष्टस्मिं समुदाचारो भवति / एकान्ते उपविशिय कर्त्त(17अ7)व्यं / नापि दानि अप्रतिसंविदितेन उथ(च्च)त्तितव्यं, / मा चोरो वा ओचोरको वा न्ति(त्ति) हन्येया नापि दानि अनुवातं कर्त्तव्यं / या(मा) सर्व्वसार्थो गन्धेन वा(व्या)वहेया अपवातं कर्त्तव्यं, / नापि दानि क्षमति / प्रतिकृत्येव निवासनं (j.77) ओगुहिय गच्छितुं, / अथ खलु निवासनं ओगुहितव्यं च उपविशितव्यञ् च न क्षमति निवासनं ओगुहिय वामेन हस्तेन अङ्गजातं गृ(17ब्1)ह्निय द्रविडेन यथा उदकसमीप(पे) गन्तुं / अथ खलु उत्थिहितव्यं च निवासनं ओसरितव्यं / नावाये गच्छन्तस्य समुदाचारो भवति यदि वर्चकुटी भवति / तहि(ं) कर्त्तव्यं काष्ठकं अन्तरा कर्त्तव्या / यथा तहिं प्रथमं निपतेया एवं न भवति / अन्तमसतो स्वका अङ्गुलि उपथपितव्या / वर्च्चकुटी न भवति / कटा(हे)न वा मल्लिकेन वा उज्झितव्यं स्तूपाभिगृहे वा संघाभिगृहे वा प(17ब्2)श्यति / उज्झितव्यं / अथ दानि द्वे चंक्रमन्ते / वृद्धतरको नवतरको च नवकेन उज्झितव्यं / अथ दानि सो भवति शैथिलिको वा बाहुलिको वा आवड्ढको वा अशिक्षाकामो (वा) तदा स्वयं उज्झितव्यं / एषो हि भिक्षुः / दीर्घकेन खायितको भवति / वैद्यो जल्पति भत्ते(न्ते) महाविकटां

पायेथ न्ति(त्ति) किं कर्त्तव्यं / यदि ताव आत्मनो उच्चारो भवति / सो एव तस्य प्रतिग्रहो (j.78) अथ (17ब्3) दानि परकेरको उच्चारो भवति / प्रतिग्रहापयितव्यो / उदकेन अच्चाविय घनेन नर्त्तकेन परिस्राविय तस्य भिक्षुस्य सुमनाफुल्लानि न शक्ये ददियाणं वक्तव्यं / आयुष्मन इमस्य भैषज्यस्य गन्धो यादृशो उच्चारस्य मा खलु ते अमनाय(प)ं भविष्यति पिबाहि यदि शे जीवितुकामो एवं सर्व्वेहि सर्व्वे(वर्च्चे) प्रतिपद्यितव्यं / न प्रतिपद्यति / अभि(17ब्4)समाचारिकान् धर्म्मान् अतिक्रमति //

* //

(i.p.91) ii.9 म्स्. 17ब्4 (ज्. 78.7); ch.504c18 भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा ते दानि भिक्षुः प्रकीर्ण्णकं प्रश्वासं करोन्ति जनो दानि ओध्यायन्ति / पश्यथ भणे (इमे) श्रमणका / यथा उष्ट्रा वा गोणा वा गर्दभा वा च्छगलका वा एव(म् इ)मे श्रमणका प्रकीर्ण्णकं प्रश्वासं करोन्ति / नष्टं भ्रष्टं कु(17ब्5)तो वा / इमेषां श्रामण्यं एतं प्रकरणं भिक्षूहि श्रुतं / भिक्षू भगवतो आरोचयेंसु / भगवान् आह / सत्यं भिक्षवो जनो ओध्यायति / तेन हि प्रश्वासकुटी नाम कर्त्तव्या / प्रश्वासकुटीपि(ये) दानि भिक्षुणा कार(प)यन्तेन न क्षमति वी(वि)हारस्य उत्तरेण (वा) पूर्व्वेण (वा) कारापयितुं / अथ खलु दक्षिणेन वा पश्चिमेन वा कारापयितव्या वातपथ(ं) मुक्त्वा (17ब्6) उदकभ्रमणस्य वा त(उ)परि कर्त्तव्या / उपलस्य वा इष्टकाय वा उपरि मल्लतलका खन्नां खनितव्या / मध्ये च्छिद्रकं कर्त्तव्यं / (j.79) उदकभ्रमणस्य उपरि थपेतव्या सुवा(धा)य समंतेन लिपितव्या / यदि समन्तेन सेतुः कर्त्तव्यो यथा पतको येव प्रश्वासको बाह्येन निर्ग्गच्छति / धोविय तैलेन म्रक्षयितव्या / नवकान्तेन वा उद्दिष्टकेन वा पटिपाटिकायेन वा यस्य (17ब्7) वा प्रापुणेति // * // एषा एवार्थोत्पत्तिः //

भगवान् श्रावस्त्याम् विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः प्रहाणं उपविष्टको प्राश्वासेन उष्पी(प्पी)डितो प्रश्वासकुटीं गच्छियाणं निवासनं ओ(गु)हियाणं प्रश्वासं करिष्यन्ति / तहिं च भिक्षुः पूर्व्वप्रविष्टो प्रश्वासं करोति / सो जल्पति / मा खलु मे आयुष्मन् ओमुत्रप(य)सि त्ति / एतं (18अ1) प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / तेन हि एवं प्रश्वासे प्रतिपद्यितव्यं / एवं ताव न क्षमति भिक्षुणा आगमयितुं / याव प्रश्वासेन प्र(उ)पीडितो भवति / अथ खलु समुदाचारमात्रकेनैव प्रश्वासकुटीं गन्तव्यं / नापि दानि क्षमति अशब्दकर्ण्णिकाये प्रश्वासकुटीं प्रविशितुं //

अथ खलु अच्छटिकां करन्तेन प्रश्वासकुटिं प्रविशितव्यं / य(18अ2)दि तहिं कोचि पूर्व्वप्रविष्टो (i.p.92) तेन प्रत्यच्छटिका कर्त्तव्या इमिना ताव आगमयितव्यं / याव प्रश्वासो कृतो अथ दानि सो भिक्षुः / उप्पीडियती येव अच्छटिकां करन्तेन अल्लीपितव्यं / (j.80) इमिना अवकाशो दातव्यो ततो उभयो(ये)हि प्रश्वासो कर्त्तव्यो / नापि दानि क्षमति / ओगुण्ठितशीर्षेण वा ओहितहस्ते(न) वा दन्तकाष्ठं खादन्तेन (वा) उपवेष्ट(ष्टु)ं / अथ खलु एकांसकृतेन एका(18अ3)न्ते दन्तकाष्ठं स्थापयित्वा उपवेष्टव्यं / नापि दानि तहिं ध्यानान्तरेण वा स्वाध्यायम् वा करेन्तेन अशुभसमापत्तिम् वा समापन्नेन आसितव्यं / अथ खलु प्रस्रावं कृत्वा च्छत्ति उत्थितव्यं / एषो दानि भिक्षुः प्रहाण उपविष्टको प्रश्वासकृतो भवति / उत्थियाणं प्रश्वासकुटीं गन्तव्या / अथ दानि प्रश्वासेन उप्पीडितो भवति / न क्षमति / यथा उष्ट्[रे]ण वा (18अ4) गोणेन वा गर्दभेन वा ऊरूयो ओमूत्रियन्तेन गन्तुं, / अथ खलु एकतमंते उपविशिय प्रश्वासो कर्त्तव्यो / अथ दानि केनचि भिक्षुणा दृष्टो नापि दानि क्षमति वक्तुं / को वा एषो कथम् वा एषो मा वेड्डे भवेय न्ति(त्ति) / तेनापि दानि प्रश्वासं करियाण सो पृथिवीप्रदेशो यदि तावद् आहत्य /(त्या) पृथिवी भवति / काष्ठेन वा कठल्लेन वा उत्तत्थिया(18अ5)णं च्छोरयितव्यो अथ दानि कृतंकर्म्मा पृथिवी भवति / धोवयितव्या / ततो तैलकार्षी वा गन्धकार्षी वा (j.81) दातव्या / अथ दानि नास्ति विभवो अन्तमसतो गोमयकार्षी दातव्या / अथ दानि प्रश्वासकुटी न भवति / एकस्मि(ं) कोणे सर्व्वसंघस्य प्रश्वासपटे(घटो) स्थापयितव्यो तस्योपरि च्छिद्रमल्लका दातव्यं

//

मा अप्रकृतिका घटस्य वा बाह्येन [प्र]श्वा(18अ6)सं छोरेया ति / तत्र तत्रं(कुन्त)को अलाबुओतुम्बको वा थपयितव्यो तहिं प्रश्वासं करियाण घटके प्रक्षिपितव्यं / न दानि तहि(ं) क्षमति / उच्चारो वा खेटसिंघाणको वा प्रक्षिपितुं / सो दानि उज्झितव्यो / नवकान्तेन कायस्य वा ओहेय्यको भवति / नापि दानि क्षमति / अत्या(भ्या)गमे प्रदेशे उज्झितुं सर्व्वसंघस्य मा गन्धेन व्यावहेय्या / अथ दानि द्विभूमको भवति / द्वितीयायां (18अ7) भूमियं तथा येव घटको स्थापयितव्यो / तृभूमिको भवति / तृतीयायां भूमौ तथा य्येव स्थापयितव्यं / तहिं प्रश्वासं (i.p.93) करितव्यं / कर्ण्णिकं यं कालं प्रहाणस्य यथासुखं कृतं भवति / तं कालं प्रश्वासघटिका निक्काल(j.82)यितव्या / केनायं निक्कालयितव्यो / नवकान्तेन वा पटिपाटिपाटिकाय वा यस्य वा प्रापुणति / ततो पि न क्षमति / सो तहिं च्छोरयितुं / यहिं देवे व(18ब्1)र्षिन्तस्य स्तूपविग्रहं वा संघविग्रहं वा गच्छति / अथ खलु तहिं च्छोरयितव्यं / यहिं देवे वर्षन्तेन अन्ये न गच्छति नापि क्षमति / प्रश्वासघटं अभिनिकुञ्जे प्रदेशे स्थापयितुं / मा अन्ये भिक्षू न पश्येंसु / नापि क्षमति / अतिप्राकटे प्रदेशे स्थापयितुं / मा नं ढोस्सा वा विडा वा वातपुत्रा वा भुंजेंसु / अथ खलु प्रच्छन्नप्राकटे स्थापयितव्यं / विकाले प्रविशियाणं तहिं य्येव (18ब्2) स्थाने स्थापयितव्यो / घटस्योपरि च्छिद्रमल्लकं स्थापयितव्यं / च्छिद्रमल्लकस्योपरि कुन्तको वा अलाबुतुम्बुको वा थपयितव्यो / अथ दानि संघे प्रश्वासघटो न भवति / पौद्गलिकपौद्गलिकानि प्रश्वासघटिकानि स्थापयितव्यानि / घटिका वा कारका

वा अलाबुतुम्बुका वा कल्प(य)तो एव प्रश्वासं एकमन्ते विसर्जिय प्रश्वासभण्डकं / वोधि(धोवि)य प्रतिगुप्ते (18ब्3) प्रदेशे आतपे स्थापयितव्यं / ततो विकाले भूयो प्रवेशितव्यो / कुत(न्त)को भवति / एवं य्येव कर्त्तव्यं तुच्छकं भवति कल्प(य)तो येच(व) उज्झित्वा च्छन्ना(न्ने) स्थवितव्यं / मा फुट्टेंसु शिक्तेन उच्चिनित्वा स्थापयितव्यं / मल्लकं भवति / एकान्ते उज्झित्वा धोवित्वा आतपे स्थापयितव्यं / सायं प्रवेशेन्तेन कुन्त वा तुम्बका वा शिक्षे(क्ते)(न) (j.83) उच्चिनित्वा मञ्चकस्थाने उल्लपितव्यं / ओरु(18ब्4)हन्तेन मल्लकं घटिका वा मञ्चकस्य च ओरुहन्तेन सुस्थपिता कर्त्तव्या भाजनं न भवति / वर्षा उदकं च भवति / न दानि तथा प्रस्रावो व(क)र्त्तव्यो / यथा चेतियाभिगृहं उपरि घंश्वतो गच्छेया एकान्तके कर्त्तव्यं / अग्निशालायां वा उपस्थानशालायां वा उपविष्टस्य समुदाचारो भवति / च्छत्ति निष्क्रमितव्यं / अथ दानि उप्पिलितो भवति अकं,(18ब्5)थायेने विय मूत्रेण सिञ्चन्तेन न गन्तव्यं / अथ खलु एकान्तेन कृत्वा उज्झितव्यं (i.p.94) / तैलकार्षी दातव्या / अन्तमसतो गोमयकार्षी दातव्या / एषो भिक्षु चेतियं वन्दन्तो प्रश्वासकृतो भवति / समु(दा)चारमात्रकेण एव गन्तव्यं / अथ दानि भिक्षु सुष्ठु उप्पीलितो भवति नापि क्षमति / यथा उष्ट्रेण वा गोणेन वा उरूयो ओमूत्रन्तेन गन्तुं, / अथ (18ब्6) खलु एकमन्तेन प्रश्वासो कर्त्तव्यो / अथ दानि कोचि भिक्षु पश्यति / नायं वक्तव्यो को एषो किम् वा कथम् वा एतं ति मा वेड्डो भवेय न्ति(त्ति) / तेनापि प्रश्वासं करियाण यदि ताव आहत्या पृथिवी भवति / काष्ठेन वा कठल्लेन वा उत्तच्छि(त्थि)य

च्छोरयितव्यं / (j.84) अथ दानि कृतकर्म्मा पृथिवी भवति धोवितव्या / सर्व्वत्र चेतियंगृहे गन्धकार्षी वा तैलकार्षी वा दातव्या / अथ दानि विभवो न (18ब्7) भवति / अन्तमसतो तहिं पृथिवीप्रदेशे तैलकार्षी वा गन्धकार्षी वा दातव्या / अथ दानि आरण्यकं शेय्यासनं भवति दुर्ल्लभो गन्धो अन्तमसतो तैलकार्षी दातव्या / एषो भिक्षुः गोचरं प्रविसति / प्रकृत्येव ताव प्रश्वासं करिय प्रविशितव्यं / अथ दानि भिक्षुः गोचरं प्रविष्टः प्रश्वासकृतो भवति / नापि क्षमति / अभ्यागमे प्रदेशे प्रश्वासं कर्त्तुं, / अथ ख(19अ1)लु या उ(त्)क्षिप्तरथ्या भवति तुण्डरथ्या तहिङ् गन्तव्यं / कुण्ड(ं) अग्रतो करियाण प्रश्वासो कर्त्तव्यो यो से द्वितीयो सहायो भवति / तेन पृष्ठतो स्थातव्यं / पराङ्मुखेन एषो भिक्षुः सार्थेन समानम् अध्वानं गच्छति / प्रश्वासकृतो भवति / नापि क्षमति / पन्थेस्मिं प्रश्वासं कर्त्तुं / मा जनो ओध्याये केन इमे पन्थे प्रश्वासो कृतो रुधिरं विय च्छन्दितुं / अथ खलु एकान्ते प्रश्वासो कर्त्तव्यो / (19अ2) पन्थातो उस्सरिय एकान्ते कर्त्तव्यं / नापि दानि क्षमति / अनुवातं कर्त्तुं, / मा सार्थो गन्धेन व्यावहेय्या / अपवातं कर्त्तव्यं / अथ दानि सार्थे सन्निविष्टे समुदा(चा)रो भवति / एकान्ते उच्चत्तिय कर्त्तव्यं / (j.85) न दानि अप्रतिसंविदितेन उच्चत्तितव्यं / मा चोरो वा ओचोरको वेति हन्येया / अथ खलु संविदितेन उच्चत्तितव्यं / नापि दानि अनुवर्त्तित(वातं कर्त्त)व्यं / अपवातं कर्त्तव्यं / नावारे(ये) (19अ3) गच्छन्तस्य समुदा(चा)रो भवति / यदि वर्च्चकुटी भवति तहिं कर्त्तव्यं //

अथ दानि वर्च्चकुटी न भवति भाजने कृत्वा उज्झितव्यं //

(i.p.95) अथ दानि ग्लानो भवति भिक्षुः पाण्डुरोगेण वैद्यो जल्पति / भञ्जेन्तं प्रतिमूत्रं पिबनाय देथे त्ति किं कर्त्तव्यं यदि ताव आत्मनको प्रश्वासो भवति / पुरिमपश्चिमकं च वर्जयित्वा मध्यमं गृह्नितव्यो / एवम् तस्य प्रतिग्रहः / (19अ4) अथ दानि अन्यातकं भवति पुरिमपश्चिमकञ् च वर्ज्यं कृत्वा गृह्नितव्यं / ततः पश्चात् प्रतिग्राहयितव्यं / तस्य ग्लानस्य सुमनाफुल्लं न (श)क्के ददियाणं वक्तव्यं / इमं खलु बुद्धप्रज्ञप्तं भैषज्यं पिब यदि जीवितुकामो सि / एवं प्रश्वासे प्रतिपद्यितव्यं / न प्रतिपद्यति // अभिसमाचारिकान् धर्म्मान् अतिक्रमन्ति // * //

ii.10 ms.19a4 (j.85.14); ch.505a23 भगवान् श्रावस्त्यां विह(19अ5)रति / शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा / अपरेण दानि भिक्षुणा सांघिकायं (j.86) भूमौ आम्रपोतको रोपितको सो दानि तं उन्नेति व(र्)द्धेति घटसिक्तको एकपुत्रको विय अपरेण भिक्षुणा आगच्छिय उप्पाडिय दन्तकाष्टं खायितं सो दानि तेन दृष्टो // सो दान् आह / आयुष्मन् एवं च दानि त्वं मम आ(19अ6)म्रपोतको घटसिक्तको एकपुत्रकं विय संवर्द्धितव्यं / उप्पाडिय दन्तकाष्ठं खादसि / एतं प्रकरणं भिक्षूहि श्रुतं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ तं भिक्षुं / सो दानि शब्दापितो भगवान् आह / सत्यं भिक्षु एवं नाम अपरेण भिक्षुणा सांघिकायां भूमौ आम्रपोतको रोपितो सो दानि तेन उन्नीतो वर्द्धितो घटसिक्तको एकपुत्र(19अ7)को विय त्वया सो अगे(आग)च्छिय उप्पाडिय भंजिय दन्तकाष्ठं खादितं / आह / आम भगवं भगवान् आह // एवं नाम त्वं पुष्पोपगतं वृक्षं उप्पाडिय दन्तकाष्ठं खादसि / तेन हि न क्षमति / दन्तकाष्ठं // * // एषा एवार्थोत्पत्तिः //

भगवान् श्रावस्त्यां विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण (i.p.96) निदानं कृत्वा भगवान् महतीये बालाकिनीये भिक्षुपर्या(षा)ये धर्म्मन् देशय(19ब्1)ति / ते दानि भिक्षू दन्तकाष्ठं न खादन्ता एकान्ते निषण्णा आसन्ति प्रवातगन्धिकेन मुखेन पश्यन्ति / मा सब्रह्मचारिं गन्धेन (j.87) व्यावहिष्यामः / भगवान् जानन्तो येव पृच्छति किं एते भिक्षवो भिक्षू एकान्ते आसन्ति / कलहितका विय मन्ये / भिक्षू आहंसु / भगवता दन्तकाष्ठं प्रतिक्षिप्तं / ततो एते भिक्षवो एकान्ते आसन्ति / प्रवातगन्धिकेन मुखेन पश्यन्ति मा सब्रह्मचा(19ब्2)री गन्धेन व्यावहिष्यामः / भगवान् आह / तेन हि अनुजानामि दन्तकाष्ठं प्रामाणिकं महान्तं षोडशाङ्गुलं, // * // एषैवार्थोत्पत्तिः //

भगवान् श्रावस्त्यां विहरति / ते दानि आयुष्मन्तो नन्दनोपनन्दना सवल्लरिकानि दन्तकाष्ठानि खादन्ति जनो दानि ओध्यायन्ति पश्यथ भणे श्रमणकाः / यथा कुमारका वा धर्म्मिष्ठा वा अक्षदर्शा वा गण(का) वा महामत्रा वा / एवम् इमे श्र(19ब्3)मणकाः सवल्लरिकानि दन्तकाष्ठानि खादन्ति / नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह शब्दापयथ नन्दनोपनन्दनां ते दानि शब्दापिता / भगवान् आह / सत्यं भिक्षवो नन्दनोपनन्दना एवं नाम यूयं सवल्लरिकानि दन्तकाष्ठानि खादथ / जनो दानि ओध्यायति पश्यथ भणे श्रमणका यथा (19ब्4) कुमारका वा धर्म्मिष्ठा वा गणका वा राजपुत्रा वा इमे श्रमणकाः सवल्लरिकानि दन्तकाष्ठानि खादन्ति / नष्टं भ्रष्टं कुतो इमेषां श्रामण्यं आहंसु / आम भगवन् भगवान् आह / एवं च दानि यूयं अप्रमाणानि दन्तकाष्ठानि खादथ / तेन हि प्रमाणिकं दन्तकाष्ठं खादयितव्यं / दन्तकाष्ठानि नाम त्रिणि ज्येष्ठं मध्यमं कनीयसं / ज्येष्ठं (j.88) नाम षोडशाङ्गु(19ब्5)लानि मध्यमं द्वादशाङ्गुलानि कनीयसम् अष्टाङ्गुलानि // * //

भगवान् श्रावस्त्याम् विहरति विस्तरेण निदानं कृत्वा अपरो दानि भिक्षु दन्तकाष्ठं खादति / तेन दानि खादन्तेन दन्तकाष्ठं थो(निर)वशेषं कृतं / तेन दानि भगवान् दृष्टो भगवतो गौरवेण सर्व्वम् अभ्यवहृतं / तस्य दानि अफांसु / एतं प्रकरणं भिक्षू भगवतो आरोचयें(19ब्6)सु / भगवान् आह / एवं च यूयं सर्व्वं, (i.p.97) निरवशेषं दन्तकाष्ठं खादथ तेन हि शेषाश् चत्वारि अङ्गुलानि दन्तकाष्ठस्य वर्ज्यं कर्त्तव्यं / अथ दानि भिक्षू आरण्यके शेय्यासने प्रतिवसन्ति / कल्पियकारो दुर्ल्लभो भवति किं कर्त्तव्यं / ज्येष्ठकानि दन्तकाष्ठानि कारापयितव्यानि / ततो भिक्षुणा दन्तकाष्टं खादिय कु(र्)च्चकं शस्त्रकेन च्छिन्दितव्यं / धोवियाणं थपयितव्यो / अपरं (19ब्7) दिवसं एवम् एव खादिय एवं ताव खादयितव्यं याव दन्तकाष्ठस्य चत्वारि अङ्गुलानि अवशिष्टानि ततो च्छोरितव्यं / सो एषो भिक्षुः निरवशेषं दन्तकाष्ठं खादति विनयातिक्रम(ं) आसादयति / दन्तकाष्ठं पि नाम खादन्तेन न क्षमति / स्तूपविग्रहे वा संघविग्रहे वा दन्तकाष्ठं खादिन्त(तु)ं / अथ दानि भिक्षुः ग्लानो भवति शिराविद्धको वा विरेचनपीतको वा घृत(20अ1)पीतको वा किञ्चापि संघविग्रहे दन्तकाष्ठं खादति / अनापत्तिः / नापि दानि क्षमति / दन्तकाष्ठं (j.89) खादन्तेन खेटं दिशोदिशं च्छोरयितुं / कु(र्)च्चको वा दिच्छद्दिय दिशोदिशं च्छोरयितुं / अथ खलु कट(टा)हके वा मल्लके वा कोटियां वा आविद्धपुटिकायाम् वा खेटं च्छोरयितव्यो वामेन च हस्तेन कु(र्)च्चको गृह्णितव्यः / पश्चात एकमन्तेन च्छोरयितव्यः / दन्तकाष्ठं पि दानि खादन्तेन नापि क्षमति /

उपस्थानशा(20अ2)लायाम् वा अग्निशालायाम् वा भक्तशालायाम् वा कल्पियशालायाम् वा कल्पिककुटिकायाम् वा संघमध्ये (वा) उपाध्यायाचार्याणाम् वा अग्रतो वृद्धतरकानाम् वा भिक्षूणां अग्रतो दन्तकाष्ठं खादितुं / नापि क्षमति मातृग्रामस्य अग्रतो दन्तकाष्ठं खादितुं, / नापि क्षमति / चेतियं वन्दन्तेन ओगुण्ठितशीर्षेण वा ओहितहस्तेन वा थ(चे)तियाति(भि)गृहे वा प्रासादे वा खा(20अ3)दितुं / एकांशीकृतेन एकान्ते खादितव्यं / नापि क्षमति / दन्तकाष्ठं खादिय मध्येन पाटियान जिह्वां निलेहितुं कामभोगिना यथा / अथ दानि भिक्षु जिह्वां निलेहितुकामो भवति / कुर्च्चकेन आमर्जयितव्या / नापि क्षमति विभूषणाभिप्रायेण दन्तकाष्ठं खादितुं //

अथ खलु दुर्ग्गन्धप्रहाणार्थं दन्तकाष्ठं खादितव्यं / अथ दा(20अ4)नि दन्तकाष्ठं न (i.p.68) भवति / अङ्गारेण वा / अपक्कलद्दुना वा दन्ता ओद्य(घ)(र्)सयितव्याः / (j.90) अन्तमसतो अंगुलि दन्तकाष्ठं खादितव्यं / स एषो भिक्षुः सर्व्वेण सर्व्वं दन्तकाष्ठं न खादति विनयातिक्रमम् आसादयति / एषो भिक्षु वे(चे)तियं वन्दति / पश्यति दन्तपोणं च्छोरयितव्यो / अथ दानि द्वे जना भवन्ति / यो नवको भवति / तेन (20अ5) उद्धृतव्या / अथ दानि नवको शैथिलिको बाहुलिको भवति वृद्धतरेण उद्धृतव्यो / एवं दन्तकाष्ठे प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

उद्दानं एवं शेय्यासने प्रतिपद्यितव्यं / एवं वर्षोपनायिको(के) शेय्यासने प्रतिपद्यितव्यं / एवं वर्षोपगतेहि शेय्यासने प्रतिपद्यितव्यं / एवं (20अ6) वर्षवुस्तेहि शेय्यासने प्रतिपद्यितव्यं / एवं आगन्तुकेहि शेय्यासने प्रतिपद्यितव्यं / एवं नैवासिकेहि शेय्यासने प्रतिपद्यितव्यं / एवं हि सर्व्वेहि शेय्यासने प्रतिपद्यितव्यं / एवं वर्चे प्रतिपद्यितव्यं / एवं प्रश्वासे प्रतिपद्यितव्यं / एवं दन्तकाष्ठे प्रतिपद्यितव्यन् ति// * //

// द्वितीयो वर्ग्गः // * //

(i.p.99) iii.1 ms.20a6 (j.91.1); ch.505c1 भगवान् श्रावस्त्यां विहरति / विस्तरेण निदानं कृत्वा पञ्चा(20अ7)र्थवशान् सम्पश्यमानास् तथागता अर्हन्तः सम्यक्सम्बुद्धा / पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्त्य् अनुविचरन्ति / कतमां पञ्च / कच्चि मे श्रावकाः / न कर्म्मारामाः / न कर्म्मरताः / न कर्म्मारामतानुयोगम् अनुयुक्ता विहरन्ति विस्तरेण यावद् अद्राक्षीद् भगवां पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो अनुविचरन्तो अन्यतरं भिक्षु भूमौ अस्तरिय चीवरं (20ब्1) सीवन्तं भगवां जानन्तो पृच्छन्ति किम् इदं भिक्षुः / आह / भगवन् इदं चीवरं सिवयामि / भगवान् आह / एवन् तं त्वं भूमीय अस्तरीय चीवरं सिवयसि / तेन हि कठिनं नाम कर्त्तव्यं / कठिनं ताव भिक्षुणा कारापयमाणेन द्वादशहस्तां आयामतो कर्त्तव्यो / अष्टहस्तां विस्तारेण वंशानां वा नलानाम् वा न(ं)गलानां वा काण्डानाम् वा चरुकानाम् वा रोहिषाणाम् वा सूत्रिकाय वा रेज्जुकाय वा (20ब्2) घण बुणितव्यं / यं कालं भिक्षुः चीवरं सीवितुकामो भवति / उपस्थानशालायां वा अग्निशालायां वा प्रासादे वा प्रहाणके कठिनं प्रज्ञापयित्वा चीवरं सीवितव्यं / कठिनं अस्तरियाणं पादां (j.92) धोवियाणं कठिनस्मिं पल्लंकेनोपविशियाणं तं चीवरं सीवितव्यं / अथ दानि अपरो पि कोचि सीवयि(तु)कामो भवति तेनापि पादां धोवयित्वा कठिनस्मिं पल्लंकेनोपविशिय चीवरं, (20ब्3) सीवयितव्यं / अथ दानि निषण्णो बाहिरकां पादां कृत्वा मू(सू)त्रं वलेन्तो आसति अनापत्तिः / अथ दानि भिक्षुः पादानं(नि) धोवयितुकामो भवति / न क्षमति / अधोतकेहि पादकेहि कठिनं ओक्रमितुं / अथ खलु बाह्येन कठिनस्मि पादानि

थपि/याणं चीवरं सीवयितव्यं / यं कालं चीवरं सीवितं भवति / कठिनं सव्व(न्व)टियाणं भित्तीये द्वे कीलकानि खनिय रज्जुए (20ब्4) बन्धिय तहिं उक्कवयितव्यं / यदि अपरो पि कोचि सीवयितुकामो भवति / तेनापि कठिनं अस्तरीय चीवरकं येच(व) तथा सीवयितव्यं / नापि क्षमति कठिनस्य रङ्गे वा शोधयितुं गोमयं वा चीवरकानि वा शोधयितुं / अथ खलु चीवरकं सीवयितव्यं / नापि क्षमति / कठिनं अध्युपेक्षितुं (i.p.100) / उल्लग्गकं वा पलुग्गकं वातातपेन विनासियन्तं वर्षेण वा ओव(20ब्5)र्षयन्तं पक्षीहि वा ओहयि(पि)यन्तां / (j.93) अथ खलु कालेन कालं बन्धितव्यं कालेन कालं प्रतिसंस्कर्त्तव्यो / अथ दानि कठिनं न भवति / मञ्चस्य वा उपरि चीवरं पीठस्य वा उपरि चीवरकं करियाणं सीवितव्यं / अथ दानि एवं न भवति / प्रहाणशालायाम् वा / उपस्थानशालायाम् वा मण्डलमाडे वा प्रदेशकं गोमयेन उपलिम्पिय चीवरकं सीवितव्यं / अन्तमस(20ब्6)तो जानुकानां पि उपरि चीवरकं थविय सीवयितव्यं / एवं कठिने प्रतिपद्यितव्यं / न प्रतिपद्यति //

अभिसमाचारिकान् धर्म्मान् अतिक्रामति // * //

iii.2 ms.20b6 (j.93.8); ch.505c11 भगवान् श्रावस्त्यां विहरति / अपरो दानि भिक्षुः प्रहाणकं उपविष्टो / सो दानि यथासुखं कृते विहारकं अपदुरिय प्रविशति शीतलकं च तेन आक्रान्तं तस्य भवति दीर्घको मया आक्रान्तो तस्य दानि तेन निवरे(र)णेन सर्व्व(20ब्7)रात्रिं चित्तं न समाधानं गच्छति / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु //

भगवान् आह / तेन हि चक्कली नाम कर्त्तव्या / चक्कली तावद् भिक्षुणा कारापयमाणेन कारापयितव्या / वंशानाम् वा नडानाम् वा नङ्गलानाम् वा कण्डानाम् वा रेज्जुकाये वा मू(सू)त्रकाये वा घणा बुणितव्या तथा कर्त्तव्या / यथा दीर्घको न संसक्कति / विहारस्य द्वारस्मिं उपरि त्रयो कीलकानि आटपितव्या (21अ1) तहिं चक्कली बन्धितव्या / ओसारियाणं हेष्ठे द्वे कीलकानां पीडियाण तहिं (j.94) बन्धितव्यं / यं कालं भिक्षुः प्रहाणं ओतरन्ति ततो द्वारं मुञ्चितव्यं / निवापियाण चक्कली ओसारियाणं कीलकेहि बन्धियाण ततो ओसारितव्यं / यं कालं प्रहाणस्य यथासुखं कृतं भवति / ततो विहारं गच्छियाणं चक्कली उत्क्षिपितव्या // नापि दानि सहसा अनेकायो मा तर्हि दीर्घको प्रविष्टो भवेप(21अ2)य न्ति(त्ति) / अथ खलु खटखटापयितव्यो काष्ठेन वा कठल्लेन वा ततो पश्चाच् चक्कली उत्क्षिपितव्या / प्रविशियाणं चक्कली ओसारयितव्या / द्वारं बन्धितव्यं / ततो प्रतिक्रमितव्यं पश्चिमं प्रहाणं ओतरितव्यं / द्वारं (i.p.101) अपदुच्चरितव्यं चक्कली उत्क्षिपियाणं द्वारं पिवि(धि)याणं चक्कली ओसारियाणं प्रहाणं ओतरितव्यं / प्रहाणतो यं कालं उत्थितो भवति / विहारं गच्छियाणं यदि (21अ3) (ता)व प्रभातं भवति / चक्कली उत्क्षिपियाणं उपरि बन्धितव्या // द्वारं अपदुरिय ततो प्रविशितव्यं / एवं देवसिकं न दानि क्षमति दिवसत ओसरयित्वा थपयितुं / नापि क्षमति सा चक्कली अध्युपेक्षितुं / उल्लग्गिका वा पलुग्गिका वा / प्राणकेहि (j.95) वा खज्जन्ति / अथ खलु कालेन कालं बन्धितव्या / कालेन कालं प्रतिसंस्कर्त्तव्या / एवं चक्क(21अ4)लीये प्रतिपद्यितव्यं / न प्रतिपद्येति // अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

iii.3 ms.21a4 (j.95.4); ch.505c17 भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा पञ्चार्थवसां संपश्यमाना याव विस्तरेण कृत्वा यावद् अद्राक्षीद् भगवान् पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो विहारां ओद्द्रिण्णकां पल्लुग्गकां उल्लापे(ये) गृहीतकां अचौक्षां अप्रतिसंस्कृतां / भ(21अ5)गवान् जानन्तो येव पृच्छति / किं के(इ)मे भिक्षु विहारका ओद्द्रिण्णका पलुग्गका ओल्लाये गृहीतका अचौक्षा अप्रतिसंस्कृता तेन हि एवं विहारे प्रतिपद्यितव्यं / विहारा नाम त्रीणि ज्येष्ठको मध्यमको कनीयसको ज्येष्ठको नाम विहारको भूमि भवति / माषकान(ल)वल्ला(र्ण्णा) उल्लोको भवति / प्रपाण्डरा भित्ति भवति / कृतकर्म्मा एवं ज्ये(21अ6)ष्ठको किन् ति मध्यमको किन् ति दानि मध्यमको मध्यमको नाम विहारको भवति / माषकालवर्ण्णा भित्ति भवति कृतकर्म्मा / न च भवति / उल्लापो प्रपाण्डरो एवं मध्यमको / किन् ति दानि कनीयसको भूमि भवति / माषकालवर्ण्णा नापि भवति / उल्लापो प्रपाण्डरो नाहैव भित्ति कृतपरिकर्म्मा एवं कनीयसको / यो दानि ज्येष्ठको भवति विहारो नायं क्षमति / तहिं मंचा (21अ7) वा पीठा वा प्रविशितुं / अथ (j.96) खलु (i.p.102) चत्वारि प्रतिपादका कर्त्तव्या / मा भूमी खनीयं ति प्रवेशियाणं ततो तहिं प्रतिपादकानां / उपरि थपेतव्यो / अथ दानि प्रतिपादको न भवति / लेङ्कटकेहि पादा बन्धितव्या / पीठं प्रवेशेति / पीठस्यापि एवं य्येव आसन्दकं तृपादकं वा प्रवेशेति / तस्यापि लेङ्कटकेहि पादका बन्धितव्या / नापि तहिं क्षमति / मन्दमुखी प्रज्वा(21ब्1)लयितुं / दीपको वा प्रवेशयितुं / अथ दानि भिक्षुः शेय्यां प्रज्ञपयितुकामो भवति / किञ् चापि

दीपकं प्रवेशेति / अनापत्तिः / शेय्यां प्रज्ञपयन्तेनैव च्छि(च्छ)त्ति निक्कालयितव्या नापि क्षमति / तहिं पादां धोवितुं हस्तां धोवितुं मुखं धोवितुं नापि क्षमति तहिं चंक्रम चंक्रमितुं //

पत्थोलिं धुनन्तेन / अथ दानि भिक्षु ग्लानो भवति किञ् चापि षटपञ्च गतांगतां देति अनाप(21ब्2)त्तिः / नापि दानि क्षमति / एकेनान्तेन / अथ खलु समन्तेन चंक्रमितव्यं / न यं बोलि ड(उ)द्वापयन्तेन / न क्षमति तहिं भक्तकृत्यं पुरे(j.97)भक्तिकं वा कर्त्तुं पात्रं वा निर्म्मादयितुं / अथ दानि मध्य(म)को भवति / मध्यमके पि एषो एव पर्यायो अनन्यो अधिकृतो / अथ दानि कनीयसको विहारको भवति / किञ् चापि भिक्षुः विना प्रतिपादकेहि मञ्चकं थपेति / अनापत्तिः / (21ब्3) पीठकम् वा पीठिकाम् वा तृपादकम् वा विना प्रतिपादकेहि थपेत्ति अनापत्तिः / मन्दमुखीम् वा प्रज्वालेति / अनापत्तिः / दीपं वा प्रवेशेति / अनापत्तिः / ग्लानो वा अग्लानो वा अनापत्तिः / किं चापि चंक्रमति / अनापत्तिः / जानितव्यं / यदि ताव उपेडनको सो विहारको भवति / नापि तहिं क्षमति / पादां धोवितुं हस्ताम् वा निर्म्मादयितुं / (21ब्4) अथ दानि उपंसुलको भवति / किञ् चापि भिक्षुः पादाम् वा धोवति मुखम् वा धोवति / हस्तम् वा निर्म्मादयति / रजोनिग्रहं काहेति त्ति अनापत्तिः / भक्तकृत्यम् वा पुरोभक्तिकम् वा करोति / पात्रम् वा निर्म्मादयति / अनापत्तिः / नापि क्षमति विहारको अध्युपेक्षितुं / ओद्द्रिण्णको वा पलुग्गको वा ओल्लाये गृहीतको वा अचोक्षो वा (21ब्5) अध्युपेक्षितुं / अथ दानि ओद्द्रिण्णको भवति / तृणच्छदनो भवति तृणपुलको दातव्यो (i.p.103) मृत्तिकाच्छदनो भवति / मृत्तिकापिण्डो दातव्यो / इष्टकाच्छदनो भवति / इष्टका दातव्या / अपक्कच्छदनो (j.98) भवति / अपक्का दातव्या / कभल्लकाच्छदनो भवति / कभल्लका दातव्या / फलकच्छदनो भवति / फलकं दातव्यं /

सुधा(21ब्6)च्छदनो भवति / सुधापिण्डो दातव्यो / कालेन कालं शोधयितव्यो / संतानिका सातयितव्या / मूषिक-उक्किरो वा कोटयितव्यो / उकूलनिकूलो भवति / समो कर्त्तव्यो / चिक्खलिका पूरेतव्या / वंघोरिका दातव्या / उल्लापे(ये) गृहीतको भवति / शाटियाणं लिप्तोपलिप्तो घष्टमष्टो कर्त्तव्यो / उप्पेडनको भवति / पांसुकेन वा शर्करोटेन वा प्र(21ब्7)त्यास्तरितव्यो / उपांसुलको विहारको भवति / कालेन कालं सिञ्चितव्यो / संमार्जितव्यो / गोमयकार्षी दातव्या / श(ं)तानिका शाटयितव्या / एवं विहारे प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति //

* //

iii.4 ms.21b7 (j.97.3); ch.505c29 भगवान् श्रावस्त्याम् विहरति / पञ्चार्थवंशा(शां) विस्तरेण कृत्वा याव अद्राक्षीद् भगवान् पञ्चाहिकां विहारचारिकाम् अनुचंक्रमन्तो (22अ1) अनुविचरन्तो विहारका(ना)ं पक्क-खेटेन वा पक्क-सिंघाणकेन भित्तीयो विनासितायो सिंघाणकवर्त्तीहि लम्बन्तेहि / भगवान जानन्तो येव पृच्छति / किं इमायो भिक्षवे विहारकानां भित्तियो पक्क-खेटेन पक्कसिंघाणकेन वर्त्तीहि लम्ब(j.99)न्तीहि / तेन हि एवं खेटे प्रतिपद्यितव्यं / किन् ति दानि एवं खेटे प्रतिपद्यितव्यं नायं क्षमति / भिक्षुणा कृतकर्म्मायां वा अकृ(22अ2)तकर्म्मायां वा भित्तीयं खेटम् वा सिंघाणकम् वा च्छोरयितुं // अथ खलु खेटकटाहं कर्त्तव्यं / कपालं वा मल्लम् वा कुण्डिकम् वा दकानकम् वा लिप्तोपलिप्तं करिय वालिकाये वा पाषाणस्य वा पत्थलिद्द्रकानां वा पूरयितव्यं / ततो तहिं खेटे(टो) कर्त्तव्यो / नापि क्षमति खेटकटाहकं अध्युपेक्षितुं / मा सप्रमाणको भवेय / अथ खलु कालेन कालं च्छो(22अ3)रिय अन्यस्य पूरयितव्यं / आतपे वा दातव्यो यो(सो) भूयो प्रवेशयितव्यो / अथ दानि (i.p.104) खेटकटाहकं भवति मल्लकं वा कोटिकम् वा आविद्धपुटिका वा थपेतव्या तहिं खेटो कर्त्तव्यो / कालेन कालं विसर्जयितव्यो // अथ दानि एवं पि न भवति / कृतकर्म्मा भूमि भवति न क्षमति / भूमीये च्छोरयितुं / अथ खलु एकस्य उपानहाये (22अ4) तले च्छोरयितव्यं द्वितीयेन मर्द्दयितव्यं / अथ दानि उप्पंसुलो विहारो भवति / भूमीये च्छोरिय पादेन मर्द्दितव्यो / एषो भिक्षुः दिवाविहारंगतो चंक्रमति / श्लेष्मिको भिक्षु भवति / इतो च च्छोरियन्तो चंक्रमति विनयातिक्रमम् आसादयति / अथ खलु च्छोरियाण पादेन मर्दितव्यं / चंक्रमशीर्षे वा आविद्धपुटिका वा (j.100) वालिका(22अ5)ये वा कूटिमल्लकं वा थपेतव्यं, / तहिं खेटो च्छोरयितव्यो / यं कालं गच्छति / ततो एकतमंते च्छोरयितव्यो / प्रहाणे आसन्तस्य खेट बाधति / ओपानहपुटे कृत्वा भूमिंये मर्दितव्यं, //

अथ दानि भूम्यस्तारो भवति भाजने कर्त्तव्यं / कुन्तके वा अलाबुके वा वंशत्थोलिकायां वा / अथ दानि उच्छदो भवति / खेटम् वा सिंघाणकं, (22अ6) वा उत्थित्वा एकान्ते कृत्वा पुनः / उपवेष्टव्यं / उपाध्यायाचार्याणां वा मूले खेटं व्यावहति / एकान्ते कर्त्तव्यं / एषो दानि भिक्षुस्य गोचरं प्रविशन्तस्य अथा(ध्वा)नमार्ग्गगतस्य वा खेटे आगच्छति च्छोरिय पादेन मर्दितव्यो / अमर्दिय गच्छति विनयातिक्रमम् आसादयति / अथ दानि क्षुद्रो खेटे उपांसुलो च भूमी भवति / च्छोरन्तको य्येव पर्या[दानं] गच्छ(22अ7)ति / किं चापि न मर्द्दति / अनापत्तिः / एषो भिक्षुः स्तूपं वन्दति स्तूपाभिगृहे वा खेटं च्छोरितकं केन चि अप्रकृतिज्ञो न पादेन मर्दितव्यो / अथ दानि द्वे जना भवंति / यो नवको भवति / तेन मर्द्दितव्यं / अथ दानि नवकतरो शैथिलिको बाहुलिको वा भवति / वृद्धतरकेन मर्दितव्यं / एवं खेटे प्रतिपद्यितव्यं, / न प्रतिपद्यति // अभिसमाचारिकान् धर्म्मान् अति(22ब्1)क्रमति // * //

iii.5 ms.22b1 (j.101.1); ch.506a17 (j.101) भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा अपरेण दानि भिक्षुणा मुण्डे वातपाणे पात्रं स्थवितं तन् दानि वातमण्डलिकाये (i.p.105) आगच्छियाणं भूमीयं पातितो भिन्नो कपालानां राशिं कृत्वा यवागूये गण्डी आकोटिता सो दानि हस्तां निर्म्मादिय विहारकं प्रविष्टो पश्यति / कपालिकानां राशिं एतं प्रकरणं यो(सो) भिक्षुः भगवतो आरोच(22ब्2)ये / भगवान् आह / एवं च त्वं मुण्डवातपाने पात्रं थपेसि तेन हि एवं पात्रे प्रतिपद्यितव्यं / किन् ति दानि एवं पात्रे प्रतिपद्यितव्यं / भिक्षुणा ताव कल्यतो येच(व) निवासिय प्रावरिय पात्रचीवरम् आदाय गोचरं प्रविशितव्यं / गोचरातो निर्द्धाविय आहारं करीय पात्रं निर्म्मादयितव्यं / नापि क्षमति / कर्कशेन वा चूर्ण्णेन कर्कशेन वा गोमयेन निर्म्मादयितुं // अथ (22ब्3) खलु मूलरसेन वा पत्ररसेन वा पुष्परसेन वा निर्व्वालिकेन वा गोमयेन निर्म्मादयितव्यं नापि क्षमति विल्वस्य वा पक्वस्य कपित्थस्य पक्वस्य नालिकेरस्य हेष्ठे निर्म्मादयितुं, / मा पक्वेन वा विल्वेन पक्वेन वा कपित्थेन पक्वेन वा नालिकेरेण भंजेय न्ति(त्ति) / नापि क्षमति दरिनिश्रितेन वा पात्रं निर्म्मादयितुं / मा पतितं भञ्जय न्ति(त्ति) (22ब्4) अथ खलु कर्षधाने वा वालिकाधाने वा दूर्व्वासाद्वले वा निर्म्मादयितव्यं / नापि क्षमति स्थितकेन पात्रं निर्म्मादयितुं // नापि क्षमति (j.102) भूमीये घसन्तेन // अथ खलु उपविष्टे(ष्ट)केन निर्म्मादयितव्यं / अध्वावयन्तेन नापि / क्षमति / स्थितकेन अध्वापयितुं // अथ खलु उपविष्टेन अध्वापयितव्यं / प्रतिसामयन्तेन नापि क्षमति / जंघा(22ब्5)पथे वा स्थापयितुं / कपाटो(टे) वा मुण्डवातायने वा / अथ खलु पात्र प्रवेशिकायां प्रक्षिपिय स्थपेतव्यं / नापि क्षमति स्थितकेन प्रक्षिपितुं // अथ खलु उपविष्टकेन प्रक्षिपितव्यं / पात्रप्रसेविकानागदन्तके वा कीलके वा उक्कचिय थपेतव्या / अथ दानि उज्जुको कीलको भवति / दुवे त्रयो वा अवेढका दातव्याः / अथ दानि नागदन्तको (22ब्6) भवति / किञ् चापि एवम् एव थपेति / अनापत्तिः //

पात्रप्रसेविका न भवति पात्रपीठके थपेतव्यं / अथ दानि पात्रपीठकं न भवति / काष्ठम् वा इष्टकम् वा उपलम् वा निरामिषं निर्म्मादिय तस्य उपरि स्थपेतव्यं / अथ दानि एवं पि न भवति / अन्तमसतो पृथिवीप्रदेशं (i.p.106) पि गोमयेन उपलिम्पिय थपेतव्यं / गृह्नन्तेन नापि क्षमति / एकहस्तेन दुवे त्रयो वा पात्राणि गृह्नितुं, / अ(22ब्7)थ खलु परमं त्रयो पात्राणि गृह्नितव्यानि / एकहस्तेन द्वे गृह्नितव्याः / अपरेण दानि एकं / अथ दानि प्रत्यन्धकारको विहारको भवति / न क्षमति / पात्रेण पात्रं मार्ग्गितुं //

अथ खलु हस्तेन मार्ग्गितव्यं / अथ दानि भिक्षुः उपाध्यायस्य चा(वा)चार्यस्य वा पात्रम् अल्लीपयति नापि क्षमति / उपाध्यायस्य वा आचार्यस्य वा पात्रं वामेन (j.103) हस्तेन अल्लीपयितुं, / अथ खलु (23अ1) उपाध्यायस्य वा आचार्यस्य वा दक्षिणेन हस्तेन पात्रं अल्लीपयितव्यं / नापि क्षमति / गृहीतं न गृहीत न्ति(त्ति) / ततो मुञ्चितव्यं / ओकड्ढन्तेन सुगृहीतं कर्त्तव्यं / निर्म्मादयन्तेन प्रथमं उपाध्यायस्य वा आचार्यस्य वा पात्रं निर्म्मादयितव्यं / पश्चाद् आत्मनो शोषयन्तेन प्रथमं उपाध्यायस्य वा आचार्य्यस्य वा शोषयितव्यं / पश्चाद् आत्मनो प्रतिसामयन्तेन प्रथमं उपा(23अ2)पाध्यायस्य वा आचार्यस्य वा प्रतिसामयितव्यं / पश्चाद् आत्मनो प्रवेसिका कर्त्तव्या / दुपुटा तृपुटा प्रसेविकायां प्रक्षिपियन्तेन कलावीयं दाडीयं / अंसिबद्धकं प्रक्षिपित्वा समवस्थाय उपविष्टकेन उत्सङ्गस्य उपरि प्रक्षिपितव्यं / मञ्चस्य वा पीठस्य वा उपरि प्रक्षिपितव्यं / उल्लयन्तेन कीर्ण्ण(ल)कं हस्तेन प्रत्यवेक्षित्वा मञ्चस्य वा पीठस्य वा उपरि जालवाताय(23अ3)ने वा पात्रमेलके वा यथा न घट्टेंसु नापि क्षमति / पात्रं अध्युपेक्षितुं फलकेन वा खज्जन्तं खण्डं वा च्छिद्रम् वा / अथ खलु कालेन कालं दहितव्यं / पचितव्यं / रञ्जितव्यं / न दानि क्षमति / पात्रेण अप्रयतं गृह्नितुं / उच्चारो वा प्रस्रावो वा खेटं वा सिंघाणकं वा विघसो वा संकारो वा अन्यम् वा अप्रयत्तं ग्रहेतुं, / नापि दानि क्षमति / पात्रे(23अ4)ण केषां (j.104) ओतारयितुम् वा पादं वा मुखं वा धोवितुं / जेन्ताकम् वा प्रवेशितुं / उदककृत्यं वा कर्त्तुं, / यथा अक्षिस्मिं एवं पात्रे प्रतिपद्यितव्यं / न

प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रामति //

* //

(i.p.107) iii.6 ms.23a4 (j.104.4); ch.506b13 भगवान् श्रावस्त्यां विहरति / ते न दानि आयुष्मतो षड्वर्ग्गिकाः / एकत्यं यवागूं निन्दन्ति / एकत्यं प्रसंसन्ति / यो ताव त्प(पे)लंवा भवति / (23अ5) जल्पन्ति / हे हे हे नायं किञ्च(चि)द् यागु गङ्गा अयं सरयू अजिरवती मही महामही त्ति निचुडबुन्तिकाये इमंहि तण्डुला मार्ग्गितव्या //

अथ दानि खक्खट भवति जल्पति / हे हे हे नायं किञ्चि यवागू लेच्छं अयं पेय्या अयं पेय्या अयं कट्टारिका च्छेज्जा अयं ते दानि भिक्षू उत्क्षिप्ता भवन्ति / जिह्मा(ह्वा) वेड्ढा निष्प्रतिभानाः / एतं प्रकरणं भि(23अ6)क्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ षड्वर्ग्गिकां ते दानि शब्दापिताः / एतद् एव पृच्छियन्ति / आह / आम भगवन् भगवान् आह / तेन हि एवं यवागूये प्रतिपद्यितव्यं / किन् ति दानि एवं यवागूये प्रतिपद्यितव्यं / एषो दानि यवागूये समयो आरोचितो भवति / ततो जानितव्यं / किम् अयं यवागू उभयतो सांघिकापर्या(षा)ये परिवेणिका निमन्त्रितिका(23अ7)यां / यदि ताव उभयतो सांघिका भवति सर्व्वेहि (j.105) गन्तव्यं / पार्थिका भवति / ताये पर्या(षा)ये गन्तव्यं परिवेणिका भवति / तेहि परिवेणिकेहि गन्तव्यं निमन्त्रितका वा भवन्ति / तेहि निमन्त्रितकेहि गन्तव्यं / प्रतिकृत्येव ताव भिक्षुणा दन्तकाष्ठं खादयितव्या(व्यं /) मुखं धोविय हस्तां निर्म्मादिय पात्रं गृह्निय उपविशितव्यं / नापि क्षमति यवागू उपानहारूढेन वा प्रतिच्छितुं / (23ब्1) ओगुण्ठिकाकृतेन वा समंतप्रावृतेन वा प्रतिच्छितुं / अथ खलु उपानहा निखोसिय एकांशकृतेन यवागू प्रतिच्छितव्या / अथ दानि दण्डकर्म्म प्रतिदिन्नं भवति / पा(र्)ष्णिवब्रा(द्ध्रा) ओमुञ्चितव्या द्वितीयकालिकस्य लाभग्राहं अध्येषित्वा गन्तव्यं / अथ दानि उपविष्टकानां (पटि)पाटिकाये (i.p.108) दीयति / यथा वृद्धिकाये गृह्नितव्यं / यदि ताव तनुका भवति / न वक्तव्यं / हे हे हे गङ्गा आयं सर्व्वं या(23ब्2)व मही चन्द्रभागा अयं / अथ दानि अतिघना भवति न वक्तव्यं / नायं यवागू ओदनो

अयं दण्डासनि भेज्जा अयं / अथ खलु यादृशी दीयति तादृशी प्रतिच्छिता दायकवशो (j.106) न प्रतिग्राहकवशो //

अथ दानि भिक्षुः / जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति / अतिशीतम् वा अति-उष्णम् वा भिक्षु नैव दन्तकाष्ठं खादति / न मुखं धोवति / न हस्ता निर्म्मादयति / आनन्त(23ब्3)र्यस्य या पात्रं दातव्यं / वक्तव्यं आयुष्मन् इमं मम यवागूये प्रत्यंशं गृह्न / यं कालं प्रतिच्छिता भवति / ततो परिभुञ्जितव्या / एते विलम्बका यवागूः निन्दन्ति वा प्रसंसन्ति वा विनयातिक्रमं आसादयन्ति / एवं यवागूये प्रतिपद्यितव्यं / न प्रतिपद्यति //

अभिसमाचारिकान् धर्म्मान् अतिक्रमति // * //

iii.7 ms.23b3 (j.106.8); ch.506b28 भगवान् श्रावस्त्यां विहरति विस्तरेण निदा(23ब्4)नं कृत्वा अपरो दानि भिक्षुः योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति / अपरो दानि भिक्षुः / आगच्छिय तस्य पुरतो स्थितो तस्य दानि तेन नीव(र)णेन चित्तं समाधानं न गच्छति एतं प्रकरणं सो योगव(गाचा)रो भगवतो आरोचये भगवान् आह / शब्दापयथ तं भिक्षुं सो दानि शब्दापितो / भगवान् आह / सत्यं भिक्षु (23ब्5) एवं नाम अपरो योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यन् ति / त्वं दानि तस्य पुरतो आगच्छिय स्थितो तस्य दानि तेन नीवरणेन चित्तं समाधानं न गच्छति / आह / आम भगवन भगवान् आह / दुष्कृतं ते भिक्षु एव(ं) च त्वं योगाचारस्य भिक्षुस्य पुरतो तिष्ठसि तेन हि एवं स्थातव्यं / किन् ति दानि एवं स्थातव्यं / नायं ताव क्षमति (j.107) भि(23ब्6)क्षुणा योगाचारस्य भिक्षुस्य पुरतो तिष्ठितुं नापि क्षमति वेशिका समन्तकेन वा तिष्ठितुं / वधबन्धनागारशालासामन्तेन वा तिष्ठितुं / नायं क्षमति / अतिगुप्ते वा अतिप्राकटे वा प्रदेशे तिष्ठितुं / अथ खलु च्छन्नप्राकटे प्रदेशे स्थातव्यं / न (i.p.109) क्षमति स्तूपं वा पृष्ठतो कृत्वा तिष्ठितुं, / संघं वा उपाध्यायाचार्यम् वा वृद्धतरकं वा पृष्ठतो कृत्वा तिष्ठितुं / उपानहारूढेन (23ब्7) वा तिष्ठन्तु खंभकृतेन वा ओगुण्ठितशीर्षेण वा ओवाहितहस्तेन वा नापि क्षमति संघमध्ये मा तिष्ठ ति उक्तो तिष्ठितुं / उपाध्यायाचार्येहि वा उक्तेन समानेन मा तिष्ठेति तिष्ठति विनयातिक्रमम् आसादयति / अथ दानि ग्लानो भवति / किञ् चापि ओपानहारुढो ओगुण्ठितशीर्षो वा ओहितहस्तो वा तिष्ठति / अनापत्तिः / एवं स्थातव्यं न तिष्ठति // अभिसमाचारिकान् धर्म्मान् अतिक्रा(24अ1)मति // * //

iii.8 ms.24a1 (j.107.13); ch.506c16 भगवान् राजगृहे विहरति शास्ता देवानाञ् च मनुष्याणाञ् च विस्तरेण निदानं कृत्वा अपरो दानि भिक्षुः / योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति / अपरो दानि भिक्षुः / आगत्वा तस्य पुरतो तालपादुकाहि आबद्धाहि दीर्घचंक्रमं चंक्रमति / टप्य टटप्य टप्य टटप्य न्ति(त्ति) तस्य (j.108) दानि तेन शब्देन चित्तं न समाधानं गच्छति / एतं प्रक(24अ2)रणं सो योगाचारो भगवतो आरोचये / भगवान् आह / सत्यं भिक्षु एवं नामा अपरो योगाचारो वैदेहके पर्व्वते निषण्णो चित्तं समाधयिष्यामीति / तद् एवं सर्व्वं भगवान् विस्तरेण प्रत्यारोचयति / याव तस्य दानि तेन शब्देन चित्तं न समव(मा)धानं गच्छति / आह / आम भगवन् भगवान् आह / दुष्कृतं ते भिक्षुः / एवं च त्वं योगाचारस्य भिक्षुस्य पुरतो चंक्रमसि / तेन हि (24अ3) एवं चंक्रमितव्यं / किन् ति दानि एवं च(ं)क्रमितव्यं / नायन् ताव क्षमति भिक्षुणा योगाचारस्य भिक्षुस्य पुरतो चंक्रमितुं / नापि क्षमति स्तूपम् वा पृष्ठतो कृत्वा चंक्रमितुं / संघं वा पृष्ठतो कृत्वा चंक्रमितुं / उपाध्यायाचार्यम् वा पृष्ठतो कृत्वा चंक्रमितुं / एषो दानि भिक्षुः / उपाध्यायेन वा आचार्येण वा सार्द्धं चंक्रमति / उपाध्यायस्य वा आचार्यस्य अति(24अ4)रेकं चंक्रमितुं नापि क्षमति / समं चंक्रमयितुं / अथ खलु द्वे त्रयो वा पदा (i.p.110) निहिनकेन चंक्रमितव्यं / संघमध्ये वा चंक्रमति / मा चंक्रमाहीति उक्तेन न चंक्रमितव्यं / अथ दानि ग्लानो घृतं वा पीतं / विरेचनं वा पीतं किञ् चापि चंक्रमति / तन् न क्षमति /

पुरतो समं वा गन्तुं ओहयित्वा गन्तव्यं / अनुवरिवर्त्तन्तेन तदा न क्षमति / उ(24अ5)पाध्यायाचार्याणां वा पृष्ठतो कृत्वा परिवर्त्तित(तु)ं / अथ खलु अभिदक्षिणं अग्रतो करेन्तेन अनुपरिवर्त्तितव्यं / नापि क्षमति वेसिकासामन्तकेन चंक्रमितुं / नापि क्षमति द्युतिकरशालासामन्तकेन चंक्रमितुं, / वधबन्धनागारसामन्तेन चंक्रमितुं / (j.109) नापि क्षमति अतिप्राकटे वा प्रदेशे चंक्रमितुं / अथ खलु च्छन्नप्राकटे प्रदेशे (24अ6) चंक्रमितव्यं / एवं चंक्रमे प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रमति* ////

iii.9 ms.24a6 (j.109.4); ch.507a4 भगवान् श्रावस्त्याम् विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः / उष्ट्(र्)अपर्यंकेन प्रहाणं उपविंश(शं)ति / अनन्तरिकानां जानुकेहि व्यावहन्ति / एतं प्रकरणं भिक्षू भगवतो आरोचयेंसु / भगवान् आह / शब्दापयथ षड्वर्ग्गिकान् ते दानि शब्दापिताः / भग(24अ7)वान् आह / सत्यं भिक्षवो षड्वर्ग्गिका एवं नाम यूयं उष्ट्रपर्यङ्केन प्रहाणे निषीदथ / अनन्तरिकानां जात(नु)केहि व्यावहथ आहंसु / आम भगवन भगवान् आह / दुष्कृतं भिक्षवो षड्वर्ग्गिकाः / एवं च यूयं उष्ट्रपर्यङ्केन प्रहाणे निषीदथ / तेन हि (न) क्षमति / उष्ट्रपर्यङ्केन प्रहाणे निषीदितुं / भगवान् / तान् भिक्षून् आमन्त्रयति / एवं भिक्षवो निषीदथ / यथा नाग(24ब्1)हिमवताः / एकं नागं द्वे नागा अनुपरिधा(वा)र्य निषीदन्ति / द्वे नागा चत्वारि नागा अनुपरिवार्य निषीदन्ति चत्वारि अष्ट अष्ट षोडश षोडश (द्वात्रिंशद्) द्वात्रिंशच् चतुषष्टि नागा अनुप(रि)वार्य निषीदन्ति / (j.110) अथोत्तरेण यथानुभावं न क्षमति / उष्ट्रपर्यङ्केन निषीदितुं, / भिक्षुणापि ताव स्वस्ति(क)पर्यङ्केन प्रहाणे निषीदितव्यं / अथ दानि (i.p.111) भिक्षु पर्यङ्केन निषण्णो भवति श्रान्तो भ(24ब्2)वति / गर्भानि आमिलायन्ति / नापि क्षमति / उभयानि सन्धी मटमटाये प्रसारितुं / अथ खलु एको पादो सुखाकं प्रसारयितव्यो तं अमुहूर्त्ते विश्रामिय सन्मिञ्जिय द्वितीयो पादो सुखाकं प्रसारयितव्यो / उत्थिपित्वा वा एकान्ते चंक्रमितव्यं / न क्षमति / ओगुण्ठितशीर्षेण प्रहाणे उपवेष्टुं / अथ दानि जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति / शीर्षम् वा (24ब्3) दुःखति / अर्द्धशीर्षस्य पिथेतव्यं / एको

च कर्ण्णो / अथ दानि एकान्ते भवति उच्छेदके वा वृक्षमूलके वा विहारे वा प्रतिसंलीनको किञ् चापि ओगुण्ठितशीर्षो निषीदति / अनापत्तिः / अमूहूर्त्तकं विश्रमिय भूयो स्वस्तिकपर्यङ्केन निषीदितव्यं //

अथ दानि भिक्षु न पारेति / स्वस्तिकपर्यङ्केन निषीदितुं / [अर्द्धपर्यङ्केन] (24ब्4) निषीदितव्यं / अथ दानि अर्द्धपर्यङ्केनापि न पारेति निषीदितुं, / उभौ पादौ ओसारिय सुसंवृतेन निषीदितव्यं / तथा कर्त्तव्यं / यथानन्तर्यं जानुकेहि न व्यावहति / न क्षमति / स्तूपं पृष्ठतो करीय निषीदितुं / संघम् वा पृष्ठतो करीय निषीदितुं, / उपाध्यायाचार्याणां वा पृष्ठतो करिय निषीदितुं / वृद्ध[तरकं वा पृ]ष्ट(ष्ठ)तो (24ब्5) करीय निषीदितुं / नापि क्षमति संघमध्ये मा निषीद न्ति(त्ति) / उक्तेन समानेन (j.111) निषीदितुं / नापि क्षमति / उपाध्यायाचार्येहि मा निषीद न्ति(त्ति) / उक्तेन निषीदितुं नापि क्षमति वेसिकासामान्तेन द्युतिकरशालासामन्तकेन निषीदितुं / वधबन्धनागारशालासामन्तकेन निषीदितुं, / अतिभुंडे वा प्रदेशे निषीदितुं / अथ खलु च्छन्नप्रा(24ब्6)कटे प्रदेशे निषीदितव्यं, / एवं निषद्ये प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रामति // * //

iii.10 ms.24b6 (j.111.7); ch.507a15 भगवान् श्रावस्त्यां विहरति ते दानि आयुष्मन्तो षड्वर्ग्गिकाः / ओमुद्धकापि शेय्यां कल्पेन्ति / उत्तानकापि शेय्या कल्पेन्ति / वामेनापि पार्श्वेन शेय्यां कल्पेन्ति / एतं प्रकरणं भिक्षूहि श्रुतं / भिक्षू भगवतो आरोचयेंसु / भगवान् आह / (24ब्7) शब्दापयथ षड्वर्ग्गिकां / ते दानि शब्दापिता / भगवान् आह / सत्यं भिक्षवो षड्वर्ग्गिकाः / एवं नाम यूयं ओमुद्धकापि (i.p.112) शेय्यां कल्पेथ / वामेनापि पार्श्वेन शय्यां कल्पेथ / आहंसु / आम / भगवं भगवान् आह / दुष्कृतं वो भिक्षवो षड्वर्ग्गिकाः / तेन हि न क्षमति / उत्तानकेन शेय्यां कल्पितुं / न क्षमति / ओमुद्धकेन शेय्यां कल्पयितुं / न क्षमति / वामे(25अ1)न वा पार्श्वेन शेय्यां कल्पयितुं / भगवान् दानि भिक्षून् आमन्त्रयति / (j.112) ओमुद्धका भिक्षवो प्रेता शेय्यां कल्पयन्ति / उत्तानका भिक्षवो आसुरा शेय्यां कल्पयन्ति / वामेन पार्श्वेन कामोपभोगिनः / शेय्यां कल्पयति / एवं भिक्षवो शेय्यां कल्पेथ / यथा सिंहो मृगराज सिंहो भिक्षवो मृगराजा दक्षिणेन पार्श्वेन शेय्यां कल्पयति / पादेन पादं आधाय दन्तेन द(25अ2)न्तं आधाय जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा / अङ्गुलं अनुकायं आयच्छिहित्वा दक्षिणां बाहं शिरस्य् उपनिधाय वामं बाहाम् अनुकायं प्रसारयित्वा सो पि प्रतिबोधनां(नन्)/तेन पुरिमं कायं अभ्युन्नामेति / पृष्ठिमं कायं अभिविलोकयति / स चेत् पश्यति / गात्राणाम् अन्यथात्वं तेन भवति / अनात्तमनो च पश्यति / गात्राणाम् अन्यथात्वं तेन भवति चित्ते आ[त्तमनो] अ(25अ3)भिरद्धो भिक्षुणापि ताव शेय्यां प्रज्ञपेंतेन अभिदक्षिणां प्रज्ञपयितव्या /

य(त)था कर्त्तव्या यथा संप(य)तको येव दक्षिणेन पार्श्वेन शय्यां कल्पेति / न क्षमति / वामेन शय्यां प्रज्ञपेतुं / दक्षिणशय्या प्रज्ञपेतव्या / चीवरवंशस्य हेष्ठतो रात्रीये पुरिमं यामं उद्देशप्रयुक्तेन स्वाध्यायप्रयुक्तेन स्थानेन (j.113) चंक्रमेण वीतिनामयि(25अ4)तव्या रात्रीये मध्यमे यामे दक्षिणेन पार्श्वेन सिंहशेय्या कल्पयितव्या / पादेन पादम् आधाय जिह्वाग्रं तालुकाग्रे प्रतिष्ठापयित्वा दक्षिणां बाहां शिरस्य् उपनिधाय वामां बाहां अनुकायं प्रसारित्वा उत्थानसंज्ञी मनसिकाकारेन्तेन नापि दानि परिवर्त्तकं यावत् सूर्योद्गमनात् ततो शयितव्यं / रात्रीये पश्चिमे यामे पर्यङ्केन वीति(25अ5)नामयितव्यं / उद्देशप्रयुक्तेन स्थानचंक्रमानुयुक्तेन वा / अथ दानि भिक्षुः / दुःखशायी भवति पारश्येन पारश्यं पल्लट्टन्तो (i.p.113) शयिति अनापत्तिः / जरादुर्ब्बलो वा व्याधिदुर्ब्बलो वा भवति / दक्षिणे पार्श्वे गण्डं वा पिटकं वा / भवति / किञ् चापि वामेन पार्श्वेन शयति अनापत्तिः / न क्षमति / स्तूपं वा पादतो कृत्वा / शय्यां कल्पयितुं / संघं, (25अ6) वा पादतो कृत्वा शेय्यां कल्पयितुं / वृद्धतरकं वा पादतो कृत्वा उपाध्यायाचार्यं वा पादतो कृत्वा शेय्यां कल्पयितुं, / एव(ं) शय्यां प्रतिपद्यितव्यं / न प्रतिपद्यति / अभिसमाचारिकान् धर्म्मान् अतिक्रामति* ////

उदानं एवं कठिने प्रतिपद्यितव्यं / एवं चक्कलीये प्रतिपद्यितव्यं / एवं विहारे प्रतिपद्यितव्यं / एवं खेटे प्रतिपद्यितव्यं / (j.114) एवं पात्रे प्रतिपद्यितव्यं / एवं यवागूये (25अ7) प्रतिपद्यितव्यं / एवं स्थातव्यं / एवं चंक्रमितव्यं / एवं निषीदितव्यं / एवं शेय्या कल्पयितव्यं // * //

(i.p.114) iv.1-2 ms.25a7 (j.115.1); ch.507b4 भगवान् श्रावस्त्यां विहरति विस्तरेण निदानं कृत्वा ते दानि आयुष्मन्तो षड्वर्ग्गिकाः / द्वारं बन्धियाणं विहारस्य पश्चा वस्तुके काकवाहं भंजन्तं / आसन्ति / आगन्तुकानां भिक्षूणां गणो आगतो द्वारं यावन्ति न लभन्ति ते दानि ओक्खन्दियाणं प्रविष्टाः / तेहि दाणि (25ब्1) आयुष्मन्तेहि षड्वर्ग्गिकेहि आगन्तुका दृष्टाः पृच्छन्ति / आयुष्मं कुतो वा प्रविष्टाः / आहंसुः / ओक्खन्दियाणं प्रविष्टाः / ते दानि आहंसु / आयुष्मन् एवं च यूयं ओक्खन्दियाणं विहारं प्रविशथ / ते पि दानि आगन्तुका आहंसु / एवं च यूयं द्वारं बन्धियाणं विहारस्य पश्चाद् वस्तुकस्य काकवाहं भञ्जन्ता आसथ ते दानि विवदिताः / भगवतो मूलं गताः / भगवान् आह / ना(25ब्2)यं ताव क्षमति / ते(ने)वासिकेहि विहारस्य द्वारं बन्धियाणं विहारस्य पश्चाद् वस्तुकस्य काकवाहं भंजमानेहि आसितुं / नापि क्षमति / आगन्तुकेहि विहारं ओक्खन्दियाणं प्रविशितुं / तेन हि एवं आगन्तुकेहि प्रतिपद्यितव्यं / एवं नि(ने)वासिकेहि प्रतिपद्यितव्यं / किन् ति दानि एवं आगन्तुकेहि प्रतिपद्यितव्यं / एते दानि भिक्षु आगन्तुका आगच्छन्ति / सर्व्वेहि पाडिप(य)क्कपाडियककानि अ(25ब्3)पावुरणानि उपस्थापयितव्यानि / एकस्यापि अपावुरणि न भवति / सर्व्वे विनयातिक्रमं आसादयंति / एकस्यापि अपावुरणि भवति / सर्व्वेषाम् अनापत्तिः / अथ दानि कोचि ग्लानो भवति / न दानि उज्झित्वा गन्तव्यं / अथ खलु अनुपालेतव्यो / पात्रचीवरं आलम्बितव्यं / नापि दानि पात्र(j.116)चीवरं गृह्नित्वा अदर्शनेन गन्तव्यं / अथ खलु अ(25ब्4)विदूरेण गन्तव्यं / मा दानि अदर्शनेन परिजाने हृतं / हृतं मे

पात्रचीवरम् इति गच्छन्तस्य कर्त्तव्यं / यदि दानि ओश्या भवति तरुणभिक्षूहि अग्रतो गन्तव्यं / ओश्या प्रतिवाहन्तेहि / अथ दानि व्याडभयं वा चोरभयं वा भवति / वृद्धं बालं मध्ये कृत्वा गन्तव्यं / अथ दानि चोरा सप्रसादा भवन्ति / वृद्धेहि (i.p.115) अग्रतो गन्तव्यं / यथा पश्यित्वा प्रसा(25ब्5)देन अविवर्जिता गच्छेंसु / यदि दानि ग्रामस्य नगरस्य वा मध्येन गन्तव्यं / भवति / न दानि क्षमति नगरवे(चे)तियानि अभिदक्षिणि करेन्ति(ते)हि वा गन्तुं / अपवामिवा(का) करेन्तेहि वा अथ खलु उज्ज(ज्जु)केन मा(र्)गकेन गन्तव्यं / न्याये वासोपगता भवन्ति / तरुणा भिक्षु दुवे वा त्रयो वा प्रवेशयितव्या / अग्रतो गच्छथ संघस्य फासुवि[हार]ं उप(25ब्6)दहथ पादतैलेन गुडपानीयेन प्रतिश्रयेण पुरेभक्तिकेन तेहि दानि प्रावरिय गण्ठिपासकं ओबन्धिय आमन्त्रिय प्रवेष्टव्यं / प्रविसिय याचित्वा संघस्य यथासुखपरिभोगं निःसारेपेतव्यं / पादतैलं वेकालिकं पुरेभक्तिकं भैक्षितव्यं / आवि(चि)क्षितव्यं लब्धो प्रतिश्रयो तेहि दानि यदि तहिं ओघो वा (j.117) भवति / नदी तडागं वा पुष्किरिणी वा उदुपानो वा तहिं पादा(25ब्7)न् प्रक्षालेत्वा प्रावरेत्वा अन्योन्यं आमन्ध(न्त्र)यित्वा प्रवेष्टव्यं / अथ दानि गुडपानीयं भवति / तहिं येव वेकालिकं करिय प्रवेष्टव्यं / मा पश्येंसु समामपयि इमे प्रव्रजिता करोन्ति / अथ दानि उभंडितो भवति संविभजित्वा प्रवेष्टव्यं / निसृष्टगृहं भवति अनामन्त्रिय प्रविशति अनापत्तिः / न दानि लभ्या अन्येन गन्तुं / रच्छाच्छिद्द्रका भवति / अनापत्तिः / ग्रामन्तिकं शेय्यासनं, (26अ1) भवति / तहिं गन्तव्यं / अथ

दानि आरण्यकशेय्यासनं भवति / तहिङ् गन्तव्यं / संघारामं प्रविशन्तेहि पुष्किरिणीयं वा तडागे वा ओघे वा पादां धोवित्वा प्रवेष्टव्यं / अथ दानि उब्भंडितो संविभजित्वा प्रवेष्टव्यं चेतियाणं प्रदक्षिणी करेन्तेहि उपानहा ओमुञ्चित्वा काष्ठकेन गृह्नित्वा प्रवेष्टव्यं / नापि दानि उच्चशब्दमहाशब्देहि प्रवेष्टव्यं / नापि नेवासिकां उल्लय(प)न्ते(26अ2)हि हू ह हे अद्यापि तं तद् एवेत्थ वसथ घुण विद्धातवे नन्द्(अन्)ओपनन्दना यूयं नागराजानो इहैव यूयं जाता इहैव मरिष्यथ जाता ते शृगाला ये तुम्भाणं मांसानि खादिष्यन्ति / नापि दानि नेवासिकेन उल्लपितव्यं / हू ह हे चण्डमुक्तं पञ्चवर्षिकं प्रवृत्तं यथापाटितो नापि दानि वक्तव्यं को इत्थं कति वर्षो उत्थिह नापि दानि (j.118) वक्तव्यं / को भक्तका नातिथिका कस्य शुवे भक्तत(26अ3)र्पणं पुरोभक्तिकं वा (i.p.116) नापि दानि नेवासिकेहि द्वारं बन्धित्वा काकवाहां भजन्तेहि आसितव्यं / अथ दानि पश्चाद् वस्तुके मृत्तिकाकर्म्मं करोन्ति / ये तापे(ये) आर्थापे(ये) भवन्ति / आरामिका श्रामणेरो वा यस्य ओहेय्यको सो वक्तव्यो द्वारं रक्षन्तो आसा(स /) अथ दानि अपदुरको विहारो भवति / प्रविशितव्यं / अथ दानि घट्टितको भवति / अपावुर(26अ4)णेन अपदुरियाणं प्रविशितव्यं / संघारामं प्रदक्षिणी करेन्तेहि आगन्तव्यं / यत्र भिक्षूणां आसनप्रज्ञप्तिर् भवति / तहिं नवकं तस्मिं चीवरबिसियन् थवियाणं कुण्डिकां वा उपानहौ वा थवियाण नेवासिका पृच्छितव्याः / आयुष्मं पादधोवनिका कहिं कल्पियकरकी कहिं अकल्पि(य)करकी कहि(ं) यदि ताव आवि(चि)क्षन्ति पादधोवनिकायां पादां (26अ5) धोवियाणं अकल्पियकरकीतो

हस्ता निर्म्मादियाण कल्पियकरकीतो प्रक्षालिय ततो चेतियं वन्दितव्यं चेतियं वन्दियाणं यत्र नेवासिका भवन्ति तत्र गन्तव्यं अल्लीयाणं नापि क्षमति / वक्तुं वन्दामी त्ति / अथ खलु वक्तव्यं / आयुष्मन् वन्दिष्यन् ति नेवासिकेहि वर्षाग्रं पृच्छितव्यं / कति वर्षो आयुष्मन यदि (j.119) ताव आगन्तुको वृद्धतरको भ(26अ6)वति / नेवासिकेन उत्थिय पादा वन्दितव्या / आसनं दातव्यं / अथ दानि नेवासिको वृद्धतरको भवति / आरोग्यापिय एवं करियाणं आसनं दातव्यं / यं कालं विश्रान्तो भवति पृच्छितव्यं / आयुष्मन् अस्ति एतावति वर्षस्य विहारको प्रापुणति / यदि ताव जल्पति प्रापुणति त्ति विहारको गृह्नितव्यो मञ्च पीठं बिसि चतुरस्रको कुच्चं बि(ं)बोहनं गृह्नितव्यं / नापि (26अ7) दानि क्षमति / त्रि(ते)हि आगन्तुकेहि नेवासिकां कुत्सिय हंभिय आयुष्मन्न् अद्यापि यूयं इह वसथ हे हे शिष्टा वष्टा यूयं जानाते ये शृगाला ये युष्माकं मांसानि खादिष्यन्ति / अथ खलु संप्रहर्षयितव्या वक्तव्या आयुष्मन् शोभनं क्रियति संघारामो केलापीयति / धूमो क्रियति / कुलानि प्रशादीयन्ति / अविकालको पादां धोविय म्रक्षिय दीपं आदीपि(26ब्1)य शेय्यां प्रज्ञपिय प्रतिक्रमितव्यं नापि दानि क्षमति / अपरेज्जुकातो कल्यतो उत्थिहन्तकेनैव (i.p.117) भक्तशालं प्रविशितुं / आयुष्मन् किं सिध्यति किं पच्यति किं भक्तकानां स्थितिका / अथ खलु कल्यतो येव उत्थिय निवासिय प्रावरिय हस्तान् निर्म्मादिय पात्रं गृह्निय प्रविशितव्यं / अथ दानि तहिं विहारके अनुग्रहो भवति विहारकं वा भक्त भवति / नेवासिकेहि वक्तव्यं / आ(26ब्2)युष्मन मा पिण्डाय प्रविशथ / इह य्येव भुंजिष्यथ / अथ

(j.120) दानि भवति / आगन्तुकानां पिण्डकानां पिण्डभक्तानि उद्दिशितव्यानि / अथ दानि भक्तकानि उद्दिशितव्यानि / अथ दानि भक्तकानि न भवन्ति नेवासिकेहि वक्तव्यं आयुष्मं आगमेथ सहितका पिण्डाये प्रविशिष्यामः / ततो सहितकेहि प्रविशितव्यं / अथ दानि आगन्तुका भिक्षू विहार आगता भवन्ति / नायं (26ब्3) क्षमति / नेवासिकेहि वक्तुं ओ ह हे नावा पञ्चवर्षिकडंयदुक्कं श्रमणमाताप्रजाता त्ति / अथ खलु आगन्तुकानां एहि स्वागतं कर्त्त(व्य)ं, / एतु आयुष्मन्तो स्वागतम् आयुष्मन्तो अनुरागतम् आयुष्मन्तो मा श्रान्ता मा क्लान्ता पादां प्रक्का(क्षा)लेथ / हस्तां निर्म्मादेथ पानीयं पिबथ विश्रमथ न्ति(त्ति) / यदि ताव पुरेभक्ते आम(ग)ता भवन्ति पुरेभ(26ब्4)क्तिकेन च्छन्दयितव्याः / देशकाले आगता भवन्ति / भक्तकृत्येन च्छ(न्द)षि(यि)तव्याः / विकाले आगता भवन्ति विकालिकेन च्छन्दयितव्याः / विकारको उद्दिशितव्यो / मञ्च पीठं बिसी चतु(र)श्रकं कुच्चकं बिम्बोहनं (j.121) उद्दिशितव्यं / पादम्रक्षणेन च्छन्दयितव्या / अथ अपरेज्जुकातो यदि ताव बाहिरकं भक्तं भवति / अनुग्रहो वा भवति (26ब्5) वक्तव्यं / आयुष्मं मा पिण्डाये प्रविशथ / इह य्येव भुंजिष्यथ / अथ दानि भक्तका न भवन्ति / आगन्तुकां पिण्डभक्तकानि उद्दिशितव्यानि / अथ दानि पिण्डचारिको भवति / यं कालं / आगन्तुका पिण्डाथे(ये) व(च)रिय विहारं आगता भवन्ति / ततो यदि नेवासिकानां व्यञ्जनानि भवन्ति / खज्जकानि भवन्ति / ततो यदि स्नेहको वा (26ब्6) भवन्ति / तेहि आगन्तुकानां सम्विभागो कर्त्तव्यो / अथ दानि एवं पि न भवति / अन्तमसतो यदि तहिं किञ्चि पिण्डचारिकं प्रणीततरकं

भवति / आगन्तुकानां सारणीयं कर्त्तव्यं / (i.p.118) नेवासिकेहि सर्व्वम् आरोचयितव्यं / वक्तव्यं / आयुष्मन्तो अमुकं कुलं मा प्रविशथ / पात्रनिकुब्जनं समुतीकृतं, अमुत्र शुनखा चण्डाः / अमुकं अ[श्रा]द्धकु(26ब्7)लं या क्रिया आरोचयितव्या / अथ दानि / आरण्यकं शेय्यासनं भवति / न क्षमति / तेहि नि(ने)वासिकाहि द्वारं च बन्ध(धि)य विहारस्य पश्चा वस्तुके काकवाहां भञ्जन्तेहि आसितुं / अथ दानि सिंहभयं वा भवंति व्याघ्रभयं वा चोरभयं वा (j.122) भिक्षू च पलिगुद्धका भवन्ति / च्छायनिका वा लेपनिका वा करेन्ति किं वा(चा)पि द्वारं घटेन्ति अनापत्तिः / सर्व्वे येव गोच(27अ1)रं प्रविशन्ति / किञ् चापि घट्टेन्ति अनापत्तिः / एको वा रक्षपालो दातव्यो वक्तव्यं / आयुष्म(ं) द्वारं बन्धिय द्वारकोष्ठकस्य उपरि आसाहि यदि केचि आगन्तुका आगच्छेंसु / ततो द्वारं ददेसि / तेन उपरि द्वारकोष्ठस्य आसितव्यं / यदि ताव केचि आगन्तुका आगच्छेन्ति / तेषां द्वारं दातव्यं / यं कालं ते नेवासिका निद्धाविता भवन्ति नापि क्षा(क्ष)मति तेहि नेवासि(27अ2)केहि वक्तुं / आयुष्मं एषा नावा मुच्यति एषो साध्वो(र्थो) प्रयातो गच्छन्तु आयुष्मन्तो गतं मार्ग्गस्य श्रेयो / अथ खलु समाश्वासितव्यं / वसन्तु आयुष्मन्तो रमंतु आयुष्मन्तो यदि ताव स्तूपिकेन वा कार्येण आगता भवन्ति / स्तूपिकं कार्ष(य)(ं) परिप्रापयितव्यं / सांघिकेन कार्येण आगता भवन्ति / सांघिकं कार्यं परिप्रापयितव्यं / यं कालं परिप्राप्तकार्यं भ(27अ3)वति / यदि कोचि सार्था(र्थो) प्रयातो भवति ते भिक्षु वाणिजकस्य सार्थवाहस्य परिन्दितव्या वक्तव्यं / उपासक दानपति इमे भिक्षवो त्वया सार्द्धं

गमिष्यन्ति / इमे भिक्षु तव परिनिन्दिता भवन्तु तेषां गच्छमनो(माना)नां पथ्यदनेन वैकल्यं कर्त्तव्यं / एवं हि (j.123) आगन्तुकेहि प्रतिपद्यितव्यं न प्रतिपद्यन्ति / आभिसमाचारिकान् धर्म्मान् अतिक्रामंति //

* //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.