Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र
- Thông tin
- GRETIL — Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
विनयसूत्र
[1a1] // slob dpon yon tan 'od gyis mdzad pa'i 'dul ba mdo ba'i lags so / shri la a ka ras bris ga xiv.1 vinayasūtram guṇaprabha (62 patra) bhadantaguṇaprabhaviracitaṃ [mūlasarvāstivādīyaṃ] vinayasūtram /
*vin_1. प्रव्रज्यावस्तु
**(vin_1,1) श्रामणेरत्वोपनयम्
[1ब्1] / / नमो बुद्धाय /
/ अथ निर्याणवृत्तं /(Vin_1.1)
/ सर्वस्मिन्* सन्निपतिते संघे कृतेदं वेषं निपत्य प्रगृहीताञ्जलिम् उत्कुटुस्थं वृद्धान्तं याचिवन्तं त्रिर् ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदाव् उपनयेयुर् इति पुराकल्पः /(Vin_1.2)
/ निश्रितस्य कञ्चिद् भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसम्पदौ /(Vin_1.3)
/ पृष्ट्वान्तरायिकं परिशुद्धाय पूर्वोपाध्यायत्वेनावकाशं [1ब्2] कुर्यात्* /(Vin_1.4)
/ नानुपपन्नस्य पूर्वम् उपासकत्वश्रामणेरत्वभिक्षुत्वानाम् उत्तरम् /(Vin_1.5)
शरणगत्यभ्युपगमवचनोपक्रमम् उपासकत्वश्रामणेरत्वाभ्युपगमवचनं कुर्वीत /(Vin_1.6)
/ अनन्तरम् अस्य शिक्षोत्कीर्तनम् अभ्युपगमरूपेण /(Vin_1.7)
/ स्वयम् उपासकताम् उपनीयारोचकाय संघस्यार्पयेत्* भिक्षवे /(Vin_1.8)
/ कञ्चित् परिशुद्ध्य तीति पृष्ट्वा शुद्धम् आ[1ब्3]रोचयेत्* /(Vin_1.9)
/ सर्वसन्निपातेन वा संनिषण्णे ऽनुलयनम् वा /(Vin_1.10)
/ सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः /(Vin_1.11)
/ उपाध्यायं याचेत्* /(Vin_1.12)
/ केशस्मश्र्व् अवतारयेताचूडं /(Vin_1.13)
/ अवतार्यतां चूडेति पृष्टेनानुज्ञाते तां* /(Vin_1.14)
/ स्नायात्* /(Vin_1.15)
/ उपाध्यायः काषायाणि वस्त्राणि दद्यात्* /(Vin_1.16)
/ पादयोर् निपत्य प्रतिगृह्नीत्* /(Vin_1.17)
/ उपाध्यायः प्रावृणुया[1ब्4]त्* //(Vin_1.18)
व्यञ्जनं प्रत्येवेक्षेतासंचेतितं //(Vin_1.19)
प्रव्रज्याम् उपनयेत्* शरणगमनोपक्रमं /(Vin_1.20)
/ याज्ञानन्तरम् वा /(Vin_1.21)
/ श्रमणेरत्वोपनायिने र्ययेत्* भिक्षवे /(Vin_1.22)
/ कञ्चित् परिशुद्ध्यतीति पृष्ट्वा शुद्धम् उपनयेत्* /(Vin_1.23)
/ स आचार्यः /(Vin_1.24)
/ रहो नुशासककर्मकारकनिःश्रयदायकपाठकाश् च /(Vin_1.25)
/ वृत्ते र्थे भूतत्वं /(Vin_1.26)
/ अभ्युपगताव् उ[1ब्5]पाध्यायस्य याज्ञायां तद् उद्भूति /(Vin_1.27)
/ आवृत्तौ तृतीये ङ्शे न्त्यायां वृत्तत्वं /(Vin_1.28)
/ तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य /(Vin_1.29)
/ पश्चिमे त्रोपाध्यायत्वस्य /(Vin_1.30)
/ पर्यन्तो निःश्रेयदानस्यैकरात्रं निःश्रयत्वेन प्रत्युपस्थानं /(Vin_1.31)
/ पाठस्य त्रिर् एकगाथापरिवर्तनं /(Vin_1.32)
/ नापाठनाभिप्रायेणोच्चारणे पाठत्वं /(Vin_1.33)
/ नान्यथैनाव् उपपदयेत्* //(Vin_1.34)
[1ब्6] नैवम् अन्यं /(Vin_1.35)
/ नानुक्त्वा सहितम् अर्थहेतोर् नाम गृह्नामीत्य् उपाध्यायनाम गृह्नीयात्*(Vin_1.36)
// श्रामणेरत्वोपनयविधिः //
**(vin_1,2) उपसम्पद्विधिः
// संघाद् उपसं*पत्* /(Vin_1.37)
/ उपाध्यायतायाम् उन्मुखीभूतः कर्मकारकम् अधीच्छेद् रहो नुशासकञ् च भिक्षुं /(Vin_1.38)
/ उपाध्ययं याचेत्* /(Vin_1.39)
/ स स्वयम् एनं त्रिचीवरम् अधिष्ठापयेत्* /(Vin_1.40)
/ पात्रञ् चोपदर्श्य मोनम् अ[2अ1] / /धिकं पाण्डपेतीति संघे /(Vin_1.41)
/ सुपात्रम् इत्य् अनेवं ब्रूयुः सर्वे /(Vin_1.42)
/ अपकसिते क इत्य् आख्याप्य रह नुशासकम् उत्साह्य कर्मकारकः संघं येनम् अनुज्ञा..पयेत्* /(Vin_1.43)
/ शृणु त्वम् इति रहसमनुशष्यात्* /(Vin_1.44)
/ तिष्ठ मा शब्दिता गमिष्यसीत्य् एनम् उक्त्वा समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य किम् आगच्छत्व् इत्य् आगमनं पृच्छेत्* /(Vin_1.45)
/ सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः(Vin_1.46)
[2अ2] उपसंपदं कर्मकारको याचयेत /(Vin_1.47)
/ ज्ञापयित्वा संघान्तरायिकं पृच्छेत /(Vin_1.48)
/ उपसंपदम् उपनयेत /(Vin_1.49)
/ छाय वेदयेतानन्तरं मितां /(Vin_1.50)
/ संकुना चतुरङ्गुलेनैतत् साधु /(Vin_1.51)
/ पुरुषत्वेनास्यानुव्यवहारः /(Vin_1.52)
/ अहोरात्राङ्शपूर्वाह्नादिकं /(Vin_1.53)
/ समयञ् च पञ्चैते /(Vin_1.54)
/ हेमन्तितो ग्रैस्मिको वार्षिको मितवार्षिक्. दीर्घवार्षिक इति /(Vin_1.55)
/ चातुर्मासिकौ पू[2अ3]र्वौ /(Vin_1.56)
/ मासः परः /(Vin_1.57)
/ ततो होरात्रतः /(Vin_1.58)
/ तद् ऊनम् अन्त्यो मासत्रयं /(Vin_1.59)
/ निःश्रयानारोचयेत्* /(Vin_1.60)
/ [प]तनीयान् धर्मान् /(Vin_1.61)
/ श्रमणकारकांश् च /(Vin_1.62)
/ स[म्*]पन्नतां सम्यग्तया च प्रेप्सितस्योत्ग्राह्य शीलसामान्यगततारागणे नियुञ्जीत्* /(Vin_1.63)
/ यात्रिकसम्बन्धप्रतिबिम्बने /(Vin_1.64)
/ विनीतसम्वासतायां /(Vin_1.65)
/ प्रयोजनानुष्ठाने / /(Vin_1.66)
/ [2अ4] संप[त्स]मानताम् अनाख्यातसमात्तपरिज्ञानस्याचक्षीत्* /(Vin_1.67)
/ आदरे नियुञ्जीत्* /(Vin_1.68)
/ सोपायाख्यानञ् च संपादने /(Vin_1.69)
/ उपसंपद्विधिः //
(क) निःश्रयगतम् /
// नानवलोक्य निःश्रयं निःश्रितः कारणीयं कुर्यात्* /(Vin_1.70)
/ मुक्त्वोच्चारप्रस्रावं /(Vin_1.71)
/ दन्तकाष्ठविसर्जनं सोपविचारे विहारे चेत्यम् अभिवन्दनं /(Vin_1.72)
/ एकान्नं पञ्चाशव्यामपर्यन्ताद् विहारतो गमनं [2अ5] पात्रचीवरकर्मणो ग्लानोपस्थाने कोकृत्यप्रतिविनोदने पापकदृष्टिगतप्रतिनिःसर्गे तीव्रम् औत्सुग्यम् आपद्येताहोवताहं कुर्यां कारयेयम् वेति /(Vin_1.73)
/ प्रणिधातुकामे संघे हो वत संघो स्येदं प्रणिधिकर्म न कुर्याद् इति /(Vin_1.74)
/ कृते वसारयेद् इति /(Vin_1.75)
/ परिवासमूलपरिवासमानाप्य् अमूलमानाप्य् आवर्तणार्थिनि निःश्रये हो वत संघस्य परिवासादि चतुष्कं दद्याद् आ[2अ6]बृहेत् इति /(Vin_1.76)
/ सो प्य् एतद् अस्मै कुर्याद् उत्सृज्यावलोकनं /(Vin_1.77)
/ नोनदशवर्ष उपसंपदोपाध्यायत्वनिःश्रयत्वानिःश्रितवासान् कुर्यात्* /(Vin_1.78)
/ नासमन्विते केनचिद् अनन्तरेभ्यः समायोगेन /(Vin_1.79)
/ ग्लानोपस्थानकौकृत्यप्रतिविनोदनपापकदृष्टिगतप्रतिनिःसर्गानभिरतिस्थानप्रमीलनानां करणका[र]णे सीमार्थं /(Vin_1.80)
/ पा.. .ऐ[2ब्1]क्षत्वाद् अपञ्चके सशीलवन्ता बाहुश्रुत्यं /(Vin_1.81)
/ पिटकाभिज्ञत्वं /(Vin_1.82)
/ ग्राहण एषां प्रतिबलत्वं /(Vin_1.83)
/ अधिशीलचित्तप्रज्ञां शिक्षन्ता /(Vin_1.84)
/ प्रतिबलत्वं वा शिक्षणायां /(Vin_1.85)
/ एवम् अध्याचारविनयप्रातिमोक्षं /(Vin_1.86)
/ श्रद्धाशीलश्रुतत्यागप्रज्ञासम्पन्नत्वं /(Vin_1.87)
/ शीलसमाधिप्रज्ञाविमुग्ति(त)ज्ञानदर्शणे /(Vin_1.88)
/ सारब्धवीर्यत्वप्राज्ञत्वं च /(Vin_1.89)
/ स्मृतिमत्त्वं /(Vin_1.90)
/ प्रतिसंलीलनत्वं /(Vin_1.91)
/ समाहितत्वं //(Vin_1.92)
[2ब्2] शैक्षत्. ं /(Vin_1.93)
/ अशैक्षता /(Vin_1.94)
/ उत्पत्तिप्रज्ञप्त्यनुप्रज्ञापतिप्रतिक्षेपाभ्यनुज्ञाभिज्ञत्वं /(Vin_1.95)
/ आन्तरायिकानान्तरायिकाभिज्ञात्वाख्यापितानुशासकत्वं /(Vin_1.96)
/ सह ग्राहणप्रतिबलत्वेन निःश्रयस्य्[आ]निःश्रयस्य वा /(Vin_1.97)
/ आपत्येनापत्तिगुरुलघुताभिज्ञत्वप्रवृत्तप्रातिमोक्षविस्तरत्वं /(Vin_1.98)
/ वृद्धाभावे नवकं निश्रयेत्* /(Vin_1.99)
/ सामीचीं* केवल हापयेत /(Vin_1.100)
/ चरेद् अ[2ब्3]निःश्रितः पञ्चवर्षः पश्चिमसमयोगेन समन्वितजनपदचारिकं /(Vin_1.101)
/ नान्यस् त्रैविद्यो पि /(Vin_1.102)
/ निःश्रयगतं //
(ख) संग्राह्यगतम् /
/ मासि तीर्थ्य इति प्रव्रज्यार्थम् उपसंक्रान्तं पृच्छेद् उपसम्पादकाश् च /(Vin_1.103)
/ नानाराधितचित्तम् उत्सृज्य शाक्यम् आग्नेयञ् च जटिलं तीर्थ्यं प्रव्रजयेयुर् उपसंपादयेयुर् वा कृते तत्तीर्थ्यानाराधितादितीर्थ्यान्त[र]वर्जम्* /(Vin_1.104)
/ रत्नानां वर्णस्य [2ब्4] तीर्थ्यानाम् अवर्णस्य भूतस्योक्ताव् अकुप्यत्वमाराधितचित्तता /(Vin_1.105)
/ तदर्थम् अतद्वन् तम् एनं कृतोपासकतान्तं चतुरो मासान् परिवासयेद्* संघो दत्वा परिवासं कर्मणा /(Vin_1.106)
/ संघात् तस्य भक्तं /(Vin_1.107)
/ उपाध्यायाच् चीवरं /(Vin_1.108)
/ कर्तृत्वञ् च कर्मादानस्य /(Vin_1.109)
/ परिपूर्णपञ्चदशवर्षो सीति प्रव्रज्यर्थम् उपसंक्रान्तं पृच्छेत्* /(Vin_1.110)
/ नोनम् असमर्थं काकोड्डायने समर्थम् वा [2ब्5] सप्तवर्षं प्रव्रजयेयुः /(Vin_1.111)
/ नैकत ऊर्धं श्रमणोद्देशम् उपस्थापयेत्* /(Vin_1.112)
/ अरुचिश् चेद् अनेकध्यं प्रव्रज्यायां प्रव्रज्यातिरिक्तम् उपसम्*पादयेत्* /(Vin_1.113)
/ ऊनश् चेद् अन्यस्मा उपनिश्रित्यर्थम् अर्पयेत्* /(Vin_1.114)
/ नासौ तम् आछिद्यात्* /(Vin_1.115)
/ उपसंपादयेद् अप्रयच्छतो बलाद् आदाय कृधासः /(Vin_1.116)
/ व्यसिस्ते कस्यचित् किचिद् देयम् अल्पं वा प्रभूतम् वा /(Vin_1.117)
/ जीवत् पितृकम् अननुज्ञातम्* /(Vin_1.118)
/ [2ब्6] [त्]आब्[ह्य्]आम् अद्[ऊ]रदेशं प्रव्रज्यापेक्ष सप्ताहं धारयेत्* /(Vin_1.119)
/ नानारोचितं दूरदेशम् अप्य् एनं संघे प्रव्राजयेत्* /(Vin_1.120)
/ युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानं /(Vin_1.121)
/ कृतानुज्ञाते सो मातपितृभ्याम् अन्ते मुक्त्वा दूरदेशकं /(Vin_1.122)
/ मासि ग्लानम् इत्य् उपसंक्रान्तं पृच्छेत्* /(Vin_1.123)
/ मा ते ग्लान्यं कञ्चिद् अस्तीति वा /(Vin_1.124)
/ विशेषत उपसंपादकाः /(Vin_1.125)
/ न ग्लानं प्रव्राजयेयु[3अ1] / /र् उपसम्पादयेयुर् वा /(Vin_1.126)
/ कृत प्राक् प्रणिहितात्* /(Vin_1.127)
/ नास्त्य् अस्य प्ररोहणधर्मतेति च /(Vin_1.128)
/ नाशनम् एवं धस्य लिङ्गिनः /(Vin_1.129)
/ निर्मितः /(Vin_1.130)
/ पण्डकः /(Vin_1.131)
/ पाञ्चविध्यम् अस्य जात्या पक्षासक्तप्रादुर्भावीर्षयापत्कृत इति /(Vin_1.132)
/ अन्त्यस्यात्र दोषभक्तौ नाशनं / स्तेयसंवासिकः / जानतो कृततां विधेर् उपसंपदो प्ररूढताम् वा द्वितीयायां संघे न सा[3अ2]र्धं कर्मणः प्रत्यनुभूततायां तत्वं /(Vin_1.133)
/ तीर्थिकावक्रान्त[क]ः /(Vin_1.134)
/ समात्तेदं प्रव्रज्यस्य तद्दृष्टेर् निक्षिप्येदं चीवरन् तेन ध्वजेन तत्रारुणोद्गमने तत्त्वं /(Vin_1.135)
/ अकृते दोर्थाग् यथा स्तेयस्य /(Vin_1.136)
/ मातृघातकः /(Vin_1.137)
/ पितृघातकः /(Vin_1.138)
/ अर्हत्घातकः /(Vin_1.139)
/ संघभेदकः /(Vin_1.140)
/ तथागतस्यान्तिके दुष्टचित्त रुधिरोत्पादकः /(Vin_1.141)
/ भिक्षुणीदूषकः /(Vin_1.142)
/ चतुर्णां [3अ3] पारजिकानाम् अन्यत् तम् आपत्तिम् आपन्नः /(Vin_1.143)
/ भ्युपपतः स्याच् चेत् सामग्री पुनः प्रणिधानं /(Vin_1.144)
/ अदर्शनोक्तौ मृषा चेत् प्रायश्चित्तिकं / हस्तछिन्नाः पादछिन्ना अङ्गुलीफणहस्तकाः / (Vin_1.145)
/ अनोष्टकाश् च चित्राङ्गा अतिवृद्धा अतिबालकाः / / खञ्जः काण्डरिकः काणः कुणिः कुब्जो थ वा मनः / / गलगण्डमूकबधिराः पीठसर्पी [3अ4] श्लीपदी / / स्त्रीछिन्ना भारछिन्ना मार्गछिन्नाश् च ये नराः / / तालम् उक्ता कन्दलिछिन्नाः एवंरूप हि पुरुषाः प्रतिक्षिप्ता महर्षिणा / / प्रासादिकश् च प्रव्रज्या परिशुद्धस्योपसंपदा / / आख्या[ता] सत्यनाम्ना वै संबुद्धेन प्रजानता / / संग्राह्यगतं समाप्तञ् च प्रव्रज्यवस्तु // #
**(vin_1,3) क्षुद्रकादिगतम्
// कृद्राजभटः /(Vin_1.146)
/ अननुज्ञातं राज्ञा ऽदूरदेशकं /(Vin_1.147)
/ [3अ5] कृनरोध्वजवधकः /(Vin_1.148)
/ न रथकारचण्डालपुक्कसतद्विधान्* प्रव्राजयेत्* /(Vin_1.149)
/ निदर्शनं हस्तछिन्नादयः /(Vin_1.150)
/ हारिद्रकेशा हरिकेशा हरितकेशास् तथैव च / / अवदातकेशाश् च ये नरा नागकेशा अकेशका / / घाटाशिरा बद्रशिरा अतिस्थूलाश् चिपाटकाः / / खरसूकरशीर्षाश् च द्विशीर्षा अप्य् अशीर्षकाः / / हस्तिकर्णा अश्वकर्णा गण[3अ6]मर्गटकर्णकाः / / खरसूकरकर्णाश् च एककर्णा अकर्णकाः / / लोहिताक्षा तिवद्राक्षाश् चुल्लाक्षातिपिङ्गलाः / / काचाक्षा बुद्बुदक्षाश् च एकाक्षाप्य् अनाक्षकाः / / हस्तिनासाश्वनासा गोणमर्गटनासकाः / / खरसूकरनासाश् च एकनासा [अ]नासकाः / / हस्तिजोडा अश्वजोडा गोणमर्गटजोडकाः / / खरसूक[3ब्1]रजोडाश् च एकजोडा अजोडकाः / / हस्तिदन्ताश्वदन्ता गोणमर्गटदन्तकाः / / खरसूकरदन्ताश् च एकदन्ता अदन्तकाः / / अतिग्रीवा अग्रीवाश् च स्कन्धाक्षा अपि कुब्जकाः / / लांगुलछिन्ना वातांडा एकाण्डाप्य् अनण्डकाः / / अतिदीर्घातिह्रस्वाश् च क्रिशाश् चातिकिलासिनः / / चतुर्भिश् च छविवर्णैः खेला विकटकास् तथा / / एवंविधा[3ब्2]नम् अपि तं प्रतिक्षेपं प्रधारयेत्* /
/ न जातिकायदुष्टं प्रव्रजितम् उपस्थायेत्* /(Vin_1.151)
/ युज्यते नैकस्यैकोपाध्यायस्यैकेन वचसोपादनम् आत्रयात्* /(Vin_1.152)
/ अभावस् तुल्यसमयानां परस्परं सामीचीकरणस्य /(Vin_1.153)
/ सं<<प्रा>>प्ते प्राथम्यं /(Vin_1.154)
/ न द्व्यङ्गुलाद् ऊर्धम् आरण्यकः केषान् धारयेत्* /(Vin_1.155)
/ नैतद् अर्वाग्त्वात् ग्रामान्तिकः /(Vin_1.156)
/ न गोलोमकान् केशां छेदयेत्* /(Vin_1.157)
/ मुक्त्वा व्रण[3ब्3]सामन्तकं /(Vin_1.158)
/ न चूडां का<<र>>येत्* /(Vin_1.159)
/ न संबाधे प्रदेश्[ए] रोमकर्म /(Vin_1.160)
/ कारयेत व्रणनिमित्तम् अरूट्टाव् अन्यथा विज्ञान्* स्थविरस्थविरान् अवलोक्य /(Vin_1.161)
/ नाङ्गनाडीम् अनेतन् निमित्तं /(Vin_1.162)
/ नान्यत्र काये .. क्षुरभारम् वा नखछेदं भजेत वासिमुखं वा /(Vin_1.163)
/ नैषां मृष्टिं भजेत्* /(Vin_1.164)
/ भजेत लेखं मलापकृष्ट्यै न चीवरेण केशश्मश्र्व् अवतारयेत्* /(Vin_1.165)
/ धारयेत् के[3ब्4]शपतिग्रहणं /(Vin_1.166)
/ अभावे संकक्षिकया /(Vin_1.167)
/ न संस्तरे /(Vin_1.168)
न यत्र सांघिकसंमर्जनीनिपातः /(Vin_1.169)
/ अवतारयेत प्रसादादौ जीर्णो ग्लानो वातातपवर्षेषु च /(Vin_1.170)
/ तं प्रदेशं परिकर्मयेत्* /(Vin_1.171)
/ संकीर्णे बालच्छौरणं /(Vin_1.172)
/ एवं नखछेदनं /(Vin_1.173)
/ नानधिष्ठिता भिक्षुण्यैषा पुरुषेणावीतरागा केशां छेदयेत् /(Vin_1.174)
/ संरज्यमानाम् अधिष्ठात्री समनुशिष्यान्* [3ब्5] स्मृतिम् उपस्थापय किम् अस्मिन्* पूतिकडेवरे सारम् अस्तीति /(Vin_1.175)
/ मतृसंज्ञां भगिन्या दुहितुर् वेति कल्पकं /(Vin_1.176)
/ स्नानं कृते त्र कुर्वीत /(Vin_1.177)
/ पञ्चाङ्गिकम् वा शौचं न नग्नः स्नायात्* /(Vin_1.178)
/ न भिक्षुणी पुरुषतीर्थे न स्त्रीतीर्थे चूर्णेन /(Vin_1.179)
/ कल्पते मुत्गादेगन्धपरिभावितं चूर्णं /(Vin_1.180)
/ प्रतिग्रहणम् अस्य /(Vin_1.181)
/ भैषज्यपरिभावितस्य च ग्लानेन /(Vin_1.182)
/ न भिक्षुणी योषिति चूर्णं क्षिपेत्* /(Vin_1.183)
/ ना[3ब्6]ग्रथिताधस्त्य् अपूर्वपश्चिमनिवासितान्तै निःश्रयणीम् अधिरोहेत्* /(Vin_1.184)
/ नान्यदैवं स्यात्* /(Vin_1.185)
/ नाप्रतिछन्नवक्त्र[या] वृतिम् भजेत /(Vin_1.186)
/ धारयेत स्नात्रशाटकं /(Vin_1.187)
/ आसक्तिर् द्विपुटे प्राणकानां /(Vin_1.188)
/ त्रैचीवरको पि /
/ पत्राण्य् अभावे दत्त्वो पूरतः पृष्ठतश् च प्रतिगुप्ते प्रदेशे स्नानं /(Vin_1.189)
/ मोचनेन सक्तस्य प्राणिनोपगतिः /(Vin_1.190)
/ उदकभ्रमे विहार एतत्* /(Vin_1.191)
/ छोरणं [4अ1] / /च द्रवस्य /(Vin_1.192)
/ करणं स्नात्रशालिकायाः /(Vin_1.193)
/ इष्टकास्तारस्यास्यां दानं /(Vin_1.194)
/ उदकभ्रमस्य मोक्षः /
/ श्यन्दनिकायाः शोचनं /(Vin_1.195)
/ भ्रमे स्नाताव् अनुत्थानं /(Vin_1.196)
/ नेट्टनोत्घर्षेण कायं शोधयेत्* पादाभ्याम् अन्यं /(Vin_1.197)
/ निदर्शनम् ए[त]त् तीक्ष्णशौटीरयोः /(Vin_1.198)
/ अग्निना शुक्तेः शोचनं /(Vin_1.199)
/ न किञ्चित् केनचिद् आमुष्टि चेलवर्तेर् भिक्षुण्य् उत्घर्षेत्* /(Vin_1.200)
/ नानप[4अ2]गतसंभावकोदकश् चीवराणि प्रावृण्वीत /(Vin_1.201)
/ धारयेत् कायपोच्छनं /(Vin_1.202)
/ अभावे मुहुर्तम् उ<<त्*>>कुटुकेन स्थित्वा स्नात्रशाटकेन पोच्छनं /(Vin_1.203)
/ प्रतिसेवेत जेन्ताकं /(Vin_1.204)
/ करण्डस्य करणम् उच्छर्करे साधु /(Vin_1.205)
/ बहिःसंवृत्तस्यान्तर्विशालस्य समुद्राकृतेर् वाता<<य>>नस्य मोक्षो मध्ये /(Vin_1.206)
/ जालवातायनकवाटिकाचक्रिकाघटिकाशूचीनाम् अत्र विनिवेशनं /(Vin_1.207)
/ अजा[4अ3]पादकदण्डोपस्थापनञ् च /(Vin_1.208)
/ द्वारे कवाटार्गडकटकायाम् अपट्टसमायोज(न्)नं /(Vin_1.209)
/ तप्तजलस्थापनार्थम् अभ्यन्तरपार्श्वे कपोतमा<<ला>>करणं /(Vin_1.210)
/ अग्निकरणस्थाने भूमाव् इष्टकास्[त्]आरदानं /(Vin_1.211)
/ अनिर्वाणाय संवर्त[न]ं /(Vin_1.212)
/ तदर्थम् आयसस्फिजधारणं /(Vin_1.213)
/ ज्वलत्य् अग्नाव् अक्लमाय प्रवेशपरिहरणं /(Vin_1.214)
/ तमिकानुत्पत्तये सक्तूनां कटुकतैल[4अ4]म्रक्षितानाग्नौ प्रक्षेपः /(Vin_1.215)
/ दौर्गन्ध्यविनिवृत्तये धूपदानं /(Vin_1.216)
/ चिक्कसपिण्डिकया क्षिप्रघरणे प्रविधानं /(Vin_1.217)
/ आमलगपिण्डिकपाचकक्षपिण्डकोत्रासनं /(Vin_1.218)
/ तृणो भूमेर् आस्तरणमात्रैर् औत्पत्तिकेनार्द्रत्वेन तेमनेन वा /(Vin_1.219)
/ कण्डूयनार्थम् आय<<स>>दर्विकाकरणं /(Vin_1.220)
/ छिद्रेणोपनिवर्त्य सूत्रकेनास्यास्थापनम् उपधिवारिकेण गुप्ते /(Vin_1.221)
/ निर्मा[4अ5]दिततासंपत्यर्थम् अस्याम् अग्निकल्पकरणं /(Vin_1.222)
/ अस्नानं तत्र /(Vin_1.223)
/ शालायास् तदर्थं करणं /(Vin_1.224)
/ अनाशाय स्नपयच् चीवराणाम् इष्टकावबद्धगर्तकरणं /(Vin_1.225)
/ उदकभ्रमस्यास्य मोक्षः /(Vin_1.226)
/ शिष्टानाम् अत्युष्णतायां जलस्यारोचनं /(Vin_1.227)
/ शीतेनास्य भेदः /(Vin_1.228)
/ सेकादयो पि /(Vin_1.229)
/ पाषीगोमयदन्तकाष्टपरिपूर्णकर्परोपस्थापनं /(Vin_1.230)
/ क्षमता चेत् पुरोभ[4अ6]क्तिकाकरणं /(Vin_1.231)
/ मध्यपातेन प्रत्युपतिष्ठमानम् अज्ञातम् अत्रैत्गतो निर्ज्ञानार्थं पृच्छेत्* /(Vin_1.232)
/ द्वारपालस्यैतद् अर्थं स्थापनं /(Vin_1.233)
/ अप्रवेशार्थं - च भिक्षोः /(Vin_1.234)
/ नाश्रद्धस्यात्र प्रवेशं दद्यात्* /(Vin_1.235)
/ सार्धम् विहार्यन्तेवासिकैर् अत्र परिकर्मकरणं /(Vin_1.236)
/ नवकैर् इत्य् अपरं /(Vin_1.237)
/ दीपनकटाहकतैलदन्तकाष्ठगोमयस्य मृच्चूर्णपानीयाद्युपस्थापनकाष्ठप्रत्यवेक्षणोद्वर्तनस्नेहनस्ना[4ब्1]पयनसंमार्जनसंकरछोरणाद् एव /(Vin_1.238)
/ तेषां परस्परेण /(Vin_1.239)
/ पीठशुक्तयोश् चौक्षतां कृत्व निक्षेपो यथास्थाने /(Vin_1.240)
/ सर्वत्रैष भाण्डे विधिः सर्वम् उपकरं सुगुप्तकेला[य्]इतं कुर्यात्* /(Vin_1.241)
/ अल्पशब्दो त्र प्रविशेत्* /(Vin_1.242)
/ प्रासादिकः /(Vin_1.243)
/ सुसंवृतेर् यः /(Vin_1.244)
/ संप्रजानन्* /(Vin_1.245)
/ नाग्रत स्थित्वा वितपेत /(Vin_1.246)
/ संगणिकावर्जनं /(Vin_1.247)
/ आर्यन् तूष्णिम्भावावलम्बनं /(Vin_1.248)
/ त्रिदण्डक[4ब्2]दानम् अन्ते /(Vin_1.249)
/ नैकचीवरः परिकर्म कुर्यात्* /(Vin_1.250)
/ नैतत् कायस्याश्रद्धेन कारयेत /(Vin_1.251)
/ अनित्वरात्र पूर्वत्र च श्रद्धाभिसंहिता /(Vin_1.252)
/ न सिं*हसम<<ः>> सृगालसमम् उतिष्ठेत /(Vin_1.253)
/ परमो दुःशीलाप्य् आचार्योपाध्यायान् उपतिष्ठेत /(Vin_1.254)
/ मातृआपितृग्लानांश् चागारिकम् अपि /(Vin_1.255)
/ स्नानं संभारकस्नात्रेण /(Vin_1.256)
/ वातहहमूलगण्डपत्रपुष्पफलक्वाथस्नानं तदाख्यं /(Vin_1.257)
/ [4ब्3] अभ्यङ्क्यारूक्षतार्थं /(Vin_1.258)
/ उपस्नानकेनापगत्यै तस्य /(Vin_1.259)
/ पूर्वार्थम् अन्त्ये उदकुम्भे द्वित्रस्नेहबिन्दुदानं /(Vin_1.260)
/ स्नायाद् अपोद्रोणिकायां /(Vin_1.261)
/ धारयेद् एनां ग्लानः /(Vin_1.262)
/ दद्याद् उपर्य् अस्याः पिधानकं /(Vin_1.263)
/ ग्रीवायां चात्र गण्डोपधानिकां /(Vin_1.264)
/ न यत्र क्वचन पादौ प्राक्षालयेत्* /(Vin_1.265)
/ स्थनम् अस्य प्रनाडीमुखं /(Vin_1.266)
/ कारयरन् पादधावनिकां /(Vin_1.267)
/ उपरि विहारस्य पूर्व[4ब्4]दक्षिणे कोणे /(Vin_1.268)
/ कूर्माकृतिं* खरां /(Vin_1.269)
/ उपस्थापयेत् कठिल्लं मृन्मयं हस्तिपदबुध्नकार्णिकावन्तं /(Vin_1.270)
/ मध्ये संनिवेष्टया कदम्बपुष्पाकारया खरया च /(Vin_1.271)
/ प्रक्षाल्य स्थापनम् अवाग्मुखस्य /(Vin_1.272)
/ तलकोपरि सांघिकस्य /(Vin_1.273)
/ पौत्गलिकस्य लयने कवाटसन्धौ /(Vin_1.274)
/ पात्रनिर्मादनादि यत्र प्रदेशे विहारे कुर्यात् तस्या मार्जनम् उदकेन प्रलेपनम् वा /(Vin_1.275)
/ [4ब्5] कुन्तफलाकाकारेण मृदङ्गस्य वा /(Vin_1.276)
/ गोमयेन मृदा वा /(Vin_1.277)
/ न विद्यते रत्नार्थतायां प्रलिप्तेर् आकारस्य नियमः /(Vin_1.278)
/ नापात्रकं प्रव्राजयेयुर् उपसम्पादयेयुर् वा /(Vin_1.279)
/ नोनेनाधिकेन पाण्डुना वा /(Vin_1.280)
/ त्रीणि पात्राणि जेष्ठम् मध्यं कनीयः /(Vin_1.281)
/ शेषेणोर्धभागान्तानन्तराद् अङ्गुष्ठोदरात् पक्वतन्डुलप्रस्थस्योर्धं वा तद् द्वयां मागधकस्योद्वाहि ससूपसव्यञ्जनस्यैतन् न्याय्यं /(Vin_1.282)
/ [4ब्6] न भिक्षुण्य् ऊर्ध भिक्षुकनीयसो धारयेत /(Vin_1.283)
/ त्रपुमण्डलकस्यानयात्रा निषादे दानं /(Vin_1.284)
/ बोधिवटपत्रस्य पाणितलकस्य वा /(Vin_1.285)
/ परिमाणतश् च /(Vin_1.286)
/ भवति सतत्वं याचितेन /(Vin_1.287)
/ तद्वत् पञ्चकं /(Vin_1.288)
/ न वर्षास्व् अपात्रक<<ः>> स्यात्* /(Vin_1.289)
/ न जनपदचारिकां चरेत्* /(Vin_1.290)
/ चरेत् सभयतायां कुपात्रकेण /(Vin_1.291)
/ प्रव्राजयेद् अभावे /(Vin_1.292)
/ नोत्थितः पात्रं कर्षेत् प्रक्षिपेच् छोषयेद् वा /(Vin_1.293)
/ मात्रया परिभुञ्जीत्* /(Vin_1.294)
/ [5अ1] / / नान्येनात्र निसर्ग प्रक्षिपेत्* /(Vin_1.295)
/ नानेन संकारं छोरयेत्* /(Vin_1.296)
/ न चोचं न हस्तमुख्[ओ]दकं दद्यात्* /(Vin_1.297)
/ न प्रमदनधर्मणा श्रामण्[ए]रेण निर्मादयेत्* /(Vin_1.298)
/ न सवालुकेन गोशकृता /(Vin_1.299)
/ नात्यार्द्रं प्रतिशामयेत्* /(Vin_1.300)
/ नातिशुष्क(ं)म् अध्युपेक्षेत /(Vin_1.301)
/ न शिलायां स्था<<प>>येत /(Vin_1.302)
/ नाशुचौ प्रदेशे /(Vin_1.303)
/ न यत्र क्वचन /(Vin_1.304)
/ नास्मिन् निक्षिपेत्* /(Vin_1.305)
/ मालकस्यैतद् अर्थ करणं /(Vin_1.306)
/ उ[5अ2]त्तिष्ठतोर् विहारपरिगणयोर् न खननेन भित्तेः /(Vin_1.307)
/ चकोरकस्यारण्यकैः /(Vin_1.308)
/ लतामयस्य रज्व वा /(Vin_1.309)
/ लिप्त<<स्य>> गोमयमृदा /(Vin_1.310)
/ सतच्चिद्विध[प्]इधानस्य /(Vin_1.311)
/ लम्बनम् अस्य कान्तारिकया वृक्षे साधु /(Vin_1.312)
/ न भूमौ स्थापनं /(Vin_1.313)
/ नैनम् अत्यत्र नयेत्* /(Vin_1.314)
/ प्रक्षिप्तं स्थविकायां नयेत्* /(Vin_1.315)
/ न हस्तेन /(Vin_1.316)
/ कक्षयास्य नयनमालयनकं दत्वा /(Vin_1.317)
/ पृथक् स्थविकासु - पात्र-भैषज्य-[5अ3]कोलाहलानि स्थापयेत /(Vin_1.318)
/ धारयेद् एनाः /(Vin_1.319)
/ न तुल्यावलम्बानाम् आस्व् आलयनकानां निवेशम् उपयुंजीत /(Vin_1.320)
/ अविस्तीर्णानाञ् च दुःखानिच्छुः /(Vin_1.321)
/ संकोचासंपत्तये न मतदानं मध्ये /(Vin_1.322)
/ स्थानायास्यान्तरान्तरे काकपादके दानं /(Vin_1.323)
/ चक्षुर् इव पात्रं पालयेत्* /(Vin_1.324)
/ त्वचम् इव सांघाटीं* /(Vin_1.325)
/ शिष्टं च चीवरं /(Vin_1.326)
/ न प्रतिसंस्करणम् उपेक्षेत /(Vin_1.327)
/ अनुतिष्ठेत् पात्रबन्धनं प्रति[5अ4]गुप्तिप्रदेशे /(Vin_1.328)
/ उपस्थापयेत् संघः कर्मारभाण्डिकां /(Vin_1.329)
/ छिद्रस्यैतद् असाधु गुडजतुसित्थत्रपुशीसैः /(Vin_1.330)
/ साधु पट्टिकाकीलिकाथिग्गलिकामगरदन्तिकाभिः /(Vin_1.331)
/ चूर्णिकया लोहस्य पाषाणस्य वा /(Vin_1.332)
/ तैलेन घृष्टिरासित्थसादृश्याल् लोहेन कुरुविन्देन वा /(Vin_1.333)
/ उष्णे दानं /(Vin_1.334)
/ अवगुण्ठ्य भूर्जेन मृदानुलिप्य पाकस्य मध्यस्य /(Vin_1.335)
/ घृष्टिस् तैलेन गुडमृदमृन्म[5अ5]यस्य भुज्यमा<<न>>त्वे पाक्यत्वं मासषट्कान्ते /(Vin_1.336)
/ मार्तन्* चेत् पक्षस्य /(Vin_1.337)
/ वर्षाश् चेतद् विरूक्षणे म्रक्षितत्वेन कार्यान्तराले स्य संयोज्यत्वं /(Vin_1.338)
/ पचनम् अस्य /(Vin_1.339)
/ नैतद् आत्मना कर्तुं युक्तं /(Vin_1.340)
/ कटाहकस्य तदर्थम् उपस्थापनं /(Vin_1.341)
/ तत्वोत्पत्तेः /(Vin_1.342)
/ कर्[प्]अरकस्य वा /(Vin_1.343)
/ भस्मनः पूरयित्वा साधु भेदनं घटभेदनकेन /(Vin_1.344)
/ धारणम् अस्य /(Vin_1.345)
/ तेनाव[च्छा]दनम् अपलापिधूमं /(Vin_1.346)
/ दत्ततुषमृत्ति[5अ6]काबहिः लेपेन /(Vin_1.347)
/ पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण उपगतशोषेण /(Vin_1.348)
/ कृतपरिकर्मायां भूमाव् आस्तृततुषायाम् अवकीर्णरुचिरधूमकरकपिण्याकादिद्रव्यायां तस्याधोबिलं /(Vin_1.349)
/ गोमयै.. पलालेन वावगुण्ठ्यादीपनं /(Vin_1.350)
/ सुशीतलस्यापनयनं /(Vin_1.351)
/ आनिष्पन्नरङ्गसंपत्तेर् आवृत्तिः /(Vin_1.352)
/ निर्माद्य निर्माद्यारोपनं /(Vin_1.353)
/ सामन्तकस्य प्राण[5ब्1]कानाम् अनुकम्पया सम्मार्जनं सेकश् च /(Vin_1.354)
/ प्ररोहस्य परिव्यञ्जनम् अज्ञातो वर्षाग्रस्योपसंपद्यङ्गीकरणं व्याजेनास्य प्रत्यवेक्षणं /(Vin_1.355)
/ उच्चनागदन्तकचीवरवङ्शस्थभावावतारणादिना /(Vin_1.356)
/ नोपसंपत्प्रेक्षं वृक्षम् अधिरोहयेत /(Vin_1.357)
/ न बहिःसीमां प्रेषयेत /(Vin_1.358)
/ दर्शनोपविचार एनम् अवकाशने स्थापयेयुः गणाभिमुखं व्रगृहीताञ्जलिं* /(Vin_1.359)
/ न गृहिणे निःश्रया[5ब्2]नारोचयेत्* /(Vin_1.360)
/ नोपसंपन्नमात्राय नारोचयेत्* /(Vin_1.361)
/ वस्तुकर्मोपस्थापकपरिहारेणैनं परीच्छेयुः /(Vin_1.362)
/ दहरम् अप्य् अभावे वृद्धतरम् आपृच्छेत्* /(Vin_1.363)
/ भावे प्य् उपनिःश्रयत्वेन /(Vin_1.364)
/ नानवलोक्य तज्जातीयं परिकर्मयेत् तेन वात्मानं /(Vin_1.365)
/ निर्दोषम् अभावे प्रवृत्तपर्येषनस्य निःश्रयार्हस्यानिःश्रितस्य वासे /(Vin_1.366)
/ आपञ्चरात्रनिष्ठानात्* /(Vin_1.367)
/ अर्हत्वञ् च लाभे /(Vin_1.368)
/ [5ब्3] विश्रम्याकन्तुको द्वितीये त्रितीये वाह्नि निःश्रयं गृह्णीत्* /(Vin_1.369)
/ नैकाहस्यार्थे /(Vin_1.370)
/ अन्यम् असान्निध्ये निःश्रितस्यापृच्छेत्* /(Vin_1.371)
/ निर्दोषम् अनापृष्टौ गतस्य कर्मादाने ऽपरतदागतौ /(Vin_1.372)
/ न यस्य तस्यान्तिकात्* /(Vin_1.373)
/ निर्ज्ञाय वृत्तज्ञानपरिवारानुग्राहकत्वं प्रस्नादिनास्य ग्रहणं संवरवत्* /(Vin_1.374)
/ प्रपीड्योभाभ्यां पाणिभ्याम् उभौ पादतलौ /(Vin_1.375)
/ परीक्षदानं /(Vin_1.376)
/ [5ब्4] पुत्रपितृसंज्ञयोः निवेशनं /(Vin_1.377)
/ तत्त्[ऐ]वोपाध्याय्[ए] निःश्रितत्वं तस्माद् अग्रहणम् अस्य तत्र /(Vin_1.378)
/ निरपेक्षतासंपत्तिर् उभयोर् आन्तनिःश्रयध्वंसे कारणं /(Vin_1.379)
/ सन्निपत्ताव् अनौपाध्यायेनाभिमतेन प्रवृत्तिः /(Vin_1.380)
/ तेनैव तेन /(Vin_1.381)
/ निरन्तरं दृष्ट्वोपाध्यायम् आसनं मुञ्चेत्* /(Vin_1.382)
/ त्रिर् दिवसेन निःश्रितम् उपसंक्रामेत् तद्विहारस्थः /(Vin_1.383)
/ अरण्यवासी क्रोशे चेत् प्रत्यहं /(Vin_1.384)
/ पञ्चषैर् अहोभिः क्रोशपञ्चके /(Vin_1.385)
/ [5ब्5] पोषधे र्द्वतृतीये (र्)योजन्[ए]षु /(Vin_1.386)
/ न निःश्रितम् अवसादनार्ह नावसादयेत्* /(Vin_1.387)
/ पञ्चावसादनाः /(Vin_1.388)
/ अनालापो नववाद उपस्थानधर्मामिषैर् असंभोगः प्रारब्धकुशलपक्षसमुच्छेदो निःश्रयप्रतिप्रश्रम्भणञ् च /(Vin_1.389)
/ अश्रद्धस्येतद् अर्हत्वं /(Vin_1.390)
/ कुसीतस्य दुर्वचसो नादृतस्य पापमित्रस्य च /(Vin_1.391)
/ अवसादितसंग्रहे न्यस्य स्थूलात्ययः /(Vin_1.392)
/ अनादृतौ भिक्षोः प्रगुणीकरणा[5ब्6]य प्रयोगो भिज्ञस्य /(Vin_1.393)
/ त्यक्तनिमित्तस्य क्षमणं क्षमयतः /(Vin_1.394)
/ नानर्हम् अवसादयेत्* /(Vin_1.395)
/ नार्हस्य न क्षमेत्* /(Vin_1.396)
/ नानर्हस्य क्षमेत्* /(Vin_1.397)
/ सर्वथा निष्काशनम् अकरणीयतायां लयनात्* /(Vin_1.398)
/ परिश्रावणकुण्डिके दत्वा सान्तरोत्तरञ् च श्रामणेरस्य /(Vin_1.399)
/ उपसंपत्प्रेक्षश् चेत् पंच परिस्कारान्* /(Vin_1.400)
/ उपसम्पन्नस्य च /(Vin_1.401)
/ न सिङ्हनिष्णुरो भवेत्* /(Vin_1.402)
/ न विघातसंवर्तिनं [6अ1] / / क्रियाकारं कुर्वीरन्* /(Vin_1.403)
/ पलिशुद्धतापर्युषितत्वम् आस्यस्य /(Vin_1.404)
/ विसर्जयेत्* दन्तकाष्ठं /(Vin_1.405)
/ प्रतिछन्नं /(Vin_1.406)
/ उच्चारप्रस्रावक्रिया च /(Vin_1.407)
/ नोपभोग्यस्यान्ते वृक्षस्य कुड्यस्य वा /(Vin_1.408)
/ प्रमणम् अस्य द्वादशकाद् अङ्गुलीनां प्रभृत्याष्टकात) /(Vin_1.409)
/ आचतुष्कोत्तराद् अभावे बहुश्लष्मणः /(Vin_1.410)
/ नायुक्तत्वं विजनस्य लयने कठिल्लकस्योपरे /(Vin_1.411)
/ नासंपत्तिर् अत्र [6अ2] गुप्तेः प्रनाडीमुखे /(Vin_1.412)
/ हस्तसामन्तकस्यात्रैवंजातीयके संभाव्यर्थं* /(Vin_1.413)
/ जिह्वाम् अस्यानुनिर्लिखेत्* [/](Vin_1.414)
/ उपस्थापयेज् जिह्वनिर्लेखनिकां /(Vin_1.415)
/ शूचीद्रव्या /(Vin_1.416)
/ कल्पते त्रार्थे दन्तकाष्ठ[व्]इदलः /(Vin_1.417)
/ परस्परम् अस्यातीक्ष्णतायै घृष्टिः /(Vin_1.418)
/ न तीक्ष्णेन दन्तं जिह्वां कर्णञ् चोत्घृषेत्* /(Vin_1.419)
/ नाशनैः /(Vin_1.420)
/ अवाधयंस् तन्मासं /(Vin_1.421)
/ नाप्रक्षाल्य दिग्धं मुखमलेन प्रदेशम् अ[6अ3]वगुण्ठ्य वा पांशुना दन्तजिह्वयोः यवनं छोरयेत्* /(Vin_1.422)
/ नाविशब्द्य /(Vin_1.423)
/ निदर्शनम् एतत्* /(Vin_1.424)
/ उच्चारप्रश्रावखेटसिं*घाणकवान्तम् विरिक्तम् अ[प्]य् अन्यच् च /(Vin_1.425)
/ निर्मादनस्यातो पि संपत्तिर् ऊषाडुकगोमयाद् अपि /(Vin_1.426)
/ चेत्यम् अनन्तरं कायकरणीयानुष्ठानाद् वन्देत /(Vin_1.427)
/ अथ निःश्रितप्रतिपत्* /(Vin_1.428)
/ अतो नन्तरं काल्यम् उपसंक्रम्य वन्दनं /(Vin_1.429)
/ वार्ताप्रच्छनं /(Vin_1.430)
/ ऊ[6अ4]षाडुकोदकदन्तकाष्ठोपनामनं /(Vin_1.431)
/ महानसम् अवलोक्यम् आरोचनं /(Vin_1.432)
/ प्रियस्योपनाम्यत्वेन मनसिकरणं /(Vin_1.433)
/ पात्रनिर्मादनं /(Vin_1.434)
/ पिण्डपातिकश् चेद् रावकस्य च /(Vin_1.435)
/ सप्रयोजनं परिश्रा<<व>>णस्यापि /(Vin_1.436)
/ सो पि चेत् प्रस्नः /(Vin_1.437)
/ साह्यं चेद् अभिरुचितं तेनैव सह प्रवेशः /(Vin_1.438)
/ विषमादौ पुरतो गतिः /(Vin_1.439)
/ प्रणीतस्य तस्मै परिणमनं /(Vin_1.440)
/ असह चेद् आगत्योपदर्शनं /(Vin_1.441)
/ [6अ5] वरतरस्योपनामनं /(Vin_1.442)
/ मात्राज्ञो सौ सर्वत्र स्यात्* /(Vin_1.443)
/ उदकस्थालकपूरणं /(Vin_1.444)
/ कालार्[ओ]चनं /(Vin_1.445)
/ भुक्ते पात्रादिनिर्मादनं /(Vin_1.446)
/ स्थापनम् अस्य /(Vin_1.447)
/ चेत्यादिवन्दनायाम् ऊषाडुकोदकाह्युपनयः /(Vin_1.448)
/ पादप्रक्षालनगतानुष्ठानं /(Vin_1.449)
/ शयनासनप्रज्ञपनं /(Vin_1.450)
/ प्रति निवासनार्पणं /(Vin_1.451)
/ निवासनग्रहणं /(Vin_1.452)
/ पादौदकाधिष्ठानकठिल्लोपनामनं [6अ6] उपानपौच्चनं /(Vin_1.453)
/ असम्मतम् उत्थानकारकत्वेन ग्रिहीतसम्मार्जनीकं दृष्ट्वाल्पोत्सुकं कुर्यात्* /(Vin_1.454)
/ ग्रिहीतसूचिकं चासम्मतं चीवरसेवकत्वेन /(Vin_1.455)
/ कल्पिकीकरणाल्पहरिततापादनपुष्पफलोच्चयदन्तकाष्ठोपसं*-हाराद्य् अपि श्रामणोद्देशे /(Vin_1.456)
/ अर्ग..काकोटनेनाभ्यन्तरस्थं बोधयेत्* /(Vin_1.457)
/ शनैर् एतत्* /(Vin_1.458)
/ नातिवेलं /(Vin_1.459)
/ नात्येनं* विद्येत्* /(Vin_1.460)
/ शनैः सं[6ब्1]प्रजानन्* प्रविश्[ए]न् निष्क्रामेच् चासंघर्षयं द्वारशाखे /(Vin_1.461)
/ स कुर्याद् एनं /(Vin_1.462)
/ आलियेत्* /(Vin_1.463)
/ न तद्विरुद्धिं* /(Vin_1.464)
/ अपत्रपेतातः /(Vin_1.465)
/ दक्षो स्य कृत्ये स्यात्* /(Vin_1.466)
/ सत्कृत्यकारि प्रासादिकप्रस्थानः /(Vin_1.467)
/ ह्रीमान् सगौरवः /(Vin_1.468)
/ सप्रतीशः /(Vin_1.469)
/ नीचचित्तः /(Vin_1.470)
/ संप्रजान् न हापयन् स्वकार्यां /(Vin_1.471)
/ किं*कुशलगवेषी /(Vin_1.472)
/ विक्रिमयाम् आपद्यमानं निवारयेत्* /(Vin_1.473)
/ अवृद्धौ कुशले नान्यत्र तत्(कर)करे समर्प[6ब्2]णां याचेत्* /(Vin_1.474)
/ निर्ज्ञाय निःश्रयार्ते र्पयेत्* /(Vin_1.475)
/ पापमित्राढारणं /(Vin_1.476)
/ कुशले नियोगः /(Vin_1.477)
/ तदुपसंहारः व्युत्थापनायाम् आपत्तेर् आनुलोमिकाजीवितपरिस्कारसंपत्तौ चोद्योगः /(Vin_1.478)
/ सार्धन्विहार्यन्तेवासिकोपाध्यायाचार्यसमानोपाध्यायसमानाचार्यालप्तकसम्* लप्तकसंस्तुतकसंप्र्[ए]मकं ग्लानम् उपतिष्ठेत्* /(Vin_1.479)
/ पूर्वक्रियाभावाद् उत्तरः /(Vin_1.480)
/ पाठाचार्यस्याप्य् अत्र गृहीतता /(Vin_1.481)
/ [6ब्3] सा ह्य् अशक्तौ निःश्रितं येन प्रवृत्तिः /(Vin_1.482)
/ प्रव्रजितवद् अत्र प्रारब्धतल्लिङ्गः /(Vin_1.483)
/ न ग्लान सब्रह्मचारिणम् अध्युपेक्षेरन्* /(Vin_1.484)
/ उपस्थायकम् अस्याभावे ददीरन् नान्तात्* /(Vin_1.485)
/ कल्पते भैषज्यस्य संघतः /(Vin_1.486)
/ केवलस्य ग्लानस्य परिभोगः /(Vin_1.487)
/ असत्व [ए]तद् उपस्थायकः समादापयेत्* /(Vin_1.488)
/ असंपत्तो सांघिकं ददीरन्* /(Vin_1.489)
/ अभावे बौद्धिकम् आशरीरगतात्* /(Vin_1.490)
/ यानकछत्रारो[6ब्4]पणादिकारान् एनम् उदिश्य कुर्युः सांघिकात्* /(Vin_1.491)
/ अभावे स्य बोधिकात /(Vin_1.492)
/ देयत्वम् आ[भ्य्]आम् आत्तस्य तेनामृत्यौ सति विभवे /(Vin_1.493)
/ नोपस्थायक एनं नोपतिष्ठेत्* /(Vin_1.494)
/ नार्थ्याम् अस्य धर्माञ् चाज्ञां विलोमयेत्* /(Vin_1.495)
/ नाध्यवसानवस्तूपयाचितो विधारयेत्* /(Vin_1.496)
/ न नाववदेत्* /(Vin_1.497)
/ नैनं ग्लानो तिलंघयेत्* /(Vin_1.498)
/ सांघिकाद् एनम् असौ मारणाशंकायां शयनासनाद् उत्थाप्य [6ब्5] पौत्गलिके निवेशयेत /(Vin_1.499)
/ अभ्यञ्जनस्नापनपूर्वकताव्याजेन /(Vin_1.500)
/ यत्नवांस् तदवस्थापरिछेदे स्यात्* /(Vin_1.501)
/ तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य /(Vin_1.502)
/ संघस्य तत्स्थविरसंनिपाते पूर्वगमः स्यात्* /(Vin_1.503)
/ गमने विलम्बितम् उदीक्षेत /(Vin_1.504)
/ ते प्य् एनं /(Vin_1.505)
/ अनिर्गतञ् च दूरं गत्वा /(Vin_1.506)
/ ग्रामान्ते च /(Vin_1.507)
/ प्रवेशश् चेद् अत्रानुयन्तं /(Vin_1.508)
/ द्रुतश् चेत्* स्याद् आगमय यावत् स्थविरागच्छ[6ब्6]तीतेनं ब्रूयुः /(Vin_1.509)
/ पाण्युदकदाने च गतत्वे भ्यवहारायास्ति चेत्* कालः -(Vin_1.510)
/ असत्य् अत्रोपवेशे स्यासनं मुञ्चेरन्* /(Vin_1.511)
/ सन्निषण्णतायां बहिश् च प्रत्यवेक्षेत्* /(Vin_1.512)
/ दुःप्राव्रितत्वे दुर्निवस्ततायां वा सौष्ठवार्थम् अनयोर् निमित्तम् अस्मै कुर्वीत्* /(Vin_1.513)
/ अप्रतिवेधे न[न्त]रेण कारयेत्* /(Vin_1.514)
/ असंपत्तौ स्वयं नैनान्* संलापयेन् नवकान्* /(Vin_1.515)
/ यत्रेषाम् विहारारण्ययोर् वृत्तिस् तत् वृत्तं ग्राहयेन् नियुञ्जी /(Vin_1.516)
/ [7अ1] / / आगन्तुक प्रत्यवेक्ष्यावासिकानाम् आरोचयेच् छयनासनार्थं /(Vin_1.517)
/ गमिको दिक्सार्थावासशयनासनं सहायकाब्श् च ग्लान्येन पहायित्वेन तोलयित्वा प्रक्रामेत्* /(Vin_1.518)
/ सर्व पश्चात् मा कस्यचित् किञ्चित् प्रमुषितम् इत्य् अपेत्य दूरम् उत्सारयेत्* /(Vin_1.519)
/ अनुद्धतानुन्नडत्वै नवकां प्रतिस्थापयेत्* /(Vin_1.520)
/ कुलञ् चोपगतान्* सर्वः सर्वान्* /(Vin_1.521)
/ संजानीत चार्येर्योपदेशोद्देशादिभक्तलाभग्लानसं[7अ2]विधानादिकरणीयसंपादनेनानुगृह्णीत्* /(Vin_1.522)
/ वर्षोपगतो नुसंज्ञा<<प>>य विहारम् अप्रतिसंस्कुर्वतः संस्कारयेत्* /(Vin_1.523)
/ संस्कुर्वतो भ्युत्सादयेत्* /(Vin_1.524)
/ पर्षत्गतान् सर्वः कथैषितायाम् आनुलोमिकधर्मोपसंहारेणानुगृह्णीत्* /(Vin_1.525)
/ तुष्णीं*त्वे रतान् उपेक्षेत्* /(Vin_1.526)
/ गृहिण उपगतां भक्तात् संविभाजयेत्* /(Vin_1.527)
/ अकरणे निष्टौ वा धर्म्याम् एभ्यः कथं कृत्वेदम् अस्माकं संविद्यत इति ब्रूयात्* /(Vin_1.528)
/ पर्षदं [7अ3] तद्वान् सर्वः प्रत्यवेक्षेत /(Vin_1.529)
/ मुधाचारिण[ं] निगृह्णीयात्* /(Vin_1.530)
/ गमनाद्य् अत्र यथैत् कुर्यात्* /(Vin_1.531)
/ अनानातिर्यक्कथस् स्यात्* /(Vin_1.532)
/ न पुरः पश्चाच्छ्रमणोपगच्छेत्* /(Vin_1.533)
/ न तिष्ठेत्* /(Vin_1.534)
/ उक्तो ब्रूयात्* संपादयेद् वा /(Vin_1.535)
/ नान्तरकथाम् अवपादयेत्* /(Vin_1.536)
/ अधर्म भाषमाणं प्रतिवहेत्* /(Vin_1.537)
/ धर्मम् अनुमोदेत /(Vin_1.538)
/ उत्पन्नं धार्मिकं लाभं प्रतिगृह्णीत /(Vin_1.539)
/ अनुद्धतः कुले स्याद् अनुन्नडा[7अ4]न् अवस्थितः /(Vin_1.540)
/ उत्क्षिप्तचक्षुः /(Vin_1.541)
/ धर्म्यां गृहिभ्यः कथां कुर्यात्* /(Vin_1.542)
/ दानदमसंयमब्रह्मचर्यवासोपोषधशरणगमनशिक्षापदग्रहणेष्व् एनान् नियुञ्जित /(Vin_1.543)
/ सर्वत्रापत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत्* /(Vin_1.544)
/ न नशिष्टो नुगः /(Vin_1.545)
/ एहि स्वागतपूर्वप्रियालाप्यभिगते स्यात्* /(Vin_1.546)
/ उत्तानमुखवर्णः स्मतपूर्वंगमो विगतभृकुटिः /(Vin_1.547)
/ गृही चेत्* धर्म्याम् अस्मै कथं कुर्यात्* /(Vin_1.548)
/ [7अ5] अनागच्छत्य् अत्र ग्रामान्तिकस् संरञ्जनीयं यथाशक्ति प्रवर्तयेत्* /(Vin_1.549)
/ पानीयासनम् उपस्थापयेत्* /(Vin_1.550)
/ संमार्गशयनासनप्रज्ञपनपानीयस्थापनचारणः भक्तनिःसर्गान् नवकः कुर्यात्* /(Vin_1.551)
/ उपगच्छेद् विलोमां परिजनक्रियां न चेत् स्वपरोपघाताय /(Vin_1.552)
/ अस्मै चेच् छक्तौ समुच्छिद्यैनां धर्म्याम् उत्पाद्य तया संज्ञपयेत /(Vin_1.553)
/ भङ्गे प्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्क[7अ6]रणं /(Vin_1.554)
/ अशक्तत्वे न्येन प्रक्रमनं /(Vin_1.555)
/ न तत्प्रत्ययं विगृह्य ब्रूयात्* /(Vin_1.556)
/ संघारामे पराध्यांस् तथा कुर्याद् यथा स्वयं ग्राहिकया ग्रहणं गच्छेत /(Vin_1.557)
/ अगच्छन्तम् अनारोच्य सहसा कस्यचित् कुमारमित्रामत्यभट्टराजपुत्रपादमूलिकान्* ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्* /(Vin_1.558)
/ भिक्षुणी भिक्षुस्थाने सर्वस्य प्रव्रजायां /(Vin_1.559)
/ उपसंपद्य् अन्यस्य तद्याचनादौ कर्मकर्तुः [7ब्1] अत्राचयस् संघः /(Vin_1.560)
/ कथनं भिक्ष्ण्यन्तरितम् आन्तरायिकस्य /(Vin_1.561)
/ शिक्षमाणात्वं नाम स्त्रियाम् अपरं पर्व /(Vin_1.562)
/ नि(ः)श्रितायाम् एव /(Vin_1.563)
/ श्रामणेरिकात्वभिक्षुणीत्वयोर् अन्तराले वर्षद्वयञ् चरणस्य कालः /(Vin_1.564)
/ तदूनोपसंपत्कालाद्यादिकः प्ररोहस्य /(Vin_1.565)
/ द्वादशत्वं वर्षाणाम् उपसंपद्यूढतायाम् आदिः /(Vin_1.566)
/ दानाद् उत्थानं /(Vin_1.567)
/ भिक्षु[7ब्2]णीसंघेन /(Vin_1.568)
/ शिक्षासंवृतिर् इति दानं /(Vin_1.569)
/ अनन्तरम् अस्य शिक्षोत्कीर्तनं /(Vin_1.570)
/ नालब्धब्रह्मचर्योपस्थानसंवृतेर् उपसंपत्* /(Vin_1.571)
/ रहोनुशासनाद् ऊर्धं तद्दानं /(Vin_1.572)
/ संघेन /(Vin_1.573)
/ पृष्ट्वान्तरायिकं /(Vin_1.574)
/ याचितायां /(Vin_1.575)
/ पञ्चत्वं चीवरेषु /(Vin_1.576)
/ नि(ः)श्रयेषु विवृक्षमूलत्वं /(Vin_1.577)
/ अष्टत्वं पतनीयेषु /(Vin_1.578)
/ गुरुधर्मारोचनं /(Vin_1.579)
/ पतनीयश्रमणकरकान्तराले /(Vin_1.580)
/ कृत्*षट्के /(Vin_1.581)
/ नास्त्य् अस्याः [7ब्3] प्ररोहणधर्मत्वेति च /(Vin_1.582)
/ उभयव्यञ्जना /(Vin_1.583)
/ संभिन्नव्यञ्जना /(Vin_1.584)
/ सदाप्रश्रवणी /(Vin_1.585)
/ अलोहिनी नैमित्तिकी /(Vin_1.586)
/ निमित्तमात्रभूतव्यञ्जना तदाख्या /(Vin_1.587)
/ पूर्वं प्रव्रजिता /(Vin_1.588)
/ क्षुद्रकादिप्रव्रजवस्तुगतं //
**(vin_1,4) पृच्छागतम् /
// नामनुषगतिकोत्तरकोरवकयोः(Vin_1.589)
संवरस्य क्षेत्रत्वं /(Vin_1.590)
/ न त्रितीयस्यां परिवृत्तो व्यञ्जनस्य /(Vin_1.591)
/ न प्रथमयोर् वस्तिः /(Vin_1.592)
/ उत्थानं गृह्यमाणत्वे /(Vin_1.593)
/ अनुपाध्याय[7ब्4]कतायां तद्वतः /(Vin_1.594)
/ अनुपसंपन्नत्वे स्य /(Vin_1.595)
/ न जानाने स्याभिक्षुत्वं /(Vin_1.596)
/ नेनं प्रत्याचक्षणे /(Vin_1.597)
/ नानयोर् नामानुत्भावने /(Vin_1.598)
/ न संघस्य तद्योनेः /(Vin_1.599)
/ नागारिकतीर्थिकध्वजे /(Vin_1.600)
/ न नग्नकुपितपुंफालिनीषु /(Vin_1.601)
/ न निमित्तविपर्ययानभ्युपेताव् उत्क्षिप्तकस्य /(Vin_1.602)
/ दुस्क्रितमात्रकम् अपूर्वपर्वतायां /(Vin_1.603)
/ अयाज्ञायाम् उपाध्यायस्य /(Vin_1.604)
/ आन्तरायिकस्याप्रष्णे [7ब्5] प्रतिज्ञाने स्यासतो दान्[ए] /(Vin_1.605)
/ न पुरुषानुकृतित्वं स्त्रिया स्त्र्यनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकारः /(Vin_1.606)
/ आक्षिप्तत्वम् अस्य हस्तछिन्नादिना /(Vin_1.607)
/ पापलक्षणभिन्नकल्पद्वीपान्तरजय्[ओ]ः /(Vin_1.608)
/ एकनख-समुद्रकलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश्-आन्तर्बहिर्द्विकुब्ज-षट्सहित्-आनङ्गुलि-यक्ष्म-नकुल-किं*पिलविपरीतमिलित-सिक्य--कश्मीलिता-क्षाक्षाक्षि-शालशक्तदद्रू-विचर्चिक-पीतावदातरक्त-नाडी[7ब्6]कर्ण-कण्डूपिण्डस्थूलकच्छ्वण्डलांगुलप्रतिछन्न--मूढाजिह्वैकहस्तपादनीलकेशहस्त्यश्वश्वगोमेषमृगमत्स्याहिदीर्घबहुशीर्षतालकण्ठशूलेर्यापथछिन्नेभ्यश् चानाबाधिकानां ग्लानेन चेतरेषां /(Vin_1.609)
/ .औरेण दस्योः /(Vin_1.610)
/ पितृवत् पित्राशयत्वे नुज्ञायां राजा /(Vin_1.611)
/ परिग्रहीत्रोर् अनुज्ञानधारणारोच[ने]षु पितृत्वं /(Vin_1.612)
/ नामनुष्यगतिकयोः /(Vin_1.613)
/ नात आनन्तर्योत्थानं /(Vin_1.614)
/ जनकाभ्याम् एतत् परिवृत्तव्यं(Vin_1.615)
[8अ1] / / नाभ्याम् अपि /(Vin_1.616)
/ एतत्कृत्त्वं मातृघातकादौ तन्त्रं /(Vin_1.617)
/ दूषकत्वम् अब्रह्मचर्येण स्वादयतोर् अपराजित्व्[ए] /(Vin_1.618)
/ अर्हत्वं प्रव्रज्य्[ओ]पसंपदोर् उपगतौ पुंस्त्वस्य हीनायां योषिति /(Vin_1.619)
/ असाधारणं पाराजयिकम् अध्याचरितवत्यां /(Vin_1.620)
/ आवासिकानां स्त्र्युपसंपादने ङ्गत्वं /(Vin_1.621)
/ ध्वंसो भवत्व् अस्योत्सृष्टौ //(Vin_1.622)
// पृच्छाप्रायं प्रजवस्तुगतं समाप्तञ् च प्रव्रजवस्तु //
*vin_2. पोषधवस्तु /
**(vin_2,1,1) पाराजयिकम् /
(क) भिक्षुविभंगः (1) अब्रह्मचर्यपाराजयिकम् / [प्रत्याख्यानविधिः] // विभङ्गादिगतम्* // 6 //
/ न नष्टप्रकृतिक्रितता प्रत्याख्यात[8अ2]त्वं /(Vin_2.1)
/ न तत्यं /(Vin_2.2)
/ न मूके /(Vin_2.3)
/ नामौषगतिके /(Vin_2.4)
/ नाभोधितत्वे /(Vin_2.5)
/ न रहसि /(Vin_2.6)
/ न रहस्संज्ञया /(Vin_2.7)
/ शिक्षा प्रत्याचक्षे बुद्धं धर्मं संघं सूत्रं विनयं मातृकाम् आचार्यम् उपाध्यायम् आगारिकमान्धारयश्रमणोद्देशं षण्ड्कपण्डकं भिक्षुणीदूषकं / स्तेयसंवासिकं नानासंवासिकम् असंवासिकं तीर्थिकं तीर्थिकावक्रान्तगं मातृघातकं पितृघातकम् अर्हघातकं संघभेदकं [8अ3] तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकम् अलं मे युस्मद्विधैः ब्रह्मचारितिः सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचनानि /(Vin_2.8)
// प्रत्याख्यानविधिः //
(क) विभंगगतम् /
/ प्रविष्टस्पर्शस्विकृतो प्रश्रावकरणस्य /(Vin_2.9)
/ तत्र /(Vin_2.10)
/ अविकोपिते /(Vin_2.11)
/ मुखे वर्चोमार्गे वा /(Vin_2.12)
/ विकोपितेषु स्थूलं /(Vin_2.13)
/ अप्रतिबलत्वे ह्रासः /(Vin_2.14)
/ अहासम् अमनुषगतिकत्वयौस्नपण्डकतासिव[8अ4]सेव्यसान्तरत्वमृततासु /(Vin_2.15)
/ असंचेतितनष्टप्रकृत्यवर्स्थाकाम् अप्रविष्टत्वे /(Vin_2.16)
/ स्वक्यतायां सेव्यमानस्य /(Vin_2.17)
/ वहिर्निघर्षपूर्वकत्वे नन्तर्मुक्त<<त्वे>>परतायां /(Vin_2.18)
/ नागुप्तो दिवा पार्श्वं दत्त्वा मिद्धम् अवक्रमेत्* /(Vin_2.19)
/ तिस्रो गुप्तयः /(Vin_2.20)
/ बद्धद्वारपरिवृतस्थत्वम् आरक्षितत्वं भिक्षूणा ग्रथितत्वम् अधोनिवसनस्य /(Vin_2.21)
// अब्रह्मचर्यपाराजिकेभङ्ग //
(ख) क्षुद्रकगतम् /
/ न यत्र स्त्रिया काम्येत तत्रो[8अ5]पसंक्रामेत /(Vin_2.22)
/ न यत्रामनुषो स्पर्शायोद्यतः तत्र निवसेत्* /(Vin_2.23)
/ धारयेत् तीव्ररागो वस्तिं* /(Vin_2.24)
/ छागचर्मणो मृगस्य मूषिकस्य वा /(Vin_2.25)
/ कषायानम् अदौर्गन्ध्यार्थम्* /(Vin_2.26)
/ शोचनं शोषनञ् च /(Vin_2.27)
/ तत्कालार्थम् अपरन्* /(Vin_2.28)
/ प्राभूत्येन द्रवीभूतावास्तरदानं /(Vin_2.29)
/ वालुकायाः पांशोर् वा /(Vin_2.30)
/ निक्षिप्य शौचं कृत्वा भोजनचैत्यवन्दनं /(Vin_2.31)
// क्षुद्रकगतम् अब्रह्मचर्य[8अ6]पारजयिकन्* //
(ग) पृच्छागतम् /
/ दन्तात् परं मुखस्यादिः /(Vin_2.32)
/ वर्चोमार्गस्य विलगण्डिकान्तात्* /(Vin_2.33)
/ चर्मपुटात् प्रस्रावणस्य /(Vin_2.34)
/ मणेरस्य प्रविष्टता तदन्तः /(Vin_2.35)
/ प्रदेशस्यास्याद् अष्टत्वं दष्टता शून्यत्वं क्लिन्नता शटितत्वं खादितता प्राणकैर् इति विकोपितता /(Vin_2.36)
/ न मध्यछन्नत्वे गम्यस्याप्य् अपह्रासः /(Vin_2.37)
/ अप्रज्ञाने च सन्धेः पाटितस्य मध्यासेव्यस्य संहितस्य /(Vin_2.38)
/ प्रज्ञाने नन्तरं पर्व /(Vin_2.39)
/ [8ब्1] स्थू[ल]कृत्वम् पक्वस्य निर्लोम्नः सूकरादेः /(Vin_2.40)
/ शिरछिन्ने मुखस्य /(Vin_2.41)
/ पृथक्*कृतयो<<ः>> कायात्य्सेव्यसेवनयोः /(Vin_2.42)
/ अन्ययोर् अपि परकीययोः परत्र समायोजने /(Vin_2.43)
/ अन्यस्य छिन्ने कायेपि छिद्रस्य /(Vin_2.44)
/ सेव्यस्य चानन्तरस्य पण्डिकायां /(Vin_2.45)
/ योष्ठयोः /
/ बाह्यस्य सीम्नः परस्तात्* /(Vin_2.46)
/ प्रसेविकायाः /(Vin_2.47)
/ द्विगुणीकृता स्पृष्टिप्रवेशयोः /(Vin_2.48)
/ तद् अन्त्योक्तावन्तरणम् अभिसंहितं येना[8ब्2]न्तरितस्य न सर्वेण सर्वम् असंभावनं स्पृष्टेः /(Vin_2.49)
/ अन्येनान्तरितत्वम् अस्पृष्टिप्रवेशेन व्याख्यातं // प्रथमे पाराजिके पृच्छागतं // (Vin_2.50)
(घ) विनीतकानि /
/ भिक्षुभावासंचेतनं प्रक्रितिनाशः /(Vin_2.51)
/ द्वयं विकोपितत्व(ं)म् अन्तः वहिश् च /(Vin_2.52)
/ कुपितत्वं शिक्षायाः सेवां प्रति परस्याभ्युपगतौ /(Vin_2.53)
/ देयत्वम् अत्र पुनर् अस्याः /(Vin_2.54)
/ स्थूलम् अस्यां भिक्षोः /(Vin_2.55)
/ संग्रहगतौ च /(Vin_2.56)
/ प्रवेशनार्थं व्रणपी[8ब्3]डने /(Vin_2.57)
/ भीतिलज्जयोः संरागासंपत्तेः /(Vin_2.58)
/ स्फोटादंगजातस्य रसासंवितौ /(Vin_2.59)
/ अकर्मण्यप्रवेशने /(Vin_2.60)
/ हस्तेन हस्तं पादेन पादं सन्धिना सन्धिं* वस्तिना वस्तिम् अत्यघट्टने /(Vin_2.61)
/ इञ्जितत्वमात्रके संयुक्तस्य /(Vin_2.62)
/ दादुदन्तशैलवस्त्रम् अपधीतिकोपक्रान्ताव् इन्द्रियमात्रस्य चेद् अवनामः /(Vin_2.63)
/ सर्वाङ्गेषु स्पर्शदानेषु मौलं /(Vin_2.64)
/ पादस्य सेवा[8ब्4]र्थम् उद्यतेनाङ्गजाते प्रक्षेपे /(Vin_2.65)
/ वहिस्पर्शने सेव्यस्य तन्मात्रपरतयाङ्गजातेन /(Vin_2.66)
/ पराज्ञपने च सेवायां /(Vin_2.67)
/ न प्रकृत्या कर्मण्यत्वम् अपक्रामकृत्* /(Vin_2.68)
/ नाग्रपृष्ठयोर्यतयाम्भस् ततो न्यतो निष्ठाने /(Vin_2.69)
/ न शिष्टैर् अपि मार्गैर् उपक्रमिष्य इति /(Vin_2.70)
/ तत्भ्रष्टो हम् इत्य् अभिप्रायः /(Vin_2.71)
/ न रोगापगत्यर्थता /(Vin_2.72)
/ न मार्गे न्यत्वसंज्ञानं विमतिर् वा /(Vin_2.73)
/ स्थूलकृत्व[8ब्5]म् अनयोर् अमार्गे /(Vin_2.74)
/ ..नापत्तिर् अतिद्रुतस्य स्त्र्युपरिनिपाते /(Vin_2.75)
/ कण्ठे चाकाममार्तया च लम्बने /(Vin_2.76)
/ स्पर्शने चौष्ठेनौष्ठस्य /(Vin_2.77)
/ न शून्याः पुरस्तात् प्रश्रावं कुर्वीत्रः /(Vin_2.78)
/ न यत्र प्राणात्ययापातस् तत्रारण्ये प्रतिवसेत् /(Vin_2.79)
/ न यत्राङ्गजातादानभयन् तां नग्नो नदीन् तरेत्* /(Vin_2.80)
/ संप्रजानन्न् एनां नावा तरेत्* /(Vin_2.81)
/ गवाञ् च सव्ये गच्छेत्* /(Vin_2.82)
/ उद[8ब्6]यन च प्रेक्षे[त्*] /(Vin_2.83)
/ पिण्डाय च ग्रामं चरेत्* /(Vin_2.84)
/ सुप्रत्यवेक्षितं कृत्वा प्रव्राजयेत /(Vin_2.85)
/ नेकाक्य् अभ्यवकाशे पार्श्वं दद्यात्* /(Vin_2.86)
/ नापावृतद्वारे गारे भिक्षुणी समापद्येत च /(Vin_2.87)
/ प्रथमे पाराजयिके विनीतकानि / / अब्रह्मचर्यपाराजयिकं समाप्तम्* //
**(vin_2,1,2) अदत्तादानपाराजयिकम् /
(क) विभंगगतम् /
/ हरणहारणयोः /(Vin_2.88)
/ दूतेनापि /(Vin_2.89)
/ अदत्तस्य /(Vin_2.90)
/ पञ्चमाषिकादेः /(Vin_2.91)
/ स्तेय[9अ1] / /चित्तेन /(Vin_2.92)
/ मनुषगितकपरिगृहीतस्य /(Vin_2.93)
/ तत्संज्ञायां /(Vin_2.94)
/ अनापेतत्वं स्वमित्वस्यापहृतत्वे नुत्सृष्टतायाम् आशयेन /(Vin_2.95)
/ भवत्य् अधिष्ठातुर् अपात्रागतीये स्वामित्वं असत्वम् आशयानुबन्धस्याभ्यवहाराय दाने /(Vin_2.96)
/ नान् अभियोक्तृस्वत्वम् अभिप्रयुक्तानां दवदहादिभिर् आदानार्थं मृगपक्षिसरीसृपा[णा]ं /(Vin_2.98)
/ अनिगलने वस्तुतो व्यवस्था /(Vin_2.99)
/ हारस्थानकालेन [9अ2] मूलस्य /(Vin_2.100)
/ नानभिप्रेताद् आपत्तिः /(Vin_2.101)
/ स्वभावको लिकविश्वासचित्तैः परं विज्ञाप्य /(Vin_2.102)
/ अन्यथा विनास्तेयचित्तेन /(Vin_2.103)
/ कृपपर्ध्यामोचने /(Vin_2.104)
/ प्रयोगे दुःकृतं सर्वत्र /(Vin_2.105)
/ स्थूलम् अस्मिन्न् अकाये मूलस्य चेत्* /(Vin_2.106)
/ अनन्तरे चेतत्* /(Vin_2.107)
/ न्यूनापकृतौ /(Vin_2.108)
/ अस्वामिकस्य निवेः /(Vin_2.109)
/ स्वस्यान्यगतेः /(Vin_2.110)
/ अस्वीकृतौ च गोपननाशनवर्भोन्सर्गादौ वियोजने /(Vin_2.111)
/ दुष्कृतं का[9अ3]रुण्यचित्तेन /(Vin_2.112)
/ न प्रतिकृतावकृतत्वम् आदेः /(Vin_2.113)
/ प्रयोगप्रयोगत्वं प्रागामर्शात्* /(Vin_2.114)
/ अहानौ प्रतिपदं भेदः /(Vin_2.115)
/ प्रतिसत्वं तत्गते /(Vin_2.116)
/ न कीलान् मोक्षो नावः सृष्टिः /(Vin_2.117)
/ हारो भारस्य तत्कृत्य हरणे /(Vin_2.118)
/ निकरस्योच्च्[इ]त्य /(Vin_2.119)
/ स्थानोत्तमातिक्रान्ति<<ः>> द्रव्यो तु मेन निमज्जने /(Vin_2.120)
/ नयने सा मतिर् यास्मिन् यश् चाद्वारे /(Vin_2.121)
/ च्युतिर् अपकाशने पार्श्वाधारस्य पार्श्वान्तरेण [9अ4] सीम्नः /(Vin_2.122)
/ न व्यस्तान्तर्गतस्य तद्वत्त्वे /(Vin_2.123)
/ तत्र रूपं चाटस्फोटितपेखावर्णान्तरसन्धिव्यवधयः /(Vin_2.124)
/ व्यवधित्वं लक्षमाणप्रविभागार्थां प्राणि[नि] पार्श्वादीनां /(Vin_2.125)
/ स्तरस्य स्तृतत्वे स्थानत्वं /(Vin_2.126)
/ निक्षिप्तवत् प्ररोहः /(Vin_2.127)
/ विवेचनम् आमुक्तास्य भूम्यातदतिक्रान्तः शुल्कस्य /(Vin_2.128)
/ मनुष्यस्य संकेते न चेत् तत्संपत्तिः /(Vin_2.129)
/ उत्पाटनं पक्षिणस् तथा चेत्* /(Vin_2.130)
/ मुक्तिर् वद्धश् च तिरश्चः /(Vin_2.131)
/ अनाभासित्वं निबन्ध[9अ5]नोर्यूथनाभ्यां /(Vin_2.132)
/ आभासनं मन्त्रैर् आकर्षणे /(Vin_2.133)
/ पूर्वम् अनुगच्छद् उपहरतोर् हानिनिवृत्यप्रक्रमप्रवेशो कोशैर् न तदात्तस्य /(Vin_2.134)
/ नावः स्थलकुल्याप्रकीर्णोदकैः /(Vin_2.135)
/ अनुत्स्नातश् च /(Vin_2.136)
/ तिर्यङ्क्वा नाभाषितायां तीरान्तरस्य /(Vin_2.137)
/ तत्प्राप्तिर् इतरथात्वे /(Vin_2.138)
/ तरपुटकातिक्रमः प्रतिस्रोतः निष्पत्तिः स्वकर्मान्तस्य तदर्थं व्यधिकेतरस्यातु छन्देन परकर्मान्तेष्व् अम्भसः /(Vin_2.139)
/ प्रेरणेन वारणे वा /(Vin_2.140)
/ [9अ6] लब्धिरंशस्य तदर्थम् अपहर्तॄणां प्रतिपत्वृत्तान्तनिवेदने /(Vin_2.141)
/ भूमिदृहयोः परिक्षेपेण संधिसङ्गतिः /(Vin_2.142)
/ जयो विवादेन राजकुले चेत्* /(Vin_2.143)
/ युक्तकुले चेन् निराकृतप्रयोगत्वं परअस्य /(Vin_2.144)
/ अस्य प्रयोगत्वं /(Vin_2.145)
/ अनाशङ्क्यमणध्वस्तेयचित्तस्य शुक्लगते दोषोत्थानं /(Vin_2.146)
/ यदातुत्वं भाण्डस्य तस्य देयत्वं /(Vin_2.147)
/ न मुक्ते न्यदीयातिक्रामणं न हारः /(Vin_2.148)
/ नामुक्तो न्येनातिक्राम[9ब्1]येत्* /(Vin_2.149)
/ नासंचेतितातिक्रामणासंपत्यै न पतेत /(Vin_2.150)
/ आरक्षकस्थापनं भिक्षोर् अनेकस्य /(Vin_2.151)
/ समुदानेयत्वं तत्भक्तस्य /(Vin_2.152)
/ निवारणं तेन /(Vin_2.153)
/ आख्यानं प्रक्षिप्ततायां /(Vin_2.154)
/ चिह्नकरणम् असंभवे /(Vin_2.155)
/ प्रच्छनम् आदाने /(Vin_2.156)
/ स्पृश्यत्वम् असंपत्ताव् अन्यथापनयनस्य /(Vin_2.157)
निर्यातितत्वम् अप्रतिपातितस्य निश्चयोपगतौ /(Vin_2.158)
/ संवर्णनं पित्रोस् तद् अर्थोन्मुक्यै /(Vin_2.159)
/ रत्नानाञ् च /(Vin_2.160)
/ दानम् इतरार्थार्थम् इतरार्था[9ब्2]द् उधारग्रहणधमर्णा /(Vin_2.161)
/ न सशुल्ककरणीयोन्वोढिं* भजेत्* /(Vin_2.162)
/ अतत्वं रक्तस्य गोमयनिष्पीड्येनापि /(Vin_2.163)
/ छिन्नदशायाम् अस्य च /(Vin_2.164)
/ अरूढिस् तन्मतेर् अदृस्ते /(Vin_2.165)
/ न परवृत्तौ प्रहरेत्* /(Vin_2.166)
/ नाविश्वसनीये विश्वस्ततां भजेत /(Vin_2.167)
/ तत्वम् अधरस्योत्तरस्यां /(Vin_2.168)
/ पृयो सौ मनापो गुरुर् भावनीयः पूज्यः प्रशस्यः प्रेताग्रहणेन /(Vin_2.169)
/ कुर्यात् प्रतिकर्मणा कर्म पुण्यबुद्ध्या च /(Vin_2.170)
/ न भृतिकया /(Vin_2.171)
/ [9ब्3] न देशनिरुक्तेर् व्यसनं /(Vin_2.172)
/ नापभ्रष्टमातुमतिचिरं धारयेत्* /(Vin_2.173)
/ उपधिवारिकस्य देयत्वं /(Vin_2.174)
/ संघे तेन प्राव्रजितसंभावनायाम् उपदर्शनं /(Vin_2.175)
/ अननुमज्जे स्वामिनः प्रतिसंस्तरोगायाम् उपनिबन्धनं /(Vin_2.176)
/ नाननुज्ञातात् ग्लानेन तत्भषज्यं पाचेत्* // अदत्तादानपाराजयिके विभङ्गः // (Vin_2.177)
(ख) क्षुद्रकगतम् /
// न सपरिग्र्हम् अनुज्ञा[त्]ओ न्येन कल्पेन स्वीकुर्यात्* /(Vin_2.178)
/ न स्वीकृतं मोचयेत्* /(Vin_2.179)
/ [9ब्4] याचैनं धर्मदेशनया /(Vin_2.180)
/ उ<<प्>>आर्द्धमूल्येन च /(Vin_2.181)
/ युक्तं पात्रचीवरस्य स्फुटेनापि ग्रहणं /(Vin_2.182)
/ नासत्संभावना वा ह्य् उत्सृष्टम् इत्य् अमहाजनप्रत्यक्षम् अधितिष्ठेत्* /(Vin_2.183)
/ नामनुषाधिष्ठत्वे शवद्रव्यस्यापरिग्रहत्वं /(Vin_2.184)
/ पृष्ठतो स्य प्रदुष्टस्य गमनं /(Vin_2.185)
/ अवमू[र्ध]कं निपन्नायोपरिदानं पादान्तात् प्रभृति /(Vin_2.186)
/ नाक्षंतात् गृह्नीयात्* /(Vin_2.187)
/ न स्वयं क्षण्वीत क्षाणये[द्] वा /(Vin_2.188)
/ प्रतिशमनम् एव दन्तका[9ब्5]ष्ठो .. कोषाडुकगोमयमृदां यथासुखकरणं धारणम् अकामं संबद्धेनापहृयमानस्य भिक्षोः श्रामणेरस्य वा /(Vin_2.189)
/ अदत्तादानपाराजिके क्षुद्रकगतं //
(ग) पृच्छागतम् /
// काकणिचतुष्कं माषकः /(Vin_2.190)
/ निदर्शनं पञ्चत्वं चतुर्थस्य कार्षापणात्* /(Vin_2.191)
/ यत्रास्य विङ्शतिपर्वत्वं तदाश्रित्य /(Vin_2.192)
/ हारकालस्थानगणनेनास्य व्यवस्था /(Vin_2.193)
/ प्रकर्षपर्यन्तभूतत्वम् अशक्यकरणमूल्यस्य महत्त्वेन /(Vin_2.194)
/ नाल्पत्वेन [9ब्6] अस्य न्यूनत्वेनन्तर्गतत्वं /(Vin_2.195)
/ अतुलरत्नत्वम् अत्र बुद्धधातोः /(Vin_2.196)
/ दुष्कृतं पूजार्चतायां /(Vin_2.197)
/ निर्दोषत्वं लेख्यस्य /(Vin_2.198)
/ विनाश्यापहृतौ तद् अवस्थस्य हारवस्तुत्वं /(Vin_2.199)
/ अपरिग्रहत्वम् उत्तरकुरौ /(Vin_2.200)
/ स्वक्यवद् एतत्* /(Vin_2.201)
/ तात्कालिकस्यात्मनः स्वामित्वं /(Vin_2.202)
/ देवत्वं निर्वृतस्य /(Vin_2.203)
/ प्रयोगवद् अनुज्ञातस्य निःसृष्टत्वेनोपभोगः /(Vin_2.204)
/ दायनं च मन्त्रौषधाभ्यां /(Vin_2.205)
/ पारार्थ्ये च मौल[10अ1] / /विधं /(Vin_2.206)
/ कल्पेन च /(Vin_2.207)
/ विचपनं च रुचितापहारेछायां /(Vin_2.208)
/ प्रयोगो व्यंसनं द्यूतेन चेत्* जितत्वभूतं /(Vin_2.209)
/ एतद् अत्र हारः /(Vin_2.210)
/ तस्य संख्याने /(Vin_2.211)
/ तत्वं लोपाध्यारोपयो चिह्नस्य /(Vin_2.212)
/ स्थानोत्तरे च निक्षिप्ते /(Vin_2.213)
/ निष्पत्तिर् अत्र हारः /(Vin_2.214)
/ तद्वद् वर्गान्तरे गणनं /(Vin_2.215)
/ व्यपलापश् च पौर्वस्येतरेषु द्वै(न्)तरस्य वा पूर्वेषु /(Vin_2.216)
/ यत्रैतत् सर्वादौ तत्रांशित्वं /(Vin_2.217)
/ प्राप्नुवतोत्भावनञ् चाप्रभवतः /(Vin_2.218)
/ अनादिष्टपाच[10अ2]नञ् च /(Vin_2.219)
/ प्रयोगोपलापो(व)<<या>>चितकायम् इत्य् अकनिष्टक्षेपाणां /(Vin_2.220)
/ संनिष्ठपनं हारः /(Vin_2.221)
/ निहितनिक्षेपस्य सह चेद् व्याचनेन पञ्चाच् चातः पुरस्ताच् चेत् प्रयोगान्तरत्वं /(Vin_2.222)
/ नाशनं स्थूरां छेदो मारणञ् च /(Vin_2.223)
/ स्थूलकृत्वं सीमाकाशस्य शुल्कभंक्तौ /(Vin_2.224)
/ निर्दोषत्वम् ऋद्धिनयने न्यसीम्नश् च /(Vin_2.225)
/ दुष्कृतम् उद्योजनस्य /(Vin_2.226)
/ मार्गान्तरोपदेशिश् च /(Vin_2.227)
/ न्यूनम् उपा<<यो>>दाहारः /(Vin_2.228)
/ पथिवदपथं /(Vin_2.229)
/ अन्यावपनव[ं*] [10अ3] मुखकण्ठेनान्त्यस्य स्तेयचित्ततापगताव् अनुष्ठितत्वं /(Vin_2.230)
/ न लिप्यादौ ह्रासः /(Vin_2.231)
/ न प्रसज्य भञ्जनं च हारः /(Vin_2.232)
/ न सस्थानस्य /(Vin_2.233)
/ न मारितत्वं कृतता /(Vin_2.234)
/ नैकदेशेन स्थानामुक्तौ /(Vin_2.235)
/ शाटनं तेनापनये हारः /(Vin_2.236)
/ निर्गमः स्यन्दकरकृच्छ्रिद्रणेन /(Vin_2.237)
/ एकत्वञ् चापश्चिमाद् अतो त्र द्रव्यस्य /(Vin_2.238)
/ प्रत्यादानं राशेः हारभेदः /(Vin_2.239)
/ नियोज्यानैक्ये प्रनितदंशम्* /(Vin_2.240)
/ हर्तृणाञ् च /(Vin_2.241)
/ ल[10अ4]भेरन् एकमत्ये त्र हारः //(Vin_2.242)
// अदत्तादान(ं)पाराजिके पृच्छागतं //
(घ) विनीतकानि /
// प्रागन्ते मृतत्वे प्रतिनिक्षेप्यत्वं /(Vin_2.243)
/ मृतपरिस्कार(ं)त्वं विपर्यये /(Vin_2.244)
/ भ्रातृवत् संघो न तदर्थं हारो न स्वीकारः /(Vin_2.245)
/ स्ववत् स्वम्यभेदः /(Vin_2.246)
/ नापक्रमेणादाननिश्चये [वा] शिष्टैः हृतौ तद्गत्वं /(Vin_2.247)
/ नांशस्वीकारेच्छानादानाभिप्रायः /(Vin_2.248)
/ न तत्गतकर्मानुष्ठानं न तस्य /(Vin_2.249)
/ न सार्धम्विहारित्वं अन्तेवासिता च हारा[10अ5]नुत्थाने कारणं /(Vin_2.250)
/ मर्यादार्थे परिक्षेपे तन्त्रं /(Vin_2.251)
/ न स्थितं मर्यादासंचारणस्यानेनाक्षेपः /(Vin_2.252)
/ समक्षान्ते प्य् अनाभासित्वं हारः वशीकृतत्वं फलात् ग्रहे मनुष्यस्य /(Vin_2.253)
/ नैषात्मनः /(Vin_2.254)
/ न हारे यद् अभिसंहितं तत्संबन्धाद् अनाभिसंहित(ं)स्यापक्रमः /(Vin_2.255)
/ स्थूलं यो यत् गृह्णीते तस्य तद् इति व्यवस्थायाम् अन्यहारे /(Vin_2.256)
/ सपरिग्रहाच्छ्मशानात् ग्रहणो /(Vin_2.257)
/ सूनकवाटव्[आ]ण्डपत्रपुष्पफलारामदेर् मन्त्रैर्शष[10अ6]णे /(Vin_2.258)
/ ग्रासानुप्रदानेन नयताश्वम् अधिरूढेन चैवम् एष हर्तव्यम् इति कायविप्रकारे /(Vin_2.259)
/ नावं च /(Vin_2.260)
/ इत इति च /(Vin_2.261)
/ मातृपितृभ्रतृभगिन्युपाध्याचार्यस्थूपसंघादौ संकल्प्य शुल्ककरणीयकरणीयातिक्रमणो /(Vin_2.262)
/ याचितो धारयोर् अदानसंकल्पे /(Vin_2.263)
/ वण्टने चान्त्यर्थं दत्तस्य /(Vin_2.264)
/ परिगृहीतसंज्ञिनो परिगृहीते /(Vin_2.265)
/ कुल्मासौदनसक्ष्णुमत्स्यमांसखाद्यवस्तुकपिण्डपादपरिग्रहे[10ब्1]नाज्ञाते न्यत्र वस्तुत्वं /(Vin_2.266)
/ नामे धीष्टेन /(Vin_2.267)
/ दुष्कृतम् अनिमन्त्रितभोजने /(Vin_2.268)
/ गमने चापहृत्यै /(Vin_2.269)
/ न संप्रधारणा स्यातः पृथक्त्वं /(Vin_2.270)
/ निराग्रहम् इति स्वप्रत्यवेक्षितं कृत्वा गृह्णीयात्* /(Vin_2.271)
/ न कायावपादं कुर्यात्* /(Vin_2.272)
/ न कुलायकं भंज्येत्* /(Vin_2.273)
/ नानुषितस् तत्र वार्षिके चीवरांशे वयतेत /(Vin_2.274)
/ न हर्तुर् दानपतिचित्तेन प्रतिग्रहे दोषः /(Vin_2.275)
/ नागमस्तैन्यचौराद् अध्वजबद्धका गृह्णीयत्* /(Vin_2.276)
/ [10ब्2] शस्त्रलूनं दुर्वर्णीकृत्यातो गृह्(ण्)ईतं धारयेत्* /(Vin_2.277)
/ दानम् एवं कृतस्यापि याचने /(Vin_2.278)
/ न चक्रकं कुर्यात्* /(Vin_2.279)
/ न मन्त्रैर् मोचने दोषः /(Vin_2.280)
/ मूषिकापहृतस्य च स्वस्यादाने न्यभिक्ष्वर्थस्य तद् अर्थं /(Vin_2.281)
/ .. अभिद्रुतस्य लुब्धकेर् मृगस्याश्रमं प्रविष्टस्यादाने /(Vin_2.282)
/ मृतस्यास्य तेभ्यो देयता // अदत्ता(न्)दानपाराजयिके विनीतकानि / (Vin_2.283)
/ अदत्तादानपाराजिकं समाप्तम्* //
**(vin_2,1,3) वधपाराजयिकम् /
(क) विभंगगतम् /
/ न मरण[10ब्3]चेतनानुगुणं ग्लानायोपसंहारे स्नपसंहरेत्* /(Vin_2.284)
/ नाविज्ञ्[आ]म् अस्यानुक्तौ मृत्यौ प्रत्यनीकत्व(ं)म् उपस्थापयेत्* /(Vin_2.285)
/ न सत्यां गतौ /(Vin_2.286)
/ न मरणोपकरणम्* /(Vin_2.287)
/ मरणार्थाद् एनम् अनुष्ठानाद् उपस्थाको वारयेत्* /(Vin_2.288)
/ नार्थार्थे परस्य मृत्युम् आकांक्षयेत्* /(Vin_2.289)
/ अकरणीयत्वं चित्तं नाकरणीयकरणानुमोदनस्य /(Vin_2.290)
/ जीवतौपरोधा /(Vin_2.291)
/ तच् चित्तेन [10ब्4] मनुषगते /(Vin_2.292)
/ अभेदः कायतत्संबद्धमुक्तपर<<स>>मादापनानां /(Vin_2.293)
/ विषचूर्णगर्तदारुनष्टप्रकृतिप्रेषणोर् अस्कन्दपत्रकूटवेताडमन्त्रप्रयोगानां पातनस्य /(Vin_2.294)
/ जलाग्न्योः प्रक्षिप्तेः /(Vin_2.295)
/ धारणस्य शीतोष्णयोः /(Vin_2.296)
/ दौत्यप्रेषणादीनां अल्पत्वस्यानुष्ठाने /(Vin_2.297)
/ स्त्रीपुरुषषण्डकत्वे घात्यस्य /(Vin_2.298)
/ अन्यदा तन् निदानं मृतौ /(Vin_2.299)
/ अनिमित्त[10ब्5]त्वं विवृन्दनात्* परस्याम्* /(Vin_2.300)
/ स्थूलम् अभिसंहितस्य मातृगर्भयोः कुक्षिमर्दे /(Vin_2.301)
/ अधिवासनायां तु तन् निमित्तं वधप्रवृत्त्[ए]ः /(Vin_2.302)
/ त्वन् नाम्ना मरणोपकरणं ददामीति चोक्तेः /(Vin_2.303)
/ अन्यघाते वा तिरश्चो निर्मितस्यापि /(Vin_2.304)
/ नानुक्तम् अवलोक्येन ग्लानाय भैषज्यं दद्यात्* /(Vin_2.305)
/ वेद्यतत्प्रव्रजितक्लिष्टानाम् अत्रावलोक्यत्वं /(Vin_2.306)
/ व्यधिना च /(Vin_2.307)
/ वृद्धवृद्धानां [10ब्6] सप्रव्रजानां भिक्षूणां /(Vin_2.308)
/ पूर्वाभावे परस्य /(Vin_2.309)
/ अभावो मरणाय हितकामतया भैषज्यानुप्रदाने ह्रासस्य /(Vin_2.310)
/ नासह्यभारो <<त्र>> क्षेपे साहार्जय्यं भजेत्* /(Vin_2.311)
/ भजेत दूपश् चेत् प्रत्ययो व्यवकीर्णतायां गृहस्थैर् नियुक्ततायां समोत्क्षेपे /(Vin_2.312)
/ स्थापने पि समत्वे नियुञ्जीत्* /(Vin_2.313)
/ नेष्टका क्षिपेत्* /(Vin_2.314)
/ न चटितां स्फुटितां वा नारोच्य तत्वम् अ[11अ1]र्प्ययेत /(Vin_2.315)
/ कुर्यात् तस्करपराभृत्यै फिप्फिरं* /(Vin_2.316)
/ क्षिपेत्* परिकृतां संगण्ढादि /(Vin_2.317)
/ अनुवातं च पांसुघटभस्मकर्परं /(Vin_2.318)
/ धारयेत्* क्षपनं /(Vin_2.319)
/ न श्रान्तं क्षिपेद् भिक्षुं /(Vin_2.320)
/ सनाथ्यस्यास्य करणम् /(Vin_2.321)
/ विश्रामणं /(Vin_2.322)
/ भाण्डिकदानं /(Vin_2.323)
/ अशक्तौ प्राप्णुम् आवासं समं चेन् न काले भक्तस्य पानकस्य वा /(Vin_2.324)
/ पात्रनिर्मादनं /(Vin_2.325)
/ गन्त्रीस्थापनं /(Vin_2.326)
/ प्रतिग्रहणं /(Vin_2.327)
/ प्रत्य[11अ2]वेक्षणं /(Vin_2.328)
/ काले चेत् प्रत्युत्गमनम् आदाय // वधपाराजयिके विभङ्गः // (Vin_2.329)
(ख) क्षुद्रकगतम् /
// हस्तछेदनम् मनुष्यगतिकस्य स्थूलं /(Vin_2.330)
/ दवे ग्निदाने /(Vin_2.331)
/ केशविक्रये /(Vin_2.332)
/ राजकुले येन मुषितस् तस्यार्पणे / वधपाराजयिके क्षुद्रकगतं // (Vin_2.333)
(ग) पृच्छागतम् /
// नियोगोपदेशः /(Vin_2.334)
/ निदर्शनम्* मातृगर्भः /(Vin_2.335)
/ स्थूलम् आत्मनो घाते /(Vin_2.336)
/ दुष्कारो साधुर् अविकृतचित्तस्य कारः /(Vin_2.337)
/ नासंहिता[11अ3]र्थसंपत्ते कर्तृत्वं /(Vin_2.338)
/ न जन्मान्तरे कर्मोदयः // वधपाराजयिके पृच्छागतं // (Vin_2.339)
(घ) विनीतकानि /
// स्थूलं मृत्युर् एवं मे भवतीति ब्रुवाणस्याप्रति(य)<<प>>ता तथात्वसंपादने मृयताम् इत्य् अनुस्थानैः ग्लानस्य /(Vin_2.340)
/ असंप्रेयाभ्यवहार्यदाने /(Vin_2.341)
/ गण्डस्यापरिपक्वस्य पाटने /(Vin_2.342)
/ गर्तप्रक्षेपकवाटयी उनादौ पातने /(Vin_2.343)
/ प्रपातोत्सर्गोद्वन्धादौ मरणार्थे नुष्ठाने /(Vin_2.344)
/ न ग्लानाय सहसा [11अ4] शस्त्रकं रजुम् वा दद्यात्* /(Vin_2.345)
/ संप्रजानं वैयपृत्यं कुर्यात्* /(Vin_2.346)
/ मन्त्रचपेटञ् च दद्यात्* /(Vin_2.347)
/ प्रहारञ् चादेरपनोदाय तत्भूतः सुप्रत्यवेक्षितं कृत्व ले..येत्* /(Vin_2.348)
/ नाल्पांशो गुरुभारोद्यमं कुर्यात्* /(Vin_2.349)
/ नावमुर्धको गच्छेत्* /(Vin_2.350)
/ नाशिक्षितः शिक्षां योजयेत्* /(Vin_2.351)
/ न प्रहरणम् उक्ताव् आज्ञापयेत्* /(Vin_2.352)
/ न ग्लानम् असमर्थनिनयेत्* // वधपाराजयिग विनीत[का]नि // (Vin_2.353)
[11अ5] वधपाराजिक समाप्तः //
**(vin_2,1,4) उत्तरप्रलापपाराजयिकम् /
(क) विभङ्गगतम् /
// विनिधाय संज्ञाम् उत्तरमनुष्यधर्मयुक्ततोक्ता<<व् आ>>त्मनः /(Vin_2.354)
/ तत्वं पश्यामि मा पश्यन्ति शब्दन्* शृणोमि मम श्रेण्वन्त्य् उपक्रमामि मानुपसंक्रामन्ति सार्धम् आलपामि संलपामि प्रतिसंमोदे सातत्यम् अपि समापद्ये मया सार्धम् इत्य् उक्ते /(Vin_2.355)
/ देवनागयक्षगन्धर्वकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डकटपूतनप्रतियो[11अ6]कितायां /(Vin_2.356)
/ स्थूलकृत्वं पांसुपिशाचकस्य /(Vin_2.357)
/ अनित्यादिसंज्ञा<<ध्याना>>प्रमाणारूप्यफलाभिज्ञादिकम् उत्तरो धर्मः /(Vin_2.358)
/ स्थूलकृत्वं स्वलक्षणग्राहकस्य क्लेशविस्कम्भिनः शमथनिमित्तस्य /(Vin_2.359)
/ नानुक्तिस् तद्व त्व् अस्य तद्वद् धर्मकत्वोग्तिः /(Vin_2.360)
/ परावदेशत्वम् अस्त्य् असाव् इत्य् उपसन्धाने स्वस्य /(Vin_2.361)
/ नोपसंधाने /(Vin_2.362)
/ नासमन्वाहृत्य व्याकुर्यात्* // प्रलापे विभङ्गः // (Vin_2.363)
(ख) पृच्छागतम् /
/ [11ब्1] नाख्यापनम् उत्तरस्य प्राप्तपरिहानिप्रतिपादनम्* /(Vin_2.364)
/ उत्तरख्यापनछन्देन सनामार्थाभिधाने स्थूलं /(Vin_2.365)
/ विपर्ययस्य /(Vin_2.366)
/ संसूचनेन च न भूतोत्तरत्वे स्य जातत्वं // प्रलापे पृच्छागतं // (Vin_2.367)
(ग) विनीतकानि /
/ स्थूलम् अर्हन्तदन्तोग्रचार्हसि चीवरादिकं ब्राह्म[ण्]ओ वाहित<<प>>आपधर्मा षड्गतस्येन्द्रियाणि सुदान्तगुप्तरक्षितभावितानीत्य् उक्तस्य तूष्णीम्भावेनाधिवासने /(Vin_2.368)
/ यदि भदन्तो र्हन् पिण्ड[11ब्2]पा[त्]अं मे गृहाण प्रविश गृहाम् आसने निषीद <<ह>>स्तोदकं गृहाण भोजनं प्रतिगृहाण सूपिकं भुं[क्]ष्वानुमोदस्व निष्क्रामेति तद्वत् संपादने // प्रलापे विनीतकानि // समाप्त उत्तरप्रलापः // (Vin_2.369)
2,2 संघावशेषः /
**(vin_2,2,1) शुक्रमोचनम् /
(क) विभङ्गगतम् /
// अभाववत् स्वप्नः /(Vin_2.370)
/ अकृतत्वं तत्*फलस्य /(Vin_2.371)
/ मोचने /(Vin_2.372)
/ तच्छन्देन /(Vin_2.373)
/ स्वशुक्रस्य /(Vin_2.374)
/ आद्ये /(Vin_2.375)
/ अविशेषः सुखविद्याबीजभैषज्यमीमांसार्थितानां /(Vin_2.376)
/ [11ब्3] स्पर्शनेन /(Vin_2.377)
/ व्यापृत्या /(Vin_2.378)
/ अङ्गजातस्य /(Vin_2.379)
/ बाह्येनापि सत्व(ं)संख्येन स्थितेन तदाहारे /(Vin_2.380)
/ विनाप्य् अभिनिग्रहाभिनिपीडनाभ्यां /(Vin_2.381)
/ विनिर्भोगव्यासकव्यवसर्गसुखप्रत्यनुभवैश् च /(Vin_2.382)
/ अनाडीगतस्य <<अ>>कृतत्वं वि(द्)धावस्थायां प्रतिविरतो समाप्तेः /(Vin_2.383)
/ ह्रासकृत्वं नृतुप्रनृतुयोः /(Vin_2.385)
/ आकाशे कटिचालनस्य /(Vin_2.386)
/ प्रदेशान्तरस्पृष्टेः /(Vin_2.387)
/ [11ब्4] प्रतिश्रोतो धारणकस्य /(Vin_2.388)
/ प्रतिवातञ् च /(Vin_2.389)
/ अभिनिर्भोगसुखप्रत्यनुभावोपसंपतः /(Vin_2.390)
/ नाडीगतस्य /(Vin_2.391)
/ न मापनार्थतयां रक्तचित्ततायां स्पृष्टिर् अप्रयोगः /(Vin_2.392)
/ दर्शने दुष्कृतं /(Vin_2.393)
/ धारणे चानुश्रोतोवातं /(Vin_2.394)
/ अनापत्ति सहसा अतदर्थप्रवृत्ताव् ऊरुवस्त्रपरसंस्पर्शकण्डूयनैः /(Vin_2.395)
/ अस्पृश्यानुभूतेः /(Vin_2.396)
/ स्मरणतस् तस्यापि // मोचने [11ब्5] विभङ्गः // (Vin_2.397)
(ख) पृच्छागतम् /
/ च्यविष्यमाणाच्युते समनन्तरं विण्हनाडीगते /(Vin_2.398)
/ नारम्भमात्रेण प्रयोगत्वं /(Vin_2.399)
/ तद्व त्वं निष्प्रयोगायां मुक्तौ स्वादने /(Vin_2.400)
/ न पीडमर्दपरिमर्दानाञ् चाङ्गजातस्य /(Vin_2.401)
/ कर्मण्यस्यास्य परिमार्गे भैषज्येन मोचन /(Vin_2.402)
/ परकीयच् च // मोचने पृच्छा // (Vin_2.403)
(ग) विनीतकानि
// विनीलिकादौ विघटिति अस्थिशङ्कलिकयोः शिर<<ः>>कर्णनाससु ग्रिवान्त[11ब्6]रे पार्श्वपृष्ठक्रोडवलिषु वालान्तरे हस्तांसबाहुषु बाह्वन्तरे कट्युरुपादजं*घासु जंघान्तरे च मोचने मौलं /(Vin_2.404)
/ स्थूलकोचवनेअमतचिलिमिनिकबिम्बोपधानकमंचपीठवृशि<<काय>>पीठान्तरे घटघटिकाघटविकरकिनीकठिल्लकशिलालेपलेपान्तरार्गडमांसपेशिषु /(Vin_2.405)
/ व्रणपीडने /(Vin_2.406)
/ निपीडने स्त्रीक्यं तस्यारम्भे /(Vin_2.407)
/ अङ्गु[12अ1]ष्ठस्यात्र प्रक्षिप्तौ /(Vin_2.408)
/ उपसंक्रामतो मुक्तौ /(Vin_2.409)
/ संक्रामप्तश् च स्थानात् स्थानं /(Vin_2.410)
/ अयोनिशश् च मनसिकुर्वतः /(Vin_2.411)
/ अंगजातं धारयतः /(Vin_2.412)
/ अनापत्तिः वस्तिसंघर्षणात्* /(Vin_2.413)
/ परिष्वङ्गेनापीदानीं* पुराणद्वितीयया /(Vin_2.414)
/ पादजंघाबाहूर्वंगुल्पादौ च स्त्रिय ग्रहणे /(Vin_2.415)
// मोचने विनीतकानि // // मोचन समाप्तम्* // 1 //
**(vin_2,2,2) कायसंसर्गः /
(क) विभङ्गगतः /
/ स्त्रिया कर्तृत्वम्* /(Vin_2.416)
/ [12अ2] इह /(Vin_2.417)
/ रहसि निषद्यास्थानयोः /(Vin_2.418)
/ सभोजनतायाञ् च /(Vin_2.419)
/ सह शय्यायां अध्वन्यविज्ञपुरुषया सार्द्धमूढो /(Vin_2.420)
/ उत्तरत्र द्वये /(Vin_2.421)
/ देशेने गृहिण्याः पुंसो .आन्निध्यविज्ञस्य /(Vin_2.422)
/ सान्निध्ये प्य् अकल्पिकायां /(Vin_2.423)
/ दुःकृतस्य /(Vin_2.424)
/ न्यूनत्वं द्वीपान्तरजाविकारभाजो /(Vin_2.425)
/ वोढृत्वम् अस्य /(Vin_2.426)
/ व्यर्थं ताद्विध्ये परं लिङ्गम् /(Vin_2.427)
/ अवताकरम् अत्र /(Vin_2.428)
/ आज्ञाने सुभषित[12अ3]दुर्भाशितयोर् अर्थस्य त्रयो न्.ये न्यत्र प्रतिसेवने मेथुनस्येति प्रतिबलत्वे मौलस्य /(Vin_2.429)
/ अनन्तरस्यान्यत्र /(Vin_2.430)
/ तद्वत् पण्डिका पण्डिको निर्मिता च /(Vin_2.431)
/ इह च त्रये पुरुष /(Vin_2.432)
/ तत्सुखानुभवनछन्दे चेत् संरागसंप्रयुक्तेनेति /(Vin_2.433)
/ गात्रसंम्सर्शस्वीकारे /(Vin_2.434)
/ तद्वत्वम् अत्र वेणेः /(Vin_2.435)
/ तत्प्रतिबद्धस्य च चीवरस्य /(Vin_2.436)
/ अविशिष्टत्वम् आमर्षयामर्शालम्भग्रहणाकर्षपरिक[12अ4]र्षोल्लिंगाव् अलिङ्गाभिनिपीडानाम् /(Vin_2.437)
/ सेव्यकृत्वस्य च /(Vin_2.438)
/ अनन्तरं चीवरान्तरये /(Vin_2.439)
/ अनन्यत्वं दुष्कृतह्रासस्य /(Vin_2.440)
/ न भिक्षुणी स्पृशेत /(Vin_2.441)
/ न स्त्रियं /(Vin_2.442)
/ स्पृशेद् अंभस्यार्ताम् उत्तारणाय बाहौ केशेषु वा मातृदुहितृभगिनीसंज्ञाम् उपस्थाप्य /(Vin_2.443)
/ वालुकास्थाने चेष्टालाभार्थम् अवाङ्मुखावस्थापनं /(Vin_2.444)
/ पीठवत्* रक्षणं /(Vin_2.445)
/ भक्तायावलोक्य गो[12अ5]पालपशुपालकान गमनम्* /(Vin_2.446)
/ प्रत्यवेक्षणं जीवति न वेति पौनःपुन्येन /(Vin_2.447)
/ निर्दोषो नुकम्पया शुद्धचित्तस्य स्त्रिपरिष्वङ्गः /(Vin_2.448)
// कायसंसर्गे विभंगः //
(ख) पृच्छागतम् /
/ श्लक्ष्णोष्णमृदुकाभिप्रायत्वे स्थूलं* /(Vin_2.449)
/ अनापत्तिर् अनुकम्पया दुःखात मोचने /(Vin_2.450)
/ मातृदुहितृभगिनीषु तत्संज्ञाने /(Vin_2.451)
/ पूर्वसंभुक्तायां संमोदने /(Vin_2.452)
// कायसंसर्गे पृ[12अ6]च्छा //
(ग) विनीतकानि /
/ भिक्षापांसुलेड्डुकादेः स्त्रीन्द्रिये प्रक्षिप्तौ स्थूलं /(Vin_2.453)
/ दुष्कृतं पादांशादिना स्त्रीघट्टने /(Vin_2.454)
/ तदासनस्य च /(Vin_2.455)
/ पिच्छिलितपतितस्त्र्युत्थापने /(Vin_2.456)
/ अनापत्ति स्त्रियास्यै तत्त्रयकरणे ग्रहणे च /(Vin_2.457)
/ आलिं*गने मात्रा /(Vin_2.458)
/ दुहित्रोत्सङ्गे निषन्तौ /(Vin_2.459)
/ स्त्रिया प्रस्खल्योपरि पाते /(Vin_2.460)
// कायसन्सर्गे विनीतकानि // // कायसंसर्गः // 2 //
**(vin_2,2,3) मैथुनाभाषणम् /
(क) विभङ्गगतम् /
/ [12ब्1] मेथुनोक्तौ /(Vin_2.461)
/ याद्यर्थेन /(Vin_2.462)
/ यत्र बोद्धुं भव्यता स विज्ञपने न्तः /(Vin_2.463)
/ न तद्गतार्थोक्ते ऽप्रयोगत्वं /(Vin_2.464)
/ अविशिष्टत्वं वर्णावर्णयाज्ञोपयाज्ञापृच्छापरिपृच्छाख्यानाशंसाक्रोशप्रत्यनुभाषणप्रतिपदां /(Vin_2.465)
/ अनापत्तिर् अर्थान्तराभिप्रायेण जनपदनिरुक्तिवशात्* /(Vin_2.466)
/ सदृशाङ्शत्वस्य वा नाम्नः /(Vin_2.467)
// मेथुनाभाषणे विभङ्गः //
(ख) पृच्छागतम् /
/ स्थूलं छेकाशीति [12ब्2]वादे पापिकसीति छेकं ते पापकं वा व्रणमुखम् इति संविभागं कुर्विति मां संविभजस्वेति मया सार्धं स्वपिहि समागमम् वा कुर्विति /(Vin_2.468)
// मेथुनभाषणे पृच्छा //
(ग) विनीतकानि /
/ तथाविकुर्वाणधर्मिकाभाषणे /(Vin_2.469)
/ यवान् देहि देहि भगिनि मह्यं यत्ते भगिनि पश्यामि तद् देहि यत् ते भगिनि पुरतस् तद् देहि यत् ते भगिनि मन-आपं तद् देहि प्रियं ते देयम् इत्य् अहम् उक्ता किन् ते प्रियम् इत्य् उक्ते त्वं [12ब्3] मे भगिनि प्रिया /(Vin_2.470)
/ देहि मे भगिनि पानीयं खाद्यकं यवागूं भोजनं त्वम् एवैतद् इत्य् उक्तिषु /(Vin_2.471)
/ गर्दभास् त एतत् कुर्वन्त /(Vin_2.472)
/ चारिकां भगिनि चरस्य् उल्लापयमाना पुरुषान् पिण्डपातं /(Vin_2.473)
/ अलातमस्मिन् प्रक्षिप्तेति च /(Vin_2.474)
/ प्रक्रित्या च दौष्ठुल्यभाषिणो दुष्ठुलया भाषणे /(Vin_2.475)
// विनीतकानि मेथुनाभाषणं //
**(vin_2,2,4) सांचरित्रम् /
(क) विभङ्गगतम् /
/ मेथुनेनात्मनः परि[12ब्4]चरणस्य वर्णने /(Vin_2.476)
/ तद्वत् तद् वर्णितानुमोदनार्थं वचनं /(Vin_2.477)
/ तद् एव प्रत्युच्चारणं /(Vin_2.478)
/ तेन मेथुनेन वानुपसंधाने प्रयोगत्वं /(Vin_2.479)
/ उभाभ्यां तस्य /(Vin_2.480)
/ परिचर्यासंवर्णनं /(Vin_2.481)
/ संयोगे /(Vin_2.482)
/ अन्यस्य /(Vin_2.483)
/ अन्येन /(Vin_2.484)
/ तदर्थं /(Vin_2.485)
/ अनुपनतोपनतेः सम्पत्येः गृहीतदौतेयस्य संप्रयोज्यतो निवेदि भवतस् तत्रेतरतदुक्ते पूर्वत्र प्रवेदने /(Vin_2.486)
/ कृतत्वं श्रु[12ब्5]तत्वे प्यमध्यवृत्तेः /(Vin_2.487)
/ पृथक्त्वम् एषां करणीयतायाम् /(Vin_2.488)
/ नाकर्तृत्वे ऽन्त्यस्य नृत्वे न प्रयोगत्वं /(Vin_2.489)
/ न फलेक्यात् प्रतिकर्तृसमाप्ते व्यापारस्य लोपः /(Vin_2.490)
/ स्वत्वम् अत्र दूतस्य /(Vin_2.491)
/ संप्रयोज्यत्वं तत्प्रभोः /(Vin_2.492)
/ दुष्कृतत्वम् अन्यस्य /(Vin_2.493)
/ वाक्त्वं लिपिहस्तम् उद्रोद्देशं संकेते निमित्तानां /(Vin_2.494)
/ अनुपनतिर् वेश्यात्वं /(Vin_2.495)
/ प्रवतत्वं चास्वत्वेन प्राक् चतुष्टात्* /(Vin_2.496)
/ [12ब्6] भ्रष्टत्वं फलहितत्वे /(Vin_2.497)
/ तद्वशा चेद् अभार्यानुश्रावितत्वे प्राणिवत्त्वं तदन्तरसमन्तरकलिहितत्वतिलिन्तिलिकाच्छिन्नत्वत्रिसङ्करापरितत्वाचारप्रतिनिःसृष्टत्वाभार्यानुश्रावितत्वघण्टा च घुष्टत्वानां दुःक्रितकृत्त्वं त्रयस्यास्याम् आर्यस्य /(Vin_2.498)
/ कस्माद् अयं न प्रतितिष्ठतीयं न गच्छति श्वशुरगृहान् न नीयत इति चोक्तीनां /(Vin_2.499)
// सांचरित्रे विभङ्गः //
(ख) पृच्छागतम् /
/ [13अ1] स्थूलं गर्धासन्निपतासेवनक्रीडोपनतात्मनां सांचरित्रे /(Vin_2.500)
/ व्यपदेशे प्रतीष्टतायां /(Vin_2.501)
/ कलिहेन हारणे /(Vin_2.502)
/ भार्याम् अमुका स्त्रियं क्रीणीहीत्य् उक्तौ /(Vin_2.503)
/ दुष्कृतं स्त्रियम् इति /(Vin_2.504)
/ काचिल् लभेति च /(Vin_2.505)
// सांचरित्रे पृच्छा //
(ग) विनीतकानि /
/ स्थूलं दत्ततो त्त्रमसमाधानेन /(Vin_2.506)
/ धर्मोपाधिं* पुरस्कृत्य शब्दनेन /(Vin_2.507)
/ अन्यार्थाम्(अ) संहितञ् च(ं) /(Vin_2.508)
/ नादुष्टताया सत्त्वस्यान्यत्रेत्य् अनाक्षिप्तत्वं /(Vin_2.509)
[13अ2] सांचरित्र विनीतकानि // // सांचरित्रं // 4 //
**(vin_2,2,5) कुटिकाविहारगतः /
(क) विभंगगतः /
/ निर्दोषम् अयात्र ईर्यापथचतुष्कस्य /(Vin_2.510)
/ अतन्त्रत्वं नियुक्तत्वानियुक्तत्वयोः /(Vin_2.511)
/ स्वत्वं नियुक्तस्य /(Vin_2.512)
/ प्रतीष्टा वः यथोक्तकारे कायेन वा वाचा वा /(Vin_2.513)
/ एकत्वं कृतेः /(Vin_2.514)
/ अकर्तृत्वम् अङ्गानां भेदस्य /(Vin_2.515)
/ याचिते नुज्ञाते वा तेन तद्विधेनाशुद्धे(Vin_2.516)
वस्तुन्य् अदेशिते आवसस्य कारणे न्ते /(Vin_2.517)
/ अनन्तरे प्य् एतद् अया[13अ3]चितत्वं /(Vin_2.518)
/ एकार्थम् अतिप्रमाणस्य /(Vin_2.519)
/ अकल्पिकता सारम्भत्वम् अपराक्रमतेत्य् अशुद्धिः /(Vin_2.520)
/ क्षुद्रजन्त्वाशयवत्त्वं राजकुलतीर्थकावसथसन्निःसृतत्वाच् छेद्यवृक्षत्वम् अर्वाग्व्यामान्तानन्तर्यतो बहिर्नदीप्राग्भारोदपानावष्टब्धत्वम् इति यथासंख्यम् एतानि /(Vin_2.521)
/ प्रामणिको हस्तो ध्यर्धः सुगतवितस्तिः /(Vin_2.522)
/ तत द्वादशकसप्तको प्रमाणाम् अ[13अ4]न्तरत /(Vin_2.523)
/ लब्धदेशनत्वं संघतो देशितत्वं /(Vin_2.524)
/ नाशुद्धस्य याचेत्* /(Vin_2.525)
/ स्वप्रत्ययेन वा गच्छेयु नियुक्तानां वा भिक्षूणाम् /(Vin_2.526)
/ संस्तरे प्य् एतत् /(Vin_2.527)
/ अनापत्तिः कृतलाभपरिभोगयोः /(Vin_2.528)
/ पुराणाभिसंस्करणे च /(Vin_2.529)
// कुटिकासंघावशेषसंघार्थं // विहारसंघावशेषां //
(ख) पृच्छागतः /
/ प्रयोगत्वम् आरम्भस्य /(Vin_2.530)
/ तद्वद् अच्छन्नकारणे न्तः /(Vin_2.531)
/ अनेकार्थं [13अ5] अनिसृष्टे पौद्गलिकेन /(Vin_2.532)
/ विप्रकृतस्य च /(Vin_2.533)
/ दुष्कृतम् अनिर्वाहे याचनाद् ऊर्धं /(Vin_2.534)
// कुटिकाविहारसंघावशेषगता पृच्छा // 5 //
**(vin_2,2,6) अमूलकसंघावशेषः /
/ पाराजयिकाध्याचरणस्य भिक्षोर् ध्वस्तस्याप्य् अनङ्गम् अत्र पक्षतः स्वत्वं मृषावादेन कस्यचिद् विज्ञप्तौ /(Vin_2.535)
/ च्याचनच्छन्देन /(Vin_2.536)
/ न तं मूलम् अन्तरं /(Vin_2.537)
/ असत्वं प्रमुषितस्य अकारणमृषावादित्वे ऽर्थतत्वं /(Vin_2.538)
// अमूलकसंघावशेषा // 6 //
**(vin_2,2,7) अन्यथाभागीयानुध्वंसने /
/ [13अ6] वाच्यान्तरप्रतिष्ठेन वाक्येन मृषा /(Vin_2.539)
// अन्यथाभागीयानुध्वंसनसंघावशेषा // 7 //
**(vin_2,2,8) अमूलकलेशः /
/ स्थूलम् असेवनेनानुध्वंसने /(Vin_2.540)
/ अनुत्*ग्रहे च नाम्नः /(Vin_2.541)
/ तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादने संघभेदे च संसूचने सन्धाय भाषितम् इत्य् अपि दुष्कृतं /(Vin_2.542)
// अमूलकलेशिगपृच्छा // 8 //
**(vin_2,2,9) संघभेदे /
/ परपर्षदपकृष्टौ स्थूलम् /(Vin_2.543)
/ निवाररूपेणाप्रतिनिसर्गानुष्ठानरूपानु[13ब्1]गतिः /(Vin_2.544)
/ निवारणवत्त्वं ज्ञप्तेः एकक्षणात्वं वाक्यस्य /(Vin_2.545)
/ पृथक्त्वम् आवृत्तेः /(Vin_2.546)
/ न निगमनस्य /(Vin_2.547)
/ प्रयोगत्वं प्रवृत्तेः /(Vin_2.548)
/ तस्याकृतप्रवासनीयचोदनस्मारणस्य /(Vin_2.549)
/ अनाज्ञप्यत्वम् अस्य /(Vin_2.550)
/ नैषु न नाज्ञपयेयुर् मेथकेन कर्मणा च /(Vin_2.551)
/ तदन्ते प्रतिनिसर्गे /(Vin_2.552)
/ पराक्रान्तित्वस्य /(Vin_2.553)
/ भेदे /(Vin_2.554)
/ संघस्य /(Vin_2.555)
// संघभेदसंघावशेषा // 9 //
**(vin_2,2,10) अनुवर्त्तने /
/ [13ब्2] तत्साहाय्यप्रतिपत्तृतायाः /(Vin_2.556)
// अनुवर्तनं संघावशेषा // 10 //
**(vin_2,2,11) कुलदूषणे /
/ स्वप्रवासनस्य कर्तरि संघे मिथ्याशायेनैषास्यात्र प्रवृत्तिर् इति वक्तृत्वस्य मृषा /(Vin_2.557)
// कुलदूषणसंघावशेषा // 11 //
**(vin_2,2,12) दौर्वचस्ये /
/ चोदितत्वे भिक्षुणाधिशीलम् अवचनीयत्वस्यात्र भिक्षुभिर् आत्मनः कृतेः /(Vin_2.558)
// दौर्वचस्यसंघावशेषा // 12 // // संघावशेषाः समाप्ताः //
2,3 नैस्सर्गिकः /
**(vin_2,3,1) मारणे /
/ नापूर्वे होरात्रे [13ब्3] नस्त्य् अस्य सत्त्वं /(Vin_2.559)
/ प्रयोगपात्रत्ववासे /(Vin_2.560)
/ प्रथमारुणादिर् एषो स्य /(Vin_2.561)
/ सूर्योद्गमने कर्म [वृत्य]ये /(Vin_2.562)
/ सत्वं नैसर्गिके संज्ञानतः प्राधान्येन /(Vin_2.563)
/ अपेतत्वम् अस्य निर्यातितत्वे (निर्याचितत्वे) /(Vin_2.564)
/ तत्वं प्रव्रज्यापेक्षार्थतायां नियमनस्य /(Vin_2.565)
/ चीवराद् विकल्पनायाञ् च /(Vin_2.566)
/ ध्वंसो त्रानुवृत्तत्वस्य /(Vin_2.567)
/ भ्रंसे च प्रकृते /(Vin_2.568)
/ सतो स्यान्यत्रापि तद्वस्तुनि [13ब्4] जातत्वं /(Vin_2.569)
/ सजातो साप्ताहिके /(Vin_2.570)
/ नैसर्गित्वस्य तदापत्तिसत्तायां स्वीकृते परिस्कारमात्रे /(Vin_2.571)
/ नेतद् ऊनत्वे खण्डस्य /(Vin_2.572)
/ सांघिकस्य च /(Vin_2.573)
/ निस्तत्वम् अत्र तन्त्रम्* /(Vin_2.574)
/ नेदम्* त्रयम् आस्तीर्णकठिनस्य /(Vin_2.575)
/ सद्भावे स्वत्वस्यानुवृत्तस्य दशरात्रं /(Vin_2.576)
/ पराहादौ /(Vin_2.577)
/ वाससि /(Vin_2.578)
/ त्रिमण्डलस् छादिपर्यन्तप्रमाणे /(Vin_2.579)
/ असम्बद्धे धिष्ठानेन /(Vin_2.580)
/ [13ब्5] सम्बद्धे च सानुवृत्तौ अन्यत्रानधिष्ठिततद्गोत्रात् प्रभृत्य् अन्यत्र /(Vin_2.581)
// धारणे नैस्सर्गिकं // 1 //
**(vin_2,3,2) विप्रवासे /
(क) विभंघगतः /
/ निर्दोषो निशदनेन विप्रवासः /(Vin_2.582)
/ न प्रमील्य प्रत्यास्तरणं गच्छेन् न चेद् अन्यैव प्रतिप्राप्तिर् इति संस्था /(Vin_2.583)
/ वासे देवम् अभिप्रेत्य गतो कालसम्पत्तौ तत्र याचित्वैतत्* /(Vin_2.584)
/ असम्पत्तौ चतुर्गुण उत्तरासं*गे बहुतरजागरणेन /(Vin_2.585)
/ नानर्हे संघाटीनिक्षिप्ते[13ब्6](र्) आवसे वर्षाषाटि निक्षिपेत्* /(Vin_2.586)
/ न वृष्टौ /(Vin_2.587)
/ न नद्यन्तेरेतत्वे गन्तव्यस्य /(Vin_2.588)
/ नानयोर् आशङ्कायां /(Vin_2.589)
/ सभिक्षुकसकपाटकत्वं* साहितम् आवास्यवर्षत्ता देवस्य वर्षाशङ्किता वा जलान्तरितत्वं गन्तव्यस्येत्य् अस्याभावेनादत्तसम्वृत्तिर् अणास्तीर्णकठिनः संघाटीं* विना न क्वचिद्* गच्छेत्* /(Vin_2.590)
/ अन्याधिष्ठानम् उत्सृज्य चीवरस्थानप्राप्त्यसंभवे प्रति[14अ1] / / विधिः /(Vin_2.591)
/ दानम् अविप्रवाससंवृत्तेः संघाट्या गुरुकत्वे जीर्णं वाधिकयोः /(Vin_2.592)
/ अधिष्ठितस्यालब्धसम्वृत्तेः कर्तृत्वं /(Vin_2.593)
/ सोपविचारात् तत्स्थानाद् अन्यत्र स्थितस्यारुणोद्गतौ /(Vin_2.594)
/ कृतमर्यादे मर्यादास्थानपर्यन्तः /(Vin_2.595)
/ नैकत्वे परिगृहीतुर् अवान्तरमर्यादानां भेतृत्वम् /(Vin_2.596)
/ अविभक्ततायां च धनतो दृष्टितश् च /(Vin_2.597)
/ शाखोप[14अ2]शाखानाम् असंसंगे पृथक् स्थानत्वं साधारण्यमूलस्य /(Vin_2.598)
/ मूलामूलादेश् च /(Vin_2.599)
/ संसक्तशाखाविटपवृक्षाणाम् एकस्थानत्वं /(Vin_2.600)
/ तलक इव तत्राधोभागस्य प्रवेशः /(Vin_2.601)
/ नौशकटयोश् च /(Vin_2.602)
/ निर्मर्यादे व्याप्यङ्गपर्यन्तः /(Vin_2.603)
/ उपविचारव्यामस् सामन्तकेन /(Vin_2.604)
/ कुड्यपरिक्षिप्तो ग्रामे यावत् षड्गवयुक्तेन वंशशकटेन[14अ3] स्फुरणम् अध्वना वा कुक्कुटस्योत्पात्य निलयने वाटपरिक्षिप्ते जैडकरजासंप्रकृतिह्रीमत्पुरुषप्रविचारभूम्यध्वना वा /(Vin_2.605)
/ परिखापरिक्षिप्ते द्वादशपदिकया निःश्रयण्या च्छोरितसंकारस्थूललोष्टाध्वनो वा /(Vin_2.606)
/ तत्स्थाने त्रिकरणीयपरिसर्पणातिना मन रजोभिश् च यावतस् तदगतस्य संभावनं /(Vin_2.607)
/ निर्मर्यादे ऽध्वन्यभिन्नग[14अ4](ग)तेर् मनुष्यस्येकान्न(ं)पञ्चाशद् व्यामाः /(Vin_2.608)
/ न सीमान्तरं पृथक्त्वं क्रोशान्तान् मध्यतः परस्य /(Vin_2.609)
// विप्रवासनैस्सर्गिके विभङ्गः //
(क) क्षुद्रकगतः(?)
/ न पापखण्डतोपगताव् अधिष्ठनस्य /(Vin_2.610)
/ नारूढिनैसर्गिके /(Vin_2.611)
/ सांघिके च /(Vin_2.612)
/ भवत्य् अतो विप्रवासः /(Vin_2.613)
/ नान्याधिष्ठानाद् अन्यस्थानत्वहानिः /(Vin_2.614)
/ नान्येदं धर्मकयोः दृष्टितश् चेदनाक्षेपः /(Vin_2.615)
/ [14अ5] न साधारणैर् द्वारकोष्ठकस्य /(Vin_2.616)
/ न धनत इति पितृपुत्रयोः /(Vin_2.617)
/ विवर्जिताप्य् एतत्* /(Vin_2.618)
/ सभोजनत्वे च /(Vin_2.619)
/ नोपविचारत्वं ग्रामे स्याभवतो विहारस्य /(Vin_2.620)
// विप्रवासनैस्सर्गिकं // 2 //
**(vin_2,3,3) मासिके /
(क) विभंगगतः /
/ पूर्णवदसत्यां पूरकप्रत्यासां मां न्यूनं मां समसामन्तकात्* /(Vin_2.621)
/ सत्वे चाधिष्ठानिकस्य /(Vin_2.622)
/ अन्यत्रास्य त्रिंशद्राह्रातिक्रान्तौ /(Vin_2.623)
/ अ[14अ6]पूरकत्वम् विजतियस्य वर्णादितः /(Vin_2.624)
/ सर्ववर्णत्वं शौक्ल्ये /(Vin_2.625)
/ तद्गणाहादौ एथितत्वं संपत्तौ तस्य /(Vin_2.626)
/ पुटद्वयम् अहतात् संघाटीपर्यन्तः /(Vin_2.627)
/ निषदनस्य च /(Vin_2.628)
/ एक उत्तरासंगान्तर्वासनौ /(Vin_2.629)
/ द्विगुणम् ऋतुहतात्* /(Vin_2.630)
/ अनियम पांसुमयेषु /(Vin_2.631)
/ दद्याल्लूहत्वे परित्ततायां वाधिकानि या[14ब्1]वदर्थम्* /(Vin_2.632)
/ अदेयत्वम् अधिकस्य /(Vin_2.633)
/ नैसर्गिककृत्वञ् च /(Vin_2.634)
/ न न्याय्यम् उत्पाटयेद् अत्रैव परिकर्म कृत्वारोपयिष्य इत्य् अनुसम्पाद्य चित्तं /(Vin_2.635)
/ यथातथोत्पाटितस्य प्राक्समायोगान् नैस्सर्गिककृत्वम् /(Vin_2.636)
/ खण्डसंघाट्यां नव प्रभृत्यां पञ्चाविं*शतेर् युग्*मवर्जं /(Vin_2.637)
/ अतः परं कन्था /(Vin_2.638)
/ प्रथम एषां त्रिकैः द्वितृतीयमण्डलकत्वं /(Vin_2.639)
/ अर्धच[14ब्2]तुर्थमण्डलकं द्वितीये /(Vin_2.640)
/ तृतीये र्धपञ्चममण्डलकत्वं /(Vin_2.641)
/ त्रिपञ्चकानि स्वहस्तैः ज्येष्ठान्याधिष्ठानिकानि /(Vin_2.642)
/ कनिष्ठान्य् उभयतो र्धहस्तम् उत्सृज्य /(Vin_2.643)
/ अन्तरं मध्यानां प्रमाणं /(Vin_2.644)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
