Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र 1, प्रव्रज्यावस्तु
- Thông tin
- GRETIL — P.V. Bapat and V.V. Gokhale: Vinayasūtra and Auto-commentary on the same by Guṇaprabha [Guṇaprabha viracitaṃ Vinayasūtravṛttyabhidhānasvavyākhyānam]. Patna 1982 (Tibetan Sanskrit Works Series, 22).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
विनयसूत्र 1, प्रव्रज्यावस्तु
विनयसूत्रम्
[1 प्रव्रज्यावस्तु]
[(इ) श्रामणेरत्वोपनयम्]
// ंअमः सर्वज्ञाय //
[संग्रहार्थं बोधिसत्त्व]श्चकारासौ गुणप्रभः / सूत्राणि विनयस्येयं वृत्तिस्तेषां निगद्यते //
तत्रेदमादिसूत्रम् (1) अथ निर्याणवृत्तम् // अथेतिशब्दो ऽधिकारार्थम् / आसूत्रसंदर्भपरिसमाप्तेर्निर्याणवृत्तमधिकृतं वेदितव्यम् / प्राप्तिरत्रयानं, न गमनम् / निर्याणं याति निर्याणं निर्याति अनेनेति / तद्यथा - ग्रामं प्राप्तं इ[तिवत् / निः-शब्दो ऽपुनरावर्तनख्यापनार्थम् / अपुनरावर्तकं यानं निर्याण]मिति शेषः / निरूपधिशेषनिर्वाणप्राप्तेरुक्तिः / तद्वा अपुनरावर्त्तकं यानम्? / अथ किमिति / निर्यान्ति तदिति निर्याणमिति / अनेन शब्देन सोपधिशेषनिर्वाणप्राप्तिः अत्रोक्ता इति न गम्यते / निर्याति अनेन इति वा मार्गो ऽभिहित इति [चेत्], ऽयस्मान्न निःशब्दो उपक्रमणार्थमागतः, [नापि पर्यन्तार्थं / एतदाश्रित्य सोपधिशेषनिर्वाणो]क्तिः // संसारवृत्तस्योपक्रमभूतं अतो यानं निर्याणं, पर्यन्तगमनं संसारवृत्तस्य वा इति, स च नाश्रितः / किं तर्हि अपुनरावृत्त्यर्थो निःशब्दो ऽत्र अभीष्टः / तेन यदेवापुनरावर्त्तकं यानं तस्यैवानेनोक्तिः, नान्यस्य / यतश्च यां समापत्तिकक्षा[मागम्य वज्रोपमाया अनन्तरं सोपधिशेषनिर्वाणसंप्राप्तिः] // तत्कक्षातो यद् व्युत्थानेन कक्षान्तरे गमनं न सा न पुनरावृत्तिः / अर्हत्वादितः परिहाणिः सा अन्तर्धानमेव // मार्गस्य पुनः प्राप्तिरत्र यानम्, न गमनमिति // [तस्मात्] गमनार्थासंश्रयादपि निर्याणत्वाप्रसङ्गः // निर्याणगामिवृत्तं निर्याणवृत्तम् //
वृत्तं पुनरत्रेदं धर्मकाणां [मुद्रा / यद्वृत्तं तदशेषतः विनयेन प्रोक्तं वेदितव्यम् / ततो ऽत्रप्रव्र]ज्या विभङ्ग-पोषध-वर्ष-प्रवारणा-कठिन-चीवर-चर्म-भैषज्य-कर्म-प्रतिक्रिया-कालाकालसंपात-भूम्यन्तरस्थचरण-परिकर्म-कर्मभेद-चक्रभेद-अधिकरण-शयनासनवस्तु-इत्यनेनानुक्रमेण कृत्स्नस्य विनयविधेः संनिवेशनम् / यस्मात् अयमत्र अभिसंधिः - न्या[य्या एतेन विधिना प्रव्रज्योपसंपदोः उपलब्धिः / ऽएतेषां च एवंविधानां] चेह संग्रहः, एवंविधाश्चात्र वर्ज्याः / इत्यस्य पूर्वं वक्तुं योगः इति आदौ प्रव्रज्यावस्तुनः संनिवेशनम् / शासने प्रविष्टस्य अनुपेते ऽत्र वृत्ते शिक्षानिः क्षेपणादिना इयं शिक्षा / इत्यतो ऽनन्तरं विभङ्गस्य [संनिवेशनम्] // पोषधवस्त्वादीनामपि इमान्यत्र क्रमकारणानि - परिपोषणं यथा समात्ताया शि[क्षाया काले-काले सूत्रमाश्रित्य / तस्मात् पोषधावस्तु अभिहि]तम् // यस्मिन् काले एकत्रावस्थानेन अर्थसंपत्तिः तदवस्थानगतौ विधिः इत्यतो वर्षवस्तु // नियतवासात्मके वर्षवासान्ते दृष्टादिभिः त्रिभिः स्थानैः (विन्सू 4) संघं प्रवारयामीति शुद्धौ सत्यां उत्सर्गदानस्य युज्यमानता इत्यतो ऽनन्तरं प्रवारणावस्तु // व्यूहबन्धः कश्चिदस्य वर्षावसात्मनो [नियतवासस्य प्रति-कञ्चुकभूतः विद्यते / प्रस्रब्धिविहारितार्थं अवलम्बनीयः / अस्य अनन्तरं तस्य क्रमः इति कठिनवस्तु निवेशितम् // पृथक्तत्र नापत्तौ चीवरविभागस्य योगः इति अपगतत्त्वेन तयोः व्यूहबन्धयो चीवरदानस्य कालः इति चीवरविधेः आश्रयणम् / चीवरप्रभेदभूतं ज्ञानं चर्मं इत्यतोनन्तरं चर्मवस्तु [निवेशितम्] //
न विना रोगप्रतीकारेण एक(ः) पृथग्वा विहर्तु शक्यत इ[ति सहप्रत्या] सन्नाभ्यां पूर्वापरकालाभ्यां प्रथ(म)मेव चीवरदानकाले प्रायशो ग्लान्या पातस्य भावः / तद्गतो ऽस्मात् प्रतिक्रियाविधियुक्तरूप इति भैषज्यवस्तु // उत्पन्नोत्पन्नेषु एवं विहरतां करणीयेसु अनुष्ठानविधिः, इत्यतोनन्तरं कर्मवस्तु // उद्वृत्तानां प्रणिधिकर्मार्हादीनां प्रणिधिकर्मकरणादिना नियमनं प्रत्यापादनं च अवसारणादिना युक्तमित्यतः प्रतिक्रियावस्तु // आपन्नसंघावशेषस्य च कालाकालसंपात-भूम्यन्तरस्थचरणवस्तुनोः नियमनप्रत्यापादनार्थं संनिवेशनम् / कौशाम्बक-पाण्दुलोहितक-पुद्गलपरिवासिकवस्तूनि प्रतिक्रियावस्त्वादि नामभिः उक्तानि / संज्ञान्तरनिवेशनप्रयोजनं तत्रैव क्रमे वक्ष्यामः // नियमनादौ अनुपतिष्ठतां परिदमनं युक्तरूपमित्यतः परिकर्मवस्तु // [पोषध]स्थापनवस्तुनः एतत्संज्ञान्तरं वक्ष्यमाणार्थं द्वैधगतेषु वृत्तमित्येतत्कर्मचक्रभेदवस्तुनी // व्यवहारगतो विधिः अतो ऽनन्तरं युज्यते / इत्यस्मादधिकरणवस्तु // यत्रैतद् सर्वं अन्यश्च कुशलपक्षो ऽनुष्ठीयते स्थाने, तद्गतो ऽस्माद्विधिः युक्त इति शयनासनवस्तु निवेशितम् // क्षुद्रकादीनां चैतद् - प्रभेदभूतत्वात् अनतिरेक एभ्यः इति न पृथक्सूत्रणम् // यत्र यस्य योगः ततस्तत्रैव निवेशितम् / आचार्योपाध्याह्यानुज्ञानात् [अनन्तरं] यः प्रव्रज्योपनयविधिः तदुपदर्शनार्थमाह - (2) सर्वस्मिन् सन्निपतिते संघे कृतेदवेषं निपत्य प्रगृहीताञ्जलिं उत्कुटुकस्थं वृद्धान्ते याचितवन्तं त्रिर्ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदौ उपनयेयुः इति पुरा-कल्पः //
मण्डलके संघैकदेशसन्निपातप्रतिषेधार्थं सर्वस्मिन् इति वचनम् // न मण्डलकस्थे ऽपि संघै(क)देशे, किंतर्हि तदन्तसीमानिवासिनि सर्वस्मिन् // कृतो ऽयं वेषो ऽनेन इति कृतेदंवेषाः // अयमिति बुद्धशासनभिक्षुवेषापदेशः / अपनीतकेशश्मश्रुं भिक्षुवेषं च प्रावृत्रिचीवरं इत्यर्थः / निपत्य इति वृद्धान्त इति यद्वक्ष्यते, तस्य चाभिसंबन्धः / वृद्धान्ते निपत्य पञ्चमण्डलकेन वन्दनां कृत्वा इत्यर्थः // प्रगृहीताञ्जलिमिति कृताञ्जलिम् // उत्कुटुकस्थमिति उत्कुटुकिकया ऽवस्थितम् / नासनोपविष्टम् / क्वावस्थितमित्याह वृद्धान्ते // ननू निषण्णस्य उत्कुटुकिकया वृद्धान्ते प्रगृहीताञ्जलित्वं इत्येतत्संघाधीने कर्मणि-परिभाषायां सर्वकर्माधिकारिकं सूत्रितम् / तत एव इहापि कर्मत्वात् अस्य त्रितयस्य प्राप्तौ सत्यां (विन्सू 5) किमिति पुनर्वचनम् - ऽवर्तमानकल्पाधिकारिकत्वात् प्रगृहीताञ्जलिऽ मित्यादेः परिभाषातो अस्त्यस्येह पुराकल्पे सिद्धिरितिवचनम् // याचितवन्तमिति किम् / प्रव्रज्योपसंपदौ / याचनं पुनः - "शृणोतु, भदन्ताः संघो, अहमेवंनामा आकाङ्क्षामिस्वाख्याते धर्मविनये प्रव्रज्योपसंपदं भिक्षुभावम्" इति विस्तरः // अनेन मन्त्रेण त्रिर्याचितवन्तं ज्ञप्तिचतुर्थेन कर्मणा इति तिस्रो वाचना ज्ञप्तिचतुर्था यस्मिन् कर्मणि तद् ज्ञप्तिचतुर्थं कर्म, तेन // सहप्रव्रज्योपसंपदौ इति प्रव्रज्योपसंपच्च समानकालं, न क्रमेणेति // उपनयेयुरिति संघभूता भिक्षवः // तथा च मन्त्रः"शृणोतु, भदन्ताः संघो, अयमेवंनामा आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं यावत् प्राव्राजित उपसंपादित एवंनामा संघेनेति" //
इति पुराकल्पः // इति-शब्दः प्रकारवाची // पुराकल्प इति वर्तमानकल्पात् प्राक् एवं-प्रकारः प्रव्रज्योपसंपद्विधिरित्यर्थः // अथ किमिति वर्तमानकल्प एव भगवता न प्राक्प्रज्ञप्तः, किं ना पुराकल्पत्यागेन अस्य विधेः पुनः प्रज्ञपनम्? [इति चेत्], विशुद्धसत्त्वा हि ते तदानीं प्रतिपत्तारः / तेषां न क्रमेण विनियम्यत्वं, न परावष्टंभेन परिशिक्षणं वा / [न] ग्लान्यमेषां, कृतपुण्यत्वात् असत् न संपद्यते - ऽसंपन्ने वा भवन्त्येषां स्वयमेवानुकम्पकाःऽ / आन्तरायिकधर्माणां तदानीं अनापत्तेः / तथा ऽपसर्तॄणां इत्यतः पुराकल्पप्रज्ञपनम् / यदा त्वन्यविधा अप्येते जाताः तदोत्तरस्य संप्रत्तं नैव कश्चिदुपयोगः / किमनेनेहोपनिबद्धेन? यद्यप्यनेन कल्पेना[धुना] ऽव्यवहारः, तथापि नास्त्यस्योत्तरादन्यत्वं, परिकरमात्रकं तदस्य यदुत्तरत्र विशेषः / तत्रेदं मन्त्रतन्त्रम् / एतावन्मात्रकमेवासीत्, द्विकमेवैतदासी(त्) / विनयवशादस्य अपरस्यात्रविधेः व्यवस्था-[न]-मित्यास्यार्थस्य ख्यापनार्थं अस्योपनिबन्धः / एवं सप्रयोजनः पुराकल्प उपदर्शितः //
वर्तमानकल्प इदानी[मुच्यते] - (3) निश्रितस्य कंचिद्भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसंपदौ // कंचिद्भिक्षुमिति / नावश्यं, यन्निश्रित्य प्रव्रज्या तमेवोपसंपदिति प्रदर्शनार्थं कंचित् - इति वचनम् / ऽकथं निश्रित्यऽ आह उपाध्यायतया / ऽकिमर्थ निश्रितस्यऽ इत्याह तत्र इति / प्रव्रज्योपसंपदपेक्षं / निमित्तसप्तमी चैषा / प्रव्रज्योपसंपन्निमित्तं उपाध्यायत्वेन कंचिद्भिक्षुं निश्रितस्य प्रव्रज्योपसंपदौ भवतः, न यथा पुराकल्पे कंचिदनिश्रितस्यैवेति // प्रव्रज्या पुनरत्र यत्तस्यां अर्हवृत्तं श्रामणेरसंवरः, तेनानुसक्ता वेदितव्याः / प्र[व्र]ज्या श्रामणेरसंवरश्च उभयमप्येनं निश्रितस्य / विशेषः पुनरत्र उपाध्यायादेव प्रव्रज्या, संवरः पुनरन्यत इति / निश्रितस्य निश्रयपरिग्रहे विधिमाह - (4) पृष्ट्वा आन्तरायिकं परिशुद्धाय पूर्वो [पाध्यायत्वेना वका]शं कुर्यात् / प्रव्रज्याया यदान्तरायकरं मातृवधादि तदान्तरायिकमत्र अभिप्रेतम् / अतो ऽसौ निश्रयः प्रव्रज्यापेक्षमान्तरायिकं पृष्त्वा, न सन्ति चेत् अस्य ते धर्माः (विन्सू 6) ततः परिशुद्धायास्मै पूर्वोपाध्यायत्वेन श्रामणेरोपाध्यायत्वेन अवकाशं कुर्यात् - ऽअहं भदन्तं प्रव्राजयामिऽ इति / तथा च ग्रन्थः - "यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति, स तेनान्तरायिकान् धर्मान् पृष्ट उद्गृहीतव्य" इति / संवराणां आनुपूर्व्यं दर्शयन्नाह - (5) नानुपपन्नस्य पूर्वं उपासकत्व-श्रावणेरत्व-भिक्षुत्वानामुत्तरम् / एषामुपासकत्वादीनां पूर्वं-पूर्वं पर्वानुपपन्नस्य तादात्म्योपगत्या अनुपगतस्य उत्तरं उत्तरं पर्व न कार्यम् / व्यवस्थाख्यानमेतद् //
पृष्ट्वा आन्तरायिकान् प्रव्रज्यापेक्षं आदावुपासकत्वं ग्राहयेत्, ततः श्रामणेरत्वं, ततो भिक्षुत्वं भवति इत्यस्य बोधनार्थं / न त्वेतदर्थं पूर्वस्मिन्नसमात्तेन भवत्युत्तरस्य रूढिरिति // भिक्षुसंवरस्य पूर्वं संवरान्तरेणापि रूढौ मुख्यमस्त्येव [मूल]वचनम् / श्रामणेरसंवरस्तु उपासकसंवरं विभवति इति रूढिः / भिक्षुसंवरः प्रतिशरनं न त्वस्ति[इति] वचनम् / शरणगमणपूर्वकं संवरादानमिति दर्शयन्नाह - (6) शर[ण]गत्यभ्युपग[मवच]नोपक्रमं उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत // गतिर्गमनम् / शरणगमनस्याभ्युपगमः शरणगत्यभ्युपगमः - बुद्धं शरणं गच्छामीत्यादि / तदभिधायकं वचनं शरणगत्यभ्युपगमवचनम्, तद्वचनम् / उपक्रम आरम्भः / उपासकत्व-श्रामणेरत्वाभ्युपगमवचनं कुर्वीत // को ऽसौ? प्रतीपत्ता, अयमर्थः / एवं समादात्रा वक्तव्यम् - "सामन्वाहर भदन्त अहं एवंनामा बुद्धं शरणं गच्छामि यावत् गणानामग्र्यम्, उपासकं मां भदन्तो धारयतु यावज्जीवम्, समन्वाहर भदन्त अहमेवंनामा बुद्धं यावत् गणानामग्र्यं / श्रामणेरं मां आचार्यो धारयतु //" एवं भूतावेव संदर्भौ त्रिः आवर्तयितव्यौ // ये[न]तु के[न]चिच्छरणगमनं आदौ त्रिरावर्त्य ततः पश्चादुपासकं मां भदन्तो धारयतु, श्रामणेरं मामाचार्य इत्यभिधीयते, सो ऽसौ वेदयितव्यः // - यस्मादनयोः संवरसमादानवचसोः, एवं सति, शरणगमनोक्तिः नैव अङ्गभावं प्रतिपद्यते / किञ्च येन प्रागेव शरणगमनमात्रं [अभ्युपगम्यते] तस्य संवरादानकाले शरणगमनस्यावचनीयतापत्तिः //
अवश्यं चैतद् निर्वाणाशयप्ररूपणार्थं अस्मिन्काले वक्तव्यम् / एवम् ह्येतद् संवरसमादानवचसोः अङ्गं भूतं भवति, नान्यथा / न च निर्वाणाशय-दार्ढ्यमन्तरेण संवरस्योत्थानम् // यस्मात् निर्वाणानुगुण्यः संवरः, उपसंपदस्तर्हि शरणगमनवचनमन्तरेण कथं रूढिः? नैष दोषः / उपसंपच्छब्दादेव तदर्थसिद्धेः / सर्वाकरनीयविरतिलक्षणत्वात्, सर्वात्मना हि निर्वाणोपगतिः उपसंपद् / यतः उपसंपदि स्थितः निर्वाणानुगुण्यो व्यवस्थितो भवति // कुर्वीत इत्यात्मनेपदं प्रतिपत्त्या एतत् करनीयं इत्येतत्संदर्शनार्थम् / यदत्रपरो ऽभिधत्ते शिक्षणं तदिति मन्तव्यं, न दानग्रहणम्, उपोषधे ऽपि प्रतिपत्तुरेवैतत्करणीयं इति मन्तव्यम् / यत्ते दानग्रहणधर्मः तत्र इति केचिद् वर्णयन्ति शिक्षणादेव / भ्रान्तिरसौ तेषामिति ज्ञेयम्, तुल्यत्वात्समादानस्य // (7) अनन्तरमस्य शिक्षोत्कीर्त्तनं (विन्सू 7) [अभ्युपगमरूपेण] इति // अस्य इति उपासकत्व-श्रामणेरत्वाभ्युपगमवचनस्यानन्तरं उपासक-श्रामणेरकशिक्षायाः तच्छिक्षापदानां यथायोगमुत्कीर्तनम् / पूर्वत्र पञ्चानां, उत्तरत्र दशानाम्, केन प्रकारेण इत्याह - अभ्युपगमरूपेण / इतश्च इतश्च प्रतिविरमामि इति, नो तु इदं चेदं च रक्ष्यं यत्त्वया समात्तम् इति // (8) स्वयं उपासकतां उपनीय, आरोचकाय संघस्य अर्पयेत् भिक्षवे //
स्वयमिति प्रकृतत्वात् उपाध्यायः, स हि तत्प्रव्राजने कृतावकाशः / स स्वयमेवोपासकतामुपनीय उपासकसंवरं दत्त्वा / यस्तं प्रव्रज्यापेक्षं संघस्य आरोचयते, तस्मै समर्पयेत भिक्षवे - ऽआरोचयैनऽमिति / भिक्षुसंबन्धादस्येति - कर्तव्यताजातस्य / स्वार्थमेवैतदुपाध्यायस्येति प्रदर्शनार्थमात्मनेपदम् // [ज्ञप्त्यादि]-कर्मात्मकत्वादस्य अनुपसंपन्नेनापि संघे प्रव्रज्यापेक्षस्य आरोचनं न विरुध्यत इत्यस्य विकल्पस्य व्युदासार्थं भिक्षवे इति वचनम् / तथा च ग्रन्थः - ततः पश्चात् भिक्षुरध्येषितव्यः - यो ऽस्यारोचयते इति // आरोचको ऽपि (9) ऽकच्चित्परिशुद्धऽ इति समर्पितारमुपाध्यायं पृष्त्वा, शुद्धं सन्तं प्रव्रज्यापेक्षं आरोचये[त्] - "श्रुणोतु भदन्ताः, संघो समन्वाह्रीयतां - अयमेवंनामा प्रव्रज्यापेक्षो गृहीतावदातवसनः" इत्यादिना मन्त्रेणारोचयेदिति यत्परस्मैपदं तद् परव्यापारेणास्य प्रवृत्तेरस्वार्थत्वात् / न हि अत्र यथा उपाध्याये पुत्र इव प्रवृत्तेः स्वार्थत्वमेवास्य // कथं अवस्थिते संघे आरोचयेदित्याह - (10) सर्वसन्निपाते वा [सन्निषण्णे ऽ]नुलयने वा // अनुपरिगणिकया इत्यस्येदं विवरणं अनुलयनमिति / परिगणो हि लयनविशेषः // येषां संनिधौ आरोच्यते तेषां यो विधिः तद्दर्शयन्नाह - (11) स चेत्परिशुद्ध इति सर्वे ब्रू युः // स चेत् यदीर्यर्थः / आरोचनोत्तरकालं प्रव्रज्यापेक्षः // (12) उपाध्यायं याचेत याञ्चामन्त्रेण / उपाध्यायश्चास्य(13) केशश्मश्रूनव[तारयेताचूडम्] //
उपाध्यायत्वेन अधिष्ठापयन् नापितकार्य-संदर्शनार्थं अवतारयेत इति आत्मनेपदम् / न तु एवं मन्तव्यं उपाढ्यायेनैवैतद् स्वयं कर्तव्यमिति / न पारंपर्येण कारितमकारितं मन्तव्यं, अर्थार्थत्वात्प्रवृत्तेः / तस्मात् संपन्ने ऽर्थे प्रवृत्तिलोपः / तत्र अप्रतीक्ष्योपाध्यायोपयोगं केशश्मश्रु-अवतारने अन्येन संपादिते न पुनरुपाध्याये - नात्र प्रवर्तितव्यमिति मन्तव्यम् // आचूडमिति चूडातो ऽन्यत् / दढिकापनये ऽपि न तथा वैरूप्यबुद्धिर्यथा स्यात् / तस्मान्निश्चितो ऽयं न वा इति प्रश्नेन विज्ञानार्थमस्य स्थापनम् - (14) अवतार्यतां चूडेति पृष्टेनानुज्ञाते, तम् // अवतार्यतां चूडा इति पृष्टेन सता प्रव्राज्येन यद्यनुज्ञातं भवति, ततो ऽनुज्ञाते तेन चूडावतरणे तां चूडां अवतार[येदि]त्यनुवर्तते / एवम[व]तारि तकेशश्मश्रुः (15) स्नायात् // कालानुरूपेणाम्भसा / स्नानोत्तरकालं च (16) उपाध्यायः काषा[या]णि वस्त्राणि दद्यात् // सो ऽप्युपाध्यायस्य (17) पादयोः निपत्य प्रतिगृह्णीत // ततः स्वयं तस्य (18) उपाध्यायः (विन्सू 8) प्रावृणुयात् / प्रावृण्वंश्च षाण्ढ-पण्डक-अव्यञ्जन-उभयव्यञ्जनत्वदोषपरिहारार्थं (19) व्यञ्जनं प्रत्यवेक्षेत असंचेतितम् // न च विनग्नं कृत्वा, अपि तु असंचेतितं - यथा ऽसौ न [जा]नी ते ऽदृष्टं मे ऽनेन व्यञ्जनऽमिति / अभ्युपगमादुपाध्यायस्यैतत्कर्म / अन्येना ऽपि भिक्षुणा प्रत्ययितेन कृतमागमितम् / कृतमित्येव उपाध्यायेनेति मन्तव्यम् // (20) प्रव्रज्यामुपनयेत् शरणगमनोपक्रमम् //
ऽअहं एवंनामा बुद्धं यावद् गणानामग्र्यं, तं भगवन्तं शाक्यमुनिं ऽयावत्प्रव्रज्यालिङ्गं समाददेऽ इत्यनेन म[न्त्रेणोपाध्याय]ः शरणगमनप्रारम्भं प्रव्रज्यामुपनयेत्, न विना शरणगमनेनादिभूतेन इत्यर्थः / नान्वयं संवर? इति / को ऽस्यां श[र]णगमनोपक्रमत्वेनार्थ इति केचिदाहुः / तदसम्यक् / यस्मात् प्रव्रज्या नाम निवेशनपरित्यागः, सर्वं च सास्त्रवं वस्तु, अभिरतस्य तत्र निवेशनं, तस्मात् संसारवैमुख्यं निवेशनपरित्यागस्य कार्त्स्न्यम् / न च निर्वाणा पाश्रयेण संसारवैमुख्यस्य संपत्तिः / तस्मात्, संवरवत् अत्रापि निर्वाणाशयप्ररूपणं कर्तव्यम् इत्यत्रापि शरणगमनोपक्रमम् / केचित् प्रव्रज्योपनयनमन्त्रे ऽप्रव्रज्यालिङ्गं समाददेऽ इत्यतः पुरस्तात् ऽश्रामणेरं मां उपाध्यायो धारयतुऽ इति पठन्तिऽ तदयुक्तम् / प्ररूढस्य पुनः प्ररोहाभावतः, समात्तस्य च समादान [अनुपपत्तेः], आचार्येण मन्त्रे चास्य पठितव्ये ऽनुपपत्तिः / श्रामणेरत्वोपनयनमन्त्रे प्रव्रज्योपगतिरपि तैः पठ्यते - ऽतं भगवन्तं शाक्यमुनिं यावत् - प्रव्रज्यालिङ्गं समाददे / अर्थहेतोः उपाध्यायस्य नाम गृह्णामि / एवं नाम्नोपाध्यायेन श्रामणेरं मामाचार्यो धारयतुऽ इति / समात्तस्य च समादानानुपपत्तेः अयुक्तम् //
(21) याञ्चानन्तरं वा / इति प्रव्रज्या[मुपन]येत इति वर्तते / वा शब्दो मतविकल्पार्थः / केषांचित्पाठः - ऽउपाध्याययाञ्चानन्तरमेव अनवतारितकेशश्मश्रुः प्रव्राजयितव्यऽ इति / अयमभिप्रायः तेसां - यथा श्रामणेरत्वं एवं केशावतारणादिकमपि प्रव्रजितस्यैव वृत्तमिति / त[त] एव पाठविकल्पस्योपनिबन्धः / एवं प्रव्रज्योपाध्यायः तं - (22) श्रामणेरत्वोपनायिने अर्पयेत् भिक्षवे / यो ऽस्य श्रामणेरत्वमुपनयति, श्रामणेरत्वमुपनेतुं शीलमस्येति शामणेरत्वोपनायी / यदस्य शामणेरसंवरोपनेतुः उपनयनाभिज्ञानं प्रति चेतसः प्रगुणत्वं ए(त)दत्र तच्छील्येन आश्रितं वे(दि)तव्यम् / यस्योपनयनार्थं अर्प्यते / सौ - (23) ऽकश्चित् परिशुद्धऽ इति पृष्ट्वा शुद्धमुपनयेत् // (24) स आचार्य इति // य एष श्रामणेरत्वोपनायी स आचार्यो द्रष्टव्यः // (25) रहोनुशासक-कर्मकारक-निश्रयदायक-पाठकाश्च / आचार्या इति / समुच्चयार्थः च-शब्दः // कियतैषां आचार्यत्वानां जातत्वमित्याह - (26) वृत्ते ऽर्थे भूतत्वम् / इत्याह - येनार्थेन मन्त्रव्यवस्था, तद्यथा - श्रामणेरत्वोपनयनेन अर्थेन श्रामणेराचार्यत्वे वृत्ते तस्मिन्नवसिते अर्थे, आचार्यत्वादेः भूतत्वम् - जातता / तस्मात् वृत्तेषूपनयनादिषु एषां आचार्यत्वानां जातत्वं वेदितव्यम् / किमुपाध्यायत्वस्यापि (विन्सू 9) येनार्थेन असौ उपाध्यायः तस्मिन्नवसिते ऽर्थे जातत्वमित्याह - (27) अभुपगतावुपाध्यायस्य याञ्चायां तदुद्भूतिः //
याञ्चाकाले उपाध्यायस्य य ऽभ्युपगतिः तस्यां उपाध्यायत्वस्य उद्भूतिः / न प्रव्रज्योपनयने उपसंपन्नलक्षणस्य वा आवृत्ते ऽर्थे / येनर्थेन वृत्तेनैषां [आचार्यत्वोपा]ध्यायत्वानां जन्म, तस्यार्थस्य कदा वृत्तता इत्याह - (28) आवृत्तौ तृतीये ऽङ्गे अन्त्यायां वृत्तत्वम् // यत्रावर्त्ती सो ऽर्थो, यदंशं आचार्यत्वादीनां वृत्तत्वं सा आवृत्तिः / तस्यां अर्थस्य वृत्तत्व / तिस्रश्च ताश्चावृत्तयः / तत्र न ज्ञायते क[त]रस्यामावृत्तौ आवृत्तेर्वा कतमस्मिन्नंश इति / तत्र इदमुच्यते - तत्र अन्त्यायां पश्चिमा[याम् / तदावृत्ति]स्तस्याः तृतीयो योऽंशः, तस्मिन् तस्यार्थस्य [वृत्तत्वं] मन्तव्यम् // उदाहरणेन एनमर्थं प्रज्ञपयति - (29) तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य // परस्य पुअनेतुः उत्कीर्तनकाले / श्रामणेरं च ममित्यतः परस्तात् ऽआचार्यऽ इति यत्परोत्कीर्तनं, तत्र श्रामणेरत्वकारके यः उपनेतुः अर्थः श्रामणेरसंवरो नाम, तस्य वृत्त[त्वं मन्तव्यं, आ]चार्यो धारयतु इत्यत्र मन्तव्यम्, न भदन्तो धारयतु इति // (30) पश्चिमे ऽत्र उपाध्यायत्वस्य इति / वृत्तत्वं इति वर्तते //
अत्रेति परोत्कीर्तनकाले बहूपाध्याययाचने ऽसमन्वाहरऽ इति शब्दात् भिक्षुसंबंधोत्कीर्तनात्पराणि उपाध्यायोत्कीर्तनानि / तत्र यत्तृतीयोत्कीर्तनं उपाध्यायेन प्रव्रजिष्यामि उपसंपत्स्ये वा इति, अतः पूर्वं यः [तस्मिन्काले] उपाध्यायार्थः तस्य अम्युपगम[स्य] आत्मनो वृत्तत्वम् / तस्मिन्नेव काले प्रव्रज्यायामुपाध्यायेन इति वक्तव्यम् / उपसंपदि च / यदि पूर्वमेव नोपाध्यायो भवति, नाचार्येण वा, भदन्तेन वा इति / अप्रच्छेदतः चात्र तृतीयों ऽशो वेदितव्यः, नाक्षरपरिमाणतः / एवं हि उपाध्याययाचने त्रयः प्रच्छेदाः भवन्ति - ऽअहं एवंनामा भदन्तमुपाध्यायं याचेऽ / ऽ[भदन्तो] मे उपाध्यायो भवतुऽ / ऽभदन्तेनोपाध्यायेन प्रव्रजिष्य, उपसंपत्स्ये वाऽ इति // श्रामणेरत्वोपगतौ तु प्रबंधप्रच्छेदौ - शरणगमनं श्रामणेरत्वाभ्युपगमश्च / तत्र पश्चिमं प्रच्छेदं अवान्तरार्थानुगत्या श्रामणेरं मामिति, आचार्यो धारयतु इति द्विधा कृत्वा त्रित्वमध्यवसितम् / कस्मात्पुनः असमाप्तायामेव आबृत्तौ तृतीये ऽङ्गत्वस्य वृत्तत्वं भवति, यद्भूयः कृतं इति कृत्वा सर्वेष्वेव चायं सीमाबन्धादिषु विधिर्द्रष्टव्यः / तदेवं रहोऽनुशासकस्य अपर्यवसितायां रहस्यनुशिष्टौ आचार्यत्वं श्रामणेरत्वोपनायिनो ऽत्र काले कर्मकारकस्य एवंविधमिति कृतम् // निश्रयदायकपाथकयोः कदा इति न ज्ञायते / अनवस्थितत्वात् निश्रयदानपाठकयोः परिमाणस्य //
तत्र यावता अनयोः आचार्यता-कृ[त]त्वं तदाख्यायते - (31) पर्यन्तो निःश्रयदानस्यैकरात्रं निश्रयत्वेन प्रत्युपस्थानम् / एकरात्रः एको ऽहोरात्रः, एकरात्रम् / निश्रयाचार्यस्य निश्रितं प्रति निश्रयत्वेन यत्प्रत्युपस्थानमेव [पर्यन्तत्वं], निश्रयदानस्य पर्यन्तः / तथा च ग्रंथः - ऽनिश्रयाचार्यः कतमः, यस्यान्तिके एकामपि (विन्सू 10) रात्रिं निश्रयेणोषितो भवतिऽ इति / अतः प्रभृति अस्य परिपूर्णरूपत्वं, अर्वाक् तत्स्पृष्टिमात्रकं अगतपर्यन्तं अकृतत्वेन मनसि निलीयमानं न निश्रयसंख्यां गन्तुमर्हति // (32) पाठस्य त्रिरेकगाथा-परिवर्तनम् // यस्यान्तिकात् पठनाभिप्रायेण त्रिरेकागाथा परिवर्तिता स पाठाचार्यः / एवं हि पाठस्य पर्यन्तः / तथा च ग्रंथः - ऽपाठाचार्यः कतमः? यस्यान्तिकात् आवृत्तस्य द्विका ऽपि गाथा त्रिः परिवर्त्यं उद्गृहीता भवतिऽ इति / तद् [य]मत्र आर्षग्रन्थाभिप्रायो लक्ष्यते // पाठाचार्येण उक्तस्य पठितुः अनुवदनमुद्ग्रहः / सकृदुक्तौ च स्पृष्टिमात्रकं अपरिपूर्णरूपं पठनं मनसि निलीयते / त्रिःप्रभृति तु गतपर्यन्त इव प्रबन्धो ऽवलक्ष्यते / तस्मात् एष न्याय्यः पाठपर्यन्तः इति // आचार्यो रत्नसिंहस्तु आह - पाठपर्यन्ताः एवं-विधा एव, यद्दर्शनाट् तेनेदं सूत्रं प्रणीतम् // एवं तु युज्यते, यस्माद् यदसौ ग्रन्थं अनपेक्ष्य सूत्रयति // तत्रोपपत्तिमाचष्टे, इदं तु युक्तिमन्तरेण सूत्रमात्रमेवोपनिबद्धम्, तस्य नियमेनात्र क्वचिदेवंरूपेण आर्षेण भवितव्यमिति //
(33) ना ऽपठनाभिप्रायेण उच्चारणे पाठत्वम् / अपठनाभि[प्रायेण]यदुच्चारणं / तद्यथा, स्वाध्यायनिकादौ पाठ एवासौ न भवति / अभ्यसनाभिप्रायेण उच्चारणे अस्य व्यवहारस्य प्रसिद्धत्वात् / तस्मात् नातः आचार्यत्वस्योत्थानम् // (34) नान्यथा एनौ उपपदयेत् // एनौ आचार्योपाध्यायौ / उपो[च्चारि]पदं उपपदम् / आयुष्मन्तभदन्त-स्थविरोपपदैः नोपपदयितव्यौ / निरुपपदनामग्रहणं तु अनयोः [ऽवृद्धस्य निरुपपदं नांअ न गृह्णीयात् इत्यनेनैव प्रतिषिद्धं वेदितव्यम् // आचार्यः ऽआचार्यऽ एव वक्तव्यः / उपाध्यायश्च ऽउपाध्यायऽ इति // (35) नैवमन्यमिति // आचार्योपाध्यायाभ्यामन्यः पुद्गलः उपाध्यायाचार्यशब्दाभ्यां नोपपदयितव्यः // (36) नानुक्त्वा सहितं अर्थहेतोः नाम गृहणामि इत्युपाध्यायनाम गृह्णीयात् // सहितमिति उपाध्यायनामग्रहणेन / अर्थहेतोः नाम गृह्णामीत्यनेन वाक्येन सहितं उपाध्यायनाम गृह्णीयात्, नैतत्पदं अनुक्त्वा इत्यर्थः // तच्चास्मिन् समनन्तरसहितकरं, यत्र वचने विरतो ऽयं प्रवृत्तेः इति बुद्धिः // श्रामणेरत्वोपनयविधिः //
(इइ) उपसंपद्विधिः (37) संघादुपसंपत् // न यथा प्रव्रज्याश्रामणेरत्वोपगमश्च पुद्गलात्, अपि तु संघादुपसंपत् // (38) उपाध्यायतायां उन्मुखीभूतः कर्मकारकं अधीच्छेत् रहोनुशासकं च भिक्षुम् // उपाध्यायतायां उन्मुखीभूत इति उपसंपदुपाध्यायत्वेन प्रत्य्पस्थितः / अधीच्छेत् इति अध्येषेत् / रहोनुशासकञ्चेति अधीच्छेत् / भिक्षुमिति रहोनुशासकार्थं भिक्षुग्रहणं, न कर्मकारकार्थम् / कर्मपरिभाषायां यः कर्मविधिरुक्तः तत एव तस्य भिक्षुत्वसिद्धेः // (39) उपाध्यायं याचेत / इति उपसंपाद्यः [संघ]-मध्ये // (40) स स्वयमेनं त्रिचीवरमधिष्ठापयेत् // स इति (विन्सू 11) उपाध्यायः / स्वयमिति ना ऽत्र उच्छ्वासकल्पो मुण्डनादाविव अस्य, स्वयमेतत्कर्तव्यमित्यर्थः / एनमिति उपसंपाद्यम् / सति संभवे, [अधिष्ठापयेत्] छिन्नस्यूतम्, असति अन्यदिति चीवरवस्तुनः प्रतिपत्तव्यम् // वेषार्थत्वा अधिष्ठान्, अधिष्ठानानन्तरं एषां प्रावरणमिति मन्तव्यम् // (41) पात्रं चोपदर्श्य मोनं अधिकं पाण्डरे (रं) वेति संघे // उपदर्श्य इति संघे इत्यनेनास्य संबन्धः // किमर्थमुपदर्शनमित्याह - मोनमधिक पाण्ड[रं]वेति एतद्दोषपरिहारार्थ, एवंविधस्य अधि[ष्ठा]नमन्याय्यम् / उपदर्श्य संघे अधिष्ठापयेत् इत्यनुवर्तते // (42) सुपात्रमिति अनेवंत्वे ब्रू युः सर्वे // इति यथासंनिपतिता भिक्षवः / एवं-भावः एवंत्वम् / [तदूनत्वा]-दिदोषोपेतत्वम् / नैवं-त्वं अनैवं-त्वं, एतद्दोषविमुक्तत्वं इत्यर्थः // (43) अपक्रमिते, क इति आख्याप्य रहोनुशासकं उत्साह्य कर्मकारकः संघ एनमनुज्ञापयेत् //
अपक्रमित इति मण्डलकस्थानादन्यत्र अपनीतोपसंपाद्ये, रहोनुशासकगतस्य कर्मणो न श्रवण, अत्र अपकासनार्थः, ना ऽन्यो दृश्यते / तस्मात् यत्र स्थितस्यास्य एतच्छ्रवणं न गच्छति, तत्र इति कर्मविधेः गन्तव्यम् / पुरस्ताद् वक्ष्यते - दर्शनोपविचारे एनं अपकासनेन स्थापयेयुः गणाभिमुखं प्रगृहीताञ्जलिमिति / क इति आख्याप्येति को ऽधीष्टः एवं-नाम्ना एवं-नाम्ना रहोनुशासकः इत्यनेन मन्त्रेण ऽअहमेवं-नामाऽ इत्याख्याप्य रहोनुशासकम् / उत्साह्य इति त्वमेव रहोनुशासकः, उत्सहसे त्वं इत्या दिना एनमिति रहोनुशासकं अनुज्ञापयेत् इति / एतदर्थं कर्मकारकः ज्ञप्तिं कुर्यात् // केचित् एतद्गते मन्त्रे यत् संघस्य एवं-नामानं रहोनुशासकं संमन्येत इति पठन्ति तद् अयुक्तम्, कर्मवाचनायाः अपि कर्तव्यता ऽपत्तेः, अकारणाच्चास्याः / नैषा संमतिरनुज्ञपनमेतद्, इति व्यवस्था / तद् यदेवं-नामा रहोनुशासकः एवं-नामानं रहसि अनुशिष्यादित्यत्र [अभ्यनुज्ञायां युक्तं, तदनु]ज्ञपनं एवं सूत्रितं, न संमतिः // (44) श्रुणु त्वमिति रहसि अनुशिष्यात् // रहोनुशासक इति सामर्थ्यात् गन्तव्यम् // श्रुणु त्वमायुष्मन्, अयं ते सत्यकालः इत्यादेः मन्त्रस्य शृणु त्वमित्यनेन पदेन् उल्लिङ्गनम् / तिष्ठ, मा / शब्दितः आगमिष्यसि इत्येनमुक्त्वा इति समनुशिष्टे // (45) समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य // इति व्यवस्था // श्रुणोतु भदन्तः संघो ऽय मनुशिष्तो मया एवं-नामेत्यादिना मन्त्रेण / किमागच्छतु इति आगमणं पृच्छेत् // इति संघः // (46) स चेत् परिशुद्ध इति सर्वे ब्रूयुः // इति उपसंपादक-भिक्षवः //
केचिदत्र पूर्वत्र च प्रव्रज्यार्थमारोचनावचने प्रतिवचनं अधीयते - सर्वसंघेन वक्तव्यं स चेत् परिशुद्ध इति / तेन वक्तव्यं परिशुद्ध इति - तदनुपपन्नम् / वक्तुरे[तद्भारारो]पणं, रहोनुशासकेन प्रथममेवाख्यातत्वात् // (47) उपसंपदं कर्मकारको याचयेत् // उप[संप]त्प्रेक्षो // (48) अनुज्ञापयित्वा संघं आन्तरायिकं पृच्छेत् // आन्तरायिकपरिप्रश्नार्थ ज्ञप्तिं कृत्वा / (विन्सू 12) श्रुणु त्वं आयुष्मन्, अयं ते सत्यकालः, अयं ते ब्नूतकाल इत्यादिना मन्त्रेण आन्तरायिकपरिप्रश्नः // (49) उपसंपदमुपनयेत् // ज्ञप्तिचतुर्थेन कर्मणा // [अवसरार्थ कर्म]कारकः // (50) छायां वेदयेत अनन्तरं मितामिति / उपसंपदुपनयनान्तरं छायामुपसंपन्नाय वेदयेतेत्यर्थः / अनन्तरं अविलम्बितम् / कथं वेदयेत इत्याह - मितां सशेषकार्यस्य आसनभङ्गायोगात् कर्मकारकादन्येन अस्य मानस्य योगः / तत्पुनः मानमस्य पदादीनां केन इत्याह - (51) शंकुनां चतुर [ङ्गुलेन एत] त्साधु // एतदिति मानं चिरत्वाभावाय चतुरङ्गुलेन मानं शोभनम् // (52) पुरुषत्वेन अस्यानुव्यवहारः // साधु इति वर्तते / अस्येति चतुरङ्गुलस्य शंकोः, यावन्तः शङ्कवः तावत् पौरुषीच्छाया वक्तव्या इत्यर्थः // (53) अहोरात्रांशं पूर्वाहणादिकं / वेदयेत इत्यनुवर्तते / पूर्वाहणो मध्याहन् इत्यादि ग्रन्थोत्तम् // (54) समयं च [पञ्चैते // वेदये]त / पञ्चैते इति समयाः (55) हैमन्तिको, ग्रिष्मिको, वार्षिको, मितवार्षिको, दीर्घवार्षिकः इति // परिमाणमेषामुच्यते - (56) चातुर्मासिकौ पूर्वौ / हैमन्तिको ग्रीष्मिकश्च // (57) मासं परं / इति वार्षिकः //
(58) ततो अहोरात्रह् इति / ततो वार्षिकात्परो मितवार्षिकः एको अहोरात्रः // (59) तदूनं अन्त्यो मासत्रयम् इति / तेनै केन अहोरात्रेण ऊनं मासत्रयं, अन्त्यः समयो दीर्घवार्षिकः // समयवेदनान्तरं उपसंपन्नमात्राय कर्मकारको - (60) निःश्रयानारोचयेत् //
पांसुकूलादयस्ते चत्वारः // (61) पतनीयान् धर्मान् / पाराजिकान् // (62) श्रमणकारकांश्च / आक्रुष्टेनन प्रत्याक्रोष्टव्यमित्यादिकान् आरोचयेदिति वर्तते // (63) संपन्नतां सम्यक्तया च प्रेप्सितस्य उद्ग्राह्य शीलसामान्यगतता ऽरागणे नियुञ्जीत // प्रकर्षेणेप्सितं प्रेप्सितं अभिप्रेतम् / यस्ते भूतपूर्व आशासकः ऽकच्चिदहं लभेयऽ इत्यादि इदमस्याभिलषितम् / तस्य संपन्नतामुद्ग्राह्य सत्त्वं,एतर्हि प्रव्रजित-उपसम्पन्नेत्यादिना / सम्यक्ता पुनः सम्पन्नतायाः प्रतिरूपेणोपाध्यायेन इत्यादिना अभिहिता / संपन्नतामुद्ग्राह्य किं कर्त्तव्यम् इत्याह - शील सामान्य गतता-आरागणे नियुञ्जीत // यत्र वर्षशतोपसंपन्नेन इत्यादिना शीलेन सामान्यगतता शीलसामान्यगतता / तस्या आरागणं आराधनम् // (64) पात्रिकसंबन्ध-प्रतिबिम्बने नियुञ्जीत / इति सर्वत्र अधिकृतं वेदितव्यम् // पात्रिकसंबन्धो मातापितृसम्बन्धः, तस्य प्रतिबिम्बनं - अद्याग्रेण ते उपाध्यायस्य मातृपितृ-संज्ञेत्यादिना / एवं ते सो ऽभ्यस्तो गृहिसंबंधः प्रतिबिम्बयितव्यः इति // (65) विनीत-संवासतायाम् / अद्याग्रेण ते सगौरवेण इत्यादिना // (66) प्रयोजनानुष्ठाने // अद्याग्रेण ते उद्देष्टव्यमित्यादिना / (67) संपत्यस्यमानतां असमाख्यातां समात्तपरिज्ञानस्य आचक्षीत // इमानि च इमानि ते मया औदारिकौदारिकौ [इत्ये]वमादिना, संप्रति अनाख्यातस्य समात्तस्य वृत्तस्य (विन्सू 13) परिज्ञामेव संपत्स्यते इति // (68) आदरे नियुञ्जीत //
ऽएषत्वमुपसंपन्नऽ इति गाथाभ्यां ऽप्रास्तदिकस्यऽ इति अनया क्षणसम्पदो दौर्लभ्यं दर्शयति, यस्मात् असत्स्वपि अन्येषु अक्षणेषु, लब्धे ऽपि प्राप्ये ऽनुकम्पकैः दृष्टि संपन्ने च मनुष्यत्वे बहवो ऽत्र अपरिशुद्धिसंख्या अन्तराया [वैरू]प्यं च / तस्मात् दुर्लभा एषा // (69) सोपायाख्यानं च संपादने // सहोपायाख्यानेन सोपायाख्यानम्, यदर्थं प्रव्रज्योपसंपत् तत्संपादने नियुञ्जीत - उपसंपन्नस्त्वं आयुष्मन् अप्रमादेन संपादय इत्यनेन / तद्यथा अनुप्राप्तस्त्वं एतत्स्थानं, अभिरतिरिदानीमत्र कर्तव्या इति / सामीच्याम् आदौ त्रिःकरणं संघसंघटितायां अनुशिष्टौ च निष[ण्णस्यो]त्कुटुकिकया पुरतः इष्टके पार्ष्णिभ्यां रहोनुशिष्टौ उपसंपदि स्थितस्य पात्रं वामे पाणौ प्रतिष्थाप्य, प्रतिच्छाद्य दक्षिणेन पाणिना इत्यादेः कर्मवस्तुनि वक्ष्यमाणत्वात् इह अनुपनिबन्धः // उपसंपद् विधिः //
(इइइ) निश्रयगतम्
(70) नानवलोक्य निश्रयम् निश्रितकरणीयं कुर्यात् // अपृच्छनं अनवलोकनम्, अपृष्त्वा न किञ्चित्कुर्यादित्यर्थः // करणीयेषु अवलोकनप्रसक्तस्य किंचित्करणीयस्य अपृष्त्वा ऽपि करणमुक्तं भगवता, इत्याह - (71) मुक्त्वा उच्चारप्रस्रावं दन्तकाष्ठविसर्जनं सोपविचारविहारचैत्याभिवन्दनम् // यद् अन्तर्व्यापारसंख्येन कण्डनादिना व्यापारेण अभिव्याप्यते तच्चैत्याङ्गनम्, सो ऽत्रोपविचारो युज्यते / सह उपविचारेण सोपविचारः, तत्र चैत्यं, तस्याभिवंदनम् // (72) एकान्नपञ्चाशत्-व्यामपर्यन्ताद्विहारतो गमनम् // मुक्त्वा इत्यनुबन्धः / एकान्न[पञ्चाशत्] इति ऽआटऽ-सन्धिः एकान्नपञ्चाशत्-व्यामस्य पर्यन्ताद्यावत् इत्यर्थः // यत्र विहारे खातको वा प्राकारो वा अन्यो वा परिवारो विद्यते, तत्र स विहारान्त इति अध्यवसानं युज्यते / अनेकप्राकारादि-सद्भावे सर्वबाह्यः / तस्मात् तत्र तस्य बाह्यपार्श्वमस्य प्रमाणस्यावधिः / यस्तु[नोप]-विचारः तत्र विहारभित्तिरेवावधिः / यदत्र परतः पूर्वोक्तस्योपविचारस्य स्थानं, न तद्गतं चैत्यं अभिवन्दितव्यम्, इत्यत्रोपतिष्ठते // परिसर्पणभूतस्य एतदनुज्ञानम् // अन्यच्च, अतः चैत्याभिवन्दनमिति तत्र किं प्रतिपत्तव्यम्? - तदर्थ न गन्तव्यम् अनापृष्ट्वा / परिसर्पणार्थं तु गतेन वन्दितव्यमिति // द्विविधमेतत्करणीयम् - [आरम्भ]-भूतं अभिनमनभूतं च / तत्र यदारम्भभूतं तस्यैव प्रतिषेधः, अभिनमनभूतस्य तु अप्रतिषेध्यत्वं व्यवतिष्ठते //
नानापृच्छ्य आलपितव्यं, न संलपितव्यं, न प्रतिसंमोदितव्यं, न प्रतिवचनं दातव्यं, नोदकदिग्धेन पाणिना धर्मितेन पादौ वा मुखं वा हृदयादिकं वा अनुपरिमार्ष्टव्यं, नोदकेन हस्तादेः [परिमार्जनं(?) रजोवकीर्ण]-वस्रादि प्रस्फोटयितव्यं इत्यादेः इति हासपदभूतस्य वृत्तस्य आपत्तेः // (विन्सू 14) उपानह-दन्तकाष्ठ-पाठः स्वाध्यायोपसंहाराणां करणप्रतीष्टोः तज्जातीयस्य भिक्षोरन्तिकादिति विशेषपरिग्रहात् अभिप्रेतमत्र अभिनमनभूतं इति गम्यते / दुष्टो ऽत्र प्रव्रजितो ज्ञातः शंकितो वा अनापृष्टो [अपरित्यक्त]व्यो(?), नान्यः / न हि पठति, स्वाध्यायं वा कुर्वति, उपसंहारस्य तदनुरूपे काले करणं इत्यादेः करणयीत्वेन प्रज्ञानम् / अभिनमनप्रकारत्वेन ह्येतस्य मनसि निलयनम् / दुष्टे तु विपक्षानुगतित्वेन एतत्प्रतिभाषामाणं आरम्भत्वेन ख्यातिमुपगच्छति / तस्मात् यत्र यत्नः कर्तव्य इत्यत्राभिप्रायो दृश्यते // उदकपानस्य अनापृच्छाकरणं अनेन प्रविचारेण कृतं वेदितव्यम् // तद्विधं ह्येतद् यद्विधं धर्मितस्य गात्राणामुदकेन संस्पर्शनम् // निश्रितवृत्तं उच्यते - (73) पात्रचीवरकर्मणि, ग्लानोपस्थाने, कौकृत्यप्रतिविनोदने, पापकदृष्टिगतप्रतिनिःसर्गे तीव्रं औत्सुक्यमापद्येत - अहो बत अहं कुर्याम् कारयेयं वा इति // रङ्गकर्म अपि अत्र केचित् पठन्ति / तस्य चीवरकर्मणो नातिरेकात् ग्रहणम् // (74) संघे प्रणिधातुकामे - उत्क्षेपणीयादि-प्रणिधिकर्म कर्तुकामे संघे अहो बत संघो निश्रयस्येदं प्रणिधिकर्म न कुर्यात् // इति तीव्रमौत्सुक्यमापद्यते, निवर्तते - यावत् आवृहेत् इति सर्वत्रैतदनुषक्तं वेदितव्यम् // (75) कृते अवसारयेत् //
इति प्रणिधिकर्मणि कृते - अहो बत संघो ऽस्य अवसारयेत् इति // (76) परिवा[स]-मूलपरिवासमानाप्य-मूलमानाप्य-आबर्हणार्थिनि निश्रये अहो बत संघो अस्य अप्रिवासादिचतुष्कं दद्यात्, आबर्हणार्थिनि अहो बत आबृहेत् इति // (77) सो ऽप्येतदस्मै कुर्यात्, उत्सृज्यावलोकनम् // सो ऽपि निश्रयः / एतद् पात्रचीवरकर्मादि / अस्मै निश्रिताय कुर्यात् / उत्सृज्यावलोकनं अवलोकनमेकं मुक्त्वा // (78) नोनदशव[र्षः उपसंपदः उ]पाध्यायत्व-निःश्रयत्व-अनिश्रितवासान् कुर्यात् // उपसंपदाय ऊनदशवर्षः स एतत् त्रयं न कुर्यात् // (79) अनून-दशवर्षो ऽपि उपसंपदा, नासमन्वितिः केनचिदनन्तरेभ्यः समायोगेन // ये ऽनन्तरं वक्ष्यमाणाः पञ्चाङ्गिकाः समायोगाः तेभ्यः येन केनचित् एकेना ऽपि समन्वितो योग्यो[ना ऽन्य इ]ति भावः / एवञ्च यदुक्तं अपरैरपि पञ्चभिर्धर्मैः समन्वागतेन इत्यत्र न समुच्चयो विज्ञातव्यः एभिः इमैश्च अपरैरिति / अपि तु एभिः तावत्कर्तव्यं इत्युक्तम्, इमैरपि अपरैः इति विकल्पः // कुत एतद्? / असंभवात् सर्वासामासां पञ्चिकानां साक्ष्यस्य //
आद्यायां तु पञ्चिकायां दशवर्ष[त्वाङ्ग] उक्ते दशवर्षो भवत्युपसंपदेति / तदेभिः दशवर्षग्रहणं आदौ सर्वस्य उत्तरस्य एष विषयपरिग्रह इति ख्यापनार्थम् / स्थितार्थत्वं विनये, दशवर्षत्वे सति उपाध्याकरणादौ कारणं / विशेषभूतत्वं शेषस्य तत्रा ऽस्ति चेत् सविशेषत्वं उत्तमकल्पः / न चेत् एतन्मात्रकमपि अत्रावलम्बि[तव्यम् / यथा] शैक्षत्वादेः विशेषस्य लङ्घ्यत्वम् एवमस्यापि दशवर्षत्वे सति विनये स्थितार्थत्वस्येति / ते इदानीं समायोगां (विन्सू 15) उच्यन्ते / (80) ग्लानोपस्थान-कौकृत्यप्रतिविनोदन-पापकदृष्टिगतप्रतिनिःसर्ग-अनभिरतिस्थानप्रमीलनानां करणकारणे सामर्थ्यम् // कौकृत्यप्रतिविनोदनकरणसामर्थ्यग्रहणेन [विनये स्थितार्थ-]त्वस्य प्रतिपादनम् / दृष्टिगतप्रतिनिःसर्गग्रहणेन धर्मस्थितौ कुशलत्वस्य / अनभिरतिस्थितिप्रमीलनग्रहणेन अपयुज्यत्वस्य आदेयवाक्यत्वस्य वा // ना ऽत्र कारणग्रहणेन अशक्तेना ऽपि करणं कृतं मन्तव्यम् / अपि तु विनेयवशात् गम्यत्वे सति, परप्रवर्तनायां व्यापारगमने सामर्थ्यस्य उपगृहीतत्वम् / एवञ्च अत्र भवति अनतिलङ्घ्यस्य कारणस्य विनये स्थितार्थत्वस्य अलङ्घनम् // (81) प्राक्शैक्षत्वात् अपञ्चके स-शीलवत्ता बाहुश्रुत्यम् // शैक्षत्वं अशैक्षता इत्यतः प्राक् यत्सहोक्तं पञ्चकं न भवति, तद्यथा - श्रद्धाशीलादिसमायोगाभ्यामन्ये समायोगाः तद् शीलवत्तया ऽपि बाहुश्रुत्येन च सहितं वेदितव्यम् / सह शीलवत्ता-बाहुश्रुत्याभ्यां शीलवत्ता-बाहुश्रुत्यं पञ्चकम् / शीलवत्ता अत्र दुःशीलेन सार्धं संवासस्यैव अयोगात् प्रतिविशिष्टा, यथा कल्याणो ऽयम् इति मन्यन्ते [सा] ऽस्य वेदितव्या //
बाहुश्रुत्यं पुनः यस्मिन् समायोगे पिटकानां ग्रहणं विद्यते, तत्र तद्विपक्षभूतानां परप्रवादानां, वस्तु-पद-वाक्याद्यङ्गानां, छन्दोविचित्यादेः, इतिहासवृत्तकानां वा अभिज्ञत्वं यत्र न विद्यते तत्र पिटकानां ग्रहणं बोद्धव्यम् // (82) पिटकाभिज्ञत्वम् // सूत्र-विनय-मातृकाभिज्ञत्वं, शीलवत्ता बाहुश्रुत्यं च प्रक्षिप्य पञ्चकम् / विनये उक्तम् - ऽसूत्रधरो, विनयधरो, मातृकाधरः; सूत्रव्यक्तो, विनयस्य व्यक्तो, मातृकायाः व्यक्तः, सूत्रकुशलो, विनयकुशलो, मातृकाकुशलः, सूत्रकोविदो, विन[य]कोविदो, मातृकाकोविदःऽ इति / तत्र उद्गृहीतस्या विस्मृतिः सूत्रादिधारणम्, पिटकत्रये चेदम् // एकत्र गतस्य इतरत्रदर्शनात् सांकर्येण अवस्थितम् / तथावस्थितस्यास्य विवेकेन परिच्छेदसामर्थ्यं इदं कौशलम् / युक्त्यागमाभ्यां सूत्रादियोजनं कोविदत्वम् // तथा योजितेन यत्परप्रतिपादनसामर्थ्यम् एतद् व्यक्तत्वम् // सहाविस्मृत्या सर्वमेतद् अभिज्ञत्वमिति सामान्येन अभिज्ञावचनेनोक्तम् // (83) ग्राहेण एषां प्रतिबलत्वम् // पिटकानां नानभिज्ञः तेषु तद्-ग्राहणे प्रतिबलो भवति, तस्मात् विशेषस्यैतद् पिटकाभिज्ञवचनं वेदितव्यम् // (84) अधिशीलचित्तप्रज्ञा शिक्षत्ता // शिक्षद्भावः शिक्षत्ता, द्वंद्वैकवद्भावः // अधिशीलग्रहणेन सर्वस्य विनयवृत्तस्य ग्रहणम्, अधिचित्तग्रहणेन [ध्यानानाम्], अधिप्रज्ञग्रहणेन सत्यदर्शनाभ्यासस्य // (85) प्रतिबलत्वं वा शिक्षणायाम् // अधिशीलादाविति संप्रत्ययोत्पादनार्थं वा-शब्दः कृतः, न विकल्पार्थम् / नाशिक्षितः अधिशीलादौ तच्छिक्षणे प्रतिबलो भवति / विशेषस्यैव एतद् ऽशिक्षाऽ इति वचनं इति वेदितव्यम् //
(86) एवं अध्याचारविनयं प्रातिमोक्षम्, इति / एवं इति अनेन शिक्षत्ता, प्रतिबलत्वं वा शिक्षणायां इत्यस्य (विन्सू 16) परामर्शः // ततश्च द्वावेतौ समायोगौ भवतः / तत्र अध्याचारः आसमुदाचारिकम्, विनयः शेषभूतम् / प्रातिमोक्षशिक्षणाः वस्तुविधयश्च सपरिकराः प्रातिमोक्षः तदाख्यः / तत्र पर्यापन्नानि शिक्षापदानि // (87) श्रद्धा-शील-श्रुत-त्याग-प्रज्ञासंपन्नत्वम् // शीलग्रहणेनात्र विनयस्य ग्रहणम् // (88) शील-समाधि-प्रज्ञा-विमुक्ति-तज्ज्ञान दर्शनैः // संपन्नत्वमित्यनुबन्धः / शीलसंपन्नग्रहणेन अत्र विनयख्याक्षिप्तत्वं, नान्यथा, भिक्षोःशील-संपत्तेः संभवः इति / तज्ज्ञाने इति तच्छब्देन विमुक्तेः परामर्शः, विभुक्तिज्ञानदर्शनमिति // (89) सारब्धवीर्यत्वप्राज्ञत्वं च // प्राक्शैक्षत्वाच्छीलवत्ताबाहुश्रुत्यं इत्यस्य च-शब्दात्प्रत्युपस्थानम् / इत ऊर्ध्वं प्राक्शैक्षत्वात् यत्सहोक्तं पञ्चकं न भवति तदारब्धं-वीर्यत्वप्राज्ञत्वाभ्यां च सहोक्तं वेदितव्यम् / शीलवत्ताबाहुश्रुत्याभ्यां च त्रीण्यत्र एककान्युक्तानि - (90-92) स्मृतिमत्वम् // प्रतिसंलीनत्वम् // समाहितत्वम् / इति // तेषां एतच्चतुष्क-पूरणम्-शीलवान् भवति बहुश्रुतः, आरब्धवीर्यः, प्राज्ञः, स्मृतिमान् / पुनरेतच्चतुष्कमुक्त्वा प्रतिसंलीनश्च भवतीति वक्तव्यम् / पुनः समाहित इति // (93) शैक्षत्वमिति / शैक्षेण शीलस्कन्धेन समन्वागतो भवति / शैक्षेण समाधि-प्रज्ञा-विमुक्ति-विमुक्तेः ज्ञानदर्शनस्कन्धेन इत्यस्य एषा संग्रहः // (94) अशैक्षता इति //
अशैक्षेण शीलस्कन्धेन इत्यादेः यद् अनयोः धर्मता-विनियतं वृत्तं तत्र यत्साध्वसाधुतापरिज्ञानं, तद् तावत् अनयोः आधिगमिकमेव / यदापत्तिव्यवस्थापरिज्ञानं [यच्च शिष्टस्य] विनयविधेः, तत्राप्येतौ दशवर्षादित्वात् स्वातन्त्र्ये व्यवस्थितौ नियतं कृतप्रयत्नौ इति न अत्र अनतिलङ्ध्यकारणा[द्] अतिलंघनं कृतं वेदितव्यम् // (95) उत्पत्ति-प्रज्ञप्ति-अनुप्रज्ञप्तिः-प्रतिक्षेप-अभ्यनुज्ञा-भिज्ञत्वम् // अत एतद् उत्पन्नमिति शिक्षपदोत्पत्तिनिदाने अस्योत्पत्तिशब्देना-भिधानम् / शिक्षापदव्यवस्थापनं प्रज्ञप्तिः / प्रज्ञप्तिग्रःअणेन इयता अन्तिके च स्थूलात्ययो देशयितव्यः इत्यादेः ग्रहणम् / इदमत्र पुनः प्रतिक्षिप्तं अभ्यनुज्ञातं चेति अनुप्रज्ञप्तिः / तद्यथा - उपानदभ्यनुज्ञानेन सणसणापत्तिः इत्यादेः विशेषस्य प्रतिषेधः / अकालभोजनप्रतिक्षेपे च ग्लानस्य वैद्यवचनादभ्यनुज्ञानम् / अत्यन्तमिदं न कर्तव्यमिति हि विधानं प्रतिक्षेपः / तद्यथा - तृणाग्रेणापि मद्यस्यापानं अब्रह्मचर्यादि च / अभ्यनुज्ञा पुनः यस्य करणीयस्य अकरणे वा ना ऽस्ति दोषः कामचारो ऽत्र प्रवृत्तौ / तद्यथा - परवादिनिग्रहार्थं बहिःशास्त्राणि अध्येयानीत्यादि / अत्र अकरणे करणे [च] न कश्चिदापत्तिदोषः / एतावच्च करणीयाकरणीयपरिज्ञानं प्रतिविनये शेयम् / तदे तद् अविनयाभिज्ञत्वं अधिकं पञ्चकेन ख्यापितं वेदितव्यं, आपत्त्यादिपञ्चकेन च // (96) आन्तरायिक-अनान्तरायिकाभिज्ञत्वं आख्यापिता ऽनशासकत्वं (च) //
आन्तरायिक-अनान्तरायिक-अभिज्ञत्वं च आख्यापिता च अनुशासकत्वं (विन्सू 17) चेति विग्रहः / अकरणीयं यद्विनये तद् आन्तरायिकं, करणीयं यत्तद् अनान्तरायिकं, तयोः अभिज्ञ-त्वं विनये स्थितार्थत्वस्य एतद्-द्वयं उद्भावकम् / आख्यापिता पुनः वक्तुं बोधयितुं वा अस्यैतद्-द्वयस्य कौशलभूतं सामर्थ्यं अनालस्यं वा / अनुशासकत्वं व्यातिक्रमे संस्थापनानुरूपं वक्तृत्वं, आलस्ये च अवर्तनानुरूपं आचक्षको भवति, अनुशासक इत्यस्यै[व] पाठस्यार्थ उक्तः // केचिदनयोः स्थाने ऽअववदतिऽ ऽअनुशास्तिऽ इति पठन्ति / तत्र अनुशास्ति इति तुल्यं अनुशासको भवतीति - अनेन / अववदतीति मनसिकारार्थं य उपदेशः तस्यानेन अभिधानम् // एतदर्थं प्रव्रज्या / तस्मादेषो ऽत्र विशेषतो अर्हति, पर्षत्संग्रहं इति वा अस्योपसंग्रहः // (97) सह ग्रहणप्रतिबलत्वेन निश्रयस्योपनिश्रयस्य वा // ग्राहणे प्रतिबलत्वं ग्राहण अतिबलत्वं, सह अनेन ग्राहणप्रतिबलत्वेनैत दान्तरायिका ऽभिज्ञत्वादिपञ्चकम् / द्वावेतौ समायोगौ, एको निश्रयगतं अत्र चतुष्के प्रक्षिप्य, अपरः उपनिश्रयगतं इति प्रतिपादनार्थं वा शब्दः / उपाध्याये अन्यत्र प्रक्रामति, निश्रयग्राहणे प्रतिबलत्वमुपयुज्यते / उपाध्याये अन्यत्र वा निश्रये तावत्कालिकाभिप्रायेण प्रक्रामति तिष्ठति च कस्यचि ज्जनस्य वशात् उपनिश्रयग्राहणे (प्रतिबलत्वं) उपयुज्यते // (98) आपत्ति-अनापत्ति-गुरुलघुताभिज्ञत्व-प्रवृत्तप्रातिमोक्षविस्तरत्वम् //
तत्र आपत्यनापत्ति-अभिज्ञत्वस्य करणीय(-अकरणीय-)विनियोगे निश्रित-प्रत्युपयोगः, गुरुलघुताभिज्ञत्वस्य स्थूलात्ययदेशनायाम् / प्रवृत्तप्रातिमोक्षविस्तरत्वेन विनये अधिष्ठितार्थत्वं दर्शितम् / [त]च्चानेन विस्तरशब्देन विनयस्य गृहीतत्वम् / न च मन्तव्यः प्रातिमोक्षविस्तरशब्दो न विभङ्गात्-शिष्टस्य वस्तुक्षुद्रकादेः प्रतिपादकः इति / सर्वस्यास्य प्रातिमोक्षविस्तरभूतत्वात् / सर्वस्य आद्यादपि प्रातिमोक्षादुत्थानम् / ऽयः पुनः भिक्षु-भिक्शुणीभिः सार्धंऽ इत्यतः प्रव्रज्यावस्तुनः (उत्थानम्) / ऽपोषधं आयुष्मन्तऽ इति [पोषधव]स्तुनः, ऽपोषधविशेषः प्रवारणा ऊनवर्षकाः" इति वार्षिकवस्तुनः / अत एव प्रवारणावस्तुनो वर्षावासाभिसंबंधेन व्यवस्थापनात् / ऽउद्धृते कठिन" इति कठिनवस्तुनः, "निष्ठितचीवरेण भिक्षुणा" इति चीवरवस्तुनः / ऽचीवरपक्षं चर्म-भैषज्यपक्षं चेतिऽ तदुत्थानकारणादेव चर्मवस्तुनः, ऽयानि तानि भगवता ग्लाना[नां भिक्षूणां भैषज्यानि अम्यनुज्ञातानिऽ इति भैषज्यवस्तुनः / ऽअनागतानां आयुष्मतां च छन्दं च परिशुद्धिं च आरोचयत, मा समग्रस्य संघस्य भेदय पराक्रमतऽ इत्यादेः कौशाम्बिकवस्तुनः संघभेदवस्तुनश्च / अतश्च प्रव्रज्यादिकर्म-संसूचकात् अलाभश्च, इहापि तेनेत्यादेश्च कर्मवस्तुनः / संक्रामं तेन भिक्षुणा संघे परिवस्तव्यम् इति [आदिना पाण्डुलोहितवस्तुनः / अकामत्वेन कर्मादिना परिवासवस्तुनः / (विन्सू 18) यद् आपत्तिव्यवस्थानस्य पश्चात् करणदेशना संघावशेषप्रतिदेशना च, तस्मात् पोषधस्थापनवस्तुनः / ऽभिक्षूणां महाविहारऽ इत्यनेन शयनासनवस्तुनः / अधिकरणसामर्थ्यप्रदर्शनार्थ
अपि आपत्तिपोषधव्यवस्थापनात् अधिकरणवस्तुनः / वचनाङ्गभूतं तज्जातीय-अन्यच्छीला (चारो इति) द्विविधत्वेन प्रातिमोक्षः वस्तूनां शेषश्च / क्षुद्रकाणां मातृकागतवस्तूनां च उक्तिः इत्यादीनां निर्देशः पृच्छा / चर्यानिर्देशस्तु पृच्छा-विनीतकरणानि / चर्मवस्त्वादयः दारकेषु / तथाहि एतदनवशिष्टं प्रातिमोक्षविस्तरत्वं न भवति / विभङ्गमात्रेण प्रवृत्ते प्रव्रज्यादिकरणं न भवति, एवं करणीयत्वेष्वपि एतन्मात्रप्रदर्शनत्वात् //
(99) वृद्धाभावे नवकं निश्रयेत् // यदि वृद्धः येन केना ऽपि प्रतिरूपकेन पञ्चकेन समन्वागतः न स्यात्, तदा ऽयं विधिः - भदन्तः भिक्षुः उपसंपदः ऊनषष्तिवर्षः, अनेन प्रातिमोक्षसूत्रं विस्तरेण उद्गृह्य पठित्वा (धारितं) न भवति तेन, अन्यत्र प्रक्रमितं वा तेन, उपालि, अन्यनिश्रयेण भवितव्यम् इति उक्तम् / अत्र षष्टिवर्षः अस्वतंत्रः (=निश्रितः) अपि बाहुश्रुत्यस्य विशेषाभावात् ऽवृधाभावेऽ इत्यादि उक्तम् / (100) सामीचिं केवलं स्थापयित्वा / इत्यस्मिन् वन्दना न शीलव्रते पर्यांपन्ना, अन्यत्र वृद्धस्य निश्रितेन नवकेन (सह) अनुसंवासयितव्यः इत्यभिप्रायः // (101) चरेत् अनिश्रितः पञ्चवर्षः पश्चिमसमायोगेन समन्वितः जनपदचारिकाम् // आपत्ति-अनापत्ति-इत्यादिः पश्चिमसमायोगः, तेन च समन्वितः पञ्चवर्षः अनिश्रितः जनपदचारिकां चरेत् // (102) नान्यथा त्रैविद्यो ऽपि //
पञ्चधर्मैः समन्वागतः, ऊनपञ्चवर्षो ऽपि, यतो मार्गात् विनयभ्रष्टो ऽपि ततो पञ्चवर्षशीलभाव-समायोगात् दुःखविपरिणतो भवति / अपरिपूर्णवर्षो न भवति इत्यत्र अभिसंधिः दृष्टः / ऽत्रैविद्यौ ऽपिऽ इति / निश्रये निश्रितार्थं करणीयाकरणीयपरिज्ञानं द्विविधं च परिविनीतम् / तत्र यद्यपि अस्य धर्मता अभिज्ञानत्वात्, पूर्वनिवासज्ञानत्वेन प्रवृत्ति-दर्शनत्वात्, दुष्कर-अल्पसंवित्प्रतिसेवनया आगतसंपदा च करणीयाकरणीयेसु परिज्ञानं सिद्धं भवति / एवं परिविनेयार्थं निश्रयं निश्रयेत् / यदर्थेंन दुःखव्यवहारविनयत्वे पूर्वात्म-सहितभावस्य स्वभावपरिहारात् / अर्हतां पूर्वस्वभावपरिहारः श्रूयते / कश्चिदर्हन् पूजाक्षेत्रः, पूजाक्षेत्रेभ्यः संतीर्णः, आयुष्मान् (विन्सू 19) पिलिन्दवत्सः च गङ्गादेव्यै ऽवृषलीऽर्ति चोदितवान् इत्यादि / अन्यच्च, विनयपरिज्ञानं कथमपि न कृतं भवति, दुष्करत्वात् / स्थूलकुमार्योः सार्धं एकभूमौ अनवस्थानवत् उद्यमेषु च अन्तरायबाहुल्यात् / यतः प्रकरणमिदं विविधं भवति //] (यदुत) चेत् भदन्त त्रैविद्यः त्रिवर्ष-त्रिमलप्रहीणः, स च पञ्चभिर्धर्मैः समन्वागतः [न] स्यात्, तेना ऽपि अनिश्रितेन जनपदचारिका चरितव्या? नोपालिन् इत्युक्तम् //
रक्ष्यं चानेन विनयगतं, दूरेण दूरं अपसारयतु एनं परिहृततासंपत्त्यर्थम् / यदध्याचारात् परेषां अप्रसादः स्यात् तत्परिहारार्थम् / शिक्षसु कृतार्थो ऽपि अत्रादरवान्, गौरवोत्पादनार्थम् / [शास]नस्थित्यर्थं च प्रसिद्धताद्यतिक्रमो गच्छति / केनचिदतिक्रमे सति इति ध्वंसो ऽन्यथा शासनस्य संपद्यते / तस्मात्, यथैव अन्यस्य अत्र अननुज्ञानं तथैव त्रिविद्यस्य // निश्रयगतम् //
(इव्) संग्राह्यगतम्
(103) मा ऽसि तीर्थ्यः इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च // पृच्छेत् इत्युपाध्यायः / पृच्छेयुः इति परिणातस्य उपसं[पादका इ]त्यनेन संबंधः / उपसंपादकैरेव स प्रश्नः यो रहोनुशासकेन, तन्नियुक्तत्वात्तस्य // (104) न-अनाराधितचित्तं, उत्सृज्य शाक्यं आग्नेयं च जटिलं, तीर्थ्यं प्रव्राजयेयुः उपसंपादयेयुर्वा // शाक्याग्नेयजात्योः नूनं किञ्चिदाशयसभाग्यं लक्षितम् - ऽनियतं अनयोः प्रतिपत्तौ सत्यां भा[वतः प्रति-]पत्तिः न कृतकेनऽ इति // यतः एतदनुज्ञातमिति प्रतिपत्तव्यम् - यच्च उक्तं - ऽददाम्यहं ज्ञातीनां ज्ञातिपरिहारम्ऽइति, तत्र ज्ञातित्वं अननुपश्यतां एषां भवतः प्रतिपत्तिः भविष्यतीति भगवता ऽवबुद्धम्, ततो ज्ञातिनिमित्तं-परिहारो दत्त इति उक्तमिति / आग्नेयो ऽत्र प्रवृत्तः अग्निपरिचरणकर्मणि भावतः, तदाशय[-परिशुद्धौ वर्त-]मानो गृहीत इति वेदितव्यम्, तद्भूतस्य आशयविपत्तेः असंभाव्यत्वात् // कृत् एतद् तीर्थ्य-अनाराधितादि-तीर्थ्यान्त-वर्जं[न]म् इति शब्दात् पूर्वतीर्थ्यशब्दं वर्जयित्वा, ऽअनाराधितचित्तंऽ उत्सृज्य ऽशाक्यं आग्नेयं च जटिलं तीर्थ्यंऽ इत्येतच्च अनाराधितशब्दादि-तीर्थ्यशब्दान्तं वर्जयित्वा यदेतद् ऽमा ऽसिऽ इत्याद्यु[क्तं त]त्कृत्-संज्ञं वेदितव्यम् / यत्र ऽकृत्ऽ इत्युच्यते तत्र ऽमा ऽसिऽ इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न प्रव्राजयेयुः उपसंपादयेयुर्वाऽ इति उच्चारितं प्रतिपत्तव्यम् //
कृत्-प्रदेशा इति ऊर्ध्वं अत्रैव प्रव्रज्यावस्तुनि क्षुद्रकेषु च एतद्गतेसु / कियता तीर्थ्यः आराधितचित्तो वक्तव्यः इति निर्ज्ञानार्थं आह - (105) रत्नानां वर्णस्य तीर्थ्यानामवर्णस्य भूतस्य उक्तौ अकुप्यत्वं आराधितचित्तता // न कुप्यतीति अकुप्यम्, अकुप्यद्भावो ऽकुप्यत्वम् // (विन्सू 20) (106) तदर्थ अतद्वन्तमेनं कृतोपासकतान्तं चतुरो मासान् परिवासयेत् संघो दत्वा [परिवासं कर्मणा // ऽतदर्थमितिऽ आराधितचित्ततार्थं, तच्च अतद्वन्तं इति अन्(?) आराधितचित्तवन्तम् / ऽतद्ऽ इति तीर्थ्यम् / कृतोपासकतान्तं इति उपासकतान्तविधिं कृत्वा उपासकतान्तः / एवं तत्र ज्ञप्तिचतुर्थेन कर्मणा संघः चतुरो मासान् परिवासं दत्त्वा परिवासयेत् // परिवासदाने (107) संघात् तस्य भक्तम् // (108) उपाध्यायात् चीवरम् // (109) कर्तृत्वं कर्मादानस्य (110) परिपूर्ण]पञ्चदशवर्षो ऽसि इति प्रव्रज्यार्थ उपसंक्रान्तं पृच्छेत् // उपाध्यायः // (111) नोनं असमर्थं काकोड्डायने, समर्थ वा सप्तवर्षं प्रव्राजयेयुः // द्वावेतौ न प्रव्राज्यौ - असमर्थश्च पञ्चदशवर्षत्वादूनः समर्थश्च सप्तवर्षत्वात् / न प्रव्राजयेयुः इति बहुवचनं किमर्थम् / आरोचकेन अयं अशुद्ध इति ज्ञात्वा न आरोचयितव्यम्, संघे[न] न अनुज्ञातव्यम्, श्रामणेरत्वोपनायिना श्रामणेरत्वं नोपनेतव्यम् इति उपसंग्रहार्थम् // (112) न एकत ऊर्ध्वै श्रमणोद्देशमुपस्थापयेत् // द्वितीयश्रमणोद्देशानुपस्थापने द्वितीयस्याप्रव्राजनमपि आपन्नं तदपवादार्थम् आह - (113) अरुचिश्चेत् अनकध्यं प्रव्रज्यायां, प्रव्रज्यातिरिक्तं उपसंपादयेत् //
द्वयोः प्रव्रज्यार्थं एकत्र आवाभ्यां प्रव्रजितव्यम् - इत्येवं निश्चित्य आगतयोः यदि अनैकध्यं पृथक्प्रव्रज्यायां अरुचिः, ततः उभौ प्रव्राज्य एकस्मादतिरिच्यमानः उपसंपाद्यः // (114) ऊनश्चेत् अन्यस्म उपनिश्रित्यर्थं अर्पयेत् // विंशतिवर्षत्वाद्यदि ऊनः ततो अन्यस्मै भिक्षवे उपनिश्रयार्थं अर्पयितव्यः // यस्य उपनिश्रयार्थं अर्पितः - (115) नासौ तमाच्छिन्द्यात् // येन अर्पितः स एनं (116) उपसंपादयेत् / अप्रयच्छतो बलात्* अनादाय // यतः कल्पार्थं परस्य उपनिश्रयेण दानं, न समर्पितकतया, तस्मात्* अ[ना]च्छेदः // (117) कृत्* दासः // कृदित्यनया संज्ञया ऽमा ऽसिऽ इत्यादेः संज्ञिनो दासे संबन्धिनः प्रत्युपस्थानम् / अतो ऽस्मिन् संज्ञानिदशे यो ऽतिरिक्तो ऽङ्गीक्रियते, स यथार्थं परिणतो ऽपि यथास्थानं संनिविशते / वाक्यं चेदमत्र ज्ञायते / ऽमा ऽसि दासऽ इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च न दासं प्रव्राजयेयु[रुपसंपा]दयेयुः वा इति // (118) व्यसिस्ते कस्यचित्किंविद्देयं अल्पं वा प्रभूतं वा // विगतासिर्व्यसिः / असिशब्दवर्जितः कृत्* वाच्यः इत्यर्थः / ऽअसिऽ इत्यस्य च स्थाने ऽतेऽ इति वक्तव्यम्, ततश्च इदं वाक्यम् - "मा ते कस्यचित्किंचिद्देयं अल्पं वा प्रभूतं वा" इति प्रव्रज्यार्थमुपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न ऋणवन्तं प्रव्राजये[युरुप]संपादयेयुश्च इति मन्त्रात् / अत्र शक्ष्यामि प्रव्रज्योपसंपदं वा आदातुं इति प्रतिजानानं मुक्त्वा, (विन्सू 21) न ऋणवन्तं इति विशेषः प्रतिपत्तव्यः //
(119) जीवत्पितृकं अननुज्ञातं ताभ्यां अदूरदेशं प्रव्रज्यापेक्षं सप्ताहं धारयेत् / जीवतः पितरौ यस्यासौ जिवत्पितृकः, ताभ्यामिति मातापितृभ्याम् / ताभ्यां शब्दाच्च मातापित्रोरत्र पितृ-शब्दः इति // (120) नानारोचितं दूरदेशमपि एनं संघे प्रव्राजयेत् // एनमिति जीवत्पितृकं अनुज्ञातम् / ताभ्यां आजीवत्पितृकस्य तु अनुज्ञातस्य वा मातापितृभ्यां अनारोचनमपि निर्दोषमिति प्रतिपत्तव्यम् / तथा वा ऽजीवात्पितृके पृच्छापाठः - यस्य तावत् भदन्त मातापितरौ कालगतौ भवतः तिर्यग्योनिगतौ वा त[स्य केशावरो-]पणाय सर्वसंघो ऽवलोकयितव्यः, ऽनो हीदं उपालिन्ऽ इति / दूरदेशग्रहणं किमर्थं कृतम् / यतो अन्यतमया गृहपतिपत्न्या पुत्रः प्रव्रजितः आगत्योक्तः - ऽत्वं एषां शाक्यपुत्रीयाणां चौराणां मध्ये कस्मात् प्रव्रजितः, एहि गच्चावःऽ, तयाऽसौगृहीत्वा गृहं नीतः / तदेवं चौर्येण समुदाचारो ऽत्र आदीनवः, न च दूरदेशके अस्या-भावः, स्वस्थानस्थाभ्यामपि श्रुत्वा कृतस्य आदीनवभूतत्वात्, आगत्यापि च आदीनवकरणस्य संभवत्वात्, तस्मात्* दूरदेशमपि इति सूत्रितम् // (121) युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानम् // युक्तमिति नैष नियमः, अवध्याने तेसां भिक्षूणां प्रवृत्तेः इति ख्यापयति // (122) कृत्* अनुज्ञातो ऽसि मातापितृभ्यां अन्ते मुक्त्वा दूरदेशकम् // अनुज्ञतो ऽसि ति मा ऽसीत्यस्य स्थाने एतद् / कृदिति अनेन उक्तस्यान्ते मुक्त्वा दूरदेशकमित्ययं शब्दो ऽधिकः प्रतिपत्तव्यः / ततश्च इदं वाक्यं - अनुज्ञतो ऽसि मातापितृभ्यामिति / प्रव्रज्यार्थमित्यादि यावत् नाननुज्ञातं मातापितृभ्यां प्रव्राजयेयुरुपसंपादयेयुर्वा मुक्त्वा दूरदेशकम् इति //
(123) मा ऽसि ग्लान इत्युपसंपसंक्रान्तं पृच्छेत् // प्रव्रज्यार्थमिति प्रकरणात् गन्तव्यम् // (124) मा ते ग्लान्यं किञ्चिदस्तीति वा // पाथविकल्पस्य एष उपनिबन्धः / द्वयोः अन्यतरः वक्तव्य इति दर्शयति // (125) विशेषत उपसंपादकाः // पृच्छेदित्यस्य परिणतस्य पृच्छे[यु]रित्यनुषङ्गः भवन्ति खलु पुरुआआणामेते एवं-रूपाः काये कायिकाबाधाः, तद्यथा - कुष्ठं गण्डं [च] इत्यादि-विशेषयुक्तम् / न एतावन्मात्रकं ऽमा ऽसि ग्लानऽ इति // (126) न ग्लानं प्रव्राजयेयुरुपसंपादयेयुर्वा // आरोचक-प्रव्राजक-श्रामणेरत्वोपनायिसंघानां बहूनां व्यापार इति बहुवचनम् // (127) कृत् प्राक्प्रणिहितात् // "न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं" इत्यतः प्राक् यावन्निर्देशः सर्वत्र कृदिति अधिकृतं वेदितव्यम् / सर्वे ते कृत्संबंधिनः // (128) नास्ति अस्य प्ररोहणधर्मता इति च // यो ऽत्र प्रतिषिध्यते निर्मितादिः तस्य ऽचऽ-शब्दः प्राक्प्रणिहितादिति संबंधार्थः // (129) नाशनं एवंविधस्य लिङ्गिनः // एवंविधस्येति अप्ररोहणधर्मिनः / लिङ्गि [न] इति प्रव्रजितस्य उपसंपन्नस्य वा // गृहस्थभूतस्य तु भिक्षुमध्ये (विन्सू 22) वसतो यात्रिक-प्रयोजनवशात् नाशनं न वा // इदानीं कृदादिसंबन्धिनो निर्दिश्यन्ते (130) निर्मितः // ऽमा ऽसि निर्मितऽ इति प्रव्रज्यार्थं उपसंक्रान्तं पृच्छेत्, उपसंपादकाश्च, न निर्मितं प्रव्राजयेयुः उपसंपादयेयुर्वा // ऽनास्त्यस्य प्ररोहणधर्मता, नाशनं एवं-विधस्य लिङ्गिनःऽ इत्येवं अन्यत्रापि पण्डकादौ योज्यम् // (131) पण्डकः // पाञ्चविध्यमस्येति // अस्येति पडाकस्य // [पञ्चविधं कतमम् /] //
(132) जात्या-, पक्ष-, आसक्तप्रादुर्भाव-, ईर्ष्या[प्रादुर्भाव]-आपत्कृत्* इति // जात्या जाति पण्डको, यो जन्मना एव नस्त्री न पुरुषः // पक्ष इति यः पक्षे स्त्री पक्षे पुरुषः स पक्षपण्डकः / पक्षो ऽर्धमासः // आसक्तप्रादुर्भाव इति यस्य परेण उपक्रान्तस्य प्रादुर्भावो भवति [स] आसक्तपण्डकः // ईर्ष्यया यस्य परेण उपक्रान्तं स्त्रियं दृष्ट्वा प्रादुर्भावो भवति स ईर्ष्यापण्डकः // आ[प]त्कृत् इति आपत्पण्डको, यस्य छेदादिना पुरुषेन्द्रियं विनष्टं भवति // (133) अन्त्यस्यात्र दोषभक्तौ नाशनम् // अन्त्यस्येति आपत्पण्डकस्य // सपदि पण्डकदोषं भजते, ततो नाशयितव्यो, नान्यथा इत्यर्थः // (134) स्तेय-संवासिक // इत्यस्य लक्षणमाह-जानतो अकृततां विधेः उपसंपदो अप्ररूढतां वा द्वितीयायां संघेन सार्धं कर्मणः प्रत्यनुभूततायां तत्त्वम् / उपसंपद्गतो यो विधिः ज्ञप्त्यादिकः तस्य अकृतत्वं जानतः, कृतत्वे ऽपि अरूढतां, यद्यपि विधिकृतो न तूपसंपद्रूढः, ऊनविंशति-वर्षता[दि]ना दोषेणेति / संघेन सार्धं द्वितीयस्य कर्मणः प्रत्यनुभवे तत्त्वं इति स्तेयसंवासिकत्वम् // ननूक्तम् - ऽयतश्चोपालिन्, प्रकृतिस्थैः भिक्षुभिः सार्धं द्वे त्रीणि वा पोषधकर्माणि प्रत्यनुभूतानि भवन्ति इयता स्तेय-संवासिकऽ इति / अथ कस्मात् ऽत्रीणि वाऽ इत्येतन्न सूत्रितम्? - यतो नैतन्नियमकारि वचनम्, अपि तु प्रबन्धस्यैतद् प्रदर्शनम् / प्रबन्धमारभमाणो ध्वस्यत इति / इतरथा द्वे इति अस्य व्यवस्थानस्य ऽत्रीणि वाऽ इत्येतद् उच्छ्वास इति विज्ञायते // ततश्च कृत्रिममेतद् प्रज्ञप्तिकं, न धर्मतया व्यवस्थायीत्यापद्यते च //
अत्र च ग्रन्थो ऽपि / कथावस्तुनि स्यात्, येन वस्तुना स्तेयसंवासिको न प्रव्राजयितव्यो नोपसंपादयितव्यः, तेनैव वस्तुना प्रव्राजयितव्यः उपसंपादयितव्य स्यात् [इति चेत्] आह - येन द्वौ त्रयो वा पोषधाः प्रत्यनुभूता भवन्ति, अयं न प्रव्राजयितव्यो नोपसंपादयितव्यः / येन तु सकृत्पोषधः अनुभूतो भवति अयं प्रव्राजयितव्य उपसंपादयितव्यश्चेति, न हि अन्यथा एकंशेन, द्वयप्रत्यनुभवेन अर्हत्वम् // युक्तिः पुनः यस्मादत्र प्रथमं प्रवर्तमानः साशंको भवति, नास्य तस्मिन् मिथ्यात्वं प्रकृतितां गतं भवति, प्रबध्नंस्तु तन्मयतां आपद्यत इति // ननु अत्र पोषधग्रहणं कृतम्, तदेह कस्मात् अविशेषेण सर्वकर्मप्रत्यनुभावः, उच्यते - संघसंनिश्रये एतद्-करणीये अन्तर्भवनम्, यत् पोषधे तुल्यं वा अन्येषामपि कर्मणां संघाभिनिश्रयत्वम् // तस्मात् निदर्शनत्वेन (विन्सू 23) पोषधग्रहणं व्यवस्थितम् // अपरिपूर्ण-उपसंपद्-आपत्तिपृच्छाकर्मणि अत्र आगमो ऽपि भवति / ज्ञप्तिचतुर्थेन कर्मणा अनुपसंपन्ने संघकर्मणि पोषधे वा प्रवारणायां वा द्वादशपुद्गलो द्दीष्टानुभूतिः, एतावता स्तेयसंवासको भवति इत्युक्तम् / यावत् अनुपसंपन्नेन अकरणीयानुलक्षितं संघस्य प्रव्रज्या ऽरोचनादि तद् सर्वसंघाघीनत्वात् [संघ?] कर्मपक्षत्वम् / ततः कर्मग्रहणमपि अत्र प्रतिपत्तव्यम्, यदि तस्य प्रव्रज्या ऽरोचन-श्रामणेरत्वोपपत्ति-रहोनुशासन पारिशुद्धि संग्रह-परिवासाद्यारोचनानां अनुप्राप्तीनां अपि प्रत्यनुभूतस्य स्तेयसंवासिकत्वं व्यवस्थितम् // (135) तीर्थिकप्रक्रान्तक इति //
तत्स्वरूपपरिज्ञापनार्थम् - (136) समात्तेदं-प्रव्रज्यस्य तद्दृष्टेः निक्षिप्येदं चीवरं तेन ध्वजेन तत्रारुणोद्गमने तत्त्वम् // इत्युक्तम् / समात्तेदं प्रव्रज्यस्य इति समादानेन प्रव्रज्या अस्य, तद्दृष्टेरिति तीर्थिकानां दृष्टौ, अस्यां स्थितः तद्दृष्टिकः / चीवरमिदं निक्षिप्य इति सुगतभिक्षुवेषं उत्सृज्य / तेन ध्वजेन इति तीर्थिकस्य ध्वजेन / तत्र इति तीर्थिकस्य अवस्थितौ / अरुणोद्गमने तत्त्वम् तीर्थिकावक्रान्तकत्वम् // (137) तदकृतमपि स्तेयवत् // तथागतवेषमुत्क्षिप्य अभिकांक्षितस्य तीर्थिकस्य अभिकांक्षितलिङ्गेन आच्छाद्य उषिते अरुणोद्गमनं इति / इदं तथागतलिङ्गसमादानम्, न तीर्थिकदृष्टिः / इदं तदकृतम् // पश्चात् इमस्मिन्नकृते अन्यथापि तीर्थिकगतत्वं भवति चेत्, तद्यथा स्तेयवत् // स्तेयस्या ऽपि अन्तर्भूतम्(?) ततो अनुभूतिद्वयमित्यर्थः / (इति) स्तेयसंवासिकत्वं उक्तम् // (138-145) मातृघातकः // पितृघातकः // अर्हद्घातकः // संघभेदकः // तथागतस्यान्तिके दुष्टचित्तेन रुधिरोत्पादकः // भिक्षुणीदूषकः // चतुर्णां पाराजिकानां अन्यतमामापत्तिं आपन्नः [न वेति] // न अभ्युपगतो निमित्तविपर्ययं प्रणिहितं प्रव्रज्योपसंपदोः अकरणम् // इति निमित्तविपर्ययः इति येन निमित्तेन कलहविवादादिना तर्जनीयादि इष्टकर्मकरणं भवति तस्य विपर्ययः कलहविवादाद्यभावः // प्रणिहितानभ्युपगमो हि साधनत्वाभावः // (146) उपसंपदः क्षान्ति-ज्ञप्तिरिति //
अक्षान्ता अनुपसंपन्नाः, उपसंपन्नत्वक्षमत्वात् पुनः अन्यक्षान्तिकार्यं न क्षान्तिरिति क्षान्तिकार्यम् / ऽभदन्ताः भिक्षवः, तर्जनीयकर्मणः तावत् उपसंपत्करणे उपसंपदितिकरणं अनुपसंपदिति वा करणं (इति) (विन्सू 24) उपमण्डलोपसंपद् उक्ता / उपसंपत्करणे सातिसारे सति, क्षान्तिर्हि ज्ञप्तिः इति निदाने उक्तम् // (147) उपसंपदं अनुपपन्नश्चेत्, सामग्री पुनः प्रणिधानम् // इति उपसंपदः कलहाकरणत्वादि निमित्तविपर्यये अनुपपन्नः चेत् सामग्र्यां पुनः कर्म कर्तव्यमित्यर्थः // (148) अदर्शनोक्तौ मृषा चेत्, प्रायश्चित्तिकम् // इति आपत्तिः मया न दृष्टा इति मृषोक्तौ आपत्तिकरणे अस्य प्रायश्चित्तिकम् // एतादृशन्यायवतः मृषावादेषु प्रायश्चित्तिकाभावः न प्रज्ञप्तव्यः //
हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः / अनोष्ठकाश्च चित्राङ्गाः अतिवृद्धा अतिबालकाः //
खञ्जः काण्डरिकः काणः कुणिः कुब्जो ऽथ वामनः / गलगण्डमूकबधिराः पीठसर्पी (च) श्लीपदः //
स्त्रीच्छिन्ना भारच्छिन्ना मार्गच्छिन्नाश्च ये नराः / तालमुक्ताः कन्दलीच्छिन्ना एवं-रूपा हि पुरुषाः //
-प्रतिक्षिप्ता महर्षिणा //
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसंपदा / आख्याता सत्यनाम्ना वै संबुद्धेन प्रजानता // इति //
हस्तच्छिना इति मणिबन्धमुद्गृह्य येषां हस्ताः छिन्नाः // पादच्छिन्ना इति येषां आगुल्फं छेदः ते पादच्छिन्नाः // येसां हस्ताङ्गुलयो नागफणसडृशाः अङ्गुलीफणहस्तकाः / येषां ओष्ठकद्वयाभावः ते अनोष्ठकाः // येसां काये चित्रचिह्नानि ते चित्राङ्गाः / हस्तादिषु चित्रितः चित्राङ्गाः / अविरतं स्रवन्त इव इत्यादयः // अतिवृद्धा इति शतवार्षिकादयः / अतिबालका इति काकोड्डापने ऽसमर्थः असप्तवर्षकः // खञ्जा इति पादेन खञ्जगमनाः // काण्डरिक इति सक्थिपक्ष-गृध्रसीवातेन संध्वस्तगमनः // काणः एकाक्षः // कुणिः यस्य मणिबन्धपक्षे चिह्नमात्रहस्ते सति किञ्चिदपि करणे असमर्थः // गलगडः ग्रीवा-गण्डिका यस्य स गलगण्डः // मूकः वागसमर्थः // पीठसर्पि इति आधारार्थं हस्तद्वयं प्रतिष्ठाप्य चतुरूपेण सर्पति / द्वितीयः पर्यायः फक्कः इत्यपि / स्त्रीच्छिन्नः // स्त्रीणां उत्कटसेवनया क्षतवीर्यः, यस्य कायः असुखः स्त्रीच्छिन्नः // तथैव अक्षमभारधारणात् (विन्सू 25) मार्गगमनातिशयत्वात् च यथानुक्रमेण भारच्छिन्ना मार्गच्छिन्नाश्च // तालमुक्ताः, ये सम्यग्भोजने असमर्थत्वात् उद्गिरन्ति // केचिदेवं वदन्ति - ये निरुद्धक्रमणेन हतग्रन्थित्वात् गमनावरोधेन इव परिक्रमाकारिणः, ये च युवानः कर्षान्तर्व्यांध्यादिभिः तथैव असमर्थिताः अपर्यन्ताः, प्रबलजीर्णतया च उपक्लिष्ट -?-सदृशाः सर्वकार्येषु असमर्थाः ते कन्दलीच्छिन्ना इव, तैः न यौवनहानिः इत्यर्थः //
इति संग्राह्यगतम् //
समाप्तं च प्रव्रज्यावस्तु //
(व्) क्षुद्रकादिगतम्
(149) कृत्* राजभटः / अननुज्ञातं राज्ञा अदूरदेशिकम् // इत्यस्मिन् ऽन राजभटो ऽसिऽ इति प्रव्रज्यात्वमुपसंक्रान्तं प्रष्टव्यम् / उपसंपादकैरपि राजभटः राज्ञा ऽननुज्ञातः अदूरदेशिकः न प्रव्राजयितव्यः उपसंपादयितव्यश्च इति // यः प्रव्रज्यावस्तुमार्गं गृह्णाति तस्मै एतेन उपदेष्टव्यम् / यो राजा वा तद्विजितः प्रभुर्वा, तेन येन केनचित् मार्षेंण वा तत्पदसंबद्धः स अत्र अदूरदेशिकः // (150) कृत्* चौरो प्रज्ञातः // इति राज्ञा ना ऽननुज्ञातः अदूरदेशिकः इत्येतन्निराकरणार्थ पुनः कृच्छब्दः / चौरो] नासि ध्वजबद्धकः इति प्रव्रज्यार्थं उपसंक्रान्तः पृच्छेत् उपसंपादकाश्च, न चौरं ध्वजबद्धकं प्रव्राजयेयुः उपसंपादयेयुर्वा / इत्येतावता एवमपि अत्र विधानस्य भावः // प्रज्ञातचौरो ध्वजबद्धकः / यत्र यस्य न प्रज्ञायमानत्वं न तत्र तस्य ध्वजबद्धकत्वम् // (151) न रथकार-[चर्मकार]-चण्डाल-पुक्कल-तद्विधान् प्रव्राजयेत् // रथकारः चर्मकारः, तद्विधान् इति अभोक्ष्य-[अनु]श्रामणेरत्वशिक्षमाणत्व-उपसंपादना ऽनर्हत्वं रथकारादीनां अप्रव्राजने निमित्तम् / तस्मात् आसां अपि एतदकरणीयत्वस्य प्रतिपादनम् // (152) निदर्शनं हस्तच्छिन्नादयः // यदेतद् प्रव्रज्यावस्तुनि हस्तच्छिन्न-पादच्छिन्नेत्यादि उक्तं निदर्शनं तद्वेदितव्यम्, न परिसंख्यानम् / येषामेतद् निदर्शनं तानीदानीं उपन्यस्यति-
हरिद्रकेशा हरिकेशा हरितकेशास्तथैव च / अवदातकेशाश्च ये नरा नागकेषा अकेशकाः / घातीशिरा बहुशिरा अतिस्थूला विपाटकाः / खरसूकरशीर्साश्च द्विशीर्षा अल्पशीर्षिकाः / हस्तिकर्णा अश्वकर्णा गोणमर्कटकर्णकाः / खरसूकरकर्णाश्च एककर्णा अकर्णकाः / लोहिताक्षा अतीवाक्षा चुल्लाक्षा अतिपिङ्गलाः / काचाक्षा बुद्बुदाक्षाश्च एकाक्षाश्चाप्यनक्षकाः / [हस्ति]नासा अश्वनासा गोणमर्कटनासकाः / खरसूकरनासाश्च एकनासा अनासकाः / हस्तिजोडा अश्वजोडा गोणमर्कटजोडकाः / खरसूकरजोडाश्च एकजोडा अजोडकाः / हस्तिदन्त अश्वदन्ता गोणमर्कटदन्तकाः / खरसूकरदन्ताश्च एकदन्ता अदन्तकाः / अतिग्रीवा अग्रीवाश्च स्कन्धाक्शा अतिकुब्जकाः / लाङ्गूलच्छिन्ना वाताण्डा एकाण्डा अप्यनण्डकाः / अतिदीर्घा ऽतिह्रस्वाश्च कृशाश्चा ऽतिकिलासिनः / चतुर्भिश्च छविवर्णैः खेलाविकटकास्तथा / एवं-विधानामपि तं प्रतिक्षेपं अधारयेत् //
तमिति हस्तच्छिन्नाः पादछिन्नाः इत्येवमादिकं प्रतिक्षेपं एवं विधानामपि प्रधारयेत् इत्यर्थः // हरिद्रा इव रक्ता केशा येषां ते हरिद्रकेशाः / सिंहकेशा हरिकेशा // नील्या इव रक्ता केशा येषां हरितकेशाः // जन्मना एव शुक्ला केषा येसां ते अवदातकेशा, न तु पलितिनः // हस्तिन इव येषां केशा ते नागकेशा // ताम्रभाजनमिव श्लक्ष्णं विगतकेशशिरो येषां ते अकेशकाः // यस्य शिरसि तस्रः चतस्रो वा स्थूलवलयः, याभिः निम्नोन्नतं लक्ष्यते, स घाटोशिरः // येषां पिश्वितमिव शरीरं वैपुलवतः // [पृथग्वत्] संक्षिप्तकं ते विपातकाः // यस्य अतिसंक्षिप्ते वर्तुलाक्षिणी ते संचूर्णाक्षाः [=चुल्लाक्षाः?] // शिरसो ऽन्तः प्रविष्टत्वात् स्कन्धस्थाने अक्षिणी यस्य असौ स्कन्धाक्षः // लाङ्गूलं यस्य प्रस्रवकरणं त[द् यस्य छिन्नं] स लाङ्गूलछिन्नः // येसां स्वल्पेना ऽपि व्यापारेण विशिष्टश्रमोत्पत्तिः ते ऽतिकिलासिनः, क्लमस्यैतदभिधानम् // चतुर्भिश्च छविवर्णैः इति नीलपतीलोहितावदातैः (निन्दितरूपाः) / ये एवंविधा वर्णविशेषाः तेषां एव प्रतिक्षेपः न तु ये देवानामिव प्रशस्यरूपाः // एवं तावत् एवंविधानां प्रव्राजनादिकं प्रतिक्षिप्तम् / प्रव्रजितोपसंपन्नानामेषां अपि संग्रहो न इत्यु पदर्शनाय आह // (153) न जातिकायदुष्टं प्रव्रजितं उपस्थापयेत् //
रथकारादिकं अभोक्ष्यं जातिदुष्टम् / हस्तच्छिन्नादिकं वर्णतः संस्थानतो वा कायेन (विन्सू 27) दुष्टं / नोपस्थापयेत्, वासस्थाने ऽपि अन्तर्दाने, न अनुपरिवारित्वेन च, न केवलं निश्रयदाने / तथा च भिक्षुणा पर्षद् दूषकपर्षद्, न उपस्थापयितव्या, उपस्थापयति सातिसारो भवति / इत्युक्त्वा कियता पर्षद् दू[षका] पर्षद् इति वक्तव्या? / जातितो वर्णसंस्थानेन च // कथं जातितः? / रथकारचण्डालपुक्कसकुलात् // कथं वर्णसंस्थानतः? हरिद्रकेशा इत्याद्यत्रोक्तम् // (154) युज्यते नैकस्योपाध्यायस्य एकेन वचसा उपसंपादनं आत्रयात् / अनेकस्येति द्विप्रभृतेः / एक उपाध्यायः अस्येति एकोपाध्यायः, तस्य / एकेन वचसा इति एकप्रज्ञप्त्या / कि यतो ऽनेकस्य इत्याह / आत्रयात्* त्रिभ्यो यावत् युज्यते, न परेण इत्यर्थः // ऽन गणो गणस्य कर्माणि करोतिऽ इत्यागमात् // केचित् - अंगीकृतोपाध्यायभेदं अत्र ग्रन्थं कुर्वते - ऽलभ्यं भदन्त एककाले एकक्षणे एकेन कर्मकारकेण एकया ज्ञप्त्या द्वाभ्यां कर्माणि कर्तुम्? कृतानि च वक्तव्यानि? न च संघः तेन सा तिसारो भवतिऽ? - ऽलभ्यं उपालिन् स चेत् कर्मकारको भिक्षुः प्रतिबलो भवति / उपाध्यायानां नामपरिकीर्तनं कर्तुं उपसंपत्प्रेक्षाणां च ज्ञप्तिं च न हापयति कर्म च करोतिऽ इत्यादि // आर्य-उपालिनो दासकः पालकश्च श्रामणेरकौ सप्रेमकौ गतौ, अन्योन्यानुरक्षया ऽयुगपत् नोपसंपाद्यौ, [तस्मात् पृथक्] द्वौ नोपसंपद्यते // एतन्निदानं एकोपाध्यायस्य अनेकस्य उपसंपादनानुज्ञाने, अस्मान्निदानात् एकोपाध्यायस्य अनेकस्याङ्गीकरणं अत्र निदानात् दृश्यते / इत्येवं अङ्गीकृतं न चैतं प्रयुज्यते //
(155) आभावः तुल्यसमयानां परस्परं सामोचीकरणस्य // एककाले एककर्मवाचनोपसंपादितानां, पृथग्वा उपसंपन्नानां, येषां तुल्यसमयः तेसां सामीचीकरणस्य परस्परं अभावः / सामीची वन्दना // (156) संप्राप्ते प्राथम्यम् // तुल्यसमयानां लाभकर्मादानोद्देशादि स्थानं, यः प्रथमं संप्राप्तः ऽयथागतिकया लाभो ग्रहीतव्यःऽ इति वचनात् तस्य लाभग्रहणे प्राथम्यम् // कर्मादाने यः पश्चादागतः तेन पूर्वकर्म कर्तव्यम् पश्चादागतः कर्मादाने प्रथमं इति वचनात् / प्रथमं कार्यतादि अयमर्थः / लाभग्रहणे प्रथमं स्थानं संप्राप्ते प्राथम्यम्, कर्मादानकरणे पञ्चात्स्थानं संप्राप्ते प्राथम्यमिति // (157) न द्व्यङ्गुलादूर्ध्वं आरण्यकः केशान् धारयेत् // (158) नैतद् अर्वाक्त्वात् ग्रामान्तिकः // अर्वाग्भावः अर्वाक्त्वम् / एतस्य द्व्यङ्गुलस्य अर्वाग्भावात् ऊर्ध्वं द्व्यर्घाङ्गुल प्रमाणता संप्राप्ता / यावन्न धारयितव्या इत्यत्र ज्ञानं भव[तीति वेदितव्यम् / ग्रन्थो ऽ]त्र - आरण्यकेन भिक्षुणा द्व्यङ्गुला बाला धारयितव्या, अर्वाक् ग्रामान्तिकेन इति // केचित् - ऽद्व्यङ्गुलावर्ताऽ इति द्व्यङ्गुलस्थाने अधीयते / यद्यस्य पाठस्य द्व्यङ्गुलप्रमाण आवर्तो येषां इत्यर्थः, अनर्थान्तरत्वं पूर्वकात्पाठात् // अथ द्व्यङ्गुलस्य आवर्त इत्ययुक्तता / लिङ्गान्तर्धानभूतत्वात् इयतो (विन्सू 28) दीर्घत्वम्, अस्य येन च निदानदोषे शिक्षा पदं प्रज्ञप्तं तद्दोषापातस्य च तदवस्थत्वात् / यस्मात् अतिरिक्तपञ्चाङ्गुलमेत्त्प्रमाणं, प्रव्रज्याकालिकमुण्डनादिविधानात् परतो ऽपि मुण्डनादिः करणीयत्वं न्याय्यम् / इत्यत्र अस्य स्थाने विनिवेशनम् // (159-162) न गोलोमकान् केशान् छेदेत् //
मुक्त्वा व्रणसामन्तकम् // न चूडां कारयेत् // न संबाधि-[प्रदेशे]रोमकर्म कारयेत् // इति // न कारयेदिति अनुषङ्गः / संबाध-प्रदेशो गुह्यस्थानम् // (163) कारयेत्* व्रणनिमित्तं अरूढौ अन्यथा विज्ञान् स्थविरस्थविरान् अवलोक्येति // अरूढौ अन्यथेति - भगवानाह - ऽकषायैः (पञ्चभिः ततः) शोधयितव्यम् / पश्चात् यदि स्वास्थ्यं न भवति, सूत्रधर-विनयधर-मातृकाढरान् भिक्शून् आपृष्ट्वा संबाधश्मश्रु कारयितव्यम्ऽ इत्यत्र ग्रन्थः // तत्र निदर्शनमेतद्, शोचनविधानं युज्यते इति प्रकारान्तराण्यपि चिकित्सितस्य अवरुद्धानि, स्थविरस्थविरान् भिक्षूनवलोक्य व्रणनिमित्तं प्राणकनिमित्तं वा संबाधे प्रदेशे रोमकर्म कारयितव्यमिति / अपरेषां अत्र ग्रन्थः, तत्र प्रमुखविदितं कृतमिति एतदवलोकनम् / द्वाभ्यां च वृद्धाभ्यां प्रमुखत्वं शीलतो धर्मविनयाभिज्ञतया च, इत्युभयमपि एतद् अवलोक्यगतं संगृहीतम् विज्ञातं तत्र / पिटकधरत्ववचनं विज्ञानम् / प्राणकनिमित्तं अत्र व्रणगतप्राणकाभिप्रायं युज्यते, न यूकाद्यभिप्रायम् / अस्य च व्रणनिमित्तत्वेनैव अन्तःकृतत्वमिति न गृहीतम् // (164) न अङ्गनाडीमपि [तन्निमित्तं] कारयेत् // अतन्निमित्तं इति अव्रणनिमित्तं / जङ्धामुण्डनं अङ्गनाडी // (165) न अन्यत्र काये // इति // संबाध-अङ्गनाडीभ्यां अन्यत्र काये ग्रीवातः प्रभृति यः कायानुव्यवहारः तत्र एष रोमकर्म-प्रतिषेधः / तस्मान्नानेन केशश्मश्रुणो ऽपि कर्तव्यताप्रतिषेधः / नासारोम्णः शातनस्य अभूद्वचनं इति प्रसिद्धे प्रत्ययः //
मातृकायामत्र ग्रन्थः - केशश्मश्रू स्थापयित्वा तदन्येषु अंगप्रत्यंगेषु रोम न शातयितव्यम् / यः शातयेत्* दुष्कृतः स्यात् आपत्तिः इति // (166-168) क्षुरधारकं वा नखच्छेदं भजेत वासीमुखं वा / नैषां मृष्टिं भजेत् // भजेत लेखं मलावकृष्ट्यै / न चीवरेण केशश्मश्रू अवतारयेतेति // उपरिप्रावरणस्य अत्र ग्रहणं युज्यते, न अन्तर्वाससः / सर्वस्य च न संघाटि-उत्तरासंगयोः एव / अत्र परिभुक्तस्य अन्यदुपरिप्रावरणं युज्यते / इत्यत्र प्रतिक्षेपनिमित्तस्य व्यवस्थापनात् // (169) धारयेत् केशप्रतिग्रहणम् // इति चीवरं केशप्रतिग्रहणम्, तदर्थमेव यस्य उपयोगः / प्रतिगृह्यन्ते अनेन केशाः इति तु निरुक्तिः / चीवरमिति कुत एतद्, ऽचीवरं केशप्रतिग्रहनं अधिष्ठानंऽ इति अधिष्ठानमन्त्रे वचनात् / कथं पुन एतद् विज्ञायते प्रावरणार्थमिति? न पुनः तत्रैव केशानामवतारणार्थमिति / अभावे संकक्षिकाभिधानात् / अप्रतिक्षेपं हि संकक्षिकायां केशावतारणम् // (170) अभावे (विन्सू 29) संकक्षिकया // केशप्रतिग्रहणस्य चीवरस्याभावे संकक्षिकया आवृतया केशश्मश्रू अवतारयेत् // (171) न संस्तरे / इति न केशश्मश्रू अवतारयेत् / निदानेष्वपि आदावेव नखच्छेदनम् इति एतदन्ते ग्रन्थः // (172) न यत्र सांधिक-संमार्जनीनिपातः // इति विहाराधिकारिकमेतद् // (173-174) अवतारयेत प्रासादादौ जीर्णो ग्लानो वा वातातपवर्षेषु च // तं प्रदेशं परिकर्मयेत् // निष्केशत्वं निरुदकत्वं च परिकर्मणः / तद्यथा संपद्यते तथा करणीयम् // (175) संकिर्णे बालोच्छारणम् // ससंकारे प्रदेशे इत्यर्थः // (176) एवं नखच्छेदनम् //
न संस्तरे इत्यादेः एषो ऽतिदेशः / केशप्रतिग्रहे निपुणग्राहिणी क्रियमाणा भूमौ कृता भवति / तस्मात् नात्रच्छेदनेन यत्र सांधिक-संमार्जनी निपातः / इत्यस्य अतिक्रान्तत्वं, परिकर्मभव्यता वा भूमेः / केशश्मश्रु-अवतारणे अस्य परिहारस्य असंभवो वेदितव्यः // (177) न अनधिष्ठिता भिक्षुणी एषा पुरूषेणावीतरागा केशांश्छेदयेत् // एषा इति भिक्षुणी अवीतरागा इति ऽअनापत्तिर्यदि वीतरागा स्यात्ऽ इत्यत्र ग्रन्थः / छेदयेत इति मुण्डनस्य चैतदत्रिअवं वचनम् / अथ महाप्रजापती गौतमी पञ्चभिः शाक्यायनिकाशतैः सार्धं स्वयमेव केशांश्छेदयित्वा काषायाणि वस्त्राणी आच्छाद्य इति केशच्छेदनस्य उक्तस्य ऽ[एवमेव त्वं गौतमी मुण्डा शोभना]ऽ इति मुण्डात्वेन अभिधानात्; दीर्घत्वात् केशानां अन्य-मुण्डने सनिमित्तमेतदभिधानम् / अन्यत्र अनुव्यवहारः - अवीतरागा भिक्षुणी भिक्षुण्या अनधिष्ठिता न [पुरुषेण] केशांश्छेदयेत् इत्यर्थः // (178) संरज्यमानां अधिष्ठात्री समनुशिष्यात् - ऽस्मृतिमुपस्थापय किमस्मिन् कलेवरे सारमस्तिऽ इति / संरज्यमानां इति कल्पके तां भिक्षुणीम् // (179) मातृसंज्ञा भगिन्या दुहितुश्चेति कल्पके [उपस्थापय] इति / संरज्यमानां अधिष्ठात्री समनुशिष्यात् - मात्रादिसंज्ञामुपस्थापय इति // (180) स्नानं कृते ऽत्र कुर्वीत इति // अत्र इति केशश्मश्रु-अवतारणे // (181) पञ्चाङ्गिकं वा शौचमिति // कल्पान्तर-उपादानार्थं वा शब्दः // सत्यपि पानीयस्य संभवे, कल्पत एवैतद् - ऽभिक्षुणा केशप्रतिग्रहणं धारयितव्यम्, स्नातव्यं वा, अन्ततो हस्तपादा प्रक्षालयतिव्याःऽ इत्यत्र ग्रन्थः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
