Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र 1, प्रव्रज्यावस्तु
- Thông tin
- GRETIL — P.V. Bapat and V.V. Gokhale: Vinayasūtra and Auto-commentary on the same by Guṇaprabha [Guṇaprabha viracitaṃ Vinayasūtravṛttyabhidhānasvavyākhyānam]. Patna 1982 (Tibetan Sanskrit Works Series, 22).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
(182) न नग्नं स्नायात् इति / त्रिमण्डलाच्छादितत्वे परिपूर्णं अनग्नत्वम् / यावत् त्रिमण्डलाच्छादिते रोमाङ्गजातयोः छादित्वम्, तावत् छादितत्वेन सर्वस्य (अपरस्य) अपरिहर्तव्यता इति एतद् अत्र सामर्थ्यात् गन्तव्यम् // (183) न भिक्षुणी पुरुषतीर्थे स्नायात्, न स्त्रीतीर्थे चूर्णेन इति // पुरुषतीर्थे भिक्षण्याः स्नानस्य एव प्रतिषेधः / स्त्रीतीर्थे तु मुद्गचूर्णादिना, केवलस्य (प्रादेशिक स्नानस्य) अप्रतिवेधः / ऽद्वादशवर्गिण्यः स्त्रीतीर्थे स्नान्ति, गृहपति-पत्नीनां स्नान्तीनां औद्धत्यं कुर्वन्ति, माषचूर्णादि क्षिपन्ति / भगवानाह - न भिक्षुण्या स्त्रीतीर्थे चूर्णेन स्नातव्यम्ऽ इत्यत्र ग्रन्थः // (184) कल्प्यते (विन्सू 30) मुद्गादेः गन्धपरिभावितम् चूर्णमिति // सर्वाधिकारिता ऽत्र // (185-186) प्रतिग्रहणमस्य // भैषज्यपरिभावितस्य च ग्लानेन // इति, ऽकल्पयतेऽ इत्यनुषङ्गः // (187) न भिक्षुणी योषिति चूर्णं क्षिपेत् // स्नानकाले अपि अन्यदा ऽपीति-विशेषापरिग्रहात् प्रतिपत्तिः नग्न (त्व)-परिहारप्रसंगेन उच्यते // (188) नो ऽग्रथिताधस्त्यपूर्वपश्चिमनिवसितान्तो निश्रयणीमधिरोहेत् // निवसितस्य वाससः पूर्वपश्चिमाधस्त्यः अधस्ताद्भवान्तः अग्रथितो येन इत्यर्थः / कौपीनदुष्टि-परिहारम् एतद् / वृक्षाद्यधिरोहे ऽपि च कौपीनदर्शनस्य संवित्तिः / तस्मात् निदर्शनमत्र निश्रयनी-ग्रहणं प्रतिपत्तव्यम् / आपदि अधिरोहे यत्प्रतीकारार्थं यो ऽधिरोहः तस्य चेत् निवसनस्यैव ग्रथनेनोपरोधः अनुरक्ष्यत्वमस्य / न चेन्नेति, वृक्षाधिरोहानुज्ञानात् गन्तव्यम् // (189) न अन्यदा एवं स्यात् //
निश्रयण्यधिरोहणाद् अन्यस्मिन्काले न ग्रथिताधस्त्यपूर्वपश्चिम निवसितान्तेन [सामीचीस्थितेन] भवितव्यमित्यर्थः / अन्तर्मुखस्य कौपीनपक्षत्वं इति तन्नाग्न्यस्य अत्र प्रदेशे परिहरणमुच्यते / (190) न अप्रतिच्छन्न-वक्त्राय अवृतिं भजेत // अप्रतिच्छन्नस्य वस्त्रादिना या अवृतिः अप्रतिच्छन्नवक्त्राय अवृतिस्तां न भजेत् / ऽविजृंभमाणेन भिक्षुणा हस्तेन मुखं प्रतिछादयितव्यम्ऽ इत्यत्र ग्रन्थः / निदर्शनमत्र हस्तो व्यवतिष्ठते // विजृंभणं च कामकारो यद्विधारणं प्रतीतमधिकृत्य एतदेवमुक्तम् / असति आशक्तौ यदपावरणं न तद्भजने दोषः // (191-192) धारयेत् स्नात्रशाटाकम् // आसक्तिः द्विपुटे प्राणकानाम् / सक्तिरिति वक्तव्यं ग्रन्थच्छायायां संपत्त्यर्थं आ-इति उपादानम् / कारणादेशमेतद् / यस्मात् सक्तिः द्विपुटे वाससि प्राणकानां, तस्मान्न सप्राणके ऽम्भसि तद्विधेन वाससा स्नातव्यमित्यर्थः // (193) त्रैचीवरिको ऽपि इति // धारयेत् स्नात्रशाटकमित्युनुबन्धः / ग्रन्थो ऽत्र - "भगवानाह - त्रैचीवरिकेण भिक्षुणा स्नात्रशातको धारयितव्यः" इति // केचित् ऽअनधिष्ठाय धारयितव्यःऽ इत्यधी यते, तद्युक्तम् / स्नात्रशाटकं समेत्य अनुत्पादिते संकल्पे नैःसर्गिकस्य उत्थानात् नियतं एष संकल्पो ऽत्र उत्पादयितव्यः / अस्य चोत्पादने जातं भवति अत्र मानसस्य अधिष्ठानस्य कर्तव्यत्त्वम् / ततश्च अन्यस्याधिष्ठानस्य करनं युक्तम्, सुकरत्वात् वाचिकस्य अस्मादेव अनुज्ञानात् न अनेनास्य समादानम्रंशो भवतीति वेदितव्यम् // (194) पत्राणि अभवे दत्त्वा पुरतः पृष्ठतश्च प्रतिगुप्ते प्रदेशे स्नानमिति //
सर्वे न त्रैचीवरिका एव / [अत्र ग्रन्थः] - अपरेषां स्नात्रशाटकस्य प्राप्तिर्नास्ति, भगवानाह - तैः पत्राणि पुरतः पृष्ठतश्च दत्वा प्रतिगुप्ते प्रदेशे स्नातव्यमिति अविशेषेण एतदभिहितम् // (195) मोचनेन सक्तस्य प्राणिनः अपगतिः // एकपुटात् अत्यासक्तिः द्विपुटे प्राणकानामिति अतः प्रतिपत्तिः / नास्य शाटके द्विपुटत्वस्य अभावः / तस्मात् नानेन सप्राणके ऽम्भसि स्नातव्यमित्यत्र स्थितं वेदितव्यम् // (196) उदकभ्रमे (विन्सू 31) विहारे एतदिति // विहारे चेदिति एतद् स्नानं क्रियते उदकभ्रम एव कर्तव्यं नान्यत्र // (197) च्छोरणं च द्रवस्य // इति पादप्रक्षालनादिकस्य द्रवस्य उदकभ्रम एव च्छोरणं नान्यत्र // (198-199) करणं स्नात्रशालिकायाः // [अस्यां] इष्टकास्तारस्य आदानम् // [अस्यां] स्नात्रशालिकायाः // (200) उदकभ्रमस्य मोक्षः / स्यन्दनिकायाः शोचनम् // भगवानाह - उदकभ्रमो प्रोक्तव्यः // स्यन्दनिका भवति, भगवानाह, कालानुकालं शोचयितव्या / अपि तु उदकभ्रमे एव स्नातव्यमिति, तत्संग्रहार्थमाह // (201) भ्रमे स्नातौ अनुत्थानम् // स्यन्दनिकाया इत्यनुबन्धः / स्नातिः स्नानम् / स्यंदनिका इति प्रतिविधेः आख्यानमेतद् / भ्रमे स्नाने सति अनुत्थानं स्यन्दनिकायाः / न तु भ्रमे एव स्नातव्यमिति नियमभूतं, स्नानार्थत्वात् शालिकायाः // (202) नेट्टनोद्घर्षेण कायं शोधयेत् पादाभ्यामन्यम् // न इट्टनेन भिक्षुणा कायो घर्षितव्यः इति ग्रन्थः / अन्यमिति पादव्यतिरिक्तम् / तयोः तु अप्रतिषेधः //
(203) निदर्शनमेतद् तीक्ष्णशौटीरयोः / ईट्टनम् कीदृशस्य द्रव्यस्येत्याह - तीक्ष्णशस्त्रकादि, शौतीरं षौनकादि चित्तविकारसंपादनात् / आज्ञप्तं भगवता - न इट्टनेन कायो घृषितव्य इति / भिक्षवः शुक्त्या घृषन्ति, भगवानाह - मुण्डशुक्तिः करनीया इत्यत्र ग्रन्थः / अत्र हि तीक्ष्णत्वात् शुक्तेः प्रतिषेधः / तस्मात् निदर्शनं इट्टनम् / अन्यस्यापि तीक्ष्णस्य शौटीरस्य च द्रव्यस्य तेना पि कायो नो घृषितव्यः // (204) अग्निना शुक्तेः शोधनम् // प्रतापनमात्रकं च अग्निना अस्याः शोधनम् / अन्यथा शुक्तेर्नाशात् // (205) न किञ्चित्केनचित् आमुष्टिचैलवर्त्ते(ः) भिक्षुणी उद्धृषेत् // न किंचिदिति कायम्, मृदुष्त्रीशरीरम्, मृदुश्लक्ष्णादपि तस्मिन् विकारस्य संपत्तिः / सुनिकृष्टेनापि एतत्करणे स्त्रियः सौटीरपितत्वमिति भिक्षुणीषु सर्वप्रतिषेधः भवति / किञ्चिन्मुष्टि[तः] सुकुमारान्तरं वस्त्रमिति, मुष्टिमात्रत्वेन उक्त्वा चैलवर्त्तेः वचनम् // (206) न अनपगतसंभावकोदकः चीवराणि प्रावृण्वीत // प्राव्रियमाणचीवरविनाशपरिहारार्थमेतद् / तस्मादेषां उदकं अनपगतं यस्य इति गतिः / यः आधानं न इच्छेत्प्रतीक्षितुं, तं प्रति उत्तरौ विधी // (207-208) धारयेत्कायप्रोञ्छनम् // अभावे मुहूर्त्तं उत्कुटुकेन स्थित्वा स्नात्रशाटकेन प्रोञ्छनमिति //
यावता वा अनेन संपन्नेन स्नात्रशाटकप्रोञ्छनार्थसंपत्तिः तावता ऽस्य यावत्या कालमात्रया संपत्तिः तदुपलक्षणमत्र मुहूर्तः / स्तोकस्य वा यस्य तस्य मुहूर्तमिति अभिधानमेतद् / उत्कुटुकेन स्थित्वा इति एवं आशु-अपगमस्य अम्भसः कायात् संपत्तिः गुप्तरूपं चैतदवस्थानम् / अतो ऽस्य [नाग्न्यस्य] न युक्तं भजनमित्यत्र संश्रयणम् // (209-210) प्रतिषेवेत जेन्ताकम् // करण्डस्य करणं उच्छर्करे साधु // जेन्ताकार्थं आवासः करण्डकः / उद्गतशर्करम्, उच्छर्करे प्रदेशे करण्डः (विन्सू 32) कर्तव्यः // इत्यत्र ग्रन्थः - ऽसंपद्यते अन्यप्रदेशे गतादपि अतो अपरिपूर्णार्थः / उच्छर्करे तु परिपूर्णार्थसंपादकत्वात् साधुत्वंऽ इत्यर्थः / ए [वम]त्रापि ऽसाधुऽ शब्दप्रयोगे वेदितव्यम् / तत्र करण्डे यत्कर्तव्यं तद्दर्शनार्थमाह - (211) वहिः संवृत्तस्य अन्तर्विशालस्य समुद्राकृतेः वातायनस्य मोक्षो मध्ये // करण्डगतभित्तिमध्ये ना ऽधो ना ऽप्यूर्ध्वमित्यर्थः // (212) जालवातायनक-वाटिका-चक्रिका-घटिका-सूचीनां अत्र विनिवेशनम् // अत्र इति वातायने // (213) अज[पदकद]ण्डोपस्थापनं च // अत्र इत्यस्य संबंधोपनयनार्थः ऽचऽ-शब्दः // तेन अजपदकेन दण्डेन वातायने सूची प्रवेश्यते निष्कास्यते // (214) द्वारे कवाट-अर्गुड-कटकायां घट्टसमायोजनम् // द्वार इति करण्डद्वारे // (215) तप्तजलस्थापनार्थं अभ्यन्तरपार्श्वकपोतमालाकरणम् // पिण्डिका ऽत्र कपोटमाला यस्यां [जलघटा]ः स्थाप्यन्ते // (216-217) अग्निकरणस्थाने भूमौ इष्टका-स्तार-दानम् // अग्नेः अनिर्वाणाय संवर्त्तनम् // (इति) वर्तुलीकरणम् // (218) तदर्थ आयसस्फिजधरणम् //
तदर्थमिति अग्निसंवर्त्तनार्थम् // (219) ज्वलत्यग्नौ अक्लमाय प्रवेशपरिहरणम् // जेन्ताकशालायाम् // (220) तमिकानुत्पत्तये सक्तूनां कटुतैलम्रक्षितानां अगनौ प्रक्षेपः // अग्निमदः तमिका // (221) दौर्ग-न्ध्यविनिवृत्तये धूपदानम् // यद् तत्सक्तुभिर्दौर्गन्ध्यं कृतम् // (222-223) चिक्कसपिण्डिकया क्षिप्रतैलधरणे प्रतिविधानम् // आमलकपिण्डिकया च / कक्षपिण्डिको ऽत्र आसनम् // अत्र जेन्ताके कक्षपिण्डकासनम् / नास्य स्नेहेन आसनार्थम्, इत्यस्य अनुज्ञानम् // (224) तृणैर्भूमेरास्तरनं आद्रैः, औत्पत्तिकेन आर्द्रेण तेमनेन वा // तत्र औत्पत्तिकं उत्पत्त्या एव यदार्द्रत्वम्, [तदभावे]तेमनेन यदार्द्रत्वं तत्संश्रयणीयम्, अदाहो ऽत्र अर्थः // (225-226-227-228) कण्डूयनार्थं आयसदर्विकाकरणम् // चिद्रेण उपनिबध्य सूत्रकेण अस्याः स्थापनं उपधिवारिकेण गुप्ते प्रदेशे // निर्मादिततासंपत्यर्थं अस्यां अग्निकल्पकरणम् // अस्नानं तत्र // तत्र इति जन्ताके // (229) शालायाः तदर्थ करणम् // तदर्थमिति स्नानार्थम् // (230) अनाशाय स्नपयनचीवराणां इष्टकाबद्धगर्त करणम् // [स्नपयनची]वराणां अनाशार्थं गर्ते अवतीर्णेन स्नानं उत्तमस्थेन उदकदानम् / इत्यतः आपन्नं वेदितव्यम् // (231) उदकभ्रमस्य अस्य मोक्षः // अस्य इति गर्तस्य // (232) शिष्टानां अत्युष्णतायां जलस्य आरोचनमिति / उष्णं उदकं इत्यवेत्य परिशिष्टानां प्रव्रजितानां आरोचयेत् इत्यर्थः // (233) शीतेनास्य भेदः इति // उष्णस्य अम्भसः // (234) सेकादौ अपि // सेकाद्यर्थ मपि शीतेन अस्य भेदः // (235-236-237-238-239) पाषी-गोमय-दन्तकाष्ठपरिपुर्णकर्परोपस्थापनम् //
क्षामता चेत् पुरोभक्तिका(क?)-करणम् / मध्यपातेन प्रत्युपतिष्थमानं (विन्सू 33) अज्ञातं अत्रैतद्गतो निर्ज्ञानार्थं पृच्छेत // [द्वारपालस्य एतदर्थं स्थापनं // अप्रवेशार्थं च भिक्षोः] इति // मध्यपातेन इति युष्मदन्यतमो ऽहं एत्यन्तर्भावेन / एतद्गत इति जेन्ताकगतः / किमयं भिक्षुः उत आजीविकादिः इति [निर्ज्ञानार्थं] पृच्छेत् // द्वारपालस्य एतदर्थं स्थापनम् इति अज्ञातस्य मध्यपातेन प्रत्युपतिष्ठमानस्य निर्ज्ञानाय प्रश्नार्थं अप्रवेशार्थं च इति / नायमस्मदन्यतम इति प्रश्नेन अस्य ज्ञातस्य / कीदृशस्य द्वारपालस्य इत्याह भिक्षोः / निदर्शनमेतद् अनुपसंपन्नस्यापि प्रव्रजितस्यः; भिक्षुनीषु वा तत्पक्षस्येव पुद्गलस्य // (240) नाश्रद्धस्य अत्र प्रवेशं दद्यात् // अत्र इति जेन्ताके / प्रत्युपतिष्थमानस्यापि मध्यपातेन, एषो ऽत्र अपरो द्वारपालस्यार्थः // (241) सार्धविहारी-अन्तेवासिकैः अत्र परिकर्मकरणम् // अत्र इति जेन्ताके // (242) नवकेरिति अपरमिति // मतान्तरस्यैतत्प्रदर्शनम् / केषांचित् पाथान्तरम् / नवकैः परिकर्म जन्ताके कर्तव्यमिति / रूपदर्शनार्थं परिकर्मणः आह - // (243-244) दीपनकटाहक-तैल-दन्तकाष्ठ-गोमय-मृच्चूर्ण-पाणीयाद्युपस्थापन-काष्ठप्रत्यवेक्षण-उद्वर्त्तन-स्नेहेन स्नपन-संमार्जन-संकारोच्छोरणादौ // परिकर्मणः करणं तेसां परस्परेण / इति सार्धं-विहार्यन्तेवासिनां उद्वर्त्तनादेः परिकर्मणः परस्परं करणम् // (245) पीठशुक्तिकयोः चौक्षितां कृत्वा निक्षेपो यथास्थाने // इत्यादि शब्दैर (पेक्षितस्य? ) परिकर्मणः संग्रहमातृकायां "एतदादिना अग्रतः स्थित्वा "वितपेत्" इत्यन्तम् //
(246) सर्वत्र एष भाण्डे विधिः // चौक्षतां कृत्वा यथास्थाणे निक्षेप इति ऽएषःऽ // (247) सर्वमुपकरणं सुगुप्तके लायितं कुर्यात् // न भाण्डग्रहणेन कस्यचिदुपकरणस्य अग्रहणम्, अन्यत्र तु जेन्तकान्तान् / विधानार्थमेतत्सूत्रम् - / (248) अल्पशब्दो ऽत्र प्रविशेत् // जेन्ताके // (249-250) प्रासादिकः / सुसंवृत्तेयः [ईर्यापथ-प्रासादिक-]संप्रजानन् / सुसंवृतः स्वीर्यश्च कायवाचोः अविक्षेपं सुसंवृत्तेयत्वेन दर्शयति / संप्रजानन्नित्यनेन चेतसः / [ईर्यापथ]-प्रासादिकत्वस्य एतत्प्रकारद्वयेन दर्शनम् // (251) नाग्रतः स्थित्वा वितपेत् // न परं वितपंतं व्यवधाय आत्मना वितपेदित्यर्थः // (252) संगणिकावर्जनमिति // अत्रेति वर्तते, कामानुगुणं प्रतिपद्य जेन्ताके वृत्तं, ऽसंदीपिका च कामानां संगणिकाऽ इति अतो ऽस्या वर्जनं अत्र विशेषतः // (253) आर्यतूष्णीभावावलंबनमिति // अत्रेत्येव [संबध्यते] / असd-vikalpa-tadanuguणचित्तविनिवर्तनार्थं एतत्सूत्रम् / योनिसो-मनसिकार-संमुखीकरणं आर्य-तूष्णीभवो वेदितव्यः // (254) त्रिदण्डकादानं गन्तव्ये // गमनकाले // (255) नैकर्चावरः परिक[र्म कुर्यात] // जेन्ताकग्रहणमत्र कैश्चित्क्रियते कायगतख्यापितं परस्पर-ग्रहणम् / न भिक्षुभिः जेन्ताके एकचीवरैः परस्परं परिकर्म कर्तव्यमिति / सर्वत्र परिकर्मणि न कायगत एव सर्वत्र च स्थाने, (विन्सू 34) न जेन्ताके एव अस्य विधेः व्यवतिष्ठमानता, इति तन्नाश्रितम् // (256) नैतद् कायस्य अश्रद्धेन कारयेत् // ऽएतद्ऽ इति परिकर्म, यद् [बाह्यं] भारोद्वहनादिकं कर्म न प्रतिषिध्यते // (257) अनित्वरा अत्र पूर्वत्र च श्रद्धा अभिसंहिता //
ऽअनित्वराऽ इति चिरकालोत्पत्त्या या अनिष्कम्पा सा अनित्वरा / ऽअत्रऽ इति अनन्तरोके परिकर्मविधौ / ऽपूर्वत्र चऽ इति ऽनाश्रद्धस्य अत्र प्रवेशं दद्यात्ऽ इत्यत्र / ऽअभिसंहिताऽ इति अभिप्रेता // (258) न सिंहसमः शृगालसममु(प)तिष्ठेत // शीलवता दुःशीलस्य उपस्थापनं न कार्यमित्यर्थः / अपवादो ऽस्य क्रियते // (259-260) परमदुःशीलौ आचार्योपाध्यायौ उपस्तिष्ठेत // मातापितृग्लानांश्च अगारिकानपि // परमोपकारित्वादेषां इत्येतद् अभ्यनुज्ञानम् // (261) स्नानं संभारकस्नात्रेण // [ग्लानः] / अत्र निदानं पठ्यते / ग्लान-ग्रहणं प्रज्ञप्तौ न कृतम्, [न चान्यस्य] अन्यत्र अप्रतिरूपत्वम् / विशेषापरिग्रहात् सर्वाधिकरिकं उपनिबद्धम् / त त्स्वरूपोपप्रदर्शनार्थं आह - // (262) वातहरमूल-गण्ड-पत्रपुष्प-फलक्वाथस्नानं तदाख्यम् // संभारकस्नात्राख्यं इत्यर्थः // वृंहणं स्नाने ऽर्थः / इत्येषां अत्र अङ्गत्वम् / कथं स्नानमित्याह - // (263-264) अभ्यक्षा ऽरूक्षतार्थम् / उपस्नानकेन अपगत्यै तस्य // तस्य अरूक्षतार्थस्य [तैलादि-]अभ्यंगस्य अपगत्यर्थं उपस्नानकेन, अभ्यक्षा इत्यर्थः // (265) [पूर्वार्थं] उदकुम्भे पश्चिमे द्वित्रस्नेहबिन्दु-दानम् // पूर्वार्थमिति अरूक्षतार्थम् / द्वौ त्रयो वा स्नेहबिन्दवः पश्चिमे उदकुम्भे देयाः इत्यर्थः // (266) स्नायात् अयोद्रोणिकायाम् / धारयेदेनां ग्लानः इति // एनामिति अयोद्रोणिकाम् / धरणं अग्लानेन अस्याः न युज्यते, न उपयोजनं अयस्पिण्डवत्, इत्यस्य प्रतिपत्तव्यम् / [औ]द्धत्यं एवं-जातीयकस्य विनार्थेन करणम्, तच्च सर्वं दुष्कृतमिति गम्यमानत्वात् न सूत्रितम् // (267) दद्यात् उपरि अस्याः पिधानकम् //
उष्ण स्योदकस्य शीतभावपरिहारार्थम् // (268) ग्रीवायां चात्र गण्डोपधानिकाम् // दद्यात् इति वर्तते / अविलंबितमत्र स्नानम्, अदुःखनार्थम् / अतो अस्याः दानम् // (269) न यत्र क्व चन पादौ प्रक्षालयेत् // विहाराधिकृतमेतद् // (270) स्थानमस्य प्रनाडिमुखम् // ऽअस्यऽ इति पादप्रक्षालनस्य / भगवानाह ऽप्रनाडीमुखे प्रक्षालयितव्यम्ऽ इत्यत्र ग्रन्थः // (271) कारयेरन् पादधावनिकाम् / अनया विना प्रनाडीमुखादौ अर्थसिद्धेर्विधातः / इति कामकारो ऽत्र, न नियमः इति संदर्शनार्थम् आदौ क्रियापदस्य प्रयोगः / सांघिकं वस्तु अस्याः स्थानम् / न च सांघिके वस्तुनि एकस्य प्रसंगः इति बहुवचनम् / कस्मिन्प्रदेशे इत्याह - // (272) उपरिविहारस्य पूर्वदक्षिणकोणे // किमाकारमिति - (273) कर्माकृतिं खराम् / मलापहरणमत्र अर्थः // (274) उपस्थापयेत् कठिल्लम् // प्रतिग्रहस्यैतन्नाम् / किम्मयं (विन्सू 35) इत्याह - मृण्मयम्, न सुवर्ण-रूप्य-वईडूर्य-स्फटिकमयानि कठिल्लानि उपस्थापयितव्यानि, अपि तु मृण्मय[मि]त्यत्र ग्रन्थः / किं-संस्थानम् - // (275) हस्तिपदबुध्नं कर्णिकावन्तम् इति / अलुठनमत्र अर्थः / कर्णिकावन्त मिति धाव्यमानपादावस्थानार्थं एतत्करणम् / क्व संनिविष्टया कर्णिकया तद्वन्तमित्याह - // (276) मध्ये संनिविष्टया / किमाकारया इत्याह - // (277) कदम्बपुष्पाकारया खरया च // पादा ऽपिच्छलनार्थं खरत्वम् // (278) प्रक्षाल्य स्थापनं अवाङ्मुखस्य //
प्रासादिकतार्थ एतत्प्रक्षालनम् / नैर्मल्यं प्रासादिकत्वम् / न चास्य यद् तत्र शौचोदकं अवतिष्ठते / ततः न संपत्तिः, तस्मात् अन्येनाम्भसा इति मन्तव्यम् / ऽपादौ प्रक्षाल्य बहिर्विहारस्य प्रनाडीमुखे वा पादोदकं छोरयित्वा पुनः प्रक्षाल्यऽ इत्यत्र ग्रन्थः / क्व स्थापनमित्याह - // (279-282) तलकोपरि सांधिकस्य / पौद्गलिकस्य लयने कपाटसंघौ // पात्रनिर्मादनादि यत्रप्रदेशे विहारे कुर्यात्, तस्या मार्जनं उदकेन प्रलेपनं वा // कुन्तफलाकारेण मृदङ्गस्य वा / आकारेणेति वर्तते / केन प्रलेपनमित्याह - // (283) गोमयेन मृदा वा // [इत्युच्यते] // (284) न विद्यते रत्नार्थतायां प्रलिप्तेः आकारस्य [नियमः] // (285-287) न अपात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वां // नोनेन अधिकेन पाण्डुना वा / त्रीणि पात्राणि, ज्येष्ठं मध्यं कनीय इति // तत्प्रमाणनिर्ज्ञानार्थ उच्यते - // (288) शेषेण ऊर्ध्वभागान्त-अनन्तरात् अंगुष्ठोदरात् पक्वतण्डुलप्रस्थस्य ऊर्ध्वं वा, तद्द्वयान्मागधकस्य उद्वाहि ससूपसव्यंजनस्य एतन्मध्यं [तज्ञाय्यम्] // ऊर्ध्वभागस्य नाधोभागस्य / अन्ततो नान्यस्मात् प्रदेशादनन्तरं, यद् अंगुष्ठोदरं, पर्वप्रदेशे या अंगुष्ठस्य पृथुता, तन्मात्रम् / ततः शेषेणाधरेण [अंशेन] प्रस्थं वा पक्कानां तण्डुलानां मागधकं, तत ऊर्ध्वं वा द्विगुणं प्रस्थं, यावत् स्वानुरूपव्यंजनसहितं यावदुद्वहति, तदेतद् अनपेतं आप्यं इत्यर्थः / तैल-घृत-मधु-उदकादीनां द्वात्रींशत्पलानि मागधकः प्रस्थः / अन्येषां अद्रवाणां षोडशेति द्रव्यमात्रव्यंजकानाम् // ततः, षोडशानां अत्र पलानां मागधकेन प्रस्थेन अभिधानं इति प्रतिपत्तव्यम् //
"यत्र द्वौ मागधकौ पक्कतण्डुलप्रस्थौ ससूपव्यंजनौ प्रक्षिप्तौ अङ्गुष्ठोदरेण तित्तिकं न स्पृशतः तद् ज्येष्ठम् / यत्रैकः तत्कनीयो, अत्रान्तरात् मध्यम् / " इत्यत्र ग्रन्थः / व्यंजनीयार्थत्वेन अत्र सूपव्यंजनयोः ग्रहणात् भागशः सूपव्यंजनयोः अत्र तेमनत्वं इति श्रितम्, तस्मात् अनेकत्वे व्यंजन-प्रभेदानां भागशो ऽत्र अभिनिश्रेयत्वम् / यावता व्यंजनेन भोजनीयं व्यंजितं भवति, तवतो व्यंजनस्य पात्रप्रमाणे संश्रेयता, न परेण इत्यर्थः / पलस्य देशभेदेन हीन-मध्य-उत्कृष्ट-सांकर्यदोषव्युदासार्थ आम्नायागतं प्रमाणमुच्यते / - "माषो ऽष्टरक्तिको ज्ञेयः / तोलो [माषाष्ट]कः स्मृतः // तोलं (विन्सू 36) सुवर्णमित्याहुः / पलं त्वष्टसुवर्णकम्" // (289) न भिक्षुणी ऊर्ध्वं भिक्षुकनीयसः / धारयेत् // यद् भिक्षूणां कनीयः तदस्याः जेष्ठम् / कनीयो ऽस्याः यावत्पात्र मात्रकपिण्डपातसंपादनं इत्यर्थात् प्रतिपत्तिः // (290) त्रपुमण्डलकस्य अनया ऽत्र निषादे दानम् / अनया इति भिक्षुण्या / अत्र इति पात्रे / येन प्रदेशेन अस्य निषादो भूमौ तिष्ठापनं सस्तु निषादः, तत्र इत्यर्थः / किमाकारस्य इत्याह - // (291) बोधिवटपत्रकस्य पाणितलकस्य वा (292) परिमाणश्च // न केवलं आकारतः परिमाणतो ऽपि एतावदेव एतद्देयम् / न अधिकम् अतिक्रमादर्थस्य / मोनसंपत्तेः इत्यर्थः / भूस्पर्शे कोटक-अलगनं अत्र एतद् दाने ऽर्थः // (293) भवति सतत्त्वं याचितेन // स-तत्त्वं याचितसपात्रत्वम् / न याचितेनानेन नापात्रकं प्रव्राजयेयुः उपसंपादयेयुर्वा // "न वर्षासु अपात्राकः स्यात्" - इत्येवमादिकं अतिक्रान्तं भवति इत्यस्यैतत्करणम् //
(294) तद्वत्पञ्चकम् // त्रिचीवरं, निषदनं, परिश्रावणं च यथापात्रेण भवति स-तत्त्वं एवमनेनापि इत्यर्थः // "तस्मात् अनुजानामि याचितकैरपि षड्भिः परिष्कारैः प्रव्राजयितव्यम्" इत्यत्र ग्रन्थः / परिस्रावण-निषदनाभ्यां अपि विना न प्रव्रजयितव्यं इति [त्रितयम्] / अतः आपन्नं वेदितव्यम् // (295-296-297) न वर्षासु अपात्रकः स्यात् // न जनपदचारिकं चरेत् // चरेत् सभयतायां कुपात्रकेण / "उपनन्देन अपात्रकः प्रव्राजितः, स भिक्षुभिः सार्धं जनपदचारिकं चरन् कर्वटकं अनुप्राप्तः / तत्र गृहपतिना भिक्षवो भक्तेन उपनिमन्त्रिताः / यावत् तस्य नवप्रव्राज्यस्य पात्रं नाष्ति, स गृहपतिः अवध्यायति भगवानाह - ऽन भिक्षुणा पात्रेण विना जनपदचारिका चरितव्या / अदत्त-आदायिकैः मुस्यन्ते, भगवानाह - ऽकुपात्रं नेतव्यं, पात्रं स्थापयितव्यम्, वर्षासु पात्रं उपस्थापयितव्यम्ऽ इत्यत्र ग्रन्थः // (298-299-300) न प्रव्राजयेत् अभावे // न उत्थितः पात्रं कर्षयेत्, प्रक्षिपेत्, शोषयेद्वा // मात्रया परिभुंजीत / तद्-भोगप्रदर्शनार्थमाह - // (301) न अन्येनात्र निःसर्गं अक्षिपेत् / अन्येन इति भाजनान्तरेण / निःसर्गमिति छोरणधर्मकम् // (302) न अनेन संकारं छोरयेत् // नावचं छोरयेत् इति वर्तते // (303-308) न हस्तमुखोदकं दद्यात् // न प्रमदनधर्मणा श्रामणेरेण निर्मादयेत // न सवालुकेन गो-शकृता // न अत्यार्द्रं प्रतिशामयेत / नातिशुष्कं अध्युपेक्षेत / न शिलायां स्थापयेत् // तावत्कालिकमेतद् स्थापनम् // (309) न अशुचौ प्रदेशे // (310) न यत्र क्व चन // प्रदेश इति वर्तते स्थापनं च // (311) नास्मिन् निक्षिपेत् //
यत्र क्व चन अतिनामनार्थं एष निषेधः, न तत्कालार्थम् // (312) मालकस्य एतदर्थं करणम् // पात्रस्थापनार्थम् // मालकमिति गवाक्षकस्य नाम / कथं करणमित्याह - // (313) उत्तिष्ठतोर्विहारपरिगणयोः न खननेन भित्तेः // (314) चकोरकस्य आरण्यकैः // पात्रस्थापनार्थकरणम् / (विन्सू 37) आकाश-मालकमित्यस्य पाठान्तरेण व्यवहारः किम्मयस्य इत्याह - // (315) लतामयस्य रज्ज्वा वा / विकारस्य रज्जुमयस्येत्यर्थः // (316) लिप्तस्य गोमयमृदा // (317) स-तद्विधपिधानस्य // पिधानकमपि अस्य लतामयं रज्जुमयं च आलिप्तं गोमयमृदा कर्तव्यमित्यर्थः // (318-319-320) लम्बनमस्य कान्तारिकया वृक्षे साधु // न भूमौ स्थापनम् // न एनं अन्यत्र नयेत् // (इति) चकोरकम् // (321) प्रक्षिप्तं स्थविकायां नयेत् // पात्रम् // (322) न हस्तेन इति नयेत् // (323) कक्षया अस्य // इति पात्रस्य (324) नयनं आलयनकं दत्त्वा // (325) पृथक्स्थवि[का]सु पात्रभैषज्यकोलाहलानि स्थापयेत् // अन्यस्यां पात्रं, अन्यस्यां भैषज्यं, अन्यस्यां लोलाहलमित्यर्थः // कोलाहलं पुनः आरा-वध्रिकादिद्रव्यम् // (326) धारयेदेनः // इति पात्रादिस्थविकाः // (327) न तुल्यावलम्बनानां आसु आलयनकानां निवेशं उपयुञ्जीत // आसु इति पात्रादिस्थविकासु न-तुल्यबलम्बनानां आलयनका दातव्या इत्यर्थः / तथा च "आर्य, किमयं मृदङ्गः" इति निदानम् / अतः तुल्यनिवेशोपयोगप्रतिषेधपरं एतद् // (328) अविस्तीर्णानां च दुःखा ऽनिच्छुः] // न आलयनकानां निवेशं उपयुञ्जीत / किंकार[ण]मित्याह - दुःखा ऽनिच्छुः / - (329) संकोचासंपत्तये न मतदानम् //
कस्मिन्प्रदेशे न मतदानमित्याह - // (330) मध्ये // आलयन कमिति प्रकरणात् गन्तव्यम् / पृथक्त्वस्य अस्य मध्ये, न दीर्घस्य इति अर्थात् गन्तव्यम् // (331) स्थानाय अस्येति अन्तरान्तरे काकपदकदानम् // (332-335) चक्षुरिव पात्रं पालयेत् // त्वचमिवसंघाटिम् // शिष्टं च चीवरं च // न प्रतिसंस्करणमुपेक्षेत // बन्धन-पचन-धावन-सेचन-रंजनानि - / उभयं हि पात्रं चीवरं च अपेक्ष्य एतद्वचनम् // (336) अनुतिष्ठेत् पात्र बन्धनं प्रतिगुप्ते प्रदेशे // नाप्रतिगुप्त एतद् क्रियमाणं अप्रसादवस्तु इति ख्यापनार्थं एतत्सूत्रम् // (337-338) उपस्थापयेत् संघः कर्मारभाण्डिकाम् // छिद्रस्यतदिति // बन्धनम् // (339) न तु साधु गुड-जतु-सिक्थ-त्रपु-सीसैः // केन तर्हि साधु इत्याह - // (340) साधु पट्टिका-कीलिका-थिग्गलिका-मकरदन्तिका[भिः] // (341) चूर्णिकया च / लोहस्य पाषाणस्य वा // बन्धनं साधु इति अनुबन्धः // (342) तैलेन धृष्टिरिति // चूर्णिकया / कुतो यावदिति आह - (343) आसिक्थ-सादृश्यात् // केन धृष्टिः इत्याह - // (344) लोहेन कुरुविन्देन वा // अनेन [चूर्णिकायाः तैलेन आर्द्रीकृत्वा यावत् सिक्थसदृशीभावः ता-[व]त्धृष्टिरित्यर्थः // (345) उष्णे दानमिति // पात्रे इति प्रकरणात् प्रतिपत्तिः / तां च पात्रे दत्तां चूर्णिकाम् // (346) अवगुण्ठ्य ऊर्जेन (?) मृदा ऽनुलिप्य, पाकस्य दानम् // इत्यनुषङ्गः / कीदृशस्य पाकस्य दानमित्याह - / मध्यस्य // (विन्सू 38) (347) धृष्टिस्तैलेन / तस्य बन्धस्य तैलतेमनेन धृष्तिः // (348) गुड-मृदा मृण्मयस्य इति // मृण्मयस्य पात्रस्य गुड-मृदा बन्धः //
पट्टिका इत्यादेः पञ्चकस्य स्थाने-गुड-मृद्-ग्रहणम् / तस्मात् शेषस्य अतो ऽत्र साधुत्वं न इत्याएः पूर्वस्यानुषङ्गः यथासंभवं वेदितव्यः // भुज्यमानत्वे संस्कारस्य प्रत्युपयोगं उपायः / तत्र कियता कालेन पात्रस्य त[दसंस्कृ]तत्वं, येन तपनार्हता, इत्यत्र उच्यते - // (349) भुज्यमानत्वे पाक्यत्वं मासषट्कान्ते // तदेतद् विशेषोक्तं - मार्ते योत्यते - // (350) मार्त चेत् पक्षस्य // - अन्ते पाक्यत्वं इत्यनुषङ्गः / अभुज्यमानत्वे ऽपि यथायोगं पात्रस्य प्रतिसंस्करनं अनुष्ठेयम् // (351) वर्षाश्चेत्, विरुक्षण-म्रक्षितत्वेन कार्यांन्तराले संयोज्यत्वम् // प्राण्युपघानमन्तरेण [अशक्यतायां] अदेयत्वे वर्षासु पाकस्य अदेयत्वे अवस्थिते, यापनस्य एतदाख्यानम् / द्वयोः उपयोगकालयोः मध्यं कार्यान्तरालम् / तत्र अस्य पात्रस्य विरूक्षणेन म्रक्षितत्त्वेन च संयोज्यत्वम् / कार्यं कृत्वा म्रक्षयित्वा स्थापयितव्यम् // अपरत्र कार्यकाले विरूक्षयितव्यं इत्येवमेतत्संयोजनं इत्यर्थत्वात् गन्तव्याम् // (352) पचनमस्या // पात्रस्य // (353) नैतदात्मना कर्तु अयुक्तम् // प्रव्रजितस्य [आत्मना कर्तुं अयुक्तम्] इत्यर्थः // (354) कटाहकस्य तदर्थं उपस्थापनम् // तदर्थमिति पाकार्थम् / कीदृशस्येत्याह - // तत्त्वोत्पत्तेः / तद्भावतत्त्वे कटाहकत्वेन एव यस्योत्पत्तिः, तद्भूततया एव यस्य करणं, न घटाद्यवयवद्वयेन इत्यर्थः / किमस्यैव एकस्य, न इत्याह - // (355) तत्त्वोत्पत्तेः कर्परकस्य वा // उपस्थापनमित्यनुबन्धः / यथास्य कर्परकामेन कटाहकस्य संपादनार्थं साधु घटादेः भेदनकेन [देशितत्वात्] - //
(356) भस्मना पूरयित्वा साधु भेदनं घटभेदनकेन // [कथमिति चेत् घटभेदकेन इत्युक्तम्] / लोहमयस्य एतद् कीलकस्य नाम - // (357) धारणमस्येति // घटभेदनकस्य // (358) तेन अवच्छादनं अपलायिधूमम् // तेन कटाहकेन पात्रस्या ऽवच्छादनं कीदृशमित्याह - अपलायीधूमम् / तद्विधं एतत्कर्तव्यं यद्विधेः धूमो न पलायते इत्यर्थः / किं अलिप्तेनैव बहिः कटाहकेन इत्याह - // (359) दत्ततुषमृत्तिकाबहिल पेन // दत्तः तुषमृत्तिकया बहिर्लेपो यस्मिन् तेनेत्यर्थः / अभ्यन्तरे किमदत्तेन अस्य कस्यचित द्रव्यस्य लेपेन इत्याह - // (360) पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण // किं अशुष्केन दत्तालेपेन इत्याह - // (361) उपगतशोषेण / कीदृश्यां किमस्तरायां वा भूमौ निहितस्य पात्रस्य अनेन अवच्छादनं इत्याह - // (362) कृतपरिकर्मायां भूमौ वा स्तृततुषायां अवकीर्णं रूचिरधूमकरकपिण्याकादिद्रव्यायां निहितस्य अधोबिलम् // तुषाणामुपरि रोचनशील-धूमकरकानां पिण्याकादीनां द्रव्याणां अवकीर्णमित्यर्थः / कथं निहितस्य इत्याह - अधो बिलम् / किमतः परं कर्तव्यमित्याह - // (363) गोमयै / पलालेन वा अवगुण्ठ्य आदीपनम् // (364) (विन्सू 39) सुशीतलस्य अपनयनमिति / पात्रस्य // (365) आनिष्पन्न-रंग संपत्तेः आवृत्तिः // तावत्पाको देयो यावत् रंगसंपन्नम् // (336) निर्माद्य निर्माद्य आरोपणम् // प्रतिपाकं निर्मादयितव्यमित्यर्थः // (337) सामन्तकस्य प्राणकानां अनुकम्पया संमार्जनं सेकश्च // अम्भसा सामन्तकस्यैव / उक्तं - ऽन अपात्रकं प्रव्राजयेयुःऽ इत्येतत्प्रसंगागतं सपरिकरं पात्रविधानम् //
अपरं प्रव्रज्यावस्तुसंबंधादुच्यते - // (368) प्ररोहस्य परिव्यंजनं अज्ञातौ वर्षाग्रस्य उपसंपाद्यांगीकरणम् / प्ररोहस्येति बालप्ररोहस्य / कस्मिन्प्रदेशे इत्याह - / परिव्यंजनं, व्यंजनात्समन्ततः / अज्ञातौ वर्षाग्रस्य उपासंपाद्यस्य अंगीकरणम् / अप्रज्ञायमाने विंशतिवर्षत्वे उपसंपन्निभित्तं व्यंजनसामन्तकेन रोमजन्मनो अंगीकरणमित्यर्थः / व्यज्यते अनेन पुरुषभावः इति व्यंजनम् / पुरुषेन्दिर्यम् // (369) व्याजेन अस्य प्रत्य्वेक्षणम् // अस्येति परिव्यंजनं रोमप्ररोहस्य / कीदृशेन व्याजेनेत्याह - // (370) ऊर्ध्वनागदन्तक-चीवरवंशस्थ भावावतारणादिना / उच्चे नागदन्तके चीवरवंशे ऽवतिष्ठतो वस्त्रादेः भावस्य अवतारण-आरोपणादिना // (371) न उपसंपत्प्रेक्षं वृक्षमधिरोहयेत् / (372) न बहिः सीमां प्रेषयेत् // उपसंपत्प्रेक्षमिति / अवदर्शन-उपविचारान्तः अत्र सीमा व्यतिष्ठते / कुतो दर्शनोपविचारान्तः उपसंपादनस्थानं तत्स्थानात् / उच्चलितायां उपसंपादनस्थानम् / तदर्थं व्यापृतात् शासनाधिमुक्तात् शीलवतः च भिक्षोः सोपधिवार-विहारस्थानतो गमने तन्मार्गप्रतिपन्नात् / अन्यदा विहार-तदितिकरणीय-चंक्रमण-अतिनामनस्थानगतात् - (373) दर्शनोपविचार एनं अपकासने स्थापयेयुः गनाभिमुखं प्रगृहीतांजलिम् // एनमिति उपसंपत्प्रेक्षम् / अपकासन इति रहोनुशासकगतस्य कर्मणो अश्रवथं संघमध्यात् अस्य पृथक्ज्ञापनं यत्तदत्र अपकासनग्रहणेन गृहीतम् / अपकासने गणाभिमुखं प्रगृहीताञ्जलीः संघमध्यात् अनपकासितो न कर्तव्यः इत्यर्थः // (347) न गृहिणो निश्रयानारोचयेत् // (375) न उपसंपन्नमात्राय न आरोचयेत् //
निश्रयानिति वर्तते / ऽगृहनिश्रिताय निश्रयं न आरोचयेत्ऽ - यावत् ऽअप्रव्रजितायऽ इति / अस्य पश्चात् अयं ग्रन्थः - अन्यतमः ब्राह्मणदारकः प्रव्रज्योपसंपदार्थं उपाध्यायेन यावत्पिण्डपातं गच्छ इति आज्ञप्तः, तेन आज्ञप्ते सति स्वभिक्षा(याचन) हेतुना उद्विग्नः, किं प्रव्रजितेना ऽपि पिण्डपातः कर्तव्यः इति शिक्षां प्रतिषेधते, भगवता गर्हित्वा उक्तम् - "उपसंपन्नमात्राय चत्वारः निश्रया आरोचयितव्याः" इत्यत्र संग्रहो ऽयम् // (376)यत्र निश्रया ऽभावः तत्र पोषधोपासना-निश्रयप्रतिज्ञा-ग्रहणं च न कर्तव्यम् // (377) निःश्रयप्रतिज्ञाग्रहणं पूर्वं नानुरक्षितव्यम् // निश्रयाभावे "प्रतिज्ञायाः पाश्चात् अर्थसिद्धिः दृश्यतेऽ (इति) एतद्वचनं दृष्टम्, तत्र पुर्वकस्मिन् सति पश्चात् प्रतिज्ञा कर्तव्या इति ज्ञायते, इति वेदितव्यम् // (378) (विन्सू 40) पश्चादपि द्विमासतोधिकम् // पश्चादिति ग्रहणम् / द्विमासतो ऽधिकं निश्रया ऽभावे न रक्षितव्यम् इत्यस्य अनुप्रतिषेधार्थं ऽअपिऽ-शब्दः / द्विमासं नाश्रित्यापि निश्रितं कर्तव्यं इत्यत्र ज्ञातव्यम् // (379) वस्तु-कर्म-उपस्थापकपरिहारेण एनं परीच्छेयुः // एवं इति वस्तु, वस्त्वादिपरिहारैः एनं वस्तु परीच्छेयुः / वस्तु-परिहारः इति निश्रय-गृहे परिहारः / निश्रयार्हसंघे पुद्गलबहुलत्वात् परीच्छेयुः, इत्यलम् विस्तरेण // (380) दहरमध्येषु अभावे वृद्धतरमापृच्छेत् //
अभावे इति निश्रयस्य / ऽवर्षावासे अनिश्रितःऽ इत्युक्ते वचने निश्रितानां मध्ये एकवर्षीयं आचार्यकालमतीत्य वर्षा-विच्छेदात् विहारे अनिश्रित्य गतानां विहारे अनाश्रयः अपि न कर्तव्यः, कृत्वा तु सातिसारो भवति / अथ च यस्तेषु अतिवृद्धः स प्रष्टव्यः / तदनन्तरं प्रवारितेन आचार्यपरिहारः कर्तव्यः / उक्तग्रन्थे एतद् संगृहीतं भवति / अर्थतः(?) तेसां वृद्धतरो दहरः स निश्रितः / वृद्धतरस्तत्र दहरेण प्रार्थितो भवति, ऽनिश्चये अनिश्रितऽ इति वेदितव्यम् // (381) भावे ऽपि उपनिश्रयत्वेन // इति निश्रये / भावे ऽपि आश्रय स्य आश्रये / दहरेषु वृद्धतरः प्रष्टव्यः / अत्रायं ग्रन्थः - "उपनिश्रयत्वेन अयमेव उपाध्यायसमः भवति / अयमेव तेन प्रष्टव्यः / अयमेव तस्य शिक्षितो भवति, पठितो ऽपि पाथितो भवति" इति प्रव्रज्यावस्तुनि निर्माणे (?) उक्तम् // (382) न अनवलोक्य तज्जातीयं परिकर्मयेत् तेन वा आत्मानम् // अत्र तज्जातीयं निकायान्तर-प्रव्रजितं ज्ञातं आशंकितं वा // (383) निर्दोषं अभावे [निश्रयार्हस्य] प्रवृत्तपर्येषणस्य अनिश्रितस्य वा ऽपि // निर्दोषमिति निरपवादम् / अभावे इति आश्रयस्य / निरपवादः कस्मिन्निति चेत् - तदर्थं प्रवृत्तपरेषण इत्याद्युक्तम् // कियत्कालमिति चेत् - // (384) आपञ्चरात्रनिष्ठानात // इत्युक्तम् / यावत्पञ्चरात्रपर्यन्तमित्य्रथः / यावत्पञ्चरात्रत्वं हि ऽलाभे अर्हत्वम्ऽ / अत्र ग्रन्थः निदानात् - ऽअनिश्रितं देशं, उपालिऽ, यावत् गत्वा परीक्ष्य पञ्चरात्रमुपादायऽ // (385) अर्हत्वं च लाभे // इत्युक्तं भवति // तदपि अप्रतिहतसंबंधे निश्रयपर्येषणे चेति //
(386-387) विश्रम्य आगन्तुको द्वितीये तृतीये वा अन्हि निश्रयं गृह्णीत // न एकाहस्य अर्थे // इति निश्रयं गृह्णीत इत्येतेन अनुबन्धः // (388) अन्यं असांनिध्ये निश्रितस्य आपृच्छेत् // निश्रयकृतेन ऽनिश्रितःऽ / एष कर्मणि क-(=क्तः) (प्रत्ययः) निश्रयत्वेन ग्रहणे इत्यर्थः // (389) निर्दोंषम-नापृष्टौ गतस्य कर्मादाने अपर-तद्-आगतौ // कर्मादाननिमित्तं गतस्य अपरस्य कर्मादानस्य आगमने दोषाभावो ऽनापृष्टौ इत्यर्थः / विभङ्गादेतद् शयनासन-शिक्षापदात् / ऽनिश्रयं गृह्णीतंऽ इति वर्तते // [(390) न यस्य तस्यान्तिकात् //] (391) निर्ज्ञाय वृत्त-ज्ञान-परिवारानुग्राहकत्वं प्रश्नादिना अस्य ग्रहणम् // वृत्तं च ज्ञानं च परिवारश्च ग्राहकत्वं च अनुवादनादौ प्रवर्तमान तां अस्य पुद्गलस्य प्रश्नेन अन्येन वा समाचारेण (विन्सू 41) ज्ञात्वा निश्रयस्य ग्रहणमित्यर्थः / [कतमेन विधिना इति चेत्] // (392) संवरवत् // इति उपासक-संवरादिवत् मन्त्रादिना विधिना इत्यर्थः // प्रगृहीताञ्जलिना संवरस्य ग्रहणम् / अस्य तु - // (393)-(394) प्रपीड्य उभाभ्यां पाणिभ्यां उभौ पादतलौ / परीक्ष्य दानमिति // निश्रयस्य किमस्य संवरो रूढः शैक्षश्च / शासने स्थापयितुं इत्येषा परीक्षा // (395) पुत्र-पितृ-संज्ञयोः निवेशनम् // यथासंख्यं निश्रयनिश्रिताभ्यां परस्परम् // (396) तत्त्वे एव उपाध्याये निश्रितत्वम् // तद्भावः तत्ता, तच्छब्देन उपाध्यायस्य परामर्शः / उपाध्याये स्थिते उपाध्ययता एव निश्रित्वम् - [अत्रापि] कर्मणि क्तः / निश्रीयत इति निश्रितः, निश्रय इत्यर्थः / तद्भावे निश्रितत्त्वम् // (397) तस्मात् अग्रहणमस्य तत्र //
अस्येति निश्रयस्य / तत्रेति उपाध्याये / एतदुक्तं भवति - यस्मादुपाध्यायत्वे एव निश्रयत्वं, तस्मात् ऽन यस्य तस्यान्तिकात्ऽ निश्रयो ग्राह्यः इति // (398) निरपेक्षतासंपत्तिः उभयोः आत्तनिश्रयध्वंसे कारणम् // उभयोरिति निश्रितनिश्रितवतोः साक्षेण क्रमेण वा निरपेक्षतायाः संपत्तिः संपन्नता / आत्तस्य गृहीतस्य निश्रयस्य ध्वंसे कारणम् / एकत्र निरपेक्ष[ता-भूते] तावत् निश्रयस्यानुवृत्तिः यावत् अपरो निरपेक्षाभूतः इति / पर्षत्संबंध एष या [निश्रित-]निश्रितत्व-उपगतिः, न चैकस्य सापेक्षतायां पर्षत्संबंधस्य अपेतत्वम्, इत्येषा अत्र व्यवस्था // [सहदर्शंनात् उपाध्यायस्य उद्घातो निश्रयो वक्तव्यः] - (399) सन्निपत्तौ अनौपाध्यायेन अभिमतेन प्रवृत्तिः // यदुक्ते उपाध्याये संनिहिते नान्यः आप्राप्तव्यः इत्यस्य तत्प्रतिपादनम् / [सापे]क्षत्वे पर्षत्संबंधापगमस्य / उपाध्यायगतात् निश्रयादन्यो निश्रयः अनौपाध्यायः / सन्निपतनं सन्निपत्तिः, तेन सन्निपत्तौ सत्यां अभिमतेन निश्रयेण निश्रितस्य प्रवृत्तिः / यो ऽस्य रोचते तस्य निश्रयेण वस्तव्यम् इत्यर्थः // (400)तेनैव तेन // तेन उपाध्यायगतेन निश्रयेन सन्निपाते, तेनैव उपाध्यायेन प्रवृत्तिः / [नास्त्यत्र कादाचित्कं अकादाचित्कं च] // (401) निरन्तरं दुष्टवा उपाध्यायं आसनं मुञ्चेत // निदर्शनं उपाध्यायः, अन्यत्रा ऽपि निश्रये विधेः व्यवस्थानात् // (402-403) त्रिर्दिवसेन निश्रित उपसंक्रामेत् तद्विहारस्थः // अरण्यवासी क्रोशे चेत् प्रत्यहम् // यदि क्रोशे तदरण्यं भवति, यत्र निश्रयो भवति प्रत्यहमागत्य उपसंक्रामेत् इत्यर्थः // (404-405) पञ्चषैः अहोभिः क्रोशपञ्चके //
पोषधे च अर्ध-तृतीयेषु योजनेसु // अतः परं एक [सीमात्व]-स्याभावात् निश्रयत्वस्याभावो वेदितव्यः // (406-409) न निश्रितं अवसादनार्थं नावसादयेत् // पञ्चावसादना - // अनासायो, अनववादः, उपस्थानधर्माभिषैः (विन्सू 42) असंभोगः, प्रारब्धकुशलपक्षसमुच्छेदो निश्रयप्रतिप्रश्रंभणं च // अश्रद्धस्य एतदर्हत्वं कुसीदस्य दुर्वचसो, नाहतस्य, पापमित्रस्य च // अवसादनार्हत्वमेव // (410) अवसादितसंग्रहे अन्यस्य स्थूलात्ययः // एवमपि क्रियमाणे यदि असौ क्षमाणे आदरं न कुरुते, तत्र किं कर्तव्यम् - / (411) अनादृतौ भिक्षोः प्रगुणीकरणाय प्रयोगः अभिज्ञस्य // कीदृशस्येत्याह - अभिज्ञस्य, यस्तत्प्रगुणीकरणाय अभिज्ञः तस्य // (412) त्यक्तः निमित्तस्य क्षमणं क्षमयतः // येन निमित्तेन अवसादितः, तस्य परित्यागे क्षमणम् / न च एवमेव, किं तर्हि, क्षमयतः - // (413-415) न अनर्हमवसादयेत् // न अर्हस्य न क्षमेत // न अनर्हस्य क्षमेत // सर्वथा // (416-418) निष्कासनं अक[र]णीयतायं लयनात् // परिस्रावण-कुण्डिके दत्वा सान्तरोत्तरं च श्रामणेरस्य // उपसंपत्प्रेक्षश्चेत् पञ्च परिष्कारान् // दत्वा निष्कासनमिति अनुबन्धः / परिस्रावणस्य प्रागेव उक्तत्वात्, यदितिनोक्तं (त्रि)-चीवरं निषदनं पात्रं चेति पञ्च // (419) उपसंपन्नस्य च // पञ्चपरिष्कारानित्यबन्धः // (420-421) न सिंहनिष्ठुरो भवेत् // न विघातसं वर्तनं क्रियाकारं कुर्वीरन् // संघभूता भिक्षवः // (422) पलिगुद्धता पर्थुषितत्वं आस्यस्य //
(नाशो राधते(?), रात्रिवासादुत्थितेन दन्तकाष्थेन अन्येन वा मुखे, निश्रयस्य अन्यस्य वा वन्दनं अभ्यवहरणं वा अकार्यम् इति अस्यैतत्प्रतिपादनम् / "न भिक्षुणा दन्तकाष्ठं अविसर्ज्यं पिण्डपातः परिभोक्तव्यः / भुक्ते सातिसारो भवति" इति / वस्तुमनान्तरीयके निदाने यदुक्तं - ऽअप्रतिग्राहित-संनिहिताभ्यवहारः प्रतिक्षेपगतः एषः / अनवेत्य मुखमलं आहारपक्षतां भवद्भिः अतिक्रमः क्रियते इत्यस्य, तदेवं प्रतिपादनम् // निश्रयवृत्तौ इहोक्तिकं - "सार्धंविहारी अन्तेवासी वा कल्यमेव उत्थाय परिमाण्डलं निवस्य आवृत्य च, दन्तकाष्ठं विसर्ज्य अन्तः सीम्नि चैत्यवंदनं कृत्वा इत्यादि यत्परिशोधत्वं मुखमालस्य तदेतद्दन्तकाष्थं विसृज्य" इत्यत्र वचनम् / अतः एतत्सूत्रम् - // (423) विसर्जयेद्दन्तकाष्ठम् / ंऐतद् प्रतिरूपम्, तस्मात् मुखमालशोधनार्थं अवलंबनीयत्वमस्य / कथं विसर्जयेदित्याह // (424) प्रतिच्छन्नमेव // (425) उच्चारप्रस्राविक्रिया च // प्रतिच्छन्नमेव // (426) नोपभोग्यस्य अन्ते वृक्षस्य कुड्यस्य वा // अन्ते इति समीपे, यत्र महाजनः सदा आस्ते तदत्र उपभोग्यः, न तत्र दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः // (427) प्रमाणमस्य द्वादशकाङ्गुलीनां प्रभृत्या ऽष्टकात् // अस्येति दन्तकाष्ठस्य / आ-अषटकादिपाठे ऽत्र संधिः द्वादशाङ्गुलमारभ्य यावत् अष्टांगुलत्वं प्रमाणमस्य इत्यर्थः // (428) आचतुष्कोत्तरात् अभावे बहुश्लेष्मणः //
अंगुलिचतुष्कस्य यदुत्तरं अनन्तरं प्रमाणं तद् यावद्भावे (विन्सू 43) पूर्वप्रमाणस्य, बहुश्लेष्मणे दन्तकाष्ठ स्य प्रमाणम् / ग्रन्थो ऽस्मिन् - "अत्रान्तरान्मध्यम्, अपि तु ये बहुश्लेष्माणः तैः चतुरंगुलविनिर्मुक्तं दन्तकाष्ठं विसर्जयितव्यम्" इति // (429) न अयुक्तत्वं विसर्जनस्य लयने कठिल्लकस्योपरि // विसर्जनस्य इति प्रकृतत्वाट् दन्तकाष्ठविसर्जनस्य // (430) ना ऽसंपत्तिः अत्र गुप्तेः प्रनाडीमुखे // अत्र दन्तकाष्ठविसर्जने प्रनाडीमुखे गुप्तिः प्रतिच्छन्नता संपद्यत एव इत्यर्थः // (431) हस्तसामं तकस्य अत्र एवं-जातीयके संभाव्यत्वम् // अत्रेति प्रणाडीमुखे / एवं-जातीयके इति दन्तकाष्ठविसर्जनजातीयके, पादधावनादौ करणीये / हस्तसामन्तकस्य संभाव्यत्वं न हस्तसामन्तकात् परेण दन्तकाष्ठविसर्जनादि कर्तव्यमित्यर्थः // (432) जिह्वामस्य अनुनिर्लिखेत् / अस्येति दन्तकाष्थविसर्जनस्य // (433) उपस्थापयेत् जिह्वानिर्लेखनिकाम् // (434) सूचीद्रव्यम् // सूचीपुटा क्रियते रैति-ताम्र-अयः-कांसैः तद्रूपैः इत्यर्थः // (435) कल्पते अत्रार्थे दन्तकाष्थविदलः // अत्रार्थे इति जिह्वानिर्लेपनार्थे // (436) परस्परं अस्या ऽतीक्ष्णतायै धृष्टिः // परस्परमिति अन्योन्यम्, अस्येति दन्तकाष्ठविदलस्य // (437-438) न तीक्ष्णेन दन्तं जिह्वां कर्णं चोद्धृषेत् // न अशनैः / शनैः उद्धृषेदित्यर्थः // (439) अबाधयन्तं मांसम् // इति दन्तमां सादि // (440) - न अप्राक्षाल्य दिग्धं मुखमलेन प्रदेशं [अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत्] //
दन्तकाष्ठस्य पवनं छोरयेत् इत्यनेन संबंधः / असंभवे अम्भसः अनवगुण्ठ्य वा पांशुना दन्तजिह्वयोः पवनं छोरयेत् / पवनं पुनः अनयोः यथाक्रमं दन्तकाष्थं विदलं च // (441) न विशब्द्येति // यथोक्तं द्वयं छोरयेत् // (442) निदर्शनमेतद् // विशब्दनस्य दन्तजिह्वयोः पवनं, अन्यदपि अनेन आक्षिप्तमित्यर्थः / निदर्शनेन यदाक्षिप्तं तद्दर्शयति - // (443) उच्चार-प्रस्राव-खेट-सिंघाणक-वान्त-विरिक्तमप्यन्यच्च // भवति अखेटभूतं वान्तं, विरिक्तं वानुच्चारभूतम्, - तद्यथा नासाविरेके अतिसारिणश्च, यथा पीतनिर्गमे / तस्मात् उच्चार - खेटाभिधाने सत्यपि वान्त-विरिक्त-ग्रहणम् / उच्चारिदिषु अतिरिक्त [स्य स]र्वस्य उपसंग्रहार्थं अन्यच्च-इतिवचनम् // (444) निर्मादनस्य अतो ऽपि संपत्तिः // उषाटुक-गोमयादपि // इति दन्तकाष्थविसर्जनात् / उषाटुक-गोमयादपि संपत्तिः - / "दन्तकास्थस्य अलाभे गोमयेन उषाटुकेन च मुखं शोधयितव्यम्" इत्यत्र ग्रन्थः // (445) चैत्यं अनन्तरं कायकरणीयानुष्ठानात् वन्देत // दन्तकाष्ठविसर्जनान्तरं यत्करनियानुष्ठानं, तस्मात् - //
(अ) निश्रितप्रतिपद्
(446) अथ निश्रित-प्रतिपत् // अथ-शब्दो ऽधिकरार्थं नानन्तर्यार्थः / इत (विन्सू 44) ऊर्ध्वं निश्रित-प्रतिपत् अधिकृता वेदितव्या // (447) अतो ऽनन्तरं काल्यं उपसंक्रम्य वन्दनम् // अतः इति कायकरणीयानुष्ठानान्तरात् चैत्यवन्दनाट् नियतम् / निश्रितस्य स्वास्थ्यकल्ये कायकरणीयानुस्थानं, इत्यतः काल्यतरं निश्रयस्य इति प्रतिपत्तव्यम् / परिशुद्ध-आस्येन वन्दनस्य अग्रत्वे इष्टव्यत्वात् / अन्यथा निश्रितस्य विघातजातेः / न च मन्तव्यं - उषाटुक दन्तकाष्ठोपनामनं इत्यनेनास्य विरोधः इति, ग्लानादौ अवकाशसद्भावात् // (448) वार्ता-पृच्छनम् // (449) उषाटुकदन्तकाष्ठोपनामनम् // (450)महानसं अवलोक्य आरोचनम् // इति यत्तत्र उपकल्पितमनुपानं तस्य आरोचनस्य - // (451) प्रियस्य उपनाम्यत्वेन मनसिकरणम् // इति आरोचिते यत्रासौ प्रीतिं संदर्शयति तस्य प्रियस्य उपनामयिष्यामि अस्येदं इत्येवं मनसिकरणम् // (452) पात्रनिर्मादनम् // (453) पिण्डपातिकश्चेत् निश्चयो भवति रावकस्य च // रवक्षरक-द्वितीय-नाम्नः निर्मादनम्, रैति शब्दं करोतीति रावकः // (454) सप्रयोजनं चेत् परिस्रावणस्या ऽपि // निर्मादनमिति संबंधः / प्रयोजनं पुनः कदाचित् बहिरेव भोक्तव्यं भवति / [तदपि भवति चेत् प्रष्टव्यम्] // (455) सो ऽपि चेत् प्रश्नः // पिण्डपतिको भवति, ततः पिण्डपात-प्रवेशार्थं साह्य-असाह्य-प्रवेशाभ्यां किमस्य अभिरुचितमिति ज्ञानार्थं प्रश्नः // (456) साह्यं चेत् - // निश्रयस्य निश्रितेन सह प्रवेशे // - अभिरुचितं तेनैव निश्रयेन सह प्रवेशः // (457) विषमादौ पुरतो गतिः // (458) प्रणीतस्य तस्मै च परिणामनम् //
यदि प्रणीतः पिण्डपातो लभ्यते, तस्मै परिणामयितव्यो अस्मे देहीति // (459) असहः चेत् - // इति प्रवेशः // - आगत्य उपदर्शनम् // [इति] पिण्ड कस्य / [कीदृशं परिणामयितव्यं इति चेत् - // (460) वरतरस्य उपनामनम् यत्तत्र प्रपीतखाद्यभोजनं भवति, तन्निश्रयाय उपनामयितव्यं गृहाण इति // (461) मात्रज्ञ ऽसौ सर्वत्र स्यात् // (इति) निश्रयः // (462-463) उदकस्थालकपूर्णम् // कालारोचनम् // इति भोजन-कलस्य // (464) भुक्ते पात्रादिनिर्मादनम् // (465) स्थापनमस्य // निर्मादितस्य पात्रादेः // (466-471) चैत्याभिवन्दनायां उषाटुकोदकाद्युपनयः // पादप्रक्षालनगतानुष्ठानम् // शयनासनप्रज्ञपनम् // प्रतिनिवासनार्पणम् // निवासनग्रहणम् // पादोदकाधिष्ठानकठिल्ल-उपनामनम् // पादशब्दस्य उदकाधिष्ठानाभ्यां प्रत्येकं अभिसंबंधः / पादोदकपादाधिष्ठानां कठिल्लानां उपनामनम् // (472-274) उपानत्-प्रोञ्छनम् // असम्मतं उत्थानकारकत्वेन गृहितसंमार्जनीकं दृष्ट्वा अल्पोत्सु कं कुर्यात् // गृहीत-सूचीकं च असम्मतं चीवर सेवकत्वेन // दृष्ट्वा अल्पोत्सुकं कुर्यात् इति वर्तते / सम्मतं तु उत्थानकारकत्त्वेन (विन्सू 45) [चीवरसेवकत्वेन वा] अल्पोत्सुकं अकुर्वतो नस्ति दोषः // (475) कल्पिकीकरण-अल्पहरितापादान-पुष्पफल्लोच्चय-दंतकाष्ठोपसंहाराद्यपि श्रमणोद्देशे // निश्रयं प्रति करणीयमिति अर्थात् गतिः / पूर्वोक्तं च सर्वं इति ऽअपिऽ-शब्दात् / संघे ऽपि व्यापरनीयतायां अस्यैतत्करणीयमिति अनुसाराद् गन्तव्यम् // (476) अर्गडक-आकोटनेन अभ्यतरस्थं बोधयेत् // निश्रयं अन्यं च भिक्षुम् / सर्वाधिकरिकः एष विधिः // (477)शनैः एतद् //
अर्गडकाकोटनम् // (478) नाति वेलम् // इति न मुहुर्मुहुः अर्गडकं आकोटयेदित्यर्थः / न त्वेनं विध्येत् // (479) एन नातिवेगेन प्रपीडयेत् // एनं अर्गडकं कवाटद्वितीयसंज्ञं नातिवेगेन क्षिपेदित्यर्थः // (480)शनः सप्रजानन् आप्रविशेत् निस्क्रामेच्च असंघर्षणेन द्वारशाखे // यथा अन्योः धृष्टिः न भवति तथा इत्यर्थः // (481) सत्कुर्यादेनम् // [एनमिति] निश्रयम् / अन्तराले निश्रय-निश्रिताधिकारस्य अविच्चिन्नत्वात् एनं-शब्दो निश्रयपरामर्शार्थः // (482) आलीयेत // एनमित्यनुषङ्गः, संश्लिष्टेन निश्रयस्य विहर्तव्यम्, न दूरीभवितव्यमित्यर्थः // (483) न तद्विरुद्धमिति // आलीयेत इत्यनुबन्धः / निश्रयविरुद्धस्य न उपश्लिष्यात् इत्यथः // (484) अपत्रपेत अतः // अतः इति निश्रयात् / यावदुक्तं भवति - सलज्जेनास्य भवितव्यमिति // (485) दक्षो ऽस्य कृत्ये स्यात् // दक्षो ऽनलसः, अस्य निश्रयस्य // (486) सत्कृत्यकारी // यदस्य करणीयं तत्सकृत्य कतव्यमित्यर्थः // (487) प्रासादिकप्रस्थानः // प्रासादिकेन अभिक्रमादिना युक्तः // (488) ह्रीमान् सगौरवः / यद्यपि ह्रीविशेषो गौरवं, तथापि नेतच्छब्दादस्य गतिः इत्यस्य ग्रहणम् / प्रसर-सं कोचो ह्रीः // (489) सप्रतीश इति // परायत्ततासंवेदनरूपो अपत्राप्यविशेषः सप्रतीशता // (490) नीचचित्तः // निहतमानः // (491) संप्रजानन् अहापयन् स्वकार्यम् // ध्यानाध्ययनादिकम् // [(492) किं-कुशलगवेषी कृत्ये वा // एतद्गत-निश्रयग्रहणा ऽपृच्छता परिवारदानादौ च अन्यत्र वा निश्रितेन किंकुशलगवेषिणा भवितव्यं, न लोकयात्रापरेण एतत्कर्तव्यं इत्यर्थः // (493) विक्रियां] आपद्यमानं निवारयेत् //
यद्यसौ निश्रयः कांचिद्विक्रियामापद्येत, स निश्रितेन वारयितव्यः // (494) अवृद्धौ कुशले अन्यत्र तत्करे समर्पणां याचेत // यदि अस्य निश्रितस्य तस्मिन्निश्रये कुशलें न वृद्धर्भवति, ततो ऽसौ एनं अन्यस्मिन् कुशलवृद्धिकरे निश्रये समर्पणां याचेत // सो ऽपि एनं प्रश्नादिना - (495) निर्ज्ञाय निश्रयार्हे अर्पयेत् // [ततो ऽपि?] परं निश्रयेण निश्रितस्य करणीयम् - // (496-497-498) पापमित्रात् वारणम् // कुशले नियोगः // तदुपसंहारः // कुशलोपसंहारः इत्यर्थः // (499) [व्युत्था]पनायां आपत्तेः आनुलोमिके जीवितपरिष्कारसंपत्तौ (विन्सू 46) च उद्योगः // यथा निश्रितस्य एतद्-द्वयं संपाद्यते तथा निश्रयेण उद्योगः करनीयः / सो ऽप्येतद् अस्मै कुर्यात् इति [चतुः]-अतिक्रान्तात्सूत्रात् निश्रितेनापि नि [श्रयस्य] एतद्-द्वयसंपत्तौ उद्योगः कर्तव्यः इति प्रतिपत्तव्यम् // (500) सार्धविहारी अन्तेवासिक-उपाध्याय-आचार्य-समानोपाध्याय समानाचार्य-आलप्तक-संलप्तकसंस्तुतक-सप्रेमकं ग्लानमुपतिष्ठेत // आलप्तको हि नाम प्रियतां आलपनादि-प्रियाचरणेन उपनीतः / संलप्तको येन सार्धं अस्य विश्वस्तकस्य कालेन कालं संलापो वर्तते // संस्तुतको येन सार्धं अस्य एकत्र [स्थान-]गमनादिना संस्तवोपगमनात् अङ्गाङ्गीभावो जातः / सप्रेमको यद् दृष्ट्वा श्रुत्वा वा विना ऽङ्गाङ्गीभावेन प्रीतिमात्रकमुत्पन्नम् // (501) पूर्वक्रिया ऽभावे उत्तर इति //
सार्धविहारी-अन्तेवास्यादिणां पूर्वेण उपस्थानकरणस्याभावे उत्तर-उत्तरः उपतिष्ठेत् / सार्धविहारिणा उपस्थानकरणस्या ऽभावे अन्तेवासिकः उपतिष्ठेत्, तेन उपाध्यायः, तेन आचार्य इत्यादि / गुरुत्वात् उपाध्यायस्य ततः पूर्वयोः प्रथमं अर्हत्वं, आचार्यच्च अन्तेवासिकस्य, सार्धांविहारिणो अन्तेवासिकात् / अतश्च प्रत्यसन्नतरत्वात् क्षिप्तस्य पूर्वस्य प्रथमं अर्हत्वम् // (502) पाथाचार्यस्यापि अत्र गृहीतता // इत्याचार्यग्रहणेन च // (503) साह्ये अशक्तौ निश्रितं येन प्रवृत्तिः // साह्य इति ग्लान्यस्य अनेकत्र उपस्थेये // अशक्तौ इति यद्येकतः अपि उपस्थातुमशक्तिः, ततो निश्रितमुप[तिष्ठे] दित्यर्थः / कतमं निश्रितमित्याह - येन प्रवृत्ति, यमापृष्ट्वा करणीयं करोति / अन्तरा, यदा यस्य येन अतिपत्तिः, तदा तस्मिन् प्रव्रर्तितव्यम् / अत्ययकारिणां अतिपत्तौ, सर्वमुत्सृज्य इत्यर्थात् गन्तव्यम् // (504) प्रव्रजितवत् अत्र प्रारब्ध-तल्लिङ्गः // अत्रेति ग्लानोपस्थानविषयत्वे, यः प्रव्रज्यार्थं मुण्डनादिना वेषमात्रेण योजितः नाद्यापि प्रव्राजितः स प्रव्रजितवत् द्रष्टव्यः / यथा प्रव्रजितस्योपस्थानं तथा तस्य ग्लानस्य कर्तव्यमित्यर्थ // (505) न ग्लानं सब्रह्मचारिणं अभ्युपेक्षेरन् //
(506) उपास्थायकं अस्य अभावे ददीरन् आ ऽन्तात् / अभाव इति सार्धं विहार्यादेः / कुतो यावद्देयम् इत्याह - आ ऽन्तात् इति / यदि दत्तेना ऽपि एकेन अभवो भवति उपस्थायकस्य, त्ने अशक्त्या संभावनकार्य-असद्भावात् अपरं ददीरन् / एवं यावत्पर्यन्तभूतः संघस्य इत्यर्थः / "सर्वस्याभावे संघेन उपस्थायको देयो ग्लानावस्थां परिच्छिद्य, एको वा द्वौ वा संबहुला वा, अन्ततः सर्वसंघेन उपस्थापनं करणीयम्" - इत्यत्र ग्रन्थः // [भैषज्यप्रतिशरणत्वात् -] (507) कल्पते भैषज्यं संघतः केवलस्य ग्लानस्य परिभोग इति // मुण्डगृहपतिद्रव्ये भैषज्यं [यद्] तत्सांघिकायां ग्लानकोष्ठिकायां स्थापयितव्यम्, ग्लानैः भिक्षुबिः परिभोक्तव्यं इति (विन्सू 47) यत्तस्यैतेन संग्रहः // (508) असत्वे एतद् उपस्थापकः समादापयेत् इति // अभावे सति एतद् उपस्थापकेन समादापयितव्यम् // (509) असंपत्तौ सांधिकं ददीरन् // यदि समादाप्यमानमपि न संपद्यते, ततः सांधिकं देयमित्यर्थः // (510) अभावे (सांधिकस्य) बौद्धिकं आशरीरगतादिति // आमुक्तकमपि यत्प्रतिमायां चैत्ये वा आभरणादिभिरपि यावद्देयं अन्याभावे कः [पुन]र्वादो ऽन्यस्येत्यर्थः // (511) पानक-छत्रारोपणादिकारान् एनमुद्दिश्य [सांधिकात्] कुर्युः // असंपत्ताविति वर्तते, स्वस्याभावे, सांधिकत् / अस्येति सांघिकस्य (512) अभावे अस्य बौद्धिकात् / (513) देयत्वं आभ्यां आर्तस्य तेनामृत्यौ सति विभवे // आभ्यामिति सांघिकबौद्धिकाभ्याम्, असति तु दाने दोषाभावः // (514) नोपस्थायकः एनं नोपतिष्ठेत् // एनमिति ग्लानम् // (515) न अर्थ्यां अस्य धर्म्या च आज्ञां विलोमयेत् //
अर्थ्यामिति जीवितपात्र-प्रतिसंयुक्ताम् / अस्येति ग्लानस्य / धर्म्यामिति पुण्योपस्थान प्रतिसंयुक्ताम् // (516) नाध्यवसान-वस्तूपयाचितो विधारयेत् // अध्यवसानवस्तु यत्र पात्रादौ ग्लानस्य तृष्णा / उपयाचित इति ग्लानेन, उपस्थायकः // (517) न नाववदेत् इति // ग्लानमुपस्थायकः // (519) नैनं ग्लानो अतिलंघयेत् उपस्थायकेन कृतं अववादं न ग्लानो अतिक्रमेदित्यर्थः // (519) सांघिकादेनं असौ उपस्थायकः - मरणशंकायां शयनासनादुत्थाप्य पौदगलिके निवेशयेत // (520) अभ्यंजन-स्नपनपूर्वकताव्याजेन इति // अभ्यंजन-स्नपनपूर्वकतया व्याजभूतया निवेशयेत् इत्यर्थंः / व्याजस्य अत्र प्रधानत्वात्, निदर्शनमेतद्-द्वयं वेदितव्यम् // (521) यत्नवान् तदवस्थापरिच्छेदे स्यात् // इति मरणावस्थापरिच्छेदे यस्यां शरीरावस्थायां मरणाशंका भवति तस्यामित्यर्थः / यत्नश्च अत्र मुहुर्मुहुः प्रत्यवेक्षणम् // (522) तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य // तेन ग्लानेन कृतसंक्लेशानां तन्मृतचीवराणां इति यस्यासौ ग्लानस्य उपस्थायकः तस्य एव मृतस्य यदि तानि चीवराणि भवन्ति, न अन्यस्य, तेसां धावनम् / तस्य उपस्थायकस्य करणीयमित्यर्थः // (523) संघस्य तत्स्थविरः संनिपाते पूर्वगमः स्यात् // निश्रय-निश्रितप्रकार एषाः इत्येतस्मिन्नवधौ संघस्थविराधिकारस्य उपन्यासः / संघस्य संनिपाते संघस्थविरः पूर्वंगमो भवेदित्यर्थः // (524) गमने विलंबितं उदीक्षेत // तत्स्थविरः // (525) ते ऽपि एनमिति / येषां असौ स्थविरः, ते ऽपि एनं गमनविलंबितं उदीक्षेरन् // (526) अनिर्गतं च दूरं गत्वा //
(527) ग्रामान्ते च / समीपवाची अत्र अन्तशब्दः // (528) प्रवेशश्चेत् अत्र अनुयान्तम् // प्रवेशश्चेदभिप्रेतो अन्वागच्छन्तं एनं ग्रामान्ते उदीक्षेरन् / उदीक्षमाणानां - (529) दूतश्चेत् स्यात् "आगमय यावत्स्थविर (विन्सू 48) आगच्छति" इति ब्रूयुः // एनमिति दूतम् // (530) पाण्युदकदाने च गतत्वे अभ्यवहाराय अस्ति चेत्कालः इति // गतत्वे भोजनाय पानकाय वा पाण्युदकदानवेलायां यदि बिलम्बमानानां कालो ऽस्ति, ततो दूतमेनं ब्रयुः - "आगमय यावत् संघस्थविर आगच्छति" इति // (531) असति अत्र उपदेशे अस्यासनं मुञ्चेरन् // असति उदीक्षणकाले भोजनादि-उपवेशे संघस्थविरस्य आसनं मोक्तव्यम् // (532) संनिषण्णतायां [बहिश्च प्र]त्यवेक्षेत // संनिषण्णः अन्तर्गृहे, बहिः इति आश्रमपदात् // अनयोः अवस्थयोः प्रत्यवेक्षणां संघस्थविरेण कर्तव्यम् // मा ऽत्र कश्चित् दुस्प्रावृतो अनिवस्तो वा इत्येदर्थं - // (533) दुस्प्रावृतत्वे दुर्निवस्ततायां वा सौष्ठवार्थं अनयोः निमित्तं अस्मै कुर्वीत // अनयोः इति दुष्प्रावृतता-दुर्निवस्ततयोः / निमित्तमस्मै इति यो ऽसौ दुष्प्रावृतो दुर्निवस्तो वा // (534) अप्रतिवेधे अनन्तरेण कारयेत् // यदि असौ दुर्निवस्तः संघस्थविरेण क्रियमाणं निमित्तं न प्रतिविध्यति, ततो यस्तस्या ऽनन्तरः तेन कारयेत् // (535) असंपत्तौ स्वयम् // एवमपि सौष्ठवकारणस्य असंपत्तौ स्वयमेव कारयेत् / निमित्तस्य अप्रतिवेधे वचनेन कारयेत् // (536) न एनान सं[ला]पयेत् नवकान् / येषां स तत्र संघस्थविरः - // (537) यत्रैषां विहारारण्ययोः वृत्तिः तद्वृत्तं ग्राहयेत् [नियुञ्जीत च] //
येषामिति नवकानाम् / तद्वृत्तमिति विहारवृत्तं अरण्यवृत्तं च / नियुञ्जीत चेति, न केवलं तद्वृत्तं ग्राहयेत्, अपि तु तस्य वृत्तस्यानुष्ठाने नियोगो ऽपि एषां कार्यः //
(ब्) पश्चात्-श्रमणः
(538) आगन्तुकः प्रत्यवेक्ष्य आ[वा]सिकानां आरोचयेत् शयनासनार्थम् // शयनासनार्थं आगन्तुकसंघस्थविरः प्रत्यवेक्षेत, येषां असौ संघस्थविरः आवासिकानां, आरोचयेत् शयनासनार्थम् // (539) गमिको दिक्-सार्थ-आवास-शयनासन सहायकांश्चग्लान्ये न-सहायित्वेन तोलयित्वा प्रक्रमेत् // गमिकः संघस्थविरः / गमिकानामिति अर्थात्प्रतिपत्तिः - यस्यां दिशि गन्तव्यां येन सार्थेन मार्गेण च य आवासः तत्र च गतस्य शयनासनं तद् सर्वं बुद्ध्या युक्तायुक्ततया संतोल्य, सहायकांश्च ग्लान्ये सति न केनचित् कश्चित्परित्यक्तव्यः, इत्येवं तोलयित्वा ततो यथाभिमतस्थानसंपादनार्थं प्रक्रमेदित्यर्थः // (540) सर्वं पश्चात् मा कस्यचित् किंचित् प्रमुषितमिति अपेत्य आदूरं उत्स्मारयेत् // संघस्थविर एव // (541) अनुद्धतान् अनुन्नड्डत्वे न[व]कान् प्रतिष्ठापयेत् // अनुपशमः औद्धत्यम्, स्तब्धत्वं [उन्नडत्वं] तद्विपर्यये प्रतिष्ठापयेदित्यर्थः // (542) कुशलं च उपगतान् सर्वः सर्वान् इति // अनुद्धताननुन्नड्डत्वे प्रतिष्ठापयेत् इत्यनुषङ्गः / न गमिकः स्थविर एव, अपि तु अन्ये ऽपि / न च नवकानेव अपि (विन्सू 49) तु अन्यानपीत्यर्थः // (543) संजानीत / गमिकः संघस्थविरः // संघचर्या-ईर्या-उपदेश-उद्देशादिं-भक्तलाभ-ग्लानसंविधानादि-करनीय-संपादनेन अनु[गृ]ह्णीत // चर्या-गोचरः / ईर्यापथ-ईर्या / तयोरुपदेशः, अयं गोचरः अयमगोचरः एवं गन्तव्यमित्यादि / उद्देशादि इत्यत्र स्वाध्यायनिकादीनां आदिशब्देन ग्रहणम् // (544) वर्षोपगतो अनुसंज्ञाय विहारं अप्रतिसंस्कुर्वतः संस्कारयेत्, संस्कुर्वतो अभ्युत्साहयेत् //
(545) पर्षद्गतान् सर्वः कथैषितायां अनुलोमिकधर्मोपसंहारेणानुगृह्णीत // स चेत् पर्षद्गताः कथां एषन्ते ततो यो यस्यानुकूलो धर्मोपसंहारः तेन अनुगृह्णीत / सर्वः इति संघस्थविरः, न च वर्षोपगतसंघस्थविर एव // (546) तूष्णीत्वे र[ता]न् उपेक्षेत // तूष्णीभावः तूष्णीत्वम् / आर्यः अत्र तूष्णींभावो ऽभिप्रेतः, न मौनमात्रम् // (547) गृहिणः उपगतान् भक्तान् संविभाजयेत् // युक्तमेषां भक्तं दातुमिति / भिक्षून् बोधयित्वा यदि ते भिक्षवः संघस्थविरेण उक्ताः संविभागं न कुर्वन्ति, ते वा गृहिणो भोक्तुं नेच्छन्ति ततः - // (548) अकरणे अनिष्टौ वा धर्म्यामेतां कथां कृत्वा इदमस्माकं संविद्यते इति ब्रूयात् // (549) पर्षदं तद्वान् सर्वः प्रत्यवेक्षेत // सर्वः पर्षद्वान्, न संघस्थविरः एव इत्यर्थः // (550) मुधाचारिणं निगृह्णीयात् // सर्वः पर्षद्वान् इत्यनुषङ्गः / यथा न वृथा कालमतिनामयति, न निरर्थिकां प्रव्रज्यां करोति तथा कर्तव्यमित्यर्थः // (551) गमनादि अत्र यथा एतत्कुर्यात् // एवं गन्तव्यं, एवं स्थातव्यं इत्यादि संनिवेशापेक्षः ऽआदिऽ-शब्दः // ऽअत्रऽ इति पर्षदि / ऽयथा एतद्ऽ इति यथा पर्षद्, पर्षदनुरूपं इत्यर्थः // (552) अ-नानातिर्यक्-कथः स्यात् // अत्र इति वर्तते / धर्मविनयादपक्रान्ता ऽपार्श्वेन अस्य वर्तिनी, तिर्यक् कथा, नानाकथाविप्रकीर्णाः // (553-554) न पुरः पश्चाच्छमणो गच्छेत् // न तिष्ठेदिति // पुरतः पश्चात् (वा) श्रमणे न तिष्ठेदित्यर्थ // (555) उक्तो ब्रूयादिति // नानुक्तेन किंचिद्वक्तव्यम् // (556) संपादयेद्वेति // यदस्य उच्यते पुरःश्रमणेन तत्संपादयेत् इत्यर्थः //
(557) न अन्तराकथां अवपातयेत् इति // पुरःश्रमणे कथां कुर्वाणे, न अन्तरा-कथां कुर्यादित्यर्थः // (558) अधर्मं भाषमाणं / (इति) पुरःश्रमणं / प्रतिवदेत् // (559-560) धर्मं अनुमोदेत // संपन्नधार्मिकं लाभं प्रतिगृह्णीत // इति पश्चाच्छ्रमणः // एतत्पश्चात्-श्रमणवृत्तम् //
(च्) कुलोपसंक्रामी-भिक्षुगतम् /
कुलोपसंक्रमिणो वृत्तमुच्यते // (561) अनुन्नडः / इति सर्वः / कुले स्यात् अनुन्नडः अनवस्थितः // गृहादपक्रमितुकामता, अनवस्थितत्वम् // (562) अवक्षिप्तचक्षुरिति // विषयेभ्यः प्रतिसंवृतचक्षुरित्यर्थः // (563) धर्म्यां गृहिभ्यः कथां कुर्यात् // (विन्सू 50) (564) दान-दम-संयम-ब्रह्मचर्यवासोपोषध-शरण-गमन-शिक्षापदग्रहणेषु एनान्नियुञ्जीत // एनानिति गृहिणः / दमो वशीकरणम्, वशीकृतत्वं चेन्द्रियाणां कायवाचोश्च संयमो ऽविसरणं एषाम्, विनयनं विनियतावस्थानम् / ब्रह्मचर्यवासश्च इति प्रव्रजितवृत्तम्, गृहित्वे च यावज्जीविका ग्राम्यधर्मात् प्रतिविरतिः // (565) सर्वत्र-आपत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत // स्मृत इति आपत्तिषु इत्यर्थात् गतिः / कुल[प्रवे]शादौ यद्गमनादिप्रस्थानं आपत्ति-उत्थानद्वारभूतं, तत्र तथा स्मृत्रुपस्थाप्या यथा न किंचिदापद्यते // (566) न न-शिष्टः अनुगम इति // प्रतिपद्येत इत्यनुषङ्ग / नानुशिष्टो ऽयं अनुबद्धः, तेन न प्रतिपद्येत / न विलङ्घयेत अस्यानुशासनीमित्यर्थः // (567) एहि इति स्वागतपूर्व-प्रियालाप्यभिगते स्यादिति // एहि इति स्वागतालापी पूर्वं च आगतालपनात् प्रियालापी स्यादित्यर्थः / [अभि]गते इति गृहिणि प्रव्रजिते वा // (568) उत्तानमुखवर्णः / इति अगहनायमानः // (569) स्मितपूर्वंगम इति // स्मितेन प्रथमं गन्ता, सांमुख्यस्य दाता इत्यर्थः // भवति सान्तरे ऽपि प्रस्थाने सस्मितत्वमिति, आह - // (570) विगतभ्रुकुटिःः // (571) गृही चेदभ्यागतः, धर्म्यां अस्मै कथां कुर्यात् // (572) [अनागच्छति अत्र ग्रामान्तिकः संरंजनीयं यथा शाक्ति प्रवर्तयेत्] //
[अनागच्छति इति गृहिनि / ग्रामान्तिको भिक्षुः / संरंजनीयं भोजनादिना] यथाशक्ति प्रवर्तयेत् // (573) पानीया ऽसनमुपस्थापयेत् // आरण्यके ऽपि, पानीयं आसनं चेति विग्रहः // (574) संमार्ग-शयनासनप्रज्ञपनपानीयस्थापन-चारण-भक्तनिःसर्गान् नवकः कुर्यात् // यत्र तत्र समागमे समागमे सर्वमेतत्तेन नवकेन कर्तव्यम् // (575) उपगच्छेत् विलोमां परिजनक्रियां, न चेत् स्व-परोपघाताय // उपगच्छेदिति अध्युपेक्षेत / न चेत् अभ्युपगम्यमाना आत्मनः परेसां वा उपधाताय भवति // (576) अस्मै चेत् - // परिजनस्य सा क्रिया उपघाताय चेत् // शक्तौ सत्यां समुच्छिद्य एनां-विलोमां क्रियां अन्याम् // धर्म्यां - // क्रियाम् // उत्पाद्य तथा - // परिजनं // संज्ञापयेत् // (577) भङ्गे ऽप्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्करणम् // इति तस्यां धर्म्यायां क्रियायां उत्पाद्यमानायां तस्य परिजनस्य यदि चित्तभङ्गो भवति दुर्मनस्कता ऽप्ररोगे वा अन्येन प्रक्रमणं तस्य प्रतिसंस्करणम् / तथा दानादिना प्रतिसंस्कर्तव्यम् / परिजने यथा ऽस्य एतद् द्वयं न भवतीति // (578) अशक्तत्वे अन्येन प्रक्रमणम् // इति समुच्छेत्तुमशक्तत्वे अन्येन प्रक्रमितव्यम् // (579) न तु तत्प्रत्ययं विगृह्य - // परिजनस्य // ब्रूयात् // (580) संघारामे ऽपराध्यन्स्तथा कुर्याद्यथा स्वयं ग्राहिकया ग्रहणं गच्छेत् // (581) अगच्छन्तमनारोच्य सहसा कस्यचित् कुमार-मित्र-अमात्य-भट्ट-राजपुत्रेभ्यः (विन्सू 51) पादमूलिकान् ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात् //
ग्राहयित्वा इति बोधयित्वा / शुद्धिकापर्षद् यत्र न दण्ड्यते तत्र निहन्यात् पराजयेदित्यर्थः / कुमारादिनां तु यत्प्राग्बोधनं तदेतदर्थम् आपराजितः तदाश्रयेण नापकुर्यात् इत्यर्थः // उक्तं प्रव्रज्यावस्तुसम्बद्धं भिक्षुगतम् //
(द्) भिक्षुणीगतम् /
भिक्षुणीगतमिदानीमुच्यते // तत्र यत् प्रव्रज्योपसंपदोः ऽपुरुषःऽ उक्तं, तदेव स्त्रियामिति अङ्गोकृत्य विशेषः आख्यायते // (582) भिक्षुणी भिक्षुस्थाने // संघैकदेशभूतः [एकभू]तो वा उपाध्यायरोचकादि यत्र भिक्षुरुक्तो भिक्षुनी तत्र द्रष्टव्या इत्यर्थः // किं सर्वस्य भिक्षोः स्थाने ऽथ कस्यचिदित्याह - // (583) सर्वस्य प्रव्रज्यायाम् // प्रव्रज्याविषये सर्वस्य उपाध्यायादेः भिक्षोः स्थाने भिक्षुणी प्रतिपत्तव्या / उपाध्यायिकार्थ आरोचनं, श्रामणेरीसंवरदानं इत्येतत्सर्वं भिक्षुणीभिरेव अनुष्ठातव्यम् / नास्त्यत्र भिक्षोरधिकार [इत्यस्य] तत्-प्रतिपादनम् // (584) उपसंपदि अन्यस्य तद्याचनादौ कर्मकतुः // उपसंपदि न सर्वस्य भिक्षोः स्थाने भिक्षुणी द्रष्टव्या / अपि तु उपसंपद्याचनादौ, यः कर्मकर्ता ततो ऽन्यस्य भिक्षोः स्थाने भिक्षुणी उपसंपद्याचनात्प्रभृति कर्मकारको ऽत्र भिक्षुरेव न भिक्षुणी इति उक्तं भवति / प्राक् तु उपसंपद्याचना[याः] भिक्षुणी कर्मकारिका, या ऽसौ केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थाने संवृतिं ददाति इति // (585) अत्राच[य]स्संघः // अत्र उपसंपदि याचनादौ भिक्षुसंघः // आचयभूतः प्रतिपत्तव्यः / उभयसंघे सन्निपतिते याचनात्प्रभृति कर्म कर्तव्यमित्यर्थः // (586) कथनं भिक्षुण्यान्तरितं आन्तरायिको स्यात् वा // इत्यान्तरायिककथने संघमध्ये क्रियेते - एकं केवलभिक्षुणीसंघमध्ये, ब्रह्मचर्योपस्थान-संवृतिदाननिमित्तद्वयमुभयसंघमध्ये // द्वयस्या ऽपि एष विधिः प्रतिपत्तव्यः / लज्जानिमित्तमेतदुक्तम् - तस्मात् कामचारविज्ञानार्थं आदौ क्रियापद प्रयोगः //
(587) शिक्षमाणात्वं नाम स्त्रियामपरं पर्व // श्रामणेरिकात्वं भिक्षुणीत्वं इत्येतत्पर्वद्वयं पुरुषसाधारणम् / इदं तु तृतीयं अस्याः पर्व / तच्च - // (588) निश्रितायामेव // श्रामणेरिकात्व-भिक्षुनीत्वाभ्यां अविशेषतासंदर्शनार्थः ऽएवऽ-शब्दः, यथा इमे पर्वणी / निश्रितायामेवं एतदपीति / अतश्च उपाध्यायिकात्वेन भिक्षुणीं काञ्चिच्च, न तामेव यां श्रामणेरिकार्थं इति प्रतिपत्तिः / तदेवं स्त्रियां त्रित्वमुपाध्यायस्य, पुरुषे तु द्वित्वं इति जातं भवति / कस्यामवस्थायां शिक्षमाणात्वं नाम स्त्रियां अपरं पर्व, कियन्तं वा कालं अस्य चरणं इत्याह - // (589) श्रामणेरिकात्व-भिक्षुणीत्वयोः अन्तराले वर्षद्वयचरणस्य कालः // तावन्तं कालं आचरित्वेन उपसंपादनं इत्येवं कालपरिग्रहो, (विन्सू 52) न अत्रोर्ध्व चरितव्यमेतद् व्रतमिति / तस्मात् न पूर्णत्वे ऽस्य कालस्य प्रागुपसंपत्तेः अशिक्षितव्यं अस्यां शिक्षायाम्, ध्वंसो वा अस्य संवरस्य इति प्रतिपत्तव्यम् / को ऽस्य शिक्षमाणात्व-प्ररोहस्य काल इत्याह - // (590) तदूनोपसंपत्कालाद्यादिकः प्ररोहस्येति // उपसंपत्कालस्यादिः / स द्वि[वि]धो ऽस्याः / कुमारिकायाः विंशतिवर्षत्वं, गृहोषितायाः द्वादशवर्षत्वम् / तेन चरणकालेन वर्षद्वयेन ऊन-उपसंपत्कालादिना आदिः, [तदूनोपसं पत्कालादिः] अस्य कालस्य सो ऽयं कालः तदूनोपसंपत्कालाद्यादिकः / एषो ऽस्य शिक्षमाणात्वप्ररोहस्य कालः / कुमारिकायाः अष्टादशत्वं वर्षाणां, गृहीषितायाः दशवर्षत्वमित्यर्थः // ग्रन्थो ऽत्र भिक्षुनीविभङ्गे - "या गृहोषिता दश वर्षा, कुमारिकाभूता वा अष्टादशवर्षा / तस्याः द्वे वर्षे शिक्षा संवृतिर्देया" इति //
उपसंपत्कालस्य अत्र विघौ अंगीकृतस्य विशेषः आख्यायते - // (591) द्वादशत्वं वर्षाणां उपसंपदि-ऊढतायां आदिः // ऊढतायां कृतावाहनतया कृतविवाहतायां, द्वादशत्वं वर्षाणां उपसंपदि कालस्य आदिः // (592) दानादुत्थानम् / शिक्षमाणात्वस्य इत्यनुषाङ्गः / केन [दा]नादित्याह - // (593) भिक्षुणीसंघेन // कथमित्याह - // (594) शिक्षासंवृतिरिति दानम् // "इयं एवंनामा शिक्षासंवृतिं याचते, यावत्तत्संघः शिक्षासंवृतिं ददाति" इत्येवमादेः मन्त्रस्य एतदुल्लिंगनम् // (595) अनन्तरमस्य शिक्षोत्कीर्तनम् अस्य शिक्षासंवृतिदानस्य अनन्तरं शिक्षायाः उत्कीर्तनम् - षण्णां धर्माणां, षण्णां अनुधर्माणाम् // तत्र षट् धर्माः कतमे -
नै काकिनी प्रव्रजेत् मार्गम् / नदीपारं न संतरेत् //
न स्पृशेत् पुरुषं, तेन / नौकागारे सह स्वपेत् //
सांचरित्रं तु नो कुर्यात् / अवद्यं छादयेन्न च //
इत्येते शिक्षमाणायाः / षट्-धर्माः परिकीर्तिताः //
षट् अनुधर्माः कतमे / -
जातरूपं न गृह्णीयात् / न गुह्ये रोम शातयेत् //
न खनेत् पृथिवीं चा ऽपि / न छिन्द्यात् हरितं तृणम् //
ना ऽप्रतिग्राहितं स्वादेत् / स्वादेत्संनिहितं न च //
उक्ता इमे ऽनुधर्माः षट् / शिक्षमाणेषु शिक्षणात् //
(596) न अलब्धब्रह्मचर्योपस्थान-संवृतेः उपसंपद् // उपसंपद् अत्र ब्रह्मचर्यम्, तस्योपस्थानं उपजननं, ब्रह्मचर्योपस्थानाय संवृतिः ब्रह्म्चर्योपस्थानसंवृतिः, सा न लब्धा यया सा इयं अलब्धब्रह्मचर्योपस्थानसंवृतिः, तस्याः / उपसंपद् न भवति, [यस्मात्] उपसंपदार्था सैषां संवृतिः / क्षेत्रतायां नियमनं इत्यतो अस्यां अलब्धार्था (विन्सू 53) नोपसंपद् / कदा अस्याः दानम् - (597) रहोनुशासनादूर्ध्वं तद्दानम् // तस्य ब्रह्मचर्योपस्थानसंवृतेः दानम् // केनेत्याह - // (598) संघेन // प्रकृतत्वात् भिक्षुणीसंघेन प्रतिपत्तिः // किं एवमेव अस्या दानमित्याह - // (599) पृष्ट्वा आन्तरायिकम् // तदेवं अस्याः त्रयः आन्तरायिकप्रश्नाः भवन्ति / एको-रहोनुशासिकया भिक्षुण्या, द्वितीयः-केवलभिक्षुणी संघमध्ये ब्रह्मचर्योपस्थान-संवृत्यंगभूतः, तृतीयः उभयसंघे याचितायामुपसंपदि उपसंपदङ्गभूतः / यचनमत्र याचिते / कर्मादानं इत्यतः प्राप्तम्, ततो ऽस्यामपि याचितायामेव दानं युक्तरूपं, इत्याह - // (600) याचितायामिति // याचितायां ब्रह्मचर्योपस्थानसंवृतौ अस्याः ब्रह्मचर्योपस्थानसंवृतेर्दानं, न अयाचितायामित्यर्थः // (601) पंचत्वं चीवरेषु // भिक्षुण्याः त्रिचीवरं, कुसूलकं संकक्षिका च अधिके // (602) निश्रयेषु विवृक्षमूलत्वम् // विवर्जितवृक्षमूलत्वं, वृक्षमूलं वर्जयित्वा अन्ये त्रयो ऽस्याः निश्रयाः // (603) अष्टत्वं पतनीयेषु // ऽस्पर्शः पंजरनिक्षेपः प्रतिच्छादो निवारणंऽ इत्यधिकाश्चत्वारः // (604) गुरुधर्मारोचनम् // अष्टौ गुरुधर्मा आरोचयितव्याः / ते पुनः - "उपसंपद् भिक्षुभ्यः / प्रतिपक्षं चाववादपर्येष्टिः //
ना ऽभिक्षुक आवासे / कुत्रचि वर्षोपगमनं च // भिक्षोराप त्सुचोदनम् / अरोषणं वन्दना च नवकस्य // उभयगणात् मानाप्यम् / प्रवारणा चेति गुरुधर्माः // " कस्मिन् काले तदारोचनमित्याह - // (605) पतनीयश्रमणकरकान्तराले // (606) कृत्-षट्के // ऽपूर्वप्रव्रजितेऽ ति - अतो यावत्कृत् इति अस्य यः संज्ञावान् ऽमा ऽसिऽ इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् उपसंपादकाश्च न प्रव्राजयेयुरुपसंपाद[ये]युर्वा इति स प्रतिपत्तव्यः इत्यर्थः // (607) नास्ति अस्याः प्ररोहणधर्मता इति च // एतच्च अत्र विधिषट्कं प्रतिपत्तव्यम् / नाशनं एवंविधस्य लिङ्गिनः इत्येतत्सर्वाधिकारिकत्वात् वक्तव्यम् / पुनरिहेति वेदितव्यम् / कतमत्षट्कमित्याह - // (608)-(613) उभयव्यंजना // संभिन्नव्यंजना // सदाप्रस्रवणी // अलोहिनी // नैमित्तिकी // केयं नैमित्तिकी नाम इत्याह - // निमित्तमात्रभूतव्यंजना तदाख्या // निमित्तमात्रभूतं व्यंजनं यस्याः तस्याः नैमित्तिकीति आख्या, संज्ञा // (614) पूर्वप्रव्रजिता / ऽमा ऽसि उभयव्यंजनाऽ यावत् ऽमा ऽसि पूर्वं प्रव्रजिताऽ इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् // यावत् ऽनास्ति अस्याः प्ररोहणधर्मताऽ इत्येष अत्र नयः प्रतिपत्तव्यः //
क्षुद्रकादिप्रव्रज्यावस्तुगतम् //
(वि) पृच्छागतम् / (अ) संवर-असंवरौ
(615) न अमनुष्यगतिकौत्तरकौरवकयोः सवरस्य क्षेत्रत्वम् // मनुष्यगतेः अन्यस्यां गतौ उपपन्नः, मनुष्यगतिकत्वे ऽपि औत्तर-कौरवकः [च]; नैषां संवरः (विन्सू 54) आरोहति इत्यर्थः // (616) न तृतीयस्यां परिवृत्तौ व्यंजनस्य // संवरस्य न क्षेत्रत्वमित्यनुबन्धः // यस्य त्रिर्-व्यंजनं परिवर्तते, न तस्य संवरो रोहतीत्यर्थः // (617) न प्रथमद्वयोः ध्वस्तिरिति // न प्रथमद्वितीययोः व्यंजनपरिवृत्योः ध्वंसः संवरस्येत्यर्थः / क्षुद्रकेभ्यः एतद्विधिद्वयं सादृश्याद् हृष्टम् // (618) उत्थानं गृह्यमाणत्वे // समादीयमानत्वे व्यंजनपरिवृत्तौ सत्यां उत्थानं संवरस्य // "उपसंपदापेक्षिणो व्यंजनं परिवर्तते - उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः // आह - अनुपसंपन्नो वक्तव्यः // भिक्षुभ्यो हि भिक्षुण्या उपसंपदा भिक्षुणीभावः पर्येषितव्यः" इति अत्र ग्रन्थः // निदर्शनमत्र पुरुषस्यव्यञ्जनपरिवृत्तिः / निराशङ्क-तरत्वात् अन्यत्वमत्र विधेः / उपसंपद्यमानावस्थो ऽत्र उपसंपत्प्रेक्षी गृहीतः, प्राक्परिवृत्तो भिक्षुमात्रसंनिपातस्य अयोगात् // (619) अनुपाध्यायकतायां तद्वतः // तद्वतः इति उपाध्यायवतः / संवरस्य विना ऽपि उपाध्यायेन भवति उत्थानम् // (620) अनुपसंपन्नत्वे ऽस्य // उपाध्यायस्योप संपन्नत्वे ऽपि उपाध्यायवतः संवरस्य भवत्युत्थानम्? - // (621) न, जानाने ऽस्य अभिक्षुत्वम् //
न उत्थानं उपाध्यायवतः संवरस्य जानाने समादातरि अस्योपाध्यायस्य अभिक्षुत्वं अनुपसंपन्नत्वं ध्वस्ततां वा / ग्रन्थो ऽत्र - ऽउपसंपदापेक्षी स्तैन्यसंवासिकेन उपाध्यायेन उपसंपाद्यते, उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः? - / आह - यदि जानीते स्तैन्यसंवासिको मे उपाध्यायः इत्यनुपसंपन्नो वक्तव्यः / यदि न जानाति, उपसंपन्नो वक्तव्यः // एवं पूर्वापन्नकेन उपाध्यायेन"........इत्यादि // आदिव्यग्रकेणागारिकेण उपाध्यायेनेति / ननु च अनुपाध्यायत्वे ऽपि संवरस्योत्थानम्, तत्कथं जानाने अस्या ऽभिक्षुत्वं न भवति, यस्मात् विपन्नो जाना[ती]त्याशयो भवति, शीले ऽनाहतो भवति, अनर्थो वा शीलेन इत्यतः एतदुत्थानम् [इति चेत्, तन्न] / नाजानाति अनुपाध्यायतां यावत्, तस्मात् अविरोधो ऽत्र अनुत्थानस्य // यत्तु उपाध्यायस्य अनुपसंपन्नत्वे संवरस्य उत्थानमुक्तं संघमधिकृत्य एतद्, संघस्यानुपसंपन्नतां जानानेन भवति उत्थानं, न उपसंपत्प्रेक्षी [इति] // (622) नैनं प्रत्याचक्षणे // संवरमुखत्वात् उपाध्यायस्य तद्-प्रत्याचक्षणे नास्ति संवरस्य उत्थानम् // ग्रन्थो ऽत्र - उपसंपद्यमानः उपाद्यायं प्रत्याख्यातं उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः? - आह - अनुपसंपन्नो वक्त[व्य] इति // (623) न अनयोः नाम-अनुद्भावने // अनयोः क्षेत्रोपाध्यायोः समादात्रा [कर्म]कारकेण वा नामानुत्कीर्तने न भवति संवरस्य उत्थानम् // (624) न संघस्य तद्योनेः // समादातृ-कर्मकारकाभ्यां अन्यतरेणा ऽपि संघस्य नाम्नो ऽनुद्भावने, तद्योनेः, संघयोनेः, तद्वंशस्य, संवरस्य न भवत्युत्थानम् //
ग्रन्थो ऽत्र - "समादातारं (विन्सू 55) प्रति त्रयः पुद्गलाः अनुपसंपन्नाः, आत्मनो नाम न आचष्टे, उपाध्यायस्य नाम नाचष्टे, उपसंपदं च न जानाति" इति / कर्मकारकं प्रति अयं ग्रन्थः - "त्रयाणां नाम न परिकीर्तयति - उपाध्यायस्य, उपसंपदाप्रेक्षिणः, संघस्य च / उपसंपन्नो वक्तव्यः, अनुपसंपन्नो वक्तव्यः इति / [आह - अनुपसंपन्नो वक्तव्य इति] / अप्रत्युपस्थापनमेतद्, गृहीतत्वेन यदत्र समादातुः आत्मनो नामा ऽनुकीर्तनम् / संघस्यैतद् प्रत्युपस्थापनम् / अनुगृहीतत्वेन यत् संघस्या नेन नामानुद्भावनम् / यद् कर्मकारकेण समादातुः तद्विषयत्वस्य उपनीतेः तदकरणम् / यत्संघस्य संघकर्तृकत्वस्य उपनीतेः तद्करणम् / यदुपाध्यायस्य कर्मकारकेण नामा ऽनुद्भावनं, तदपि संघकर्तृकत्वस्यैव उपनीतेः अकरणम् / यस्मात् यत्र कर्मणि तत्र संघस्य कर्तृत्वप्रतिपत्तिः, ततो ऽन्यस्य तत्कर्मणः करणम् / यदुपाध्यायस्य समादात्रा नामानुद्भावनं, तद् यस्य कर्मणः करणं सोपाध्यायकस्य, न तत्र तस्य विषयत्वेन प्रत्युपस्थानम् / तदनुत्थानं एषां नामानुद्भावने संवरस्य // (625) ना ऽगारिक-तीर्थिकध्वजे // प्रत्येकं ध्वजशब्दस्य परिसमाप्तिः / आगारिकध्वजे तीर्थिकध्वजे इति बहुव्रीहिश्चात्र समासः / आगारिकध्वजो ध्वजो यस्य, तीर्थिकध्वजो ध्वजो यस्य / आभ्यां ध्वजाभ्यां गृहीताभ्यां न भवति संवरस्योत्थानम् / वेषश्चात्र ध्वजः // (626) न नग्नकुपित पुंफालिनीषु //
संवरस्योत्थानं इत्यनुषङ्गः / समादानतो नग्नीभूतस्य तीर्थिकध्वजः इति अनेनैव संग्रहात् / अन्यार्थं नग्नग्रहणम्, प्रमुक्तप्रग्रहत्वं अस्यामवस्थायां चित्तस्य इति संवरस्यानुत्थानम् / कुपितत्वे स्थैर्यभङ्गः / पुंफालिणीं तावता भदन्ता उपसंपादयन्ति, उपसंपन्ना वक्तव्या अथ अनुपसंपन्ना? [आह] - अनुपसंपन्ना वक्तव्या / उपसंपादकाश्च सातिसारा इति / पुंफालिनी पुरः यत्संयोगात् पुरुषो म्रियते // (627) न निमित्तविपर्यया ऽनभ्युपेतौ उत्क्षिप्तकस्य // स-दृष्टेः विरति आशयस्य संवरसंपत्तिः, तस्मात् येन निमित्तेन आपत्त्यदर्शनादिना - उत्क्षेपणीयं कर्मकृतं भवति, तद्विपर्यय-अनभ्युपगमे नाष्ति संवरस्य उत्थानम् / निदर्शनमत्र उत्क्षिप्तकः / सर्वप्रणिहितेषु एष विधिः / कलहकरणादि-आशयस्यापि अविरति-आशयत्वात् // (628) दुष्कृतमात्रकं अपूर्व-पर्वतायाम् / विना उपासकत्वेन श्रामणेरत्वोपगतौ, विना श्रामणेरत्वेन भिक्षुत्वोपगतौ दुष्कृतमात्रकं भवति, न अनुत्थानं संवरस्य // ग्रन्थो ऽत्र - "आगारिक-अप्रव्रजितकं उपसंपादयन्ति, उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्य इत्याह - ऽउपसंपन्नः, उपालिन्, उपसंपादकाश्च आपद्यन्ते दुष्कृता [पत्ति]मिति" // (629-630) अयाञ्चायामुपाध्यायस्य अन्तरायिकया ऽप्रश्ने // उभयत्र अत्र दुस्कृतमात्रकम्, न अनुत्थानं (विन्सू 56) संवरस्येत्यनुषरङ्गः // (631) प्रतिज्ञाने ऽस्य असतो दाने // असतो इति असंविद्यमानस्य, समादात्र अन्तरायिकस्य ऽअस्ति मे ऽन्तरायिकम्ऽ इति प्रतिज्ञाने संवरस्य दाने दुष्कृतमाट्रकं, न अनुत्थानम् //
निदानेष्वत्र ग्रन्थः - "अन्तरायिकैः तावत् भदन्त धर्मैः समन्वागतम्, ऽसमन्वागतो ऽस्तिऽ इति वदन्तं उपसंपादयन्ति / उपसंपन्नो वक्तव्यो ऽनुपसंपन्नो वक्तव्यः, आह - ऽउपसम्पन्नःऽ उपसंपादकास्तु सातिसाराः" इति / तद् अत्र अन्तरायिकं अभिप्रेतं व्यवतिष्ठते, यद्विधे तु अहमुपसंपन्नः // (632) न पुरुषानुकृतित्वं स्त्रिया, स्त्र्यनुकृतित्वं च पुरुषस्य व्यंजनान्तरप्रकारः // नात्र अनुत्थानं संवरस्य, एतत्प्रदर्शनं - व्यञ्जनान्तरस्य प्रकारत्वात् अत्रोत्थानं न स्यात् / न चैतदेष भवति - //
(ब्) आक्षिप्तत्वम् //
(633) आक्षिप्तत्वमस्य हस्तच्छिन्नादिना / अस्य पुरुषस्य अनुकृतित्वस्य हस्तच्छिन्नाः पादच्छिन्ना इत्यादिना आक्षिप्तत्वम्, आक्षिप्तत्वाच्च दुष्कृतामा[त्रमि]त्युक्तं भवति // (634) पापलक्षण-भिन्नकल्पद्वीपान्तरजयोः // अनयोरपि हस्तच्छिन्नादिना आक्षिप्तत्वमित्यर्थः // "पापलक्षणं उपसंपादयन्ति" [इति] यावदुपसंपन्नो वक्तव्यः / भिक्षवस्तु उपसंपादकाः आपद्यन्ते दुष्कृतामिति" पापलक्षणे ग्रन्थः // [निदान]-द्वीपान्तरजो ऽपि ग्रन्थः - जम्बुद्वीपका भिक्षवः पूर्वविदेहकमुपसंपादयन्ति, उपसपन्नो वक्तव्यः ऽ.......... यावद् - ऽउपसंपन्नः, उपालिन्ऽ / ऽउपसंपदकास्तु सातिसाराःऽ / [इति] विस्तरेण चक्रपेयालं कर्वत्यम् // संस्थान-प्रमाण-दशाभेदो मनुष्याणां यत्र द्वीपे तन्मात्रव्युदाशसवरं अत्र द्वीपग्रहणं व्यवतिष्ठते / एतदत्र भिन्नकल्पग्रहणेन विशेषितमुखादिभेदो ऽपि अत्र कल्पभेदो ऽभिप्रेतः / एवं च एकद्वीपकानामपि एष मुख-कर्णप्रावरणादीनां प्रतिक्षिप्तत्वं वेदितव्यम् // (635) एकनख-समुद्रलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश-अन्तर्बहिर्द्वि-कुब्ज-षट्सहिता ऽनङ्गुलि-पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-अक्षिशाल-शन्त्र-दर्द्रु-विचर्चिक-पीत-अवदात-रक्त-नाडीकर्ण-कण्डु-पिण्ड-स्थूलकच्छु-अण्डलाङ्गूलप्रतिच्छन्न-मूढ-अजिह्व-एकहस्तपाद-[अहस्तपाद]-नीलकेश-हस्त्यश्वश्वगोमेषमृगमत्स्याहि-दीर्घबहुशीर्ष-तालकङ्ठशूलेर्यापथच्छिन्नेभ्यश्च अनाबाधिकानां, ग्लानेन च इतरेषाम् // एकनखादीनां च अधुक्तानां [हस्त]छिन्नादिना आक्षिप्तत्वं, इतरेसां तु आबाधिकानां, ग्लानेन ऽमा ऽसि ग्लानःऽ इत्यनेन आक्षिप्तत्वं इत्यर्थः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
