Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
विनयसूत्र
- Thông tin
- GRETIL — Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
/ प्रभूत्येन समुदायेषु <<ल>>क्षणां<<नां>> प्रभावकत्वं /(Vin_2.1893)
/ तस्मात् कार्त्स्न्यम् एव स न्यूनान्यत्र वृतायां /(Vin_2.1894)
/ नष्टतादग्धत्वे /(Vin_2.1895)
/ अर्धत्वं नष्टस्य /(Vin_2.1896)
/ चटितकानां च पृथिवीपर्पटककूलकन्थातल्लेपानां /(Vin_2.1897)
/ गडकवालुकाद्यधिक्ये व /(Vin_2.1898)
/ क्रियाणाञ् च /(Vin_2.1899)
/ की[31ब्1]लोत्पाटनलेखकर्षणमृत्कणाकर्षिगोमयोत्पाटनपंकाकम्पनतल्लग्नगोलाद्युत्पाटनलोणिकाशातनात्मिकानां /(Vin_2.1900)
/ विगोपनमतेर् अत्रैतत्* /(Vin_2.1901)
/ तस्मात् गणनन्यसनाद्यभिप्रायस्यानापत्तिः /(Vin_2.1902)
/ भूम्युत्घातः /
**(vin_2,4,74) प्रवारितार्थातिसेवायाम्* /
// नातियाचेत्* /(Vin_2.1903)
/ युक्तम् अनारोचितकालस्य तदसंभावनायां प्रतीष्टभोजनगृहोपसंक्रमणं* /(Vin_2.1904)
/ उद्योज[31ब्2]नञ् च परिवेषणे तिपत्तौ कालस्य /(Vin_2.1905)
/ न तत्वं व्यजनस्याद्रियेत्* /(Vin_2.1906)
/ स्वीकुर्यात् प्रत्येकप्रवारणां /(Vin_2.1907)
/ सप्रवारणे पि संघे /(Vin_2.1908)
/ सर्वकालां च /(Vin_2.1909)
/ विना मर्यादाव्यवस्थापनेन प्रवारितवतो न्यथा पौनःपुण्येनात्यर्थतया चोर्धम् अकृतप्रवारणाच<<त्*>> चतुर्थमासपरिसमाप्तेर् ऊर्धं प्रज्ञप्ताभ्यवहृतौ /(Vin_2.1910)
/ विज्ञप्तौ दुष्कृतं /(Vin_2.1911)
/ [31ब्3]अनापत्ते ग्लान्ये /(Vin_2.1912)
/ ज्ञातो? च /(Vin_2.1913)
/ पृथक्त्वं पूर्वस्य विभ्रमात्* /(Vin_2.1914)
/ अप्रवारितदोषकारित्वं तस्य /(Vin_2.1915)
/ पुरस्ताद् अपि येन न प्रवारितः /(Vin_2.1916)
/ प्रवारितार्थातिसेवा // वृत्* /
**(vin_2,4,75) शिक्षोपसंहारप्रतिक्षेपे /
/ अभिज्ञातायां /(Vin_2.1917)
/ आख्यातुः /(Vin_2.1918)
/ शिक्षायां /(Vin_2.1919)
/ अस्यान्ते शिक्षितस्य मित्याख्या दयमानायाम् उद्देशेन वा भिक्षुणा न शि[31ब्4]क्षिष्यामीत्य् एतत् कारणभावेन निवेदयितुरज्ञताम् उत्भावयतो वचनस्योदाहृतौ /(Vin_2.1920)
/ सौत्र्यां दुष्कृतस्य /(Vin_2.1921)
/ शिक्षोपसंहारप्रतिक्षेपः //
**(vin_2,4,76) उपश्रवगते /
/ भिक्षोर् अधिकरणसंप्रधारणस्य भिक्षुभिर् उपश्रुत्यर्थम् उत्सृज्योपशमनछन्देनावधाने /(Vin_2.1922)
/ प्रतिसंवेदनायां शब्दस्य दुष्कृतं /(Vin_2.1923)
/ अर्थस्य मौलं /(Vin_2.1924)
/ क्षोपकरणप्राह्व्येण चेत्* /(Vin_2.1925)
/ अर्थान्तर[31ब्5]वशायाम् उपश्लिष्टौ चेतनाद् ऊर्धम् पदच्छटोत्काशनशब्दादिभिःर् अचेतयतो न चेत् मुग्धः शमार्थी वा नियतमातृतायां पातः /(Vin_2.1926)
/ न कलिम् उपोद्[व्]अलयेत्* /(Vin_2.1927)
/ नोपशृणुयात नैनं कुर्वन्तम् अनुपरिवात्य तिष्ठेत्* /(Vin_2.1928)
/ नोपशान्त्यै न प्रयतेत्* /(Vin_2.1929)
/ उपश्रवगतम्* //
**(vin_2,4,77) सामग्रीभङ्गे /
// ज्ञप्त्यादिकर्म<<णि>> संनिपतितस्यानवलोक्य भिक्षुं प्रक्रान्तौ(Vin_2.1930)
[32अ1] / / श्रवणोपविचारातिक्रमे मूलं /
/ पुरस्तात्* दुष्कृतं /(Vin_2.1931)
/ विनार्थेन युक्तेनापक्रान्तौ /(Vin_2.1932)
/ कृतत्वे ज्ञप्तेः /(Vin_2.1933)
/ अधर्म्य <<र्थे>> च कर्मणः /(Vin_2.1934)
/ श्रवणदेशानतिक्रमेच्छायाम् अनापत्तिः /(Vin_2.1935)
/ समग्रीभङ्गः //
**(vin_2,4,78) अनादरवृत्ते /
/ स्थानगमनशयनासनविहारग्रहणभाषतद्विपर्ययादेर् उपनीतस्यार्थास्यानादराद् विना धर्म्यसंज्ञप्तिदाने व्यति[32अ2]क्रान्तौ /(Vin_2.1936)
/ भिक्षुसंघेन मौलं /(Vin_2.1937)
/ आचार्योपाध्यायैः दुष्कृतं /(Vin_2.1938)
/ अधर्म्यत्वे ज्ञप्तेः तत्वं कथावपातनस्य /(Vin_2.1939)
/ सुखं संघस्य तद्व्यवहारकः /(Vin_2.1940)
/ संघवद् बुद्धः /(Vin_2.1941)
/ न राजार्हन्*संघस्थविराणाम् आज्ञां कोपयेत्* /(Vin_2.1942)
/ अनादरवृत्तम्* //
**(vin_2,4,79) मद्यपाने /
// पाने मदनीयस्य <</>>(Vin_2.1943)
<</>> च्युतिर् अस्य तत्त्वात् क्वाथे <</>>(Vin_2.1944)
<</>> विद्यते खोलवक्कसभक्षणे [32अ3]तत्प्रवेशः /(Vin_2.1945)
/ अर्धत्वं किण्वपिण्डिकायां /(Vin_2.1946)
/ मदनीयानाम् मूलगण्डपत्र(प)पुष्पफलानां मद्यगन्धरसानां वा मदयितॄणां पेयानां /(Vin_2.1947)
/ निर्दोषो वर्णमात्रेण मद्यस्य सदृशम्* /(Vin_2.1948)
/ प्रयोगवत् गण्डूषधारणगात्रम्रक्षणे /(Vin_2.1949)
/ ग्लान्येनापत्तिः /(Vin_2.1950)
/ मद्यपानं // वृत /
**(vin_2,4,80) अकालचर्यायाम्* /
/ अकालतायाम /(Vin_2.1951)
[32अ4] अनवलोकितसत्भिक्षोः /(Vin_2.1952)
/ ग्रामप्रवेशे /(Vin_2.1953)
/ न चेद् अत्यात्ययिककार्यसन्निपातः /(Vin_2.1954)
/ अन्यत्र सञ्चारे त्र दुष्कृतं /(Vin_2.1955)
/ अभावे त्र भिक्षोस् तद्वत् भिक्षुणी /(Vin_2.1956)
/ अस्याः श्रामणेरः /(Vin_2.1957)
/ अस्य शिक्षमाणा /(Vin_2.1958)
/ तस्याः श्रामणेरी /(Vin_2.1959)
/ असत्वम् अबोद्धुः /(Vin_2.1960)
/ सीमान्तरस्थोत्क्षिप्तान्यपक्षाणाञ् च /(Vin_2.1961)
/ रिद्ध्या त्व् अनापत्तिः /(Vin_2.1962)
/ [32अ5] अकालचर्या //
**(vin_2,4,81) कुलचर्यायाम्* /
// चतुर्थादाव् अकाले कुल उपसंक्रमणे /(Vin_2.1963)
/ तन्मुखिकया च संघोपनिमन्त्रणेनास्मद् आनागमनवशात् परिवेषो ऽतिपात्य इत्य् अपरिप्राप्य दातरि तृतीयप्रभृतौ /(Vin_2.1964)
/ कुलचर्या // वृत /
**(vin_2,4,82) राजकुलरात्रिचर्यायाम्* /
/ अप्रभातत्वे /(Vin_2.1965)
/ अन्त्यारुणस्यैतद् अत्रानुत्गतत्वं /(Vin_2.1966)
/ अन्तःपुरनिवासस्थानसम्बद्धतायाम्* / 1968 / [32ब्1]अतदा प्रस्तुताव् अपि / (Vin_2.1967)
/ प्रतिरात्रि /(Vin_2.1969)
/ तत्कीलोपविचारान्तो तदादिः <</>>(Vin_2.1970)
<</>> एवं राजकुलनगरयोः /(Vin_2.1971)
/ राजकुलस्थानेन च /(Vin_2.1972)
/ नागरेण दुष्कृतं /(Vin_2.1973)
/ तदर्थता चेत्* /(Vin_2.1974)
/ द्वितीयञ् चेद् अत्रावद्यं /(Vin_2.1975)
/ न चेद् राजदेविकुमारामत्यान्तरायविनयनवशेन /(Vin_2.1976)
/ ना(न)नुश्राव्य राजकुलं प्रविशेत्* /(Vin_2.1977)
/ राजकुलरात्रिचर्या /
**(vin_2,4,83) शिक्षापदद्रव्यताध्याचारे /
/ [32ब्2]वर्तमाने प्रातिमोक्षोद्देशे नुभूतवतद्वयस्यासंविग्नेन मनसा संप्रति मया ज्ञातम् अयम् अप्य् अत्र धर्मो विद्यत इत्य् अस्योक्तौ /(Vin_2.1978)
/ अन्यव्यञ्जनेनोद्देशे साधारणिं* प्रति दुष्कृतं /(Vin_2.1979)
/ सौत्र्याञ् च <<नोक्ता>> भाषमाणायां /(Vin_2.1980)
/ अनापत्तिर् असाधारणीं* /(Vin_2.1981)
/ असत्कृत्य प्रातिमोक्षोद्देशश्रुतिम् उपनयन्तं संवेजयेयुः /(Vin_2.1982)
/ शिक्षापदद्रव्यताध्याचारः /
**(vin_2,4,84) सूचीगृहकसंपादने /
/ [32ब्3]दन्तास्थिविषाणमयसूचीगृहककरणकारणे /(Vin_2.1983)
/ कृतलाभपरिभोगयोर् अनापत्तिः /(Vin_2.1984)
/ नापृष्ट्वाभिन्नतां देशनां प्रतिगृह्णीयात्* /(Vin_2.1985)
/ अदेशितत्वम् अभित्वा चेत्* /(Vin_2.1986)
/ उत्तरेष्व् अप्य् एतत् पञ्चप्रछेदोपसंहितं /(Vin_2.1987)
/ उद्दालेन द्वितीये /(Vin_2.1988)
/ सूचीगृहकसंपादनम्* //
**(vin_2,4,85)पादकसंपादने /
// न निकटपादिकायां खट्वायां शयीत्* /(Vin_2.1989)
/ न [32ब्4]शय्यास्थानगतमञ्चानुसहिते प्रदेशे पादौ प्रक्षालयेत्* <</>>(Vin_2.1990)
<</>> सन्निहितपदत्राणः /(Vin_2.1991)
/ अन्यश् च मुक्त्वा शिरः पादान्तौ /(Vin_2.1992)
/ नोच्चशयनमहाशयने निषीदेन् निपद्येत्* /(Vin_2.1993)
/ कुर्वीतासम्भवे न्यस्य पूर्वम् अन्तर्गृहे /(Vin_2.1994)
/ कल्पेत्* सप्रतिपादके शय्यां <</>>(Vin_2.1995)
/ न पीठातिपीठे निषीदेत्* /(Vin_2.1996)
/ प्रमाणाद् ऊर्धं करणकारणे /(Vin_2.1997)
/ परेषु च द्विती[32ब्5]यात् त्रिषु /(Vin_2.1998)
/ माञ्चपीठयोः सांघिकयोः /(Vin_2.1999)
/ उत्तरे च /(Vin_2.2000)
/ पादकानां /(Vin_2.2001)
/ अहस्त एष माटनिकाप्रदेशवर्ज्यानां प्रमाणं /(Vin_2.2002)
/ सौगततृतीये /(Vin_2.2003)
/ उत्तरेषु च /(Vin_2.2004)
/ पादकसंपादनम्* //
**(vin_2,4,86) अवनाहे /
// तूलेनोपनाहे /(Vin_2.2005)
/ स्वयन्नियुक्तेन वा /(Vin_2.2005)
/ पञ्च तूलानि शाल्मलमार्कं काशमयं वौकमैर[33अ1]कञ् च /(Vin_2.2006)
// अवनाहः // 86 //
**(vin_2,4,87) निषदनगते /
/ निषदनस्य प्रमाणम् अस्य दैर्घ्यस्य हस्तत्रयं/(Vin_2.2007)
/ आध्यर्धाच् चोर्धम् अकारयतः /(Vin_2.2008)
/ विस्तारस्य हस्तद्वयं षड्वाङ्गुलयः /(Vin_2.2009)
/ दुष्कृतम् अस्य न्यूनस्याधिष्ठानम्* /(Vin_2.2010)
/ उत्तरस्य च द्वयस्य /(Vin_2.2011)
// निषदनगतम् // 87 //
**(vin_2,4,88) कण्डूप्रतिच्छादने /
/ कण्डूप्रतिछादनस्य /(Vin_2.2012)
/ षडकं हस्तानां त्रयः /(Vin_2.2013)
// कण्डूप्रतिछादनगतं* // 88 //
**(vin_2,4,89) वर्षाशाट्याम् /
/ [33अ2] वर्षाषाट्याः /(Vin_2.2014)
/ नवकं त्रयम् अष्टाडशाङ्गुलयः /(Vin_2.2015)
// वर्षाषाटीगतं // 89 //
**(vin_2,4,90) सुगतचीवरे /
/ पञ्चत्रिकं शास्तुः स्वहस्तेन चीवरं /(Vin_2.2016)
/ तत्प्रमाणस्यातत् तनोर्ध्वम् वा चीवरस्य करणकारणे /(Vin_2.2017)
/ नैतद् वारयेत /(Vin_2.2018)
// सुगतचीवरगतम्* // 90 // // शुद्धप्रायश्चित्तकानि समाप्तानि //
2,5 प्रातिदेशनीयम् / // वृत //
/ अज्ञातिकतायां /(Vin_2.2019)
/ भिक्षुण्याः /(Vin_2.2020)
/ स्वप्रतिपादि[33अ3]तस्यापरिवेषेण स्वयं ग्रामस्थेन प्रतिगृह्य खादनीयभोजनीयस्याभ्यवहारे /(Vin_2.2021)
/ न वर्षकस्य ग्रामत्वं /(Vin_2.2022)
/ न भिक्ष्वावासस्य /(Vin_2.2023)
/ अर्धत्वम् आकाशस्य /(Vin_2.2024)
/ नासन्निधौ निक्षेप्तुर् आदानं निक्षिप्तस्य तस्मा(म्मा)त्* /(Vin_2.2025)
// भिक्षुणीपिण्डग्रहणं नाम प्रथमं प्रतिदेशनीयम् // 2,5,1 //
/ खाद्यकम् इह देहि पानकं भो[33अ4]जनं भूयो चेत्यादि तस्मिन्* भिक्ष्वन्तरे वा व्यपदेशप्रवृत्तभिक्षुण्यवस्थानकर्तृ /(Vin_2.2026)
/ न चेत् तन्मुखिकया तत्ज्ञातिना वा निमन्त्रणकम् /(Vin_2.2027)
/ उत्सृज्य गन्त्रिव्यपदेशम् अदत्तदापनञ् च /(Vin_2.2028)
/ आगमयस्व तावद् भगिनि यावद् भिक्षवो भुञ्जत इत्य् अनाज्ञप्तायां तस्यां भिक्षुणा येन केन चिद् असहभुजा पितृप्रभृतिभिक्षुनिमन्त्रणक[33अ5]भुक्तौ /(Vin_2.2029)
/ कुले /(Vin_2.2030)
/ उपचारप्राप्त चेत्* सावचनस्य मौल्याः /(Vin_2.2031)
/ न चेत्* दुष्कृतस्य /(Vin_2.2032)
/ त्यतात्राज्ञप्ततायां व्यवस्थापनं /(Vin_2.2033)
/ तस्मात् प्रश्नायौत्सुक्यम् आपद्येत् /(Vin_2.2034)
/ वृद्धाप्रवृत्ताव् अत्र नवकः प्रवर्तेत /(Vin_2.2035)
// पंकतिवैषम्यवादानवारितत्वे भुक्तिद्वितीयं प्रातिदेशनीयं // 2,5,2 //
/ श्राद्धस्य विघातश् चेद्द् अस्य दाने कुल[33ब्1]शिक्षासम्वृतिं दद्युः /(Vin_2.2036)
/ प्रज्ञप्त्या प्रतिप्रश्रम्भणं च /(Vin_2.2037)
/ दत्तैतदश् चित्तं बुद्ध्वा निवेशनगमनासनपरिभोगधर्मदेशनानि कुर्यात्* /(Vin_2.2038)
/ न रिक्तपात्रः प्रविशेत्* /(Vin_2.2039)
/ दद्याद् अस्य याचमानेभ्यो बालेभ्यः पिण्डपात्रात् पूपिकाम् असकलां /(Vin_2.2040)
/ अर्थिनि प्रतिप्रश्रम्भणम्* /(Vin_2.2041)
/ दत्ताशिक्षासम्वृतेः कुलात् प्राक्तद्दानाद् अनिमन्त्रितश् च प्रतिगृह्य खादनी[33ब्2]यभोजनीययोर् उत्सृज्यककटिकामूलकहरितकम् अविघात्य् अभ्यवहृतौ /(Vin_2.2042)
// कुलशिक्षाभङ्गप्रवृत्तिः तृतीयं प्रतिदेशनीयम्* // 2,5,3 //
/ सम्मन्येरन् वनप्रतिसम्वेदकां भिक्षुं* /(Vin_2.2043)
/ अर्धयोजनम् असौ समन्ततः प्रत्यवेक्षेत् /(Vin_2.2044)
/ सभयतायां धूमं कुर्यात्* /(Vin_2.2045)
/ पताक उत्स्रयेत /(Vin_2.2046)
/ पत्रवैभङ्गुकानि मार्गे स्थापयेत /(Vin_2.2047)
/ दद्युर् अस्मै [33ब्3] सत्यार्थिकत्वे पुरोभक्तिकां /(Vin_2.2048)
/ सहायकञ् च / वृत /(Vin_2.2049)
/ अप्रतिसम्विदिततायां वनस्य /(Vin_2.2050)
/ अरण्ये बहिरारामस्य प्रतिगृह्य खादनीयं भोजनीयम् चाभ्यवहरेत्* /(Vin_2.2051)
/ अर्धकृत्त्वं दक्षासम्वादे /(Vin_2.2052)
/ अन्यत्र <<च>> भयस्थानाद् वर्तमानतायां /(Vin_2.2053)
// वनविषयगतं चतुर्थं प्रतिदेशनीयं // 2,5,4 // // समाप्तानि च प्रातिदेशनीयानि //
2,6 क्षुद्रशिक्षापदानि /
/ [33ब्4] तथा निवसनं निवसीत यथा परिमण्डलं संस्थितं स्यात्* /(Vin_2.2054)
/ न चात्युत्कृष्टन् नात्यपकृष्टं /(Vin_2.2055)
/ नांशेन शुण्डावलम्बितं /(Vin_2.2056)
/ नोद्गतं /(Vin_2.2057)
/ न फणवत् प्रत्यागतं /(Vin_2.2058)
/ न सम्वर्तिकया स्थितं /(Vin_2.2059)
/ तथा चीवरं प्रावृण्वीत यथा स्याद्यं त्रयं स्यात्* /(Vin_2.2060)
/ सुसंवृतो न्तर्गृहं गच्छेत /(Vin_2.2061)
/ सुप्रतिछन्नो ल्पशब्दो नुत्क्षिप्तचक्षुः युगमात्रदर्शीं* /(Vin_2.2062)
/ नोत्गुण्ठिक[33ब्5]याकृतिकया नोत्कृष्टिकया /(Vin_2.2063)
/ न वितस्तिकया /(Vin_2.2064)
/ न पर्यस्तिकया /(Vin_2.2065)
/ नोत्टङ्किकया /(Vin_2.2066)
/ नोज्जङ्घिकया /(Vin_2.2067)
/ नोल्लङ्घिकया /(Vin_2.2068)
/ नोत्कुटुकिकया /(Vin_2.2069)
/ न स्तम्भाकृता /(Vin_2.2070)
/ न कायप्रचालकं /(Vin_2.2071)
/ न बाहुप्रचालकं /(Vin_2.2072)
/ न शीर्शप्रचालकं /(Vin_2.2073)
/ नांसे ढौकिकया /(Vin_2.2074)
/ न हस्तसंखग्निकया /(Vin_2.2075)
/ नात्राननुज्ञातासने निषीदेत /(Vin_2.2076)
/ [34अ1] नाप्रत्यवेक्ष्य /(Vin_2.2077)
/ न सर्वकायं समवधाय / << नपादौ पादाम् आधाय //>>(Vin_2.2078)
/ न सक्थिनि सक्थि /(Vin_2.2079)
/ न गुल्फे गुल्फं /(Vin_2.2080)
/ न संक्षिप्य पादौ /(Vin_2.2081)
/ न विक्षिप्य /(Vin_2.2082)
/ न विडङ्गिकया /(Vin_2.2083)
/ न करे कपोलं दत्त्वा /(Vin_2.2084)
/ न प्रतिपुटकम् आसनम् उत्सर्पयेत् /(Vin_2.2085)
/ सर्व सत्कृत्य पिण्डपादं प्रतिगृह्णीयात /(Vin_2.2086)
/ न समतित्तिकं /(Vin_2.2087)
/ समसूपिकं /(Vin_2.2088)
/ सावदानम्* /(Vin_2.2089)
/ नानागते खादनीये भोजनीये पा[34अ2]त्रम् उपनामयेत्* /(Vin_2.2090)
/ नोपर्यस्य धारयेत्* /(Vin_2.2091)
/ सत्कृत्य पिण्डपातं प्रतिभुञ्जीत्* /(Vin_2.2092)
/ नातिखुद्दकैर् आलोपैः /(Vin_2.2093)
/ नातिमहद्भिः /(Vin_2.2094)
/ नानागत आलोपे मुखद्वारं वृण्वीत्* /(Vin_2.2095)
/ न भूयस्कामतयौदनेन सूपिकं सूपिकेन चौदनं प्रतिछादयेत /(Vin_2.2096)
/ नचुच्चुकारं /(Vin_2.2097)
/ न थुत्थुकारं /(Vin_2.2098)
/ न सुस्सुकारं /(Vin_2.2099)
/ न सालोपेन मुखेन वाचं [34अ3] निश्चारयेत्* /(Vin_2.2100)
/ न सित्थपृथक्कारं /(Vin_2.2101)
/ नावर्णकारं /(Vin_2.2102)
/ नगल्लापहारं /(Vin_2.2103)
/ न कवडछेदं /(Vin_2.2104)
/ न जिह्वास्फोटनिश्चारं /(Vin_2.2105)
/ न स्तूपाकृत्यवमर्दम्* /(Vin_2.2106)
/ न हस्तपात्रावलेहसन्*धूनसंतोलम्* /(Vin_2.2107)
/ पात्रसंज्ञी /(Vin_2.2108)
/ नावध्यानप्रेक्ष्यन्तरिकस्य भिक्षोः पात्रम् अवलोकयेत्* /(Vin_2.2109)
/ न सामिषेण पाणिनोदकस्थालकं प्रतिगृह्णीयात्* /(Vin_2.2110)
/ [34अ4] न सामिषेणोदकेनान्तरिकं भिक्षुं सिञ्चेत्* /(Vin_2.2111)
/ नैतद् अन्तर्गृहे छोरयेद् अनवलोक्य गृहपतिं /(Vin_2.2112)
/ न पात्रेण विघसं छोरयेत्* /(Vin_2.2113)
/ त्रिः प्रक्षाल्य पात्रमार्षभिर् गाथाभिर् अभिमन्त्रपात्रोदकं दद्यात्* /(Vin_2.2114)
/ नानास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयेत /(Vin_2.2115)
/ नोत्थितो निर्मादयेत /(Vin_2.2116)
/ नास्यैतद् उभयम् अतटो कुर्यात्* /(Vin_2.2117)
/ न प्रपातेन प्राग्भारेण न चतुस्पथे /(Vin_2.2118)
/ [34अ5] नानुश्रोतोनेन नद्याहार्यहारिण्याः पानीयं गृह्णीयात्* /(Vin_2.2119)
/ प्राग् उच्चारप्रस्रावाद् अग्लानाय /(Vin_2.2120)
/ तत्राग्लानः /(Vin_2.2121)
/ नोत्थितो निषण्णाय धर्मं देशयेत्* /(Vin_2.2122)
/ न निषण्णो निपन्नाय /(Vin_2.2123)
/ न नीचतरासने निषण्ण उच्चतरके निषण्णाय /(Vin_2.2124)
/ हीनप्रणीततो प्य् एते /(Vin_2.2125)
/ न पृष्टतो गच्छन्* पुरतो गच्छने /(Vin_2.2126)
/ नोत्पथेन पथं /(Vin_2.2127)
/ नोद्गुण्ठिकादिकृताय /(Vin_2.2128)
/ [34ब्1] न हस्त्यश्वयानसिबिकामञ्जपादुकारूढाय /(Vin_2.2129)
/ न खोलामौल्युष्णीषवेष्टितमालाशिरसे /(Vin_2.2130)
/ न छत्रदण्डशस्त्रखत्गायुधपाणये /(Vin_2.2131)
/ न सन्नद्धाय /(Vin_2.2132)
/ नोत्थित <<उच्चार>>प्रस्रावं कुर्यात्* /(Vin_2.2133)
/ न हरिते पृथिवीप्रदेशे /(Vin_2.2134)
/ न छोरयेत /(Vin_2.2135)
/ खेटसिं*घानकवान्तं रिक्तञ् च /(Vin_2.2136)
/ नोदके /(Vin_2.2137)
/ न पुरुषदघ्नाद् ऊर्धं वृक्षस्याधिरोहेद् अन्यत्रापदः / << शैक्शासमाप्त / समाप्तश् च विभङ्गः >> अथ भिक्षुणीविभङ्गः / पाराजयिकम् /(Vin_2.2138)
/ प्रागापत्तियोगे वच[34ब्2]नात् भिइक्षुण्याम्* /(Vin_2.2139)
/ चतुष्टयं स्वीकारे /(Vin_2.2140)
/ चक्षुर्जान्वन्तरालेन /(Vin_2.2141)
/ स्पर्शस्य /(Vin_2.2142)
/ पुंसः /(Vin_2.2143)
/ मेथुनरागेन /(Vin_2.2144)
/ अङ्गान्तरेण /(Vin_2.2145)
/ स्थूलम्* /(Vin_2.2146)
/ ह्रासो न्येन चेतसा /(Vin_2.2147)
/ पंसश् चेत् तदानीम्* तत्र विज्ञायमानन् तयैतत्(अ) /(Vin_2.2148)
/ न चित्ततो पि /(Vin_2.2149)
/ अनापत्तिर् अस्त्वीकृतौ /(Vin_2.2150)
/ अदुष्टं पुत्रस्पर्शनं /(Vin_2.2151)
/ न बालम् अप्य् अन्यन्न स्पृशेत्* /(Vin_2.2152)
/ प्रतिबलत्वे सेवायां पुंस कामोपसंहि[34ब्3]ते(Vin_2.2153)
तद्गतार्थपरिज्ञाने वाचि परिपूर्णकारित्वं /(Vin_2.2154)
// स्पर्शपाराजयिकं // 2,6,1 //
/ पञ्जरोपनिक्षेपे /(Vin_2.2155)
/ रक्तया /(Vin_2.2156)
/ प्रत्युपस्थितं सेवायां रक्तन् तस्यां पुमांसं तत्प्राप्यतायां /(Vin_2.2157)
/ औद्धत्यस्य रक्तेन सार्द्धं रक्तया करणे स्थूलं /(Vin_2.2158)
/ द्रव्यस्य कादर्यस्य /(Vin_2.2159)
/ उद्देशस्य /(Vin_2.2160)
/ अत्र प्रतीष्टौ च /(Vin_2.2161)
/ संकेतस्य /(Vin_2.2162)
/ निमित्तस्य /(Vin_2.2163)
/ आगमनगमनप्रवृत्तस्य चास्य /(Vin_2.2164)
/ स्वी[34ब्4]कारे /(Vin_2.2165)
// पञ्जरोपनिक्षेपपाराजयिकं // 2,6,2 //
/ पाराजयिकस्य भिक्षुण्याः प्रतिछादने /(Vin_2.2166)
// [इति] प्रतिछादनपाराजयिकं // 2,6,3 //
/ निश्चितस्यावसारणयाच्ञायाम् उत्क्षिप्तस्य /(Vin_2.2167)
/ भिक्षोः कृतावन्दनार्हसम्वृतज्ञात्वा तो निवारकत्वस्याप्रतिनिःसङ्गे /(Vin_2.2168)
/ पराक्रन्तत्वस्येव भेदेन /(Vin_2.2169)
// निवारणपाराजयिकं // 2,6,4 // समाप्तानि च भिक्षुणीपाराजयिकानि //
संघावशेषाः /
/ सांचारित्रं /(Vin_2.2170)
/ आगा[34ब्5]रिकत्वे भिक्षुण्याः प्रलोभने स्थूलं /(Vin_2.2171)
/ वेशस्य चान्यया वाहने /(Vin_2.2172)
/ नातः पण्येन दास्याः प्रेषणस्य बहिर् भावः /(Vin_2.2173)
// भिक्षुणीसांचारित्रसंघावशेषा // 2,7,1 //
/ अमूलकलेशिके /(Vin_2.2174)
/ पुंस्त्वे स्तित्वम् अत्र पुंस्त्वम्* /(Vin_2.2175)
/ किञ्चित्कस्वीकारे /(Vin_2.2176)
/ रक्तया /(Vin_2.2177)
/ पुरुषात्* /(Vin_2.2178)
/ रक्ताद् अरक्ताच् च /(Vin_2.2179)
/ अरक्तया स्थूलं /(Vin_2.2180)
/ दुष्कृतम् अरक्तात् किञ्चित्कग्रहः /(Vin_2.2181)
/ न रक्ताद् अरक्तायाः [35अ1] किञ्चित्कस्वीकारे दोष इति भिक्षुणीबोधने /(Vin_2.2182)
// किञ्चित्कग्रहसमादापनम्* // 2,7,2 //
/ चतुर्षु उत्तरेषु विना भिक्षुण्याः /(Vin_2.2183)
/ वितृतीयत्वं शिक्षमाणत्वं तृतीयो ऽङ्गः श्रामणेरी /(Vin_2.2184)
/ निर्दोषो कामविप्रयोगः /(Vin_2.2185)
/ अन्तरायापातवशतया च /(Vin_2.2186)
/ प्रयोगत्वं प्राच्यन्ततः काले गतस्य /(Vin_2.2187)
/ अस्तङ्गमान्तो दिवसान्तः /(Vin_2.2188)
/ रात्रो वहिर्वर्षकात् भावे /(Vin_2.2189)
// रात्रिविप्रवासः // 2,7,3 //
/ [35अ2] दिवा /(Vin_2.2190)
/ चीवरेद् एकाकिनी ज्ञातिगृहभुक्तिनिमित्तं दुर्भिक्षे लब्धायां ज्ञातिभिर् सार्द्धं सम्बन्धोपविचारसम्वृतौ / (Vin_2.2191)
/ दद्युर् एनाम् /(Vin_2.2192)
// दिवाविप्रवासः // 2,7,4 //
/ अध्व्रप्रतिपत्तौ /(Vin_2.2193)
/ अध्वावतारः /(Vin_2.2194)
/ नदीपारसन्तरणे /(Vin_2.2195)
/ पारप्राप्तौ बाहुभ्याम्* /(Vin_2.2196)
/ स्थूलम् अर्वाक्(अ) /(Vin_2.2197)
/ दुष्कृतं कुल्यापारस्य /(Vin_2.2198)
// नदीलंघनं // 2,7,5 //
/ प्रव्राजने /(Vin_2.2199)
/ गणसंमतस्वामी परित्यक्तराजा स्वानुज्ञा[35अ3]तायाः /(Vin_2.2200)
/ मारण प्रति /(Vin_2.2201)
/ उपाध्यायिकत्वेन /(Vin_2.2202)
/ जानन्त्येतत्* /(Vin_2.2203)
// प्रव्राजनं // 2,7,6 //
/ मृतधनोद्ग्रहणे /(Vin_2.2204)
/ अनापत्ति सांघिकस्य /(Vin_2.2205)
/ अल्पायासेन चेत्* /(Vin_2.2206)
// उद्ग्रहणम्* // 2,7,7 //
/ बहिःसीम्न्य् अवसारणे /(Vin_2.2207)
// अवसारणं // 2,7,8 //
/ रत्नप्रत्याख्यानम् इदं तुल्यत्वम् अन्यश्रमणानां तत्र ब्रह्मचर्यचरिष्यत्व(ं)म् इत्य् अस्यावचनप्रवृत्तेर् अविरतौ /(Vin_2.2208)
/ संघभेदप्रवृत्तेर् इव /(Vin_2.2209)
/ उत्त[35अ4]राद्यश् च /(Vin_2.2210)
// प्रत्याख्यानम्* // 2,7,9 //
/ छन्दादिगामितानुयुक्ते(र्) भिक्षुणीनां /(Vin_2.2211)
/ कलहभण्डनविग्रहविवादात् भिक्षुणीभिः सार्द्धम् विचारणे /(Vin_2.2212)
// कलहवृत्तम्* // 2,7,10 //
/ सं*सृष्टविहृते भिक्षुण्याः /(Vin_2.2213)
/ औद्धत्यद्रवकातर्यहेतुभूतयोः /(Vin_2.2214)
// स्त्रीसन्सर्गगतम्* // 2,7,11 //
/ तत्सन्सर्गसमादापने /(Vin_2.2215)
// समादापनम्* // 2,7,12 //
/ संघभेदादेश् चतुष्टया भिक्षु(णी)गतात्* /(Vin_2.2216)
// [इति] संघभेदादिचतुष्टयम् // 2,7,13-16 // // [35अ5] संघावशेषसमाप्तः //
नैस्सर्गिकाः / // दशकम्(अ) //
/ जातरूपरजतरूपिकक्रयविक्रयन् नहनतन्त्रवायद्वयाछेदपरिणमनसन्निधिगतञ् च /(Vin_2.2217)
// [इति] जातरूपरजतादिदशकम् // 2,8,1-10 //
/ भिक्षोर् धावनादाव् अतः प्रतिगृहे /(Vin_2.2218)
// [इति] प्रतिग्रहः // 2,8,11 //
/ भिक्षुण्यै दत्त्वा /(Vin_2.2219)
/ न देवछन्दन् धारयेत /(Vin_2.2220)
/ अतिरेकपात्रस्यैकाहा ऊर्ध्वं धारणे /(Vin_2.2221)
// पात्रधारणं // 2,8,12 //
/ प्रत्यर्द्धमासम् आर्ये हन्य् अनधिष्ठितो वाधिष्ठानिकस्य /(Vin_2.2222)
// अनधिष्ठानम्(अ) // 2,8,13 //
/ [35अ6] फल्गुनान्त्यदिवसादर्वाक् कठिनोद्धारे /(Vin_2.2223)
/ अनापत्तिश् चौरम् उषितकभिक्षुण्यर्थतायां /(Vin_2.2224)
// कठिनोद्धारः // 2,8,14 //
/ अनुद्धारे /(Vin_2.2225)
/ तत्* /(Vin_2.2226)
// कठिनानुद्धारः // 2,8,15 //
/ हिरण्यसुवर्णविज्ञपने /(Vin_2.2227)
// रत्नविज्ञपनम्* // 2,8,16 //
/ अन्यार्थं लब्धस्य चीवरस्यामिषीकृत्याभ्यवहरणार्थम् अधिष्ठाने /(Vin_2.2228)
// चीवरभक्षणगतम्* // 2,8,17 //
/ चीवरशयनासनवर्षकार्थञ् च /(Vin_2.2229)
/ यस्य कस्य [35ब्1] चित्* /(Vin_2.2230)
// चीवरादिभक्षणगतम्* // 2,8,18 //
/ भिक्षुणी महाजनार्थं समादाप्य स्वत्र परिणमनम्* /(Vin_2.2231)
// महाजनोद्देशिकाधिष्ठानम्* // 2,8,19 //
/ संघार्थञ् च /(Vin_2.2232)
// संघोद्देशिकाधिष्ठानं // 2,8,20 //
/ वचनस्वीकारार्थं बद्धस्यार्थस्य मोचने /(Vin_2.2233)
// मोचनम्* // 2,8,21 //
/ पलशतिकादिविं*शतिकार्षापणादिमूल्यस्य वाससः स्वाकारे(ः) /(Vin_2.2234)
// गुरुवस्त्रसंभजनं // 2,8,22 //
/ [35ब्2] पञ्चपलिकपर्यन्तस्य च /(Vin_2.2235)
// लघुवस्वन् सं*भजनम् // 2,8,23 // // नैःसर्गिकाः समाप्ताः // // द्विसप्ततिः //
शुद्धकप्रायश्चित्तिकम् /
/ असम्मतादिदशकनिष्कर्षणपरंपरप्रणीतनिषद्यास्था<<नात्*>> न प्रत्युद्धृतोनशाटीगतवर्जम्* // 2,9,1 // (Vin_2.2236)
/ कल्पिकं भिक्षोर् आमिषमोपसंहरणं प्रव्रजितायै /(Vin_2.2237)
/ पत्नीचरित्वे पि /(Vin_2.2238)
/ ग्रहणं च तस्याः /(Vin_2.2239)
/ न सशय्यायाममहतः पुत्रस्य [35ब्3] वर्ज्यत्वम्* /(Vin_2.2240)
/ लब्धसम्वृतेः /(Vin_2.2241)
/ दानम् अस्याः /(Vin_2.2242)
/ प्रव्राजनोपसंपादनयोः /(Vin_2.2243)
/ अपरिपूर्णद्वादशवर्षतायाम्* /(Vin_2.2244)
/ आत्मोपसम्पन्नतायाः /(Vin_2.2245)
/ ऊनोपस्थानं(Vin_2.2246)
/ दद्युः पर्षदनलपर्षदुपस्थापनसंवृती /(Vin_2.2247)
/ प्रतिबलायै तदुपस्थापने /(Vin_2.2248)
/ पूर्णतायां द्वादशत्वस्योपसंपद् वर्षाणां /(Vin_2.2249)
/ नान्या याचेत्* /(Vin_2.2250)
/ [35ब्4] अलब्धप्राक्* संवृतेः पर्षदुपस्थापने /(Vin_2.2251)
// अलब्धसंवृत्युपस्थापनम्* // 2,9,2 //
/ अमितपर्षदः परस्यां /(Vin_2.2252)
/ अनलोपस्थापनम्* /(Vin_2.2253)
/ उपसंपादने द्वादशवर्षत्वाद् अर्वाग् परिणीतायाः /(Vin_2.2254)
// ऊनद्वादशवर्षोपसंपा<<द>>नम्* // 2,9,3 //
/ विं*शतेर् अन्यस्याः /(Vin_2.2255)
// ऊनविं*शतिवर्षोपसंपादनं // 2,9,4 //
/ उपाध्यायिकत्वेनादत्तशिक्षयोः /(Vin_2.2256)
/ पर्वलं[35ब्5]घने /(Vin_2.2257)
/ अचरितत्वे स्याः /(Vin_2.2258)
// अशिक्षितशिक्षोपसंपादनम्* // 2,9,5 //
/ चरिततायां नो /(Vin_2.2259)
// चरितशिक्षानुपसंपादनम्* // 2,9,6 //
/ स चेन् मे चीवरं ददासि ततः स्वोपसंपादयामीत्य् उपसंपत्प्रेक्षया वचने /(Vin_2.2260)
// धर्मपणनम्* // 2,9,7 //
/ प्रव्राजनानुकूल्यसंदर्शनेन संक्षेप्य गृहविस्तरम् अप्रव्राजने /(Vin_2.2261)
// विप्रवादनम्* // 2,9,8 //
/ प्रव्राजने नुवर्षम्* /(Vin_2.2262)
/ [36अ1] सन्तानवहुल्यम्* /(Vin_2.2263)
/ अननुज्ञातायाः स्वामिना /(Vin_2.2264)
// [इति] अननुज्ञातोपसंग्रहः // 2,9,9 //
/ व्यभिचारिण्याः /(Vin_2.2265)
/ गर्भिण्याः /(Vin_2.2266)
/ शोकहतायाः /(Vin_2.2267)
/ भण्डकारिण्या उपसम्पादने ऽपि /(Vin_2.2268)
// [इति] सापक्षालोध्वं संग्रहगतम् // 2,9,10 //
/ प्रव्राजितोपसम्पादितयोर् अनुपग्रहे /(Vin_2.2269)
/ अनपकर्षणे ऽन्तरायदृष्टौ /(Vin_2.2270)
/ अशिक्षणे /(Vin_2.2271)
/ अ[36अ2]नुपस्थापने ग्लानयोः /(Vin_2.2272)
/ सान्तेवासिन्योः /(Vin_2.2273)
// [इति] अध्युपेक्षणगतम् // 2,9,11 //
/ स्वयं सेव्ये जतुलोठकस्यान्तरा धारणे /(Vin_2.2274)
/ न प्रतिस्रोतो व्यायच्छेत /(Vin_2.2275)
/ न योनद्वारे शुक्रं प्रतिक्षिपेत् /(Vin_2.2276)
/ न चर्मपट्तेन पार्श्वबन्धनं कुर्वीत /(Vin_2.2277)
/ न वेमपट्टेन स्तनयोः /(Vin_2.2278)
/ न सुगतान्तरायेनान्तरणम् /(Vin_2.2279)
/ निदर्शनम् एतत् /(Vin_2.2280)
// [इति] अनङ्गसेवा // 2,9,12 //
/ अङ्गुलि[36अ3]पर्वद्वयाद् ऊर्ध्वं व्यञ्जनस्यान्तःशोचने /(Vin_2.2281)
/ अनङ्गम् एव प्रतिकृतिः /(Vin_2.2282)
/ पाणितलघातस्यात्र दाने /(Vin_2.2283)
// [इति] अनङ्गसेव्[आ]विधिव्याबाधवृत्तम् // 2,9,13 //
/ रोमापनीतेरतः करणकारणयोः /(Vin_2.2284)
// [इति] सेव्योपकल्पनम् // 2,9,14 //
/ गृहिणा सार्द्धं स्थितौ प्रतिच्छन्ने /(Vin_2.2285)
/ कुड्यवाटवस्त्रगहनान्धकारैर् एतत्वं संपत्तिः /(Vin_2.2286)
/ भिक्षुणा /(Vin_2.2287)
/ अभ्यवकाशे पूर्वेण /(Vin_2.2288)
/ [36अ4] उत्तरेण /(Vin_2.2289)
/ ऊनापत्तिः सद्वितीयतायाम् अस्य /(Vin_2.2290)
/ सपश्चात्सच्छ्रमणिकात्वे भिक्षुण्याः /(Vin_2.2291)
/ गृहिण उपकर्णकेन सन्देशदाने /(Vin_2.2292)
/ गृहणे ऽस्यैव मतः /(Vin_2.2293)
/ भिक्षोः /(Vin_2.2294)
/ अतश् च /(Vin_2.2295)
/ विद्योद्ग्रहणे गृहिणः /(Vin_2.2296)
/ पाठने ऽस्यास्याः /(Vin_2.2297)
/ वधवधव्रणमोचने /(Vin_2.2298)
/ व्याजेन /(Vin_2.2299)
/ तस्माद् अनापत्तिः भूततायाम् अर्थस्य /(Vin_2.2300)
// [इति] असंस्पर्शिसंसर्ग[36अ5]गतानि // 2,9,15 //
/ सन्तानधारणे /(Vin_2.2301)
// [इति] प्रसवाभिष्वङ्गः // 2,9,16 //
/ गृहस्वामिनम् अनवलोक्यान्तर्गृहे रात्र्यतिनमने /(Vin_2.2302)
/ अनापत्ति स्त्र्यधीनतायां तदवलोकने /(Vin_2.2303)
/ रात्रेर् अप्रत्यवेक्ष्य प्रतिच्छन्ने ऽतिनामनम् /(Vin_2.2304)
/ लयने विना परया भिक्षुण्या /(Vin_2.2305)
/ अनापत्तिः हतादित्वे ऽस्याः /(Vin_2.2306)
/ अवष्टम्भायतद्वारपरिहरणानि /(Vin_2.2307)
[/ भिक्षुण्यासार्ध्यम् एकञ् च ]
/ [36ब्1] संस्पृष्टशय्याकल्पने /(Vin_2.2308)
/ अनापत्तिर् अनया सार्द्धम् अनेकयापि कृतावरणतायां वृश्यादिनोपस्थितस्मृतिर् अनास्वादने ऽङ्गसंस्पर्शस्याचलमञ् चे प्राकृते संस्तरे वा /(Vin_2.2309)
/ दुष्कृतं संभवे /(Vin_2.2310)
// [इति] संभोगसंवासप्रतिक्षेपः // 2,9,17 //
/ कारणे भिक्षुण्या स्वाङ्गोद्वर्तनस्य शिक्षमाणया /(Vin_2.2311)
/ श्रामणेरिकया गृहिण्या /(Vin_2.2312)
/ तीर्थ्यता /(Vin_2.2313)
/ उत्कुटिकाकारणे /(Vin_2.2314)
/ [36ब्2] सुगन्धद्रव्यैः स्वाङ्गोद्वर्तने /(Vin_2.2315)
/ पिण्याकेन /(Vin_2.2316)
// [इति] परिकर्मगतम् // 2,9,18 //
/ स्नाने हस्तसंलग्नकया /(Vin_2.2317)
// [इति] जलसम्भोगः // 2,9,19 //
/ प्रसाधनार्थं नियुक्तावुशीरस्य /(Vin_2.2318)
/ फणकूर्वत्र्याख्यप्रतिशीर्षकाणाञ् च /(Vin_2.2319)
/ गृहालंकारप्रावृत्तौ /(Vin_2.2320)
// [इति] प्रसाधनगतम् // 2,9,20 //
/ नृत्तो येन केनचिद् अङ्गेन /(Vin_2.2321)
/ गाने /(Vin_2.2322)
/ यत्र तत्र तदभिप्रायेण स्वरविकारे /(Vin_2.2323)
/ [36ब्3] वादने वादित्रस्य /(Vin_2.2324)
// [इति] उद्धर्षगतम् // 2,9,21 //
/ छत्रस्य परिभोगभूते धारणे /(Vin_2.2325)
/ उपानहोश् च /(Vin_2.2326)
/ अनापत्तिः वर्षके शयनासनगुप्त्यर्थम् /(Vin_2.2327)
/ आसन्दी परिचर्ययोः प्रत्यनुभवने /(Vin_2.2328)
// [इति] लीलायितत्वगतम् // 2,9,22 //
/ निषादे ऽननुज्ञाते ऽन्तर्गृहमासने /(Vin_2.2329)
// [इति] प्रागल्भ्यानुप्रस्कन्दनम् // 2,9,23 //
/ परिभुज्य धर्मश्रवणदानावस्थायागा[36ब्4]रिकशयनासनम् उत्सृज्यान् अवलोक्य गृहिणे प्रक्रमणे /(Vin_2.2330)
/ त्यक्तिरस्योपविचारस्य पर्यन्तः /(Vin_2.2331)
// [इति] विप्रवादनम् // 2,9,24 //
/ कर्त्तने सूत्रस्य /(Vin_2.2332)
/ अनापत्ति[ः] लोठकाष्ठञ् च कस्यार्थे प्रतिगुप्ते प्रदेशे /(Vin_2.2333)
/ स्वीकारे भिक्षुणीगणचोरस्य /(Vin_2.2334)
/ कृतावामिषविक्रयस्य /(Vin_2.2335)
/ गृहव्याकुलिकायाश् च /(Vin_2.2336)
/ न मद्यकर्म कुर्यात् /(Vin_2.2337)
/ न पानागारं वाहयेत् /(Vin_2.2338)
/ [36ब्5] पक्तावामस्य /(Vin_2.2339)
/ अनापत्तिः भिक्षुसंघस्य आचार्यसब्रह्मचारिणाम् अर्थे प्रतिगुप्ते प्रदेशे /(Vin_2.2340)
// [इति] गृहिणीशिल्पगतम् // 2,9,25 //
/ भुक्तवत्त्वे ऽच्युत्वासनाद् अभ्यवहारे /(Vin_2.2341)
// [इति] लेहडवृत्तम् // 2,9,26 //
/ लसुनस्य /(Vin_2.2342)
// [इति] असभ्यगन्धोपभोगः // 2,9,27 //
/ रजश् चोडस्यानाधारणे /(Vin_2.2343)
/ सूत्रके नास्य बद्धस्यावस्थापनम् /(Vin_2.2344)
/ क्[आ]लानुकालम् अस्य शोचनं रञ्जनञ् च /(Vin_2.2345)
/ [37अ1] [उ]दकशाटिकायाञ् च /(Vin_2.2346)
/ धारयेदेने /(Vin_2.2347)
/ धावकेन चीवरधावने /(Vin_2.2348)
// [इति] गुप्तिभःगगतम् // 2,9,28 //
/ दाने श्रमणचीवरस्यागारिकायावगुंठनार्थम् /(Vin_2.2349)
// [इति] धर्मध्वहानादरगतम् // 2,9,29 //
/ भिक्षुणा सार्द्धं संघाट्याः परिवर्तने /(Vin_2.2350)
// [इति] ध्वजपरिवर्तनगतम् // 2,9,30 //
/ वर्णमात्सर्यकरणे /(Vin_2.2351)
/ कुलावासलाभधर्ममात्सर्यानाञ् च /(Vin_2.2352)
// [इति] मात्सर्यगतम् // 2,9,31 //
/ [37अ2] निष्कासने भिक्षुणीवर्षकात् /(Vin_2.2353)
/ यथा तथा भिक्षुण्याः /(Vin_2.2354)
/ पूर्वोपगतायाश् चान्तर्गृहात् /(Vin_2.2355)
// [इति] निष्कर्षणगतम् // 2,9,32 //
/ चोदने दुर्दृष्ट्यादिना /(Vin_2.2356)
// [इति] विहेठनगतम् // 2,9,33 //
/ शपथकरणे /(Vin_2.2357)
// [इति] विपर्ययोर् दर्शनगतम् // 2,9,34 //
/ व्यथने क्रोधेनात्मनः /(Vin_2.2358)
// [इति] अधीरवैकृतम् // 2,9,35 //
/ अवस्यण्डने भिक्षुणीगणस्य /(Vin_2.2359)
/ आक्रोशने च /(Vin_2.2360)
/ ज्येष्ठपर्षदः पानीयेन [37अ3] सेके /(Vin_2.2361)
/ अनापत्तिर् मूर्छितस्य /(Vin_2.2362)
/ न भिक्षुम् अवष्ठीवेत् /(Vin_2.2363)
/ नेदंप्रव्राजितम् आक्रोशेत /(Vin_2.2364)
/ द्वये ऽप्य् एतत् /(Vin_2.2365)
/ न भिक्षोः पुरस्ताद् गोचरे चरेत् /(Vin_2.2366)
/ नास्थिरसंक्रमेण भिक्षुणा सार्द्धं गच्छेत् /(Vin_2.2367)
/ सहदर्शनाद् भिक्षोर् आसनं मुञ्चेत /(Vin_2.2368)
/ निषाद एनां स्थितातिनामने निषण्णो निमुञ्चीत /(Vin_2.2369)
/ अकरणे ऽवलोक्य निषण्णत्वे ऽस्य [37अ4] भजेत /(Vin_2.2370)
// [इति] गुरुभूतखलीकरणगतम् // 2,9,36 //
/ अनुपशमने सति सामर्थ्ये भिक्षुणीकलेः /(Vin_2.2371)
// [इति] संक्षोपध्युपेक्षणम् // 2,9,37 //
/ पर्युषितच्छन्ददाने /(Vin_2.2372)
// [इति] साम्मत्यखेलागतम् // 2,9,38 //
/ अन्वर्द्धमासम् अप्रत्यनुभवने भिक्षुभ्यो ऽववादानुशासन्याः /(Vin_2.2373)
/ विना भिक्षुभिः पोषधकरणे /(Vin_2.2374)
/ वर्षोपगताव् अभिक्षुकावासे /(Vin_2.2375)
/ संघद्वये वर्षो[37अ5]षितायास्त्रिभिः स्थानैर् अप्रवारणे /(Vin_2.2376)
// [इति] गुरुधर्मातिक्रमणगतम् // 2,9,39 //
/ दरिद्रस्य कठिनसमादापने /(Vin_2.2377)
/ कठिनोद्धारार्थमदापने प्रस्रब्धौ सामग्र्याः /(Vin_2.2378)
/ चीवरभाजनार्थञ् च /(Vin_2.2379)
/ नास्या जिघृक्षायां कृतत्वम् /(Vin_2.2380)
// [इति] परविघाताचरणगतम् // 2,9,40 //
/ वर्षकम् अननुपरिन्द्य प्रक्रान्तौ /(Vin_2.2381)
/ उपचारत्यागे /(Vin_2.2382)
/ न वर्षकम् उ[त्?]क्रमेण दद्यात् /(Vin_2.2383)
/ [37ब्1] न गृहवस्त्वापणवस्तु वा /(Vin_2.2384)
// [इति] वर्षकास्फीतिकरणगतम् // 2,9,41 //
/ जनपदचर्याचरणे ऽन्तर्वर्षम् /(Vin_2.2385)
/ अनापत्तिर् अन्तरायप्रत्युपस्थापने /(Vin_2.2386)
/ वर्षोषितत्वाद् अचरणे ऽस्याः /(Vin_2.2387)
/ चरणे साशङ्के राष्ट्रे /(Vin_2.2388)
/ प्रतिविरुद्धे च /(Vin_2.2389)
// [इति] प्रवरणाप्रचरणगतम् // 2,9,42 //
/ देवकुलादौ तीर्थ्याश्रये गत्वा वादस्य करणे /(Vin_2.2390)
/ पृच्छायां प्रश्नस्या[37ब्2]कृतावकाशस्य /(Vin_2.2391)
/ दत्त्वासनं प्रति सम्मोद्य पृष्टागमाभियोगम् अवकाशं कारयेत् /(Vin_2.2392)
// [इति] संजल्पगतम् // 2,9,43 //
/ बहिःभूम्येकाकिनीगमने /(Vin_2.2393)
/ छोरणायाम् उच्चारस्य हरिते तृणे /(Vin_2.2394)
/ अनापत्तिः ग्लान्ये स्फुटत्वे च नीलतृणैः सर्वस्य /(Vin_2.2395)
/ तिरश् च प्राकारमनवलोक्य /(Vin_2.2396)
/ अनापत्तिः वरण्टकप्रतिक्षिप्ततायां प्राकारस्य /(Vin_2.2397)
/ [37ब्3] न शुचौ लोष्ठं क्षिपेत् /(Vin_2.2398)
// [इति] उच्चारप्रतिसंयुक्तम् // 2,9,44 // // शुद्धप्रायश्चित्तिकानि समाप्तानि //
[r omits 1 line]
**(vin_2,10)
// पयसः परकुलतो विज्ञप्तस्यात्मार्थम् अभ्यवहृतौ / / अग्लानया / / विज्ञप्तापनयादुष्कृतम् / / तद्धिनवनीतः सर्पिस् तैलं मधुथानि तमां समत्स्यवल्लूराणाञ् च / / नातो न्यलब्धाव् न्य विज्ञपने ह्रासः / / [37ब्4] लूहस च / / तत्गते चास्य लब्धौ / / दुष्कृतत्वम् अस्य / / सैर्गः // // प्रातिदेशनीयानि /
/ न श्रोणीनि वस्तं निवसीत /(Vin_2.2399)
/ नावभुतान्तर्गृहं गच्छेत् /(Vin_2.2400)
/ भैक्षवांश् च /(Vin_2.2401)
/ शैक्षाः /(Vin_2.2402)
// भिक्षुणीविभङ्गसूत्राणि समाप्तानि // 2,11?
**(vin_2,11)
प्रकीर्णशिक्षापदानि /
**(vin_2,11,1) शमथगताः /
/ दुष्कृतम् आपत्तियोगे ध्वस्ताप्ररूढयोः /(Vin_2.2403)
/ अनुपसम्पत्कप्रव्रजितस्य च समानातिक्रमे /(Vin_2.2404)
/ [37ब्5] तत्पक्षाणां मानसम् / धारणं विप्रवासञ् च स्पर्शम् अग्नेर् निवारिते / भोजनं वीजाघातञ् च देशे च हरिते शुचेः // उत्सर्गं वृक्षरोहञ्च् अ शैक्षा उद्देशयोस् सह / रत्नस्पर्शैनभुक्त्वा च रजतसान्निध्यनान्नयोः // भूमिप्ररोहघाताभ्यामृत्सृज्यान्तं च पुत्रगम् / प्रावृष्येकत्रवसनं पोषधः सप्रवारणः // इत्याद्य् अस्यान्तभाग् लिङ्ग [38अ1] / /अनाशायतकान्तारिकागतां तालिकाम् आलंब्य तत्स्थं वा सूत्रकम् / (Vin_2.2405)
/ न सोपानत्कश्चंक्रम्येत /(Vin_2.2406)
/ प्रज्ञपनं खलमानकस्यादिग्ध्यै पांसुना पादयोः /(Vin_2.2407)
/ तृतीये ऽह्नि प्रहाणिकः पादौ म्रक्षयेत् /(Vin_2.2408)
/ असक्तो ऽस्वप्नस् तत्रापि /(Vin_2.2409)
/ आवृतद्वारे /(Vin_2.2410)
/ पार्श्वम् अपि दत्त्वा /(Vin_2.2411)
/ सम्मयेरन् प्रहान्प्रतिजागरकम् /(Vin_2.2412)
/ तद्वृत्तम् उत्थायैव सेकसन्मा[38अ2]र्गसुकुमारी गोमयाकार्षीं प्रहाणम् /(Vin_2.2413)
/ आसनप्रज्ञपनम् /(Vin_2.2414)
/ अशुचिकुड्यो शोचनम् /(Vin_2.2415)
/ सेकादिशुन्धनमृत्तिकापानीयस्थापनम् /(Vin_2.2416)
/ गण्डीदानञ् चागमाय /(Vin_2.2417)
/ कारणपृष्ठम् अत्र स्थापनम् /(Vin_2.2418)
/ संघसन्निपातार्थं तिस्रो घुमास्तावन्तः प्रहाराः /(Vin_2.2419)
/ कर्मदानार्थञ् च धुम्[आ]त्वेका /(Vin_2.2420)
/ तिस्रः परिवृत्तयोर् द्वौ प्रहारम् इत्य् अपरम् /(Vin_2.2421)
/ मृतस्यांसदाना[38अ3]य मुण्डिका /(Vin_2.2422)
/ एकपरिवर्त्तः प्रहारश् चेत्यपरम् /(Vin_2.2423)
/ खक्खरकः प्रहाणिकार्थम् /(Vin_2.2424)
/ कटिकेत्य् अपरः /(Vin_2.2425)
/ यावद् आप्तमापदि /(Vin_2.2426)
/ भुक्त्यर्थसन्निपातार्थम् उभयोः कटिकागण्ड्योर्द्दानम् /(Vin_2.2427)
/ अन्तरितयोर् विलम्बेन /(Vin_2.2428)
/ असंपत्तौ गण्डीदानेन संबोधनस्य महासन्निपाते यमलशंखयोर् आपूर्णम् /(Vin_2.2429)
/ भेर्यास्ताडनम् /(Vin_2.2430)
/ न गण्डीं नाभ्युद्ग[38अ4]च्छेत् /(Vin_2.2431)
/ न न क्षिप्रम् /(Vin_2.2432)
/ संभाविनि कार्यस्य काले ऽवशिष्टे यथासुखं करणं दत्तत्रिदण्डके /(Vin_2.2433)
/ परिमण्डलस्यास्य दानम् /(Vin_2.2434)
/ दक्षिणदेशनकरणम् /(Vin_2.2435)
/ परिमण्डलस्य /(Vin_2.2436)
/ पृष्टत[ः] परिजागरितु गमनम् /(Vin_2.2437)
/ आगमनम् अग्रतः /(Vin_2.2438)
/ तद्रूपश् चेत् प्रत्ययः कृतकोपनापावरणीव्यपदेशः /(Vin_2.2439)
// [इति] पोषधवस्तुनि शमथपोषधगतम् // 1 //
**(vin_2,11,2) स्थानगताः /
/ [38अ5] सम्मन्येरन् पोषधामुखम् /(Vin_2.2440)
/ सर्वजातकृतनिष्ठितं वस्तु /(Vin_2.2441)
/ स बहिर् व्यामोपविचारम् /(Vin_2.2442)
/ अभिरुचितसंघस्य /(Vin_2.2443)
/ कर्मान्तराणाम् अपि तत्स्थानम् /(Vin_2.2444)
/ बध्नीयुः सीमानमार्द्धतृतीययोजनपर्यन्तात् /(Vin_2.2445)
/ शैलकुड्यस्तम्भवृक्षप्राकारप्राग्भारातिमार्गोदपानादौ प्रतिदिशं संलक्ष्य तत्ज्ञैः भिक्षुभिः परिकीर्त्तिते सन्निधौ संघस्य स्थावरे चिह्ने कर्मणः [38अ6] करणम् /(Vin_2.2446)
/ कृतायां संवृताव् अत्र विप्रवासश्चीवरः /(Vin_2.2447)
/ कुर्युर् एनाम् /(Vin_2.2448)
/ सत्त्वोद्देशकं करणं मण्डलकसंमतेः /(Vin_2.2449)
/ नाप्रस्रब्धे पूर्वे बन्धान्तरस्य रूढिः /(Vin_2.2450)
/ मुञ्चेयुः सीमानम् /(Vin_2.2451)
/ युज्यते द्वयोः सीम्नोर् एकेन वचसा बन्धो मोक्षो वा /(Vin_2.2452)
/ कुड्यं कर्मण्यबद्धसीम्न्यावासे सीमा /(Vin_2.2453)
/ यत्र वाशिववहनी परिभ्रष्टोदकपातः /(Vin_2.2454)
/ उप[38ब्1]विचारान्तो ग्रामे /(Vin_2.2455)
/ क्रोशान्तः प्रतिदिशमरण्ये /(Vin_2.2456)
// [इति] पोषधवस्तुनि स्थानगतम् // 2 //
**(vin_2,11,3) सामग्रीगताः /
/ सम्पद्यते छन्ददानतस् तेन सामग्र्यम् /(Vin_2.2457)
/ न सीमाबन्धे /(Vin_2.2458)
/ कल्पिकं शिक्षादत्तकात् तद्ग्रहणम् उपस्थापिततद्भिक्षुसंज्ञस्य /(Vin_2.2459)
/ न दानम् /(Vin_2.2460)
/ भवति संवृतैर् उन्मत्तकेनाप्य् अग्रत्वम् /(Vin_2.2461)
/ परिशुद्धिदानेन चैक्यं पोषधे /(Vin_2.2462)
/ प्रवारणायाञ् च /(Vin_2.2463)
/ तद्दानेन [38ब्2] कुर्वतैवम् एते /(Vin_2.2464)
/ प्रतीच्छेयुर् एवंविधिम् /(Vin_2.2465)
/ न गणशच्छन्दादिसंगत्या कर्मकरणम् अन्याय्यम् /(Vin_2.2466)
/ न तुल्यप्रक्रमाणां वचनीयानाम् अवियुत्यवचनम् /(Vin_2.2467)
/ नैकेनानेकैः तदानयनम् /(Vin_2.2468)
/ आख्यानशक्तेर् अत्र परिच्छेदः /(Vin_2.2469)
/ यथाकथंचिद् एतद् दानानाम् अशक्तौ संपादनम् /(Vin_2.2470)
/ अपि कायेन /(Vin_2.2471)
/ कथंचिद् अप्य् अशक्तौ संघस्य वा तत्र गमनं [38ब्3] तस्य वा मञ्चेनानयनम् /(Vin_2.2472)
/ नैतान् गृहीत्वा धावेत् /(Vin_2.2473)
/ न जवेत /(Vin_2.2474)
/ न प्लवेत /(Vin_2.2475)
/ न वाट्टां लंघयेत /(Vin_2.2476)
/ न परिषण्डाम् /(Vin_2.2477)
/ न खे तिष्ठेत् /(Vin_2.2478)
/ न बहिः /(Vin_2.2479)
/ नान्तरित्यान्यन् निःश्रयणीपदकम् आक्रामेत् /(Vin_2.2480)
/ न सोपानकडेवरम् /(Vin_2.2481)
/ न कष्ठमात्रम् उदकम् अवगाहेत /(Vin_2.2482)
/ न स्वप्नन् समापत्तिं कुर्वीत /(Vin_2.2483)
/ वैतरिकत्वेनास्यनयोः गर्हत्वं [38ब्4] भिक्षोर् आरोचयेत् /(Vin_2.2484)
/ संघस्येत्य् अपरम् /(Vin_2.2485)
/ समन्वाहरत भदन्ता इत्य् उपक्रमः /(Vin_2.2486)
/ असंप्राप्तस्य संघमध्यं कालक्रियामागारिकादित्वप्रतिज्ञात्वेनानीतत्वम् /(Vin_2.2487)
/ आनीतत्वं संप्राप्तस्य /(Vin_2.2488)
/ परेण पञ्चदश्यां गृहीतत्वे भिक्षोर् मुञ्चैनं भिक्षुं सब्रह्मचार्येषस्माकम् इति ब्रूयुः /(Vin_2.2489)
/ अमुक्तावस्त्य् अस्माकम् अनेन सार्द्धं किञ्चिद् एव करणीय[38ब्5]म् इति साद्यं /(Vin_2.2490)
/ तथापि मण्डलके कुर्वीरन् /(Vin_2.2491)
/ नोर्द्धम् अस्य मोक्षाय न व्यायच्छेयुः /(Vin_2.2492)
/ भवत्य् उत्प्रेक्षितेन व्यग्रत्वम् /(Vin_2.2493)
/ पृथग्भावरुचिम् अभिनिरूप्य कर्मणः कृतौ स्थूलात्ययः /(Vin_2.2494)
/ न विचिकित्सितं निश्चितं वा कल्पमानत्वे ऽनुत्थितेर् दोषस्य कर्तृ /(Vin_2.2495)
/ कर्तृशुद्धेः पर्य्षितं भावतो न कल्पतः /(Vin_2.2496)
/ मार्गणशब्दनोच्चस्थदिगवलोकने चेतत् /(Vin_2.2497)
// [इति] पोषध[38ब्6]वस्तुनि सामग्रीगतम् // 3 //
**(vin_2,11,4) परिभाषाः /
/ पोषधं कुर्वीरन् पञ्चदश्याम् अन्वर्द्धमासं प्रातिमोक्षसूत्रोद्देशेन /(Vin_2.2498)
/ न प्रवारणे ऽस्यासंपन्नत्वम् /(Vin_2.2499)
/ ज्ञपनव्यवस्थोद्ग्रहणपूर्वकं तदुद्देशः /(Vin_2.2500)
/ भाषणेनैव निदानोद्देशस्योच्चारणेन संपादनीयत्वं ज्ञप्तेश् च /(Vin_2.2501)
/ श्रुतश्रावणेनापि शिष्टस्य /(Vin_2.2502)
/ आरब्धस्य समापनं वर्गस्य /(Vin_2.2503)
/ कृत्स्नस्य तुर्यस्पृष्टौ /(Vin_2.2504)
/ प्रत्य[39अ1]याच्ञाभाण्डोपभुग्द्रव /(Vin_2.2505)
/ कामोपघातसंवासानादरासोधवस्तुकम् /(Vin_2.2506)
/ तुल्यत्वं शिक्षादत्तकस्य /(Vin_2.2507)
/ अनुपसंपन्नवत्त्वञ् च /(Vin_2.2508)
/ न तत्र /(Vin_2.2509)
/ शिक्षामाणायाञ् च /(Vin_2.2510)
/ गन्त्यन्तराकारभजने लब्धौ भिक्षुसंज्ञानस्य /(Vin_2.2511)
/ अलब्धो न्यूनत्वं /(Vin_2.2512)
/ पूर्वप्रयुक्तश् च /(Vin_2.2513)
/ तत्वं परस्य /(Vin_2.2514)
/ द्रव्यस्य च प्रतिक्षिप्तात्* /(Vin_2.2515)
/ तुल्यस्यापि /(Vin_2.2516)
/ [39अ2] व्यञ्जनस्य पक्षेत्रत्वं /(Vin_2.2517)
/ यत् प्रयोगत्वं न्यूनार्थात्* /(Vin_2.2518)
/ तत्वं कृतस्य /(Vin_2.2519)
/ स्वत्वं न्यूनस्य /(Vin_2.2520)
/ न्यूने ङ्शत्वं दशाहे /(Vin_2.2521)
/ ध्वन्सो क्षेत्रत्वे /(Vin_2.2522)
/ नैतन् न प्रतिछाददोषस्य /(Vin_2.2523)
/ नैस्फल्यं चरितस्य मानास्यस्य /(Vin_2.2524)
/ परिवृत्तिर् अत्र कल्पानाम्* /(Vin_2.2525)
/ तदातनस्यात्मनः कर्तृत्वम्* /(Vin_2.2526)
/ नाश्वगतित्वम् अन्यजस्य /(Vin_2.2527)
/ गत्यन्तराकाभजने च घाते /(Vin_2.2528)
/ नावस्था[39अ3]न्तराप्रतिपत्ताव् अन्यत्वम्* /(Vin_2.2529)
/ छेतो तद्दोषभागमनं /(Vin_2.2530)
/ उत्सर्गश् च /(Vin_2.2531)
/ अनेकत्वा एकत्र वसुनि प्रज्ञप्तेः / यावद् एव तद्दोषः /(Vin_2.2532)
/ तच्छेदस् तद्गतम्* /(Vin_2.2533)
/ सर्वत्र मुक्तावनन्त्यत्वे संघावशेषः /(Vin_2.2534)
/ नानेककृयाफलेनापत्तिव्यवधानम्* /(Vin_2.2535)
/ अर्धत्वंकारे दुकृतस्य /(Vin_2.2536)
/ न्यूनांशत्वं न्यूनेष्व् अवद्येषु /(Vin_2.2537)
/ सर्वत्र विचिकित्सतः [39अ4] प्रवृत्तौ सत्वानम्* /(Vin_2.2538)
/ संज्ञानं प्रयोगे ङ्गम्* /(Vin_2.2539)
/ न त्वं सन्धाने /(Vin_2.2540)
/ नाब्रह्मचर्यशुक्रविसृष्ट्योः /(Vin_2.2541)
/ श्रोतुश् चासत्ये /(Vin_2.2542)
/ योग्यत्वं सर्वाङ्गेषु ग्रहणगमने सेवायां प्रतिबलत्वं /(Vin_2.2543)
/ ऊनत्वं परत्रान्यस्य /(Vin_2.2544)
/ ततो प्य् अनेकवैकल्ये /(Vin_2.2545)
/ मनुष्ये च तिरश्च /(Vin_2.2546)
/ अनृद्धि धर्मकत्वम् अस्पर्शने ङ्गे /(Vin_2.2547)
/ अधिकृतं स्पृश्यम /(Vin_2.2548)
/ प्रतो[39अ5]दे च /(Vin_2.2549)
/ अन्यवत्वं नखदन्तनिर्मांसास्थिरोम्णाम्* /(Vin_2.2550)
/ मनुषगतेर् व्यवहार्यत्वं न नष्टप्रकृतेः /(Vin_2.2551)
/ तद्वत्त्वं पण्डकोभयव्यञ्जनयोः /(Vin_2.2552)
/ व्यवहारवत् सन्सर्गः /(Vin_2.2553)
/ अर्धत्वम् वाह्यके प्रव्राजिते गृहीत्वस्यारूढिध्वस्तयोश् च /(Vin_2.2554)
/ सोपसंपत्कम् अध्वस्तं भिक्षुभिक्षुणीत्वं /(Vin_2.2555)
/ स्वपक्षोपसंपत्*व्यञ्जनो [यो]गम् आभ्या[ं] /(Vin_2.2556)
/ लिङ्गत्वम् एतत्गते गृहिण ऊ[39ब्1]नम्* /(Vin_2.2557)
/ कल्पिकत्वं प्रव्रजितद्रव्येषु प्रमाणिकादित्वञ् च /(Vin_2.2558)
/ स्वार्थत्वं मतन्मुख्ये /(Vin_2.2559)
/ बोधो र्थस्य विज्ञप्तौ /(Vin_2.2560)
/ तं कृत्वे वस्थितो वधस्वार्थहारयोः /(Vin_2.2561)
/ नैतत् समादातरि /(Vin_2.2562)
/ पात्रम् अस्य /(Vin_2.2563)
/ वाक् च /(Vin_2.2564)
/ स्वा /(Vin_2.2565)
/ आत्मोपसंहिता /(Vin_2.2566)
/ स्वाधिष्ठितत्वं कारणे /(Vin_2.2567)
/ विभङ्गगतप्रायाः परिभाषाः समाप्ताः // 4 // 11?
**(vin_2,11,5) पोषधविधिः /
/ न गो[39ब्2]चरप्रसृतयोगं वाचयेत /(Vin_2.2568)
/ नाभ्यागमे /(Vin_2.2569)
/ युक्तं विक्षिप्तृक्रूरोत्गण्डकानां परिहरणं /(Vin_2.2570)
/ मापयेयुः प्रहाणशालाम्* /(Vin_2.2571)
/ स्वरुङ्गमध्यं लयनद्वयम्* /(Vin_2.2572)
/ पञ्चके षट्के वा /(Vin_2.2573)
/ द्वारकपाटशब्दाकरणाकर्षणोपायांश् च /(Vin_2.2574)
/ वातायनञ् च वि तृतीये ऊर्धम् बहिस्सम्वृतम् अन्तर्विशालं साधु /(Vin_2.2575)
/ जालिकाकवाटिकासुचीर् घटिका[39ब्3]चक्रिकाजपादकदण्डाश् च /(Vin_2.2576)
/ करणम् मण्डपस्योपर्यमाने पुरान्तरस्या वा /(Vin_2.2577)
/ सोपानस्याधिरोहाय /(Vin_2.2578)
/ परिक्षेपो प्रपातार्थं वेदिकया /(Vin_2.2579)
/ कीलनं लोहकण्टकैर् अकम्पनार्थम् अस्याः /(Vin_2.2580)
/ बहिर्वा च प्रहाणमण्डपस्य लयनपङ्क्तेर् वा /(Vin_2.2581)
/ न द्वारसम्मुखं द्वारं कुर्यात्* /(Vin_2.2582)
/ करणं द्वारकोष्ठकस्य /(Vin_2.2583)
/ कुर्युर् गुहाम् अपि /(Vin_2.2584)
/ मृण्म[39ब्4]यान्यासनार्थे संहतानि /(Vin_2.2585)
/ पीठिकाञ् च /(Vin_2.2586)
/ चतुर्हस्ता सौ समन्तपरिक्षेपेण साध्वी /(Vin_2.2587)
/ पांचविध्यां वाने /(Vin_2.2588)
/ मौञ्जं साणं वाल्वजं पट्टिका वेत्रवैभङ्गुकम् इति /(Vin_2.2589)
/ प्रज्ञपयेयुर् अत्र तूलिकाम्* /(Vin_2.2590)
/ गृष्टिपरितो स्याम् अधिकत्वं साधु /(Vin_2.2591)
/ अर्ककाशेरकबूकशल्मलीनां तूलं पूरणं /(Vin_2.2592)
/ ऊर्णा शणः कर्प्यासो नतुकानि पत्रवैभङ्गुकञ् च /(Vin_2.2593)
/ काकपदकाना[39ब्5]म् अन्तरो न्तरे यथार्थम् अवस्थापनाय दानम् /(Vin_2.2594)
/ मिद्ध्वागमे घटिकाधारणं /(Vin_2.2595)
/ सूत्रकेण कर्णोपनिबध्य /(Vin_2.2596)
/ यष्टेः सारणं /(Vin_2.2597)
/ सनैः अदुःखनार्थमाढकं छित्तेर् वेष्टितायाश् च नतुकैः /(Vin_2.2598)
/ कण्डुसकक्षेपः सूत्रकेन वध्वस्य पुनरान्त्यैः /(Vin_2.2599)
/ प्रदीपस्याग्रतः स्थापनम् /(Vin_2.2600)
/ पादस्यावतारणं /(Vin_2.2601)
/ अपरस्यापि /(Vin_2.2602)
/ चङ्क्रमणं /(Vin_2.2603)
/ [40अ1] वेक्षणम् अत्रार्धमासवृत्तस्य /(Vin_2.2604)
/ सनिपत्स्यत्तायां /(Vin_2.2605)
/ प्रतिकृत्य चेतितन् सर्वत्र सन्निषीदेत्* /(Vin_2.2606)
/ सन्निषण्णतायां स्मृतिविमत्योर् अनन्तर्[ए] धिष्ठेत /(Vin_2.2607)
/ चित्तेन कर्मकारकः /(Vin_2.2608)
/ स्वं चेदेकमतद्वन्तं पञ्चदशां मन्येत [प्रेम]सप्रेमकप्रागुण्ये प्रयतेत्* /(Vin_2.2609)
/ य आयुस्मन् इदं चेदञ् च करोति किं* तस्य भवति सापत्तिको नत्वायुस्मतेदं चेदं च कृतं कृतम् एवं [40अ2] सत्य् आयुस्मान्* सापत्तिको नाहम् आयुस्मन्न् एको पि तु सर्वसंघो नेनार्थेनाङ्गतावत्त्वम् आयुस्मान् स्वाम् आपत्तिं* यथाधर्मं प्रतिकुरु किन् ते करिष्यति सर्वसंघ इति प्रक्रमेण दर्शनपथे शिष्टानाम् इच्छायां देशयेत्* /(Vin_2.2610)
/ नाकाममत्रैनं चोदयेत्* /(Vin_2.2611)
/ सर्वे चेत्* पञ्चदश्याम् आपत्तिम्* प्रतीयुर् विमतिम् वा स्वप्रतिक्रियार्थम् आवासान्तरे कञ्चित् प्रस्थापयेयुः प्रतिगृही[40अ3]तृसंवत्यर्थम् /(Vin_2.2612)
/ असंपत्ताव् अधिष्ठानं प्रतिज्ञपनं कामयेरन्* /(Vin_2.2613)
/ चतुष्कतो र्वाग्भावे विहारकरणीयं स्थितम् एव /(Vin_2.2614)
/ अहापनम् आसनप्रज्ञप्तेः /(Vin_2.2615)
/ सेक-संमार्गसुकुमारीगोमयकार्षाप्रदानसिं*हासनासनप्रज्ञपनप्रदीपधर्मश्रवणदानेषु क्रितेषूच्चतरके प्रदेशे स्थित्वा चतुर्दिशं व्यवलोकनम् /(Vin_2.2616)
/ दर्शन भिक्षुणाम् अङ्ग तावद् आयुस्मन्त[40अ4]स् त्वरितत्वरितम् आगच्छताम् आर्यसंघस्य पोषधः प्रवरणा वा पाञ्चदशिक इति वचनं /(Vin_2.2617)
/ अपरिपूरो चतुष्कस्याधिष्ठानं /(Vin_2.2618)
/ वेलां यावद् आगमय्य /(Vin_2.2619)
/ निषद्य केवलस्य /(Vin_2.2620)
/ सान्यत्वे शिष्टे सन्निधौ /(Vin_2.2621)
/ सन्निषद्य त्रयाणां /(Vin_2.2622)
/ तद्वत् प्रवरणं चतुर्णाम् /(Vin_2.2623)
/ नासत्प्रातिमोक्षसूत्रोद्देशके तदास्थाने ज्ञात्वा पोषधम् आगमयेत्* /(Vin_2.2624)
/ न यत्रास्याति[40अ5]क्रमस् तत्रोपगच्छेत्* /(Vin_2.2625)
/ नोपगतिम् अनुरक्षेत्* /(Vin_2.2626)
/ प्राक् परातः /(Vin_2.2627)
/ तञ् चोर्धम् मासद्वयात्* /(Vin_2.2628)
/ वस्तुकर्मलाभोपस्थायकपरिहारेणोद्देशकं परीच्छेयुः आगच्छन्तं सूत्रधरं प्रत्युद्गच्छेयुः छत्रध्वजपताकाभिः / (Vin_2.2629)
/ विनय्सस्य मातृकायाश् च /(Vin_2.2630)
/ अर्धतृतीयानि योजनानि /(Vin_2.2631)
/ अशक्तौ क्रोशपञ्चकम् /(Vin_2.2632)
/ त्रिकम् अर्धयोजनं क्रोशम् अर्धक्रो[40अ6]शं परिषण्डाम् वा /(Vin_2.2633)
/ <<वाक्साखिल्य>>केन प्रत्युत्गम्य पात्रचीवरं प्रतिगृह्णीयुः /(Vin_2.2634)
/ स्नात्रं कुर्युः /(Vin_2.2635)
/ स्नेहलाभञ् च संघे /(Vin_2.2636)
/ वस्त्रादिपरिहारं दद्युः /(Vin_2.2637)
/ धर्मश्रवणञ् च /(Vin_2.2638)
/ शास्तृधरत्वम् एषां भिक्षुम् ईर्ष्यन्तं बोधयेयुः /(Vin_2.2639)
/ नाकृतपोषधः प्रवारणस् तद्दिने प्रज्ञायमानस्व् अत(द)ः स्थानात् प्रक्रामेन् न चेत् तदैव तद्वधे प्राप्तिः कलिकृत्भ्यो विमुक्तिर् अनुप्राप्तिः [40ब्1] सत्*वृत्ताना<<म् इत्य् ए>>तत् परायनत्वम् वा /(Vin_2.2640)
/ न कलिकृत्भिक्षुकं सद्वृत्तभिक्षुकाद् गच्छेत /(Vin_2.2641)
/ नाभिक्षुकं सभिक्षुकाद् असहितः शिष्टैर् अन्यत्रापदः कायचित्तप्रस्रब्धिवशता त वा /(Vin_2.2642)
/ नाकृत्*-पोषधप्रवारणं क्रान्तौ निःश्रितम् अवसृजेत /(Vin_2.2643)
/ तत्*रूपतायां प्रत्ययस्य सद्वृत्तोद्देशवन्तम् उपदिश्य वासं तत्रावतारे नियुञ्जीत्* /(Vin_2.2644)
/ नैनाम् उक्तिम् अति[40ब्2]लङ्घयेत्* /(Vin_2.2645)
/ कल्पतापश्चाद् आगतानाम् अर्थे पुनः करणम् अनयोः /(Vin_2.2646)
/ कामो त्र प्रवृत्तो सम्यक्ता चेत्* /(Vin_2.2647)
/ समानयात्रेष्व् अपि /(Vin_2.2648)
/ सामग्रम् इतरे याचेरन्* /(Vin_2.2649)
/ अलाभे स्य सीमान्ते करणं /(Vin_2.2650)
/ संपत्तिः शेषानुभवेन क्रियमानतायाम् आगतौ /(Vin_2.2651)
/ नियमो प्रक्रान्तत्वे कस्यचित् तत्स्थानात्* /(Vin_2.2652)
/ बहुतरत्वे चागता[40ब्3]नां /(Vin_2.2653)
/ कालं प्रति बहुतराणाम् अनुवर्त्यत्वं /(Vin_2.2654)
/ समत्वे नैवासिकानाम्* /(Vin_2.2655)
/ अत्र च(Vin_2.2656)
// पोषधविधिगतम्* //
**(vin_2,11,6) विभंगादिगतम् /
/ न समाधेर् व्युत्थापयेत्* /(Vin_2.2657)
/ नानववादकं ध्यायेत्* /(Vin_2.2658)
/ न्याय्यो घटिकाक[न्दु]शकप्रयोगः /(Vin_2.2659)
/ न वीर्यं स्रंसयेत्* /(Vin_2.2660)
/ सूत्रवद् एतत्* /(Vin_2.2661)
/ अविक्षिप्ताङ्गचित्तचीवरतयापि शय्यकल्पनम् /(Vin_2.2662)
/ नाग्लानो दिवा श[40ब्4]यीत्* /(Vin_2.2663)
/ धारयेत्* पृष्ठावाधिक आयपदम्* /(Vin_2.2664)
/ अन्तर्गतेश् चंक्रम्येतेन्द्रियैर् अबहिर्गतेन मान्ससेनाविलम्बितं /(Vin_2.2665)
/ स्पष्टम् ऋजुः /(Vin_2.2666)
/ अशक्तौ सूत्रकेणाक्षिप्य /(Vin_2.2667)
/ द्वादश स्वाध्यायकारकस्य हस्ताश्चंक्रमः /(Vin_2.2668)
/ अष्टादश प्रहाणिकस्य /(Vin_2.2669)
/ सूत्रयित्वास्य करणं /(Vin_2.2670)
/ देशयेत्* भिक्षुर् धर्मं निषद्य /(Vin_2.2671)
/ अनेकता चेदेकः /(Vin_2.2672)
/ यः कश्चि[त्*] [40ब्5] नानाधीष्ठो न चेत् तन्मुखिकया निर्गतिः /(Vin_2.2673)
/ न मण्डलकेन /(Vin_2.2674)
/ नार्धमण्डलकेन /(Vin_2.2675)
/ न द्वाव् एकत्र /(Vin_2.2676)
/ वृद्धान्ते /(Vin_2.2677)
/ प्राभूत्यं चेत्* द्वित्राण्य् उत्सृज्यासनानि /(Vin_2.2678)
/ अतद् आसनश् चेत्* /(Vin_2.2679)
/ सिं*हासने च /(Vin_2.2680)
/ स्थापयेत्* खेटकटहकं /(Vin_2.2681)
/ आस्तरम् अत्र दद्यात्* वालुकाच्छयिका वा /(Vin_2.2682)
/ काले चैतत् कालं शोचयेत्* /(Vin_2.2683)
/ धर्मश्रवणं [40ब्6] कुर्युः निशायाम्* /(Vin_2.2684)
/ अष्टम्यां चतुर्दश्यां पञ्चदश्याञ् च /(Vin_2.2685)
/ नैतद् अकरणे ग्लानस्य दोषः /(Vin_2.2686)
/ नाध्येष्यमाणो स्य भाषणार्थं न प्रतीच्छेत /(Vin_2.2687)
/ अशक्त्यादाव् अध्येषकं संज्ञपयेत्* /(Vin_2.2688)
/ असति भाषणके परिपाटिकयोत्*स्मार्य भाषेरन्* /(Vin_2.2689)
/ अन्तत एकेकां गाथां /(Vin_2.2690)
/ प्रदीपस्यानुकरणं /(Vin_2.2691)
/ अर्धचन्द्राकारेण प्र[41अ1] // क्षिरिण्याकारेण वा धर्मश्रवणसंगतिं* प्रज्ञपयेत्* प्रक्षीरिण्यां /(Vin_2.2692)
/ अभ्यवकाशे धर्मश्रवणे वितानकं दानम् /(Vin_2.2693)
/ वातवर्षे प्रवेशनं /(Vin_2.2694)
/ न ततो धर्मश्रवणम् उत्सृज्येयुः /(Vin_2.2695)
/ मुहूर्त्तं स्थविरो ग्रेगतं तूष्णीम् आग<<म>>य्यात्र धर्मं भाषेतान्यम् वाधीच्छेद् वद भिक्षो धर्मं <</>>(Vin_2.2696)
/ भाषमाणम् अवधार्य धर्मश् चेद् उत्साहयेत्* /(Vin_2.2697)
/ न चेद् धारयेत्* /(Vin_2.2698)
/ गृहिणाम् अ[41अ2]त्रागतानां धर्मं कथं कुर्यात्* /(Vin_2.2699)
/ तीर्थ्यञ् च प्रत्यवतिष्ठमानं सुनिगृहीतम् अदर्शयत् कोपम् अननुसूयम्* /(Vin_2.2700)
/ न पर्षदम् आदाय देशको गच्छेत्* /(Vin_2.2701)
/ <<निर्>>गताम् एनां धर्ममुखे निवेशयेत्* /(Vin_2.2702)
/ सगौरवः सप्रतीशो नीचचित्तो वगाहेत्* /(Vin_2.2703)
/ सत्कृत्य देशयेत /(Vin_2.2704)
/ सगौरवो धर्मे स्थिरः /(Vin_2.2705)
/ अविक्षिप्तमानसः /(Vin_2.2706)
/ युक्तमुकैः पदैः /(Vin_2.2707)
/ अव्यवकीर्णैः [41अ3] सानुसन्धि /(Vin_2.2708)
/ मैत्रानुकंपानिरामिषचित्तः /(Vin_2.2709)
/ हर्षरुचितुष्टीः कुर्वन्* /(Vin_2.2710)
/ तिष्ठेद् असमाप्ते र्थवशेन /(Vin_2.2711)
/ भाषेत् स्वरेण धर्मम्* /(Vin_2.2712)
/ कुर्याद् उत्थाय विभागम्* /(Vin_2.2713)
/ उद्धृत्य चार्थ(ः)कथाम् /(Vin_2.2714)
/ भङ्गसन्धी च /(Vin_2.2715)
/ दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारण्[ए]न /(Vin_2.2716)
/ उपधिवारिकेन तत आगम्यारोचनं [41अ4] संघे /(Vin_2.2717)
/ विशेषितस्य /(Vin_2.2718)
/ पक्षभेदेन /(Vin_2.2719)
/ विहारस्वामिदेवतार्थञ् च गाथाभाषणे भिक्षूणां नियोगस्य वचनं /(Vin_2.2720)
/ अनन्तरम्* /(Vin_2.2721)
/ अद्य शुक्लपक्षस्य प्रतिपद् विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भा<<ष>>ध्वम् इति /(Vin_2.2722)
/ विहारस्वाम्युपनिमन्त्रणवचनं /(Vin_2.2723)
/ एवं नाम दानपति श्वो भिक्षुसंघं भक्तेनोपनिमन्त्रयते तं भदन्त कल्या[41अ5]णैः मनोभिः प्रत्यनुकम्पान्ताम् इति /(Vin_2.2724)
/ ऊनरात्रपादनं अर्धमासावशेषतायामृतोः /(Vin_2.2725)
/ अधिकमासककरणं राजानुवृत्या /(Vin_2.2726)
/ जोतिषिकानुवृत्या नक्षत्रानुगतिः /(Vin_2.2727)
/ नाविचार्यानागम्य्य पोषधं शून्यो यम् इत सीमानं बध्नीयुः /(Vin_2.2728)
/ अनङ्गम् अरूढो ज्ञातताबद्धत्वस्य /(Vin_2.2729)
/ निस्तत्वयापि प्रस्रब्धिः /(Vin_2.2730)
/ कल्पिकत्वस्य [41अ6] च कुटेः /(Vin_2.2731)
/ न कल्पते सीम्ना सीम्नः परिक्षेपः /(Vin_2.2732)
/ कल्पते मण्डलकभिक्षुणीवर्षकयोर् दकावर्ते च /(Vin_2.2733)
/ व्यवतिष्ठते सीम्न्याचतुष्टयाद् एक<<..>>वृक्षे ऽनेका मर्यादा /(Vin_2.2734)
/ व्यवहारिकस्यात्र चिह्नत्वं /(Vin_2.2735)
/ अनेवंभूतत्वमृद्धिमायाकृतयोः /(Vin_2.2736)
/ अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणां /(Vin_2.2737)
/ सीमान्तरम् वदुकं सीम्नि /(Vin_2.2738)
/ अस[41ब्1]त्वम् एकत्वस्य विछेदे /(Vin_2.2739)
/ विषयत्वं संक्रमस्य शिरश् चेत्* /(Vin_2.2740)
/ अनुवृद्धिर् अस्य ध्वस्तो पुनः कृतो /(Vin_2.2741)
/ अप्रतिप्रस्रब्धप्रयोगतायां /(Vin_2.2742)
/ नोर्धं सप्तरात्रात् अविछेदभूतं नभः /(Vin_2.2743)
सत्वेनैवात्र न व्यवहारः कुतः संवर्धतया /(Vin_2.2744)
/ नोर्धं मध्यतो र्धतृतीययोजनान्तात् सीम्नो बन्धस्य रूढिः /(Vin_2.2745)
/ एतस्माद् अधोर्धं <<च>> खरससंबन्धस्य तलवत्त्वं /(Vin_2.2746)
/ अरूढि[41ब्2]र् अविप्रवाससम्वृतेर् अबद्धसीमतायां भूमेः /(Vin_2.2747)
/ अपेति पा[स्]ए बन्धस्य /(Vin_2.2748)
/ नास्यास्याः /(Vin_2.2749)
/ स्तूपगहाङ्गणपोषधामुखेष्व् अपि पोषधे संमृज्यता /(Vin_2.2750)
/ दत्तत्वं छन्दादेः संघे दत्तता /(Vin_2.2751)
/ यस्य कस्यचिद् अतस् तदारोचकत्वेन भवनीयत्वं /(Vin_2.2752)
/ नैनं बहिःसीमस्थो ददीत दापयेत वा /(Vin_2.2753)
/ न परंपरया <</(Vin_2.2754)
/>> दुष्कृतं ग्लानावशचप्राणब्रह्मचर्या[41ब्3]न्तरायभीताद् अन्यस्य दाने /(Vin_2.2755)
/ अनारोचने नादरात्* /(Vin_2.2756)
/ निर्दोषं बहिःसीम्ना <<अ>>नया भीत्या नयनम्* /(Vin_2.2757)
/ भिक्षूणां गणनम् उपधिवारिकेण पोषधे शलाकाचारणे<<न>> /(Vin_2.2758)
/ सुप्रवृत्तस्यार्ध्वपदे प्यस् खलन्तायाम् उद्देशः /(Vin_2.2759)
/ संघस्थाविरस्य /(Vin_2.2760)
/ अप्रतिबलत्वे द्वितीयस्य /(Vin_2.2761)
/ तृतीयस्य तस्यापि /(Vin_2.2762)
/ तस्यापि वारेण /(Vin_2.2763)
/ अन्यस्या[41ब्4]शक्ताव् अध्येषणम्* /(Vin_2.2764)
/ अप्रतिपत्तौ संघेन /(Vin_2.2765)
/ साततिकस्यापि /(Vin_2.2766)
/ विष्ठाने शेषस्यान्येन /(Vin_2.2767)
/ खण्डधरतायां यावत्भिः संपत्तिः /(Vin_2.2768)
/ अनयस् सप्रत्यपायतायां प्रासादिकस्थानलोभेनासमीपे ग्रामस्य योध्वकरणम्* /(Vin_2.2769)
/ करणम् अनवस्थाने सार्थे स्य गच्छत्भिः /(Vin_2.2770)
/ अनिष्टौ शब्दनस्य संक्षेपेन /(Vin_2.2771)
/ तावतो प्य् अधिष्ठानम्* /(Vin_2.2772)
/ [41ब्5] निरवद्यं स्राद्धस्य प्रधानस्य च तुष्टिसंभावनायाम् आचारानुश्रावणम्* /(Vin_2.2773)
/ करणञ् च सन्निधौ पोषधस्य /(Vin_2.2774)
/ आपदि गृहिसन्निदौ देशनम्* /(Vin_2.2775)
/ अनुश्रावणञ् चास्याचारस्य /(Vin_2.2776)
/ संज्ञप्तये च राज्ञः /(Vin_2.2777)
/ नानिर्वाहणे परस्यारूढिः /(Vin_2.2778)
/ उद्देश्य तदियन्तकालोद्देष्टॄणां तत्वानुपगृहीतिर् अत्राधर्मः /(Vin_2.2779)
/ श्रमणोपविचाराद् अपेत[41ब्6]त्वं प्रक्रान्तता(Vin_2.2780)
// समाप्तं पोषधवस्तु // 2 //
*vin_3. वार्षिकवस्तु /
**(vin_3,1) तद्ग्राहकसम्मतिः /
वर्षा उपगच्छेत्* /(Vin_3.1)
/ त्रैमासीम्* /(Vin_3.2)
/ प्रतिपदि /(Vin_3.3)
/ आषाढ्यानन्तरायाम्* /(Vin_3.4)
/ श्रावणाया वा /(Vin_3.5)
/ विहारं केलायेयुः दशाहार्धमासेन भविष्यत् तायां /(Vin_3.6)
/ सप्ताष्टैर् इत्य् अपरम्* /(Vin_3.7)
/ पूर्वे ह्नि शयनासनस्य पात<<न>>म्* /(Vin_3.8)
/ [42अ1] / / आपादकठिल्लकात /(Vin_3.9)
// तद्ग्राहकसंमतिः // 1 //
**(vin_3,2) शलाकाञ् चारणम् /
/ अपारणे नेकस्य /(Vin_3.10)
/ सो क्तगन्धैश् चाङ्गेरीपटलकगते शुक्ले वासस्य् उपनिक्षिप्ताः शलाका वृद्धान्ते निवेश्या यञ् चायं चास्मिन्न् आवासे क्रियाकारो यो युस्माकम् उत्सहते तेन क्रियाकारेणास्मिन्न् आवासे वर्षावस्तुं स शलाकां ग्रिह्णातु न च वः केनचिद् अन्तर्वर्षे संघमध्ये रणम् उत्पा[42अ2]दयितव्यो यो वः कस्यचित् किञ्चिज् जानाति स इदानीं* वदन्त यो <<वो>> न्तर्वर्षे संघे रणम् उत्पादयिष्यति तस्य संघ उत्तर उपपरीक्षितव्यं मत्स्यत इति भिक्षून् वेदयेत /(Vin_3.11)
/ ग्रहणोपशमनं प्रति संघं ज्ञपयेद् अन्यः /(Vin_3.12)
// शलाकाञ् चारणं // 2 //
**(vin_3,3) / वासवस्तुग्रहणम् /
/ शास्तुर् अग्रे ग्रहणं /(Vin_3.13)
/ अर्धम् उक्तेनासनेनान्येः /(Vin_3.14)
/ आचार्योपाध्यायैः श्रामणेराणां /(Vin_3.15)
/ नैवासिकाना[42अ3]म् अस्य् एतद् अन्ते शनैः स्थापनम /(Vin_3.16)
/ गणयित्वा प्रवेदनम् इयद्भिर् भिक्षुभिर् अस्मिन्न् आवासे शलाका गृहीतेति /(Vin_3.17)
// वासवस्तुग्रहणम्* // 3 //
**(vin_3,4) पात्रतद्ग्रहणादि /
/ अन्त तस्य तत्ताडककुञ्जिकेन पुरतः स्थित्वा रोचनोपक्रमं स्थविरामुको विहारः सलाभः सचीवरिको गृहाणेति यथागुणम्* / (Vin_3.18)
// पात्रतद्ग्रहणादि // 4 //
**(vin_3,5) शयनासनादिदानम् /
/ ज्ञात्वोद्देशम् अस्तूपसंघार्थे गतस्य गन्त्र्या भागित्वं [42अ4] वृक्षमूलहरितसार्धलस्थण्डिलेष्व् अपि यथावृद्धिकोद्देशः /(Vin_3.19)
/ द्वादिभ्यो <<ऽ>>संभावने लयनस्यान्ततो निष्यदनप्रामाण्ये<<ना>>स्य भूमेः /(Vin_3.20)
/ पात्रकरकोषा[ट्]उकदन्तकोष्ठस्थानस्यापेक्षणं /(Vin_3.21)
/ द्वारकोष्ठकसोपानकोष्ठिकाप्रासादोपस्थानभक्तजेन्ताकशाला नोद्दिशेयुः /(Vin_3.22)
/ न रात्रो शयनासनम्* /(Vin_3.23)
/ नाध्युषितं ग्लानेनान्यस्मै लयनम /(Vin_3.24)
/ [42अ5] नैतत् त्व् आप्राप्त्यभावे न ददीरन्* /(Vin_3.25)
/ नैनम् उपस्थायकम् वास्य कर्म कारयेरन् /(Vin_3.26)
/ न कुष्ठी सांघिकं शयनासनं परिभुञ्जीत /(Vin_3.27)
/ प्रत्यन्ते स्य विहारं दद्युः /(Vin_3.28)
/ न ससवे प्य् अत्र सांघिके तिष्ठेद् आप्रासादपुष्किरिणीद्वारकोष्ठकपरिषण्डचंक्रमस्थानवृक्षात्* /(Vin_3.29)
/ न वर्चःप्रस्रावकुट्योः प्रविशेत /(Vin_3.30)
/ उपास्थाय<<क>>दानेनैनम् अनुकम्पयेरन्* /(Vin_3.31)
/ [42अ6] पात्रचीवरस्थापनार्थम् आरण्यकेभ्यः सर्वदा लयनम् उद्दिशेयुः /(Vin_3.32)
/ वर्षोपगमने स्युः केचिद् आगन्तव इति वस्तु शयनासनञ् च स्थापयेयुः /(Vin_3.33)
/ प्रभूतागताव् उपगतेः पुनर् उद्देशः /(Vin_3.34)
/ नोर्धम् उपनायिकातः /(Vin_3.35)
/ द्व्यादेर् असंभावना भूम्[न्]य् एकस्य /(Vin_3.36)
/ नैकाहस्यार्थे शयनासनं गृह्णीत्* /(Vin_3.37)
/ न लाभलोभात्* [42ब्1] विहारम्* /(Vin_3.38)
/ सर्वं परिभुञ्जीत /(Vin_3.39)
/ पूर्वाह्णे क्वचित् पाठस्वाध्यायावस्थानचंक्रमाणां क्वचिद् मध्याह्ने परत्रान्यत्र <<पात्र>>चीवरस्थापनम् आवासो परत्र रात्राव् इत्य् अस्य योगः /(Vin_3.40)
/ खण्डफुल्लम् उपगतो वासवस्तुनः प्रतिसंस्कुर्वीत /(Vin_3.41)
/ वर्षकस्य वर्षोषिताभिर् भिक्षुणीभिर् अभिसंस्करणं /(Vin_3.42)
/ कलिकरनिवेशासंपत्यर्थम्* /(Vin_3.43)
/ हेमन्तिकग्रैष्माव् अपि शयनासन[42ब्2]ग्राहो कुर्वीरन्* /(Vin_3.44)
/ कार्स्नेन चोद्दौशम्* /(Vin_3.45)
/ तद्यथा सामन्तकस्यापि विहारपरिगणयोः /(Vin_3.46)
/ प्रासादस्यापि सैतदः /(Vin_3.47)
/ नोर्ध्वम् एनां प्रक्रान्तत्वाद् एषाम् अनुवर्त्तयेरन्* /(Vin_3.48)
/ न प्रकृतिस्थार्थे घट्टं कुर्वीरन्* /(Vin_3.49)
/ न भाविनार्थेन /(Vin_3.50)
/ अयम् अमुत्रर्ताव् अहौरात्रे तदवयवे वा भविष्यत्य् अयम् अमुत्रायाम् आचार्यस्य भविष्यत्य् अयम् उपाध्यायस्य सा[42ब्3]र्धम् विहारिणो यम् अयम् अन्तेवासिन आलप्तकादेर् अयम् इति विहारान् नुद्दिशेयुः /(Vin_3.51)
/ न प्रतीच्छेत्* /(Vin_3.52)
/ लतावारिकस्यालयप्रतिविधानार्थम्* सम्मतिः /(Vin_3.53)
/ <<नि>>रण्डानां सातनम्* /(Vin_3.54)
/ क्षौद्राणां सूत्रकेणावृद्ध्ये वेष्टनं /(Vin_3.55)
// शयनासनादिदानम् // 5 //
**(vin_3,6) उद्देश्यत्वादि /
/ सत्वे नेकस्य वृद्धपीठानाम् अप्य् उद्देशत्वं /(Vin_3.56)
/ संस्तराणां च /(Vin_3.57)
/ न सांघिकम् अव[42ब्4]नद्धं नाशनधर्मणे शुचिना श्रामणेराय शयनासनं कश्चिद् दद्यात्* /(Vin_3.58)
/ न भिक्षुण्यै /(Vin_3.59)
/ दानम् अस्यै विहारस्यात्र वाससम्पत्तौ पर्यन्ते /(Vin_3.60)
/ शयनासनस्य च शिष्टस्याप्रणीतस्य /(Vin_3.61)
/ न वष् केनचित् सांघिकं शयनासनम् विना प्रत्यास्तरणेन परिभोक्तव्यं न कल्पप्रत्यास्तरणेन न मलप्रत्यास्तरणेनेति वेदयेत /(Vin_3.62)
/ अन्वर्धमास च प्रत्यवेक्षेत्* /(Vin_3.63)
/ [42ब्5] समयम् उत्क्रम्य परिभुक्तावाछिन्द्याद् आरोच्य निःश्रये निःश्रितस्यान्यस्य संघे /(Vin_3.64)
/ अमुकेन दानपतिनामुकेन वैय्यपृत्यकरेणामुकेन गोचरग्रामकेन स्वः संघो वर्षा उपगमिष्यतीत्य् आरोचयेत्* /(Vin_3.65)
/ अनुन्मादित्वप्रतिविनोदित्वयोः कौकृत्यस्यान्यस्य च दुःखदौर्मनस्यस्य सुखसौमनस्यस्य चोत्यादित्वानुरक्षित्वयोः ग्लानोपस्थायकत्वस्य च [42ब्6] सब्रह्मचारिषु भूतेः प्रत्याशंसनेनावासं गोचरञ् च पिण्डकभैषज्यदात्रोर् अवलोक्योपगमनम्* / (Vin_3.66)
/ छन्ने भिक्षोः पुरस्तात्* /(Vin_3.67)
/ नानेकत्र विहारे /(Vin_3.68)
/ न यस्मिन्न् अभिक्षुकत्वम् अकपाटकत्वञ् च सहितम्* /(Vin_3.69)
/ सत्वे दानपतिवैय्यापृत्यकरगोचरग्रमिकोपस्थायकानाम् उत्कीर्तनम्* /(Vin_3.70)
/ न वहिःसीम्न्य् अरुणोद्गमयेद् अनधिष्ठितम्* /(Vin_3.71)
/ [43अ1] सप्ताहम् अधिष्ठितम्* /(Vin_3.72)
/ सप्ताहम् अतितिष्ठे र्थे धर्म्ये /(Vin_3.73)
/ तद्यथा नाम निर्यातनविहारप्रतिष्ठापनशयनासनदानध्रुवभिक्षाप्रज्ञपनचैत्यप्रतिष्ठापयष्टिध्वजारोपणपूजाकरणालचन्दनकुंकुमसेक् दानपाठकोकृत्यप्रतिविनोदनदृष्टिगतप्रतिनिसर्गपक्षसंपत्त्यवसारणपरिवासादिचतुष्कदानावर्त्तनग्लानप्रश्वसनेषु भिक्षोः / (Vin_3.74)
/ [43अ2] भिक्षुण्या गुरुधर्ममानाप्यदाने च /(Vin_3.75)
/ ब्रह्मचर्योपस्थानसम्वृतेः शिक्षमाणायाः /(Vin_3.76)
/ उपसंपादने च /(Vin_3.77)
/ अत्र श्रामणेरस्य /(Vin_3.78)
/ श्रामणेरिकायाः शिक्षासंवृतिदाने /(Vin_3.79)
/ शिरोवेष्टनरजोहरणसीमन्तोन्नयनजटापहरणकुण्डलबन्धनेषु गृहिगृहिण्योः /(Vin_3.80)
/ <<वि>>संघावशेषगतम् अनुपसंपन्नानां पूर्वं /(Vin_3.81)
/ उन्मज्जनम् अ[43अ3]वसारणे गृहिगृहिण्योः /(Vin_3.82)
/ लङ्घयेद् एतद् भक्तभैषज्योपस्थायकाभावे शक्तौ तैर् विना यापयितुम्* /(Vin_3.83)
/ श्रामण्यजीवितब्रह्मचर्यान्तरायसंभावने /(Vin_3.84)
/ अनु<<नव>>लोमिकचित्तोत्पादनपापिकवाग्निश्चारणयोः भेदाय पराक्रममाणे संघस्य /(Vin_3.85)
/ नैतच् छान्त्यै ससम्भावनो न गच्छेत्* /(Vin_3.86)
/ गतो न लङ्घयेत्* /(Vin_3.87)
/ न प्रति<<शूता>> वर्षावासे [43अ4] नावासस्य सम्बन्धनम्* /(Vin_3.88)
/ न कुर्वीत्* नास्त्य् अस्यैकपोषधतायाम् आवासयोर् उत्थानम्* /(Vin_3.89)
/ अस्त्य् एकलाभतायां /(Vin_3.90)
// वार्षिकवस्तु // 6 //
**(vin_3,7) निदानादिगतम् /
/ पञ्चानाम् अपि निकायानाम् उपगन्तव्यत्वं /(Vin_3.91)
/ न शुद्धानां स्रामणेराणां /(Vin_3.92)
/ अवार्षिकानाञ् च /(Vin_3.93)
/ नैषाम् एव रूढिर् उपगतेः /(Vin_3.94)
/ न ग्राह्यत्वं शयनासनस्य /(Vin_3.95)
/ [43अ5] नासत्वे ग्राहकस्य /(Vin_3.96)
/ नासंमतेन ग्राहणं /(Vin_3.97)
/ नानुत्पादितादौ पिटकधरकालिकृत्स<<दस>>त्वयोर् असंश्रितत्वं /(Vin_3.98)
/ उषितत्वम् अनुपगतस्य स्थानामोक्षे /(Vin_3.99)
/ नाकाशे रूढिर् उपगतेः /(Vin_3.100)
/ न नाव्युत्सृज्य प्राप्तपृथिवीम् उपनिबद्धाम् वा भूमिस्थे स्थिरे संजनतो न्तरापयायित्वम्* /(Vin_3.101)
/ ध्वन्सस् तद् दृशम् अभिनिःसृत्याधर्मपक्षसंक्रान्ताव् अरुणोद्गतौ [43अ6] न संदिग्धतायाम्* /(Vin_3.102)
/ नान्त्ये धिष्ठानस्य षडहे रूढिः /(Vin_3.103)
/ ध्वन्सो वगतनिष्कार्य <<त>>स्याप्रतिनिर्वृत्यवस्थानयोः /(Vin_3.104)
/ पर्यन्तं परम् अत्र सप्ताहत्वं /(Vin_3.105)
/ अलब्धं संवृतेर् एष पर्यन्तः /(Vin_3.106)
/ अन्यस्य चत्वारि षड्रात्रः /(Vin_3.107)
/ दानम् अस्याः /(Vin_3.108)
/ नात ऊर्द्धं बहिवस्तव्यता /(Vin_3.109)
/ पञ्चानाम् अपि निकायानाम् एतत्* /(Vin_3.110)
/ अन्तःसी[43ब्1]म्न्य् अस्य रूढिः /(Vin_3.111)
/ भिक्षोः पुरस्तात्* /(Vin_3.112)
/ अनाशंक्यम् अनाक्षिप्तत्वं तीर्थ्यस्य दृष्टेर् विवेचनार्थं ज्ञातेः करणीयेनागमाधिगमयोर् आत्मनः कांक्षाविनोदनार्थं गमनायैतत्कृतेः /(Vin_3.113)
/ अनु<<त्*>>क्षैप्यत्वम् उपगततास्थस्य /(Vin_3.114)
/ निदर्शनं वासः /(Vin_3.115)
// निदानादिगतम्* // 7 // // समाप्तञ् च वार्षिकवस्तु // 3 //
*vin_4. प्रवारणवस्तु /
**(vin_4,1) प्रवारणाविधिः /
/ न मौनं समाददीत /(Vin_4.1)
/ शुद्धि[43ब्2]म् उक्त्योर् अनेन प्रत्यवगतौ स्थूलात्ययः /(Vin_4.2)
/ दृष्टस्रुतपरिशङ्काभिः वर्षोषितः संघ प्रवारयेत्* /(Vin_4.3)
/ पश्चिमे ह्नि वर्षाणां /(Vin_4.4)
/ गोचरा रोचयेयुः /(Vin_4.5)
/ यतः प्रभृति केलायनम् इयत्भिः दिवसैः संघस्य प्रवारणा भविष्यति युष्माकम् आरोचितम् भवत्व् इति /(Vin_4.6)
/ विहारस्य मण्डनम्* /(Vin_4.7)
/ कूटागाराणां बन्धनम्* /(Vin_4.8)
/ राहानां चि[43ब्3]त्रणं स्तूपानां मोच्चनमोलनं च /(Vin_4.9)
/ सिद्धासनस्य मण्डनम्* /(Vin_4.10)
/ अद्य सर्वरात्रिकं धर्मश्रवणं भविष्यति तत्र युष्माभिः सामग्री देयेति गोचरारोच्य सूत्रविनयमात्रकधरैर् अधिष्टचतुर्दश्यां सर्वरात्रिकधर्मश्रवणदापनम्* /(Vin_4.11)
/ परस्यान्तैः प्राक्कर्मतो धम्यया विनिश्चयकथया रात्रेर् अतिनामनम्* /(Vin_4.12)
/ प्रागरुणसं[43ब्4]भेदा<<त्>> प्रवारणात् कर्म /(Vin_4.13)
/ प्रवारणकं संमन्येरन्* भिक्षुं /(Vin_4.14)
/ अपारणे नेकं /(Vin_4.15)
/ न्यायम् अत्रांशसः पंक्तौ व्यापारणं /(Vin_4.16)
/ दर्भानसौ चारयेत्* /(Vin_4.17)
/ प्रवारणं प्रत्यन्येन संघस्य ज्ञपनम्* /(Vin_4.18)
/ प्रतिभिक्ष्वा प्रवारणात् पुरतस् तिष्ठेत्* /(Vin_4.19)
/ तस्मै प्रवारणं त्रिः /(Vin_4.20)
/ द्विस् तावता ग्लान(न)क्लान्तिशयनासनसंभेदकालातिक्रान्ति[43ब्5]सम्बाधस्नंपत्तिसंभावने /(Vin_4.21)
/ तावतापि सकृत्* /(Vin_4.22)
/ तेनापरस्मै निष्ठितायां पंक्तौ /(Vin_4.23)
/ अभावे न्यस्मै /(Vin_4.24)
/ सर्वसंघेन प्रतिवारिते एतत् त्वस्य संघे निवेदनम्* /(Vin_4.25)
/ साधु प्रवारितं सुष्ठु प्रवारितम् इति /
/ सर्वे समर्थयेयुः /(Vin_4.26)
/ येन तेनासूचेः /(Vin_4.27)
/ स्वक्येन वस्तुना वस्तप्रवारणम् आरभेत वचनतो गृहीत्वा<<त>>ः [43ब्6] संघेन लभ्यं भदन्ता एवं रूपेणापि वस्तुना वर्षोषितम् भिक्षुसंघं प्रवारयितुम् इति /
/ अतः श्रामणेरान्* प्रवारयेत्* /(Vin_4.28)
/ ततो भिक्षुणीः /(Vin_4.29)
/ प्रवारितत्वम् अधिष्ठाय गतस्यार्वाक्तत्प्रवारणायासहकृतौ /(Vin_4.30)
/ न स्त्रियां परिवृत्यापि /(Vin_4.31)
/ अशक्यतायाम् अवस्थातुं भागप्राप्तं भिक्षुम् अवलोकयेत् गणप्रवारणेन / (Vin_4.32)
/ [44अ1] / /प्रवारयेद् अन्तर्वर्ष प्रक्रमिष्यन्* करणीयेन /(Vin_4.33)
/ स्थापयित्वापि वस्तुपुद्गलम् उभयम् वा /(Vin_4.34)
/ प्रतीच्छेयुर् एणाम् /(Vin_4.35)
/ स्थापनेन नन्त्यताम् उपनीय /(Vin_4.36)
/ न हैव वयम् आयुस्मन्न् इत्य् अर्थं सन्निषण्णाः सन्निपत्तिताः कच्चिद् आयुस्मन्* वस्तु स्थापयेन् न पुत्गलम् इत्य् अपि तु शीलविशुद्ध्यर्थं पोषध उक्तो भगवता धर्मथिशुद्ध्यर्थं प्रवारणा सआचेद् आकां[44अ2]क्षसि प्रवारयेति /
/ पुत्गगलं स्थापयेन् न न वस्त्व् इति वस्तु स्थापयेत्* पुत्गलञ् चेति अभङ्गः प्रतीष्टैः व्यपलापे स्थापनस्य प्रतीष्टताया स्थापितस्य वा / (Vin_4.37)
/ नैवंविधं किञ्चिद् अस्तीतिवादे मृषात्वम् अत्र पूर्वस्यास्य वा /(Vin_4.38)
/ कलिकृताञ् चेत् भिक्षूणाम् आगनम् उपगताः शृणुयुः द्वित्रिपोषधातिक्रान्तिश् चेत् प्रवारयेयुः /(Vin_4.39)
/ असंपत्तौ यञ्च [44अ3] पाणिमण्डकानि संमन्येरन्* /(Vin_4.40)
/ वाक्यस्वल्पकेन प्रत्युत्गम्य पात्रचीवरप्रतिशमनं लयनम् आलंककूटागारोद्देशः /(Vin_4.41)
/ स्नात्रस्नेहलाभकरणं /(Vin_4.42)
/ करणधर्मश्रवणदा(द)नम् इत्य् एषां प्रलोभनानि प्रयुञ्जीरन्* असंपत्ताव् आत्मीभावस्य पोषधं कुर्वीरन्* मण्डलकेषु /(Vin_4.43)
/ ननु युष्माकम् अद्य प्रवारणेति ब्रुवाणा[44अ4]नाम् आगमयतायुष्मन्तागन्तुका यूयं नैवासिका अनेनार्थेनेति प्रतिवदेयुः /(Vin_4.44)
/ प्रक्रान्तेषु प्रवारणाम् /(Vin_4.45)
// प्रवारणावस्तु // 1 //
**(vin_4,2) क्षुद्रकादिगतम् /
/ नाकृतक्षमणः सान्तरस्य प्रवारयेत्* /(Vin_4.46)
/ दशार्द्धमासेन भविष्यत्तायाम् अस्यास् तत्कालः /(Vin_4.47)
/ सप्ताष्टैर् इत्य् अपरः /(Vin_4.48)
/ न सन्निपातः /(Vin_4.49)
/ नासावक्षान्त्वानाकृतसंमोदनसंनि[44अ5]हितानां सर्वस् तदा /(Vin_4.50)
/ न रुषितं क्षमयेत्* /(Vin_4.51)
/ न भिक्षुणी भिक्षुं बहिरावासात्* /(Vin_4.52)
/ न पादयोर् निपत्य /(Vin_4.53)
/ क्षान्ते नियत्य गमनं /(Vin_4.54)
/ नैनां क्षमयन्*तीमनादृ(दृ)त्य भिक्षुर् गच्छेत्* /(Vin_4.55)
/ न विलंघयेत्* /(Vin_4.56)
/ संज्ञप्तेः क्षमनीयस्य पुरस्ताद् दापनम् अभिज्ञान /(Vin_4.57)
/ नानिष्टाव् उपायपर्येषणं नापद्येत्* /(Vin_4.58)
/ न चीरयेत्* /(Vin_4.59)
/ न पर्य[44अ6]वस्थानापगतिन् नोदीक्षेत्* /(Vin_4.60)
/ न क्षम्यमाणो न क्षमेत /(Vin_4.61)
// क्षुद्रकादिगतं // 2 // // समाप्तञ् च प्रवारणवस्तु // 4 //
*vin_5. कठिनवस्तु /
**(vin_5,1) क्षुद्रकादिगतम् /
/ आस्त्रीण्वीरन्* कठिनम्* /(Vin_5.1)
/ यथा त्रयम् एवम् आस्तीर्णस्य परंपरभोजनम् अपि निर्दोषं गणभोजनमन् आमन्त्र्यग्रामप्रवेशश् चीवरविज्ञपनञ् च /(Vin_5.2)
/ साधारण्यम् अस्य शिष्टैः लाभस्य /(Vin_5.3)
/ अनुत्थानम् अस्यावार्षि[44ब्1]कछिन्नवर्षपश्चिमवर्षस्थानान्तरोषितवर्षेषु भूम्यन्तरस्थेषु च /(Vin_5.4)
/ विष्ठानम् एतत् प्राप्तौ /(Vin_5.5)
/ भागिनो व्यन्त्यश्रामणेरभूम्यन्तरस्थालाभे /(Vin_5.6)
/ नोत्क्षिप्तः /(Vin_5.7)
/ तत्ताप्राप्तिवद् अधर्मपक्षेषु यातो भिन्नेषु /(Vin_5.8)
/ मौलकालप्रवारणपर्यन्तवर्षानिमित्तकास्तारकादिनपर्यन्तसम्बन्धी चीवरलाभसंख्यं च त्रिचीवरम् /(Vin_5.9)
/ सांघिकम् अमृदितम् अवि[44ब्2]लिखितम् अपैलोतिकम् /(Vin_5.10)
/ न न वर्णितकम्* /(Vin_5.11)
/ अपरिभुक्तं /(Vin_5.12)
/ दृढम्* /(Vin_5.13)
/ असंबन्धानिमपट्टिकगण्डूषकत्तढिकपरिषण्डन /(Vin_5.14)
/ अनैःसर्गिकसन्ततिप्रस्कन्नगतप्रत्यागतम्* /(Vin_5.15)
/ छिन्नस्यूतम्* /(Vin_5.16)
/ निष्ठितं पञ्चकं /(Vin_5.17)
/ उत्तरे वा /(Vin_5.18)
/ अनास्तीर्णपूर्वञ् च /(Vin_5.19)
/ आस्तीर्णम्* /(Vin_5.20)
/ अनेकम् अपि /(Vin_5.21)
/ यावत् तदास्तारकः /(Vin_5.22)
/ चीवरान्तरा[44ब्3]धिष्ठानम् एतत् तस्माद् उद्धृत्याधिष्ठितानि /(Vin_5.23)
/ रोचयेरन्* सामग्र्याम्* /(Vin_5.24)
/ अनुषितम्* /(Vin_5.25)
/ संमन्येरन्न् अन्तःसीम्नि /(Vin_5.26)
/ आस्तारकञ् च /(Vin_5.27)
/ यत्रास्योत्थानम्* /(Vin_5.28)
/ तस्मै ददीत ज्ञप्त्य् आधावनस्यूतिरञ्जनेष्व् असौ पूर्वंगमः स्यात्* /(Vin_5.29)
/ द्वित्रानुष्ठानेन /(Vin_5.30)
/ निष्ठितं संपत्तौ द्वित्राणां स्वयं सूचीपदकानां दानम्* /(Vin_5.31)
/ आदानस्वयंकृति तद् अन्तेष्व् आस्ता[44ब्4]रिष्याम्य् आस्तृणोम्य् आस्तृतं मयेति यथासंख्यं चित्तस्योत्पादनम्* /(Vin_5.32)
/ नाद्यस्य हानाव् अनुत्थानम्* /(Vin_5.33)
/ श्वो हम् आयुष्मन्तः कठिनम् आस्तरिष्यामि युष्माभिः स्वकस्वकानि चीवराण्य् उद्धर्तव्यानिईति सामग्र्याम् आरोचनम्* /(Vin_5.34)
/ सन्निपातगतानुष्ठानम्* /(Vin_5.35)
/ गन्धपुष्पार्चितं सुरभिधूपधूपित चांगेरिपटलकस्थम् एकं त्रिवानेकम् आदाय वृद्धा[44ब्5]न्ते वस्थितेनास्तृतेस् सम्पादनं प्रतिपदिः /(Vin_5.36)
/ कार्तिकस्य /(Vin_5.37)
/ त्रिर् उक्त्या /(Vin_5.38)
/ आस्तृणोमीति /(Vin_5.39)
/ प्रतिभिक्षुम् अग्रतः स्थित्वा आस्तृतमिति निवेदनम् /(Vin_5.40)
/ साध्व् आस्तृतं सुष्ठ्व् आस्तृतं यो त्र लाभश् चानुशंसश् च सो ऽस्माकमितीतरः /(Vin_5.41)
/ प्रत्यनुभूतिवद् अस्यानुमोदनम्* /(Vin_5.42)
/ सम्मुखीभूतेन /(Vin_5.43)
/ कालेन काल शोषयेद् आतापयेत्* स्फोटयेत्* /(Vin_5.44)
/ न धूमरजोगारे [44ब्6] स्थापयेत्* /(Vin_5.45)
/ न राज्ञः /(Vin_5.46)
/ नातो विप्रवसेत्* /(Vin_5.47)
/ नादायान्यत्र गच्छेत्* /(Vin_5.48)
/ नाशुचिकुटिम्* प्रविशेत्* /(Vin_5.49)
/ अभ्यवकाशे तिष्ठेत्* /(Vin_5.50)
/ द्विविध उद्धारः स्वयं विवर्तीकृतृमश् च /(Vin_5.51)
/ स्वयम् विवृत्तिः प्राप्तो सीमान्तरस्य कठिनेन /(Vin_5.52)
/ उद्गतौ निरधिष्ठत्रे कर्त्व् अन्तःसीम्नो ऽरणस्य /(Vin_5.53)
/ विच्छेदे तन्मण्डलान्तर्भावस्य /(Vin_5.54)
/ तम् अत्र प्रति /(Vin_5.55)
/ [45अ1] सीमातिक्रान्ताव् अस्य संपत्तिः /(Vin_5.56)
/ अप्रत्यागमनचित्तेन /(Vin_5.57)
/ अस्य चोत्पत्तौ बहिःसीम्नि /(Vin_5.58)
/ अभावे चीवरकरणाभिप्रयेणानुस्यूतेस् तद् एव /(Vin_5.59)
/ करिष्यत्ता विछित्तौ भावे /(Vin_5.60)
/ पत्यागतेष /(Vin_5.61)
/ त्रये करिष्यमाणस्यैतत् संस्थानम् आशासमुच्छेदे प्रारब्धनष्टौ निष्ठान इति /(Vin_5.62)
/ उद्धर्तृनिश्चयवद् विमतिः /(Vin_5.63)
/ न कर्मणो न्यङ् कारम् अनु[45अ2]त्तिष्ठेयुः /(Vin_5.64)
/ फाल्गुनी तत्कालः /(Vin_5.65)
/ अन्तरा /(Vin_5.66)
/ मुषितकार्थतायाम् अर्वाचीनो पि /(Vin_5.67)
/ आश्रुतेर् अस्मिन्न् अननुभूतेवन् तं प्रत्यनुवृत्तिर् अनुशंसे /(Vin_5.68)
/ असत्वे नुस्यूतेः /(Vin_5.69)
/ आछित्तेः मत्वे /(Vin_5.70)
/ नानुद्धृते सर्वेषां तात्कालिकं लाभं भाजयेत्* /(Vin_5.71)
// कठिनवस्तु // 1 //
**(vin_5,2) पृच्छागतम् /
/ यथाप्रवारणम् आस्तारः /(Vin_5.72)
/ नापोषधान्ते /(Vin_5.73)
/ उद्धारश् च /(Vin_5.74)
/ तद्दिनत्वम् अ[45अ3]स्य /(Vin_5.75)
/ उद्धृतत्वं पुनः पोषधे कृतौ /(Vin_5.76)
/ पृथग् अस्यास्तीर्य भिन्नेषु संपत्तिः /(Vin_5.77)
/ धर्मवादिनां स तद्यास्तारः /(Vin_5.78)
/ कृते प्य् अत्रेतरैर् एषाम् आवासे लाभे र्हत्वम्* /(Vin_5.79)
/ नोत्क्षिप्तकानां प्रकृतिस्थकावासे स्योत्थानम्* /(Vin_5.80)
/ भावसन् निवेशनम् आस्तारः /(Vin_5.81)
/ भवति छन्ददानवशात् सहितेन करणीयस्य शिष्टैः कृतौ कृतत्वम्* /(Vin_5.82)
/ तद् अपच्युतिर् उद्धारः /(Vin_5.83)
/ तस्माद् अ[45अ4]दत्वा च्छन्दं स्वप्नसमापत्योः संनिषण्णे स्यानुत्थानम् आस्तारस्योद्धृतेश् च प्राक् श्रुवणात्* /(Vin_5.84)
/ उषितत्वम् एकसीमतायां तत्रावासान्तरोषितानाम् आस्तारे /(Vin_5.85)
/ तत्स्थानत्वम् आस्तारकाले स्याम् अस्य /(Vin_5.86)
/ यत् तद् आस्तृत्य पृथक् सीमकरणे चास्य स्थानम्* /(Vin_5.87)
/ प्रत्यावासं पृथक्त्वे स्यैषाम् उद्धारः /(Vin_5.88)
/ प्रतिपक्षं भिन्नतायाम्* /(Vin_5.89)
/ नानुद्धृतिर् अना[45अ5]स्तारोद्धारः /(Vin_5.90)
/ नानुत्थानकत्वाद् अपूरकत्वं /(Vin_5.91)
/ नानास्तारत्वाद् उद्धारे /(Vin_5.92)
/ निर्दोषम् आस्तृतकठिनस्य /(Vin_5.93)
/ विनासांघाट्या ग्रामप्रवेशाद्य् आशृङ्गाटके निषादात्* /(Vin_5.94)
// कठिनवस्तुनि पृच्छागतम्* // 2 // // समाप्तञ् च कठिनवस्तु // 5 //
*vin_6, चीवरवस्तु /
**(vin_6,1) चीवरवस्तु /
/ नाशस्त्रलूनं वासः परिभुञ्जीत /(Vin_6.1)
/ छिन्नस्यूतं चीवरत्वायाधिष्ठेत् /(Vin_6.2)
/ भक्तिचित्रताशेष[45अ6]सममध्यान्यत् तद्गतपत्रमुखत्वपरिमण्डितत्वेः /(Vin_6.3)
/ अन्तरवास उत्तरवासंगं संघाटीञ् च /(Vin_6.4)
/ कूसुलकसंघक्षिके च यत् तद्विधे भिक्षुणी /(Vin_6.5)
/ मतसंभवे याच्ञायापि /(Vin_6.6)
/ नैतद् विहासरुतोद्गतिम् आगमयेत् /(Vin_6.7)
/ रोहत्य् अन्यासंपत्तावरक्तकस्याधिष्ठानं /(Vin_6.8)
/ अछिन्नकस्य च /(Vin_6.9)
/ आसेवकानाम् अत्र दानं संभवश् चेत् /(Vin_6.10)
/ [45ब्1] आगारिकविधस्य च /(Vin_6.11)
/ नमतकोचवप्रावारस्थूलकम्बलपैलातिकम् अच्छिन्नम् आसैवकदानसूतम् /(Vin_6.12)
/ तत्क्षणाद् एवाशुचिम्रक्षणं सम्पत्तौ शयनासनं शोचयेत /(Vin_6.13)
/ नैनं सांघिकम् अखटमंचपीठमप्रत्यास्तृतमतेनानिषादात् संवरणं वा दत्तान्तर्द्धानम् उपभुञ्जीत /(Vin_6.14)
/ सर्वञ् च चित्रम् अभूयो विनष्टं /(Vin_6.15)
/ न कल्पभूते[45ब्2]न मलववता वा /(Vin_6.16)
/ धारणं प्रत्यास्तरणस्य येन एकपुटं न्याय्यम् /(Vin_6.17)
/ द्विपुटं पैलोतिकम् /(Vin_6.18)
/ अकल्पिकं चित्रोपचित्रं /(Vin_6.19)
/ पत्रमुखम् अस्य कुर्वीत्* /(Vin_6.20)
/ अधस् तृतीयभागादौ /(Vin_6.21)
/ नैकखण्डम् अधितिष्ठेत् /(Vin_6.22)
/ कण्डूप्रतिछादनं तद्वान् धारयेत् /(Vin_6.23)
/ पञ्चयैर् एनद् दविसैः शोचयेत् /(Vin_6.24)
/ कल्पते कोशेयमूर्णकं शानकं [45ब्3] क्षौमकञ् च /(Vin_6.25)
/ नातन्तोतभांगेयम् /(Vin_6.26)
/ केशमयनाग्न्यौलूकपक्षिकत्वसमादानम् /(Vin_6.27)
/ स्थूलम् अत्र /(Vin_6.28)
/ अन्यद् एतत् भजनम् /(Vin_6.29)
/ केशलुञ्चनपर्णशाट्यजिनसान्तरोत्तरयापनतिरिटाङ्गनाडीसर्वनीलप्रवारणदीर्घदशफणदशकंचुकोष्णीषशिरोवेष्टनकुतपोष्टक बलतीर्थिकध्वजञ् च /(Vin_6.30)
/ पुलासपत्रपूरदीपवर्ति[45ब्4]कामात्रतयापि समतयै विभजनम् /(Vin_6.31)
/ विक्रीयकोचवतद् विधानाम् /(Vin_6.32)
/ न पाटयित्वा /(Vin_6.33)
/ पञ्चानां लभेः भाजने करणम् अद्यलाभो भाजयिष्यते तत्र युष्माभिः सन्निपतितव्यम् इत्य् आरोचनं संघे /(Vin_6.34)
/ गण्ड्या कोटनम् /(Vin_6.35)
/ शलाकाचारणम् /(Vin_6.36)
/ गणनम् /(Vin_6.37)
/ प्रत्यंशप्रवारणं /(Vin_6.38)
/ ईशित्वक्रियमाणतायामान्त्यादि[45ब्5]गतस्य /(Vin_6.39)
/ नावसितत्वे /(Vin_6.40)
/ कुलाभके प्य् एतत् /(Vin_6.41)
/ नानर्हः प्रक्रान्तायां तल्लाभक्रिया प्रविष्टेः /(Vin_6.42)
/ तस्मान् नियुञ्जीत्* ग्रहणे प्रक्रामन् /(Vin_6.43)
/ दस्युत्वम् अग्रहणे प्रतिज्ञातवतः /(Vin_6.44)
/ पणपञ्चकात् प्रभृति कुलाभके /(Vin_6.45)
/ नानुक्तो गृह्णीयात् /(Vin_6.46)
/ गृह्णीयाद् आचार्योपाध्यायो वा /(Vin_6.47)
/ विश्रम्भस्थानार्थञ् च /(Vin_6.48)
/ नास्वपक्षार्थं /(Vin_6.49)
/ [45ब्6] शयनासने प्य् एतत् /(Vin_6.50)
/ भक्ते वा /(Vin_6.51)
/ परस्परार्थं गृह्णन् विज्ञपयेत् /(Vin_6.52)
/ नानाभवन् तम् अन्तर्भूयः /(Vin_6.53)
/ नैकत्वम् अर्द्धस्य सुवरुता च लब्धेर् अनर्हप्रवेशे कारणं /(Vin_6.54)
/ अनर्हः संघलाभस्याधर्मपक्षेषु पतितो भिन्नेषु /(Vin_6.55)
/ उषितत्वं बहुतरम् उषितस्य तत्कालके लाभे हानायास्यावृत्तौ मृत्यौ च /(Vin_6.56)
/ यथाविनियतिलाभस्य व्यवस्था /(Vin_6.57)
/ [46अ1] लब्धृभिश् च /(Vin_6.58)
/ कृत्स्नप्रतिपादने पि /(Vin_6.59)
/ कर्मसीम्ना संघस्यापरिच्छेदे परिच्छेदः /(Vin_6.60)
/ तत्त्वम् अत्रैकादेः /(Vin_6.61)
/ धर्मलाभे तद्भाणकानाम् ईशित्वम् /(Vin_6.62)
/ एकार्षगाथाधारणं तत्त्वे त्र पर्यन्तः /(Vin_6.63)
/ अर्हत्वं भिन्नव्यञ्जनस्येतरसन्निधौ मृतपरिष्कारे /(Vin_6.64)
/ तथोत्क्षिप्तस्य /(Vin_6.65)
/ असन्निधौ वा निवृत्ते निमित्ताच् चेतसि /(Vin_6.66)
/ अभिन्नत्वम् अस्य तारादीयमैतद्ग्रा[46अ2]ह्यतायां /(Vin_6.67)
/ भिन्नत्वं भिन्नस्य /(Vin_6.68)
/ नान्यस्य प्रव्रजितात् सब्रह्मचारिणस् तदीशित्वम् /(Vin_6.69)
/ न ज्ञप्त्याधिष्ठिते प्राप्तस्य पूर्वचरमेण वा /(Vin_6.70)
/ कस्यचित् ततः संघवृद्धनवकयोः दानं तद् आख्यं /(Vin_6.71)
/ यत्राधिष्ठेयस्य गतता तत्सीमान्तर्गतानाम् अधिष्ठतृत्वम् /(Vin_6.72)
/ अकरणम् अत्र मरणस्थानता /(Vin_6.73)
/ सीमान्तरिकात् स्थलग्ने काये न्यत्र वा यातामा[46अ3]क्रान्तिस् तावद् गतानां /(Vin_6.74)
/ सप्रतिवस्तुकत्वे यत्रासौ तद्गतत्वं परिस्कारस्य /(Vin_6.75)
/ प्रतिवस्तुकेनान्यस्थम् अधितिष्ठेयुः /(Vin_6.76)
/ प्रेषितस्याप्रतिक्षिप्तस्य संप्रदानेन तदीयत्वम् /(Vin_6.77)
/ प्रतिक्षिप्तस्य प्रेषयितृत्वम् /(Vin_6.78)
/ प्रतिक्षिप्तस्यापि तेन /(Vin_6.79)
/ बहिर् अस्य रूढिः /(Vin_6.80)
/ सीम्नो न्तः संज्ञिना केवलाधिष्ठानम् /(Vin_6.81)
/ नाकृते निर्हारसत्करणधर्मश्रवणदक्षि[46अ4]णादेशने धितिष्ठितेयुः /(Vin_6.82)
/ अन्तर्गृहस्थत्वे पात्रचीवरस्य यस्मै गृहपतिना दानं तस्यैशित्वम् /(Vin_6.83)
/ अर्हश् चेत् /(Vin_6.84)
/ विहीनश् च तेन /(Vin_6.85)
/ अदाने याचितवतः /(Vin_6.86)
/ क्रमे प्रथमम् /(Vin_6.87)
/ असत्त्वे नुद्देशत्वात् पृष्टौ गतवतः /(Vin_6.88)
/ तद्वत् क्रमे /(Vin_6.89)
/ एनिकोद्भूतो तद्देयपरिमाणस्य तद्गामित्वं मृतपरिस्कारस्य /(Vin_6.90)
/ विभक्तस्यापि /(Vin_6.91)
/ यत् तेन सा[46अ5]र्द्धम् अवस्थितं तस्य देयत्वं ग्राह्यता वा न तस्यैव /(Vin_6.92)
/ नानेन सब्रह्मचारिणाम् ऋणित्वं /(Vin_6.93)
/ रत्ना दीपित्वं संभावने यावद्भ्य एतत् तावत्सु नावकर्मिकस्य विनियोगः समं स ग्लानोपस्थायक्रात्वतद्गामित्वं परिस्कारषट्कस्य नाधिष्ठेयत्वम् /(Vin_6.94)
/ सोत्तमाधमम् अध्यमस्य /(Vin_6.95)
/ साधारण्यम् अनेकत्वे तस्य /(Vin_6.96)
/ प्रक्रान्ततायां ग्लानस्य मृत्यौ [46अ6] तादर्थ्ये देयत्वं /(Vin_6.97)
/ नैतन् मृतद्रव्ये नर्हस्य /(Vin_6.98)
/ न नान्यत्रोपगते /(Vin_6.99)
/ सर्वार्हत्वम् अत्रानुसंपन्ने /(Vin_6.100)
/ हायते ग्लानस्योक्तोक्तेन दाने यथोक्तेन दाने यथोक्तं कार्यत्वं /(Vin_6.101)
/ अप्रगमो मृतकालस्वत्वसंपादने धनिनः /(Vin_6.102)
/ प्रगमो गृहस्थस्य /(Vin_6.103)
/ निर्यात्य गृहिणि मृते पुत्रदारस्य यथासुखकरणं /(Vin_6.104)
/ हस्त्यश्वोष्टखरवेसरसन्नाहानां [46ब्1] राज्ञि निर्यातनं /(Vin_6.105)
/ त्रये हिरण्यसुवर्णान्यकृताकृतानां /(Vin_6.106)
/ रत्नानाञ् च /(Vin_6.107)
/ स च्चेद् अन्यद् एतत् तदंशत्वेनार्थिरिक्तत्वे पि न चेद् एवम् एव बुद्धे मुक्तानां /(Vin_6.108)
/ महारङ्गस्य च /(Vin_6.109)
/ लेपस्य पिष्ट्वाभिर् गन्धकुड्यां दानं /(Vin_6.110)
/ अतदौबोधिकस्य प्रतिमागन्धकुटिचैत्योपस्करणे विनियोगः /(Vin_6.111)
/ बुद्धवचनलेखनसिद्धापयोर् धार्मिकस्य /(Vin_6.112)
/ यानस्य प्रतिमायां /(Vin_6.113)
/ ध्वजार्थं [46ब्2] तद्वंशानां /(Vin_6.114)
/ यष्टीनाञ् च तद्योग्यानाम् /(Vin_6.115)
/ अन्यासाम्नायुधानां संघे /(Vin_6.116)
/ खक्खरकसूची शस्त्रकं कृत्वेषां शरणं /(Vin_6.117)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
