Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

विनयसूत्र

Thông tin
GRETIL — Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

/ यथार्हम् अन्यस्य सांघिकस्य निक्षेपभाजनं भोजनानि क्षेत्रगृहापणशयनासनायपस्कारलोहनापितकुलालतक्षा च वरुओडभाण्डदासीदासकर्मकरपौरुषयगोमहिष्यजैडकभैषज्यबुद्धशास्त्रपुस्तकानां सुसाध्यलेखा[46ब्3]नां प्रथमार्हत्वं /(Vin_6.118)

/ शाटकपटकप्रावरकोप्यनत्पुलातैलकुतुपकरकुण्डिकान्य् अपुस्तकलेख्यवर्णकानां द्वितीयस्य /(Vin_6.119)

/ तृतीयस्य पञ्चतिलव्रीहिम् उद्गमाषावरधान्यान्नपानानां /(Vin_6.120)

// चीवरवस्तु // 1 //

**(vin_6,2) क्षुद्रकादिगतम् /

/ समुत्वं मण्डलार्धमण्डलमेषु कुर्वीत्* /(Vin_6.121)

/ मानार्थं तत्प्रमाणयष्टिधारणं /(Vin_6.122)

/ पत्रमुखेषु च /(Vin_6.123)

/ तत्प्रमाणशलाकाधारणं /(Vin_6.124)

/ [46ब्4] पर्यन्तो स्य प्रकर्षे चत्वार्यङ्गुलानि /(Vin_6.125)

/ काकवितस्तिर् वा /(Vin_6.126)

/ अपकर्षे द्वे सार्धे वांगुष्ठोताराना /(Vin_6.127)

/ न भूमौ चीवरं वितन्वीत्* /(Vin_6.128)

/ कठिनस्ये तदर्थं करणं /(Vin_6.129)

/ दारुमयं वंशमयं वा /(Vin_6.130)

/ चतुरस्रकं कृतबन्धार्थं सूत्रकावकाशार्थं छिद्रं तदाख्यम्(अ) /(Vin_6.131)

/ यावच् चीवरं /(Vin_6.132)

/ शस्त्रकेन पाटकं /(Vin_6.133)

/ धारयेद् एनं /(Vin_6.134)

/ काकचञ्चुकाकारं कुक्कुटपक्षकाकारं वा /(Vin_6.135)

/ [46ब्5] नान्यद् आयसात् /(Vin_6.136)

/ न कमनमृष्टेन चित्रोपचित्रेण वा दण्डेन /(Vin_6.137)

/ न षडलङ्गुलातिरिक्तस्य प्रमाणं /(Vin_6.138)

/ नाष्टेत्य् अपरः /(Vin_6.139)

/ निष्प्रयोज्नत्वं ऊनचतुरंलुस्य /(Vin_6.140)

/ दत्तगोमयोपलेपे सेवनं /(Vin_6.141)

/ अभावे गोमयस्य शिक्तसंमृष्टे /(Vin_6.142)

/ सीव्येद् एनं /(Vin_6.143)

/ सूच्यापि /(Vin_6.144)

/ धारयेद् एनं /(Vin_6.145)

/ नान्यां रीतिताम्रकंसमोमयीतः /(Vin_6.146)

/ ताम्रायसोस्तीक्ष्णयोर् इत्य् अपरम् /(Vin_6.147)

/ [46ब्6] धारयेद् अस्यागृहकं नाडिकं मुष्टिकं वा /(Vin_6.148)

/ नैतद् अलज्जिश्रामणेरयोर् अधीनं कुर्वीत्* /(Vin_6.149)

/ मधुसित्थम्रक्षिते सूचीशास्त्रकाणां कौटकाभक्षणायानतुके स्थापनं /(Vin_6.150)

/ पाशकस्यानपगमाय चीवरे दानं वलकं दत्त्वा /(Vin_6.151)

/ ग्रन्थिकायाश् च /(Vin_6.152)

/ न रजकेन रक्तम् अरक्तं वा वस्त्रं शोचयेत् /(Vin_6.153)

/ न तद्वत् स्वयं /(Vin_6.154)

/ नास्यास्तरे न काष्ठभित्तके /(Vin_6.155)

/ कुण्डा[47अ1] / /लके शोचयेच्<<ल्>> लक्षणे सुखोदकेन सनैः /(Vin_6.156)

/ परिवर्त्तनं हस्ताभ्यां /(Vin_6.157)

/ अशक्तौ पदाभ्यां /(Vin_6.158)

/ कल्पत एवं गृहिणं शोचनं /(Vin_6.159)

/ अन्यथात्वं चरणम् अस्य रक्षेत /(Vin_6.160)

/ सुधौस्युत रक्तं पंसुकूलं भारयेत /(Vin_6.161)

/ नाशुचिम्रक्षितां चीवरं /(Vin_6.162)

/ शोषणं साधुतायै संगुव्यरङ्गस्य छायातपे /(Vin_6.163)

/ विना चीलैक्वाध्वनं /(Vin_6.164)

/ आतृतीयाद् विशिष्टत्वं /(Vin_6.165)

/ तस्माद् बहुनान्वित्वे [47अ2] त्रिर् आदानं /(Vin_6.166)

/ हीनतरत्वं परस्य /(Vin_6.167)

/ तस्मात् पृथग्स्थापनं /(Vin_6.168)

/ लेखनमयं प्रथमम् इत्यादि /(Vin_6.169)

/ पूर्वस्य च प्रथमम् उपयोगः /(Vin_6.170)

/ संमृतितचीवरस्य च /(Vin_6.171)

/ तस्माद् अपनीय कुण्डालके तन्मात्रमोल्लकस्य दानं /(Vin_6.172)

/ प्रधरणं द्रवे /(Vin_6.173)

/ चित्तलत्वम् अतिशुष्के /(Vin_6.174)

/ तस्मात् मध्यस्य /(Vin_6.175)

/ कान्तारिकायां साधुशोषणं /(Vin_6.176)

/ ततापां अन्तलगनेनचर्प्यटकैः /(Vin_6.177)

/ [47अ3] दुर्धराणां कक्षप्रज्ञप्तौ /(Vin_6.178)

/ अनेकपार्श्वकतापैर् अङ्गस्य संपरिवर्त्तनं पुनः पुनः /(Vin_6.179)

/ नवरङ्गस्य नवेष्व् एव साधु दानम् /(Vin_6.180)

/ पुराणस्य पुराणेषु /(Vin_6.181)

/ शोषणं नवानाम् आतपे /(Vin_6.182)

/ पुराणानां छायायां /(Vin_6.183)

/ पानीयोल्लकस्याचित्तलतायै दानं /(Vin_6.184)

/ अपरेद्युः /(Vin_6.185)

/ न मेध्यां चंक्रमे वा रङ्गकर्म कुर्युः /(Vin_6.186)

/ न विहारे /(Vin_6.187)

/ उपर्य् अस्य करणं /(Vin_6.188)

/ [47अ4] नाचामनिकासामन्तके /(Vin_6.189)

/ प्रलिप्ते तत्र प्रदेशे दानं /(Vin_6.190)

/ शुद्धाप्रवालिप्तश् चेच् छोचनं /(Vin_6.191)

/ प्रस्तुते चेद् वातवर्षागमः करणं प्रासादे /(Vin_6.192)

/ प्रलिप्तेस् तत्र प्रदेशे कृते करणं /(Vin_6.193)

/ गोमयेन मृदा वा /(Vin_6.194)

/ नासंपन्नकल्पाकोटितप्रत्याकोटितचीवरपरिभुक्ति भजेत् /(Vin_6.195)

/ भङ्गो मृष्टेर् अत्र कल्पः / / पानीये न बोल्लितत्वं / / अवश्याय परिशुधे शक्यतरत्वं हस्तम् अर्धेन भगस्य / / [47अ5] निवासितस्योपरिकायस्य बन्धनम् / / पट्टिकयाखोथिकयाङ्कुञ्चकेन मुञ्चिकया वा / / नानाभरणकलापकात् दुण्ढुभकावैदेहकासु वर्णसूत्रञ् च / / तद्वच् चित्रं / / नानास्तरायां भूमौ चीवरं निक्षिपेत् /

/ नाशुचौ प्रदेशे /(Vin_6.196)

/ न गुरुणा सति पराक्रमे भारेणाक्रमेत् /(Vin_6.197)

/ नान्यपरिभोगेन परिभुञ्जीत्* /(Vin_6.198)

/ नोच्चारप्रश्रावकरणं [47अ6] शुचिपरिकर्मणेषूत्तरासंघप्रावृत्तिं* भजेत्* /(Vin_6.199)

/ नास्मिन् निपद्येत्* /(Vin_6.200)

/ न पिण्डपातचर्याभोजनचैत्याभिवन्दनसामीचीकरणं संघसन्निपाताववादधर्मश्रवणानुभवनाद् अन्यस्यां व्यापृतौ सांघाट्याः /(Vin_6.201)

/ नास्यां निशीदेन् निपद्येत् त्वा /(Vin_6.202)

/ नाक्रम्यैनां /(Vin_6.203)

/ नानयैने कस्य कस्य चिन् नियुञ्जीत्* /(Vin_6.204)

/ न कायसंस्पर्शकं परिभुञ्जीत्* /(Vin_6.205)

/ कक्षघर्मेण दक्षिण[47ब्1]स्यास्यां नाननसंपत्तिः /(Vin_6.206)

/ तदभूत्यै तत्र प्रदेशे वस्त्रस्यास्यां दानं /(Vin_6.207)

/ अध्यर्धहस्तवितस्तिकस्य /(Vin_6.208)

/ उभयोः पार्श्वयोर् अष्टसूत्रेण लगनं /(Vin_6.209)

/ कालेन कालम् अस्य शोचनं रञ्जनञ् च /(Vin_6.210)

/ गैरिकेनास्यैतत् /(Vin_6.211)

/ धारयेत् मुखपोच्चनम् /(Vin_6.212)

/ श्रवत्कायः कायोद्घर्षणम् /(Vin_6.213)

/ अभ्यन्तरे चीवराद् अस्य प्रावरणम् /(Vin_6.214)

/ लग्नस्य कषायोदकेन क्षोदमिश्रेण गते म[47ब्2]यित्वा मन्दमन्दम् अपनयनं पूयशोणितस्य च /(Vin_6.215)

/ कालेन कालम् अस्य शोचनं शोषणं रञ्जनञ् च /(Vin_6.216)

/ धातुनास्यैतत् साधु /(Vin_6.217)

/ न यत्र क्वचन चीवराणि स्थापयेत् /(Vin_6.218)

/ वंशस्य तदर्थं समायोजनम् /(Vin_6.219)

/ द्रोणिकायास् तदर्थम् /(Vin_6.220)

/ क्रियमाणे विहारे /(Vin_6.221)

/ न कृते छिद्रणम् /(Vin_6.222)

/ निदर्शनम् विहारे परिगणे प्य् एतत् /(Vin_6.223)

/ लतारज्वोरस्यस्य संपत्तिः /(Vin_6.224)

/ वृषिकया साधु [47ब्3] वस्त्राणां नयनम् /(Vin_6.225)

/ कुर्वीतैनां /(Vin_6.226)

/ त्र्यध्यर्हहस्तकस्य द्विगुणीकृत्य सेवनम् /(Vin_6.227)

/ मध्ये मुखकरणं /(Vin_6.228)

/ जालकस्यात्र दानम् असूत्रकेन /(Vin_6.229)

/ अपरेण बन्धनम् /(Vin_6.230)

/ उपरि परिभुज्यमानानां स्थापनं /(Vin_6.231)

/ अवलोक्य श्वो गमिष्यत्तायां /(Vin_6.232)

/ गुरून् अनुज्ञातो गच्छेत् /(Vin_6.233)

/ कृतस्वावाससेकादिः /(Vin_6.234)

/ धर्म्यया वा कथयाध्वनि गच्छेद् आर्येण वा तूष्णीम्भावेन /(Vin_6.235)

/ [47ब्4] विश्रामस्थाने गाथां भाषेद् आषाम् /(Vin_6.236)

/ पानीयग्रहणस्य च /(Vin_6.237)

/ यस्य तद् पानीयं तम् उद्दिश्य /(Vin_6.238)

/ अपरां च देवतां /(Vin_6.239)

/ वासस्य त्रिदण्डकम् /(Vin_6.240)

/ धारयेत् कान्तारिकायां /(Vin_6.241)

/ तत्प्रमाणमध्यर्धं शतम् उपादाय हस्तानाम् आशतात् /(Vin_6.242)

/ देशानुरूप्येणेत्य् अपरं /(Vin_6.243)

/ न विनैतया दुर्लभाकूपपानीये देशे चागारिकां चरेत् /(Vin_6.244)

/ प्रस्फोटितचीवरो ध्वगः [47ब्5] स्नातवां प्रक्षालितपाणिपादो वा गृहीतपानीयः पोच्चितो पानकेस् त्रिचीवरं प्रावृत्य शान्तेर्यापथो विहारं प्रविशेत् /(Vin_6.245)

/ चतुरो वृद्धान् वन्दित्वावतिष्ठेत् /(Vin_6.246)

/ प्राकृते प्रदेशे न्यशब्दः /(Vin_6.247)

/ प्रासादिकः सुसंवृतेर् यः सप्रभवेनास्य प्रतिशामनम् /(Vin_6.248)

/ नाज्ञायमान प्रतिशामयेत् सतीर्थ्यम् अपि /(Vin_6.249)

/ पिध्वीयतां द्वारं न देयं मृगयते निवार्यो गृह्णान इति प्रत्या[47ब्6]यितस्य प्रतीच्छ्याव्युपेक्षितवतोपहृतौ विश्वासवस्तुताञ् चोपनीतेन ममैवायं सहाय इत्यादि प्रतिपादनया दास्यत्वम् /(Vin_6.250)

/ अभिज्ञानसंश्रयणम् अविदितस्यापरेण विशेषगताव् उपायः /(Vin_6.251)

/ अर्प्यमाणयातेनान्ते चेत् प्रमीलनम् /(Vin_6.252)

/ प्रश्नस्यानुप्रमादासंपत्तये करणं /(Vin_6.253)

/ नाशने याचितस्याशुचिना ऽसंपत्तो शोचादिना चित्तग्रहणस्य मूल्यदानः /(Vin_6.254)

/ [48अ1] / /पात्रचीवरप्रतिग्रहणं /(Vin_6.255)

/ आसनं प्रज्ञपनम् /(Vin_6.256)

/ पादधावनेनोपनिमन्त्रणम् /(Vin_6.257)

/ उदकेन च /(Vin_6.258)

/ वन्दनम् /(Vin_6.259)

/ सुखचर्याप्रश्नः /(Vin_6.260)

/ यथाशक्ति संरञ्जनीयकरणं /(Vin_6.261)

/ अनुरूपशयनासनदानम् /(Vin_6.262)

/ संघस्थविरम् उपसंक्रामेत् /(Vin_6.263)

/ निःश्रयग्रहणे स चेद् एनन् नियुञ्जीत /(Vin_6.264)

/ वृद्धश् चेत् शयनासनस्यास्य दाने तद्वारिकम् /(Vin_6.265)

/ न सहसा शयनासनं [48अ2] याचेत् /(Vin_6.266)

/ परिषण्डादानम् अन्तस्य चीवरे ध्वस्तो प्रतिविधानं आरापदकैस् तत्संग्रहः /(Vin_6.267)

/ परिवास्याभ्यवकाशे वृक्षाद्य् उपरि सप्ताष्टान्यहानि पञ्चाषातीत्य् अपरं शोचयित्वा शवचीवरं भुञ्जीत्* /(Vin_6.268)

/ प्रवेदिते स्मशनिको हम् इत्य् उपनिमन्त्रितः प्रवेशं विहारकुलयोः परिभोगञ् चानुत्सृष्टस्वीकारस्य श्मशनिको भजेत्* /(Vin_6.269)

/ न सांघिकं शयनासनं परिभुञ्जीत्* /(Vin_6.270)

/ आव्यामा[48अ3]न्ताच् चैत्यं परिहरेत् /(Vin_6.271)

/ धारयेन् मशकवारणम् /(Vin_6.272)

/ ऊर्णां सणं कर्पासं नतुकं पत्रमञ्जरीञ् च /(Vin_6.273)

/ न हस्त्यश्वगोबालादिकमयं /(Vin_6.274)

/ सर्वत्राकमलमृष्टत्वं चित्रोपचित्रताचार्योशलिके दण्डे /(Vin_6.275)

/ मशककुटिञ् च /(Vin_6.276)

/ उपरि शटकषितननं* /(Vin_6.277)

/ दण्डिकायां बन्धनेन /(Vin_6.278)

/ चतुर्धिहस्तकस्य /(Vin_6.279)

/ पटकेन परिवारणं द्वादशहस्तकेन /(Vin_6.280)

/ सावष्टम्भं /(Vin_6.281)

/ [48अ4] अथास्य शयनासने वष्टम्भः /(Vin_6.282)

/ द्वारस्य करणं विकर्णकस्य /(Vin_6.283)

/ वीजनं धर्मे प्रतिविधिः /(Vin_6.284)

/ धारयेद् विधमनम् /(Vin_6.285)

/ वारुटंटेतालवृन्तं वा /(Vin_6.286)

/ न चित्रोपचित्रम् /(Vin_6.287)

/ संघो न्यद् अपि /(Vin_6.288)

/ चैत्ये मणिवालव्यव्जनस्योत्पन्नस्य दानम् /(Vin_6.289)

/ श्रावकस्यापि /(Vin_6.290)

/ धारयेद् वृषिबिम्बोपधानचतुरस्रकानि /(Vin_6.291)

/ पुत्रदारलाभे दातृवशेन प्रतिपत्तिः /(Vin_6.292)

/ मो[48अ5]चनं चेद्या[..]द् अस्यौष्टं तावतो निष्क्रयत्वम् /(Vin_6.293)

/ कल्पये पुनर् निर्यातनम् /(Vin_6.294)

/ वृक्षे निर्यातितस्यालङ्कारश् चेत् तस्यैवोत्सवे लंकरणोपस्थापनम् /(Vin_6.295)

/ भित्तौ ल्लपने चेच् चित्रणाय /(Vin_6.296)

/ न चेत् स्तम्भे च नवकर्मणे /(Vin_6.297)

/ भूमौ /(Vin_6.298)

/ अग्निशालायां प्रज्वालनिकाकरणं /(Vin_6.299)

/ स्नेहलाभस्य वा /(Vin_6.300)

/ भैषज्योपस्थापनं ग्लानकल्पिकशालायां /(Vin_6.301)

/ भक्तशालायां [48अ6] भक्तकरणं /(Vin_6.302)

/ पानकस्य पानीयमण्डले /(Vin_6.303)

/ जेन्ताकशालायां जेन्ताकस्य स्नेहलाभस्य वा /(Vin_6.304)

/ स्नेहलाभस्य मण्डलवाटे स्थापनशालायोः /(Vin_6.305)

/ जातकेन खनं वा /(Vin_6.306)

/ मेढीचंक्रमद्वारकोष्ठकप्रसादेषु भाजनम् /(Vin_6.307)

/ पुष्करिण्या च /(Vin_6.308)

/ स्थापनाम् अस्यां चातुर्दिशसांघिकत्वेनेत्य् अयं* /(Vin_6.309)

/ कल्पते रत्नार्थं भिक्षणं /(Vin_6.310)

/ उद्धोषणञ् च [48ब्1] ग्रहणे /(Vin_6.311)

/ चक्रस्य दर्शनार्थं करणं घर्मवातवर्षोपद्रवेणास्पृष्ट्यै कूपगारस्य द्वारवन्त /(Vin_6.312)

/ ष्टयवतः /(Vin_6.313)

/ महस्यान्ते चक्रोस्य धारणं /(Vin_6.314)

/ भाण्डगोपकेन लाभस्य गोपनम् /(Vin_6.315)

/ नानुद्दिश्य द्वयं शास्तृपूजायां दत्ते भिक्षुणीनां सांघिके प्रवेशः /(Vin_6.316)

/ पृथगासामत्रे कस्यां चक्रो श्रूयणे स्थूलात्ययः /(Vin_6.317)

/ भाजनं भाण्डभाजकेन /(Vin_6.318)

/ संमतिर् अस्य /(Vin_6.319)

/ [48ब्2] नाथिक्रीय्याणां /(Vin_6.320)

/ संघसन्निपाते वर्द्धनेन /(Vin_6.321)

/ तस्यैवात्र सन्निपातगतम् अनुष्ठेयं संघस्थविरेण मूल्यस्य करणम् /(Vin_6.322)

/ मध्यमस्य /(Vin_6.323)

/ नातस्तस्य पात्यत्वम् /(Vin_6.324)

/ निश्चित्य पुनर् अभूतिं* वर्द्धनस्य पातनम् /(Vin_6.325)

/ नाक्रयिको वर्धयेत् /(Vin_6.326)

/ न स्त्रियम् /(Vin_6.327)

/ नादत्तमूल्यं परम् परिभुञ्जीत्* /(Vin_6.328)

/ संस्कुर्वीत वा /(Vin_6.329)

/ दशाद्यल्लाभिप्रभूत्ये दायादानां भाजनम्(अ) /(Vin_6.330)

/ [48ब्3] दत्ते कस्यचिद् अविभक्ते वङ्गान् मृतौ तद्वर्ग्यगामित्वं तदंशस्य /(Vin_6.331)

/ अर्हति निर्वाणाशयेन प्रव्रजितः शीलवां शतसाहस्रं वस्त्रं शतरसंभोजनं पञ्चसूतं कूटागारम् /(Vin_6.332)

/ संघद्रव्यञ् च /(Vin_6.333)

/ आशैक्षात् /(Vin_6.334)

/ पृथग्जनो पि /(Vin_6.335)

/ न दुःशीलः /(Vin_6.336)

/ ऋणभूतं कुसीतस्य प्रतिग्रहोपजीवनम् /(Vin_6.337)

/ अर्हः पौद्गलिकविहारतल्लाभोपजीव्यन्तस् सीमतायां संघलाभे /(Vin_6.338)

/ [48ब्4] लयने च नियतस्य /(Vin_6.339)

/ वारेणास्योद्देशः /(Vin_6.340)

/ पात्रविपात्रककंसिकाविन्दुलाकुञ्चिकाशस्त्रकसूचीनखच्छेदनककटच्छ्वङ्गारस्थापनकुट्ठारीपचनिकासरकानामयोभाण्डेभ्यो भाजयितव्यता /(Vin_6.341)

/ मृद्भाण्डेभ्यः पात्रविपात्रकपचनिकाघटिकाकरककुण्डककुण्डिकापानीयस्थालकानाम् /(Vin_6.342)

/ मंचस्य रत्नमयादे[48ब्5]र् अयोमयात् तस्य परिवर्त्या /(Vin_6.343)

/ न काष्ठमयस्य रंगस्य पंचकाद् अन्यस्य /(Vin_6.344)

/ अक्वाथितस्य /(Vin_6.345)

/ क्वथितस्य रञ्जनीये विनियोज्यत्वम् /(Vin_6.346)

/ संघस्य यत् /(Vin_6.347)

/ अविक्रियतास्यागमविहारतद्वस्तुशयनासनानां /(Vin_6.348)

/ अनापेयत्वं /(Vin_6.349)

/ अनधिष्ठेयता च /(Vin_6.350)

/ योगं भक्ता छादनेन पित्रोर् उद्वहेत् /(Vin_6.351)

/ न चेल् लाभस्य पात्रचीवराद् अतिरेकस्स् अमा[48ब्6]दाप्य /(Vin_6.352)

/ असंपत्तौ भोजनोपनतेर् उपार्धस्यादानम् /(Vin_6.353)

// क्षुद्रकादिचीवरवस्तुगतम् // 2 //

**(vin_6,3) सपृच्छक्षुद्रकादिगतम् /

/ पषणंविभागज्ञानाय चीवराणां /(Vin_6.354)

/ उपचयानामेषु दानं /(Vin_6.355)

/ मपिटिप्यकस्तदास्यः /(Vin_6.356)

/ उल्लपनकानाञ् च /(Vin_6.357)

/ दशापाशात् तयोर् वर्धिकाकरणं /(Vin_6.358)

/ नासांघाट्यां छिन्नाधिष्ठाननियमः नासत्वे तद्रूपाणां प्रत्ययानाम् इच्छन्न[49अ1] / /या ग्रामान्तर्गृहयोर् अनयोपवेशः प्रवेशश् च /(Vin_6.359)

/ एवं तीर्थ्यावसथे /(Vin_6.360)

/ नैव सत्सूपवेशः /(Vin_6.361)

/ न रोमविधं त्रिचीवरत्वेनाधितिष्ठेत् /(Vin_6.362)

/ नैतत् प्रावृतिं भोजने भजेत्* /(Vin_6.363)

/ स्वीकरणं विरलिकायाः /(Vin_6.364)

/ चातुर्विध्यम् अस्याः /(Vin_6.365)

/ और्णिका क्षोमिका दुकूलिका कार्यासिकेति /(Vin_6.366)

/ अन्येषाञ् च लघूनां पटप्रवाराणां निकटरोमप्रभृतीनां /(Vin_6.367)

/ कोचवस्य [49अ2] च /(Vin_6.368)

/ न लोमस्य विहेठे स्यान्यथा प्रावृतिं भजेत्* /(Vin_6.369)

/ नानेनैवं प्रावृते चंक्रम्येत् /(Vin_6.370)

/ नार्याणीकोचवप्रावारचित्रचिलिमिलिकास्वीकृतिं* पुद्गलो भजेत्* /(Vin_6.371)

/ प्रतीच्छेच् चंक्रमे चिलिमिलिकाप्रज्ञपनम् /(Vin_6.372)

/ न नित्यम् एकयैव धारया चंक्रमणं /(Vin_6.373)

/ शक्यतायां प्रतिसंस्करणम् /(Vin_6.374)

/ सेवनदण्डकार्गडकदानैः /(Vin_6.375)

/ अशक्यत्वे गोमयम्रदा तत्रैव चं[49अ3]क्रमे लेपनं /(Vin_6.376)

/ धारणम् अन्येषां दानपतिविश्वासेन /(Vin_6.377)

/ धारयेत् प्रतिविवसनसंकक्षिकाप्रतिसंकक्षिका /(Vin_6.378)

/ परिस्कारचीवरञ् च /(Vin_6.379)

/ नास्य शैक्ल्ये सदशापाशातायां वा दोषः /(Vin_6.380)

/ न सांघिकस्य /(Vin_6.381)

/ अधिष्ठाय तत्त्वेनानुज्ञाता चीवरधारणं धारयेद् उपरां विकल्पानेकम् अपि /(Vin_6.382)

/ नास्थिरचित्तस्य विकल्पयेत् /(Vin_6.383)

/ नानुपसंपन्नस्य /(Vin_6.384)

/ न प्रत्य[49अ4]क्षम् /(Vin_6.385)

/ न देशान्तरस्थतायां विकल्पस्य ध्वंसः /(Vin_6.386)

/ ध्वंसश् च्युतौ /(Vin_6.387)

/ ज्ञातौ /(Vin_6.388)

/ विकल्पकस्यात्र स्वामित्वम् /(Vin_6.389)

/ न निःसृष्टं स्वीकुर्वीत्* /(Vin_6.390)

/ भिक्षौ निःसृजेत् /(Vin_6.391)

/ न संघे /(Vin_6.392)

/ नाव्यक्ते /(Vin_6.393)

/ याचनम् अदाने /(Vin_6.394)

/ ग्रहणञ् च वलेन /(Vin_6.395)

/ गन्धैः पर्लिगुद्धस्य वाससः शोचयित्वा परिभोगः /(Vin_6.396)

/ प्रस्फोट्य चूर्णैः /(Vin_6.397)

/ स्नेहेन विरुक्षयित्वा /(Vin_6.398)

/ न वर्षत्य् अभ्यवका[49अ5]शे सांघिकस्य /(Vin_6.399)

/ नधावनरङ्गनपात्रकर्मकाष्ठपाटनादिकर्म कुर्त्वत्तायां /(Vin_6.400)

/ सम्यक्त्वं संख्यम् अनुक्तौ साह्यस्य व्ययचायनिक्षेप्त्रे दानम् न सानिक्षेप्ते मनोनुन्मत्तका तज्ञातितद्गृहादातुं प्रतिगृह्णीत्* / (Vin_6.401)

/ प्रतिगृह्णीत प्रणायितात् पुत्रात् /(Vin_6.402)

/ श्मशानाच् च प्रतिनिर्वर्त्तितम् /(Vin_6.403)

/ प्रतिमृगयते दानम् अस्य /(Vin_6.404)

/ ग्रहणं पुनर् लब्धौ स्तौपिकस्य वृत्तेर् मू[49अ6]लफलेक्षुभ्यो न्यस्य भक्तार्थस्योद्देशोपजीव्यस्य वा भाज्यत्वं स्वीकाराय /(Vin_6.405)

/ वर्षिकेन सीम्ना लाभस्य प्रवेशः /(Vin_6.406)

/ न छिन्नवर्षत्वेनर्तत्वम् /(Vin_6.407)

/ नोक्षिप्तायां /(Vin_6.408)

/ एकांशतैवावष्टम्भिद्रव्यो पि तस्य /(Vin_6.409)

/ स्वसंख्यांशत्वम् अस्मिन्न् अवष्टम्भानां /(Vin_6.410)

/ भूयस्त्वेनैवान्यत्रानेकत्रोपगतौ व्यवस्था /(Vin_6.411)

/ वितृतीयांशत्वं श्रामणेरश्रामणेरिकयोर् लाभे /(Vin_6.412)

/ साम्यम् अ[49ब्1]भ्यवहार्ये /(Vin_6.413)

/ उपसंपत्प्रेक्षशिक्षमाणयोश् च /(Vin_6.414)

/ पुद्गलशो भिक्षुणीनामंशहरता न संघशः /(Vin_6.415)

/ नानवछिन्नं भोजनम् अनुलाभे भिक्षुणीनां भुक्तवत्वे तत्राप्रवेशः /(Vin_6.416)

/ नासनोदकपिण्डपातेषु भिक्षो भिक्षुणीस्वीन ज्येष्ठत्वं /(Vin_6.417)

/ आसनस्य वृद्धान्ते भिक्षुणीभिः सन्निषादे मुक्तिः /(Vin_6.418)

/ करणं सभिक्षुतायाम् अशक्तौ तेषां भिक्षुण्या दक्षिणादेश[49ब्2]नस्य सामान्यञ् चारयिष्यतीति चारकम् आहारस्य प्रत्युपस्थितपादौ दानाय संघस्थविरो नियुञ्जीत् /(Vin_6.419)

/ यथासंभावनम् इत्य् अवलोक्य पर्षदं प्रभूत्येल्पत्वे भक्तस्य तदाख्यानपूर्वकं /(Vin_6.420)

/ यथाविभवनेत्य् अन्यथात्वे /(Vin_6.421)

/ न चानुद्घोषिते संप्राप्तम् इति वृद्धान्त आदौ गृह्णीत् /(Vin_6.422)

/ सज्जीकृतावाहारस्योद्दिष्टेभ्यो परेषाम् आगतौ तदावेदनम् /(Vin_6.423)

/ [49ब्3] न त्रिचीवरदाने भिक्षुं प्रवर्तयेत् /(Vin_6.424)

/ नैतज् जीवत्तायां /(Vin_6.425)

/ प्रतिदाद्यत इत्य् अतो न्येन मनसा संघः प्रतिगृह्णीयात् /(Vin_6.426)

/ सान्तरोत्तरेण मृतच्छोरणं /(Vin_6.427)

/ मध्येन /(Vin_6.428)

/ नावशिष्टेन /(Vin_6.429)

// सपृच्छक्षुद्राकादिचीवरवस्तुगतम् // 3 // // समाप्तञ् च चीवरवस्तु // 6 //

*vin_7, चर्मवस्तु /

/ मर्यादा मध्यदेशस्य /(Vin_7.1)

/ पूर्वेण पुण्डकच्छो नाम दावः पुरतः पुण्डवर्धनस्य /(Vin_7.2)

/ शरावत्यास् तदुपा[49ब्4]ख्या नदी दक्षिणेत्र /(Vin_7.3)

/ पश्चिमेन स्थूणोपस्थूणौ ब्राह्मणग्रामकौ /(Vin_7.4)

/ उशीरगिरिर् उत्तरेण /(Vin_7.5)

/ धारयेत् प्रत्यन्त उपनहौ /(Vin_7.6)

/ शयनासनगुप्त्यर्थं च /(Vin_7.7)

/ एकपलाशिके /(Vin_7.8)

/ अर्गडिकदानेन प्रतिसंस्करणं /(Vin_7.9)

/ न पुटान्तरस्य /(Vin_7.10)

/ सप्त पदान्य् अन्ततो गृहिणा परिभुक्ते बहुपुटौ अपि /(Vin_7.11)

/ नाकल्पिकस्य कल्पिकमात्रार्थतायां तद्योगवशं [49ब्5] ग्रहणमान्तता /(Vin_7.12)

/ न चित्रोपचित्र्तां /(Vin_7.13)

/ न वेषविषाणिकां* /(Vin_7.14)

/ नाश्वत्थकरवीरपत्रिकां /(Vin_7.15)

/ न सुवर्णरूप्रखचितां /(Vin_7.16)

/ न किचिकिचायन्तीं* /(Vin_7.17)

/ न किणिकिणायन्तीं* /(Vin_7.18)

/ न खिणिखिणायन्तीं* /(Vin_7.19)

/ न झिणिझिणायन्तीं* /(Vin_7.20)

/ अन्यद् वा शौटीर्यम् उद्वहन्तीं* /(Vin_7.21)

/ न तिर्यग्वधिऊकत्वस्याकल्पिकत्वं /(Vin_7.22)

/ धारयेत् पुरः प्रार्ष्णिपुटके /(Vin_7.23)

/ लाला[49ब्6]म्बुजां /(Vin_7.24)

/ मुण्डपूलां च /(Vin_7.25)

/ पिण्डीभवज्जने च जनपदे खोलां पूलां च /(Vin_7.26)

/ न मान्यस्य सन्निधाव् उपानत्प्रवृत्तिम् भजेत /(Vin_7.27)

/ न सिं*हव्याघ्रद्वीपिहस्त्याजानेयाङ्गस्य किञ्चित् काये वस्थितत्वं /(Vin_7.28)

/ कक्षहस्तिखटुंकाश् च तदन्यचण्डमृगान्<<ण्>>आम् अप्य् एभिर् आक्षेपः /(Vin_7.29)

/ नोपानाहम् आस्फोटयेत /(Vin_7.30)

/ उदाअ<<का>>र्द्रेण नतुकेनैनां विरजीभावाय [50अ1] / / पोच्छयेत्* /(Vin_7.31)

/ धारयेद् एनत्* /(Vin_7.32)

/ ग्रथ्नीयाद् एनां /(Vin_7.33)

/ प्रतिगुप्तप्रदेशे ऽप्रासादवस्तुनः करणं /(Vin_7.34)

/ धारयेत् तदर्थमारां वद्ध्रञ् च /(Vin_7.35)

/ न शत्रीम् /(Vin_7.36)

/ न काष्ठपादुकायारोहेद् अन्यत्रान्तर्गृहद् अशुचिकुटेश् च /(Vin_7.37)

/ न वंशपत्रमुंजसीरीदर्भाणां /(Vin_7.38)

/ रज्जोश् च /(Vin_7.39)

/ अवातशोणिते /(Vin_7.40)

/ निषीदेच् चर्मण्यभावे न्यस्यान्तर्गृहे /(Vin_7.41)

/ अत्राप्य् अत्र तद्रूपेष्व् अपि प्रत्ययेष्व् अनि[50अ2]पत्तव्यता प्रतिगृह्णीत् तर्क्षचर्म चक्षुषे /(Vin_7.42)

/ पादस्थाने प्रज्ञपनम्* /(Vin_7.43)

/ गन्धकुटिद्वारे बोद्धस्य /(Vin_7.44)

/ उपानहोः प्रावरणम्* /(Vin_7.45)

/ वाते निषद्या निपद्या च सर्वम् अर्शःस्वेतद् इत्य् अस्योपयोगः /(Vin_7.46)

/ रोमसंस्पर्शेनो[प]कर्तृतां विद्यात्* /(Vin_7.47)

/ बहुपुटत्वेन चोपनाहोः /(Vin_7.48)

/ अनेकोपरिस्थेन चैकेनापि /(Vin_7.49)

/ नानस्मापरान्तकेषु चर्म धारयेत्* /(Vin_7.50)

/ न सिं*हादेः /(Vin_7.51)

/ [50अ3] स्नाय्वस्थिदन्तमांसवंसानाम् अपि तस्याकल्पिकत्वं* यस्य चर्मणः /(Vin_7.52)

/ धारयेत तृतिं* /(Vin_7.53)

/ काषायं माणवकं वा /(Vin_7.54)

/ न चित्रोपचित्रम्* /(Vin_7.55)

/ न नाभिज्ञास्तरणे कृत्वा सविधानम् अगाधमम्भो वगाहेत्* /(Vin_7.56)

/ शिक्षेत् तर्तुं प्रविविक्ते प्रदेशे /(Vin_7.57)

/ न तदगाधे हेरो?गाम् अपाश्रयेत मुक्त्व्[आ]र्षभम्* /(Vin_7.58)

/ अपाश्रयेत हस्त्यश्वमहिष्यरान्* /(Vin_7.59)

// [इति] [50अ4] चर्मवस्तु // 7 //

*vin_8. भैषज्यवस्तु /

**(vin_8,1) भैषज्यवस्तु /

/ प्रतिसेवेत भैषज्यम् /(Vin_8.1)

/ चातुर्विध्यम् अस्य /(Vin_8.2)

/ ग्लानं प्रत्यप्रथमता /(Vin_8.3)

/ सर्वं चोचमोचकोलाश्वोत्थोदुम्बरपुरुषकमृद्धीकखर्जूरपानानाम् /(Vin_8.4)

/ तद्वच् छुक्तशुलुकदधिमण्डोदश्विन्मण्डकानि दकभिन्नानि पट्टपरिश्रुतानि स्वच्छानि मुखदर्शीनि शरकाण्डवर्णानि /(Vin_8.5)

/ अयुक्तिः प्राग् एवं [प]श्चाद् उपसंपन्नेन यर्शनस्य स[50अ5]मानव्यंजनेन /(Vin_8.6)

/ हरीतक्यादेः पञ्चकस्य /(Vin_8.7)

/ गुडस्य च /(Vin_8.8)

/ अधिष्ठितस्यास्य भक्षणे ग्लानवत्त्वमच्चोद्धोपधिवारिके नवकर्मिणाम् /(Vin_8.9)

/ भक्तिच्छिन्नकस्यात्र चाकालिकाभक्षणे च /(Vin_8.10)

/ पानानियामिकम् /(Vin_8.11)

/ स्वच्छानि /(Vin_8.12)

/ अतत्त्वात् तद्द्रव्यस्य कालिकं चेद् अनुपसंपन्नेन मर्द्धनं परिश्रावणञ् च पटेन /(Vin_8.13)

/ दाडिमवीजपूरकाद् अन्येष्व् एषु द्रव्यम् /(Vin_8.14)

/ कालि[50अ6]कत्वे स्य यामान्तः पर्यन्तः /(Vin_8.15)

/ अन्यत्वे यस्तिस्मिन् /(Vin_8.16)

/ अनितिवृत्ताव् एषोतिवृत्तौ यतः सेत्येकः /(Vin_8.17)

/ तदसदतिरिक्तकालाश्रितावरूढिप्राप्ते तस्यां चागम्यत्वाद् भविष्यतः प्राकृतानाम् अनधिष्ठेयतापत्तेः /(Vin_8.18)

/ प्रविष्टत्वम् अत्र रसचूर्णारिष्टयोः /(Vin_8.19)

/ सौवीरकस्य च स्वच्छस्य /(Vin_8.20)

/ पूलादिभैषज्यं शूतपच्लम् एतत् /(Vin_8.21)

/ सर्प्पिस् तैलमधुफाणितानि सप्ताहिकम् /(Vin_8.22)

/ [50ब्1] सर्वेषां गुडखण्डशकरादीनां फाणितत्वेनाक्षेपः /(Vin_8.23)

/ सर्पिष्ट्वसुधायाः /(Vin_8.24)

/ तैलवत्त्वं वशानां पञ्च परिसूतानाम् /(Vin_8.25)

/ मत्स्यशुशुशिरम् आरक्षसूकाराणाम् /(Vin_8.26)

/ आसम्भूयान् ग्लान्य उपयोगः /(Vin_8.27)

/ स्वस्थतायाम् आसां ग्लान्यानिमित्तं पाचते दानम् /(Vin_8.28)

/ अभावे ऽस्य ग्लानकोष्ठिकायां कषायांजनयोश् च /(Vin_8.29)

/ यावज् जीविकं मू[50ब्2]लगण्डपत्रफलम् अस्फरित्रामिषार्थस्य /(Vin_8.30)

/ तद्यथा मुस्तं वचा हरिद्रार्द्रकमतिविषा /(Vin_8.31)

/ चन्दनं चविका पद्मकं गुडूचि देवदारु हरिद्रार्द्रकम् /(Vin_8.32)

/ वासककेशातकीपटोलनिम्बसप्तपत्रपत्राणि /(Vin_8.33)

/ पुष्पानि वासकनिम्बधातकीनागानां पद्मकेसरञ् च /(Vin_8.34)

/ हरितक्यामलकं बिभीतकं मरीचं पिप्यली /(Vin_8.35)

/ जतु /(Vin_8.36)

/ तद्यथा हिङ्गुसर्जरसः /(Vin_8.37)

/ स्तपः [50ब्3] स्तपकर्णी स्तपाकरः /(Vin_8.38)

/ क्षारः /(Vin_8.39)

/ तद्यथा तिलपलाशस्वर्जिकायवशूकवासकानाम् /(Vin_8.40)

/ क्षारक्षारश् च /(Vin_8.41)

/ लवणम् /(Vin_8.42)

/ तद्यथा सैन्धवं सौवर्चलं विटं सामुद्रं रोमकम् /(Vin_8.43)

/ कषायः /(Vin_8.44)

/ तद्यथाम्रनिम्बकोषाम्बशिरीषजम्बूनाम् /(Vin_8.45)

/ यावद् आप्तं दानं स्नात्वा पुनरसं स्पर्षं सकृत् स्नानम् इति कषायदानम् /(Vin_8.46)

/ न विकृतभोजनस्य भैषज्यग्र[50ब्4]हणेनान्तता /(Vin_8.47)

/ यावज् जीविकत्वम् अस्य /(Vin_8.48)

/ तदाख्यं पुनर् उच्चारप्रस्रावौ स्तन्ययानयायिनां वत्सकानां विषे ताव् उपकारौ /(Vin_8.49)

/ छाविका /(Vin_8.50)

/ काञ्चनपीतशालाश्वत्थोदुम्बरन्यग्रोधानां सा /(Vin_8.51)

/ मृच्चतुरङ्गुलादधोभूमेः साध्वी /(Vin_8.52)

/ स्राद्धाद् अस्यादानम् उपासकात् /(Vin_8.53)

/ तेन प्रतिग्रहणम् /(Vin_8.54)

/ मांसभैषज्यस्य चामस्य /(Vin_8.55)

/ ग्रहणं [50ब्5] वस्तूनातः सर्वस्य /(Vin_8.56)

/ कार्यत्वम् अस्य /(Vin_8.57)

/ जरकुचोच्चारयवाश्चेदकालोपयोज्यतायां याचकृतभैषज्यस्य तदर्थं स्फरेयुः नान्यात् परिभुञ्जीत् /(Vin_8.58)

/ पट्टपरिश्रुता च दबक्षारी नान्यत् /(Vin_8.59)

/ कोकोच्चारसांसंचेन्मांसभैषज्यस्य नान्यत /(Vin_8.60)

/ पट्टपरिश्रुतेश् चेद्रसको नान्यत् /(Vin_8.61)

/ सान्ये पि सद्भावस् तदद्याचारस्य तस्माद् पूर्वकल्पेन तत्साह्ये प्रवृत्तिः /(Vin_8.62)

/ [50ब्6] नानापन्नस्य रूपान्तरम् अपूर्वरूपत्वं तस्मान् न विसंपच्चितस्य परतः स्वकल्पेनाकल्पनम् /(Vin_8.63)

/ सम्पद्यते प्रक्षालनेन शक्ततण्डुलेषु प्रवृत्तावस्थानस्य स्वमात्रसंख्यता गुडस्य /(Vin_8.64)

/ गुडत्वे गुडवत्त्वे प्रतिपत्तिः /(Vin_8.65)

/ अनुत्थानम् अधितिष्ठते सान्निहित्यस्याधितिष्ठेत् ग्लान्यनिमित्तपरिभोगार्थम् /(Vin_8.66)

/ आश्वकालपर्यन्तात् /(Vin_8.67)

/ पूर्वभक्ते /(Vin_8.68)

/ [51अ1] / / प्रतिग्राहितम् /(Vin_8.69)

/ रक्ष्यो ऽप्रतिग्राहितसन्निहितसम्पर्कस् तस्मान् निर्माद्य हस्तौ /(Vin_8.70)

/ नोद्गृहीतसन्निहिताप्रतिग्राहितान्तरुषितपक्वभिक्षुपक्वेष्व् अधिष्ठानस्य रूढिः /(Vin_8.71)

/ सन्निहितत्वं रसाच्छता परिवृत्तौ /(Vin_8.72)

/ नाधरेण सार्धम् अधिष्ठितं परिभुञ्जीत् /(Vin_8.73)

/ निदर्शनं भैषज्यानु(क्)क्रमः /(Vin_8.74)

/ प्रतिसेवतांजनम् /(Vin_8.75)

/ नाभैषज्यार्थम् /(Vin_8.76)

/ योग्यम् अस्य भाजनम् /(Vin_8.77)

/ रसाञ्जनस्य [51अ2] समुद्गकः /(Vin_8.78)

/ गोणिकागुडिकांजनस्य /(Vin_8.79)

/ पुष्पकल्कं चूर्णांजनानां नाडिका /(Vin_8.80)

/ धारयेच् छलाकाम् /(Vin_8.81)

/ ताम्रलोहयोस् साध्वी मणिभूतयोः /(Vin_8.82)

/ धारयेद् आवाधिकः कच्छपुटं भैषज्यनिधानाय /(Vin_8.83)

/ स्वसंभवतां तत्र भारीकृत्य सूतं वा निधानम् /(Vin_8.84)

/ शोषणतः कालेन कालं निहितस्य पौत्यानुपगतिः /(Vin_8.85)

/ छायातपे /(Vin_8.86)

/ वीर्यस्य शोषे हानिः /(Vin_8.87)

/ [51अ3] अनयनेत स्वयम् उपयात्रे विनाशहेतोर् अभावे नुसंपन्नस्य /(Vin_8.88)

/ धारयेद् भैषज्यसरावकम् /(Vin_8.89)

/ भैषज्यकटछुकम् /(Vin_8.90)

/ विषीदनके चानुपानपट्टकम् /(Vin_8.91)

/ आवाधिको लवणम् /(Vin_8.92)

/ नाडिकस्य साधु स्थानं साङ्गा /(Vin_8.93)

/ गोमयेन परिक्वाथितस्य /(Vin_8.94)

/ विधानकस्य तद्विरहादोषाभावाय दानम् /(Vin_8.95)

/ अतन्मयस्यैव /(Vin_8.96)

/ गन्धपरिभाविनां मृदं /(Vin_8.97)

/ पा[51अ4]नीयतापनार्थ(ं)मयस् पिण्डम् /(Vin_8.98)

/ उपयोजयेत् सर्वः /(Vin_8.99)

/ सृङ्खलायास् तप्तोत्क्षेपार्थं तत्र लगनम् /(Vin_8.100)

/ आर्द्रमृत्तिकया तापनकाले तदवष्टम्भः /(Vin_8.101)

/ नास्त्य् आमिषोपदेहस्य भावे ऽवस्थानम् /(Vin_8.102)

/ कल्पिकस्य पूर्वं तापनं पश्चात् परिभोगिकस्य /(Vin_8.103)

/ भजनं बस्तिचिकीत्सितस्य /(Vin_8.104)

/ स्थूलम् अत्रान्यथाशक्यतायां व्युत्थापनस्य /(Vin_8.105)

/ मणेर् लोह[51अ5]स्य वात्र नाडीकसाध्वी नायसः /(Vin_8.106)

/ तद्वत् शस्त्रचिकित्सितम् /(Vin_8.107)

/ नैतद् अन्यच् चिरावेधान्मुखे भजेत् /(Vin_8.108)

/ नार्शसां छेदम् /(Vin_8.109)

/ अन्येनापि शस्त्रात् /(Vin_8.110)

/ मन्त्रौषधाभ्याम् एषां विचिकित्सनम् /(Vin_8.111)

/ न प्रदुष्टेन चिकित्सयेत् /(Vin_8.112)

/ न रात्रिर् अभ्यवहारे विचिकित्सायाम् अप्रतिरूपा /(Vin_8.113)

/ अनाशंक्यम् अत्राप्रतिग्राहितसन्निहितयोर् अकल्पिकत्वम् /(Vin_8.114)

/ पानं विचिकित्सायै धूपवर्त्तेः [51अ6] नेत्रिकयास्य सम्पत्तिः /(Vin_8.115)

/ अयोमय्याः करणम् /(Vin_8.116)

/ द्वादशाङ्गुला साध्वी न तीक्ष्णा पुरुषा वा /(Vin_8.117)

/ स्थविकायां निधानं म्रक्षयित्वा सर्पिषा तैलेन वा /(Vin_8.118)

/ नागदन्तके चीवरवंशे वा तस्या स्थापनम् /(Vin_8.119)

/ निर्मादनार्थम् अग्नौ प्रक्षेपः /(Vin_8.120)

/ करणं नस्तः कर्मणः /(Vin_8.121)

/ नस्तकरणे नास्यसंपत्तिः /(Vin_8.122)

/ द्व्यतीक्ष्णचंचुकं साधु /(Vin_8.123)

/ कारणम् अस्य /(Vin_8.124)

/ प्रतिसेवे[51ब्1]तामनांसं भैषज्यार्थे /(Vin_8.125)

/ भुक्त्यै तस्यासक्तवत उपायः /(Vin_8.126)

/ पिधानमक्ष्णोः पट्टकेन /(Vin_8.127)

/ भावनं सुगन्धिनानुत्थानाय /(Vin_8.128)

/ अपेततायां पलिगोधस्य स्थितत्वे च मनोज्ञस्य पुरतः खाद्यभोज्यस्य मोक्षः /(Vin_8.129)

/ स्थूलम् अन्यार्थे ऽस्यास्याम् /(Vin_8.130)

/ सर्वत्र मानुषमांसस्य /(Vin_8.131)

/ नोद्दिश्यकृतं ज्ञात्वा मांसं भुञ्जीत् /(Vin_8.132)

/ न व्याघ्रशेषम् /(Vin_8.133)

/ न हस्त्यश्वनागानाम् /(Vin_8.134)

/ [51ब्2] नैकखुरसृगालम्र्कटकाकेटककाकगृ(द्)ध्रवलाकाभषकालिकोलूकतदन्यकुणपखादकपक्षिवकजान्तुकोपलद्धागण्डूपककृमीणाम् /(Vin_8.135)

/ प्रतिक्षिप्तमयतामेति मांसं प्रतिग्राहयन्तं पृच्छेत् /(Vin_8.136)

/ प्रथमो ऽनेकत्वे /(Vin_8.137)

/ अन्तरोहापनायाम् /(Vin_8.138)

/ अप्य् एयत्वं हस्तिमानुषक्षीरयोः /(Vin_8.139)

/ अदुष्टं त्व् अग्वणदेहनस्यदानाक्ष्यञ्जनम् अभक्ष्येणो /(Vin_8.140)

/ [51ब्3] पेयत्वं ग्लानेन मूर्छितस्य /(Vin_8.141)

/ सर्प्(य्)इषा तैलेन चामद्यस्य /(Vin_8.142)

/ निर्दोषममद्यत्वे /(Vin_8.143)

/ संपत्तिर् अस्य क्वाथात् /(Vin_8.144)

/ प्रक्षिप्तभर्जितयवस्यास्य भूमौ निहितस्य सुक्ते त्वोपगतिः /(Vin_8.145)

/ भवत्य् अनुपगतिः /(Vin_8.146)

/ मद्यत्वे क्वाथेन द्राक्ष्यरसस्य /(Vin_8.147)

/ नाव्यवपृक्ततायाम् अस्तित्वम् /(Vin_8.148)

/ सत्वं वासनाभूतत्वम् /(Vin_8.149)

/ पानं मद्यतृद्विगमाय मद्यगन्धपरिभावितमूलगण्डपत्र[51ब्4]पुष्प-फलभैषज्यशुष्कचूर्णोदकस्य /(Vin_8.150)

/ समद्ये भाण्डे लम्बनस्थापनेन परिभावनम् /(Vin_8.151)

/ रक्ष्यस् संसर्गस् तस्माद् ऊने विगतवेगतायाञ् च /(Vin_8.152)

/ तथा विरसीकरणेनाकालपाने चामिषेण /(Vin_8.153)

/ प्रासादिकञ् च साधु तस्माच् छुक्लनत्रकेन सूतीकरणम् /(Vin_8.154)

/ अपानं ग्लानेन मद्यस्य कुशाग्रेणापि /(Vin_8.155)

/ अदानञ् च सर्वेणौपासकात् /(Vin_8.156)

/ चिकित्सार्थतां मुक्त्वे[51ब्5]त्य् अप्रकृतिसावद्ये सर्वत्र शेषः /(Vin_8.157)

/ न लशुनं पलाण्डुं गृञ्जनकं वा परिभुञ्जीत /(Vin_8.158)

/ प्रतिगुप्तिप्रदेशे ग्लानः /(Vin_8.159)

/ नोपयुञ्जनः परतश् च सप्ताहं लशुने पलाण्डौ त्रिरात्रम् एकरात्रं गृञ्जनविहारं परिभुञ्जीत् /(Vin_8.160)

/ शयनासनम् /(Vin_8.161)

/ न वर्चकुटिं प्रवेशेत् /(Vin_8.162)

/ न प्रस्रावकुटिम् /(Vin_8.163)

/ न संघमध्ये ऽवतरेत् /(Vin_8.164)

/ नोपविचारे चैत्यस्य /(Vin_8.165)

/ व्यामोध्व प्रमाणम् /(Vin_8.166)

/ [51ब्6] न गृहिभ्यो धर्मं देशयेत् /(Vin_8.167)

/ न कुलाक्षय संक्रामेत /(Vin_8.168)

/ न जनाकीर्णान् प्रदेशान् /(Vin_8.169)

/ स्नानम् अन्ते /(Vin_8.170)

/ अपनयनञ् च चीवराणां गन्धस्य /(Vin_8.171)

/ शोचनधूपनाभ्याम् /(Vin_8.172)

/ आयुष्करा दुर्भिक्षे /(Vin_8.173)

/ वाह्यवकवायसोर् अधिष्ठितं कल्पिकत्वेन /(Vin_8.174)

/ अधितिष्ठेन् न वृक्षमूलहस्तिशालतीर्थिकावसथराजकुलवस्तु भिक्षुणी वर्षकावैहारमेधीद्वार[52अ1] / / कोष्ठकप्रासादजेन्ताकोपस्थापन-शालम् /(Vin_8.175)

/ अभ्यवकाशाग्निशालाचैत्यवस्तु गृहपतिवसूनि चैत्यपरं /(Vin_8.176)

/ साधनपचनस्याप्य् अत्राकारणम् /(Vin_8.177)

/ पञ्चोपस्करणञ् च /(Vin_8.178)

/ चत्वारात्रकालाः /(Vin_8.179)

/ प्रथमाष्टकान्यस्य मानत्वम् ऊर्ध्वं सनवकर्मत्वम् /(Vin_8.180)

/ अन्यदानपगतभिक्ष्वधिवासनत्वम् /(Vin_8.181)

/ निरेतदोधिवसनाय भिक्षूणां संप्राप्तिः /(Vin_8.182)

/ आकृत्या[52अ2]न्तरारम्भप्रतिशान्तिभ्यां तत्वम् /(Vin_8.183)

/ सर्वत्र संघः कर्मणा /(Vin_8.184)

/ प्रथमयोः पुद्गलो ऽपि /(Vin_8.185)

/ नवकर्मिकः /(Vin_8.186)

/ केवलो ऽस्याद्या /(Vin_8.187)

/ भाषणतः /(Vin_8.188)

/ अवधाने द्वितीये संबहुलानां भिक्षूणाम् /(Vin_8.189)

/ यावन्तस्ता[व?]न्तस् सन्निहिताश् चतुर्थे संमंकल्पिकशालाम् वाङ् भावकवचनोदाहारतः /(Vin_8.190)

/ नान्ये कस्यैकस्य यानायाविहारस्य कृत्यकरणम् अप्रासादिकम् /(Vin_8.191)

/ न पृथग्भू[52अ3]तस्यैतत् कल्पिकत्वम् उक्तम् /(Vin_8.192)

/ भुञ्जीत् भिक्षु[ः] पक्वोद्गृहीतप्रतिगृहीते /(Vin_8.193)

/ पुरोभक्तिकाम् /(Vin_8.194)

/ पेयां सर्वदा /(Vin_8.195)

/ प्रागप्रतिग्राहितं प्रध्वाद्योत्थितः /(Vin_8.196)

/ उत्तिष्ठेत् तदान्त्यै /(Vin_8.197)

/ शिष्टम् /(Vin_8.198)

/ अभिनिर्हृतम् /(Vin_8.199)

/ निर्हरेद् एनत् /(Vin_8.200)

/ वनस्थिकानि /(Vin_8.201)

/ तदाख्यम् /(Vin_8.202)

/ तद्यथा द्राक्ष्यदाडिमखर्जूराक्षोष्टौ वाताम उरुमानरामापिकाकुरुमायिकानिकोचोबभूः पिञ्चितिका[52अ4]पुष्करञ् च तदाख्यम् /(Vin_8.203)

/ तद्यथा विन्मंमृणालिकावेट्टशालूकं पद्मकर्कटिका /(Vin_8.204)

// [इति] भैषज्यवस्तु // 1 //

**(vin_8,2) क्षुद्रकाधिकं /

/ न राज्यम् उपार्धम् वास्य प्रतीच्छेत /(Vin_8.205)

/ प्रतिगृह्णीयात् संघार्थं ग्रामां /(Vin_8.206)

/ क्षेत्रञ् च /(Vin_8.207)

/ नैतद् अभ्युपेक्षेरन् /(Vin_8.208)

/ भोगेनास्य दानम् /(Vin_8.209)

/ मार्गणं भाग्यस्य /(Vin_8.210)

/ कृष्णातो ऽस्य विहारे नेयत्वम् /(Vin_8.211)

/ प्रथमतरम् आत्मीयात् /(Vin_8.212)

/ रक्षणाय [52अ5] भिक्षूणां नियोगः /(Vin_8.213)

/ नाप्रज्ञायमानाय व्ययो भयान्यतरे गणनां मृगयेत् /(Vin_8.214)

/ अन्यत्र स्मृतिस,प्रजन्यपुर[ः]सरस् तत्र प्रवर्त्तेत् /(Vin_8.215)

/ प्रतिगृज्णीयात संघार्थम् उपस्थायकान् /(Vin_8.216)

/ यतो नागतिः शब्दस्य विहारे तत्र कल्पकारम् आपनम् /(Vin_8.217)

/ देयत्वं भक्तस्य करणं चेत कर्मणः /(Vin_8.218)

/ गोमहिष्याजैडकहस्त्यश्वोष्ट्रगर्दभामधान्यभाजनं च [52अ6] न स्तूपस्यैषाम् अकल्पनम् /(Vin_8.219)

/ धारयेत् कलाविकालवणपातलिकाञ् च /(Vin_8.220)

/ नाभ्याम् अनुपानपट्टकाच् चान्यत् कंसभाजनं पुद्गलो धारयेत् /(Vin_8.221)

/ उपस्थापयेद् आरामिकम् /(Vin_8.222)

/ ग्रहणं रक्षायै प्रतिपाद्यमानानाम् अप्य् अन्यानां समानव्यञ्जनानाम् /(Vin_8.223)

/ आसक्तकण्ठचीवरकत्वम् एषां वेषः /(Vin_8.224)

/ कट्यां वा प्रतिपालनम् अनुकम्पाचरितेन /(Vin_8.225)

/ [52ब्1] ग्रहणं तत् ज्ञात्युपसंकृतस्य /(Vin_8.226)

/ निष्त्रयत्वेन चान्ते /(Vin_8.227)

/ तैश् च कृतज्ञतया /(Vin_8.228)

/ नैतन् मूल्यं याचेत् /(Vin_8.229)

/ स्वीकुर्यात् फललाभम् /(Vin_8.230)

/ घृततैलमधुफाणितघटान् /(Vin_8.231)

/ तद्भाजनञ् च /(Vin_8.232)

/ स्थापयेद् एनाम् आधारके /(Vin_8.233)

/ अनुपभोज्यत्वम् उच्चारप्रस्रावम् अद्य घटानाम् /(Vin_8.234)

/ प्रतिजागृयात् संघार्थयोः साधनपचनयोः /(Vin_8.235)

/ नापार्श्वनिहिततां प्रागावात् पात्र[52ब्2]स्य पिण्डाय प्रवृत्तौ भजेत् /(Vin_8.236)

/ पिण्डोपभानं धारयेत् /(Vin_8.237)

/ अनाशंक्यम् अत्र लोहभाण्डाधारणे चासाधारणत्वम् /(Vin_8.238)

/ अकल्पिकत्वं च ग्लानायाः चेलाभरणस्य /(Vin_8.239)

/ नाविशभरावकेण पिण्डाय कुलं प्रविशेत् /(Vin_8.240)

/ धारयेद् एनम् /(Vin_8.241)

/ निष्काशप्रवेशकौशले प्रयते[त] /(Vin_8.242)

/ अभिज्ञानकरणेन पिण्डापाता च करादिना /(Vin_8.243)

/ न धर्मवणिज्यपजीवितां कल्पयेत् /(Vin_8.244)

/ [52ब्3] शोचनम् असंभवे जलस्य दध्यादिमण्डेन पादयोः /(Vin_8.245)

/ निषदनं पिण्डके /(Vin_8.246)

/ स्थापनम् एकान्ते ऽभ्यवकाशे /(Vin_8.247)

/ राशीकृत्यापि /(Vin_8.248)

/ प्रमी लनम् अन्ते /(Vin_8.249)

/ करणं प्राभूत्ये पाटिकानेकत्वस्य /(Vin_8.250)

/ शतपंचकशः /(Vin_8.251)

/ प्रतिवृद्धान्तम् उपन्वाहारः /(Vin_8.252)

/ अधिष्ठापकानाम् अपहर्तृत्वे वा करणम् उद्देशः /(Vin_8.253)

/ प्रथमतरं भोजनव्यापारिकैः भक्तिः /(Vin_8.254)

/ यथा वृद्धिकया [52ब्4] निषादनाय दापनाय च महासन्निपाते भिक्षूणाम् उद्देशः /(Vin_8.255)

/ निषदेयुः द्वित्रावर्जां यथेष्टम् अत्र भिक्षुण्याः /(Vin_8.256)

/ अल्पशब्दो ऽभ्यवहाराग्रं गच्छेत् /(Vin_8.257)

/ सुसंवृतेर्यः /(Vin_8.258)

/ प्रासादिकः /(Vin_8.259)

/ एवं तिष्ठेत् /(Vin_8.260)

/ नाभ्यवहार्यं पादेनाक्रामेत् /(Vin_8.261)

/ न यदा पात्राधिष्ठानं स्पृशेत् /(Vin_8.262)

/ स्मृतिम् उपस्थाप्याविक्षिप्तचित्त[ः] पिण्डपातं गृह्णीयात् /(Vin_8.263)

/ अनवकिरन् [52ब्5] पात्रामात्रकम् /(Vin_8.264)

/ असंमिश्रयन्नेन /(Vin_8.265)

/ अनान्वालयम् /(Vin_8.266)

/ सुप्रतिछन्नम् /(Vin_8.267)

/ अनतिपातं कालम् अभिनिर्हरेत् /(Vin_8.268)

/ न येन मन्त्रित ततो ऽन्यस्य लब्धेः स्वीकारे ऽस्त्य् अयुक्तत्वम् /(Vin_8.269)

/ निर्दोषत्वं स्वभोजने ऽन्यप्रतीष्टेः /(Vin_8.270)

/ तद् अन्तर्गतवद् अन्योपनिमन्त्रणे निषण्णस्यानुज्ञातं तेनान्यदत्तम् /(Vin_8.271)

/ अभिप्रेतेनार्थेन शब्दप्रयोगे व्यवस्थानप्रसिद्धेन /(Vin_8.272)

/ नान्तं विसर्जयेत् [52ब्6] दृष्टिशीलसम्पन्नाभ्यामान्तस्यान्यत्र यथासंख्यं दानम् अतिरिक्तस्य चालोपाद् यात्राकारिणो ग्रहणम् /(Vin_8.273)

/ भोगश् च विनिपातनं श्रद्ध्[आ]देयस्य /(Vin_8.274)

/ मात्[आ]पितृग्लानपुत्रह्यापेक्षकुक्षीमतीभ्यो विनेयाकां क्षापिण्डपातं स्पृष्टवते गृहिणे च संप्राप्ताय संविभागश् च तत्ः करणम् /(Vin_8.275)

/ आलोपपिण्डां स्थापयेत् /(Vin_8.276)

/ अव्यवच्छिद्य भोकारम् /(Vin_8.277)

/ [53अ1] तिरश् चे च दद्यात् /(Vin_8.278)

/ नानवशिते भक्त्यर्थम् उपनिक्षिप्ताद् ददीत्* /(Vin_8.279)

/ न निमन्त्रणके श्रद्धदेयत्वेन पात्राधिष्ठाने ऽस्योच्छिष्टाशिलां यथा सुखकरणम् /(Vin_8.280)

/ नैवासिकानां बलिदानम् /(Vin_8.281)

/ तत्कल्पानुगत्या पूर्वाह्वादौ /(Vin_8.282)

/ भिन्नकल्पत्वे भेदेन /(Vin_8.283)

/ नावर्धको किलिकभावस्थामाम्रं भक्षयेत् /(Vin_8.284)

/ नाकल्पिकत्वं मूलगण्डपत्रपुष्पफलखादनीयौदनकुल्मासम[53अ2](छ?)त्स्यमांसापूपक्षीरदधिनवनीतमत्स्यवल् लूराणाम् /(Vin_8.285)

/ अनाशङ्क्यद्गसार्षपमूलगण्डपत्रपुष्पफलादियवागूनाम् अनिषेध्यत्वम् /(Vin_8.286)

/ ओजस्करत्वं दूतस्योदकेनापि /(Vin_8.287)

/ नाकल्पिकत्वं तृतिगतस्य /(Vin_8.288)

/ कल्पते भाजने भोजनम् /(Vin_8.289)

/ यार्यां /(Vin_8.290)

/ शेलामये च /(Vin_8.291)

/ कृतभोजने ऽपि निःश्रितव्यापारो निर्मादनम् /(Vin_8.292)

/ भुक्ते ऽपि /(Vin_8.293)

/ नापरेण सार्द्धम् एकत्र भाजने भुञ्जीत्* /(Vin_8.294)

/ [53अ3] भुञ्जिदाध्वन्यसंभवे भाजनानां भिक्षूणाम् /(Vin_8.295)

/ उद्धृते ऽन्यस्य हस्ते स्वं प्रक्षिपेत् /(Vin_8.296)

/ श्रामणेरे च सार्द्धं परवदयोगे कल्पकारकानां पिण्डीकृत्य दानम् /(Vin_8.297)

/ ज्ञातिना सर्वत्र हार्देन प्रार्थितः /(Vin_8.298)

/ प्रतिगुप्ते प्रदेशे /(Vin_8.299)

/ रक्षत्वम् अनयेष्प्रतिग्रहध्वस्तेनप्रतिग्राहितसंपृक्तेश् च /(Vin_8.300)

/ न सोपानत्थो भुञ्जीत्* /(Vin_8.301)

/ आक्रम्य ग्लानः /(Vin_8.302)

/ न नग्न एकचीवरो वा /(Vin_8.303)

/ अनापत्तिर् ग्लानस्योपस्था[53अ4]यको ऽस्य गुप्तिं कुर्यात् /(Vin_8.304)

/ संकक्षिकां शक्तौ संश्रयेत /(Vin_8.305)

/ गुप्तञ् च प्रदेशम् /(Vin_8.306)

/ नेदमितो वा देहीति भोजनार्थम् उपविष्टपरिवेष्टारं बोधयेत् /(Vin_8.307)

/ अनापत्तिर् ग्लाने ऽनुक्तयस्य /(Vin_8.308)

/ तद्यथा मन्दाग्नौ पक्वस्यामस्य दीपताग्नौ ग्लानसंज्ञाम् /(Vin_8.309)

/ स्वत्रोपस्थाप्य भुञ्जीत्* भैषज्यसंज्ञाम् आहारे /(Vin_8.310)

/ स्मृतिञ् च /(Vin_8.311)

/ समुदागमसादृश्यपरिणतप्रत्यर्थिकत्वनिष्यन्द प्रतीत्य विधिपरीष्टिपराधीन[53अ5]त्वन् मव्याबाधिकत्वप्रत्येकगततातिरास्थितप्रातिकुल्यम् /(Vin_8.312)

/ उपस्थितस्मृतिः /(Vin_8.313)

/ अविक्षिप्तः /(Vin_8.314)

/ संप्रजानन्न् अल्पशब्दः /(Vin_8.315)

/ अकुर्वन्न् एनम् /(Vin_8.316)

/ अनुत्थापयन् यवाग्वाम् /(Vin_8.317)

/ अमटमटायमानः /(Vin_8.318)

/ मृदुकरणं शब्दकृताम् उदकादिना /(Vin_8.319)

/ न तद्भुक्त्यर्थं वाद्यमानत्वे /(Vin_8.320)

/ न देशनकृयमाणतायां प्रतिसंवेदितस्य /(Vin_8.321)

/ अत्यये कालस्य द्वित्रयोगार्थयोः /(Vin_8.322)

/ गा[53अ6]थां भुक्ता भाषेत्* /(Vin_8.323)

/ दक्षिणादेशनधर्मदेशनयोः निमन्त्रणकं भुक्त्वा करणम् /(Vin_8.324)

/ निर्ज्ञाय भुक्तिवतां सर्वेषाम् /(Vin_8.325)

/ अवलोकनेन /(Vin_8.326)

/ प्रथमेनानेकत्वे /(Vin_8.327)

/ अशक्ताव् अध्येषणं प्रतिबलस्य /(Vin_8.328)

/ अकृते चेद् गमनप्रत्ययः परिवारदानं भिक्षूणाम् /(Vin_8.329)

/ चतुर्णाम् अन्ततः /(Vin_8.330)

/ गमनप्रत्यये त्र दन्तस्यावलोक्य /(Vin_8.331)

/ नन्दोपनन्दयोर् दक्षिणादेशने नामग्रहणम् /(Vin_8.332)

/ निगिलेष्व [53ब्1]नाडिकोकालोङ्गरान् द्वित्रानादौ छोरयित्वा मुखं निर्माद्य /(Vin_8.333)

/ नैतन् नामिषम् /(Vin_8.334)

/ तस्मान् मुखम् अकाले प्रवारितश् चोद्गारारामे निर्मादयेद् अन्यः /(Vin_8.335)

/ नाप्रज्ञप्ते प्रदेशे श्लेष्मानां छोरयेत् /(Vin_8.336)

/ न परिकरिमिते /(Vin_8.337)

/ नैतत् छन्दं वा स्थाविरस्य पुरतष्कुर्यात् /(Vin_8.338)

/ न भुञ्जानस्य /(Vin_8.339)

/ न पुनः पुनः शिष्टस्यापि /(Vin_8.340)

/ अन्येनाशक्तौ प्रक्रमणम् /(Vin_8.341)

/ नान्यस्यास्पर्शकरणम् /(Vin_8.342)

/ नक्ता[53ब्2]ध्वकप्रश्नः /(Vin_8.343)

/ चंक्रमणे नान्येन वा प्रक्रमणम् /(Vin_8.344)

/ पात्रम् अस्य हस्तिपदबुध्नं साधारकस्य /(Vin_8.345)

/ तप स्थापयेद् एनम् /(Vin_8.346)

/ क्षोदकवालुकछायिकानां धारणं मक्षिकाणां प्रतिविधेः /(Vin_8.347)

/ अदुर्गन्धीभावप्राणकासंभवाय कालेन कालं शोचनं शोषणञ् च /(Vin_8.348)

/ तत्कालार्थम् अपरोपस्थापनम् /(Vin_8.349)

/ अविघातार्थं कोणस्तम्भपार्श्वे विहारस्य /(Vin_8.350)

/ चतुर्णाम् अपि [53ब्3] श्लेष्मकटकस्थापनम् /(Vin_8.351)

/ न सशब्दं वातकर्म कुर्वीत्* /(Vin_8.352)

/ नाधो वृक्षस्योच्चारप्रस्रावम् /(Vin_8.353)

/ मुक्तानिरवकाशत्वं तैर् अट्टव्याम् /(Vin_8.354)

/ कण्टकिनश् च /(Vin_8.355)

/ करणं वर्चस्कुटेः /(Vin_8.356)

/ विहारे चेद् उत्तरपश्चिमे पार्श्वे /(Vin_8.357)

/ क्षोमस्य तम् अङ्गस्य वा /(Vin_8.358)

/ कण्टकिनामधो वृक्षाणां रोपणम् /(Vin_8.359)

/ पादकयोर् उपछिद्रम् उपरि दानम् /(Vin_8.360)

/ कुण्डिकास्थानकरणम् /(Vin_8.361)

/ विकर्णाकारया द्वारम् /(Vin_8.362)

/ [53ब्4] कवाटस्य दानम् /(Vin_8.363)

/ कटकार्गडयोश् च /(Vin_8.364)

/ शब्दनं प्रविविक्षता /(Vin_8.365)

/ सूते तत्र च प्रविष्टेण /(Vin_8.366)

/ सुसंगृहीतचीवरः प्रविशेत् संप्रजनन् /(Vin_8.367)

/ मध्ये निषीदेत /(Vin_8.368)

/ शनैरलिंपनकुटिपादुकं कुर्वीत्* /(Vin_8.369)

/ नानागतम् आगमयेत् /(Vin_8.370)

/ नागतं विधारयेत् /(Vin_8.371)

/ न तत्प्रतिबद्धकार्याद् अन्येन तत्समीपे तिष्ठेत् /(Vin_8.372)

/ प्रतिदिनं शोचनम् उपधिवारिकेन /(Vin_8.373)

/ मृत्पात्रोपस्थापनञ् च /(Vin_8.374)

/ [53ब्5] नाप्रज्ञप्ते प्रदेशे प्रस्रावं कुर्यात्* /(Vin_8.375)

/ नानेकत्र /(Vin_8.376)

/ प्रोढौ गर्तायां खानयेत्* /(Vin_8.377)

/ करणं प्रस्रावकुटेः /(Vin_8.378)

/ पार्श्वे स्याः /(Vin_8.379)

/ तमङ्गस्य /(Vin_8.380)

/ प्रनाडिकादानम्* /(Vin_8.381)

/ समानम् इतरत /(Vin_8.382)

/ करणं छीद्रपीठस्य चोदनारोगे /(Vin_8.383)

/ संवर्तनेन बालस्य /(Vin_8.384)

/ असंपत्तौ छेदनम्* /(Vin_8.385)

/ सामन्तके दुःखनं चेत् पात्रवैभङ्गुकानां दानम्* /(Vin_8.386)

/ रक्ष्यो भूमिनाशस् तस्माद् अष्कर्यकरस्य /(Vin_8.387)

/ [53ब्6] नान्युच्चा साधु /(Vin_8.388)

/ कालेन कालम् अदुर्गन्धतायै शोचनम्* /(Vin_8.389)

/ शोषणं म्रक्षणञ् च कटुकतैलेन /(Vin_8.390)

/ तत्कालार्थम् अपरार्जनम्* /(Vin_8.391)

/ असंपत्तौ पतलिकाधारत्वेनोपयोगः /(Vin_8.392)

/ कृत्वोच्चारं तत्करणशुद्धेत्* /(Vin_8.393)

/ न तीक्ष्णेन तृणकुर्वकेन वा /(Vin_8.394)

/ नतुकपत्तलिकपत्रवैभङ्गुकलोष्ठकाष्ठानाम् अत्र साधुत्वम् /(Vin_8.395)

/ द्वाभ्यां च मृद्भ्यां शोचयेत् /(Vin_8.396)

/ प्राक् स्थापिताभिः [54अ1] / /प्रविभागेन मृद्भिर् उत्तरः शोचः /(Vin_8.397)

/ सनैर् मन्दमन्दमनाशयताविस्कम्भिनाचमनिकापादुकाम् /(Vin_8.398)

/ सप्तभिर् वामस्य /(Vin_8.399)

/ सप्तभिर् उभयोः वाह्विः शोचनम्* /(Vin_8.400)

/ पुनः हस्तयोर् मृदा /(Vin_8.401)

/ अपराया[ः] कुण्डिकायाः पादप्रक्षालनम्(अ) /(Vin_8.402)

/ निर्दोषं शूते कुक्षेः प्रागन्तात् पोच्चनमात्रं कृत्वासनं नातो न्यः /(Vin_8.403)

/ सत्य् उदके नावान्ते निषीदेत्* /(Vin_8.404)

// [इति] क्षुद्रकादिभैषज्यवस्तु[54अ2]गतम्* // 2 // // समाप्तं भैषज्यवस्तु // 8 //

*vin_9, कर्मवस्तु /

**(vin_9,1) कर्मवस्तु /

/ विध्युत्क्रमे कर्मणो रूढिः /(Vin_9.1)

/ नाश्राप्यश्रुतो /(Vin_9.2)

/ नारूढि कुर्यात्* /(Vin_9.3)

/ ज्ञप्तिवाचनाप्रातिमोक्षोद्देशप्रवारणास् तत् /(Vin_9.4)

/ नाधर्मेण कुर्युः /(Vin_9.5)

/ न व्यग्राः /(Vin_9.6)

/ न गणस्य /(Vin_9.7)

/ नासंघभूताः /(Vin_9.8)

/ विं*शतिप्रभृतीनाम् आवर्तणे संघत्वं /(Vin_9.9)

/ उपसंपदि दशप्रभृतीनां /(Vin_9.10)

/ विनयधरपञ्चमादीनां प्रत्यन्तेष्व् असंपत्तौ /(Vin_9.11)

/ शिष्टे चतुः[54अ3]प्रभृतीनाम्* हिरुक्त्वं भिक्षुणीनां /(Vin_9.12)

/ कर्मणि प्रवारणं भिक्षुसंघे पि /(Vin_9.13)

/ पोषधसंपन्नसामग्र्याणां तेन /(Vin_9.14)

/ छन्दपोषधहरणेन तत्संपादनम्* /(Vin_9.15)

/ द्वयोर् अत्र व्यापृतिः /(Vin_9.16)

/ प्रतिबलत्वम् अनयोः /(Vin_9.17)

/ अभाव एकस्याग्रहीतुभिक्षुसंघेन नियोगो भिक्षोः /(Vin_9.18)

/ द्वारकोष्ठके तेनावस्थानम्* /(Vin_9.19)

/ पलायमानस्य संज्ञपनम्* /(Vin_9.20)

/ तेनास्येतत् /(Vin_9.21)

/ न पलायनम /(Vin_9.22)

[54अ4] अज्ञातो नाम गोत्रप्रश्नः /(Vin_9.23)

/ मानास्यवर्तणं द्वयोस् सामे तयोः /(Vin_9.24)

/ उपसंपादनञ् च /(Vin_9.25)

/ द्वादशवर्गो त्रासां /(Vin_9.26)

/ सपूर्वसंवृतिद्वयपर्षदनलपर्षदुपस्थानसंवृतिदाने ऽन्तः संघस्य /(Vin_9.27)

/ कल्पिकम् अशक्तौ कर्मकारिकायानितीरितं तया भिक्षुणा कृतम् वचनम्* /(Vin_9.28)

/ यस्मात् तूष्णीम् इत्य् अतः प्राक्* /(Vin_9.29)

/ नासन्निषादस्थस्य पूरकत्वम्* /(Vin_9.30)

/ न यस्य क्रियतेः [54अ5] तस्माद् असत्वं पूरकत्वस्य छन्दपरिशुद्धिर् विधेः /(Vin_9.31)

/ अर्हत्*त्वम् अनयोः /(Vin_9.32)

/ असम्मतिप्रकारकत्वेन /(Vin_9.33)

/ नानुपसंपत्कध्वस्तानन्तर्यकृत्पापदृष्टिभूम्येन्तरस्थनानासंवासिकानाम्* /(Vin_9.34)

/ सस्खलितस्य च /(Vin_9.35)

/ संवरकरणीयेनापि /(Vin_9.36)

/ भवत्य् अधिष्ठानेन शुद्धत्वम्* /(Vin_9.37)

/ न शक्यतायाम्* /(Vin_9.38)

/ शक्यत्वं तदातने शुद्धप्रायश्चित्तिकप्रतिदेशनीयदुःकृतप्रतिकरणस्य प्रतिग्र[54अ6]हीतृसद्भावे देशनामात्रकत्वात्* /(Vin_9.39)

/ यथा संघम् आपन्ने प्रतिपद्येत् /(Vin_9.40)

/ न्याय्यम् एवं नाशनं चैकस्य /(Vin_9.41)

/ प्रतिकरणञ् चानेकधा /(Vin_9.42)

/ नैषां कर्तृत्वं /(Vin_9.43)

/ उद्देष्ट्टत्वं सावशेषं प्रतिक्रियायां /(Vin_9.44)

/ वर्तमानस्य नातो न्यैभिः सश्रुतं कुर्युः /(Vin_9.45)

/ उत्सृज्य वर्जितम् अनावृत्तं /(Vin_9.46)

/ उत्क्षिप्तञ् च स्वकर्मणि /(Vin_9.47)

/ अन्नः पृच्छार्थं ज्ञप्तिप्रभृतौ चोपद्यमानं /(Vin_9.48)

/ दर्श[54ब्1]नोपविचारस्थाताया सांमुख्यस्य /(Vin_9.49)

/ निवेदनेनानुश्रावणस्य तत्करणीये संपादनं /(Vin_9.50)

/ असंमुखीभूतस्य विहारो उन्मत्तकावन्दनानालपनासंभोगसंवृतयः /(Vin_9.51)

/ नाज्ञपिते तदर्थं वाचना /(Vin_9.52)

/ तत्सीमान्तर्गतस्यार्हस्य पूरणे कायतः छन्दतो वा संनिषादे ननुप्रविष्टत्वं प्रतिक्रोषन्ता च यस्य तत्कर्म ततो न्यस्य प्रतिकूलं चेत् धर्मं वाच्युतस्येर्यापथात्* प्र[54ब्2]कृतिस्थस्य संयतस्य वा चोत्सृज्यानभिज्ञसान्तरात्* व्यग्रत्वं /(Vin_9.53)

/ मृषावादप्रह्वत्वम् असंयतिर् वाचा /(Vin_9.54)

/ पैषुन्ये पारुष्ये संभिन्नप्रलापे च /(Vin_9.55)

/ अप्रकृतिस्थत्वम् अत्र चान्यत्र वा करणीये करणीयकृतौ च /(Vin_9.56)

/ च्युतिरीर्यापथाद् विप्रक्रमणचित्तेन प्रवृत्तस्यास्योत्सृष्टिः /(Vin_9.57)

/ संघे दृष्टिम् आविस्कुर्वीत /(Vin_9.58)

/ नान्यत्र /(Vin_9.59)

/ नानुपसंपत्क /(Vin_9.60)

/ अनर्हे वा पूरणायां /(Vin_9.61)

/ नानव[54ब्3]शेषत्वे /(Vin_9.62)

/ संमन्येरन्* साधुतरवहुतरकारिणं संमतम् अपसार्य /(Vin_9.63)

/ न नियम्य कालं पौनःपुन्ये न्यत्र वा /(Vin_9.64)

/ दध्युर् अन्यत्र यावद् अर्थं परिहारं /(Vin_9.65)

/ शलाकग्रहणेनाभावे संमतस्य भाजनम् /(Vin_9.66)

/ यस्य पूरणे नर्हत्व शलाकाचारणे पि तस्य /(Vin_9.67)

/ संघभेदे स्य रूढिर् अनर्हे न चारणे शलाकाणां /(Vin_9.68)

// कर्मवस्तु // 1 //

**(vin_9,2) कर्मपरिभाषा /

// नाधिक्ये वाचनानाम् अकृ[54ब्4]तत्वं /(Vin_9.69)

/ अकृतत्वं हापने /(Vin_9.70)

/ क्रियमाणतायां प्रक्रान्तावपूर्णस्य पर्वणो विगुपितत्वम्* /(Vin_9.71)

/ पूर्णस्यानवशिष्टत्वे तत्कर्मसंघपरिमाणानाम् अव्युत्थितानाम्* /(Vin_9.72)

/ नावशिष्टत्वे /(Vin_9.73)

/ पुनश् चेत् तच्चिकीर्षाधिकोपनम् वा च /(Vin_9.74)

/ संघविज्ञपनेन /(Vin_9.75)

/ पुनर् भदन्ताज्ञप्तिं* करिष्याम्य् अनुश्रावणञ् चेति /(Vin_9.76)

/ प्रतिनिःसृष्ट्यर्था ज्ञपननासन तत्स्वभावैषीय[54ब्5]शिक्षासामग्रीतत्पोषधतीर्थ्यपरिवासतदन्यमानास्यमूलापकर्षस्मृत्यमूढविनदानोपसंपादनोपसंपादनसीममोक्षप्रणिधिकर्मावर्हणेषु त्रिर् वाचना स्वार्थानिरिक्तमंत्रोक्तिः /(Vin_9.77)

/ पुद्गले च परा र्थं /(Vin_9.78)

/ निषण्णो स्योत्कुटुकिकया पुरतो निरिक्तेश् च /(Vin_9.79)

/ रोचनं च /(Vin_9.80)

/ इष्टके पार्ष्णिभ्यां विरहो ऽनुशिष्टानुपसंपदि /(Vin_9.81)

/ मसूरिकादौ स्त्रियाः [54ब्6] वृद्धान्ते नन्यतन्त्रतायां संघे स्थितस्य परार्थे सप्रणतम्* /(Vin_9.82)

/ अन्तरमार्गे समनुषिष्टतायां रहसीत्य् एकम्* /(Vin_9.83)

/ द्रव्याधिष्ठानञ् च /(Vin_9.84)

/ तत्त्वम् विकल्पनस्य /(Vin_9.85)

/ गृहीत्व तदेतत्* /(Vin_9.86)

/ पात्रभैषज्यं वामे पाणो प्रतिस्थाप्य प्रतिछाद्य दक्षिणेन पाणिना /(Vin_9.87)

/ अग्रत स्वस्याग्राह्यतायां(Vin_9.88)

/ निषण्णताया कर्म /

/ असंसृतौ संघैकद्वयोः पुद्गलस्य [55अ1] // विज्ञप्यत्वं भिक्षोः /(Vin_9.89)

/ रोहन्त्य् असान्निध्ये चीवरस्य मनसा विकल्प उत्सर्गे धिष्ठानञ् च नानुत्सृष्टे पूर्वत्र /(Vin_9.90)

/ वाग्भाषै चैकाधिष्ठानं तदाशयोपसंपत्तिपूर्वकं /(Vin_9.91)

/ कृतैकांशोत्तरासंगत्वं /(Vin_9.92)

/ समागतत्वे भिक्षूणां /(Vin_9.93)

/ सामीच्या तदर्हत्वेः वचनीयताया स्वार्थामन्त्रस्य /(Vin_9.94)

/ अशिष्टौ च रहसि /(Vin_9.95)

/ ससांघाटितायाम् उपसंपत्संनिषादे /(Vin_9.96)

/ आदौ [55अ2] च त्रिःप्रगृहीतां जलित्वं तादर्थ्ये दिवसारोचने च /(Vin_9.97)

/ औपयिकम् इत्य् अन्ते स्वार्थं विज्ञप्तेन वचनं पुद्गलश् चेत् /(Vin_9.98)

/ स्वार्थि तदन्वितरेण /(Vin_9.99)

/ छन्दद्वेषमोहभयगतिविरहितस्य शक्तस्य कृताकृतस्मरणे संमतिर् उत्साह्य /(Vin_9.100)

/ कृताकृतव्रवेदनं स्थिते /(Vin_9.101)

/ वर्धत्ववर्धव्यामानतायां सीम्नि प्रतिपत्तिः /(Vin_9.102)

/ गण्ड्याकोटनपृष्टवाचिकासमनुयोगाभ्यां सन्निषादकेन सन्नि[55अ3]षाद्यानां बोधनम् /(Vin_9.103)

/ तस्य तदर्थम् आसनं प्रज्ञपनम् /(Vin_9.104)

/ संमतस्य तत्कार्यार्थतायाम् एतत्त्वं /(Vin_9.105)

/ सर्वत्र यथा वृद्धिका /(Vin_9.106)

/ रुच्याग्राह्ये ग्रत्वं /(Vin_9.107)

// कर्मपरिभाषा // 2 // // समाप्तं कर्मवस्तु // 9 //

*vin_10, प्रतिक्रियावस्तु /

**(vin_10,1) प्रतिक्रियावस्तु /

/ नाप्रतिकृताज्ञपनजष्कर्म प्रत्यनुभवेत् /(Vin_10.1)

/ उत्सृज्य पोषधं प्रवारणाञ् च /(Vin_10.2)

/ न सीमान्तरस्थस्य कस्मिंश् चिद् अङ्गत्वम् /(Vin_10.3)

/ ध्वंसस् तद्गतौ साह्य गतस्य /(Vin_10.4)

/ उभयस्थत्वम् एकस्मिन्न् ए[55अ4]कत्र पादे परस्मिन् परत्र /(Vin_10.5)

/ सर्वस्मिन्न् अवष्टम्भिनि स्थितस्यावष्टब्धे /(Vin_10.6)

/ रूढिर् एवम् अनेकत्रोपगतेः /(Vin_10.7)

/ अर्हत्वम् अनेकशयनासनग्राहे /(Vin_10.8)

/ यथेष्टम् अस्य वस्तव्यता /(Vin_10.9)

/ न व्यग्रकारित्वं जिनस्य /(Vin_10.10)

/ न पूरकत्वम् /(Vin_10.11)

/ नाकर्मणा तत्करणीयस्योत्थानम् /(Vin_10.12)

/ कृतत्वं यद्भूयस् कृतत्वे वाक्यस्यानुत्तरस्य /(Vin_10.13)

/ नाकीर्त्तित्वे निमित्तानां बन्धे /(Vin_10.14)

/ पारिवासिके [55अ5] नान्तस्योपस्थानसंवृतेः /(Vin_10.15)

/ उन्मत्तकेन चोद्देशस्य /(Vin_10.16)

/ ज्ञप्तिवद् भेदानुष्ठानम् /(Vin_10.17)

/ अनङ्गम् अत्र भिन्नव्यंजनत्वम् /(Vin_10.18)

/ न हास्यभावेन कस्यचित् स्थूलम् अरूढिबुद्ध्या भेदोत्क्षेपयोः /(Vin_10.19)

/ दुष्कृतम् असंघभूतत्वे /(Vin_10.20)

/ नान्येषां नानासंवासिकेभ्यो बर्हाणां पूरणे गणेन ज्ञप्तिवाचनयोः /(Vin_10.21)

/ नासंपन्नत्वे ऽर्ह[ः] स्वसंघेन प्रत्यनुभवस्य /(Vin_10.22)

/ संपन्नत्वं [55अ6] ज्ञप्तिश्रुताव् अस्य नाविधिर् भव्यरूपे प्रतिनिधिना दूतेन प्रव्राजनम् /(Vin_10.23)

/ उत्तरञ् चोपसंपादनात् /(Vin_10.24)

/ नाप्रतीष्टो दत्तत्वम् /(Vin_10.25)

/ ध्वंसो ऽत्र याचनस्य /(Vin_10.26)

/ विधित्वं मेवकज्ञपनपूर्वकत्वे ऽस्य /(Vin_10.27)

/ उत्क्षेपे ऽप्य् एतत् /(Vin_10.28)

/ अवधानं परेणासमन्वाहाराद् युक्तो तन्त्रः /(Vin_10.29)

/ नार्थच्छेदाना, क्रमव्यत्याद् अरूढिः /(Vin_10.30)

/ अकरणीयत्वं भ्रेषस्य /(Vin_10.31)

/ न व्यञ्जनान्तर[55ब्1]संश्रयात् /(Vin_10.32)

/ न भिक्षुभिक्षुणीत्वयोर् अन्यकर्मवस्तुप्रतिज्ञपिते चोदकेन कल्पयति सांमुख्यं प्रणिधिकरणम् /(Vin_10.33)

/ प्रतीतिमात्रेण सन्निपातादाने /(Vin_10.34)

/ अनङ्गम् अदर्शने व्याघातित्वात् सत्त्वस्य प्रतिज्ञानम् /(Vin_10.35)

/ अवकाशां करणे चायोगात् /(Vin_10.36)

/ संपत्यास्वयम् अनुत्थाने चोदकस्योत्थापनम् /(Vin_10.37)

/ [आ]क्रोषरोषकपरिभाषकतामलाभावा[55ब्2]साभ्यां संघस्य चेतकत्वम् /(Vin_10.38)

/ राजकुलयुक्तकुलज्ञातिपुद्गलप्रतिसरणताम् अप्रतिसर्तृतां संघस्याबिभ्रतः /(Vin_10.39)

/ अकुर्वाणस्यास्यागारिकतीर्थिकध्वजधारणतीर्थ्यसेवानाचारचरणान्यशिक्षणञ् च भिक्षुशिक्षायाम् उत्कचप्रकचस्य संघे रोम पातयतो निःसरणं प्रवर्त्तयतः समीचीम् उपदर्शयतो विरमतो निमित्ताद् अवसारणं याचिते /(Vin_10.40)

/ [55ब्3] कर्मदानबर्हणोपसंपादनप्रतिप्रस्रम्भन्नोन्मज्जनञ् च /(Vin_10.41)

/ कलहकारकतम् जयेयुः कर्मणा /(Vin_10.42)

/ निगर्हणम् अभीक्ष्णसंघावशेषापत्तिकस्याप्रतिकृत्य /(Vin_10.43)

/ कुलदूषकस्य प्रवासनम् /(Vin_10.44)

/ अदानाकरणयोश् च तदर्थं संनिपातावकाशयोः /(Vin_10.45)

/ उद्भावने च तददृष्टेः /(Vin_10.46)

/ प्रतिसंहरणमवम् पण्डितागारिकस्य /(Vin_10.47)

/ तत्क्षम[55ब्4]णकम् अत्र कर्मणः स्थाने ऽवसारणं प्रति प्रतीतायाम्[आ]पत्तावप्रतिकृतायाम् अप्रतिकार्यायां संवरेणादृष्टिम् उद्भावयन्तम् अनिच्छन्तं प्रतिकृतिम् अनुष्ठातुम् अनुत्सृजन्तं च पापिकां दृष्टिम् उत्क्षिपेयुः /(Vin_10.48)

/ इहैवैनाम् आपत्तिं प्रतिकुर्वीथा अयम् एव त्व् आसंघः प्रस्रम्भयिष्यति इत्य् एवं ब्रूय्युः /(Vin_10.49)

/ नापत्तिं प्रतिच्छादयेत् /(Vin_10.50)

/ नाम्ना ऽन्ततः [55ब्5] प्रवेद्यत्वम् /(Vin_10.51)

/ यथाकथंचित् दुष्कृतस्य /(Vin_10.52)

/ प्रकृतिस्थे /(Vin_10.53)

/ अनन्यदृष्टौ सोपसंपदि /(Vin_10.54)

/ तुल्यव्यंजने /(Vin_10.55)

/ अतैवैतत् सोत्तरम् /(Vin_10.56)

/ कृतत्वम् अस्यैदंधर्मके /(Vin_10.57)

/ सीमान्तरस्थे च /(Vin_10.58)

/ संघे सर्वत्राज्ञापनजानाम् /(Vin_10.59)

/ सन्निहिते तत्रास्रमे प्रतिदेशनीयस्य गर्ह्यम् आयुष्मन्तः स्थानम् आपन्नो सात्म्यं प्रतिदेशनीयन्त धर्मं प्रतिदे[श]यामि इति /(Vin_10.60)

/ नैतन् मन्त्रवत् /(Vin_10.61)

/ [55ब्6] संवरकृतेर् अतो व्युत्थानं मानसीतः /(Vin_10.62)

/ अन्य तस्मै तदो देशनात् /(Vin_10.63)

/ एकत्र /(Vin_10.64)

/ अनन्यदृष्टो तत्र /(Vin_10.65)

/ असमावन्ये निकायतः /(Vin_10.66)

/ अभावे आपत्तितः /(Vin_10.67)

/ निःसर्गवीचनपूर्वकानैःकातः /(Vin_10.68)

/ संघे स्थूलात् सर्वत्र /(Vin_10.69)

/ पंचकादौ सशेषागताद् गुरुणः /(Vin_10.70)

/ अशेषागताद् अनवच्छिन्ने भूयसि /(Vin_10.71)

/ लिङ्घोरस्माच् चतुष्कादौ /(Vin_10.72)

/ कृत[56अ1] / /वदन्ते ऽत्रोद्युक्तस्यासंपन्नप्रयत्वे कर्म /(Vin_10.73)

/ दुष्कारवत्त्वमूढकृतस्य प्रत्यापत्तौ संज्ञायमानस्य तेन /(Vin_10.74)

/ नामगोत्रोपसंहितम् आपत्तित्वात् कीर्त्तनम् /(Vin_10.75)

/ इयत्कालप्रतिच्छन्नतया वा संघावशेषायाम् /(Vin_10.76)

/ आवर्हणम् अतो व्युत्थानकृत /(Vin_10.77)

/ चरितमानास्यस्य /(Vin_10.78)

/ षड् अहम् आदाय संघात् /(Vin_10.79)

/ अर्द्धमासं भिक्षुण्याः /(Vin_10.80)

/ गुरुधर्मा[56अ2]तिक्रमे ऽप्य् अस्य चरितत्वम् /(Vin_10.81)

/ असति प्रतिच्छाददोषे तद् रूढिः /(Vin_10.82)

/ परिवाएन तदपहतिः /(Vin_10.83)

/ तावन्तं कालम् आद्[आ]य संघात् /(Vin_10.84)

/ क्रियमान्तायाम् अनयोस् तत्संघावशेषापदने ध्वंसः कृतादानयोः /(Vin_10.85)

/ तस्मान् मूलोपक्रमत्वं दानम् /(Vin_10.86)

/ निर्वाह्य तत्प्रस्तुतम् /(Vin_10.87)

/ तस्माद् अरूढस्यास्य पृथक् तदानीम् उत्थाप्यता प्रथमं च /(Vin_10.88)

/ प्रतिकार्यं तदान्तरम् /(Vin_10.89)

/ तस्मात् तादर्थस्या[56अ3]पि संश्रयत्वम् /(Vin_10.90)

/ अवरोध्यता चातिरिक्तस्य तत्प्रतिच्छादकालस्य /(Vin_10.91)

/ कर्मणा न्योद्दानम् /(Vin_10.92)

/ आवर्हणाञ् च /(Vin_10.93)

/ तर्जनं चात्र ज्ञप्तिप्रथमवाचनान्तराले /(Vin_10.94)

/ निपतितस्य तृणप्रस्तारकेण /(Vin_10.95)

/ समुद्रेजनञ् च /(Vin_10.96)

/ कृततोत्कीर्त्तनान्तरम् /(Vin_10.97)

// [इति] प्रतिक्रियावस्तु // 1 //

**(vin_10,2) क्षुद्रादिगतम् /

/ निष्काशनं दुःशीलस्य /(Vin_10.98)

/ संघस्यात्र प्रगमः /(Vin_10.99)

/ नासावेनदव्युपेक्षेत /(Vin_10.100)

/ [56अ4] अवसार्यत्वं नाशितस्य /(Vin_10.101)

/ नासां मन्ये प्रणिधातॄणाम् अवसारणस्य प्रणिहितौ रूढिः /(Vin_10.102)

/ अवस्तव्यता दूषितस्थाने प्रवासितस्य /(Vin_10.103)

/ सर्वत्रोत्क्षिप्तके संबास्यत्वासंभोग्यत्वे /(Vin_10.104)

/ संज्ञयात्र व्यवस्थानम् /(Vin_10.105)

/ अधर्मपक्षस्यैतिभिन्नतायाम् इतरेण /(Vin_10.106)

/ नान्यस्य /(Vin_10.107)

/ नान्यत्रैत प्रणिहिते /(Vin_10.108)

/ अपाश्रयेणास्य वस्तव्यता सप्रेमकस्य /(Vin_10.109)

/ विकृतेः क्रियमाणप्रणिधिना ध्वस्ते[56अ5]न च निष्कास्य मानेन भजने भाण्डस्य छोरणम् /(Vin_10.110)

/ वलानिष्काशः /(Vin_10.111)

/ अवलम्बनस्य छोदनम् /(Vin_10.112)

/ अपतनधर्मणा तत्रोत्पाटनम् /(Vin_10.113)

/ संघेन तस्य प्रतिसंस्करणम् /(Vin_10.114)

/ संप्रदास्य /(Vin_10.115)

/ असंपत्तौ वैहारात् /(Vin_10.116)

/ न कलहकारकं निष्कास्यमानन् वारयेत् /(Vin_10.117)

/ अनिवृत्तौ कलेर् उपशान्त्यै प्रयत्नाद् उत्क्षेपः /(Vin_10.118)

/ विनिश्चयगते व्युपशमनेन /(Vin_10.119)

/ निःश्रिते निःश्रयः प्रय[56अ6]तेत् /(Vin_10.120)

/ निमित्तस्यापि कलेरुपसंहारिणोत्क्षेप्यता /(Vin_10.121)

/ संसृष्टविहारिणम् अपि भिक्षुणीभिर् उत्क्षिपेयुः /(Vin_10.122)

/ अवन्दनार्हसंवृतिम् अत्रोत्क्षिप्तस्य भिक्षुण्याष् कुर्युः /(Vin_10.123)

/ उद्भवो ऽन्यस्य प्रणिधिः निमित्ते तदर्थाभिसन्धिनान्य् अप्रकृतौ /(Vin_10.124)

/ अरूढिर् अन्यथात्वं परत्र /(Vin_10.125)

/ अनुत्थानम् उत्क्षेपे /(Vin_10.126)

/ स्थूलं ज्ञातमहापुण्यसूत्रविनयमातृकाधरबहुश्रुतपक्षम् अनिवाराणां [56ब्1] निर्दोषनागारिकभिक्ष्वादिपञ्चकावस्पण्डने ऽपि प्रतिसंहरणम् /(Vin_10.127)

/ नाक्रोश्येनावस्पण्डनम् /(Vin_10.128)

/ अनाशंक्यं स्वसाधारण्यम् /(Vin_10.129)

/ अनुपसंपत्कस्यैषां प्रव्रजिते कर्तव्यता /(Vin_10.130)

/ न गृहिणि /(Vin_10.131)

/ पात्रसस्वाख्यातारं प्रति भिक्षोर् अभूतेन पाराजैकेन /(Vin_10.132)

/ क्रोशकं परिभाषकं च निकुब्जयेरन् /(Vin_10.133)

/ व्यवस्थाकरणतः /(Vin_10.134)

/ प्रज्ञप्त्या /(Vin_10.135)

/ न निकुब्जितया तस्य [56ब्2] गृहान् गच्छेत् /(Vin_10.136)

/ नासनं परिभुञ्जीत /(Vin_10.137)

/ न प्रज्ञप्तान् देयधर्मं /(Vin_10.138)

/ न पिण्डपातं प्रतिगृह्णीतात् /(Vin_10.139)

/ न धर्मं देशयेत् /(Vin_10.140)

/ यत् कर्म करणं तद्गतानां निकुब्जितत्वम् /(Vin_10.141)

/ अनुत्तानम् अस्यास्वपक्षकुलं प्रत्योत्क्षिप्तकात् /(Vin_10.142)

/ तेतनमस्य केनचित् /(Vin_10.143)

/ क्षमिततत्य् उन्मज्जनं ज्ञपनेन /(Vin_10.144)

/ भवत्य् उत्थानम् अनुत्पन्नप्रतिच्छादचित्तस्यान्तिमातः /(Vin_10.145)

/ शिक्षाचरणेन /(Vin_10.146)

/ [56ब्3] तल्लभायाः संघतः /(Vin_10.147)

/ कर्मणा दानम् /(Vin_10.148)

/ यावज् जीव[म्] /(Vin_10.149)

/ शुद्धिर् एकस्य पुरतो देशनेन संघावशेषतो ह्रीमतः /(Vin_10.150)

/ सूत्रधरस्य विनयस्य मातृकायाः /(Vin_10.151)

/ ज्ञातस्य च /(Vin_10.152)

/ अशयतापत्तिव्युत्थानेन दण्डकर्मतः /(Vin_10.153)

/ निकायतो नामात्रापत्तेर् नाम /(Vin_10.154)

/ समुत्थानं गोत्रम् /(Vin_10.155)

// समाप्तं प्रतिक्रियावस्तु // 10 //

*vin_11, कालाकालसम्पातवस्तु /

**(vin_11,1) कालाकालसम्पातव्स्तु /

/ अप्रतीतत्वे संघावशेषान्तर्धाने [56ब्4] न्तास्थितप्रतिछादचित्तस्याशक्तवत्तायां कृतं ने वा किं* वा कीदृश्यं चेति स्मर्तुम् अनुपसंप कतोत्क्षिप्तयोश् चानुत्थानं प्रतिछादस्य /(Vin_11.1)

/ भ्रष्टस्यावहारिकसंज्ञतायाम् आपत्तेर् अस्यापराजयात्* /(Vin_11.2)

/ अप्रज्ञप्ततायां च /(Vin_11.3)

/ नाज्ञातत्वेन स्रद्धितत्वे वा /(Vin_11.4)

/ अनभिज्ञतासंज्ञिनो पि /(Vin_11.5)

/ भूम्यन्तरस्थितायां प्राचो पि /(Vin_11.6)

/ ज्ञानवत् प्रतिछादे विमतिः संघा[56ब्5]वशेषत्वं /(Vin_11.7)

/ आवरणस्यापि साभूति या प्रतिछादानुत्थानस्य /(Vin_11.8)

/ दुष्कृतम् अनादृत्यैः चरणोत्सर्गे /(Vin_11.9)

/ तनैकायिकाध्याचारे चात्र /(Vin_11.10)

/ संभवे चाप्रतिकृतौ /(Vin_11.11)

/ तदवस्थत्वं प्रत्यागतावचरणभूमेः /(Vin_11.12)

/ शोधिते वस्तुनि साषानुष्ठानम् अनिर्ज्ञाने प्रतिछादकालस्यासंव्य आनन्य् ऊनत्वस्य संश्रयणं /(Vin_11.13)

/ चरितव्यतायां शुद्धान्तिकत्वोत्तरस्य /(Vin_11.14)

/ चतु[56ब्6]रो मासां शुद्धान्तिकम् इति /(Vin_11.15)

/ अपरिमात्वस्याप्रतिछादे /(Vin_11.16)

/ संचिन्त्य शुक्रे विसृष्ट-समुत्थाम-परिमाणाम् इति /(Vin_11.17)

/ यावतीष्व् अभिप्रायस् तावत् कीमित्वम् अत्रात्रानुष्ठितेः /(Vin_11.18)

/ अपरिमान इत्य् अनिर्ज्ञाने स्य संश्रयसंबहुलाः परिमानवत्य इति प्राभूत्ये /(Vin_11.19)

/ अतिरिक्तेन कालानां /(Vin_11.20)

/ प्रभृतिमत्वेन नाम्नां /(Vin_11.21)

/ गुरुत्वतीव्राशयकृतत्वा[57अ1] //भ्याम् आदित्वेन /(Vin_11.22)

/ चरतो परप्राक्सम्पन्नप्रतिचिकीर्षोत्पत्तौ पृ[थ]ग्* दानम् एकं चरणं /(Vin_11.23)

/ नास्य प्रतिछन्नतायां मानास्ये संभवः /(Vin_11.24)

// [इति] कालाकालसंपातवस्तु // 1 //

**(vin_11,2) पृच्छागतम् /

/ नानन्त्ये न्से होरात्रस्य प्रतिछादोत्थानम्* /(Vin_11.25)

/ नाभावे ङ्गस्योद्भावनायात्मचित्ताना[ं] प्रतिछादः /(Vin_11.26)

/ अभावममत्यपक्रान्तिवशस्य /(Vin_11.27)

/ तदर्थवशतयापि कृतौ /(Vin_11.28)

/ विनार्थे[57अ2]न दुष्कृतम् /(Vin_11.29)

/ प्रात्कान्ह्यात् /(Vin_11.30)

/ अनुत्सृष्टत्वं प्रतिछादचित्तस्य तत्चित्ततानदोर्षमापत्तेः पराजितस्याप्रकृतौ /(Vin_11.31)

// कालाकालसंपातवस्तु पृच्छा // 11 //

*vin_12, भूम्यन्तरस्थचरणवस्तु /

**(vin_12,1) भूम्यन्तरस्थचरणवस्तु /

/ पारिवासिकमानास्यचारिभ्याम् अभिवादनवन्दन-प्रत्युत्थानांजलिसामीचीकर्मणां प्रकृतिस्थाद् भिक्षोर् अस्वीकरणं /(Vin_12.1)

/ यस्याभ्यामकरणम् इतरैर् अपि तत्र तद्गतस्य /(Vin_12.2)

/ यद् अपरिहाणिकातो न्यथानेन सार्द्धम् अचंक्र[57अ3]मणम् /(Vin_12.3)

/ नीचतरासनकत्वाद् अनिषादः /(Vin_12.4)

/ पश्चाच्छ्रमणात्मकतातष्कुलानुपसंक्रमणं /(Vin_12.5)

/ अकल्पनमेकछदने शय्यायाः /(Vin_12.6)

/ प्रव्राजनोपसंपादननिःश्रयदानश्रमणोद्देशोपस्थापनानाम् अकरणं /(Vin_12.7)

/ प्रज्ञप्तिवाचनयोश् चाप्रतीष्टः /(Vin_12.8)

/ कर्मकारकभिक्षुण्यववादकसंघवैश्वासिकसम्मतेः /(Vin_12.9)

/ अव्यापरण प्राक्सम्मतेनापि /(Vin_12.10)

/ अनवव[57अ4]दनञ् च भिक्षुणीनाम्* /(Vin_12.11)

/ अनुद्देशः पोषधे प्रातिमोक्षस्य सत्य् अन्यत्रोद्देष्टरि /(Vin_12.12)

/ अचोदनं विपत्त्या भिक्षोः /(Vin_12.13)

/ अनपसारितस्य संघात्* /(Vin_12.14)

/ अकरणं सवचनीयतासकीलत्वयोः /(Vin_12.15)

/ अस्थापनम् अववादपोषधप्रवारणाज्ञप्तिवाचनानां /(Vin_12.16)

/ असंप्रयोगो नेन /(Vin_12.17)

/ वर्जनं कृतदण्डनिमित्तस्य /(Vin_12.18)

/ अन्यस्य चापराधस्य /(Vin_12.19)

/ नापराध्यता सब्रह्मचारिषु /(Vin_12.20)

/ [57अ5] व्रतस्य निःसारः प्रवर्तितो भवतीति मनसिकरणं /(Vin_12.21)

/ काल्यम् उत्थाय द्वारमोक्षो दीपस्थालकोद्धरणविहारसेकसंमार्गसुकुमारिगोमयकार्ष्यानुप्रदानानि /(Vin_12.22)

/ धावनं प्रस्रावोच्चारकुट्याः /(Vin_12.23)

/ पोच्चन-मृतकालानुरूपपानीयोपस्थापनम्* /(Vin_12.24)

/ प्रणाडिकामुखानां धावनम्* /(Vin_12.25)

/ आसनं प्रज्ञपनम्* /(Vin_12.26)

/ कालं ज्ञात्वा धूपतत्कटच्छुकयोर् उपस्थपनम /(Vin_12.27)

/ [57अ6] प्रतिबलता वेच्छास्तुर्गुणासंकीर्तणं /(Vin_12.28)

/ न चेद् भाषणकाध्येषणं /(Vin_12.29)

/ उपन्वाहृते गण्डीदानम्* /(Vin_12.30)

/ धर्मश् चेद् भिक्षूणां वीजनम्* /(Vin_12.31)

/ अन्त्यत्वम् अस्य सर्वोपसंपन्नानाम् /(Vin_12.32)

/ कृते भक्तकृत्ये शयनासनस्य छन्ने गोपनम्* /(Vin_12.33)

/ पात्राधिष्ठानछोरणं* /(Vin_12.34)

/ कालं ज्ञात्वा स्तूपानां संमार्जनम्* /(Vin_12.35)

/ सुकुमारिगोमयकार्ष्यनुप्रदानं /(Vin_12.36)

/ सामग्रीवेलायां प्र[57ब्1]ज्ञपनाद्यागुणगतात्* /(Vin_12.37)

/ प्रतिबलता चेद् दिवसारोचनम्* /(Vin_12.38)

/ न चेद् अन्यस्य भिक्षोर् अध्येषणं /(Vin_12.39)

/ पादशोचनं भिक्षूणां चैकालिकं कालानुरूपेणाम्बुना /(Vin_12.40)

/ म्रक्षणञ् चानिच्छायां स्नेहोपसंहारः /(Vin_12.41)

/ विहारे ऽस्य प्रत्यन्ते र्हत्वं /(Vin_12.42)

/ अर्हत्वं सर्वत्र लाभे /(Vin_12.43)

/ प्रतिजाग्रियात् कुशलपक्षे /(Vin_12.44)

/ तद्वद् अत्र तत्प्रभावैषीयशिक्षादत्तकौ /(Vin_12.45)

[r om.] / naivoddeśaḥ / / avasāraṇena / / pūrvasya pra[57b2]kṛtigateḥ / / arhatvenottarasya / / prāg* dvāramokṣyād vihārādau ca paryuṣitavac caritapattau / / tathātaritapattau / / tathātarjitanigarhitaprathāsitapratisaṃkṛtotkṣiptāḥ / / naivoddeśaḥ / / varjanam evotkṣiptasyetaraiḥ / / anartatvañ ca tadātvanimittalābhe / / bhinnavat* / / tadvadbhinneṣv adharmapakṣyaḥ / / arūḍair aprakṛtistheṣu paripāsamānāpy aśikṣācaraṇānāṃ / [end of r om.]

/ असंघे च /(Vin_12.46)

/ [57ब्3] परिच्छिन्नेषु च तदाश्रमपदोपगेभ्यः /(Vin_12.47)

/ न बहुतां परिहरेत्* /(Vin_12.48)

/ स स्थविरप्रातिमोक्षतायै प्रयतेत /(Vin_12.49)

/ न यत्र्यान्ये त्रिःप्रभृतयः सर्वथा तदाख्यचरणास् तत्र तच्चरेत्* /(Vin_12.50)

/ नान्यत्र प्रथमावरणेणानुद्गमयेनां /(Vin_12.51)

/ वर्त्त्स्यत् वृत्तम् आरोचयेतां /(Vin_12.52)

/ संनिपाते संघस्य /(Vin_12.53)

/ प्रत्यहं न चेच् चिरं चरितव्यत्वं /(Vin_12.54)

/ अत्र त्रिचतुरैः /(Vin_12.55)

/ नैवानेनार्थेनावस्पण्डयेत्* /(Vin_12.56)

/ [57ब्4] कलहकारकागमनञ् च श्रुत्वा भयञ् चेदतः प्रतिनि[ः]सृजेतां संघसन्निधौ पुद्गले वा /(Vin_12.57)

/ अपगतौ भीतेर् आदानं तत्रैवं /(Vin_12.58)

/ भूम्यन्तरस्थचरणवस्तु // 1 //

**(vin_12,2) पृच्छागतम् /

/ छेदस् तदहोरात्रस्य प्रकृतिस्थेन सार्धम् एकछदने परिवासिकमानास्यचारिणोः शय्यायां बहि[ः]सीम्नि च /(Vin_12.59)

/ अनारोचने च /(Vin_12.60)

/ नासन्निधौ तत्सीम्नि श्राव्याणाम् अस्योत्थानं निर्दोषं तदहरा[57ब्5]गतौ सीमान्तरे गमनम्* /(Vin_12.61)

/ न परिवासिकेन सार्धम् एकछदने पारिवासिकः शयीत्* /(Vin_12.62)

/ न तीर्थ्युपनिवासस्थस्य तेन सार्धम् अत्र दोषः //(Vin_12.63)

// भूम्यन्तरस्थचरणवस्तुपृच्छा // 12

*vin_13. परिकर्मवस्तु

// नाप्रासिद्धिकस्य मूलत्वं /(Vin_13.1)

/ अरूढिर् अवसितप्रवारणोक्तौ प्रवारणास्थापनस्य /(Vin_13.2)

/ तथा ग्लानकर्तृकतायां /(Vin_13.3)

/ दूतेनापि /(Vin_13.4)

/ ग्लानगतायाञ् च /(Vin_13.5)

/ [57ब्6] नैतत् प्रतीच्छेयुः /(Vin_13.6)

/ आगमय त्वम् आयुष्मं ग्लानस् त्वम् अप्रयोज्यम इत्य् आयुस्मं भूतेति ग्लानो साव् अननुयोज्या इति प्रतिवदेयुः /(Vin_13.7)

/ अनवगतस्वरूपतायां कृतस्य कर्तुर् वा चोदनस्य /(Vin_13.8)

/ शिष्टे पि नाकाले प्रवर्तेत /(Vin_13.9)

/ नानुपस्थास्य स्मृतिसंप्रजन्ये /(Vin_13.10)

/ नानेकान्ते /(Vin_13.11)

/ नाकारितावकाशे /(Vin_13.12)

/ तत्वं प्रवारणस्य /(Vin_13.13)

/ अस्मृतौ स्मारणं [58अ1] /(Vin_13.14)

// अकरणेभ्यः वचनीयताम् अस्य कुर्यात्* /(Vin_13.15)

/ सवचनीयं त्व् आयुष्मन् करोमि न त्वं यो स्मादावासादनवलोक्य प्रक्रमितव्यम् अस्ति मे आयुष्मति प्रणिहितं वचनायेति /(Vin_13.16)

/ आगच्छत्य् एव दमनाथमन चोद्यतां /(Vin_13.17)

/ आलपनादेर् अस्य् अनुविनिवर्तनम्* /(Vin_13.18)

/ तथापि पोषधस्थापनं /(Vin_13.19)

/ ततो पि प्रवारणायाः /(Vin_13.20)

/ करणम् अस्यत्र स्थापकैः स्थापितस्य तेन [58अ2] सार्धम् उपसारणं /(Vin_13.21)

/ कृतत्वे वकाशस्यामृदुत्वं चेत् सकीलकरणं /(Vin_13.22)

/ वक्ष्याम्य् अत्रामुत्र वा वसे मुत्र वा वास्तुनि यत्र चेष्टम् इत्य् आरोप्य चामत्तिं* दर्शयित्वापराधम् उत्सृजनेन /(Vin_13.23)

/ शीलदृष्ट्या चाराजीव विपत्या सर्वस्यास्य चोदनादेः क्रियायां रुढिः समूलकं /(Vin_13.24)

/ न दुर्दूलेन कुर्यात्* /(Vin_13.25)

/ अकरणम् अत्र वस्तुनः सत्यत्वं /(Vin_13.26)

/ क्रियानिमित्तानां परसंलाप[58अ3]स्य सानुश्रावणस्येति त्रिविधं श्रुतं /(Vin_13.27)

/ अमूलत्वम् अस्रद्धितस्य /(Vin_13.28)

/ कामो नेकत्वे ज्ञातुश् चोदनादौ /(Vin_13.29)

/ नाप्रवारणे तत्स्थावनम्* /(Vin_13.30)

/ नापोषधे तस्य न कृतौ कृतत्वे वा स्त्रीत्वे स्थापकस्यै[क]तरस्य पुंस्त्वे स्थापितत्वं स्थापितता /(Vin_13.31)

/ न नष्टप्रकृतिना /(Vin_13.32)

/ नाशीलैक्येन /(Vin_13.33)

/ नानयोः /(Vin_13.34)

/ पारिकर्मणवस्तुपृच्छा // 13

*vin_14. कर्मभेदवस्तु

**(vin_14,1) कर्मभेदः

// न नानात्वाय संघस्य प्रभाविष्णुम् अका[58अ4]मं चोदयेद् उन्मोटयेद् वा चोदयत्वं /(Vin_14.1)

/ न यत्र प्रतिविरोधस् तेन सार्धम् अभिनमने समासीत /(Vin_14.2)

/ द्वित्रासनान्तरितम् अन्यत्र /(Vin_14.3)

/ एवम् इतरस् तेन /(Vin_14.4)

/ अन्तरितस्यानयोर् विहारस्य देयत्वं ग्राह्यता च /(Vin_14.5)

/ धर्मे विनये चैतद्वताम् अधर्मे चेद् अभिनिवेशो ज्ञात्वा संघसामग्रीन् न विद्यते /(Vin_14.6)

/ तस्मान् न तद् अन्यानां संभूय कृतौ कर्मणो रूढिन् न परस्परेणाव्यग्रत्वम्* /(Vin_14.7)

/ [58अ5] कलिपरायणत्व एषा तद्विपक्षस्य चावन्द्यत्वम् इदं धर्मभिः /(Vin_14.8)

/ प्रत्युत्थानासनोपनिमन्त्रणासंलपनालपनसंमोदनव्यवलोकनालोकनानाम् अप्य् अकरणं /(Vin_14.9)

/ लूहशयनासनानुप्रदानं हस्तसंव्यवहारकेन /(Vin_14.10)

/ वचनेनान्यत्र ससूतम् इत्य् अपरम्* /(Vin_14.11)

/ प्रत्यन्ते विहारस्य /(Vin_14.12)

/ मृद्धद्वा वयम् इति वदत्सु यूथम् अपि श्रमणाः शाक्यपुत्रिया स्म इत्य् आत्मानम्* [58अ6] प्रतिजानीध्वे /(Vin_14.13)

/ येषां चेदं वृत्तम् इयं वार्ता कारुणिको वः शास्ता येनैतद् अनुज्ञातम् एतद् अपि वो न प्रापद्यत इति प्रतिवदेयुर् अन्यत्र /(Vin_14.14)

/ न भिक्षुण्यासनमोक्षं हापयेत्* /(Vin_14.15)

/ ददीतोपासकपिण्डपातम् /(Vin_14.16)

/ नापि सारिताआम् एषां सामग्यस्य विना सामग्रीलाभेनोत्थापनं /(Vin_14.17)

/ न विना पोषधेन प्रकृतिस्थताप्राप्तिः /(Vin_14.18)

/ दत्वपिनं कुर्युः /(Vin_14.19)

/ कर्मणैतत्* /(Vin_14.20)

/ पूर्वं च /(Vin_14.21)

/ [58ब्1] कल्पते सामग्रीमङ्गलार्थमापदि पोषधः /(Vin_14.22)

/ तस्यैव चात्र कालस्य निमित्तत्वं /(Vin_14.23)

/ कर्मभेदवस्तु //

**(vin_14,2) पृच्छागतः /

/ कर्मणः कृतावधर्मवादिभिर् अन्तःसीम्नि पृथक् तद्भेदो तदचित्तेन /(Vin_14.24)

/ रूढिर् अस्मिन्* प्रतिस्वं कर्मणः /(Vin_14.25)

/ नास्वपक्षं प्रति /(Vin_14.26)

/ धर्मवादि कृतता संघस्य कृतत्वं /(Vin_14.27)

/ स्थलस्थैर् अत्र सन्नि चेद् भिक्षुणीनाम् अचोद्यत्वं /(Vin_14.28)

/ व्यग्रत्वम् एषां धर्मपक्षैः /(Vin_14.29)

/ ध्वन्सो नुविधौ त[58ब्2]त्त्वस्य /(Vin_14.30)

/ नैनं कुर्यात्* /(Vin_14.31)

/ अचोद्यत्वम्* पक्षापरपक्षव्यवस्थितस्य भिक्षुणीसंघस्य /(Vin_14.32)

/ नैनः भिन्नस्य /(Vin_14.33)

/ समग्र्य याचमानानां नियोज्यत्वं /(Vin_14.34)

/ धर्मत्रादिनि गामित्वं वार्षिकस्य /(Vin_14.35)

/ उभयसन्निपाते चाविभज्याप्रतिपातितस्य संघे वैभाज्यस्य /(Vin_14.36)

/ संघपरिमाणता चेत् तत्र तेषां /(Vin_14.37)

/ जनता चेतिर् एषाम् /(Vin_14.38)

/ तत् तता यदीयस्योत्संघे प्रतिपादनं [58ब्3] द्वयोश् चेद् उभयत्र /(Vin_14.39)

/ पुद्गलसो रांशित्वं न संघशः /(Vin_14.40)

/ कर्मभेदवस्तुगते पृच्छा माणविके // 14

*vin_15. चक्रभेदवस्तु /

/ ज्ञपनतो वा पृथग्भावस्य धर्मात् संघभेदः /(Vin_15.1)

/ शलाकाग्रहणतो वानेनार्थेन /(Vin_15.2)

/ अरूढिर् अस्यासंघपरिमाणत्वे भिद्यमानानाम् असत्वे चान्येषाम् अन्तःसीम्नि संघपरिसानानाम् अधर्मधर्मयोः तथात्वेन प्रत्यवगताव् आनन्तर्यं /(Vin_15.3)

/ धर्मसंज्ञि[58ब्4]नो पि भेदे /(Vin_15.4)

/ चक्रभेदवस्तु / 15

*vin_16. अधिकरणवस्तु

**(vin_16,1) अधिकरणम् /

/ चत्वारि संक्षोपकरणानि /(Vin_16.1)

/ पदार्थतथात्वे विप्रतिपत्तिर् वर्जनं सापत्तिका सामग्र्यदानं कर्माणि /(Vin_16.2)

/ प्रथमनिमित्तस्यैकोतीकरणेन व्युपशमनम्* /(Vin_16.3)

/ अनेन च शुद्धिदाने च द्वितीयनिमित्तस्य /(Vin_16.4)

/ त्रितीयनिमित्तस्य प्रतिकरणे निवारणनियुक्तत्वादानेन च /(Vin_16.5)

/ दापनेनान्त्यस्य /(Vin_16.6)

/ सभ्यै स्वयम् अशक्तौ विवदित्रोः संप्र[58ब्5]तिपादनम्* /(Vin_16.7)

/ भिक्षुभिर् अभिरुचितैः /(Vin_16.8)

/ तयोर् एकतः स्थलस्थानारोचनं /(Vin_16.9)

/ सम्मतिर् एषां संघेन साततिकानां /(Vin_16.10)

/ अनुत्द्योजिनष्कलहे त्र संमन्तव्यता /(Vin_16.11)

/ लज्जिनः शिक्षाकामस्य /(Vin_16.12)

/ सुविनिश्चितस्य विनये /(Vin_16.13)

/ कुशलस्याधिकरणवृत्ते ध्याचारे च /(Vin_16.14)

/ विनिविष्टस्य /(Vin_16.15)

/ धीर् अस्यासंरब्धय प्रस्थानस्य /(Vin_16.16)

/ समस्य /(Vin_16.17)

/ अवगन्तुः /(Vin_16.18)

/ प्रत्यायकस्य /(Vin_16.19)

/ [58ब्6] विदुषः /(Vin_16.20)

/ अनुपशमने तैः /(Vin_16.21)

/ संघे निक्षेपः /(Vin_16.22)

/ असक्तौ तेन व्यूढानां संमतिः /(Vin_16.23)

/ अनूनानां संघपरिमाणात्* /(Vin_16.24)

/ समन्तृत्वं वर्गस्य स्वतो सक्तौ व्यूढकेषु /(Vin_16.25)

/ अक्रिताव् उत्तरस्यासक्तौ यत आदानतन्त्रनिक्षेपः /(Vin_16.26)

/ प्रत्यागते मूलसंघे नाधिकरणसंचारकसंमतिः /(Vin_16.27)

/ तेन सस्थविरे सप्रातिमोक्षे न्यत्र संघ उपनिक्षेपः /(Vin_16.28)

/ [59अ1] // त्रिमास्यात् कालस्य दानं वृत्तारोचनपूर्वकं /(Vin_16.29)

/ अस्यैतत्* /(Vin_16.30)

/ प्रत्यर्पिते तेन सूत्रधरविनयधरमातृकधरेषु /(Vin_16.31)

/ षण्मास्याः /(Vin_16.32)

/ तैः प्रभाविते स्थविरे अपर्यन्तस्य /(Vin_16.33)

/ वर्जयेद् असौ ततः स्वीकरणं कस्यचित्* /(Vin_16.34)

/ ओषाटुकदन्तकाष्ठात्* /(Vin_16.35)

/ एकासननिषदनैकचंक्रमचंक्रमणालापसंलापाश् च /(Vin_16.36)

/ अनुपधूत इदं वदेत् तेषां च [59अ2] आयुष्मन्त अलाभानालाभादुर्लभो न सुलभा ये यूयं स्वाख्याते धर्मविनये प्रव्रज्या कलहजाता विहरत भण्डनजाता विकृहीता विवादम् आपन्नाम् आयुष्मन्तः कलहो मा भण्डनं विग्रहो मा विवादः // नास्ति द्वयोर् युध्यतो जय एकस्य जय एकस्य पराजयः / नास्ति द्वयोर् धावतो जय एकस्य जय एकस्य पराजय [59अ3] इति /(Vin_16.37)

/ बहुतरमतेन संस्थानम् इत्य् अपरः संप्रतिपादनप्रकारः /(Vin_16.38)

/ धर्मविनिश्चितावश्यसंभवो न वृत्तिविनिश्चितौ /(Vin_16.39)

/ विवदितृगतत्वात् तद्गतायाः प्रत्यवगतेः /(Vin_16.40)

/ खरमर्थिप्रत्यर्थिकैर् गृहीतत्वे प्रगाढम्* च व्याढत्वे तेषां भेदाशंकितायाम् अस्य संस्रयणं /(Vin_16.41)

/ असंवरणकरणीयेत्वे र्थस्य /(Vin_16.42)

/ परिक्षिप्तेषु स्थविरपर्यन्तेषु /(Vin_16.43)

/ मूलसंघेन /(Vin_16.44)

/ [59अ4] शलाकाग्रहणेनात्र मतस्य गृहीतव्यता /(Vin_16.45)

/ शलाकाचारकसंमतिः /(Vin_16.46)

/ शलाकानां तेनोपस्थापनं द्विप्रकाराणां /(Vin_16.47)

/ अजिह्मावंकाकुटिलसुवर्णसुगन्धस्पर्शवत्त्वे धर्मशला[का]स्व् इह रस्म विपर्ययः /(Vin_16.48)

/ सन्निपातायारोचनं : संघे सर्वैः सन्निपति[त]व्यं* / शलाकाश् चारयिष्यामीति /(Vin_16.49)

/ तथा चेद् अधर्मशलाकाधिक्यसंपत्तिं* [59अ5] मन्येत न छन्दानुप्रदानेन सामग्र्ये चारयेत /(Vin_16.50)

/ दक्षिणेन पाणिना धर्मशलाकानां चारणकाले ग्रहणं वामेनेतरासां /(Vin_16.51)

/ प्रतिछाद्यैनाश् पूर्वाः प्रकाशिकृत्योपयाचनम्* / स्थविरे यं धर्मशलाका अजिह्मा अवंका अकुटिल्[आ] सु[व]र्णा सुगन्धा सुखसंस्पर्शा गृहाणेति द्वयोर् वाचोर् इतरां मृगय तेन प्रयच्छेत्* /(Vin_16.52)

/ यथा धर्मोद्भवम्* [59अ6] मन्येत तथा चारयेच् छन्नम् वा वृतं वा /(Vin_16.53)

/ आयुस्मन्, उपाध्यायेन ते धर्मशलाका गृहीता आचार्येण समानोपाध्यायेन समानाचार्येणाल[प्त]केन न संलप्तकेन संस्तुतकेन सप्रेमकेन त्वम् अपि धर्मशलाकं गृहाण मात्रेतैः सार्धं विरुक्षणं भविष्यतीति वा कर्णमूले तन्तुनायं /(Vin_16.54)

/ नाप्तधर्मशलाकां गृह्णीयात्* /(Vin_16.55)

/ नापृष्ट्वा सूत्रधरविनय[59ब्1]धरमातृकधरान्* /(Vin_16.56)

/ न भेदोद्भवक्षान्त्या नाधर्म्यस्य न जानन्नयो भविष्यत्तां /(Vin_16.57)

/ समत्वे महाश्रा[व]कम् उद्देश्यैकधर्मशलाकाग्रहणं /(Vin_16.58)

/ नाधर्मेणाप्य् एवम् उपशान्तं खोटयेत /(Vin_16.59)

/ निरवद्यचोदनशुद्धिदानं /(Vin_16.60)

/ चतुर्धा तच्चोदनावस्तुकमन्यानुष्ठानवशात् प्रतिकृत्यनपेक्षणाद् उन्मत्तकृतेन च /(Vin_16.61)

/ त्रिष्व् आद्येषु स्मृतिविनयदानं /(Vin_16.62)

/ अमूढविनयस्यान्ते(Vin_16.63)

[59ब्2] त्रयः सापत्तिकत्वात् संक्षोभाः /(Vin_16.64)

/ निर्विक्रियसविक्रियश् च द्विप्रकारः प्रादेशिकः सकलसंघगतश् च /(Vin_16.65)

/ पक्षापरपक्षव्यवस्थानेन /(Vin_16.66)

/ प्रथमतः प्रतिकरणं प्रतिज्ञाकारकः /(Vin_16.67)

/ संमुखविनयो द्वितीयस्मात्* /(Vin_16.68)

/ तृतीयस्मात् तृणप्रस्तारकः /(Vin_16.69)

/ बहूनाम् अर्थे त्रासंघे देश्यानाम् एकेन प्रतिकरणं /(Vin_16.70)

/ सह चानेकासां /(Vin_16.71)

/ याम् इति चोलिङ्गन[59ब्3]तो ज्ञानोद्भासनेन /(Vin_16.72)

/ पक्षान्तरे च समेते /(Vin_16.73)

/ नाप्रतिज्ञातस्य वृथा वा प्रतिदेशनायारूढिः /(Vin_16.74)

/ कल्पते सह्येन चोद्यत्वं /(Vin_16.75)

/ तथा चोदकत्वं /(Vin_16.76)

/ अनियमो ऽत्र संख्याविशेषाणां /(Vin_16.77)

/ सम्वृतत्वं कायवाग्भ्यां पिटकानां वेतृत्वमदीयत्वम्* /(Vin_16.78)

/ विपर्ययतो धर्मविनयतद्विपर्ययाणां संघमध्ये संचिन्त्येति त्रिकान्वितं चोदकम् आदृयेरन् /(Vin_16.79)

/ उन्मोटनं दुः[59ब्4]शीलविपर्य[य]दीपिनोः /(Vin_16.80)

/ संज्ञपनम संज्ञपनमरेन्तः पिटकानां धारयितुरन् एवंविधस्य समनुयुञ्जीरन्न् एनं भावः प्रतिबोधाय स्थानस्थापनेन /(Vin_16.81)

/ कालदेशेर्यापथानुआनानि स्थानम्* /(Vin_16.82)

/ अरूढिस्थानान्तरसंचारे कालष्योपसंपत्तौ च चोदनस्य /(Vin_16.83)

/ प्रतिज्ञानं चोदितेन निष्ठा दृष्टसत्यत्वे प्रकृष्टतरत्वे च गुणतो न्यस्य चतुष्प्रमाणीकरणं गृहिणो पि /(Vin_16.84)

/ संवा[59ब्5]दनं सात्यत्वे /(Vin_16.85)

/ न संदिग्धतायापत्तौ ज्ञातत्वम् /(Vin_16.86)

/ प्रतिज्ञानवद् अतो निश्चयः /(Vin_16.87)

/ अप्रत्यवगतिर् अवज्ञानम्* /(Vin_16.88)

/ प्रतिज्ञाप संघे वजानता निर्धारणनियोगदानम्* /(Vin_16.89)

/ तत्स्वभावैषततत्वाद् अस्य तत्प्रभावैषियत्वं /(Vin_16.90)

/ प्रणिधिकर्मरूपेणास्य केश् चिद् आम्नानम् /(Vin_16.91)

/ असाधु तन् सूत्रविरोधात्* /(Vin_16.92)

/ अनिष्टेस्वव्युपशमथेनापवर्गीकरणस्य /(Vin_16.93)

/ तज्जनीयादीना[59ब्6]म् एतत्त्वेनाव्यवस्थापनात्* /(Vin_16.94)

/ प्रतिपतो स्यैतद् अवज्ञानम् इति च प्रत्यवगतावदर्शकत्वप्रतीतायाजातत्वभावात्* /(Vin_16.95)

/ न व्युपशमार्थमौत्सुक्यं नापद्येरन्* /(Vin_16.96)

/ [इति] अधिकरणवस्तु // 1

**(vin_16,2) पृच्छागतम् /

/ सर्वशमथानां कृत्याधिकरणे वतारः /(Vin_16.97)

/ नानर्हस्य पूरणे संघव्यवहृतौ सभ्यत्वं /(Vin_16.98)

/ सोपसंपत्कानाम् ऐतरेधिकारः /(Vin_16.99)

/ अर्हत्वं पुंसां स्त्रैणे /(Vin_16.100)

/ व्युपशा[60अ1] //न्तत्वं च्युतौ जीविताद् उपसंपदो वा /(Vin_16.101)

/ वर्जता-पत्तावान्यपक्ष्यतात्* /(Vin_16.102)

/ प्रक्रान्ताव् अन्येन दीर्घरोगजातस्य स्पृष्टौ वा /(Vin_16.103)

/ अर्थादायिनो भियुक्तस्य वा /(Vin_16.104)

/ अधिकरणवस्तुपृच्छा // 2 // समाप्तञ् चाधिकरणवस्तु // 16

*vin_17. शयनासनवस्तु /

**(vin_17,1) शयनासनवस्तु /

**(vin_17,1,1) वन्द्याः /

/ परः प्रातिमोक्षसंवरेण प्रव्रजितस्य वन्द्यः /(Vin_17.1)

/ समानश् च वृद्धः /(Vin_17.2)

/ अनन्यव्यंजनः /(Vin_17.3)

/ पुमांश् चाहीन [स्त्रि]याः /(Vin_17.4)

/ भूम्यन्त[60अ2]रस्थध्वस्तभिक्षुणीदूषकाधर्मपक्ष्यनानासंवासिकानन्तर्यच्छ्[अ]यितसमापन्नव्यग्रान्यचित्तस्यष्ठाभिमुखान्तर्गृहभक्ताग्रस्थवर्जम् /(Vin_17.5)

/ आगारिकस्य प्रव्रजितः /(Vin_17.6)

/ बुद्धः सर्वस्य /(Vin_17.7)

**(vin_17,1,2) विहारकरणम् /

/ कुर्वीत्* विहारम्* /(Vin_17.8)

/ एकस्य गन्धकुटेर् मध्ये पक्षस्य कर्तव्यता /(Vin_17.9)

/ तदभिमुखं द्वारकोष्ठकस्य /(Vin_17.10)

/ चतुरस्रस्य साधुत्वं /(Vin_17.11)

/ त्रिशालस्य च /(Vin_17.12)

/ प्रतिगृह्णीत्*[.. .. /(Vin_17.13)

/] वसेद् विहारे(Vin_17.14)

[60अ3] अनुजानियुर् अन्येषां सांघिके वस्तुनि संघाय पुद्गलाय वा भिक्षवे वासवस्तु(न)करणं /(Vin_17.15)

/ संश्चेद् दानपतिर् अनुज्ञातेन /(Vin_17.16)

/ कल्पन्ते प्रतिक्रमणकबहिरन्तर्वा नगरस्य /(Vin_17.17)

/ व्यवध्यर्थ भित्तिकरणेन स्वरूपे संरागप्रत्ययं विहन्युः /(Vin_17.18)

/ अंजलिपूरणिकया पायनेन मातृग्रामम् अनुग्[ऋ]ह्णीत नाच्छिन्नधारादानेन /(Vin_17.19)

/ अर्हस्तु काल[त्]व्[ए] न्तर्वर्षम् आ[60अ4]गतो लाभे /(Vin_17.20)

/ बहुतरत्वं वर्षाकालस्य तल्लाभकालः /(Vin_17.21)

/ न कर्मण्यलाभो भोक्ता /(Vin_17.22)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.