Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र
- Thông tin
- GRETIL — Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
/ देयत्वम् अप्राप्नुवल्लाभे भक्तस्य /(Vin_17.23)
/ नान्यलाभे सन्निपत्* /(Vin_17.24)
/ निर्दोषम् अतदर्थं गतस्य वेलाप्राप्तौ विहारान्तरे भोजनम्* /(Vin_17.25)
/ दुर्भक्षे चानन्तस्य स्वे /(Vin_17.26)
/ अतिरिक्ततायां भिक्षु मात्रर्थाद् ग्रहणन् न विहारम् अव्युपेरन्* /(Vin_17.27)
/ दानपतेः प्रतिसंस्करणायोत्साहणम् /(Vin_17.28)
/ [60अ5] असंपत्तौ सांघिकस्य यावच् छक्तिविनियोगः /(Vin_17.29)
/ स्वयञ् च प्रतिसंस्करणम् /(Vin_17.30)
/ लाभग्राहिणो विहारस्य सम्मार्जनम्* /(Vin_17.31)
/ न प्रसादलाभस्य वैहारत्वं /(Vin_17.32)
/ बध्वा द्वारम् विहारात् प्रवरेयुः /(Vin_17.33)
/ पालञ् च स्थापयित्वा /(Vin_17.34)
/ पिण्डकस्यासत्वो स्मै दा[ना]म्* /(Vin_17.35)
/ नानिर्याय चौरतन्त्रत्वाभावं सद्वारम् अनुप्रयच्छेत /(Vin_17.36)
/ दर्शनमतिरुक्षशरणपृष्ठं मा त्वं ज्वरित इति [60अ6] संज्ञया ख्यापनम् इत्य् अत्रोपाय[ः] /(Vin_17.37)
/ निवासानाम् अपितृमात्रादेः प्रत्यभिज्ञाने /(Vin_17.38)
/ नाप्रत्यभिज्ञाताय सभयताया द्वारं दद्[य्]उः /(Vin_17.39)
/ धारयेद् आरण्यकष्कुक्करं /(Vin_17.40)
/ उत्थायैवासौ काल्यम् अवलोकयेद् विहारम्* चैत्या[ङ्]गनं च /(Vin_17.41)
/ [..] उच्चारश् चेत् तत्कृतः छोरयेत्* प्रस्रावश् चेद् उ[द्धू]षेन्नखरिकाभिलिखितं चेत् समं कुर्यात्* /(Vin_17.42)
/ म[ण्ड][60ब्1]लकम् एषां स्थानेषु /(Vin_17.43)
/ पात्रशेषस्यास्मै दाने /(Vin_17.44)
/ बहिश् चेत्यविहारोपविचारतः /(Vin_17.45)
/ यवैष्टम् ईर्यापथा उद्देशदाने /(Vin_17.46)
**(vin_17,1,3) सामीच्यादि /
/ धातुसाम्यं पृष्ट्वा साम्[ई]चीकरणपूर्वकं न[ः]कस्य ग्रहणायेर्यपथभजणं /(Vin_17.47)
/ बद्धक्रतोः /(Vin_17.48)
/ अनवनतकायचित्तस्य /(Vin_17.49)
/ रिजोः /(Vin_17.50)
/ चंक्रम्यमाणे पदपरिहाणिका चंक्रम्यस्य /(Vin_17.51)
/ स्थानस्य तिष्ठति /(Vin_17.52)
/ निषण्णे निपन्ने च नि[60ब्2]षादस्य /(Vin_17.53)
/ नीचतरासने /(Vin_17.54)
/ उक्ते नवकस्य /(Vin_17.55)
/ उक्ते डुकिकयानुक्ते /(Vin_17.56)
/ बहुत्वे ग्राह्यस्यावलोकनम्* /(Vin_17.57)
/ मुक्त्वो श्रमणोपविचारं स्वाध्यायनम्* /(Vin_17.58)
/ दर्शनोपविचारे स्थित्वा /(Vin_17.59)
/ अववादम् एकान्ते पक्रम्य संवादयेत्* /(Vin_17.60)
/ सुस्वाध्यायितं सुपरिमृष्टं निःसंधिग्धं कृत्वोद्देशधारणं च /(Vin_17.61)
**(vin_17,1,4) भक्तोद्देशकादिसम्मतिः /
/ संमन्ये[र]न् विहारभग्तौद्देशकयवागूखाद्यकफल[60ब्3]भाजकम् /(Vin_17.62)
/ अवरमात्रकस्य /(Vin_17.63)
/ शिष्टम् अन्येद्यु(ह्य)श् चार्यं तदाख्यम् /(Vin_17.64)
/ भाण्डगोपकं* /(Vin_17.65)
/ वर्षाशा[ट्]याः (//) कठिनस्य चीवराणां (//) भाजकञ् चो(Vin_17.66)
पधिवारिकप्रेषकौ /(Vin_17.67)
/ भाजनवारिकम्* /(Vin_17.68)
/ चारणे स्यैषां व्यापारो भुक्ते च गोपने /(Vin_17.69)
/ पानीयवारिकं /(Vin_17.70)
/ प्रासादकवारिकं /(Vin_17.71)
/ अवलोक्य तेनाच्छटाशब्दकरणपूर्वक(मु)ं संस्थाभजसा[60ब्4]नानां प्रव्रजितानां /(Vin_17.72)
/ संस्थायां विनियोजनम्* /(Vin_17.73)
/ तद्यथान्यशब्दतया भोजने सुसंवृततया (//) सुप्रतिछन्नतया चैत्यवन्दने यथावृद्धिकया च /(Vin_17.74)
/ परिषण्डाधारिकं /(Vin_17.75)
/ तत् प्रथतो भुक्त्वा वंसम् आदाय काकचटकपार([त])तादीनां भुञ्जनेषु तेन वारणं /(Vin_17.76)
/ शयनासनवारिकं(Vin_17.77)
मुण्डशयनासनवारिकं /(Vin_17.78)
/ लोकप्रवेशसकल्पि[60ब्5]कतयोः भोजने(Vin_17.79)
छण्डिकवारिकम् /(Vin_17.80)
// शयनासनवस्तु // 1 //
**(vin_17,2) पश्चिमशयनासनवस्तु /
**(vin_17,2,1) वन्दनम् /
/ सप्रणामां वचम् अन्धकारवन्दनस्थाने निश्चारयेत्* /(Vin_17.81)
/ लोपचारप्राप्तप्रसृतो न्यस्य वन्दनेन वन्देत्* /(Vin_17.82)
/ कृतत्वम् अस्य ब्राह्म्यां षामीच्यम् /(Vin_17.83)
/ न सान्तरस्य सामीचीं* कुर्यात्* /(Vin_17.84)
/ न वन्दमानं नारोग्ययेत्* /(Vin_17.85)
/ नावन्द्यत्वम् अतीतायातत्प्रत्ययाः /(Vin_17.86)
/ न पलिगुद्धं वन्देत्* /(Vin_17.87)
/ [60ब्6] न पलिगुद्ध चरेत्* /(Vin_17.88)
/ नैनां स्वीकुर्वीत्* /(Vin_17.89)
/ न पलिगुद्धम्* /(Vin_17.90)
/ द्वयं पलिगोधो भक्ष्यमाणेन वा दन्तकाष्ठाद् अशुचिना वा तद्भूमिपरिकर्मणात्* /(Vin_17.91)
/ पलिगोध तत्र नाग्न्यम् एकचीवरता चदेवन्दने पञ्चमण्डलकेन जंघप्रपी[ड]निकया च /(Vin_17.92)
/ न क्षुत्*वन्तं जीव्[ए]त्य् अभिवन्देद् उत्सृज्यान्त्यावयसमागारिकां च /(Vin_17.93)
/ नवकम् एनम् आरोग्ययेत /(Vin_17.94)
/ [61अ1] / / वन्देद् वृद्धम्* /(Vin_17.95)
**(vin_17,2,2) नामगोत्राग्रहणम् /
/ क्षुत्वा च /(Vin_17.96)
/ नायुष्मन् नामगोत्रवादेन तथागतं समुदाचरेत्* /(Vin_17.97)
/ नास्य निरूपापदं नाम गोत्रम् वा गृह्णीयात्* /(Vin_17.98)
/ न वृद्धस्य /(Vin_17.99)
/ प्रतिरूपम् अत्र स्थविरायुष्मतोर् उपपदत्वम्* /(Vin_17.100)
/ न पूर्वत्र /(Vin_17.101)
**(vin_17,2,3) नवकर्म /
/ गमनागमनसंपन्नव[स्तु]नि नवकर्मिको विहारं प्रति स्थापयेत्* /(Vin_17.102)
/ वृक्षवापीचंक्रमैः /(Vin_17.103)
/ उपविचारेण /(Vin_17.104)
/ अव्याकीर्णवि[61अ2]लापशब्दनिर्घोषे /(Vin_17.105)
/ कारणम् अनुज्ञाते दात्राविहारकरणार्थाद् वस्तुनस् तत्करणभाण्डस्य /(Vin_17.106)
/ लयनस्यास्य स्थापनाय दानम्* /(Vin_17.107)
/ क्रयस् तदुपयोज्यस्य तैलादेः मात्रया /(Vin_17.108)
/ भोजनं नवकर्मकेण तादृशस्य यादृश्यं यवने /(Vin_17.109)
/ निर्विहारस्य तस्य स्थानस्य /(Vin_17.110)
/ प्रग्रहणं स्नेहलाभस्य /(Vin_17.111)
/ सामन्तकविहारे पञ्च[पु]रत्वं विहारेषु पर्य[61अ3]न्तः /(Vin_17.112)
/ त्रिपुरत्वं भिक्षुणीनां /(Vin_17.113)
/ अतिरेचनं गन्धकुटिवाताग्रपोतिकयोः पुरद्वयेन /(Vin_17.114)
/ निरवद्यम् एषां पुरोजित्वे भरस्य पुरोद्वेष्टनम्* /(Vin_17.115)
/ प्रारब्धस्य च वृहत्तो ल्पस्य वा करणार्थं भञ्जनम्* /(Vin_17.116)
/ बृहत्वार्थं [स्तू]पप्रतिमयोः /(Vin_17.117)
/ सीर्णतानिमित्तं तुल्ययोर् अपि निष्ठितयोश् च /(Vin_17.118)
/ प्रदेशस्य च प्रतिसंस्करणार्थम् /(Vin_17.119)
/ अवतारणञ् च कत्रादीनां /(Vin_17.120)
/ अन्या[61अ4]रोपनायापि /(Vin_17.121)
/ नैतदर्थम् अनुष्ठापिता नयेत्* /(Vin_17.122)
/ जातकादिचित्रबुद्धवचनलेखनयोश् च /(Vin_17.123)
/ भंग्यस्यैष विशेषस्य क्रियायै /(Vin_17.124)
/ करणम् अकृतावारभ्यान्येन शेषस्य /(Vin_17.125)
/ देयत्वम् अर्धोत्थिते संघार्थञ् चे[द्] उत्थानकस्य /(Vin_17.126)
/ पश्चाद्भक्तं तद्दाने कालो हेमन्तश् चे[द्] ग्रीष्मश् चेति पूर्वभक्तं /(Vin_17.127)
/ भक्तकरणीयकालस्य शेषणं /(Vin_17.128)
**(vin_17,2,4) यात्राप्रवर्तनम् /
/ नासज्जी[61अ5]भूय ततो यत्रायां प्रवर्तेत्* /(Vin_17.129)
/ प्रक्षालितं हस्तपात्तत्वं तदन्तः /(Vin_17.130)
/ पुरोभक्तिकम् उत्थानकारकः समादापयेत्* /(Vin_17.131)
/ पश्चद्भक्ते पानकहस्तपादाभ्यंगं /(Vin_17.132)
**(vin_17,2,5) द्वारादिकरणम् /
/ नयनानां द्वारकरणं /(Vin_17.133)
/ कचाटदानम्* /(Vin_17.134)
/ आयामकटकचर्मखण्डिकयोः /(Vin_17.135)
/ वातायनकरणम् /(Vin_17.136)
/ मध्येबहिःसंवृतस्याभ्यन्तरे विशालस्य समुद्राकृतेः /(Vin_17.137)
/ जालि[61अ6]कादानम्* /(Vin_17.138)
/ कवाटिकायाश् चक्रिकाघटिकाशूचीनां /(Vin_17.139)
/ अजपादकदण्डधारणम्* /(Vin_17.140)
/ अरामथैन वाननं /(Vin_17.141)
/ करणं प्रासादस्य [व्य]यनाग्रतः /(Vin_17.142)
/ सप्ताष्टेष्टकास्तरदानम्* /(Vin_17.143)
/ तदुपरिन्यासपट्टस्य /(Vin_17.144)
/ तस्य स्तंभपंक्तेः /(Vin_17.145)
/ तेषां त्रिकटपत्राणां /(Vin_17.146)
/ तेषां सिकानां /(Vin_17.147)
/ तासां धरणीनां /(Vin_17.148)
/ तासां पट्टानाम्* /(Vin_17.149)
/ [61ब्1] तेषाम् इष्टकास्तरस्य /(Vin_17.150)
/ तस्य क्षोदकस्य /(Vin_17.151)
/ अप्रपातार्थं वेदिककरणं /(Vin_17.152)
/ अकम्पनायाम् अस्याम् अवसंगदानं /(Vin_17.153)
/ लोहकीलकैर् अस्य संपर्वणम्* /(Vin_17.154)
/ सोपानस्यातिरोहार्थं करणं /(Vin_17.155)
/ अधःशैलमयस्य /(Vin_17.156)
/ मृन्मयस्य /(Vin_17.157)
/ मध्ये /(Vin_17.158)
/ उपरि दारुमयस्य /(Vin_17.159)
/ अधिरोहेन् निःश्रयण्या /(Vin_17.160)
/ दारुवंस(ं)रज्जुमय्याम् अपि /(Vin_17.161)
/ इष्टकास्तरणपु[61ब्2]ष्करिणिकायां द्वारकोष्टके चाकर्दमीभावाय दानम्* /(Vin_17.162)
/ तदुपरि क्षोदकस्य /(Vin_17.163)
/ सुधायास् तस्य /(Vin_17.164)
/ अभावे काष्ठपट्टस्य पदत्राणार्थम्* /(Vin_17.165)
/ अन्तरे न्तरे वैष्टकायाः /(Vin_17.166)
/ चैत्ये प्य् एतत्* /(Vin_17.167)
/ कृतत्वम् अस्याव्याममात्रे कृततायाम् /(Vin_17.168)
**(vin_17,2,6) सिंहासनादिकरणम् /
/ सि[ं]हानस्य करणञ् चतुरस्रकस्य /(Vin_17.169)
/ सि[ं]हमुखत्वं पादकेषु /(Vin_17.170)
/ ग्रहणाय संचारणे लोहकण्टकानां चतु[61ब्3]ष्के प्य् एषु दानम् /(Vin_17.171)
/ पट्टिकाभिः दानम्* /(Vin_17.172)
/ मसूकरस्यादानम्* /(Vin_17.173)
/ उपरि वितानस्य /(Vin_17.174)
/ लम्बनानां सोपानकस्य करणम् इष्टकामयस्य स्थिरे /(Vin_17.175)
/ संचार्ये काष्ठमयस्य /(Vin_17.176)
/ असंपत्तौ निःश्रयणिकायाः /(Vin_17.177)
/ पादपीठस्य करणम्* /(Vin_17.178)
/ पत्रवैभङ्गुकानाम् उपरि दानम्* /(Vin_17.179)
/ कक्षपिण्डकस्य वा /(Vin_17.180)
/ पादयोर् आलम्बनम् अत्रा[61ब्4]र्थः /(Vin_17.181)
/ संपत्तिर् अस्य शिलया काकचटकयोः /(Vin_17.182)
**(vin_17,2,7) जालादिदानम् /
/ पारावतेभ्यो भुञ्जानाना[मिवि]हेठाय जालदानम्* /(Vin_17.183)
/ चातुर्विध्यम् अस्य /(Vin_17.184)
/ मौञ्जे वावल्वजः साणकः कार्प्यासिका इति /(Vin_17.185)
/ चक्रिकाणां चतुर्षु कोनेषु दानं /(Vin_17.186)
/ तासु बन्धः /(Vin_17.187)
/ स्फुट(ना)नं क्लेदश् च काष्ठस्य तस्माद् अयोमयीनां /(Vin_17.188)
/ छिद्रस्यास्यैकदेशे करणम् /(Vin_17.189)
/ भुक्ते प्रवे[61ब्5]शाय /(Vin_17.190)
/ वेलायामस्य पिधानम्* /(Vin_17.191)
/ पानीयेन प्रासादस्याप्लवनाय वर्षासु पट्टानां दानं [स्त]म्भान्तरेषु /(Vin_17.192)
/ आलोकाय प्रदेशम् उत्सृज्य /(Vin_17.193)
/ अभावे किटकानां किलिञ्जानाम् वा /(Vin_17.194)
/ वार्षिकमासचतुष्टयान्ते पनयनम्* /(Vin_17.195)
**(vin_17,2,8) मण्डलवाटादिकरणम् /
/ करणं मण्डलवाटस्य /(Vin_17.196)
/ शीतलस्थानतायै बहिः भित्तिदानम्* /(Vin_17.197)
/ स्तम्भपंक्तेः /(Vin_17.198)
/ वा[61ब्6]तयनमुक्तिः /(Vin_17.199)
/ आसनोत्तमसमानकक्ष्यापरिमानान्तानाम्* /(Vin_17.200)
/ जालिकाकवाटिकयोः दानम्* /(Vin_17.201)
/ करणभक्ताग्न्युपस्थापनचंक्रमणशालानाम्* /(Vin_17.202)
/ अवच्छादनकानाञ् च कण्ठादेशपरिक्षिप्तानां /(Vin_17.203)
**(vin_17,2,9) भूमिगृहककरणम् /
/ कल्पते भूमिगृहकम्* /(Vin_17.204)
/ प्रासादवद् अत्र वेदिकागतं /(Vin_17.205)
/ वेष्टिकत्वञ् च कन्थायां प्रव्रजितारामस्य /(Vin_17.206)
/ [62अ1] / / मुक्तोदकभ्रमत्वञ् च भित्त्[ए]ः /(Vin_17.207)
/ वाटपरिखाभ्यां च /(Vin_17.208)
/ पुद्गलस्य च विहारः सपरिकरः /(Vin_17.209)
/ करणं नीलादिकृत्स्ननिमित्तामुखीभावाय नीलादिचतुर्विध्यस्य लयनभित्तीनां /(Vin_17.210)
**(vin_17,2,10)चित्रणम् आरामस्य /
/ कल्पत्[ए] चित्रितत्वं प्रव्रजितारामस्य /(Vin_17.211)
/ द्वारे यक्षाणां चित्रणं वज्रधरादिहस्तानां /(Vin_17.212)
/ द्वारकोष्ठके संसारचक्रस्य /(Vin_17.213)
/ गण्डपञ्चकस्य करणं /(Vin_17.214)
/ ऊर्धं द्[ए]वमनुष्या[62अ2]णाम् /(Vin_17.215)
/ चतुर्णां द्वीपानां /(Vin_17.216)
/ औपपादुकानां सत्वानां घटियंत्रवच्च्यवमानानाम् उपपद्यमानानां च रागद्वेषमोहानां पारावतभुजंगसूकराकारेण /(Vin_17.217)
/ ग्रस्यमानयोर् मोहेन पूर्वयोः /(Vin_17.218)
/ प्रतीतसमुत्पादस्य सामन्तके द्वादशाङ्गस्य /(Vin_17.219)
/ सर्वस्यानित्यतया ग्र[स्त]स्य /(Vin_17.220)
/ ऊर्धं बुद्धस्य शुक्लं निर्वाणमण्डलम् उपदर्शयेत्* /(Vin_17.221)
/ गाथयो[62अ3]र् आरब्धम् इति द्वयोर् अधस्तात्* /(Vin_17.222)
/ आख्यातुर् अस्य स्थापनम्* /(Vin_17.223)
/ सामन्तकेनास्य महाप्रातिहार्यमारभङ्गयोः /(Vin_17.224)
/ प्रासादे जातकानां /(Vin_17.225)
/ मालाधाराणां यक्षाणां गन्धकुटिद्वारे(Vin_17.226)
उपस्थापनशालायां स्थविरपंक्तेः /(Vin_17.227)
/ गन्*जद्वारे ङ्कुरहस्तानां यक्षाणां /(Vin_17.228)
/ खाद्यहस्तानां भोजनमण्डपे /(Vin_17.229)
/ जेन्ताकाशालायाम् अङ्कुरकशहस्तानां कुभा[62अ4]ण्डानां चाग्निद्वीपयतां /(Vin_17.230)
/ अग्निशालायां मेचकादि कुर्वताम् अग्निं* च ज्वालयतां कुम्भाण्डपुत्राणां /(Vin_17.231)
/ दानपतेर् दीपं धारयतो देवदूति यस्य च /(Vin_17.232)
/ नानालंकारविभूषितानां कलश[हस्ता]नां नागकन्यकानां चोदकं धारयन्तीनां पानीयमण्डपे /(Vin_17.233)
/ ग्लानकल्पिकशालायां तथागतस्य ग्लानम् उपतिष्ठतः /(Vin_17.234)
/ वर्चःप्र[62अ5]स्रावकुट्योः शिवपथिकायाः शिरष्करोटेर् वा /(Vin_17.235)
**(vin_17,2,11)विहारसम्मार्जनादि /
/ न विहारे नभ्यवकाशे सधूमम् अग्निं* कुर्याद् धारयेद् धारकुट्टिमे सर्वं /(Vin_17.236)
/ धारयेत् तदर्थं भ्रष्टिकां /(Vin_17.237)
/ समावर्तनार्थञ् चायोमयं दण्डतपकम्* /(Vin_17.238)
/ ढिं*सुकेनापि दारुमयेनैतत्कार्यसम्पत्तिः /(Vin_17.239)
/ विहारम् उपधिवारिकः संमृ[ह्या]त् प्रत्यहं /(Vin_17.240)
/ असक्ताव् उपयुज्यमानं प्रदेशं /(Vin_17.241)
/ अवशिष्टम् अष्टम्यां चतुर्दश्यां च सर्वसंघे [62अ6] गण्डीम् आकोट्ट्य धर्म्यया वा कथयार्येण वा तूष्णीम्भावेन /(Vin_17.242)
/ धर्मोत्सवे सेकः सुकुमार्याश् च गोमयकार्षाः प्रदानम्* /(Vin_17.243)
/ स्नानम् अन्तेर /(Vin_17.244)
/ हस्तपादप्रक्षालनम् वा /(Vin_17.245)
/ गात्रस्य चोदकदिग्धेनानुपरिमार्जनम्* /(Vin_17.246)
/ स्नेहलाभस्य करणं /(Vin_17.247)
/ रत्नार्थं संमृष्टामृष्टयोर् गन्धकूटिप्रतिमाचैत्ययष्टिछयानां चार्यां गाथां पठता लंघणं /(Vin_17.248)
/ शयना[62ब्1]सनस्यानयोर् एवाह्नोः प्रत्यवेक्षणं संस्करणं निःसृतैः /(Vin_17.249)
/ सेकसंमार्गसुकुमारिगोमयकार्षाप्रदानानि वासवस्तुनि कुर्वीत्* /(Vin_17.250)
/ शयनासनं मलिनं प्रस्फोटयेत्* /(Vin_17.251)
/ अतीव चेद् धावेत्* /(Vin_17.252)
/ ऊर्धं सेकास्संसृष्टिः /(Vin_17.253)
/ तत[श्] च प्रज्ञपनम्(अ) /(Vin_17.254)
/ न प्रस्फोटिते सरजस्कतायाम् आधारे /(Vin_17.255)
/ प्रज्ञ[प्र]नीयेभ्यो वस्त्रस्यैकस्य प्रस्फोटने विनियोगः /(Vin_17.256)
/ लूहस्य /(Vin_17.257)
/ प्रति[62ब्2]संस्करणम् अस्य /(Vin_17.258)
/ अशक्यतायां चीरीकृत्य यष्ट्याम् उपनिबध्य प्रस्फोटनम्* /(Vin_17.259)
/ तथाप्य् अयोग्यत्वे गोमयमृदास्तम्भसुशिरे कुण्यस्य वा लेपनम्* /(Vin_17.260)
/ पुण्याभिवृद्धिचिरतायै दात्तः /(Vin_17.261)
/ न द्वारकोष्ठके प्रासादे वा शय्याप्रज्ञप्तिं कृत्वा वा धारणं कुर्यात्* /(Vin_17.262)
/ कुर्याद् अशद्रव प्रतिपक्षेणार्थम् अष्टमीचतुर्दशै प्रासादे /(Vin_17.263)
**(vin_17,2,12)मंचपीठादिधारणम् /
/ धारयेत्* मंचपीठम्* /(Vin_17.264)
/ कुटिमाविनाशार्थम्* [[62ब्3] मण्डलम् अधःपादकछेदं कारये[नु]षमुटके चैनं स्थापयेन् नतुकेन वा वेष्टयेत्* /(Vin_17.265)
/ नासंघो लेख्यपादकपीठकास्वीकृतं [भ]जेत /(Vin_17.266)
/ न भद्रासनमायाङ्गासनयोः /(Vin_17.267)
/ न दीपवृक्षस्य /(Vin_17.268)
/ अनेकलतकस्येत्य् अन्यपरम्* /(Vin_17.269)
/ धारयेच् चतुरस्रकं वृषीम् [वो(पि)]पधानकं च /(Vin_17.270)
/ चतुर्द्विगुण्यद्विगुणीकृत्य सेवनम्* /(Vin_17.271)
/ तूलेन पूरणं /(Vin_17.272)
/ नाकृतं प्रत्यवेक्षणे शय्यां [62ब्4] कल्पयेत्* /(Vin_17.273)
/ नानुपस्थाप्य स्मृतिम्* /(Vin_17.274)
**(vin_17,2,13)सहानिषीदनम् /
/ नापरेणे सार्धम् एकत्र मंचे सं[स्]तरे न्यत्र वा /(Vin_17.275)
/ कल्पयेद् असंभवे लज्जी पृथ[क्] प्रत्यास्थी[त्या]न्तरे वृषिकापात्रस्थाविकादि दत्त्वा स्मृतिम् उपस्थाप्य /(Vin_17.276)
/ न त्रयाद् ऊर्धं प्रचितिः साह्येन मंचरूढतां भजेत्* /(Vin_17.277)
/ न द्वया धीर्घपीठि /(Vin_17.278)
/ नासंत्याम् अनेकः /(Vin_17.279)
/ न त्रिवर्षाः परेणान्तरितेन सार्धम् आसनस्य /(Vin_17.280)
/ भजे[द्] आन्तर्गृहे [62ब्5] उपाध्यायेनाप्य् आसनाभावे स्मृतिम् उपस्थाप्य /(Vin_17.281)
/ न क्वचिद् गृहिणानुपसं[(न्)प]न्नेन वा /(Vin_17.282)
/ न षण्णदृपण्डकमातृघातकादितीर्थ्यतीर्थ्याक्रान्तक[स्ते]यसंवासिकनानासंवासिकासंवासिकैः /(Vin_17.283)
/ न शि[क्षा]दत्तकः /(Vin_17.284)
**(vin_17,2,14)सांघिकपरिष्कारेषु वर्तनम् /
/ शिक्षादत्तकेनासनत्वं चिलिनिमिकायाः सोपसंपत्संघसन्निपाताद् अन्यत्र /(Vin_17.285)
/ न स्थलिकायाः संकटसंबाधप्राप्ता[62ब्6]व् अनापत्तिः /(Vin_17.286)
/ संचारणे शयनासनस्य द्वौ चेद् एकेन मंचपीठस्य वा ग्रहणम् अपरेण वृश्यादेः /(Vin_17.287)
/ नैत[त्सा]ंघिकमदयम् आकर्षेन्निष्कर्षेद् धीन तथा कुर्याद् यथास्य(Vin_17.288)
[द्रू]ममलरजोभियोगः संपद्येत्* /
/ नास्याशुचिकुट्योः सा[न्नि]हित्यम् भजेत्* /(Vin_17.289)
/ न विनस्य छोरयेत्* /(Vin_17.290)
/ आतपनं स्ये शोषणं प्रस्फोटनं छिद्रेर् गडकदानम्* /(Vin_17.291)
/ द[ण्ड]कस्य स्फोटो /(Vin_17.292)
/ [63अ1] क्षीणमध्यस्यान्तयोर् मध्यताकरणम् /(Vin_17.293)
/ रंजनं तद् अर्हस्य /(Vin_17.294)
/ अशक्यप्रतिसंस्करणतायां दीपेषु विनियोगो वर्तिकात्वेन रत्नोपयोगेषु पुद्गलदातृकेष्व् अपि /(Vin_17.295)
/ अनुपयज्यमानस्यात्र कर्दमेन भित्तिस्तम्भकवाटसुषिरेषु रत्नेषु लेपनम् इत्य् अनुप्रतिपत्तिः /(Vin_17.296)
/ अद्देष्टस्ये गृहीत्रा /(Vin_17.297)
/ शिष्टस्य संघ्[ए]न संनिपत्य गण्ड्याकोटनेन /(Vin_17.298)
/ न श[63अ2]क्यं सांघिकम् अपहरन्तं दृष्[ट्र] न निवारयेत्* /(Vin_17.299)
/ नो त्रासे सांघिकम् अव्युपेक्षेरन्* /(Vin_17.300)
/ असंप्राप्तस्य स्थानम्* /(Vin_17.301)
/ नेतरूपत्रैयोज्यत्वं /(Vin_17.302)
/ परिभुक्तिर् असंभवे स्वस्थानोपनयनस्य स्थानान्तरे परिभोगेन /(Vin_17.303)
/ न स्थानान्तरीयं भक्तोपकरणलाभं स्थानान्तरे परिभुञ्जीत्* /(Vin_17.304)
/ तेनमन्यस्मै दद्युः /(Vin_17.305)
/ दास्यत्वं ग्रहीतुः /(Vin_17.306)
/ दातुर् अप्रगमे /(Vin_17.307)
/ निरव[द्]योंसिभिः [63अ3] सांघिकस्य स्वस्यैव निरुपयोज्यस्य तृणकाष्ठस्योपयोगः /(Vin_17.308)
/ यथागतिकानुद्दिष्ट अवृत्त्योपयोज्येन यथावृद्धिका /(Vin_17.309)
/ साह्ये याचनस्यैषां /(Vin_17.310)
/ नातो विप्रयुक्तं वियोजयेत्* /(Vin_17.311)
/ शुद्धत्वम् उदकेन पादस्यैतत् तद्भावने /(Vin_17.312)
/ प्रविष्टत्वं कुटौ तत्* /(Vin_17.313)
/ न निषद्यायोनिषद्याषण्णम् उत्थापयेत /(Vin_17.314)
/ नास्यां यथावृद्धिका /(Vin_17.315)
/ न कर्दमामिषपरिशुद्धं [63अ4] भिक्षुं /(Vin_17.316)
/ नागन्त्र्या निषीदेत्* /(Vin_17.317)
/ न सत्य् अर्थिनि कृतकृत्य आवृद्धि भोज्यम्* धारय्[ए]त्* /(Vin_17.318)
/ अकृतकृत्यत्वम् अन्तरालार्थतन्त्रतायां मुक्तावासनस्य /(Vin_17.319)
/ चीवरेणैनदायपट्टेन वा तदाधिष्ठितं कुर्वीत्* /(Vin_17.320)
/ नार्थिसद्भावे सत्यां गतौ सांघिकस्य पलिगुद्धतां भजेत्* /(Vin_17.321)
/ निरवद्यम् एवंविधाद् वियोजनं सत्यर्थे /(Vin_17.322)
**(vin_17,2,15)नापितभाण्डादिधारणम् /
/ धारयेत् संघो निषदां पुत्रकं चा[63अ5]स्याः /(Vin_17.323)
/ नापितभाण्डञ् च सुक्त्यां प्रक्षिप्य भित्तो स्थापनम्* /(Vin_17.324)
/ वासी च सपरशुनखादनादि त[द्] भाण्डम्* /(Vin_17.325)
/ दानम् अनेनामृन्मयस्य भिक्षोः याचितकत्वेन /(Vin_17.326)
/ न भिक्षुणीकाचभाण्डं धारयेत्* /(Vin_17.327)
/ धारयेत् सर्वं तैलभाजनम्* /(Vin_17.328)
/ कौर्डवात् प्रभृत्यर्धकौडवात्* /(Vin_17.329)
/ स्थालीमायसीञ् [च] /(Vin_17.330)
/ अस्याः पर्यङ्किकां /(Vin_17.331)
/ मृन्मयञ् चेद् धानम्* /(Vin_17.332)
/ [63अ6] लब्धसंवृतिः दण्डां /(Vin_17.333)
/ सिक्यं चैकवर्णं /(Vin_17.334)
/ द[द्यु]र् एने? /(Vin_17.335)
/ जीर्णग्लानयोः /(Vin_17.336)
/ संभवत्य् अनयोर् एकेन वचसा दानम्* /(Vin_17.337)
/ धारणं सशब्दस्य शरीसृपादिप्रतिक्रियार्थं दण्डस्य /(Vin_17.338)
/ बन्धनं यष्टे मूलास्फोटे कूटेन /(Vin_17.339)
/ प्रान्तादट्टनेन /(Vin_17.340)
/ धारये[च्छ]त्रं वा रूढं [व]र्णमयम् वा /(Vin_17.341)
/ पञ्जरप्रमाण दण्डम्* /(Vin_17.342)
**(vin_17,2,16)ग्रामादिचर्या /
/ नानेकग्राममध्ये गच्छेत /(Vin_17.343)
/ मार्गवशत चेत्* पा[63ब्1]र्श्वावनतेन /(Vin_17.344)
/ प्रचरेत् पण्डाय वर्षत्तायां देवस्य /(Vin_17.345)
/ नाकल्पिकत्वम्* /(Vin_17.346)
/ दण्डे निलीनस्य /(Vin_17.347)
/ स्थिते गृहेषु स्थापनम्* /(Vin_17.348)
/ निर्गच्छता ग्रहणम्* /(Vin_17.349)
/ न घोषवेशपानागारराजकुलचण्डलाकठिनस्थतां भजेत्* /(Vin_17.350)
/ नाशुचिकुटिसमीपे वस्थानम्* /(Vin_17.351)
**(vin_17,2,17)आरण्यककरणीयम् /
/ न रत्नभूतेन वस्त्रेनारण्ये निवसेत्* /(Vin_17.352)
/ न मेरुकाचचूर्णेन प्रणाकासंजाताः /(Vin_17.353)
/ [63ब्2]हिं*गोः /(Vin_17.354)
/ निम्वावासकप्र[त्रं]णाम् वा /(Vin_17.355)
/ तत्पुटस्य तत्रोपकरणत[र]त्वम्* /(Vin_17.356)
/ शोषणम् अस्ये तदर्थम्* /(Vin_17.357)
/ दिग्मार्गतिथिदिवसनक्षत्रेष्व् अरण्यककुशलः स्यात्* /(Vin_17.358)
/ नित्यसन्निहिताग्निपानीयः /(Vin_17.359)
/ सक्तुत् संनिदध्यान्नतुकानि मधुसर्प्पिष्यि यथाशक्ति /(Vin_17.360)
/ शेषं भोजना ज्ञायते चेत्* /(Vin_17.361)
**(vin_17,2,18)भिक्षुण्यकरणीयम् /
/ न भिक्षुण्य् अरण्ये वसेत्* /(Vin_17.362)
/ करणं वर्षकस्य नगराभ्यंतरे /(Vin_17.363)
/ [63ब्3] नास्यैषाय द्वारे तिष्ठेत्* /(Vin_17.364)
/ नावलोकनके /(Vin_17.365)
/ न चतुष्पथो /(Vin_17.366)
/ नाप्रावृतवती /(Vin_17.367)
/ प्रावरणत्वम् अत्र संकक्षिकायाः /(Vin_17.368)
/ नापिधायिनो बाहोर् गृहिसंनिधाने /(Vin_17.369)
/ अर्धपर्यङ्को स्याः पर्यङ्कस्थाने(Vin_17.370)
ददीत्* प्रस्रावकरणद्वारे प्राणकाप्रवेशाय वस्त्रप्रभृति /(Vin_17.371)
/ न प्रवेशावरणं विहारे भिक्षुणीनां /(Vin_17.372)
/ भिक्षवष्कुर्युः /(Vin_17.373)
/ अनालापाने [63ब्4] अववादपोषधप्रवारणास्थापनैर् एनाः परिदमयेयुः /(Vin_17.374)
/ नाननुज्ञास्येषा भिक्षुं विहारं प्रविशेत्* /(Vin_17.375)
/ सत्यसिनसान्तरे भ्यनुज्ञानं /(Vin_17.376)
/ प्रस्ने निर्जयो प्रदुष्टतां /(Vin_17.377)
**(vin_17,2,19)सूच्यादिसमायोजनम् /
/ शूचीघटिकाचक्रिकताटकाकुञ्चिकानां बन्धनाय विहारे समायोजनम्* /(Vin_17.378)
**(vin_17,2,20)उपधिवारककरणीयम् /
/ प्रदोषबध्वा प्रत्यवेक्षणम् उपधिवारिकेन विहारस्य /(Vin_17.379)
/ जागरणं सभयतायां प्राहरिकत्वेन /(Vin_17.380)
/ त[त्व्यू]ते[63ब्5]न वर्जनं स्वप्नसमाप[त्योः] /(Vin_17.381)
/ कृतताम् अत्र संविधानस्य उपधिवारिकं संघस्थविरः पृच्छेत्* /(Vin_17.382)
/ विहारमोषे न चेद् बद्धत्वं समायुक्तैर् उपधिवारिकस्य दास्य /(Vin_17.383)
/ हापने यावताम् एतत्तावतामंशानां /(Vin_17.384)
/ धारयेत् कुञ्चिकां ताडकं च /(Vin_17.385)
/ नाबद्ध्वा यावद् भावं बन्धनैः द्वारं प्रक्रामेत /(Vin_17.386)
/ शून्यावासं चेत् प्रविशे सेकाद्य् अनुकुर्यात्* /(Vin_17.387)
/ भाण्डं विप्रकृतं प्रतिशमयेत्* [63ब्6]निर्मृज्य द[क्ष]मं चेत्* /(Vin_17.388)
/ संश्चेत् कल्पकार्[ओ] ल्पहरिततां कारयेत्* /(Vin_17.389)
/ गृहिणश् चेद् अत्रागच्छेयुर् धर्म्यम् एभ्यष्कथाम् अन्यच् च शक्यधर्मः कुर्यात्* / (Vin_17.390)
**(vin_17,2,21)वृक्षरोपणम् /
/ नाकल्पिकं वृक्षरोपणम्* /(Vin_17.391)
/ नैनम् उप्त्वा न पालयेत्* /(Vin_17.392)
/ आयुष्मणा तद्वृक्षम् /(Vin_17.393)
/ अन्यमाफलनात्* /(Vin_17.394)
/ चिरत्वे पंचकं वर्षाणां /(Vin_17.395)
/ स्वत्वन् नियुक्तस्यात्र भिक्षोः /(Vin_17.396)
/ हस्तयोः शचनम्* /(Vin_17.397)
/ पादयोः [64अ1] / / दन्तकाष्ठविसर्जनम्* /(Vin_17.398)
/ पात्रनिर्मादनं स्नानम् इति यापनम्* /(Vin_17.399)
**(vin_17,2,22)गर्भगृहकरणम् /
/ गर्भगृहकस्य शीतवारणार्थं करणं /(Vin_17.400)
/ गवाक्षाकानाम् अस्योच्छ्वासाय मोक्षः /(Vin_17.401)
/ अवच्छादनदानम्* /(Vin_17.402)
/ गृष्मे स्याश् चेदार्थम् अपनयः पूर्वस्यापि वर्षाः स्वक्लेदान्तम्* /(Vin_17.403)
/ निर्वाहस्य चाम्भसकरणं /(Vin_17.404)
/ न मूलवृत्तिम् अव्युपेक्षरन्* /(Vin_17.405)
/ वर्षद्विभागेन विभज्य परिकर्मणाम्* /(Vin_17.406)
/ क्वचिद् दन्तका[64अ2]ष्ठभक्ष्यणम्* क्वचिन् मुखशोचनं क्वचित्* पादयोर् इत्य् एवं न तत्प्रसृततया /(Vin_17.407)
**(vin_17,2,23)पुष्पफलादिरक्षा /
/ पुष्पफलरक्ष[णा]य भिक्षूणाम् उद्देशः /(Vin_17.408)
/ भक्तकालाध्वम् अपरेषाम्* /(Vin_17.409)
/ प्रथमतरं भुक्त्वा तैर् गमनम्* /(Vin_17.410)
**(vin_17,2,24)पठनम्
/ पृथग् प्रवृत्त्यापि पाठको बहुतरोपस्थापनकारिणाम् अशक्त सानुकम्पेत्* /(Vin_17.411)
/ अनुकम्पेतोद्गृह्य तद्विनयं तदुद्देशस्वाध्यायनिकपरिपृच्छानिकदानैः भिक्षुणीः / (Vin_17.412)
**(vin_17,2,25)लेखनम् /
/ लिखेल् लेखम्* /(Vin_17.413)
/ [64अ3] असमर्थश् च स्मर्तुं धारणाय विनयं /(Vin_17.414)
/ अलेख्यत्वम् अस्य /(Vin_17.415)
/ तद्वद् अत्र प्रातिमोक्षः /(Vin_17.416)
/ तत्प्रतिसंयुक्तम् /(Vin_17.417)
/ पैङ्गलिगस्य च /(Vin_17.418)
**(vin_17,2,26)परिष्कारेषु निमित्तकरणम् /
/ अदोषं निमित्तकरणं /(Vin_17.419)
/ सांघिके नाम्नः शयनासने लेखनं /(Vin_17.420)
/ देयधर्मोयममुकस्येदंनाम्नि विहार इति /(Vin_17.421)
/ वस्त्रेषु च /(Vin_17.422)
/ अन्यत्र चैवंविधे /(Vin_17.423)
**(vin_17,2,27)बुद्धवचनस्य छन्दस्य नारोपणम् /
/ न बुद्धवचनं छन्दसि पदे क्रमे वा तत्परायणतयारोप्य पठित उ[द्]गृह्णीतद् वहिः [64अ4] शास्त्राणि समर्थः परसंज्ञपने अनु[त्]सृजन् बुद्धवचनाभियोगम्* /(Vin_17.424)
/ तृतीयो दिवसभागस् तत्कालो प्रणातः /(Vin_17.425)
/ रात्रेश् च /(Vin_17.426)
/ उद्गृह्णीतानुग्राहिणो मन्त्रान्* /(Vin_17.427)
/ प्रयुञ्जीत्* /(Vin_17.428)
/ नोपघातिनः /(Vin_17.429)
**(vin_17,2,28)रत्नत्रयभिन्ना नमस्यता /
/ रत्रत्रयस्यैषु नमस्यस्थाने व्याहारः /(Vin_17.430)
/ नान्यदेवतां नमस्येत्* /(Vin_17.431)
/ न पूजयेत्* /(Vin_17.432)
/ नासत्कुर्यात्* /(Vin_17.433)
/ आर्षा गाथां भाषणेनैनाम् अभिमुखं स्थित्वा संबो[64अ5]ध्यछटाशब्देनायनप्राप्तो ऽनुगृह्णी[ता] /(Vin_17.434)
**(vin_17,2,29)शिल्पानुद्ग्रहणम् /
/ न शिल्पम् अनुतिष्ठेत्* /(Vin_17.435)
**(vin_17,2,30)उपस्थानादिकरणीयता /
/ शिक्षेयेर् उपस्थापयेद् वा /(Vin_17.436)
/ तद्भाण्ड समुत्सृज्य शस्त्रकोशं सूचीगृहकं मेलंदुकं च /(Vin_17.437)
/ उपतिष्ठेत् कुशलश् चिकित्सया तीर्थ्यं पुण्यभिप्रायेनानभृतिकया /(Vin_17.438)
/ न विवेकं दत्त्वान्यत्र गच्छेत्* /(Vin_17.439)
/ गच्छेत् तद्रूपेषु प्रत्ययेषु प्रतिविहारे साव् उपद्रवे व्यपदिश्य /(Vin_17.440)
/ कुर्यान् नापितकरणीयं सब्रह्मचारि[64अ6]णसुल्यव्यज्जनस्य प्रतिगुप्तप्रदेशे /(Vin_17.441)
/ घटनं च भग्नं मञ्चाङ्गस्य /(Vin_17.442)
/ ग्रन्थनञ् च रत्नार्थं मालागुणानां /(Vin_17.443)
/ लेखनञ् च रत्नपूजभूतस्यासत्वकृतेर् आलेख्यस्य /(Vin_17.444)
/ तत्वं तदर्थलेखायाः /(Vin_17.445)
**(vin_17,2,31)मृतकक्रिया /
/ मृतस्य सब्रह्मचारिणः शरीरपूजाकरणं /(Vin_17.446)
/ दहनम् अस्य न चेत् सप्राणकव्रणत्वं /(Vin_17.447)
/ प्रत्यवेक्षणेन निश्चयः /(Vin_17.448)
/ निखनम् आप्लावनम् वा नद्यां /(Vin_17.449)
/ अयुक्तो दव[64ब्1]मध्ये स्थापनम्* /(Vin_17.450)
/ निपद्ययोदक्थिरसो दक्षिणपार्श्वेन /(Vin_17.451)
/ कक्षपिण्डकस्य शिरसि दानम्* /(Vin_17.452)
/ तृणैः पत्रैः वा प्रतिच्छादनम्* /(Vin_17.453)
/ धर्मश्रवणदक्षिणादेशनयोः करणं /(Vin_17.454)
/ स्पृष्टवद्भिः सचेलस्नानस्य /(Vin_17.455)
/ अन्यैर् हस्तपादप्रक्षालनं /(Vin_17.456)
/ चैत्यम् अभिवन्द्य प्रवेशः /(Vin_17.457)
**(vin_17,2,32)स्तूपनिर्माणम् /
/ द्वैविध्यं स्तूपे /(Vin_17.458)
/ सहगतत्वं स्तम्भभूतता च /(Vin_17.459)
/ अर्हत्वम् अस्य प्रव्रजितानां कल्याण[ञ्] चेत्* /(Vin_17.460)
/ [64ब्2] सर्वाकारस्य बुद्धानां /(Vin_17.461)
/ जगतीचतुष्कं जङ्घाण्डकहर्मिकायष्टयस्त्रयोदश छत्राणि वर्षस्थालकनित्याकाराः / (Vin_17.462)
/ विवर्षस्थालकस्य प्रत्येकबुद्धानां /(Vin_17.463)
/ फलपरिमाणैः छत्रैर् एकाधिकैर् अस्य श्रवकानां /(Vin_17.464)
/ तथागतपा[र्श्व]देशवैवृत्तता चेत् तस्यां दिशि करणं यत्रैषां तत्परिवारदाने च स्थानम् अभूत्* / (Vin_17.465)
/ नान्यस्मिन् न यथावृद्धिका /(Vin_17.466)
/ मुण्डकस्य पृ[64ब्3]थग्भजनानां /(Vin_17.467)
/ बहिर् एषां संघारामात् कर्तव्यत्वं /(Vin_17.468)
/ अर्हत्यार्षस्तूपम् अहं /(Vin_17.469)
/ सब्रह्मचारिणां श्रवकस्तूपे निर्यातितस्येसित्वम्* /(Vin_17.470)
/ धर्म्यं बुद्धस्य लोहमयं स्तूपकरणम्* /(Vin_17.471)
/ सुवर्णरूप्यवैदूर्यस्फटिकमयानां केशनखस्तूपानां च /(Vin_17.472)
/ अनुपरिवारस्यात्र करणं /(Vin_17.473)
/ तुषितभवनवासादिपरिनिर्वाणा[न्तं] वृत्तं तदाख्यम्* /(Vin_17.474)
/ सुधादानम्* /(Vin_17.475)
/ [64ब्4] श्वेतनम्* /(Vin_17.476)
/ दीपप्रतिग्रहणं /(Vin_17.477)
/ वेदिकया वेष्टणं /(Vin_17.478)
/ तोरणस्योत्स्रयणं /(Vin_17.479)
/ ध्वजानां दानं /(Vin_17.480)
/ चातुर्विध्यम् अस्य /(Vin_17.481)
/ सिं*हध्वजो मकरध्वजो नागराजध्वजो वृषभध्वज इति /(Vin_17.482)
/ गहने पि करणं /(Vin_17.483)
/ तोरण[स्यो]त्*[त्स्र]यणं /(Vin_17.484)
/ चैरकस्य करणम् वेदिकयास्य परिक्षेपः /(Vin_17.485)
/ स्तम्भानां गेरिकेन लेपनम्* /(Vin_17.486)
/ भित्तिः लाक्षया चित्रणं गन्धाभिषेकदानम्* /(Vin_17.487)
/ [64ब्5] तैलालचन्दनकुंकुमशेकानाञ् च /(Vin_17.488)
/ न कण्टकानां रोप[ण]ं नागदन्तकानां माससंयोजनाय दानम् उत्तिष्ठति /(Vin_17.489)
/ न छिद्रणां /(Vin_17.490)
/ नोपरिदीपदानं आगारिकैष्पूजनार्थम् अधिरोहणम् अभावे श्रमणोद्द्[ए]शैष्पादो प्रक्षाल्य गन्धोदकेन /(Vin_17.491)
/ न चेद् अनेन गन्धैर् उद्वर्त्य वस्त्रेण वा वेष्टयित्वा शास्तु संज्ञामामुखीकृत्यार्थम् अभिध्याय स्मृतैः /(Vin_17.492)
/ तेषाम् अपि भिक्षुभि[64ब्6]र् एवम् एव /(Vin_17.493)
/ तदर्थं रज्ज्वासंजनम्* /(Vin_17.494)
/ रत्नमयमालदानम्* /
/ अवछेदनगर्भेण नासकं प्रतिबन्धाय छादनम्* /(Vin_17.495)
/ द्वाराणाम् अनन्धकारायास्य मोचनम्* /(Vin_17.496)
**(vin_17,2,33)बुद्धप्रतिमाकरणम् /
/ बुद्धप्रतिकृतैस्करणम्* /(Vin_17.497)
**(vin_17,2,34)बुद्धप्रतिमामहः /
/ महस्यास्याष्प्रस्थापनं /(Vin_17.498)
/ जातिजटाचूडाबोधिमहानाञ् च /(Vin_17.499)
/ नगरप्रवेशे चास्याष्करणं /(Vin_17.500)
/ कल्पते त्र भिक्षोस् तद्वहनम्* /(Vin_17.501)
/ [65अ1] // नवकेष्व् अस्य प्राप्तिः पंचभिः निकायैः परिवारदानं /(Vin_17.502)
/ आर्घ्येयस्य वृद्धेर् ग्रहणं /(Vin_17.503)
/ वादित्रेणैतद्वाद्यमानेन सार्[द्]वन्येन च महता स[त्]कारेण निरावद्यं वादनाय कुरु कुरु भोष् पुरुष [शास्तु]ः पूजाम् इत्य् उदीरणम्* /(Vin_17.504)
/ उद्घोषणं रथ्यावीथिच[फ्व?] सृङ्गाटकेषु श्वः परश्वो वा भविष्यत्तायां लिखितस्य इति बुद्धप्रवेशो भविष्यतीति भुजादावारोपितस्य [65अ2] हस्तिस्कन्धे छ[त्र]ध्वजपताकापरिवृतस्य /(Vin_17.505)
**(vin_17,2,35)बोधिसत्त्वप्रतिमाकरणम् /
/ धर्म्यं बोधिसत्वप्रतिमाकरणम्* /(Vin_17.506)
/ ध्वजैर् अस्याः परिवारो वेदिकयावेष्टनम्* लोहस्तम्भेश् च /(Vin_17.507)
/ पताकानां तेषु बन्धः /(Vin_17.508)
/ अनुमानकरणम् /(Vin_17.509)
/ आभरणप्रतियुक्तिर् उत्सृज्य पादाभरणं कर्णपूरं च /(Vin_17.510)
/ गन्धार्गददानम्* /(Vin_17.511)
/ शिविक कायाम् वा हिण्डनम्* /(Vin_17.512)
/ रथेन च /(Vin_17.513)
/ छत्रध्वजपताकानां तत्रो[65अ3]त्स्रयनम्* /(Vin_17.514)
/ पुष्पन्नतन्सकस्य शिरसि दानं /(Vin_17.515)
/ अर्घपाद्ययोश् च /(Vin_17.516)
/ अभिसारस्य निःश्रितैस् तरुणवृद्धेश् च नयनम्* /(Vin_17.517)
/ चक्षण स्थविरैः /(Vin_17.518)
/ पालशमुद्गकस्य रथे करणं गन्धसमु[द्ग]केन सम्विधानम्* /(Vin_17.519)
/ मालामुक्तिः /(Vin_17.520)
/ समाप्तायां पूजायां निर्वृतेषु वाद्येषु विप्रक्रान्ते जनकाये मण्डनापनमनम्* /(Vin_17.521)
/ नात्रौ /(Vin_17.522)
/ धर्म्यं प्रव्रजितवा[65अ4]सम् अर्ह प्रस्थापनं /(Vin_17.523)
/ भक्तकल्पिकस्य कल्पिकस्य प्रतिवो[द्द्रि]त्य कल्पिकसमासः /(Vin_17.524)
/ उत्तरस्य भक्तृप्रतिपूर्वस्य्[ए]ति कल्पिकस्य /(Vin_17.525)
// शयनासनवस्तु क्षुद्रकादिगतम्* // // समाप्तञ् च शयनासनवस्तु पश्चिमं // 17 //
विनयकर्मसंग्रहकारिकाः
धारणं विप्रवासं च स्पर्शम् अग्नेर् निवारिते / भोजनं बीजाघातं च देशे च हरिते शुचिः // उत्सर्गं वृक्षारोहश् च शैक्षा उ[65अ5]द्देशायोस् सह / रत्नस्पर्शनभुक्या च जातस् सांनिध्यानान्तयोः // भूमिप्ररोहघाताभ्याम् उत्सृज्यान्त च सूत्रगतं / प्रवृषे कत्र वसनं पोषधस् सप्रवारणाः // इत्याद्य् अस्यान्तभाग् लिङ्ग याञ्चा भाण्डोपभुग्द्रव कामोपभोग संवासानाद् अराशोधकवस्तुकम् / स्पर्शपञ्जरनिक्षेपौ प्रतिछादो निवारणम् / त्रयं किंचित्कचतुष्टयं [65अ6] गणमृतसीम्नि रत्नतः // छन्दसंमृष्टसंस्पर्शाच् चतुष्टयं भवति पश्चिमम् / विधारणं सप्तकं द्वे चान्ये धारणाधिष्ठानोद्धारानुद्धार इति // हिरण्यान्यचीवरासनवर्षकजनसंघार्थं वचनपलसंचतः निष्प्रयोजने हित्वानुद्धृतो चानुशाटी च द्वादशपर्ष्य नलषट्कं चीवरं संक्षेपस्यान्वननुव्यभिशोकभण्डनम् / अन्वयाशिक्षणानुस्थानात् / [65ब्1] जत्वङ्गुलितलरोमछन्नौ च कर्णकग्रहणे भिक्षोश् च विद्यापाठनमोचन संतग्रधारणं / गृहे छन्ने लयने मञ्चे उद्वर्त्तनमंचक उन्मुरोटिका गन्धपिण्याकतः / स्नाओशीरफलकुर्वत्रिशीर्षाणां कार्णङ् कारवृद्धादि / छत्रोपानह आसन्दी निषादारिकर्त्तनं चोडा // विक्रयगृहपतिच्युत्वा लसुन रजादक धावन दानपरिवर्त्तनतः [65ब्2] / चर्णकुलानिष्कासनन्तरुर् दृष्ट सपथ व्यथनावस्यण्डनक्रोशानसेकाव्युपशयनतः / छन्दाववादपोषधवर्षप्रावरणकठिनोद्धारभाजनवर्षाका[ल?]चर्याचर- णवादः / पृच्छा वहिश्छोरणे तिरः /
// भिक्षुणीविभङ्गोद्धानम् //
ज्ञपनं सेकवाक्यञ् च सत्यवाक्यञ् च तद्यथा / रहोन्तः प्रस्रयोर् अर्थपोषधस्यात्र सा यदि // संघे [65ब्3] वैमतिके चास्यां विवादनिष्ठितत्वयोः प्रवारणगते चात्र सर्वस्मिन्न् अर्धपञ्चके // वर्षोपगमने चैव मृतार्थे प्रतिवस्तुना / दाने कठिनवस्त्रस्य दुष्ठुलारोचने पि च // दाने व्स्त्रस्य गणान् चतुष्के कुलसम्वृति / तत्प्रस्रब्ध्यौ कुब्जे च सोन्मज्जे ज्ञप्तिमात्रकं // मुखसीमद्वयाविप्रवासोन्मत्तप्रवारक / शय्यासनगृहगाणां [65ब्4] कल्पभूमेश् च सन्मति // कठिनस्य तदास्तर्त्तुरुद्धारो स्यावसारणं / विहारो देशिकादीनां स्थलस्थव्यूढनायकं // शलाकम् वारकानां विहारकुटिदेशने / चोदकस्याप्रवासाय सन्मेतष्या त्र चारिणाः // अप्रसादप्रवेदाववदित्रोर्वनवेदिनः / अवन्दनानलार्थं च दण्डशिक्षार्थम् एव च // एकलाभक्रियायाञ् च शिक्षणा न समु[65ब्5]पस्थिते / पुत्रे ज्ञातौ बहिर्याने ज्ञपनं शैक्ष्यावासनं // उपसंपादनं तीर्थ्यवासदानं [च] मोचनं / सीम्नः साम्रग्र दानं च पोषधस्य च सप्तकं // षट्कं च स्मृत्यसंमूढ तत्स्वभावगमष्टकं / आज्ञप्तध्वस्तदानं च ज्ञपनं सत्रिवाचनं // // विनयकर्मसंग्रहकारिकाः समाप्ताः // // समाप्तं विनयसूत्रम् / [65ब्6] कृतिर् आचार्यगुणप्रभस्य // // अनेन पुण्येन सर्वेषां लोकपिटकभाजनम् // शाक्यभिक्षु धर्मकीर्त्तिना सत्त्वार्थे लिखितं श्रीमद् विक्रमशिलाम् आश्रित्य फाल्गुणम् आसे // ग्नुर् छोस् क्यि ग्रग्स् पस् ब्रिस् प / द्पल् ल्दन् ऽव्य्रि क्रम शि लर् द्प्ये ऽस्ल र व ल प्रथम् मुखपत्रे (1अ)--- शी ल अ क र स ब्रिस् प (= शीलाकरणे लिखितम्) विग्रहव्यावर्तनी पुस्तकान्ते ग्नुर् ध र्म किर् तिस् ब्रिस् प जो च म्यिङि म्खन् वुयिन् / एतस्य धर्मकीर्त्तेर् वणनं देब्लेर् स्रो पो ग्रन्थे /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
