Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र 1, प्रव्रज्यावस्तु
- Thông tin
- GRETIL — P.V. Bapat and V.V. Gokhale: Vinayasūtra and Auto-commentary on the same by Guṇaprabha [Guṇaprabha viracitaṃ Vinayasūtravṛttyabhidhānasvavyākhyānam]. Patna 1982 (Tibetan Sanskrit Works Series, 22).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एकनखो, यस्य एकमेव नखम् / समुद्रलेखो, यस्य मुद्रायुक्तमिव लेखं शरीरावयवः / पक्षहेतो, यस्य एकं पार्श्वं शुष्कम् / लिङ्गशिरा, यस्य लिङ्गाकारं शिरः / गुल्मकेशो (विन्सू 57) यस्य विदूषकस्य इवा ऽन्तरागुल्मेन अवस्थिताः केशाः / अन्तर्बहिद्विकुब्ज इति प्रत्येकं कुब्जशब्दस्य परिसमाप्तिः, अन्तः कुब्जो बहीः कुब्जः अन्तर्बहिः कुब्ज इति, उक्तमेतद् अन्यत्र- ऽकाणः, कुणिः, कुब्जो ऽथ, वामऽ इति, प्रभेदसंदर्शनार्थं त्वेतद् / षट्-सहिता ऽनङ्गुलि[रिति] अङ्गुलिशब्दस्य प्रत्येकं परिसमाप्तिः / षड्ङ्गुलिः सहिताङ्गुलिः अनङ्गुलिश्चेति / ष्डङ्गुलित्वं, सहिताङ्गुलित्वं, (अनङ्गु)लित्वमात्रकम् / अङ्गुलिफणाहस्तकत्वेना ऽत्र सक्ताङ्गुलित्वस्य अन्तर्भावः / पक्ष्म-नकुल-किंपिल-विपरीत-मिलित-शिक्य-कश्मीलित-अक्षाक्ष-इति अक्षशब्दस्य प्रत्येक समाप्तिः - पक्षमाक्षः, नकुलाक्षः, किंपिलाक्षः, विपरीताक्षः, मिलिताक्षः, शिक्याक्षः, कश्मीलिताक्षः, अक्षाक्षः / पक्ष्माक्षो, यस्य अक्ष्णो ऽन्तः चर्मपुटे पक्ष्मसंभवः / [नकुलाक्षः यस्य अक्षः नकुलाक्षवत् /] उलूकाक्षः किंपिलाक्षो [कपिलाक्षाक्षत्वात्] रक्षाक्षः सदृशाक्षो वा / अपाङ्गसमीपवर्ति यो अक्ष्यवयवः स यस्य नासासमीपे, तत्समीपवर्ति च अपाङ्गं समेत्य, असौ विपरीताक्षः / यस्य विगतनासावंशे परस्परं अक्षिणी-संश्लेष्टे, असौ मिलिताक्षः / शिक्याक्षो, यस्य शिक्यवत् अतिलंबिते अक्षिणी / गलितपक्ष्मरोमत्वात् विगलद्रक्तमासवत् अक्ष्णः पर्यन्तो यस्य असौ कश्मीलिताक्षः / अक्षाक्षः इति अक्षयोः अक्षिणी यस्य असौ अक्षाक्षः / अक्षिशाल-शन्त्र दर्द्रु-विचर्चिका इति अक्षिशब्दस्य प्रत्येकं निपातः / अक्षिशालः, अक्षिशन्त्रः, अक्षिदर्द्रुः अक्षिविचर्चिका
/ अतिविशाले यस्य अक्षिणी असौ विशालाक्षः //
पीतावदातरक्तनाडीकर्ण इति कर्णशब्दस्य प्रत्येकं निपातः-पीतकर्णः, अवदानकर्ण, रक्तकर्णः, नाडीकर्ण इति // कण्डु-पिण्ड-स्थूलकच्छुरिति कच्छुशब्दस्य प्रत्येकं संबन्धः-कण्डुकच्छुः, पिण्डकच्छुः, स्थूलकच्छुरिति // अण्डलाङ्गुलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छन्न इति अण्डाभ्यां लाङ्गूलः प्रतिच्छन्नः अस्य इति अण्डलाङ्गूलप्रतिच्छनः // मूढ-अजिह्व-एकहस्तपाद इति, मूढ इत्यनेन उपसंपदं न जानातीत्यस्य संगृहीतत्वम् // अजिह्व इति [जिह्वाही]नस्य / मूकवधिर इति मूकग्रःअणेन सत्यां जिह्वायां वक्तुमसमर्थः जिह्वाहीनः, अन्यस्य अजिह्व इति उक्तत्वात् // [एकहस्तपादः इति एकशब्दस्य] हस्तपादशब्दयोः प्रत्येकं संबन्धः - एकहस्तः, एकपादः, अहस्तपाद इति // नीलकेश इति अहरितभूतं नीलं, तस्मात् हरितग्रहणेन नीलस्योक्तत्वम् // हस्ति-अश्व-श्व-गो-मेष-मृग-मत्स्य-अहि-दीर्घ-बहुशीर्ष इति शीर्षशब्दस्य प्रत्येकं अभिसंबंधः - हस्तिशीर्षः अश्वशीर्षः, श्वशीर्षो, गोशीर्षः, मेषशीर्षः, मृगशीर्षः, मत्स्यशीर्षंः, अहिशीर्षः, दीर्घशीर्ष, बहुशीर्षः इति / ऽसर्वनीलः सर्वपीतः सर्वलोहितः सर्वावदातऽ इति एतदपि यत्पठ्यते, एषामपि चतुर्भिः भूतं छवि-वर्णैः इत्युक्तत्वम् // तालकण्ठ[वत्-शूल-]शूलच्छिन्न-ईर्यापथच्छिन्न इति // (636) चौरेण दस्योः //
आक्षिप्तत्वमिति अनुषङ्गः / पापवृत्तिरूपता सामान्येन / ननु नैव अस्य अतः पृथक्त्वम्? - भवनि हि अदस्युभूतो ऽपि चौरः (विन्सू 58) सघृणः परहरणः, सर्वेण सर्वं यद्भूयसा यस्य वा अभिप्राणातिपातप्रवर्त्ता / दस्युश्च अचौरभूतः निर्घृणो वध्यघातकादिः / तस्मात् पृथक्त्वमेवास्य भवति //
(च्) अनुज्ञा
(637) पितृ-वत् पित्राशयत्वे अनुज्ञायां राजा // पित्राशयत्वेन राज्ञा ऽनुज्ञातः पितृभ्यामेवानुज्ञातो द्रष्टव्यः / राजानुज्ञया प्रव्राजिते [अदोषो] द्रष्टव्यः इति भावः // (638) परिगृहीत्रोः अनुज्ञान-धारणा-आरोचनेषु पितृत्वम् // असत्यपि जनकत्वे मातापितृपरिग्रहेण अवस्थितयोः अनुज्ञाने सप्ताहधारणे संघे च आरोचने [माता-]पितृत्वं, न जनकयोरेव परिगृहीतृत्वेन अवस्थितयोः इत्यर्थः / "पुत्रकृतकं तावत्, भदन्त, उपसंपादयन्ति, कस्य सकाशा[दव]सारितव्यः? - यस्य पुत्रत्वमुपगतः, एवं धीतिकृतिका यस्य धीतित्वं उपगतिका" - इत्यत्र ग्रन्थः // (639) न अमनुष्यगतिकयोः // अनुज्ञानधारणा ऽरोचनेषु पितृत्वं इत्यनुषङ्गः // "यस्य तावत्, भदन्त, मातापितरौ कालगतु भवतः, तिर्यग्योनिगतौ वा, तस्य केशावरोपणाय सर्वसंघो ऽवलोकयितव्यः? - नो हीदं, उपालिन्" इत्यत्र ग्रन्थः // (640) न अतः आनन्तर्योत्थाणम् // अमनुष्यगतिकाभ्यां पितृभ्याम् आनन्तर्योत्थानम् // (641) जनकाभ्यामेतद्, परिवृत्तव्यंजनाभ्यामपि // अपुंस्त्वमपि मातृगतात्वे ऽपि तुष्क स्त्रीत्वं उत्थानमानन्तर्यस्य // (642) एतद्-कृत्वं मातृघातकादौ तत्त्वम् // एतत्कृत्वं आनन्तर्यकृत्वं, यद् माटृघातकादेः प्रव्राजनं प्रतिषिद्धं तत्र आनन्तर्यकृत्वं तत्तु प्रतिपत्तव्यम् / आनन्तर्यकारी न प्रव्राज्यः इत्येवं पुन स्तद् / न सर्वमातृघाटको न प्रव्राज्य इत्येवं च / तिर्यग्योनिगतमातृघातकस्य अप्रतिषिद्धं भवति प्रव्राजनम् //
(द्) संकीर्णम्
कस्मिन् भिक्षुण्यां कृते भिक्षुणीदूषकत्वं जातं भवति, भिक्षुण्या ऽपि भिक्षुदूषकत्वं भवति, केनार्थेन एतदुभयमित्याह - // (643) दूषकत्वं अब्रह्मचर्येण स्वादयतोः, अपराजितत्वे // "कियता, भदन्त, भिक्षुणीदूषको वक्तव्यः? - येन अब्रह्मचर्येण, [उपालिन्], भिक्षुणी दूषिता भवति" इति ग्रन्थः / किं यत्तच्चेतसोः अस्योत्थानमित्याह? - स्वदयतोः / गम्य ऽपि दूषकत्वस्योस्थानं, गन्तर्यपि इत्यस्य संदर्शनार्थं अत्र द्विवचनम् / नो तु सहिते प्रतियोगिस्वादनेन दूषकत्वस्य उत्थानम्, इत्यस्य न हि अन्य-प्रदोषेण अन्यस्य संबंधः, इति अनङ्गत्वं अत्र प्रतियोगिस्वादस्य / वीतरागदूषणे च दूषकत्वानुत्थानप्रसंगात् / ऽछन्दशःऽ इति यद्वचनं, एषो ऽत्र आगमः / स्वेच्छया इत्यस्य अर्थः / पाराजितत्वे ऽपि भिक्षु-भिक्षुणीत्वं विद्यते किम्, तदवस्थयोः ना ऽप्यनयोः दूषणे दूषकत्वमित्यत्र (विन्सू 59) आह - अपराजितत्वे / ग्रन्थो ऽत्र - "अष्टौ तावत्, भदन्त, पुद्गला प्रत्येकवस्तुभीः भिक्षुणीं दूषयन्ति / दुष्टा सा भिक्षुणी वक्तव्या? दुष्टा, उपालिन्, वक्तव्या / कतराः तत्र पुद्गला भिक्षुणी-दूषका वक्तव्याः? - आह, न कश्चिदिति / निपातने वा आमर्षणे वा अपराजितत्वं भिक्षुण्या इति हि एतद् अदूषकत्व-विज्ञानम् / कथं तर्हि? - अन्येनार्थेन निपतितायां, निकुब्जयां वा, अस्वीकुर्वत्यां, आमर्षण-परामर्षन-संप्रवेशने, निपात्यापि अस्वीकारे तया निपातनस्य / स्वयं वा संस्पृशन्त्या पुरुषगात्रं, पुरुषस्योपक्रान्तिः // (644) अर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषिति //
शिक्षां प्रत्याख्याय हीनायां वृत्तायां स्त्रियां व्यंजनपरिवृत्त्या पुंस्त्वोगतौ अर्हत्वं प्रव्रज्योपसंपदोः / न-स्त्रीत्वावस्थायां इव अनर्हत्वं इत्यर्थः // (645) असाधारणं च पाराजयिकं अध्याचरितवत्याम् // ऽअर्हत्वं प्रव्रज्योपसंपदोः उपगतौ पुंस्त्वस्य हीनायां योषितिऽ - इत्यनुबन्धः // (646) आवासिकानां स्त्रीउपसंपादने अङ्गत्वं // पोषधवस्तु अत्र ग्रन्थः - "यदुक्तं भगवता भिक्षुणी भिः भिक्षूणामन्तिके भिक्षुणीभावः पर्येषितव्यः इति कतमेसां भिक्षूणां आवासिक-नैवासिकानां, उपालिन्", इति / तत्स्थानगता वासस्थं भिक्षुसंघं उपनिश्रित्य भिक्षुणीनां वासः / ततः कालेन कालं अववाद-अनुशासनीमार्गणात्, न च निश्रयातिक्रमो युक्तः इत्येतद् विज्ञानम् / आवासिकत्वमेवात्र विरोपिततरत्वेन विशिष्यमाणं नैवासिकत्वं व्यवतिष्ठते // (647) ध्वंसो भवत्वस्य [उत्सृ]ष्टौ // भवद्भाव्ये भवत्वं जायमानत्वमित्यर्थः / गृह्यमाणे संवरे तस्य संवरस्य यद्भवत्वं तस्य तदवस्थस्य उत्सृष्टौ प्रत्याख्यानादिना उत्सर्गे ध्वंसो भवति / आवेध एष संवरस्य यज्जायमानत्वम् / न च आनेघस्य प्रत्युदावृत्तिः लङ्घनादौ दृश्यते / तस्मात्, न भवत्यस्या ऽजायमानत्वे संवरस्य प्रत्युदावृत्तिः इति यो मन्येत तन्नाभिनिवृत्त्यर्थ एतत्सूत्रम् / मुक्तकेषु अत्र ग्रन्थः - "उपसंपन्नस्ताबत्, उपालिन्, गृहित्वं प्रतिजानानो अनुपसंपन्नो वक्तव्यः / प्रागेव उपसंपद्य मान इति // पृच्छा प्रायं प्रव्रज्यावस्तुगतम् //
विनयवृत्तौ [स्वव्याख्यानतः] प्रव्रज्यावस्तु समाप्तम् //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
