Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/5

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

विनयसूत्र

Thông tin
GRETIL — Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

/ अन्तर्वाससो द्विपञ्चकम् अपि द्विचतुष्कञ् च /(Vin_2.645)

/ आत्रिमण्डलच्छादितत्वतो पि /(Vin_2.646)

/ कायसप्तांशद्वयं हस्ते र्थः /(Vin_2.647)

/ अकारयति कुसूलककरणम्* /(Vin_2.648)

// [14ब्3] मा[ं]सिकनैसर्गिकविभङ्गः //

(ख) पृच्छागतः /

/ दुष्कृतकृत्त्वं न्यूनवद् अन्तरे /(Vin_2.649)

/ अप्रत्याशत्वम् अच्छादने र्धमण्डलस्य /(Vin_2.650)

/ अकल्पिके च /(Vin_2.651)

/ निरधिष्ठनानाञ् च मुखपोचपरिश्रावप्रत्यास्तरणचिलिमिलिकादीनां परिस्कारचीवराणां /(Vin_2.652)

// मासिकपृच्छा // // मासिकनैःसर्गिकं // 3 //

**(vin_2,3,4) धावने /

(क) विभंगगतः /

/ प्रतिगुप्तेर् अन्तरात्यास्थानं /(Vin_2.653)

/ अनुपेक्षणम् अत्र भिक्षुणीभिः /(Vin_2.654)

/ [14ब्4] पिण्डकस्यास्मै दानं /(Vin_2.655)

/ ज्ञातिर् आसप्तमाभ्यां पितृभ्याम् अन्यतरेणाप्य् एकपूर्वजः /(Vin_2.656)

/ संज्ञानस्य कर्तत्वं प्राधान्येन / / वृंदे तत् /(Vin_2.657)

/ भिक्षुणीत्वतदज्ञातित्वयोः /(Vin_2.658)

/ उत्तरस्मिं*श् च /(Vin_2.659)

/ अधिष्ठितस्वपुराणधावनार्हचीवरनिषदनानां कस्य निर्धावनरञ्जनाकोटनेषु विज्ञप्त्या /(Vin_2.660)

/ प्रदेशस्यापि कृतौ कर्मणः कृतत्वं /(Vin_2.661)

/ कृतत्वे कारितत्वं /(Vin_2.662)

/ आ[14ब्5]फलपर्यन्ताद् एकत्वं /(Vin_2.663)

/ पर्वभूतत्वे फलानाम् ऐक्यम् /(Vin_2.664)

/ संज्ञानप्रधानतायां यथार्थे मौलं*(Vin_2.665)

उपमूलत्वम् अयथार्थत्वे संज्ञानवद्विमतिः /(Vin_2.666)

/ सांघिकं क्रियाकारम् अनुरक्षेत्* /(Vin_2.667)

/ अनिस्सरणम् अत्रागन्तुकत्वं सदसत्वरूपनिर्ज्ञानार्थम् अस्य तेन प्रश्नः /(Vin_2.668)

/ अनति..मय्य /(Vin_2.669)

/ न बुद्धोक्तः सांघिकाद् विचालः /(Vin_2.670)

/ गृह्णीयान् निःसृ[15अ1] / / ज्यमानम् अतिरेकं पात्रचीव<<र>>शिक्यसरितकायबन्धनं संघ उपनिक्षेपाय /(Vin_2.671)

/ तथोपनिक्षेप तस्य यथेष्टं तद्विकलैर् आदानं /(Vin_2.672)

// धावननैःसर्गिके विभङ्गः //

(ख) पृच्छागतम् /

/ नोच्चारप्रस्रावस्यन्दनिकाकर्दमादिनासितधावने स्त्य् अपह्रासः /(Vin_2.673)

/ दुःकृतं चिलिमिनिकागृहचोडौपधानकविकल्पितनिःसृष्टसांघिकानां /(Vin_2.674)

// धावननैःसर्गिक[15अ2]पृच्छा / // धावननैस्सर्गिकः // 4 //

**(vin_2,3,5) प्रतिग्रहे /

(क) विभंगगतः /

/ प्रतिगृह्णीयाद् भिक्षुणी महार्हं वासः परिवर्हणाय कुर्याद् भिक्षुण्या सार्द्धं परिवर्त्तं /(Vin_2.675)

/ तुल्येन तत्तुष्टिक्रिता वा(Vin_2.676)

// प्रतिग्रहे /

/ विज्ञप्त्या चीवरस्य /(Vin_2.677)

/ अनापत्तिः पटकप्रदाने संघाय सौभाषनिकस्य /(Vin_2.678)

/ उपसंपाद्यमानम् उषितयोः /(Vin_2.679)

/ चित्तश्रद्धम् उद्भाव्य पुरतः स्थापयित्व निर[15अ3]पेक्षणं प्रक्रमणे(Vin_2.680)

// प्रतिग्रहेनैस्सर्गिकेविभङ्गः //

(ख) पृच्छागतः /

/ हस्तिभूतत्वं लब्धदा /(Vin_2.682)

/ दर्शनोपविचारगततास्यादिः प्रयोगत्वम् असन्निहितप्रतिष्ठेः /(Vin_2.683)

/ वैशद्यमयात्रावसत्वं च पटप्रदानादौ तन्त्रं /(Vin_2.684)

/ अनापत्तिस् तावत् कालिकचित्तेन विस्मृत्य मूल्यादाने(Vin_2.685)

// प्रतिग्रहनैस्सर्गिकपृच्छा / // प्रतिग्रहनैःसर्गिकः // 5 //

**(vin_2,3,6) याच्ञानैस्सर्गिकः /

/ मनुषगति[15अ4]गतो गृहीभूतः प्राण्यज्ञातिर् आपत्तिकृत् /(Vin_2.686)

/ उत्तरस्मिंश् च त्रये /(Vin_2.687)

/ अनाच्छिन्ननष्टदग्धहृतो र्ढचीवरस्य /(Vin_2.688)

/ विज्ञाने दुष्कृतस्य /(Vin_2.689)

/ मौलस्य लब्धौ चीवरस्य /(Vin_2.690)

/ अनूनस्य /(Vin_2.691)

/ यद्विधस्यार्घवर्णसमतो विज्ञप्तिः /(Vin_2.692)

/ अनापत्तिर् अन्यस्य /(Vin_2.693)

/ न तुकदशिकयोश् च विज्ञपने /(Vin_2.694)

/ न्यूनत्वमौतोस्तानस्य च /(Vin_2.695)

/ तद्वत् तत्प्रकृतिः /(Vin_2.696)

// या[15अ5]ज्ञानैस्सर्गिकः // 6 //

**(vin_2,3,7) विज्ञापनार्हः /

/ सर्वस्याभावे धिष्ठेयस्य विज्ञपनार्हत्वं /(Vin_2.697)

/ अस्यापत्यता /(Vin_2.698)

/ परं गृहिणो द्वादशहस्तकः पडकोत्तरम् अन्तरं सप्तद्विकषाटकः /(Vin_2.699)

/ भिक्षोः ज्येष्ठे यथोक्तपुटे संघाटीनिवसने /(Vin_2.700)

/ युग्मस्य विज्ञप्यत्वं /(Vin_2.701)

[15ऽअ1]/ अन्यतरस्य /(Vin_2.702)

/ अतिरिक्तस्यातः प्रमाणाद् अविज्ञप्यत्वं /(Vin_2.703)

/ पूर्वकस्य च पूर्वलब्धौ उत्तरलब्धाव् अधिकस्य देयत्वं /(Vin_2.704)

/ उत्तरलाभ [15ऽअ2]अतिकस्य देयत्वं /(Vin_2.705)

/ विज्ञप्ताव् अविज्ञप्तस्य दुक्कृतं /(Vin_2.706)

[15अ5र्]/ विज्ञप्ताव् अविज्ञप्यस्य दुष्कृतं /(Vin_2.707)

/ लब्धौ मूलं /(Vin_2.708)

/ अदाने च देयस्य /(Vin_2.709)

// विज्ञपना[15ब्1]र्हनैस्सर्गिकं // 7 //

**(vin_2,3,8) संजकल्पितः /

/ संकल्पितम् अप्रवारितस्य ज्ञातं तुल्यम् असंकल्पितेन /(Vin_2.710)

/ तद् एवान्यत् /(Vin_2.711)

// संकल्पितमार्गणनैस्सर्गिकः // 8 //

**(vin_2,3,9) प्रत्येकः /

/ वैशद्यपि दातुः /(Vin_2.712)

/ एकत्वं लब्धेः प्रयोगैक्ये /(Vin_2.713)

// प्रत्येकनैस्सर्गिकः // 9 //

**(vin_2,3,10) प्रेषितः /

/ प्रेषितम् अकल्पिकं चीवरमूल्यं प्रतिक्षिप्य परिप्रष्णपूर्वकम् उपदिष्टं वैयापृत्यकरम् आदिष्टं दूतेनोक्तो वृत्ता[15ब्2]न्तात्वाख्यानपूर्वकञ् चोदयेत /(Vin_2.714)

/ नाशक्तवत्तायां संप्रधारेणे चोदितत्वं /(Vin_2.715)

/ असम्पत्तौ द्वितीयम् अपि /(Vin_2.716)

/ त्रितीयञ् च /(Vin_2.717)

/ तत आतृतीयम् उद्देशे तिष्ठेत्* /(Vin_2.718)

/ असम्पत्तौ दातारं श्रावयेत्* /(Vin_2.719)

/ वृत्तायाम् एवं प्रतिनिःश्रिष्टौ प्रयच्छत उक्तप्रतिनिःसर्गाद् अभ्युपेतदातृचित्तग्रहणानुष्ठानात् प्रतिगृह्णीयात्* /(Vin_2.720)

/ परंचोद[15ब्3]नेन स्थाने ऽभ्युपेते वा /(Vin_2.722)

/ गृहीतौ /(Vin_2.723)

/ मनुष्यद्वेत्रयस्य गृहीत्वे च /(Vin_2.724)

/ अनुक्तौ दुष्कृतं /(Vin_2.725)

/ अप्रतिक्षेपे /(Vin_2.726)

/ अपृष्टोपदेशे च /(Vin_2.727)

/ नैराश्ये चाश्रावणे /(Vin_2.728)

// प्रेषितनैःसर्गिकः // 10 //

**(vin_2,3,11) कौशेयः /

(क) विभंगगतः /

/ धारयेत संस्तरं /(Vin_2.729)

/ कृतिकारणयोः /(Vin_2.730)

/ कोशेयस्य /(Vin_2.731)

/ संस्तीर्णतादि संस्तरे /(Vin_2.732)

/ कृतिनिष्ठानस्य /(Vin_2.733)

/ अनापत्तिः कृ[15ब्4]तलाभे भोगाभिसंस्करणेषु /(Vin_2.734)

// कोशेयनैःसर्गिके विभर्गः //

(ख) पृच्छागतः /

/ न्यूनत्वं न्यूनमिश्रत्वे /(Vin_2.735)

/ विनष्टतायाञ् च द्रव्यस्य /(Vin_2.736)

// कोशेयनैःसर्गिके पृच्छा // 11 //

**(vin_2,3,12) शुद्धकाले /

/ शुद्धकालकैडकरोम्नाम्* /(Vin_2.737)

/ जात्या /(Vin_2.738)

/ तत्वं नीलकर्नमककंचशकानां /(Vin_2.739)

// शुद्धकालनैःसर्गिकः // 12 //

**(vin_2,3,13) द्विभागः /

/ अतिरिक्तत्वे ऽर्द्धस्य तेषां /(Vin_2.740)

/ समांश[15ब्5]त्वम् इतरत्रावदातगोचरकानां /(Vin_2.741)

/ पार्श्वपृष्ठग्रीवजं पूर्वं /(Vin_2.742)

/ शिरपादोदरजम् उत्तरं /(Vin_2.743)

// द्विभागनैःसर्गिकः // 13 //

**(vin_2,3,14) षड्वर्षः /

/ दैर्घ्यवितस्तारयोर् अतिमात्रत्वे छेदनं /(Vin_2.744)

/ वर्धनं ह्रस्वस्वासंवृतत्वयोः /(Vin_2.745)

/ छेदे संबन्धनं /(Vin_2.746)

/ प्रतिवायो भेदे दौर्बल्ययोः /(Vin_2.747)

/ दुष्प्रतिसंस्करत्वे दानं /(Vin_2.748)

/ अलब्धसम्वृत्तेः सत्य् अन्यत्र स्वकाम् अत्यक्ते वान<<ति>>क्रान्ते /(Vin_2.749)

/ [16अ1] / / षड्वर्षसंगतौ कृततायां संस्तरस्य /(Vin_2.750)

/ सत्ववद् आरम्भे विप्रकृ<<त्>>त्वं /(Vin_2.751)

/ नान्तगतौ प्रयोगस्यानापत्तिकृत्वं /(Vin_2.752)

/ पृथक्त्वं प्रव्रजान्तरस्य /(Vin_2.753)

// षड्वर्षनैःसर्गिकः // 14 //

**(vin_2,3,15) वितास्तिः /

/ अदत्तपुराणनिषदनसुगतवितस् तैर् नवनिषदनस्य परिभोगे /(Vin_2.754)

/ सच्चेतत् /(Vin_2.755)

/ एतावतापि /(Vin_2.756)

/ शक्यप्रतिसंस्कारेणापि /(Vin_2.757)

/ संदर्भसमुदा[16अ2]गमेन वा /(Vin_2.758)

// वितस्तिनैःसर्गिकः // 15 //

**(vin_2,3,16) ऊर्णिढिः /

/ सति वोढर्यसति च योजनत्रयादूर्धमैडकोर्णोद्वहने /(Vin_2.759)

/ क्रोशो ध्वनि गतेर् आत्मा /(Vin_2.760)

/ प्रयोगस्यार्द्धं दुष्कृतम् ऋद्धेर् अन्येन नभसा हरणे निर्मिते च /(Vin_2.761)

/ निर्दोषं खोलापूलालेप्यकायष्कुञ्चकलोठकमुरुचिकाव्यर्थं तन्मात्राणां /(Vin_2.762)

/ परमाण्वण्वब्लोहशशविगोवातायनच्छिद्ररजोलिक्षयूगयवा[16अ3]ङ्गुलीनां षट्* पूर्वम् उत्तरं /(Vin_2.763)

/ षट् चतुरङ्गुलो हस्तो र्धचतुर्थ<<ः>> हस्तकः पुरुषश् च चतुर्हस्तकं धनुस् तत् शतपञ्चकं क्रोशः /(Vin_2.764)

/ तदन्तादि चरण्यस्य न कायभारं वहेत /(Vin_2.765)

/ न पार्श्वपृष्टकटिशिरोभिः /(Vin_2.766)

/ अनाशङ्क्यम् अस्मिन्नसाधरणत्वं /(Vin_2.767)

/ नार्द्धभागादूर्धम् उत्पाटयेत्* /(Vin_2.768)

// ऊर्णोढिनैःसर्गिकः // 16

**(vin_2,3,17) ऊर्णपरिकर्म /

/ पुराणाचीवर[16अ4]स्य स्थाने एडकरोमाणि /(Vin_2.769)

/ विचटनम् आकोटनस्य /(Vin_2.770)

// ऊर्णपरिकर्मनैःसर्गिकः // 17 //

**(vin_2,3,18) जातरूपरजते /

/ स्वीकृते रत्नस्य /(Vin_2.771)

/ गम्यतायां तत्पूरिः /(Vin_2.772)

/ स्वस्य चाकृतकल्पस्य /(Vin_2.773)

/ स्पृष्टो स्पर्शेन च /(Vin_2.774)

/ यथाकथञ्चित /(Vin_2.775)

/ पात्रिकताम्रस्य दुष्कृतां / अ(Vin_2.776)

/ अनापत्तिर् अन्यस्य /(Vin_2.777)

/ त्रपुसज्जशीसलोहानां श्रामणेरयोश् च /(Vin_2.778)

/ [16अ5] दानपतेः स्वामित्वाधिमोक्षो वैय्यपृत्यकरस्य स्वामित्वाधिमोक्षो वैयापृत्याकरस्य स्वामित्वाभ्युपगमनमैधिष्ठानम् इति कल्पाः /(Vin_2.779)

/ नाविद्यमानधर्मार्थप्रत्ययाद् अन्यत्र रुढिः /(Vin_2.781)

/ न दूरत्वे स्वामिनो ध्वस्तिः /(Vin_2.782)

/ कल्पते कारणम् आत्मार्थं भोजनस्य /(Vin_2.783)

/ तत्करे चार्पणाय कार्षापणग्रहणं /(Vin_2.784)

/ पथ्यदनस्य चारनात्* /(Vin_2.785)

/ उप[16ब्1]स्थापयेद् अग्न्यर्थि सूर्यकान्तं /(Vin_2.786)

/ नैनम् अगुप्त स्थापयेत /(Vin_2.787)

/ दनादत्तादायिनेदर्षयेत्* /(Vin_2.788)

/ फलम् उत्पाद्यस्यास्मै दद्यात्* /(Vin_2.789)

/ उदकार्थि चन्द्रकान्तं /(Vin_2.790)

/ समानः पालनविधिः /(Vin_2.791)

/ अनन्तः कृतत्वम् उपस्कारानुज्ञाने रत्नस्वीकरस्य /(Vin_2.792)

/ न रीतिताम्रकंसंदारुपात्रं स्वीकुर्यात्* /(Vin_2.793)

/ स्वीकृतस्यास्यान्यस्य वा परिभोगश् चेत्* [16ब्2] भैषज्यशरावकपरिभोगेण <<//>>(Vin_2.794)

द्वयम् अधिष्ठानिकमायसं मृन्मयञ्च /(Vin_2.795)

/ मणिमुक्तवैदूर्यशंखशिलाप्रवाडरजतजातरूप अस्मगर्भम् उसारगल्वलोहितिकादक्षिणावर्तप्रभृति रत्नं /(Vin_2.796)

/ न्यूनत्वम् अयात्रिके /(Vin_2.797)

/ अनन्तरे पि /(Vin_2.798)

/ छिन्नभिन्नखण्डदग्धाप्रचरितपूर्वानाहतालक्षणप्रतिरूपकम् एतत्* /(Vin_2.799)

// जातरूपरजतनैःसर्गिकः // 18 //

**(vin_2,3,19) रूपिक /

/ [16ब्3] लाभे प्सोरापत्तिः /(Vin_2.800)

/ गृहीत्वे परस्याज्ञातित्वे मौली /(Vin_2.801)

/ उत्पत्तौ वृद्धेः /(Vin_2.802)

/ अनन्तरे च /(Vin_2.803)

/ पणेन रत्नेन वा व्यवहारात्* /(Vin_2.804)

/ एकत्वं प्रयोगे /(Vin_2.805)

/ प्रयुञ्जित्* रत्नार्थं /(Vin_2.806)

/ आरामिकोपासकयोः सत्वे नियोगेन /(Vin_2.807)

/ बन्धकं द्विगुणम् आदाय साक्षिसम्वत्सरं आसदिवससंघस्थविरोवारिक गृहीतृधनला[16ब्4]भानारोप्य पत्रे /(Vin_2.808)

/ ज्ञातवानेतद् इतरस्मै प्रवेदयेत्* /(Vin_2.809)

// रूपिकव्यवहारनैःसर्गिकः // 19 //

**(vin_2,3,20) क्रयविक्रय /

/ अन्येन दद्यात् सांघिकं संघभक्तोपक्रीणते धान्यं मूल्येन /(Vin_2.810)

/ तस्यैव चेत् सविशेषं /(Vin_2.811)

/ क्रीणीयात्* क्षये संघः /(Vin_2.812)

/ नवञ् च /(Vin_2.813)

/ पुराणम् चिक्रीय निष्प्राणकं चेत्* /(Vin_2.814)

/ न मूल्यं कुर्यात /(Vin_2.815)

/ न गृहिव्यवहारेषु हस्तं प्रक्षिपेत्* /(Vin_2.816)

/ गृहिणा [16ब्5]क्रायणं /(Vin_2.817)

/ असम्पत्तावात्रयाद् वाद्निश्चारणं /(Vin_2.818)

/ अकरणं परार्थे प्य् उत्सृज्य रत्नत्रयं पणापणः /(Vin_2.819)

/ न बन्धकं कुर्यात्* /(Vin_2.820)

/ संघेन तदर्थं संघकर्मिकेणोधिस्य दानं /(Vin_2.821)

/ नापृष्ट्वा वृद्धवृद्धां संघार्थम् उद्यच्छेत्* /(Vin_2.822)

/ यत्राभिलिखितता सम्पत्तिम् अस्यानुतिष्ठेत्* /(Vin_2.823)

// क्रयविक्रयनैःसर्गिकः // 20 //

**(vin_2,3,21) पात्रधारण /

/ पात्रस्याधिष्ठितस्य /(Vin_2.824)

/ [17अ1] / / निस्सृष्ठत्वं प्रव्रज्यापेक्षार्थतायां नियमने /(Vin_2.825)

/ अकल्पिकत्वं पाण्डुशुक्लाधिकानां न्यूनता प्यामस्य /(Vin_2.826)

/ निर्दोषत्वं कुपात्रकस्यैकस्य /(Vin_2.827)

// पात्रधारणनैःसर्गिकः // 21 //

**(vin_2,3,22) पात्रपरिष्ठि /

/ नाधिलोभं कुर्वीत् परिस्कारे त्यध्यावसानं न पत्राद् अस्तधायेत्* /(Vin_2.828)

/ याचेत् पात्रम् अप्य् अभावे /(Vin_2.829)

/ सत्वे स्य /(Vin_2.830)

/ आचतुर्बन्धन तदर्हा /(Vin_2.831)

/ क्षमस्य परिभोगे /(Vin_2.832)

/ परी[17अ2]ष्टौ विज्ञप्त्या गृहितो ज्ञातेः /(Vin_2.833)

/ उत्तरत्राप्येतत्* द्वये /(Vin_2.834)

/ वातृदात्रान्येषु /(Vin_2.835)

/ अदोषम् अज्ञाता च वृद्धिपात्रयोः ज्ञातेः /(Vin_2.836)

/ दुष्कृतं मौलम् /(Vin_2.837)

/ ततो निष्पधौ /(Vin_2.838)

/ सम्मतावसत्वे पहासः /(Vin_2.839)

/ स्वपरिस्कारैः सत्वे चेषां /(Vin_2.840)

/ परिवर्तणे श्रेष्ठ्यच्छन्देन /(Vin_2.841)

/ संघे स्य निःसर्गः /(Vin_2.842)

/ एकस्यानेकत्वे भिप्रेततमस्य /(Vin_2.843)

/ योज्यत्वम् अन्यस्य /(Vin_2.844)

/ इदं प्रव्रा[17अ3]ज्याके /(Vin_2.845)

/ प्रत्यवरस्यास्मै दानं /(Vin_2.846)

/ चारणेन निष्कर्षः /(Vin_2.847)

/ मम्मतेन /(Vin_2.848)

/ श्वो स्य करिष्यत्तायां तेनारोचनं /(Vin_2.848)

संघे सामग्रिवेलायां श्वो ऽहम् आयुस्मन्त उन्न<<तं>> पात्रं चारयिष्यामि युस्माभिः स्वकस्वकानि पात्राणि गृहीत्वा संघमध्ये वतरितव्यम् इति /(Vin_2.849)

/ सन्निसादार्थम् अनुष्ठानं /(Vin_2.850)

/ रोचनोपसंक्रमम् उपनामनम् /(Vin_2.851)

/ स्थवि[17अ4]रेदं <<पात्रं>> स्वच्छं परिमण्डलं परिभोगक्षमं स चेद् आकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणं अयाचनं गृहितस्यान्तरितेन /(Vin_2.852)

/ अदानत्वयोर् वाचोर्नोत्तरस्यामन्याज्यातानाधिष्ठानिकद्वयोर् आपन्नस्य प्रवेदनं /(Vin_2.853)

/ उपयोजनम् अस्याभेदान् मन्दमन्दं /(Vin_2.854)

/ उभाभ्याम् अनेन संव्यवहरणम् /(Vin_2.855)

/ अत्र साधुतरस्य विनिर्युक्तिर् उपकरस्य /(Vin_2.856)

/ ल[17अ5]घुतरे स्य प्रमासे /(Vin_2.857)

/ नैव भोजनकरणत्वे /(Vin_2.858)

// पात्रपरीष्टिनैःसर्गिकः //

**(vin_2,3,23) वायन /

/ विना मूल्येन विज्ञप्त्यान्येनापि वापने /(Vin_2.859)

/ न सात्यतायाम् अतत्कृतत्वं /(Vin_2.860)

// वापननैस्सर्गिकः // 23 //

**(vin_2,3,24) उप्यमानवर्धन /

/ तत् औद्देशिकत्वम् पानीयस्य /(Vin_2.861)

/ भूयस् तायां वा दुर्नियोगतः सौष्ठवे वा /(Vin_2.862)

/ क्षयश् चेद् दातुः /(Vin_2.863)

/ अदानम् विनिश्रयस्य /(Vin_2.864)

/ [17ब्1] अनभ्यनुज्ञातैः तदर्थत्वं दात्रेति कर्तृणि /(Vin_2.865)

/ मौलस्य सम्पत्तौ /(Vin_2.866)

/ प्राग्प्रतितद् औद्देशिकानुष्ठानं दुष्कृतस्य /(Vin_2.867)

/ तत्वम् अप्रवारितस्योपसंक्रान्तेः /(Vin_2.868)

// उयमानवर्धननैःसर्गिकः // 24 //

**(vin_2,3,25) आच्छेद /

/ भिक्षुत्वं वियोज्यस्य /(Vin_2.869)

/ अस्वकृत्वम् आछेद्यस्य /(Vin_2.870)

/ चीवरत्वं तस्य /(Vin_2.871)

/ समस्तयोर् व्यस्तयोर् वा कायवाचोर् आछेदार्थं प्रवृत्तिस् तस्य /(Vin_2.872)

/ [17ब्2] तन् नियुक्तस्य चेति कर्तृणि /(Vin_2.873)

/ अन्त्यस्य समाप्तौ पृथग्भावस्य कायतः /(Vin_2.874)

/ प्रयोगे दुष्कृतस्य /(Vin_2.875)

/ प्रतिदेयत्वम् अस्य /(Vin_2.876)

/ अनङ्गम् अत्र स्वार्थत्वं /(Vin_2.877)

/ निष्कर्षवद् अनुपसम्पन्ने /(Vin_2.878)

/ स्वता<<पना>>यनभूतस्यात्रावरोध आछेदस्य /(Vin_2.879)

/ असम्मतिकृतस्यानुच्छवित्वं /(Vin_2.880)

/ अनर्थाहितकृत् प्रवृत्तिविघ्ननार्थेनापत्तिः /(Vin_2.881)

// आछेदनैःसर्गिकः // 25 //

**(vin_2,3,26) षड्रात्र /

/ [17ब्3] स्वस्थानवत् सभयतायाम् आरण्यकस्येकत्र चीवरे ग्रमः /(Vin_2.882)

/ विप्रवसेदतो ऽसाव् अन्तर्गृहगताद् अर्थवशेनाषष्ठम् अह्नः /(Vin_2.883)

/ अप्रस्रब्धिरूद्धम् /(Vin_2.884)

/ अदोषो न्तरायवशेनागतौ /(Vin_2.885)

/ अनङ्गम् अत्रातिवाह्यत्वे षड्रात्रस्य प्रक्रान्तौ संकल्पः /(Vin_2.886)

// षद्रात्रविप्रवासनैःसर्गिकः // 26 //

**(vin_2,3,27) वर्षाशाती /

/ स्वोपगमाहपूर्वम् आसादिप्रभृ[17ब्4]ति वर्षाशात्रीं* परीच्छेत्* /(Vin_2.887)

/ आस्ववर्शोध्वार्धमासान्तं धारयेत /(Vin_2.888)

/ पूर्वपरयोर् अतः कालयोः कर्तृत्वं* /(Vin_2.889)

/ धारणे परस्यरपूर्वस्य परीष्टो दुष्कृतस्य /(Vin_2.890)

/ अन्त्यस्य संपत्तौ /(Vin_2.891)

/ न्यूनत्वम् विलीने /(Vin_2.892)

/ यथोपगति तद् अनुगं /(Vin_2.893)

// वर्षाशाटीनैःसर्गिकः // 27 //

**(vin_2,3,28) आत्ययिक /

/ वार्षिकलाभस्य कर्तृत्वं /(Vin_2.894)

/ अन्तर्व[17ब्5]ष स्वीकृतौ /(Vin_2.895)

/ उत्सृज्यान्त्ये त्ययवशाद् दशाहे लभ्यमानस्य /(Vin_2.896)

/ विभक्तौ चास्यापि /(Vin_2.897)

/ अविभक्तौ च /(Vin_2.898)

/ अन्तरेण दात्रुक्तिवशता /(Vin_2.899)

/ अनन्तरे प्रवारणादिवशाद् अह्न्यसम्मततत्गोपकानां /(Vin_2.900)

/ नैनं न स्म मन्येरन्* /(Vin_2.901)

// आत्ययिकनैःसर्गिकः // 28 //

**(vin_2,3,29) परिणामन /

// पुद्गले न्यत्र संघे वा संकल्पितस्यान्येन चीवरस्य [18अ1] जानतात्मनि परिणामतो लब्धौ /(Vin_2.901)

/ परिणमने दुष्कृतम् /(Vin_2.902)

/ अन्यत्र चात्र /(Vin_2.903)

/ तत्फले च /(Vin_2.904)

/ अन्यस्य च /(Vin_2.905)

/ असत्त्वसंख्यातत्त्वे वियोज्ययोज्ययोः /(Vin_2.906)

/ एकप्रदेशत्वे च /(Vin_2.907)

/ अनापत्तिर् अलाभे पर्येषविघसखादकतिर्यगादेः /(Vin_2.908)

/ कल्पते या च्छया प्रतिनिध्यन्तरे सुगतस्य दानम् /(Vin_2.909)

/ दुष्कृतं संकल्प्यादाने /(Vin_2.910)

/ बहिः सीमां गत्वा सांघिकाधिष्ठाने /(Vin_2.911)

/ [18अ2] व्यग्रैर्भाजने /(Vin_2.912)

/ अनधिष्ठायाम् /(Vin_2.913)

/ एकस्य द्वयोः त्रयाणां वा संघादा भवतो लाभस्यादाने /(Vin_2.914)

/ अनया योत्रान्येषां मंशिकत्वस्य /(Vin_2.915)

/ हारत्वं स्तेयचित्तेन /(Vin_2.916)

/ न सहसैव निरावासताकरणं विहारस्य /(Vin_2.917)

/ सानुनयस्य तत्रावलोकं दाने /(Vin_2.918)

/ अनुपनतौ दशवर्षाण्यतिनमनः /(Vin_2.919)

/ पञ्चपिण्डपातेन /(Vin_2.920)

/ अनुद्भू[18अ3]ताव् अत्र काले दानपतेर् अपराणि सामन्तकविहारेण सार्द्धम् /(Vin_2.921)

/ हिदुक्योषधैकलाभतायाः करणं कर्मकरणा[त्] /(Vin_2.922)

/ सामन्तकविहारेषु प्रमीलने वस्तूनां निक्षेपः /(Vin_2.923)

/ आवासिते दानम् /(Vin_2.924)

/ न स्थानान्तरीयं द्रव्यं स्थानान्तरे दद्युः /(Vin_2.925)

/ दास्यत्वम् एषाम् अप्रतिलम्भते /(Vin_2.926)

/ दानत्वे ऽपि गृहपतेर् नियतेर् अभङ्गः /(Vin_2.927)

/ [18अ4] बलाद् अदाने ग्रहणम् /(Vin_2.928)

/ दद्युर् याचितकत्वेन /(Vin_2.929)

/ स्थानान्तरीयं द्रव्यं स्थानान्तरे /(Vin_2.930)

/ निर्दोषम् असम्पत्तौ चैत्यान्तरे तल्लाभस्य परिणमनम् उत्सृज्य बोधिधर्मचक्रमहाप्रातिहार्यदेवावतरणानाम् एभ्यो ऽन्यत्र /(Vin_2.931)

// [इति] परिणामननैःसर्गिकः // 29 //

**(vin_2,3,30) साप्ताहिक /

/ व्यतीतं दिवसम् अधिष्ठितस्य साप्ताहिकस्य भिक्षुं श्रायेत् /(Vin_2.932)

/ धारणे /(Vin_2.933)

/ अस्य /(Vin_2.934)

/ अष्टमारुणोद्गतौ /(Vin_2.935)

/ [18अ5] अत्यये ऽह्ने कल्पिकस्याभ्यवहार्यस्य भुक्तिवद् इत्य् अत्र व्यवस्था /(Vin_2.936)

/ यस्यात्रार्थे कल्पनं तं प्रत्यनापत्तिः कल्पितेनास्याभङ्गयोः सन्निहितम् /(Vin_2.937)

// [इति] साप्ताहिकनैःसर्गिकः // 30 // // समाप्तश् च नैःसर्गिकः //

2,4 प्रायश्चित्तिकम् /

**(vin_2,4,1) मृषावादे /

/ संज्ञाय संघसन्निधाव् अधर्मस्य धर्मतो धर्मस्य चाधर्मतः परिदीपनं स्थूलात्ययः /(Vin_2.938)

/ कच्चित् स्था [अ]त्र परिशुद्धा इत्या[18ब्1]तृतीयपरिप्रस्नात् पोषधे शुद्धसंज्ञस्य तूष्णीम् भावेनातिनामनाया दुष्कृतम् /(Vin_2.939)

/ आभ्यां पाराजिक-संघावशेषाभ्यां चान्यस्मिन् मृषावादे /(Vin_2.940)

/ भाषमान्त्वे ऽपि संज्ञालाभे ऽस्योत्थानम् /(Vin_2.941)

/ न शपथं कुर्वीत /(Vin_2.942)

// [इति] मृषावादप्रायश्चित्तिकम् // 1 //

**(vin_2,4,2)/ पैशुन्य /

/ भिक्षोः /(Vin_2.943)

/ अनन्तरे च /(Vin_2.944)

/ ऊनतोद्भावनच्छन्देन /(Vin_2.945)

/ श्लक्ष्णेन पुरु[18ब्2]षेण वा /(Vin_2.946)

/ यस्य कस्यचिद् अचराभिमतस्योक्तौ /(Vin_2.947)

/ अजाते ऽपि मङ्गुत्वे /(Vin_2.948)

/ अन्यस्य क्षत्रियताब्राह्मण्यादेः दुष्कृतम् /(Vin_2.949)

/ अनुवादः /(Vin_2.950)

/ पैशुन्यच्छन्देनामुकोक्तम् इत्य् उक्तौ /(Vin_2.951)

/ नाम्ना चेत् /(Vin_2.952)

/ भिक्षुता चास्य दुष्कृतम् अन्यथा /(Vin_2.953)

// [इति] पैशुन्यम् // 2 //

**(vin_2,4,3) खोटने /

/ न हिततायां सम्यक् संघेन /(Vin_2.954)

/ भिक्षोश् चाधिकरणतायां खोटने /(Vin_2.955)

/ [18ब्3] नैवासिककर्मकृच्छन्ददायकानाम् एव मौलस्य /(Vin_2.956)

/ दुष्कृतस्यैव दृष्ट्याविष्कर्तागन्तुकयोः /(Vin_2.957)

/ तद्वत् त्वम् अधिकरणान्तरत्वेनाधिकरणस्य संज्ञाने /(Vin_2.958)

/ अर्द्धत्वं कर्मफलगतस्यातत्त्वेन समुदाचारे /(Vin_2.959)

// [इति] खोटनम् // 3 //

**(vin_2,4,4) देशना /

/ देशनायाम् /(Vin_2.960)

/ धर्मस्य /(Vin_2.961)

/ षष्ठात् पदाद् ऊर्ध्वम् /(Vin_2.962)

/ जानत ऊर्धतायाम् /(Vin_2.963)

/ पञ्चमात् पञ्चपदिको[18ब्4]पक्रमे /(Vin_2.964)

/ न पण्डितकृतोत्तरोत्तरपरिप्रष्णनिर्व्नये परिवर्तनिकास्वाध्यायनिकापरिपृच्छनिकोपवासदानदक्षिणादेशनेषु /(Vin_2.965)

/ अकृतत्वं स्थानान्तरे पूर्वस्याः /(Vin_2.966)

// [इति] देशना // 4 //

**(vin_2,4,5) वाचना /

/ समम् अनुपसम्पन्नेन हीनं वा नेत्रीभूतस्योच्चारणे धर्म्स्याक्षरस्यापि /(Vin_2.967)

/ उत्सृज्याकाम् असम्पत्तिम् /(Vin_2.968)

/ अनुशास्य पाठनम् /(Vin_2.969)

/ स्वाध्यायनिकां परि[18ब्5]वर्त्तनिकां परिपृच्छनिकां च /(Vin_2.970)

// [इति] वाचना // 5 //

**(vin_2,4,6) कुलदूषणम् /

/ संमन्येरन् पापयोर् भिक्षुभिक्षुण्योः कुलप्रतिसंवेदकम् /(Vin_2.971)

/ शृण्वन्त्वायुष्मन्तो कुलेषु कुलदूषका आश्रमेष्व् आश्रमदूषकास् तद्यथा सम्पन्ने शालिक्षेत्रे ऽशनिर्विचक्रा निपतेद् यावद् एव तस्यैव शालेर् उत्सादाय विनाशायानयेन व्यसनाय संपन्ने वा इक्षुक्षेत्रे मञ्जिष्ठि[19अ1]का नाम रोगजातिर् नियते[द्] यावद् एव तस्यैवेक्षोर् उत्सादाय विनाशायानयेन व्यसनाय मा यूयम् आयुष्मन्तो ऽनेन भिक्षुनानया भिक्षुण्या शासनं प्रमिणुत एष भिक्षुर् एषा च भिक्षुणी दग्धेन धाना अप्ररोहणधर्मा अस्मिन् धर्मविनये भगवन्तं पश्यत स्थविरस्थविरांश् च भिक्षून् श्निति कुलेषु कुलप्रतिसंवेदको ब्रूयात् /(Vin_2.972)

/ अनुत्सहमाने [19अ2] ज्ञप्तिं कुर्युः /(Vin_2.973)

// [इति] कुलदूषणम् // 6 //

**(vin_2,4,7) दुष्ठलारोचने /

/ अप्रतिसंविहितानुपसंपन्नत्वयोः श्रोतुः /(Vin_2.974)

/ आख्यातो पाराजिकसंघावशेषयोः /(Vin_2.975)

/ अकृतम् असम्मतेः /(Vin_2.976)

/ अज्ञप्ते संघे /(Vin_2.977)

// [इति] दुष्ठूलारोचनं // 7 //

**(vin_2,4,8) उत्तरमनुष्यधर्मारोचने /

/ सत्यतायाम् /(Vin_2.978)

/ अदृष्टसत्ये ऽनुपसम्पदि /(Vin_2.979)

/ नागारिकपुरस्ताद् ऋद्धिं विदर्शयेत् /(Vin_2.980)

/ न भिक्षुणी शास्तुः /(Vin_2.981)

// [इति] उत्तरमनुष्यधर्मारोचनम् // 8 //

**(vin_2,4,9) अववादे /

/ [19अ3] स्थैर्येण चेद् अर्थो ज्ञप्तिपूर्वकम् अर्थं कुर्युः /(Vin_2.982)

/ दत्तमहस्य /(Vin_2.983)

/ पुद्गलभिक्षुसंघाभक्तलाभस्य मिथ्यापरिणामकत्वेन भिक्षोर् अन्यत्राप्य् अनाम्ना चोक्तौ /(Vin_2.984)

/ अभूतार्थतायाम् /(Vin_2.985)

// [इति] अववादप्रायश्चित्तिकम् // 9 //

**(vin_2,4,10) वितण्डना /

/ विनयप्रतिसंयुक्तभाषमानावध्यानभूतायाम् उक्तौ /(Vin_2.986)

/ सूत्रान्तस्य दुष्कृतम् /(Vin_2.987)

// [इति] वितण्डना // 10 //

**(vin_2,4,11) अनुपरतावच्छेदने /

/ छेदयेन् नवक[19अ4]र्मिको वृक्षं स्तूपसंघार्थम् /(Vin_2.988)

/ प्राक ततः सप्ताष्टेषु दिवसेष्व् अतस् तस्य मण्डलकगन्धपुष्पदीपधूपबलिदानत्रिदण्डकं भाषणदक्षिणदेशनां कृत्वा या देवता ऽस्मिन् वृक्षे ऽध्युषिता सा ऽन्यद् भवनं समन्वेषत्वनेन वृक्षेण स्तूपस्य संघस्येति-करणीयं भविष्यतीत्य् उक्ता जानीहि वादेन /(Vin_2.989)

/ विकारश् चेद् अग्निमोक्षरुधिरस्यन्दनशाखाकम्पनपत्रशटनादिर् उदृश्येत पक्षे ऽत्र [19अ5] दानमात्सर्ययोः संवर्णनिविवर्णनं कुर्यात् /(Vin_2.990)

// [इति] अनुपरतावच्छेदनम् // 11 //

**(vin_2,4,12) बीजप्ररोहनाशने /

/ अविनष्टतायाम् /(Vin_2.991)

/ अकृतकल्पबीजप्रोद्भेदयोः /(Vin_2.992)

/ ओशीरकादौ विनाशने /(Vin_2.993)

/ यथाकथञ् चित् /(Vin_2.994)

/ धूननेनापि /(Vin_2.995)

/ अवष्टम्भेनापि तृणशादपांसुप्रभृतिभिः /(Vin_2.996)

/ उत्सर्गादिनापि /(Vin_2.997)

/ वातातपे ऽपि स्थापनेन /(Vin_2.998)

/ शुष्के ऽपि स्थण्डिले /(Vin_2.999)

/ तच्छन्देन स्वयम् अन्ये[19ब्1]न वा /(Vin_2.1000)

/ विनष्टो मूलीनां विनष्टापरिमाणानाम् /(Vin_2.1001)

gaṇḍataḥ /(Vin_2.1001)

/ दुष्कृतानां प्रयोगे /(Vin_2.1002)

/ प्रतिप्रहारम् अस्यात्र भेदो न वक्तुतः /(Vin_2.1003)

/ अन्तत्वं विरोढत्वे ऽपि निर्मुक्तेः /(Vin_2.1004)

/ तत्त्वम् उद्यारे जलाच्छेवालकटभयोः /(Vin_2.1005)

/ अन्धःसंपुटितास्थिनिगिलनं कारस्य /(Vin_2.1006)

/ साधु स्याद् यद्य् अयं छिद्येतेत्य् उक्तोर् नियुक्तिः /(Vin_2.1007)

/ अकारत्वम् ऋद्धेः /(Vin_2.1008)

/ तद्वत्त्वं बी[19ब्2]जान्तरत्वेन बीजस्य संज्ञाने /(Vin_2.1009)

/ त्वक्फल्गुपाण्डुपत्रपुष्पितपुष्पपक्वफलानाम् अर्धम् ऋततया व्यवहारः /(Vin_2.1010)

/ नानपेतस्यैषां प्रकृतेर् मूलभूतस्य /(Vin_2.1011)

/ अर्द्धजाततयोप्तस्यासंजातमूलस्य बीजधान[योः] /(Vin_2.1012)

/ क्षुप्यपर्यच्छत्रककाचिकागालचीवरादिपुष्पाणाम् अर्द्धप्रोद्भूतत्वेन /(Vin_2.1013)

/ तप्तपूषादिकोरणचंक्रमणशाखाद्याकर्ष[19ब्3]णमण्डलकामा ज्ञानतद् अभिप्रायतायाम् अनापत्तिः /(Vin_2.1014)

/ छेदने च कुशादेर् आपद्यवबधेन तेनासम्भवे मोक्षः /(Vin_2.1015)

/ अतश् चैकेनानेकत्वे /(Vin_2.1016)

/ नाबीजधर्मणो दो[ष?]क्ङृत्त्वम् /(Vin_2.1017)

/ संस्पर्शो ऽग्निना क्षतिः शस्त्रनखशूखैर्म्लान्युत्पाटन उत्दलनभिदुच्छित्तिर् इति कल्पाः /(Vin_2.1018)

/ नाबीजत्वगते कल्पने ऽपेक्षत्वम् /(Vin_2.1019)

/ नानग्नित्वम् अत्र वाष्पस्य /(Vin_2.1020)

/ [19ब्4] सम्यम्क्त्वसंख्याम् अग्निना कल्पने फलानां कल्पने समुदायरूपस्य तन्त्रीकरणम् /(Vin_2.1021)

/ नैकतः प्रदेशात् समुदायस्य सम्भावनोत्थानम् /(Vin_2.1022)

/ कृतत्वं कल्पानां भिक्षुकृत्यता /(Vin_2.1023)

/ भूमो चाकल्पिकायाम् /(Vin_2.1024)

/ नानभिक्षितं शीतेन वारिणा साप्ताहिकं यावज् जीवकम् अभ्यवहरेत् /(Vin_2.1025)

/ नाभिन्नम् एतेन यामिकम् /(Vin_2.1026)

// [इति] बीजप्ररोहनाशनम् // 12 //

**(vin_2,4,13) क्षेपणे /

/ [19ब्5] द्वादशानां पुद्गलानां कर्तृत्वम् /(Vin_2.1027)

/ असम्मतानाम् अपि /(Vin_2.1028)

/ प्रतिस्रब्धप्रयोगानां च /(Vin_2.1029)

/ अवध्याने वा स्वगतेनार्थेन सश्रुतं क्षेपे वा परव्यपदेशेन /(Vin_2.1030)

/ मौलस्य गणिते /(Vin_2.1031)

/ अन्यत्र दुष्कृतस्य /(Vin_2.1032)

/ नासमर्थम् अप्लस्याप्य् अधिवासनायामीरयेत् /(Vin_2.1033)

/ न स्वयम् एनं द्वेष्यः कर्मणि युज्जीत /(Vin_2.1034)

// [इति] क्षेपणम् // 13 //

**(vin_2,4,14) आज्ञाविहेठने /

/ [20अ1] न न गण्येयुश् चोदनताज्ञा तूष्णीं भावविहेठकोक्तपुद्गलसमुखावधायकपरव्यपदेशक्षेपकान् /(Vin_2.1035)

/ ज्ञापनेन /(Vin_2.1036)

/ भिक्ष्वाज्ञाविहेठने /(Vin_2.1037)

/ तच्छन्देन /(Vin_2.1038)

/ अन्योक्त्या दुष्कृतं तूष्णीम्भावेन /(Vin_2.1039)

/ न स्मरामीति च /(Vin_2.1040)

/ न चेद् दुःखम् आख्येयम् /(Vin_2.1041)

/ तस्माद् वध्यदर्शनपरिप्रश्ने वियप तावत् पानीयंतावत् पिब विश्राम्य तावन् न पश्यामि [20अ2] न खं वा परमार्थतः सत्त्वं नपश्यामि वध्यश् चेत् युक्ताव् अनापत्तिः /(Vin_2.1042)

/ न यत्र साक्षित्वेन करणम् आपतेत् तत्रावस्थानं भजेत /(Vin_2.1043)

/ नाकृतोवघातद्वारबन्धः साक्षेपं दद्यात् /(Vin_2.1044)

// [इति] आज्ञाविहेठनम् // 14 //

**(vin_2,4,15) शयासने /

/ मञ्चपीठवृशिकोचकबिम्बोपधानचतुरस्रकम् इति शय्यासनम् /(Vin_2.1045)

/ एकान्न पञ्चाशद् व्यामास्तदुपविचारः /(Vin_2.1046)

/ द्वारकोष्ठकात् परिवृते /(Vin_2.1047)

/ तद् अतिक्र[20अ3]माय विस्मृत्यापि प्रस्थानम् अन्तश् च स्वप्नसमापत्यादिना विपरोक्षीभावः /(Vin_2.1048)

/ प्राक् संभेदात् प्रयोगः /(Vin_2.1049)

/ संभेदे ऽतिक्रमश् च निष्ठानम् /(Vin_2.1050)

/ नैते कृतकारितो द्वारस्य /(Vin_2.1051)

/ नावलोकितभिक्षौ न संकटप्राप्तस्य /(Vin_2.1052)

/ कारकवद् भोगः /(Vin_2.1053)

/ द्वयोर् एकत्र निषादे पश्चाद् उत्थायिनः करणीयवत्ता /(Vin_2.1054)

/ समं चेन् नवकस्य /(Vin_2.1055)

/ तुल्यतायाम् उभयोः /(Vin_2.1056)

/ अलज्जिसा[20अ4]न्तरजीर्णग्लानानुपसंपन्नानाम् अनवलोक्यम् अत्र /(Vin_2.1057)

/ एष विहारः पश्य चेदं शयनासं गृहाण चापावरणीदानम् इत्य् अवलोकनानि /(Vin_2.1058)

/ संभेदास् त्रयो वातेन परिवर्त्तनं वृष्ट्या पुटान्तरप्राप्ति[ः] दीपिकाभिश् च /(Vin_2.1059)

/ शयनासनत्वं सांघिकता तस्य स्वयंनियुक्तकृततोपनिक्षेपस्याभ्यवकाश इति कर्तृणि /(Vin_2.1060)

/ मौलस्य निष्ठाने /(Vin_2.1061)

/ प्रयोगे दुष्कृतस्य /(Vin_2.1062)

/ [20अ5] एतत् तावत् कालम् अन्तरम् अन्येनाधिष्ठिते /(Vin_2.1063)

/ पौद्गलिके च /(Vin_2.1064)

/ उत्तरत्र च चतुष्के /(Vin_2.1065)

/ नैवास्पृश्यतायाम् /(Vin_2.1066)

/ पिण्डाय चेत् प्रविषज्याप्रविष्टे वातवर्षम् आगच्छेद् विहारस्थाः प्रवेशयेयुः /(Vin_2.1067)

/ आहृत्य प्रविष्टं आगच्छेत् /(Vin_2.1068)

/ नैतद् अर्थतायाम् अदोषो ह्वासो वा /(Vin_2.1069)

/ विस्मृत्य चेद् बहुसमतिक्रान्ताध्वनो गतो वा स्मृतिं लभेत न भूय एवं करिष्यामीति चित्तम् उत्पा[20ब्1]दयेद् वाचं च भाषेत /(Vin_2.1070)

/ प्रतिपथितञ् चेद् भिक्षुम् आरागयेदुधारायैनं प्रार्थयेत् /(Vin_2.1071)

/ कर्तृत्वं प्राप्ततायाम् अत्र येन प्रतिज्ञातं प्रक्रमिषन्नावसाद् असंकटप्राप्तो ऽभिसंक्षिपेत् शयनासनम् /(Vin_2.1072)

/ प्रस्फोट्य मलिनञ् चेत् /(Vin_2.1073)

/ अर्पयेतैनम् /(Vin_2.1074)

/ अवलोकनम् अन्य एव क्रुवीत भिक्षोः /(Vin_2.1075)

/ अभावे श्रामणेरस्य /(Vin_2.1076)

/ तस्यापि गृहपतेः /(Vin_2.1077)

/ सर्वाभावे चतुर्दिशं [20ब्2] व्यवलोक्यापावरणीं गोपयित्वा प्रक्रामेत् /(Vin_2.1078)

/ अन्तरमार्गे चेद् भिक्षुं पश्येत् तं प्रदेशम् अस्मै ब्रूयात् /(Vin_2.1079)

/ द्वारे चेद् अन्तर्गृहोपनिमन्त्रणायां बध आगच्छेत् कुड्यस्य मूले वृक्षस्य वा निधायाध्वनि प्रविशेत् /(Vin_2.1080)

/ दद्युस् तत्रासनानि /(Vin_2.1081)

/ न स्वयम् आनयेयुः /(Vin_2.1082)

/ आगारिकः श्रामणेराणाम् एतत् /(Vin_2.1083)

/ अभावे चावलोक्य गृहिणमानयना[20ब्3]र्थम् आगमनम् /(Vin_2.1084)

/ स्थापयेयुः गच्छन् वयम् आनेष्याम इति ब्रुवत्सु /(Vin_2.1085)

/ नि[ः]श्रयकरणीयैस् तैर् अनानीताव् आनयने /(Vin_2.1086)

/ अभावे स्वयम् /(Vin_2.1087)

/ सर्वतायां गण्डिम् आकोट्य /(Vin_2.1088)

/ दद्युर् विहारे /(Vin_2.1089)

/ निमन्त्रण्करेभ्यः स्वार्थं याच्ञ्[आ]याम् आसनानि /(Vin_2.1090)

/ भिक्षुश् चेषाम् आरक्षायै स्थापयेयुः /(Vin_2.1091)

/ एकान्ते ऽसौ तिष्ठेत् स्वकर्म कुर्व[20ब्4]न्न् अवधानदानञ् च /(Vin_2.1092)

/ प्रक्रान्तेषु प्रवेशनम् /(Vin_2.1093)

/ शोचनं नाशितानां वक्कसेनाद्भिः /(Vin_2.1094)

/ स्नेहिनोपस्नानेन /(Vin_2.1095)

/ अशुचिना मृदोषाटुकेन गोमयेन वा /(Vin_2.1096)

/ छित्तिर् अशुद्धौ वातस्य /(Vin_2.1097)

/ गृहिणा निषाद्य प्रवेशितस्य दृष्टः प्रवेश्यत्वम् /(Vin_2.1098)

/ जीरश् चेद् ग्लानो वोपधिवारिकस्य /(Vin_2.1099)

/ आख्येयत्वं तस्य /(Vin_2.1100)

/ ग्लानम् अवलोकयेत् सर्वः /(Vin_2.1101)

/ निषद्य /(Vin_2.1102)

/ न तत्रा[20ब्5]सनं गृहीत्वा गच्छेत् /(Vin_2.1103)

/ उपस्थायको ग्लानस्य तत्रासनान्य् उपस्थापयेत् /(Vin_2.1104)

/ कुशलपक्षापगच्छत्य् आचार्योपाध्याये न च चेद् अन्यथा वृद्धिः कुशलपक्षस्य पृष्ठतो गच्छेत् /(Vin_2.1105)

/ स्वयम् अस्मायासनं नयेत् /(Vin_2.1106)

/ नापृष्ट्वा गतिम् /(Vin_2.1107)

/ स्वयम् एव चैतद् आनयेत् /(Vin_2.1108)

/ अभ्यवकाशधर्मश्रवणे वातवर्षप्रवेशनं शयनासनस्य /(Vin_2.1109)

[21अ1] // स्वयम् अशक्तो गुरुतया वृत्तानां नवकैः सह परिवृत्तिः /(Vin_2.1110)

/ साकेन सार्धं [स्था]पयेयुः /(Vin_2.1111)

/ दद्युर् विहारान्तरे याच्यमानं शयनासनं वस्त्रञ् च /(Vin_2.1112)

/ न चेत् वृष्टिर् वर्षाशंकिता वा /(Vin_2.1113)

/ वातवर्ष न् चेद् अन्तर्मार्गे स्याद् वृक्षस्य मूले कुड्यस्य वा स्थलं कुर्युः /(Vin_2.1114)

/ प्रच्छादयेयुश् च वस्त्रेणैकेन प्रत्यवरेण /(Vin_2.1115)

/ विहारं नीत्वा वस्त्राणां शोषणं /(Vin_2.1116)

/ दग्धाव् उढौ च सां[21अ2]घिकस्यापि निष्कासनं /(Vin_2.1117)

/ वृत्ते स्वपात्रचीवरनिस्कासने /(Vin_2.1118)

/ निष्काषितस्य भिक्षुम् आरक्षायै स्थापयेयुर् असमर्थतरं /(Vin_2.1119)

/ नासाह्यतायां प्रविशेयुः // शयनासनप्रायश् चित्तिकं // (Vin_2.1120)

**(vin_2,4,16) संस्तरे

// कृतं संस्तरम् अन्तर्गृहे ..च् छोरयेयुर् अवलोक्य गृहपतिं*(Vin_2.1121)

/ अरणे विकोपयेयुर् वा /(Vin_2.1122)

/ कृतत्वम् अस्य शिरोन्ते पादान्ते वा कृतत्वे /(Vin_2.1123)

/ चीवरशोषना[21अ3]यापि तृणप्रज्ञप्तेश् छोर्यता /(Vin_2.1124)

/ दानं मृगयते प्रतिज्ञातच् छोरणाय /(Vin_2.1125)

/ प्रज्ञापयेयुच् चंक्रमेषु घृष्टोतलयोस् तृणानि /(Vin_2.1126)

/ तेषाम् अपि छोर्यतां /(Vin_2.1127)

/ उत्सर्गे छोर्यस्य छोरणम् अगतस्याकरणीयतां /(Vin_2.1128)

/ अन्यदा कालेन कालं प्रत्येवेक्षणं परिवर्तनञ् च /(Vin_2.1129)

/ स्निग्धमधुरमृत्तिके न्वहं /(Vin_2.1130)

/ अनुपक्षम् अन्यत्र /(Vin_2.1131)

/ अवबध्य र[21अ4]ज्वा वृक्षे वललम्ब्य चंक्रमे(यु)षु कक्षपिण्डकानां स्थापनं /(Vin_2.1132)

/ कर्परे गोमयं स्थापयेत्* /(Vin_2.1133)

/ प्राग् गतं प्राक् प्रक्रमिष्यन्त्य् अस्मात् तुल्यत्वं साह्योपभोगे /(Vin_2.1134)

/ तत्पतीनाञ् चासांघिके वलोक्यत्वं /(Vin_2.1135)

/ सांघिकविहारत्वम् अगडवालुकालिकताद्य् आत्मकःत्वं तत्र(Vin_2.1136)

[शूच्]आदीनवयोग्यत्वं भूमे स्वयंनियुक्तकृत(त)संस्तरस्योतकर्तृणि // संस्तरप्रायश् चित्तिक //

**(vin_2,4,17) विहारे

// [21अ5]भिक्षुत्वसांघिकविहारतयोः कर्तृत्वं /(Vin_2.1137)

/ न चेत् तत्संबाधसंघसंक्षोभजन्मानुपशमप्रतिचिकिर्षण्[ए] /#(Vin_2.1138)

/ परेणापि परानुवृत्या च /(Vin_2.1139)

/ शिक्षमाणश्रामणेरश्रामणेरिकाणां दुष्कृतस्य /(Vin_2.1140)

/ आसां च /(Vin_2.1141)

/ हास्येन च /(Vin_2.1142)

/ गृहिणाम् अपुण्यस्य बहुनः /(Vin_2.1143)

/ निष्कर्षणं // वृत(Vin_2.1144)

// आरूढतायां /(Vin_2.1145)

/ भिक्षुणा सांघिकविहारस्थानस्य /(Vin_2.1146)

/ [21ब्1]अनुप्रस्कन्द्य मुक्त्वा ग्लान्यभयवशताम् आरूढौ /(Vin_2.1147)

/ निदर्शनम् एतद् विहेठनछन्देन भिक्षोर् विहेठनानां /(Vin_2.1148)

/ अनुप्रस्कन्द्यापातः//(Vin_2.1149)

/ सांघिकविहारोपरिष्टतलकत्वं कर्तृ /(Vin_2.1150)

/ न चेत् पारिणामिकत्वं फलकतद्विधछद[न]ता वा /(Vin_2.1151)

/ कीलपादकत्वं ..[ड]चाक्रमणीयस्य /(Vin_2.1152)

/ मुक्त्वोत्तानतां /(Vin_2.1153)

/ दत्तप्रतिपादकत्वञ् च /(Vin_2.1154)

/ आक्रान्तौ // वृता(Vin_2.1155)

// [21ब्2] आहार्यपादकाहोह//(Vin_2.1156)

// स्वपरिभोगार्थ ततो न्यत्र /(Vin_2.1157)

/ सप्राणकोपभोगः //(Vin_2.1158)

// द्वारकोषदान संपादयेत्* /(Vin_2.1159)

/ अर्गडकानाञ् च /(Vin_2.1160)

/ वातायनानां मोक्षं /(Vin_2.1161)

/ विहारस्य कर्तृत्वं /(Vin_2.1162)

/ चतुष्टयस्येर्यपथानां [मा]त्रस्य /(Vin_2.1163)

/ न चेत् सर्वत्वेन शैलः पक्वशैलो दारुमयो वा /(Vin_2.1164)

/ छादनञ् चोदकत्राणेन /(Vin_2.1165)

/ कृतं पश्यामि निष्ठितं चेत्य् अनुक्तस्य [21ब्3]दानपतिना /(Vin_2.1166)

/ त्रयाद् ऊर्धम् इष्टकापर्यायदानसंपादने /(Vin_2.1167)

/ परेणापि /(Vin_2.1168)

/ तद्दिने /(Vin_2.1169)

/ अन्यत्रापि निष्कर्दमात्* /(Vin_2.1170)

/ अमुक्तत्वे चोदकभ्रमाणां /(Vin_2.1171)

/ अदत्तत्वे वा खातमूलपादस्य /(Vin_2.1172)

/ औपरिष्टस्य वा द्वारकोशस्य /(Vin_2.1173)

/ निर्दोषम् आद्यात् पूर्वं / विहारप्रायश् चित्तिकः // / वृत (Vin_2.1174)

**(vin_2,4,18) असम्मताववादे /

// अपराजितं सूत्रंविनयमातृकाधरम् अ[21ब्4]नुनविं*शतिवर्षं नागरलपितम् उपनामितकायत्वे भिक्षुण्या कृतप्रतिक्रियां भिक्षुण्यववादकं संमन्येरन्* /(Vin_2.1175)

/ पोषधे पञ्चदशाम् अन्तसीम्नि /(Vin_2.1176)

/ अभावे सूत्रादिधरस्य प्रवृत्तप्रातिमोक्षं /(Vin_2.1177)

/ तस्यापि पाराजयिकसंप्रकाशनं /(Vin_2.1178)

/ गुरुधर्माणाम् बा /(Vin_2.1179)

/ पश्चिमकः क[श्चि]द् वो भगन्यः /(Vin_2.1180)

/ समग्रो भिक्षुणीसंघः परिशुद्धसमवेतो नवद्यो मा [21ब्5]वः कश्चिद् असंमत<<ः>> संघेन पुद्गलो ववदते संघाद् व आगच्छति पुद्गलो ववादको न वः कश्चिद् उत्सहते भिक्षुर् अववदितुं संघाद् वो ववादानुशासनी अप्रमादेन भगिन्यः /(Vin_2.1181)

/ सम्पादयेतेत्य् अस्य /(Vin_2.1182)

/ मुक्त्वोत्तरधर्मप्रभाववन्तं /(Vin_2.1183)

/ एकेनापि विना तस्स<<अस>>म्मतस्य च भिक्षुण्य[व]वादेन पूर्वं सम्मत..स्यासम्मतत्वं /(Vin_2.1184)

/ निर्दोषम् अपूरौ संघस्यार्हस्य [22अ1] / / याच्ञायां /(Vin_2.1185)

/ तस्याञ् च // असम्मताववादः // वृत (Vin_2.1186)

**(vin_2,4,19) अस्तमिताववादे /

/ अस्तमितायां /(Vin_2.1187)

/ मुक्त्वा सर्वरात्रिकं धर्मश्रवणं भिक्षुण्यववादे /(Vin_2.1188)

/ न चेद् अपावृतद्वारस् तदा तत्भूतस्याग्रतो विहारस्य वर्षकः /(Vin_2.1189)

/ अस्तमिताववादः //

**(vin_2,4,20) आमिषकिञ्चित्काववादे /

/ कुर्याद् वैशारद्याय धर्मप्ररिपृच्छायां भिक्षो भिक्षुण्यामिषोपसंहारं /(Vin_2.1190)

/ अष्कुञ्चकपरिअ[22अ2]ट्टिक्[अ]लोठकम् उरूचिकानाञ् च /(Vin_2.1191)

/ गृह्णीतादो भिक्षुः /(Vin_2.1192)

/ भिक्षोर् अतथाभूतस्यामिषकिञ्चितकहेतोर् भिक्षुणीर् अववदतीति विवादे // आमिषकिञ्चित्काववादः // वृत (Vin_2.1193)

**(vin_2,4,21) चीवरकरणम् /

// अज्ञातिकतायां भिक्षुण्याः /(Vin_2.1194)

/ स्युतौ चीवरस्य // चीवरकरणं // वृत (Vin_2.1195)

**(vin_2,4,22) चीवरप्रदाने /

// दत्तौ /(Vin_2.1196)

/ अपटकप्रदाने /(Vin_2.1197)

/ न चेत्* मूषितायै सौभाषिणिकस्योपसंपद्यमानायै परि[22अ3]वर्तकेन वा // चीवरप्रदानं // (Vin_2.1198)

**(vin_2,4,23) भिक्षुणीकजलयानोढौ /

/ वाहयेयुः पाथेयं /(Vin_2.1199)

/ कल्पकारकल्पकारीश्रामणेरश्रामणेरीभिः /(Vin_2.1200)

/ न्याय्यम् इतरेतरपथेयवहनं भिक्षुभिक्षुणीनां /(Vin_2.1201)

/ अन्यो न्यप्रतिग्राहणञ् च /(Vin_2.1202)

/ न ग्लानं /(Vin_2.1203)

/ सब्रह्मचारिणम् अध्वनि छोरयेयुः /(Vin_2.1204)

/ वहेयुर् एनं /(Vin_2.1205)

/ एव[ं] भिक्षुण्यः /(Vin_2.1206)

/ कुर्युर् अत्र परस्परं साहा[22अ4]य्यःं* /(Vin_2.1207)

/ शिरोन्तग्रहणेन /(Vin_2.1208)

/ ग्रामप्राप्तानाम् अदोषं प्रक्रमणं /(Vin_2.1209)

/ समुदानीय ग्लानभैषज्यपिण्डपादञ् च /(Vin_2.1210)

/ एकं <<च>> सरूपम् उपस्थायकं स्थापयित्वा /(Vin_2.1211)

/ मुक्त्वो सभयतायां मार्गस्यैकसार्थपालम् अभिन्नप्रयाणतायाम् एकभिक्षुण्यापि मार्गातिवाहने/(Vin_2.1212)

/ प्रतिक्रोषं /(Vin_2.1213)

/ प्रतितदर्धदुष्कृतं //(Vin_2.1214)

/ सभिक्षुणीकाध्वोरूढि //(Vin_2.1215)

// [22अ5]सान्तरायतायाम् उभयकुलस्योच्छृज्या सम्बिधौ युगपद् एकनावा तिर्यक्पारसंतरणाद् अन्यत्र /(Vin_2.1216)

/ वङ्कवटवर्तपरिहृतिकर्णयष्टिदण्डवंशावभङ्गकर्णधारवशाच् च तदर्थारूढौ प्रस्थानान्तरात्* // सभिक्षुणीकजलयानोढि // (Vin_2.1217)

**(vin_2,4,24) एकस्थाने /

/ स्त्र्येकाकितारहस्त्वम् अप्रवृत्तजनप्रचारतया प्रदेशस्य /(Vin_2.1218)

/ साधारणत्वम् अन्तर्व्यामता वेति कर्तृणि /(Vin_2.1219)

/ [22ब्1]निषदने /(Vin_2.1220)

/ आनिषादप्रतिष्ठापनम् एतत्* /(Vin_2.1221)

/ एकनिषद्या /(Vin_2.1222)

/ भिक्षुण्यास्थाने // एकस्थानं // वृति (Vin_2.1223)

**(vin_2,4,25) पाचितोपभोगे /

/ भिक्षुणीपरिपाचितायां /(Vin_2.1224)

/ अभूतैर् गुणैः /(Vin_2.1225)

/ अकृतनिमन्त्रणके /(Vin_2.1226)

/ कृते चातिरिक्तस्य /(Vin_2.1227)

/ अभ्यवहार्यस्य /(Vin_2.1228)

/ प्रतिपत्तिसंपत्त्या /(Vin_2.1229)

/ तच्छ्रुतेन वा /(Vin_2.1230)

/ अभ्यवहारे कण्ठेनैतद् एषः /(Vin_2.1231)

/ ह्रासकृत्वं परार्थस्य /(Vin_2.1232)

/ [22ब्2]देहि चोक्तेः पिण्डाय प्रविष्टे //(Vin_2.1233)

// पाचितोपभोगः //

**(vin_2,4,26) परंपराभोजने /

/ अधिवासयेद् भक्तोपनिमन्त्रणम् अन्तर्गृहे पि /(Vin_2.1234)

/ कालं ज्ञात्वा प्रविशेयुः न सा[त्]रकालं /(Vin_2.1235)

/ गण्डीं* दत्त्वा /(Vin_2.1236)

/ स्वपर्षदं तत्रावलोकयेत्* /(Vin_2.1237)

/ आकन्तुकं स्थविरः /(Vin_2.1238)

/ न सहसा भक्तछेदं कुर्यात्* /(Vin_2.1239)

/ तिष्ठेयुर् याचमानाः पानकाय /(Vin_2.1240)

/ समं पश्चाद्* वानुपेतचीवर[22ब्3]लाभद्वितीयनिमन्त्रणकलब्धिः /(Vin_2.1241)

/ भोजनीयेन /(Vin_2.1242)

/ अन्तर्गतेन पञ्चके /(Vin_2.1243)

/ अनेनैव चेद् अन्यत्* /(Vin_2.1244)

/ अग्लानस्याकृतकर्मणो नूढस्याध्वनि /(Vin_2.1245)

/ अधिवासनायां दुष्कृतस्य /(Vin_2.1246)

/ अभ्यवहारे मौलस्य /(Vin_2.1247)

/ समसामन्तकात्* पर्यन्तभूतं चीवरं /(Vin_2.1248)

/ अध्वार्धयोजनं /(Vin_2.1249)

/ अन्यत्रापि /(Vin_2.1250)

/ अत्र वा नौगमने वा(Vin_2.1251)

[22ब्4]संमार्जनं किलिञ्ज[मा]त्रस्योपलेपो गोपिटगमात्रस्येति कर्म /(Vin_2.1252)

/ सांघिकता स्तौपिकत्वे चास्य /(Vin_2.1253)

/ अशक्तिर् ग्लान्यस्य परिमाणं /(Vin_2.1254)

/ अनिमन्त्रणकत्वं प्रज्ञप्त्[ए]ः /(Vin_2.1255)

/ संदर्शनस्य च /(Vin_2.1256)

/ असत्वं विहेठनकृतस्य /(Vin_2.1257)

/ सांघिकस्य [चा]तदौद्देशिकस्य निक्षिपे चान्यत्र पञ्चके /(Vin_2.1258)

/ धर्मत्वम् अस्य /(Vin_2.1259)

/ ग्रहणे प्य् अन्यस्य स्वीकरणं दुःभिक्षो [22ब्5]आवत् संपत्तिनिमन्त्रणकानां /(Vin_2.1260)

/ भुक्तिश् च /(Vin_2.1261)

/ दानम् बा /(Vin_2.1262)

/ अ<<न>>भिरुचिसंभावने दातुर् द्वित्रिग्रासाभ्यवहाराद् ऊर्धं गृहपते यं भिक्षुः पिण्डकेन विहन्यते नुमोदम्बा<<स्वा>>स्मै ददामीत्य् अभिरोच्य // परंपरभोजनं // (Vin_2.1263)

**(vin_2,4,27) आवसथपरिभोगे /

// अनेदंधर्मकः सगृहिस्वामिको सर्वपाषाण्डिक आवासथः /(Vin_2.1264)

/ अग्लानस्याप्रवारितस्य दानपतिना //(Vin_2.1265)

[23अ1] / / भुक्तिवतस् तदीयम् अभ्यवहारं मौलस्य /(Vin_2.1266)

/ उषितवतो वासे दुष्कृतस्य /(Vin_2.1267)

/ अस्वामिकश् च <</>>(Vin_2.1268)

<</>> तीर्थ्यवत्त्वम् अत्रैदं प्रव्रज्यस्य /(Vin_2.1269)

/ ज्ञातेश् च // आवसथपरिभोगः // (Vin_2.1270)

**(vin_2,4,28) अतिरिक्तग्रहणे /

// प्रवारयतः /(Vin_2.1271)

/ अप्ररिमितं /(Vin_2.1272)

/ अकृतयथासुखस्य /(Vin_2.1273)

/ गृहिणः /(Vin_2.1274)

/ अर्धपञ्चमानां पक्वत[ण्डु]लमागधकप्रस्थापरिमाणानां [23अ2] प्रस्थानाम् उत्सृज्य व्यञ्जनम् ऊर्धं सहापि सहायप्रत्यंशेन पिण्डपातः /(Vin_2.1275)

/ अभ्यवह्रिकताव् उत्कृष्य /(Vin_2.1276)

/ अत्र दुष्कृतस्य/(Vin_2.1277)

/ परकृते च /(Vin_2.1278)

/ अन्यथानापत्तिः /(Vin_2.1279)

/ असंष्कृतस्य च /(Vin_2.1280)

/ ग्राह्यात् प्रभूतञ् चेत् भिक्षुं संविभजेत // द्वित्रपात्रपूरातिरिक्तग्रहणं // (Vin_2.1281)

**(vin_2,4,29) निरिक्तकरणे /

// भुञ्जीद् यावद् आप्तं /(Vin_2.1282)

/ नोत्तिष्ठेत् विप्रकृतामिषः /(Vin_2.1283)

/ यावतोस् ता[23अ3]वतो यस्य कस्यचिद् आलवणम् अभ्यवहार्यस्यादाने तद्विधत्वं /(Vin_2.1284)

/ स्थानोत्सर्ग<<ः>> प्रवारणं /(Vin_2.1285)

/ निषण्णस्य /(Vin_2.1286)

/ विप्रकृतमूलखादनीयाद्यामिषस्य /(Vin_2.1287)

/ मूलगण्डपत्रपुष्पफलखादनीयेभ्यो न्यपैयाच् च कल्पिकम् असंसृष्[ट]म् अकल्पिकेनाभ्यवहार्यम् अभिसंभवनीयप्रदेशस्थस्य प्रतिग्राहयतो निवाणं कृत्वा /(Vin_2.1288)

/ देहीत्य् अस्येतत्* /(Vin_2.1289)

/ [23अ4]गच्छेत्य् अपि /(Vin_2.1290)

/ भुक्तम् इति च /(Vin_2.1291)

/ न च तावत् शब्दोपसन्धाने /(Vin_2.1292)

/ पर्याप्तम् इत्य् अपि /(Vin_2.1293)

/ स्थानस्य कला[च्]इकया ऊर्धम् असंपादकत्वे यवाग्वाः पेयत्वं /(Vin_2.1294)

/ तर्पणस्याप्रज्ञायमानपंचाङ्गुलस्य /(Vin_2.1295)

/ अप्रतिग्राहणत्वं विहेठनस्य /(Vin_2.1296)

/ न बहिःसीमान् अभिसंभावनीयप्रदेशान् अग्रतस्[थ्]ए निरिक्तकरणस्योत्[थ्]आनं? /(Vin_2.1297)

/ नापाणिस्थ[ं] क[23अ5]रणीये /(Vin_2.1298)

/ अकरणीयत्वम् अकल्पिकस्य संसृष्टस्य वा तेन /(Vin_2.1299)

/ अनुत्सृष्टस्य स्थानस्य कर्तृत्वं /(Vin_2.1300)

/ कृतवतो पि संकल्पम् अभोजने /(Vin_2.1301)

/ याचितस्य /(Vin_2.1302)

/ गच्छ तवैव भवत्व् इति वचनं करणम्* /(Vin_2.1303)

/ यथासुखं परिभुंक्ष्वेत्य् एके /(Vin_2.1304)

/ द्वित्रान् अभ्यवहृत्यालोपं /(Vin_2.1305)

/ न निर्वृतक्रियः परिभुञ्जीत्* /(Vin_2.1306)

/ भु न्जितान्यस्य कृतनिरिक्तम्* / /(Vin_2.1307)

[23ब्1] वृत्*

**(vin_2,4,30) एकासनभोनजे /

// प्रवारितत्वाकृतनिरिक्तत्वयोः /(Vin_2.1308)

/ अभ्यवहृतौ /(Vin_2.1309)

/ आमिषमात्रस्य / एकासनभोजनं // वृत्* (Vin_2.1310)

**(vin_2,4,31) प्रवारितनियोगे /

// नियोगे स्यां भिक्षोः // प्रवारितनियोगः // वृत (Vin_2.1311)

**(vin_2,4,32) गणभोजने /

// प्रतिनियतभक्तावासेकेभ्यो न्यैर् अन्तःसीमस्थैर् भिक्षुभिः संघभूतैर् असहभक्ततायां /(Vin_2.1312)

/ सहितस्य /(Vin_2.1313)

/ सहभोक्तृतया /(Vin_2.1314)

/ त्रयादिना /(Vin_2.1315)

/ भिक्षूणां यद्विधस्याची[23ब्2]वरद्वितीयभक्तलब्धेर् अनूढस्य च नावा /(Vin_2.1316)

/ महासमाजाद् अन्यत्र /(Vin_2.1317)

/ अन्यास्यानिदं लिङ्गप्रव्रजितभक्तात्* /(Vin_2.1318)

/ अभ्यवहार्[ए] स्थिततत्रागन्तव्यताना<<म् अ>>न्तःसीमास्थानाम् अपि पृच्छ्यागतत्वं /(Vin_2.1319)

/ भुक्तिर् अर्धातिक्रमः /(Vin_2.1320)

/ संचारणे स्तोकस्यापि /(Vin_2.1321)

/ यस्य कस्यचिद् एकभक्तत्वं /(Vin_2.1322)

/ न गमिकागन्तुकग्लानतदुपस्थायकोपधिवारिकाद् अन्यो य[23ब्3]वनोपन्वाहाराद् अभुक्ततायां म? सर्वैर् उत्कृष्ट्य भुञ्जीत्* /(Vin_2.1323)

/ गणभोजनं //

**(vin_2,4,33) अकालभोजने /

/ स्वमध्याह्नाह्नपर्यन्तारुणोत्गत्यन्तरम् अकालः /(Vin_2.1324)

/ तत्वे वृत्* /(Vin_2.1325)

/ खादनीयभोजनीयाभ्यवहारे // अकालभोजनं // (Vin_2.1326)

**(vin_2,4,34) सन्निहितवर्जने /

/ पूर्वभक्ते प्रतिग्राहितं पश्चात् भक्ते तत्र यामातिक्रान्तम् इति सन्निहितं /(Vin_2.1327)

/ नोद्गृहीतं* गिलेत्* /(Vin_2.1328)

/ न पक्वम् उषितम् बान्तःसीम्नि /(Vin_2.1329)

/ भिक्षुपक्वञ् च /(Vin_2.1330)

/ सो त्र पाको य आमस्य /(Vin_2.1331)

/ तत्वम् अमृदूनां प्राक् त्रिभागोत् स्विन्नत्वात्* /(Vin_2.1332)

/ वर्णपरिवृत्तेर् मृदूनां /(Vin_2.1333)

/ द्रवाणां द्वितीयम् उत्थितत्वात्* /(Vin_2.1334)

/ न्[आ].इना कल्पकरणं न पाकः /(Vin_2.1335)

/ न जन्मा[य]त्तनिर्मितत्वं वासस्यानुषितत्वं /(Vin_2.1336)

/ प्रदेशस्थतयापि पात्रस्य तत्भूमिपक्वता /(Vin_2.1337)

/ न पक्तुस् त[23ब्5]त्गतत्वेनं /(Vin_2.1338)

/ नाग्नेर् अपात्रत्वं /(Vin_2.1339)

/ न ततो निष्कृष्टनिर्गतयोस् तत्त्वं /(Vin_2.1340)

/ वासत्वम् उपविचा[र्]अस्य /(Vin_2.1341)

/ व्यामं /(Vin_2.1342)

/ ऊर्धञ् च वियतस् संभाव्यस्य /(Vin_2.1343)

/ अभ्यन्तरस्य च /(Vin_2.1344)

/ तत्वं पुरान्तरस्योपरिष्टस्य /(Vin_2.1345)

/ नान्याधिष्ठितत्वे न्यवासत्वं /(Vin_2.1346)

/ न यावज् जीविकानाम् उत्गृहीतान्तःपक्वभिक्षुपक्वेषु तत्प्रतिशेधे संशितत्वं का[24अ1]लं प्रति /(Vin_2.1347)

/ अर्धामिषत्वं परिशुद्धे /(Vin_2.1350)

/ पानादयो मलस्यास्ये /(Vin_2.1351)

/ बहिरस्य गोमयेन मृदा वा परिघृष्टोदकेन सम्मार्गो निर्मादनं /(Vin_2.1352)

/ अन्तद्वित्रोदकगण्डूषछोरणं /(Vin_2.1353)

/ निर्मादितत्वम् आशयतो द्वित्रवधिकं दाने विस्वनतो पि पात्रस्य /(Vin_2.1354)

/ निर्दोषं विरलने /(Vin_2.1355)

/ निष्परिगोधे च संस्पर्शे /(Vin_2.1356)

/ प्रक्षालितस्य च त्रिर् उषगोमयमृत्तिका[24अ2]न्यतरेणास्निग्धतायां /(Vin_2.1357)

/ अपनेयत्वम् उत्थितस्य /(Vin_2.1358)

/ तस्यैव प्रदेशपरिगोधे प्रक्षाल्यत्वम्* /(Vin_2.1359)

/ निःस्नेहतायै स्निग्धस्य च घटादेर् गम्भीर उदके ह्रदे निधानं /(Vin_2.1360)

/ आमत्स्यकच्छपमण्डूकशिशुमारवुल्लकैर् निर्लेहाधारणं /(Vin_2.1361)

/ दारुतो पि निःस्नेहतापत्तिः /(Vin_2.1362)

/ निर्मादने निःस्नेहितस्योषाटुकेन गोमयेन वा शुद्धत्वं /(Vin_2.1363)

/ अर्धत्वम्* [24अ3] लवणक्षारकलुषोदकभूतस्य लवणादेः /(Vin_2.1364)

/ कल्पमानता च सर्वस्याकाले /(Vin_2.1365)

/ असत्त्वम् अकरणे लवणक्षारयोः स्वकार्यस्य /(Vin_2.1366)

/ उत्पत्तौ प्रतिबिम्बस्योत्तरस्य /(Vin_2.1367)

/ कटकफलेनाम्भसः स्वाच्छ्योपगमनं/(Vin_2.1368)

/ क्षारेण सक्तुपिण्ड्या /(Vin_2.1369)

/ स्नेहनम् अविशरणायास्याः /(Vin_2.1370)

/ नाप्रज्ञायमानस्य सत्संख्य[24अ4]त्वम् आकरेष्व् अनुप्रविष्टस्य /(Vin_2.1371)

/ प्रदेशव्यवकरे तस्यैवापनेयत्वं /(Vin_2.1372)

/ चञ्चुना काकेन स्पृष्टतायां सामन्तकस्य /(Vin_2.1373)

/ न तत्संयुक्तधारा स्पृष्टौ न तस्य स्पृष्टता /(Vin_2.1374)

/ न भ्रान्त्या स्मृतिप्रमोषेण वा /(Vin_2.1375)

/ नाभ्यां च्यावितस्य स्थापने /(Vin_2.1376)

/ स्वल्पतरम् अन्तरं स्थानम् उपनयेत्* /(Vin_2.1377)

/ न वैतरिके नोद्गृहीतत्वं प्रतिग्राहित वा /(Vin_2.1378)

/ नानयेत् प्रतिग्रा[24अ5]हणार्हसम्बन्धस्य ग्रहणं /(Vin_2.1379)

/ सम्बद्धत्वं तेनान्तरवादिसंबद्धतायां /(Vin_2.1380)

/ एकत्वं सन्निहितप्रतिगृहीतोत्गृहीतेषु तुल्ययो संवरेणाभिन्नदृष्ट्योः /(Vin_2.1381)

/ परेण चावरस्य /(Vin_2.1382)

/ गृहिवत् स्त्रीपुंसयोः परस्परम्* /(Vin_2.1383)

/ श्रामणेरिय स्पृष्टवा गोपनात् तद्वद् दोषकारी /(Vin_2.1384)

/ न सापेक्षेण दत्तस्योत्सृष्टत्वं /(Vin_2.1385)

/ अर्धत्वं निरपेक्षोत्सृष्टस्य सापे[24ब्1]क्षतायां तस्मान् नेतद् याचेत /(Vin_2.1386)

/ न गृह्णीत जानन्* /(Vin_2.1387)

/ नाकल्पिकत्वं भागनयने स्पृष्टौ नीतस्य प्रवेशने तद्रूपेषु प्रत्ययेषु /(Vin_2.1388)

/ वाहासनं शकटे वर्ज्यत्वं /(Vin_2.1389)

/ पूरणे पि /(Vin_2.1390)

/ ग्लानाधिरोहे च /(Vin_2.1391)

/ कर्णस्य नावि /(Vin_2.1392)

/ आसनस्य च तद्धारणार्थस्य /(Vin_2.1393)

/ सांघिकौषधयोश् चोद्वलतोर् घट्टनापनयनेनाग्निनिर्वापणेन चीवरकर्णकादि[24ब्2]भिर् वा तदानेनेत्यादौ प्रयतनं /(Vin_2.1394)

/ कल्पिकम् असम्पत्तौ विधेर् नदीसंतारणार्थं नेतरि च संप्रापणार्थम् उद्गृहीतम् अभावे न्यस्य पथ्यदनं /(Vin_2.1395)

/ उत्साहनम् अभावे वाढुरस्य दानपतेः /(Vin_2.1396)

/ वहनम् असम्पत्तौ स्वयं(Vin_2.1397)

/ संपादनञ् च तत एव दानपरिवर्तग्राह्यस्य /(Vin_2.1398)

/ भोज्यत्वम् अस्याप्य् असंपत्ताव् अन्यस्य /(Vin_2.1399)

/ अप्रतिग्राहितस्य च प्रतिग्राहकाभावे ऽस्य चान्यस्य वा [24ब्3] कृतभक्तच्छेदस्य /(Vin_2.1400)

/ प्रथमे ह्ने व्याघ्रम् उष्टेः /(Vin_2.1401)

/ द्वयोः द्वितीये /(Vin_2.1402)

/ तृतीये यावद् आप्तम्* /(Vin_2.1403)

/ भोज्यत्वं फलानाम् अकाले प्य् अकृतकल्पानाम् अप्य् अप्रतिग्राहितानां च /(Vin_2.1404)

/ निर्भक्तस्य /(Vin_2.1405)

/ तैव्र्ये क्षुदः /(Vin_2.1406)

/ मूलानाञ् च /(Vin_2.1407)

/ स्वयं च पातनोत्पाद्यते साह्यत्वं च /(Vin_2.1408)

/ उत्तरकौवरप्रसिद्धेः सर्वत्राप्रतिग्राहीतोप[24ब्4]भोगादौ प्रारिप्सायाम् अभिध्यानं/(Vin_2.1409)

/ न करके पानीयं पिबेत् संभवे हस्तनिर्मादनपत्रयोः /(Vin_2.1410)

/ असम्भवे चाप्रतिग्रस्तम्* /(Vin_2.1411)

/ नास्य सजलतायाम् अपि तत्त्वं* भजेत्* /(Vin_2.1412)

/ त्रैविध्यम् अस्य पिधानके /(Vin_2.1413)

/ काष्ठमयं शैलमयम् मृन्मयम् इति /(Vin_2.1414)

/ धारयेत् करकस्थालकम् /(Vin_2.1415)

/ काष्ठमयं शैलमयम् वा /(Vin_2.1416)

/ निर्दोषं भा[24ब्5]जनत्वोपयोगे पत्राणाम् अप्रतिग्राहितत्वं /(Vin_2.1417)

/ अविशेषो त्र मुक्तामुक्तयोः /(Vin_2.1418)

/ उपयोजनम् असम्भवे न्यस्यामुक्तानाम्*(Vin_2.1419)

// [इति] सन्निहितवर्जनम् // 34 //

**(vin_2,4,35) प्रतिग्राहितभुक्तौ /

/ भुञ्जीत त्यक्तम् आशयतो दात्रान्यप्रतिग्राहकाभावे स्वयं प्रतिगृह्य /(Vin_2.1420)

/ सम्मुखान्तःसीम्न्य् अतिसंभवनीये प्रदेशे वस्थिते नोत्तानपाणिना काये तत्संबद्धे चोद्ग्रहणसमर्थतो ऽनुपसं[25अ1]पन्नाद् अमनुष्याद् अपि दित्*शेयाङ्गेन तत्सं*बंधेन चोत्सृष्टस्य प्रतीष्टिः प्रतिग्रहः /(Vin_2.1421)

/ जैगुप्स्यतायां जनपदस्योपनिक्षिपेत्युपदर्शिते मण्डलके ऽपि /(Vin_2.1422)

/ एक्यं पात्रतदधिष्ठानयोः /(Vin_2.1423)

/ गोचरः शाखामर्कटानां न ततस् तान् प्रत्यनभिसंभवनीयत्वं भूमेः /(Vin_2.1424)

/ न फलानां पञ्चपीठिकोत्संगपात्राधिष्ठानैः प्रतिग्रहप्रतीष्टेर् अन्याय्यत्वम्* /(Vin_2.1425)

/ [25अ2] निःश्रितैर् एषां प्रत्यवेक्षणं तूष्णींभावेन /(Vin_2.1426)

/ समप्रवृत्तिं चारकं* रोचयेयुः /(Vin_2.1427)

/ न्याह्यम् भिक्षोश् चारकत्वं प्रतिग्राहित्वस्य /(Vin_2.1428)

/ घृततैलमधुफाणितघटांश् चारयंस् तृणपत्रप्रभृतिश् चीवराणि व्यवदध्यात्* /(Vin_2.1429)

/ पृथक् चार्ये ज्येष्ठमध्यमकनीयसां करणम्* /(Vin_2.1430)

/ पृथक् कृत्य मृष्टाम्राणां चारणं* /(Vin_2.1431)

/ चारकस्याचार्य उपाध्यायो वा प्रति[25अ3]गृह्णीयात्* /(Vin_2.1432)

/ अप्राप्यप्राप्ताव् अनन्तरस्थानः /(Vin_2.1433)

/ अनेकत्वे यावताम् आसनमुक्त्वा प्रतिग्रहीतुं शक्तिः /(Vin_2.1434)

/ लुठितस्य शक्यतायां स्वयम् अमुक्त्वा स्थानं ग्रहीतुम् अध्वंसः प्रतिग्राहस्य /(Vin_2.1435)

/ स्पृष्टस्य च मक्षिकाकीटिकादिभिः /(Vin_2.1436)

/ अन्येनास्य मुक्तस्य भिक्षुणा /(Vin_2.1437)

/ ध्वंशकृन् मूषिकः /(Vin_2.1438)

/ न प्रतिग्राहि[25अ4]कःतप्रतिग्रहणम् अन्याय्यम् /(Vin_2.1439)

// प्रतिग्राहितभुक्तिः] // वृत // 35 //

**(vin_2,4,36) अप्रतिग्राहितभुक्तौ /

/ अप्रतिग्राहितायां /(Vin_2.1440)

/ उत्सृज्योदकदन्तकाष्ठम् आहार्यस्य /(Vin_2.1441)

/ मुखेनाभ्यवहारे /(Vin_2.1442)

/ अनुत्तरकुरौ /(Vin_2.1443)

/ प्रतीष्ठ्यद् ग्लानो नुपसम्पन्नेन भोजनम् अभाव उपसंपन्नस्य /(Vin_2.1444)

/ भोजयेद् अनुपसंपन्नम्* /(Vin_2.1445)

// [इति] अप्रतिग्राहितभुक्तिः // 36 //

**(vin_2,4,37) प्रणीतविज्ञापने /

/ क्षीरं दधि नवनीतं मत्स्यं मांसम्* वल्लूरा [25अ5] इति प्रणीतभोजनं /(Vin_2.1446)

/ एतत् कर्तृत्वं अज्ञातिगृहीता च दातुः /(Vin_2.1447)

/ स्वविज्ञप्त्याभ्यवहृतौ विज्ञप्तौ कारितत्वे चास्या दुष्कृतस्य /(Vin_2.1448)

/ अग्लानस्याकृतयथासुखप्रवारणस्य /(Vin_2.1449)

/ तस्माल् लभमानस्यापि चेद् अन्यल्लूहं प्रणीतम् वा समं प्रकृष्टं वा विज्ञप्तिः /(Vin_2.1450)

/ अर्धतास्मिन्* लूहस्य /(Vin_2.1451)

/ यथासुखप्रवारणत्वं भिक्षयादाय निर्गतेन [25ब्1] तूष्णीम्* तिष्ठतः प्रतिक्षिप्तो वा तत् किं* याचस इति / प्रस्नस्य (Vin_2.1452)

// [इति] प्रणीतविज्ञप्तनं // 37 //

**(vin_2,4,38) सप्राणकोपभोगे /

(क) विभङ्गगतम् /

/ स्वोपभोगार्थत्वे प्रवृत्तिप्रवर्त्तणयोः / वृत /(Vin_2.1453)

/ सप्राणितायां /(Vin_2.1454)

/ उदकं सर्प्पिस् तैलमधुफाणितक्षीरदधिनवनीतशुक्तशुलुकदधिमण्डकांचिकफलखाद्यकादेर् उपयोज्यस्य /(Vin_2.1455)

/ दृश्यैः /(Vin_2.1456)

/ मृतौ /(Vin_2.1457)

/ प्रतिप्राणि उपभोगः शरीर उपयोगः /(Vin_2.1458)

/ तद्यथा [25ब्2] स्नानं* पानं* दन्तकाष्ठविसर्जनं* हस्तपादप्रक्षालनं* /(Vin_2.1459)

/ उपकार्ये स उपयोगो य उपकरणेषु /(Vin_2.1460)

/ अभ्यवहार्यपात्रचीवरस्थानदन्तधावनाग्निप्रभृतीनि शरीरोपकरणानि <</(Vin_2.1461)

/>> तेषां मृद्गोमयरङ्गतृणकाष्ठप्रभृति /(Vin_2.1462)

/ तेषु उपयोगस् तद्यथा निर्मादनं भावनं* रञ्जनं* सेकः सम्*मार्ग उपलेपः /(Vin_2.1463)

/ यूषमण्डयवागू[25ब्3]नां कारणं /(Vin_2.1464)

/ बन्धमोक्षयोर् उदकमार्गस्य /(Vin_2.1465)

/ काष्ठप्लवयोः क्षेपाकर्षणोत्पाटनानां /(Vin_2.1466)

/ अकपलसकाद् अन्येन रोमविधादिना स्नानं* /(Vin_2.1467)

/ तेनास्य हि रिक्तप्राणकधाताव् उदक इत्य् अपि प्रयोगाः(Vin_2.1468)

// सप्राणकोपभोगः, विभङ्गगतः //

(ख) क्षुद्रकादिगतम् /

/ धारयेद् दण्डपोण* /(Vin_2.1469)

/ दत्तप्रत्येष्ट्यभाण्डोत्त्माकाशावस्थाप्याकीर्यमाणपव्यजलप्र-[25ब्4]त्येष्ट्यपवित्य असम्*<<जनना>>यमार्थय लहकण्टकरस् त्रिदण्डस् तदाख्यः /(Vin_2.1470)

/ स्थानार्थं जलस्यास्तृतेः परिश्रावणे दानम् /(Vin_2.1471)

/ वालुकया गोमयेन वा /(Vin_2.1472)

/ धारणपात्रस्य वा /(Vin_2.1473)

/ मृत्ताम्रमयोर् अन्यतरस्य /(Vin_2.1474)

/ त्रिदण्डयष्ट्याम् अस्य बन्धनम्* /(Vin_2.1475)

/ सम्*गृह्य रन्ध्रे सूत्रकेण पूर्वस्य /(Vin_2.1476)

/ उत्तरस्य श्लक्ष्णसृङ्खलिकया /(Vin_2.1477)

/ धारणम् अस्य /(Vin_2.1478)

/ कम्पिक[25ब्5]या मुहुर्मुहुरतानेस्त्रपरिश्रावणस्य पराघातः /(Vin_2.1479)

/ अल्पप्रयत्नेन र<<व>>णं* /(Vin_2.1480)

/ धारणम् अस्य /(Vin_2.1481)

/ मृदस् ताम्रस्य वा /(Vin_2.1482)

/ कुम्भकृत्य् एतद् अधोनाडिषु पुस्करवदन्तरविवरं* /(Vin_2.1483)

/ नदुकस्यैषु शोधकत्वं /(Vin_2.1484)

/ परिश्रावणम् उपस्थापयेत्* /(Vin_2.1485)

/ खल्लगं धर्मकरंकं मोचनपट्टकम् वा /(Vin_2.1486)

/ आत्युहायां कल्पिकजलस्य सम्*[26अ1]भावदायाञ् च करककुण्डिकाभ्याम् एतत् तद्वत्त्वं / नानेन विनाजनपदचारिकञ् चरेत् /(Vin_2.1487)

/ न सान्तरेण सार्द्धम्* /(Vin_2.1488)

/ तद्रूपश् चेत् प्रत्ययः क्षमयित्वा कार्यकरणे स्तित्वम् आस्तित्वं /(Vin_2.1489)

/ तस्मात् तद्वत्त्वम् अत्र दाने प्रतिज्ञाते न्येन /(Vin_2.1490)

/ नैतज् जनपदचारिकायाम् वियुक्तौ दानाप्रतिज्ञाने संश्रयेत्* /(Vin_2.1491)

/ नाविघातकृदन्तरसंचा[26अ2]रश् चारिका /(Vin_2.1492)

/ क्रोशपञ्चकस्यैतत्त्वं /(Vin_2.1493)

/ न प्रमील्य गतस्य स्थाने तद्वत्त्वाभावे कामजः /(Vin_2.1494)

/ नैकेनानेकस्य तद्वत्त्वासंपत्तिर् आसंघात्* /(Vin_2.1495)

/ नाविघातकृत्त्वं शीघ्रस्रोतसः /(Vin_2.1496)

/ क्रोशमनु गच्छतो ऽस्यामनुस्रोतो ऽनुसंहितं* प्रत्यवेक्षणात् तेन प्रवृत्तिः /(Vin_2.1497)

/ सम्भेदश् चेद् अत्रोदकान्तरेण प्राक् ततः /(Vin_2.1498)

/ व्यामस्य परितः प्रत्यवेक्षितत्वं /(Vin_2.1499)

/ चक्षुषा [26अ3] शुद्धत्वम् उदकस्य शुद्धिः /(Vin_2.1500)

/ प्राकृतेन /(Vin_2.1501)

/ निष्कम्पत्वे प्रत्यवेक्षणम् अरजसः /(Vin_2.1502)

/ पूर्णत्वे घटस्य /(Vin_2.1503)

/ नातिकृयासंख्याम् अत्र चिरतां कुर्यात /(Vin_2.1504)

/ तूलिकया सुकरं प्राणकानां दर्शयनं* श्लक्ष्णया /(Vin_2.1505)

/ नैनां क्लमके ध्वन्या किरेत्* /(Vin_2.1506)

/ नान्याम्* /(Vin_2.1507)

/ प्राणकपतनं /(Vin_2.1508)

/ चेत् प्रदीपे तत्करणेनास्य प्रच्छादनम्* /(Vin_2.1509)

/ पञ्जरं वंशवि[26अ4]दलिकानां शुक्लवस्त्रस्य वेष्टिम् अभ्रपटलेन वा तदाख्यम् /(Vin_2.1510)

/ शताक्षश् च /(Vin_2.1511)

/ आद्यकृतित्वा कर्परं वा घटादेश् छिद्रितम् /(Vin_2.1512)

/ न वालपाशेन सर्पं बध्नीयात्* /(Vin_2.1513)

/ अछटाशब्दं कृत्वा भद्रमुखादर्शनपथे तिष्ठेति वदेत्* /(Vin_2.1514)

/ अस्थितावजपदकेन दण्डेन शनैष्कुम्भे कुण्डके वा प्रक्षिप्य छिद्राणि कृत्वा मुखं पिधाय निष्कासनम् /(Vin_2.1515)

/ [26अ5] असंमत्तौ पट्टिकया लोठिकया मुरुचिकया वा रजुपाशेन वा नतुके वेष्टितेन ग्रीवायां बद्ध्वा /(Vin_2.1516)

/ प्रक्षेपे ऽप्य् एषां विनयोगः /(Vin_2.1517)

/ न दवे च्छोरयेत्* /(Vin_2.1518)

/ आशयप्रवेश तिष्टेत्* /(Vin_2.1519)

/ नदुके यूकानां स्थापनम्* /(Vin_2.1520)

/ शुसिरे तस्य /(Vin_2.1521)

/ शाद्वले मत्कुणानाम् /(Vin_2.1522)

/ शीतले वा /(Vin_2.1523)

/ मोचनघटिकायाः पूर्वावतार[26ब्1]णार्थं* वारणं /(Vin_2.1524)

/ तेनैव वा परिश्रावणेनावतारणम्* /(Vin_2.1525)

/ मोचनं परिश्रावणस्य लग्नप्राणकापनीताव् उपायः /(Vin_2.1526)

/ भावनम् मलस्य /(Vin_2.1527)

/ शोष्यणं यौ?न्यानुपगतेः /(Vin_2.1528)

/ निष्पीडनस्य द्वये ऽप्य् अस्मिन्न् उपकरत्वं /(Vin_2.1529)

/ निरावद्यालंभप्रत्ययसंघपुद्गलपरिश्रावणप्रस्रवणप्रत्ययेन प्रवृत्तिः /(Vin_2.1530)

/ आसूर्योदयात [26ब्2] गृह्णीतो दपानयोः प्रत्यवेक्षितानुवृत्तिः /(Vin_2.1531)

/ पादधावनिकां रिक्तामुल्लोच्य पूरयेत्* /(Vin_2.1532)

/ उपस्थापयेद् <<चोदका>>न्यभाण्डम्* /(Vin_2.1533)

/ भाण्डगोपकस्य तद्गतः सांघिके व्यापारः /(Vin_2.1534)

/ नात्र दानग्रहणयोः नान्तर्भावः /(Vin_2.1535)

/ दानं गृहिणे याचितकत्वेन /(Vin_2.1536)

/ परिभुक्तस्य तत्सत्वे /(Vin_2.1537)

/ नानेन दानपतीनां विहारे देयत्वस्य नोक्तता [26ब्3] नवस्य भिक्षवे निद्देयत्वेन /(Vin_2.1538)

/ भाण्डार्थे लयनसनियोजनं /(Vin_2.1539)

/ पृथक्त्वेन मृत्ताम्रभाण्डिकयोर् निक्षेपः /(Vin_2.1540)

/ उपस्थापनं पानीयस्य /(Vin_2.1541)

/ न यत्र क्वचन स्थापनम्* /(Vin_2.1542)

/ मण्डपस्य तदर्थं करणं /(Vin_2.1543)

/ दक्षिणपश्चिमे विहारस्य पार्श्वे भ्यन्तरतः /(Vin_2.1544)

/ वातायनमोक्षेष्टकास्तरदानोदकभ्र[26ब्4]ममोक्षद्वारकरणकवाटकटकदानं* /(Vin_2.1545)

/ वंश्रस्य च परिश्रावणस्थापनार्थं /(Vin_2.1546)

/ काष्ठ(म्)मञ्जिकासु स्थापनं /(Vin_2.1547)

/ इष्टकपिण्डिकायाम् वा /(Vin_2.1548)

/ आधारकेषु /(Vin_2.1549)

/ चौक्यं पानीयभाण्डम् आपारिभोगोकार्थात् कुर्यात्* /(Vin_2.1550)

/ शुचि /(Vin_2.1551)

/ पानीयञ् च पेयम्* /(Vin_2.1552)

/ नाकल्पिकैर् एनद् हस्तचीवरैश् चारयेत्* /(Vin_2.1553)

/ [26ब्5] कालेन कालम् उदकभाण्डानाम् अन्तःशोचनम्* /(Vin_2.1554)

/ गम्भीराणाम् उशीरकुर्वकेन पत्रवैभङ्गुकैर् नत्रकेन वा यष्ट्याम् उपनिबद्धेन /(Vin_2.1555)

/ नातो रम्वृत्वम् आमिषोपदेहस्य /(Vin_2.1556)

/ शोषणञ् च /(Vin_2.1557)

/ तदा विघातार्थम् अपहतत्वेन /(Vin_2.1558)

/ निश्रयकरणीयानाम् उदकगतो व्यापारः /(Vin_2.1559)

// सप्राणकजलसंबद्धक्षुद्रकादिगतः // 38 // [27अ1] / वृत

**(vin_2,4,39) निषदने /

/ प्रवृत्ताव् औन्मुखे वा /(Vin_2.1560)

/ सन्निपाते /(Vin_2.1561)

/ स्त्रीपुन्सयोः /(Vin_2.1562)

/ गृहित्वे /(Vin_2.1563)

/ अन्यस्थानतायां /(Vin_2.1564)

/ योग्यत्वे च /(Vin_2.1565)

/ निरस्यत्वे संप्रयुक्तेः /(Vin_2.1566)

/ प्रत्यक्षकल्पेन निषदने /(Vin_2.1567)

/ सभोजने निषदनम् //

**(vin_2,4,40) स्थाने /

/ / स्थाने रहःकल्पेन /(Vin_2.1568)

/ सावरणस्य /(Vin_2.1569)

/ न चेत् भयवशात(Vin_2.1570)

/ दुष्कृतस्यासम्वेद्यसम्वेतृत्वे /(Vin_2.1571)

/ अवधाने [27अ2]च स्थानान्तरे /(Vin_2.1572)

/ गोचरान्तात्* दृष्तेः स्थानान्तः /(Vin_2.1573)

/ अन्तर्गतत्वं गन्*जस्य /(Vin_2.1574)

/ भिन्नत्वम्* गृहान्तरस्य /(Vin_2.1575)

/ सभोजनस्थानम्* //

**(vin_2,4,41) अचेलदाने /

// स्त्रियाः पुरुषस्य वा /(Vin_2.1576)

/ उत्सृज्य ज्ञातिं* प्रव्रजापेक्षं* ग्लानञ् च /(Vin_2.1577)

/ अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बद्धे वा /(Vin_2.1578)

/ खादनीयभोजनीययोः [/](Vin_2.1579)

स्वस्य [27अ3]तस्य च /(Vin_2.1580)

/ उत्सृज्य पापगदृष्टिगताद् विवेचनार्थतां /(Vin_2.1581)

/ स्वयं दाने /(Vin_2.1582)

/ अकल्पिकयोः दुष्कृतं /(Vin_2.1583)

/ दापने /(Vin_2.1584)

/ सम्विभागे च /(Vin_2.1585)

/ अचेलदानं //

**(vin_2,4,42) सेनादर्शने /

/ युद्धाभिनन्दिसेनदर्शनार्थतया /(Vin_2.1586)

/ उत्सृज्य राजदेवीकुमारामत्यभटवलाग्रनैगमजानपदोक्तिम्* /(Vin_2.1587)

/ अन्तरायोपपातवशताञ् च /(Vin_2.1588)

/ [27अ4]प्रस्थापितस्य /(Vin_2.1589)

/ उपविचारान्तातिक्रमे दृष्टौ /(Vin_2.1590)

/ सेनादर्शनम्* //

**(vin_2,4,43) सेनावासे /

/ विनैते तत्र रात्रिन्दिवद्वयपरिपूरेर् ऊर्धम् वासे /(Vin_2.1591)

/ अनिमित्तञ् च पूर्वत्रापि /(Vin_2.1592)

/ सेनावासः //

**(vin_2,4,44) युद्धाङ्गप्रत्यनुभवे /

/ युद्धाङ्गानां कर्तृत्वं /(Vin_2.1593)

/ अनान्तरायवशगतस्य /(Vin_2.1594)

/ समस्तव्यस्तानां /(Vin_2.1595)

/ सज्जीकृतानां /(Vin_2.1596)

/ मौले मोलस्य /(Vin_2.1597)

/ दुष्कृतस्य प्रयुक्तौ /(Vin_2.1598)

/ [27अ5]असज्जीकृतानां /(Vin_2.1599)

/ उभयत्रापि दुष्कृतस्यैव /(Vin_2.1600)

/ स्पृष्टिर् उद्यूथनं प्रस्थाय दर्शनार्थम् उपविचारान्तातिक्रमे दृष्टिर् इति मूलानि /(Vin_2.1601)

/ न्यूनत्वम् अनुद्यतत्वे /(Vin_2.1602)

/ न हस्त्यश्वकुक्कुटलावकवर्तकस्त्रीपुरुषयुद्धादि कुर्यात् कारयेन् निरीक्षेत वा /(Vin_2.1603)

/ युधाङ्गप्रत्यनुभवः //

**(vin_2,4,45) प्रहरणे /

/ कलुषचित्ततया /(Vin_2.1604)

/ कायतन्निःसृष्टसम्बद्धैर् येन [27ब्1]केनचिद् अन्ततः पादाङ्गुष्ठसर्षपतूलिकभिः प्रहृतौ /(Vin_2.1605)

/ भिक्षो /(Vin_2.1606)

/ परस्य /(Vin_2.1607)

/ उत्तरेषु त्रिषु /(Vin_2.1608)

/ स्पृष्टो /(Vin_2.1609)

/ प्रतिनिपात्यम्* /(Vin_2.1610)

/ अनिपाते दुष्कृतम्* /(Vin_2.1611)

/ नान्यत्र प्रहर्तव्ये न्यत्र प्रहरेत् /(Vin_2.1612)

/ न स्तम्भे प्रहारं दद्यात्* /(Vin_2.1613)

/ न भित्तौ भूम्यां वृक्षे न्यत्र वा /(Vin_2.1614)

/ प्रहरणम्* //

**(vin_2,4,46) अवगुरणे /

/ प्रहारावगुरणे /(Vin_2.1615)

/ प्रतिद्रव्यं /(Vin_2.1616)

/ अवगूरणं /

**(vin_2,4,47) अवद्यप्रतिच्छादने /

/ [27ब्2]पाराजयिकसंघावशेषयोर् उत्सृज्यास्पर्शश्रामण्यब्रह्मचर्यान्तरायसंघसंक्षोभाशंकवशताम्* /(Vin_2.1617)

/ प्रतिछादने /(Vin_2.1618)

/ अन्ते होरात्रस्य /(Vin_2.1619)

/ प्राग् दुष्कृतम्* /(Vin_2.1620)

/ अन्य<<स्या>>श्वापत्तेः /(Vin_2.1621)

/ अवद्यप्रतिछादनम्* //

**(vin_2,4,48) भक्तच्छेदकारणे /

// सं*चिन्त्य मुक्त्वा रोगप्रतिकृयार्थ तां गृही दातृभक्तछेदस्य कारणे /(Vin_2.1622)

/ भक्तछेदकारणम्* //

**(vin_2,4,49) अग्निवृत्ते /

// [27ब्3]न सिं*हं* स्पृशेत्* /(Vin_2.1623)

/ शास्तृधर्मसंघसब्रह्मचारिणां धर्म्यकरणीयार्थतापेक्षा पात्ररंगकर्मणोश् च समयाधिष्ठानम्* /(Vin_2.1624)

/ अधितिष्ठेत्* दीर्घम्* /(Vin_2.1625)

/ क्रीडायां चरपरया चन्द्रसूर्यालातचक्रादिकरणतश् च /(Vin_2.1626)

/ अग्निना /(Vin_2.1627)

/ अनधिष्ट्ःइतसमयस्य अग्लान्यवशतास्थस्य स्पृष्टौ /(Vin_2.1628)

/ स्वयन् नियोग[27ब्4]तो वा /(Vin_2.1629)

/ प्रज्वालनिर्वापणस्पृष्टास्पृष्टेन्धनसम्ववधानयुक्तनिष्कर्षणाङ्गारसमावर्तननिष्कर्षणेषु /(Vin_2.1630)

/ अर्धास्तमितत्वं कुकूलस्य /(Vin_2.1631)

/ ज्वालानाञ् च /(Vin_2.1632)

/ समवधाननिष्कर्षणे तत्रेन्धनस्याग्न्यन्तरवृत्तम्* /(Vin_2.1633)

/ केशरोमास्थिनखखेटसिं*घाणकवान्तविरिक्तमुत्गमाषतिलतैलमधु-सर्पिषाम् अर्धेन्धनत्वं /(Vin_2.1634)

/ अन्यस्य [27ब्5]करणीये न्यस्यैत्य् अधिष्ठानम् अर्धाधिष्ठानम्* //(Vin_2.1635)

// अग्निवृत्तम्* //

**(vin_2,4,50) छन्दप्रत्युद्धारे /

// भिक्ष्वर्थार्थे कर्मणि /(Vin_2.1636)

वृत्[त]स्य मतदानस्य प्रत्युद्धारार्थायाम् वापि //(Vin_2.1637)

// छन्दप्रत्युद्धारः //

**(vin_2,4,51) [शयने]

// नाचन्द्रसूर्यालोकवत्यववरकदेशे शयीत /(Vin_2.1638)

/ मुक्त्वा ग्लान्यग्लानोपस्थानवशताम्* /(Vin_2.1639)

/ प्रायश् चित्तिकम् अत्रेत्य् एके /(Vin_2.1640)

/ अर्धत्वम् अ[28अ1] / /निपत्तेः पृथक्त्वञ् चाह्नः /(Vin_2.1641)

/ यत् भूयः परिवारितम् अगारपर्यन्तः /(Vin_2.1642)

/ तत्गतत्वं संबद्धस्य तत्*द्वारपार्श्वोपचारस्यागारभूतस्य /(Vin_2.1643)

/ पुरान्तरस्य च तत्गतद्वारस्यानन्तरस्य च /(Vin_2.1644)

/ न सोपचारात् परस्य लयनमात्रात् पृथग्भूताध्यासितस्य /(Vin_2.1645)

/ अर्धत्वं वृक्षमूलकुड्यशुशिर......वूर्तमूलानां /(Vin_2.1646)

[ इति शयनप्रायश् चित्तिकम् /]

**(vin_2,4,52) स्त्रीसहस्वप्ने /

/ सगहनानां स्त्री[28अ2]सहस्वप्ने /(Vin_2.1647)

/ अध्वनो त्र कुक्कुटस्योत्पात्य निलयने न्तरम् अभूतत्वं /(Vin_2.1648)

/ सर्वस्य सान्तरसंचारस्य निरनगारान्तरत्वे छदनस्यैकत्वं /(Vin_2.1649)

/ पृथक्त्वम्* स्वभागगतबन्धनबद्धत्वे द्वारस्योपचारस्यापि /(Vin_2.1650)

/ तद्वद्रक्षितत्वं भिक्षुणापत्तेः /(Vin_2.1651)

/ गुप्तत्वञ् च स्वामिना मातृग्रामस्य /(Vin_2.1652)

/ उद्धृतत्वञ् च निःश्रयणेः पुरान्तरे /(Vin_2.1653)

/ हासो नगारत्वे न्यभ् ऊतात्* /(Vin_2.1654)

[ इति स्त्रीसहस्वप्नम् ]

**(vin_2,4,53) अनुपसंपन्नसहस्वप्ने /

/ [28अ3]अनुपसंपन्नेन सार्धम् अगारे त्रितीयस्यां रात्रो स्वप्ने /(Vin_2.1655)

/ अन्ते /(Vin_2.1656)

/ प्राक् दुष्गृतं निर्दोषम् अध्वपरिश्रान्तस्य क्लान्तौ /(Vin_2.1657)

/ यथास्यान्ते पि /(Vin_2.1658)

/ अकल्पिनि च भिक्षोर् करणीये तत्संपादकेन सार्धं* ग्लानस्य तदुपस्थायिनश् च /(Vin_2.1659)

/ श्रामणेरेण च तद्वतः सन्निहिततायां तत्रावासे पापभिक्षोः कृतकुर्वत्तन् निवासप्रयत्नस्य /(Vin_2.1660)

/ उपगतो [28अ4]पश्चिमकालयोर् द्वयोर् आद्ययोर् मासयोर् वर्तमानस्य /(Vin_2.1661)

/ नोर्धम् अस्य वस्त[व्]यत्वम्* /(Vin_2.1662)

/ अकार्यत्वं पूर्वोपगतेः /(Vin_2.1663)

/ अरक्षत्वं प्राग्* /(Vin_2.1664)

/ नैषो नुपस्थापितम्* श्रामणेरम् उपस्थापयेत्* /(Vin_2.1665)

/ मिद्धोपपातेनाध्वनि श्रामणेरम् अभिप्लुतं* पुरतः कृत्वा गच्छेत्* /(Vin_2.1666)

/ बुभुक्षितश् चेत् सानुकालं दद्याद् अस्मै तदाहारम्* /(Vin_2.1667)

/ पुनश् चेद् वेलायां तदा[28अ5]पि /(Vin_2.1668)

/ अनुपसम्पन्नः सहस्वप्नः //

**(vin_2,4,54) दृष्टिगतानुत्सर्गे /

// तथाहम् भगवतो धर्मदेशितम् आजानामि यथा <<य्[ए] अधर्मा[ः] संक्लेशिका[ः]>> आन्तरेयिकधर्मा उक्ता भगवतो प्रतिषेव्यमाने <<ना>>लम् अन्तरायायेत्यादि प्रवृत्तवचनतावसर्गे जैगुप्स्यमत एनं कुर्यु ज्ञापनेन /(Vin_2.1669)

/ दृष्तिगतानुत्सर्गः // वृत /

**(vin_2,4,55) उत्क्षिप्तानुप्रवृत्तौ /

/ तथा विदितप्रक्षिप्तस्याप्रतिकृ<<त>>तायां भिक्षोः /(Vin_2.1670)

/ उद्दे[28ब्1]शदाने /(Vin_2.1671)

/ परिप्रच्छन् निकायायाः /(Vin_2.1672)

/ सनिःश्रयस्य /(Vin_2.1673)

/ अनुशासन्याः /(Vin_2.1674)

/ अववादस्य /(Vin_2.1675)

/ आविष्करणे दृष्टेः /(Vin_2.1676)

/ आमिषसंभोगे /(Vin_2.1677)

/ उपस्थापनस्वीकृतो /(Vin_2.1678)

/ अगारे च सहस्वप्ने /(Vin_2.1679)

/ अन्ते रात्रेः /(Vin_2.1680)

/ अन्यथा वासं स्यन्दने <</>>(Vin_2.1681)

<</>> मुक्त्वा ग्लान्यदृग्विवेचनगतेनार्थेन /(Vin_2.1682)

/ उत्क्षिप्तानुप्रवृत्तिः //

**(vin_2,4,56) नाशितसंग्रहे /

// [28ब्2]प्रवृत्ततद्वचनानुत्सर्गे स्रामणेरं नाशयेयुः /(Vin_2.1683)

/ ज्ञप्ते चतुर्थस्य ते कर्मण इति पूर्वत्रोत्तरत्रनाशनीयस्य ते इत्य् उपक्रमं ज्ञप्ति<<ः>> कृता नि<<ः>>सृजेदम् एवंरूपं पापकं दृष्टिगतं प्रथमा कर्मवाचना कृता द्वितीयेति प्रत्येतदन्तम् अस्मै भिक्षुणा श्रावयेयुः /(Vin_2.1684)

/ <<अ>>नारताव् उत्तरं कुर्युः /(Vin_2.1685)

/ नाशिततायां श्रमणोद्देशस्य /(Vin_2.1686)

/ नाशितसंग्रहः /

**(vin_2,4,57) अरक्तवस्त्रोपभोगे /

/[28ब्3]नील्या गैरिकेन वल्कलेनेत्य् अनुपरक्तस्य स्ववाससः /(Vin_2.1687)

/ अन्ततः पात्रवस्यकस्थाविकापादचोडकायबन्धनानां प्रावरणादौ परिभोगे /(Vin_2.1688)

/ न निकायान्तरीयस्य पुनः कल्पनीयत्वं /(Vin_2.1689)

/ नाछिन्नस्य गृहिणा /(Vin_2.1690)

/ न महारङ्गरक्तं प्रावृत्तिम् भजेत /(Vin_2.1691)

/ नागारिकस्य /(Vin_2.1692)

/ भजेद् विहाराभ्यन्तरे प्रतिछातितस्य का[28ब्4]षायेण /(Vin_2.1693)

/ साधारणत्वम् अध्वनि याचितप्रावरणस्य /(Vin_2.1694)

/ साहायकैः भिक्षुश्रामणैरैः /(Vin_2.1695)

/ एकत्वे वृद्धान्ताद् आरभ्य यावत् संभावनाम् उपरिदानं /(Vin_2.1696)

/ नानवछिन्नम् अपरतः प्रावृत्यं चंक्रम्येत /(Vin_2.1697)

/ अन्वाक्रामेद् उपनिमन्त्रितः पुण्यकामेन नवमाछिन्नदशात् पराहत्यानित्यतामनसिकारेण /(Vin_2.1698)

/ अरक्तवस्त्रोपभोग[ः] /

**(vin_2,4,58) उद्धर्षवस्तुगते /

<</>>[28ब्5]स्पृष्टोस्पर्शनयोः कर्तृरत्नम् अस्वं /(Vin_2.1699)

/ तत्सम्मतञ् च /(Vin_2.1700)

/ शस्त्रम् एतत् संग्रामावचरं भाण्डञ् च गन्धर्वावचरं /(Vin_2.1701)

/ प्राप्तं योग्यत्वम् उपयोगाय मूलस्य /(Vin_2.1702)

/ दुष्कृतस्याप्राप्तं /(Vin_2.1703)

/ मुक्त्वा स्वीकाराना अनुगत <<तत्र>> द्रव्याविनाशचित्तस्य विहारतदुपचारगतं /(Vin_2.1704)

/ न तद् उपेक्षेत /(Vin_2.1705)

/ सप्ताष्टान् दिवसनेतदुपविचारे प्रक्र[29अ1] / /ष्यन् पांसुना वैभङ्गुकैर् वा छादयेत /(Vin_2.1706)

/ नासमुदितचिन्नाय स्वाम्य् अहम् इति ब्रुवते दद्यात्* /(Vin_2.1707)

/ अनागमे स्योधं सांघिकै गञ्जोपनिक्षिपेत्* /(Vin_2.1708)

/ आषष्ठमासपर्यन्ता धारयेत्* /(Vin_2.1709)

/ ऊर्धम् अनागतौ यत् भूमौ बुद्धसांघिकयोर् लब्धिं* तत्रोपयुक्तिः /(Vin_2.1710)

/ अयोग्यत्वे क्रयनं योग्यस्य तेन स्थावरस्य /(Vin_2.1711)

/ तदा चेत् स्वाम्य् आगच्छेद् अनुज्ञानम् आया..य[29अ2]न् इछते दद्युः /(Vin_2.1712)

/ वृद्धिञ् चेत् मृगयेद् एतद् एव न बहु मन्यसे यद् अस्माभिः परिपालितम् इति ब्रूयुः /(Vin_2.1713)

/ घटितविद्धतायां मण्यादेर् योग्यत्वं /(Vin_2.1714)

/ हर्षकटककेजूरहारार्धाहारत्वविनिवेशे च /(Vin_2.1715)

/ वीणावेणुवल्लरिमहतिम् उत्घोषकानां सतन्त्रीकत्वे /(Vin_2.1716)

/ वदत्तायां शङ्खभेरीपटहमुरवाणां /(Vin_2.1717)

/ धनुषः सगुणत्वे /(Vin_2.1718)

/ तत्वे शील्येकतो धारककुन्तडा[29अ3]भाणे र्धानां /(Vin_2.1719)

/ शरनाराचार्धनाराचानां सफलत्वे(ः) /(Vin_2.1720)

/ सधातुकत्वे प्रतिमायाः /(Vin_2.1721)

/ निघोषम् अस्याः शास्तृसंज्ञाम् उपस्थाप्य /(Vin_2.1722)

/ काचमणिपलालमालकाण्डवीनिकतलम् अडुकपिञ्जनकतुलिकाकाण्डानाम् अर्धत्वं /(Vin_2.1723)

/ अयोग्यत्वं सुवर्णपिण्डस्य /(Vin_2.1724)

/ गोपयित्वोत्रासे गृहीत्वा वानुपरोधे स्वस्य सांघिकम्* [29अ4]स्तौपिकञ् च हिरण्यसुवर्णम् अपक्रमणं /(Vin_2.1725)

/ स्राद्धेन श्रामणेरेण वा /(Vin_2.1726)

/ अभावे स्वयम्* /(Vin_2.1727)

/ खननम् अत्र /(Vin_2.1728)

/ अपगते दानम्* /(Vin_2.1729)

/ उत्पाट्य तद्वत्* /(Vin_2.1730)

/ निर्दोषम् अमानुषभवने पुण्यनिर्जातं चेद् एषां रत्नमयं भूमिसोपादानादि /(Vin_2.1731)

/ भोजने च भाजनम् असम्भवे न्यस्य /(Vin_2.1732)

/ शयनासनम्* च निषादे /(Vin_2.1733)

/ गच्छेद् यानेन /(Vin_2.1734)

/ धर्मार्थ[29अ5]वशतया /(Vin_2.1735)

/ नाटोपवता /(Vin_2.1736)

/ न जीर्णग्लानाभ्यामन्यः /(Vin_2.1737)

/ निषीदेद् धर्मश्रवणार्थं रत्नमये सिं*हासने पराहत्यानित्यतामनसिकारेण /(Vin_2.1738)

/ निवेशने चागारिकीयाणीति संप्रेक्ष्य तत्प्रज्ञप्तौ /(Vin_2.1739)

/ सुवर्णखचितकांकणिकावृतेषु वस्त्रेषु /(Vin_2.1740)

/ अत्र च मणिप्रत्युप्तेषु सुवर्णरूप्यखचितेषु / प्रवेशयेयुर् एतानि /(Vin_2.1741)

[29ब्1]नाकल्पिकत्वम् उपस्थापितशास्तृसंज्ञानाम् आगारिकश्रामणेराभावे बुद्धप्र<<ति>>कृतेर् धर्म्यार्थवशतया स्पृष्टौ /(Vin_2.1742)

/ त द्रव्यस्य च /(Vin_2.1743)

/ नाभरणप्रावृत्तिम् भजेत्* /(Vin_2.1744)

/ धारयेत्* मुद्रां* /(Vin_2.1745)

/ अप्रावरणिकीम्* /(Vin_2.1746)

/ त्रपुताम्ररितीकं सजतुकाष्ठशैलमृद्दन्तशृङ्गेभ्यः /(Vin_2.1747)

/ चिह्नं सांघिकायाम् मध्ये चक्रं पार्श्वयोर् मृगाव् अधस्ताद् विहारस्वा[29ब्2]मिनो नाम(ः) /(Vin_2.1748)

/ पैङ्गलिकायाम् अस्थिसंकलाशिरकपालम् वा /(Vin_2.1749)

/ न फणिकया शिर प्रसाधयेत्* /(Vin_2.1750)

/ निदर्शनम् एषा /(Vin_2.1751)

/ नादर्शेन मुखं पश्येत्* /(Vin_2.1752)

/ उदकात्* /(Vin_2.1753)

/ अनापत्तिर् उदकप्रत्यवेक्षणार्थतायां व्रणवलीपलितदर्शने पूर्वोत्तरनिमत्तोद्ग्रहणै <</>>(Vin_2.1754)

<</>>न त्र्यार्षम् भजेत्* /(Vin_2.1755)

/ न रोचनाम्रक्षणम्* /(Vin_2.1756)

/ न गन्धैः /(Vin_2.1757)

/ भजेत पादयोर् गन्धा[29ब्3]ङ्गददानं पुण्यार्थिनाम्* /(Vin_2.1758)

/ न तस्य पुरतोपनयेत्* /(Vin_2.1759)

/ नैभिःर् अक्तः संघे सन्निपदेत्* /(Vin_2.1760)

/ न गृहीभ्यो धर्मं देशयेत /(Vin_2.1761)

/ न कुलान्य् उपसंक्रामेत /(Vin_2.1762)

/ स्नानम् अन्ते भाजेत /(Vin_2.1763)

/ प्रतिगृह्नितैनाम /(Vin_2.1764)

/ पुष्पमालाञ् च /(Vin_2.1765)

/ चैत्यै विनियोगः /(Vin_2.1766)

/ श्रावकस्यापि /(Vin_2.1767)

/ अनभिमतो दातुः शिरोन्ते पादान्ते वा /(Vin_2.1768)

/ अ[29ब्4]सम्मुखे द्वारस्य /(Vin_2.1769)

/ भित्तौ /(Vin_2.1770)

/ लम्बनं मालाद्याशूच्याम् अत्रावतूसितायां कण्टके वा /(Vin_2.1771)

/ चक्षुष्यं सुगन्धीति कालानुकालं घ्राणम्* /(Vin_2.1772)

/ न ब्रह्मसूत्रप्रावृत्तिं* भजेत्* /(Vin_2.1773)

/ न सूत्रकस्य /(Vin_2.1774)

/ मूलवाहौ चिकित्सार्थस्य भजेत वामे /(Vin_2.1775)

/ न यत्र क्वचन छोरयेत /(Vin_2.1776)

/ सशेषं चेत्* चीवरकर्णके (ष्)कुञ्चके वा बन्धनं /(Vin_2.1777)

/ न चेत्* स्तम्भस्य[29ब्5]शुषिरे कुड्यस्य वा निक्षेपः /(Vin_2.1778)

/ न नृ(इ)र्तगीतवादितम् आचरेत्* /(Vin_2.1779)

/ न शिक्षयेत्* /(Vin_2.1780)

/ नोपसंहरेत /(Vin_2.1781)

/ न दर्शनायोपसंक्रामेत्* /(Vin_2.1782)

/ न भिक्षुण्या नृर्तिं कारयेत्* /(Vin_2.1783)

/ गुर्यात् शास्तृगुणसंकीर्तने त्रिदण्डकदाने च स्वरगुप्तिं* /(Vin_2.1784)

/ शिक्षेतैनां प्रतिगुप्तिप्रदेशे /(Vin_2.1785)

/ न संचग्घनसंक्रीडनसंकिलिकिलायनौद्धत्यद्रवकायताड्यानि कुर्यात्* [30अ1] /(Vin_2.1786)

/ नौद्धत्याभिप्रायः कायवाचो विकुर्वीत /(Vin_2.1787)

/ भागशो व्यवकरे संसर्गः /(Vin_2.1788)

/ न भाजनसंचारकेनाभ्यवहृतिं* कुर्यात्* /(Vin_2.1789)

/ नाअ वतंसकं ग्र[थ्न्]ईयात /(Vin_2.1790)

/ नामुञ्चेत /(Vin_2.1791)

/ न लालाटिकम् अनुप्रयच्छेत /(Vin_2.1792)

/ न समावस्थायां वाचेत्*/(Vin_2.1793)

/ न जवनप्लवने कुर्यात्* /(Vin_2.1794)

/ नोरुवाहुमत्स्यपरिवर्तकं परिवर्तेत्* /(Vin_2.1795)

/ न जलशिक्यि[30अ2]कां विध्येत /(Vin_2.1796)

/ न जलमण्डुकभेरिके वादयेत्* /(Vin_2.1797)

/ न दकपिच्छिलिकां पिच्छिलेत्* /(Vin_2.1798)

/ न हस्तिक्रुञ्चिताश्वहेषितर्षभगर्जितमयूरकोकिलरुतानि कुर्यात्* /(Vin_2.1799)

/ न मुखशंखडुड्डुकभेरीवादनम्* /(Vin_2.1800)

/ उद्धर्षवस्तुगतम्* //

**(vin_2,4,59) स्नाने /

/ शिष्टाद् अध्यर्धतो ग्रीस्मस्य पूर्वतश् च वर्षाणां मासात्* /(Vin_2.1801)

/ अचीवर<<स्य>> द्वितीय<<स्य>> लब्धो यद्विधस्य /(Vin_2.1802)

/ अनुद्धूतस्य [30अ3]वातेन /(Vin_2.1803)

/ चीवरकर्णकेरणम्* / / तत्पर्यन्तः /(Vin_2.1804)

/ अनववृष्टस्य /(Vin_2.1805)

/ अस्य बिन्दुद्वयनिपात काये /(Vin_2.1806)

/ अन्यदा पञ्चदशाद् अस्नानदिवसाद् अर्वाक्[स्]नाने /(Vin_2.1807)

/ अभिषेकेण वावगाहनेन वा /(Vin_2.1808)

/ नाभिप्राप्तौ /(Vin_2.1809)

/ पुरस्ताद् दुष्कृतम्* /(Vin_2.1810)

/ सर्वत्र समयेष्व् अनधिष्ठाने /(Vin_2.1811)

/ नार्थान्तरपरो जालानुभवः स्नानम्* /(Vin_2.1812)

/ तस्माद् उत्त[30अ4]रणं संचेतितया मूर्छितसेकेष्व् अनापत्तिः /(Vin_2.1813)

/ मन्येताष्मपरान्तकेष्व् अस्याभावं /(Vin_2.1814)

/ न संभवे परस्योत्स्वासकल्पं संश्रयेत् स्नातप्रायश् चित्तिकं //(Vin_2.1815)

**(vin_2,4,60) तिर्यग्*वधे /

/ वधकचित्तेन तिरश्चः प्रहृतौ <</>>(Vin_2.1816)

<</>> तदान्यदा वा तन्निदानं मृतौ दुष्कृत(कृ)त्वं सत्वाविग्रभस्य /(Vin_2.1817)

/ तिर्यग्वधः //

**(vin_2,4,61) कौकृत्योपसंहारे /

// न त्वम् उपसंपन्नः पराजयिकम् अस्यापन्न इत्याद्यर्थ भिक्ष्वर्थेन कौकृत्योपसंहृतौ [30अ5]भिक्षोः /(Vin_2.1818)

/ अस्पर्शोत्पादनचित्तेन /(Vin_2.1819)

/ हास्येनापि /(Vin_2.1820)

/ अनुत्पत्ताव् अपि /(Vin_2.1821)

/ कौकृत्यस्य /(Vin_2.1822)

/ अन्येन दुष्कृतं /(Vin_2.1823)

/ कौकृत्योपसंहारः //

**(vin_2,4,62) प्रतोदने /

// भिक्षोः /(Vin_2.1824)

/ अङ्गुलिमुष्ट्यरत्निस्कन्धशीर्षपार्श्वपृष्ठकट्यूरुजंघाजानुपादाङ्गुष्ठादिभिः प्रतोदनतः स्पृष्टौ विकिरणचित्तेन <</>>(Vin_2.1825)

<</>> तस्माद् व्रणमशपिल्पतिलकरोमावर्तादि दर्शनेनापत्तिः /(Vin_2.1826)

/ एके वानेक[30ब्1]त्वे निपात्यस्य /(Vin_2.1827)

/ प्रतोदनप्रायश् चित्तिकम्* //

**(vin_2,4,64) द्रवहर्षणे /

// जलविषयक्रियानुष्ठाने /(Vin_2.1828)

/ अवतीर्णस्य निमज्जनोन्मज्जनतीरान्तरसंचारानुप्रतिस्रोतोव्यायामजलभेरिकामाअण्डुकवादनशिक्यिकावेधचक्रवाडवज्रककूपकावर्तकरणलेखा अर्षणाकानां मौलं /(Vin_2.1829)

/ ऋटिप्यकादानस्य दुष्कृतं /(Vin_2.1830)

/ गोलघटवर्धनी शरावे /(Vin_2.1831)

/ क्षोलसूपयू[30ब्2]षमण्डे च सत्यम् अपि तप्ततायां /(Vin_2.1832)

/ अजलहर्षणे च /(Vin_2.1833)

/ तद्वत् तत्भूतकारणं /(Vin_2.1834)

/ औद्धत्यरतप्रत्यनुभवछन्देन /(Vin_2.1835)

/ तस्मात् प्रह्लादनछन्देनावतारा<<ना>>दाव् अनापत्तिः /(Vin_2.1836)

/ तरणशिक्षायां तिर्यगायतम् वा व्यायामे /(Vin_2.1837)

/ जिह्लादयिषया तप्तेषु लेखकर्षणे /(Vin_2.1838)

/ द्रवहर्षणम्* //

**(vin_2,4,65) स्त्रीसहशय्यायाम्* /

// मातृग्रामेण सार्धम् एकस्मिन् आगारे मिद्धावक्रान्तौ [30ब्3]निशयां /(Vin_2.1839)

/ अन्तेः /(Vin_2.1840)

/ प्राग् दुष्कृतं /(Vin_2.1841)

/ कुक्कुटिप्रमाणम् एतत् कृत्वे न्तः /(Vin_2.1842)

/ स्त्रीसहशय्या //

**(vin_2,4,66) भीषणे /

/ हासप्रेक्षयापि भिषणछन्देन भयनिमित्तोपसंहारपूर्वकं विज्ञपने /(Vin_2.1843)

/ भयंकरस्यामुको यम् इति भिक्षोः परेणाप्य् अनुत्पत्ताव् अपि भयस्य /(Vin_2.1844)

/ मौलम् अमन आपस्य /(Vin_2.1845)

/ तद् यथा प्रेतपिशाचकुम्भाण्डकटपूतनत्वा[30ब्4]ख्यापिनाम्* कीटनं कीटकीटानाम् अङ्गारिका<<वर्णा>>नां दग्धस्थूणानिभानां रूपाणां /(Vin_2.1846)

/ सिं*हव्याघ्रद्वीपिकोकपटररुभ्रष्टोरोकाशब्दानां /(Vin_2.1847)

/ उच्चारप्रस्रावस्थवतकटगन्धानां /(Vin_2.1848)

/ किटककिं*लं*जकुतपस्पर्शानां/(Vin_2.1849)

/ मन आपस्य दुष्कृतं /(Vin_2.1850)

/ तद् यथा देवनागगन्धर्वयक्षकिन्नरमहोरगत्वख्यापिनां /(Vin_2.1851)

/ धनिश्रेष्ठि[30ब्5]सार्थवाहादिरूपानां /(Vin_2.1852)

/ वीनादिशब्दानां /(Vin_2.1853)

/ अगुरुचन्दनकुंकुमतमालपत्रगन्धानां /(Vin_2.1854)

/ पट्टपटप्रावरांशुकदुकूलकोट्टम्वकस्पर्शानाम्* /(Vin_2.1855)

/ उत्सृष्टसंवेगा<<जना>>र्थतां /(Vin_2.1856)

/ तस्मात् संवेजनार्थं नरकतिर्यक्प्रेतमनुष्यकथादाव् अनपत्तिः <</>> <</>> भीषणम्* //(Vin_2.1857)

**(vin_2,4,67) गोपने /

/ इदं प्रव्रजसंतकपात्रचीवरपोणिकाकंसिका[31अ1] / कायबन्धनादिश्रामणकजीवितपरिस्कारनिधाने /(Vin_2.1858)

/ निधापने च /(Vin_2.1859)

/ उत्सृष्टहितकामतया /(Vin_2.1860)

/ गोपनं //

**(vin_2,4,68) दत्तोपजीवने /

// दत्तस्य भिक्षोर् निर्देयं चीवरस्य विना तदनुज्ञानं परिभोगे /(Vin_2.1861)

/ न चेद् अस्य तन्निदानं प्रीतेस् सम्भावना /(Vin_2.1862)

/ दत्तोपजीवनं //

**(vin_2,4,69) अस्वाख्याने /

// ध्वन्सनछन्देन बिक्षोर् विनिधायसंज्ञा संघावशेषापतनस्य विज्ञप्तौ /(Vin_2.1863)

/ लेशना[31अ2]पि /(Vin_2.1864)

/ अस्वाख्यानप्रायश् चित्तिकं /

**(vin_2,4,70) स्त्रीसहगमने /

/ कामतो ध्वन्यूढौ /(Vin_2.1865)

/ प्रतिक्रोषं /(Vin_2.1866)

/ प्रतितदर्धं दुष्कृतस्य /(Vin_2.1867)

/ उत्सृज्यातियात्रयन्तीं* /(Vin_2.1868)

/ नष्टञ् चेनम् अध्वनो ध्वन्य् अवतारयन्तीं* /(Vin_2.1869)

/ अशक्तस्य वा निर्वोढुम्* /(Vin_2.1870)

/ स्त्रीसहगमनं //

**(vin_2,4,71) स्तेयसहगमने /

// ग्रामघातकैश् चोरैः शुल्कभञ्जकैर् वा वणिग्भिः /(Vin_2.1871)

/ कापटिकैः स्तेयप्रव्रजितैः दुष्कृतं /(Vin_2.1872)

/ स्तेय[31अ3]सहगमनं // वृत /

**(vin_2,4,72) ऊनोपसंपादने /

/ ऊनविं*शतिवर्षतायाम् उपसंपाद्यस्य /(Vin_2.1873)

/ उपाध्यायत्वेनोपसंपादने /(Vin_2.1874)

/ नासाव् एनं पूर्णतां न पृच्छेत्* /(Vin_2.1875)

/ नान्ये /(Vin_2.1876)

/ नानिर्ज्ञायैनाम् उपसंपादयेयुः /(Vin_2.1877)

/ सर्वथा परिपूर्वणविं*शतेर् उपसंपादो रूढिः /(Vin_2.1878)

/ इतरस्य परिपूर्णसंज्ञतायां /(Vin_2.1879)

/ अमत्यस्मितिविमतिषु च /(Vin_2.1880)

/ ज्ञाने च [31अ4]ध्वन्सः /(Vin_2.1881)

/ न चेद् अदः प्राप्तपूरेः /(Vin_2.1882)

/ अपि गर्भाधिकमासकै सा(व)र्धं* /(Vin_2.1883)

/ ऊनोपसंपादनं //

**(vin_2,4,73) भूम्युद्*घाते /

// खननखाननयोः /(Vin_2.1884)

/ मृत्भुवः /(Vin_2.1885)

/ मुक्त्वा चतुरङ्गुलमात्रकीलकनिखननं नवकर्मिकस्य न[क्ष]त्रप्रयोगेनासन्निहितकल्पकारस्य /(Vin_2.1886)

/ जातिक? चेत् मौलं /(Vin_2.1887)

/ न चेत्* दुष्कृतं /(Vin_2.1888)

/ त्रीन् मासां पर्युषितासंहतिः पूर्वा /(Vin_2.1889)

/ [31अ5]वृष्टिकान्तारं चेत्* /(Vin_2.1890)

/ षड् अन्यदा /(Vin_2.1891)

/ नाभूत्वं? कन्थायां मन्येत्* /(Vin_2.1892)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.