Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[265|08] यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते /

[265|08-265|10] अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म /

[265|10] अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव /

[265|10-265|11] यदुक्तं "बोधिसत्त्वस्य मारण"मिति

[265|12] बोधिसत्त्वः कुतो यावत्

[265|13] कुत उपादाय बोधिसत्त्वोवक्तव्यः /

[265|14] यतो लक्षण कर्मकृत् /

[265|15-265|16] यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति /

[265|16] कथं कृत्वा / स हि तस्मात् कालात् प्रभृति नित्यं भवति /

[265|17] सुगतिः कुलजो ऽव्यक्षः पुमान् जातिस्मरो ऽनिवृत् // vakk_4.108 //

[265|18] प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः /

[265|18-265|19] तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः /

[265|19] विकलान्यक्षाण्यस्येति व्यक्षः /

[265|20] न व्यक्षो ऽव्यक्षः अविकलेन्द्रियः इत्यर्थः / पुरुष एव न स्त्री कुत एव शण्ढादिः /

[265|21] जातिस्मरश्च भवति / सर्वस्यां जातौ निवर्तत इति निवृत् / न निवृदनिवृत् /

[265|22] अनिवर्तक इत्यर्थः /

[265|22-265|23] सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् /

[265|23] यत्तल्लोक उच्यते "अपणक्रीतो दास" इति /

[265|23-265|26] बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः /

[265|26-265|27] यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् /

[266|01-266|02] जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः / चिन्तामयं कल्पशते शेष आक्षिपते हि तत् // vakk_4.109 //

[266|03] जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति / नान्यत्र /

[266|03-266|04] जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् /

[266|04] पुरुष एव न स्त्री /

[266|04-266|05] संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् /

[266|05-266|06] कल्पशते च शेष आक्षिपति न बहुभवेसु /

[266|06-266|07] भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् /

[266|07-266|09] अत एव चोक्त "मितो ऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे"ति /

[266|09-266|11] ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः /

[266|11] तेषां च लक्षणानाम्

[266|12] एकैकं पुण्यशतजम्

[266|13] किं पुण्यस्य परिमाणम् /

[266|13-266|14] संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येके /

[266|14-266|15] यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोको ऽभिनिवर्तत इत्यपरे /

[266|15] बुद्धा एव च तत्परिमाणज्ञा इत्यपरे /

[266|15-266|16] अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास /

[266|16-266|17] प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् /

[266|18] अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् /

[266|18-266|19] प्रतिलोमानुक्रमेण यथाक्रमम् /

[266|20] असंख्येयत्रयान्त्यजाः /

[266|21] विपश्यी दीपकृद्रत्नशिखी

[266|22] रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः / दीपङ्करे भगवति द्वितीयः /

[266|23] विपश्यिनि तथागते तृतीयः / सर्वेषां तु तेषां

[266|24] शास्यमुनिः पुरा // vakk_4.110 //

[266|25] शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव /

[266|25-267|02] यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतम् एवंप्रकार एवाहं बुद्धो भवेयमिति नो ऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव /

[267|03] अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते /

[267|04] सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् /

[267|05-267|06] यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति /

[267|07] अङ्गच्छेदे ऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः // vakk_4.111 //

[267|08-267|09] यदा ऽयमवीतरागो ऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदा ऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः /

[267|10] तिष्यस्तोत्रेण वीर्यस्य

[267|11-267|12] तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया

[267|13-267|16] "न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये / न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा //

चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् / पुरुषवृषभस्त्वत्तुल्यो ऽन्यो महाश्रमणः कुत" इति //

[267|17] तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः /

[267|18] धीसमाध्योरनन्तरम् /

[267|19-267|20] बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात् पारमिताः /

[267|21] सूत्र उक्तं "त्रीणि पुण्यक्रियावस्तूनि /

[267|21-267|22] दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि"ति /

[267|22] कथमेतत्त्रयं पुण्यक्रियावस्तु /

[267|23] पुण्यं क्रिया ऽथ तद्वस्तु त्रयं कर्मपथा यथा // vakk_4.112 //

[267|24] पुण्यमप्येतत्त्रयं क्रिया ऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु /

[267|24-268|01] तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः /

[268|01-268|02] तत्र दानमये तावत् पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति /

[268|02-268|03] तत्समुत्थापिका चेतना पुण्यं च क्रिया च /

[268|03] तत्सहभुवो धर्माः पुण्यमेव / शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति /

[268|04] भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु /

[268|04-268|06] तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात् तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च /

[268|06-268|07] अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि /

[268|07] एषां संपादनार्थं पुण्यप्रयोगारम्भादिति /

[268|07-268|08] कुशलचेतनापरमार्थेन पुण्यक्रिया /

[268|08] तस्या एतानि वस्तूनीत्यपरे /

[268|09] किमिदं दानं नाम / यदपि दीयते दद्दानम् / इह तु

[268|10] दीयते येन दद्दानं

[268|11] भवति स्म / रागादिभिरपि दीयते / न चात्र तदिष्टम् / अतो विशेषणार्थमाह

[268|12] पूजानुग्रहकाम्यया /

[268|13] परेषां पूजानुग्रहकामताभ्यां येन दीयते / किं पुनस्तत्स्याद्येन दीयते /

[268|14] कायवाक्कर्म सोत्थानं

[268|15] किं पुनस्तदुत्थानम् / येन कलापेन तदुत्थाप्यते / आह चात्र

[268|16-268|17] शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् / तत् क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते //" इति / [268|18] महाभोग्यफलं च तत् // vakk_4.113 //

[268|19] तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् / स्वभावे चैष मयड्वेदितव्यः /

[268|20] तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति / तत् खल्वेतद्दानं

[268|21] स्वपरार्थोभयार्थाय नोभयार्थाय दीयते /

[268|22-268|23] तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय /

[268|23] परेषां तेनानुग्रहाभावात् /

[268|23-269|01] यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय /

[269|01-269|02] तेन तेषामनुग्रहात् /

[269|02] नात्मनो ऽर्थाय / तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् /

[269|02-269|03] यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय /

[269|03-269|04] यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय /

[269|04-269|05] तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते /

[269|05] सामान्येन दानं महाभोग्यफलमुक्तम् /

[269|06] तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः // vakk_4.114 //

[269|07] तत्र तावत्

[269|08] दाता विशिष्टः श्रद्धाद्यैः

[269|09] श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति /

[269|09-269|10] तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते /

[269|10] स च तादृशो दाता

[269|11] सत्कृत्यादि ददाति

[269|12] सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति /

[269|13] अतः /

[269|14] सत्कारोदाररुचिता कालानाच्छेद्यलाभिता // vakk_4.115 //

[269|15] अतो ऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति /

[269|15-269|16] सत्कारलाभी भवति /

[269|16] उदारेषु च भोगेषु रुचिं लभते /

[269|16-269|17] कालेल्न च भोगान् लभते नातिक्रान्तिकालेन /

[269|17] अनाच्छेद्यांश्च भोगान् लभते /

[269|17-269|18] नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते /

[269|18-269|19] उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः /

[269|20] अथ वस्तु कथं विशिष्यते /

[269|21] वर्णादिसम्पदा वस्तु

[269|22] विशिष्टमिति वर्तते /

[269|22-269|23] यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति /

[269|23] एवं वस्तु विशिष्यते / तादृशं वस्तु दत्त्वा किं भवति / यथाक्रमम्

[269|24-269|25] सुरूप्त्वं यशस्वि वा / प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः // vakk_4.116 //

[269|26] वर्णसम्पन्नं दत्त्वा सुरूपो भवति / गन्धसंपन्नं दत्त्वा यशस्वी भवति /

[269|26-270|01] गन्धवद्यशसो दिक्षु विधारणात् /

[270|01] रससंपन्नं दत्त्वा प्रियो भवति / रस इव स्वादुः /

[270|01-270|03] स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य /

[270|04] अथ क्षेत्रं कथं विशिप्यते /

[270|05] गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते /

[270|06] गतिविशेषातावद्विशिष्यते /

[270|06-270|07] तथा ह्युक्तं भगवता "तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः /

[270|07-270|08] दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण" इति /

[270|08] दुःखविशेषा द्विशिष्यते / तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु /

[270|09] ग्लाने दानं ग्लानोपस्थापके दानम् /

[270|09-270|11] शीतलिकादिषु च दानमुक्त्वोक्तमे" भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि"ति /

[270|12-270|13] उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणाम् ऋष्यमृगजातकाद्युदाहरणात् /

[270|13] गुणविशेषाद्यथा" शीलवते दत्त्वा शतसहस्रगुणो विपाक" इत्येवमादि /

[270|14] सर्वेषां तु दानानाम्

[270|15] अग्रं मुक्तस्य मुक्ताय

[270|16] "यद्वीतरागो वीतरागाय दत्त्वा ऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता /

[270|17] बोधिसत्त्वस्य च

[270|18] यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्ते ऽभ्यादानमग्रम् /

[270|19] तत् स्थापयित्वा यानि भगवतो ऽन्यान्यष्टौ दानान्युक्तानि तेषाम्

[270|20] अष्टमम् // vakk_4.117 //

[270|21] अग्रमिति वर्तते / कतमान्यष्टौ /

[270|21-270|24] आसाद्य दानं भयदानम् अदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति /

[270|24] तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः /

[270|25] भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति /

[270|25-270|26] शेषं सुगमत्वान्न विभक्तम् /

[270|26] स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वा ऽप्रमेयविपाकः /

[270|27] ततो ऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे / अपितु

[271|01-271|02] मातृपितृग्लानधार्मकथिकेभ्यो ऽन्त्यजन्मने / बोधिसत्त्वाय चामेया अनार्येभ्यो ऽपि दक्षिणा // vakk_4.118 //

[271|03] एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्यो ऽप्यप्रमेया फलतो दक्षिणा भवति /

[271|03-271|04] तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः /

[271|04-271|05] धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः /

[271|05] उपकारिपक्षे /

[271|05-271|07] स हि महाकल्याणमित्रम् अविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता /

[271|08] कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट् कारणानि ज्ञेयानि / तद्यथा

[271|09-271|10] पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः / एषां मृद्वधिमात्रत्वात् कर्ममृद्वधिमात्रता // vakk_4.119 //

[271|11] पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया / क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते /

[271|12] अधिष्ठानं कर्मपथः / प्रयोगस्तदर्थं कायवाक्कर्म /

[271|12-271|13] चेतना यया कर्मपथं निष्ठापयति /

[271|13-271|14] आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति /

[271|14] कस्यचित् पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते /

[271|14-271|15] विपाकनैयम्येनावस्थानात् /

[271|15] कस्यचित् क्षेत्रवशेनैव /

[271|15-271|16] तत्रैव क्षेत्रे पुनरधिष्ठानवशात् गुरु संपद्यते नान्यथा /

[271|16] यथा माताइत्रोः प्राणातिपातात् न त्वेवमदत्तादानादिकात् /

[271|16-271|17] एवमन्यदपि योज्यम् /

[271|17-271|18] यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् /

[271|18] यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् //

[271|19] कृतं चोपचितं च कर्मोच्यते / कथं कर्मोपचितं भवति / पञ्चभिः करणैः /

[271|20-271|21] संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः / परिवाराद्विपाकाच्च कर्मोपचितमुच्यते // vakk_4.120 //

[271|22] कथं संचेनतः / संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् /

[271|22-271|23] कथं समापत्तितः /

[271|23] कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः /

[271|23-271|24] कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः /

[271|24-271|25] तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितम् समाप्ते तूपचितम् /

[271|25] कथं निष्कौकृत्यविपक्षतः /

[271|25-272|01] निर्विप्रतिसारं च तत् कर्म भवति निष्प्रतिपक्षं च /

[272|01] कथं परिवारतः /

[272|01-272|02] अकुशलं चाकुशलपरिवारं च भवति /

[272|02] कथं विपाकतः / विपाकदान नियतं भवति /

[272|03] एवं कुशलमपि योज्यम् / अतो ऽन्यथा कर्म कृतं भवति नोपचितम् /

[272|04] चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् /

[272|04-272|05] तत्रासत्युपभोक्तरि कथं पुण्यं भवति /

[272|05-272|06] द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते /

[272|07] चैत्ये त्यागान्वयं पुण्यं

[272|08] परिभोगान्व्यं पुण्यं नास्ति / कथं तत्राप्रतिगृह्णति कस्मिंश्चित् पुण्यम् /

[272|08-272|09] किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति /

[272|09] कस्यचिदप्यनुग्रहाभावात् / इदमकारणम् /

[272|10] यदि हि पुण्यं परानुग्रहादेव स्यात् मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् /

[272|11] तस्मादेष्टव्यं चैत्यै ऽपि पुण्यम् /

[272|12] मैत्र्यादिवदगृह्णति /

[272|13-272|14] यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीते ऽपि गुणवति तद्भक्तिकृतं स्वचित्तात् पुण्यं भवति /

[272|14-272|15] दानमानक्रिया तर्हि व्यर्था प्राप्नोति /

[272|15] न / तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् /

[272|15-272|16] यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म /

[272|16-272|17] शत्रुसंज्ञया तस्मिन्मृते ऽपि कुर्वतो बहुतरमपुण्यं जायते /

[272|17] नाभिप्रायमात्रेण /

[272|17-272|18] तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते /

[272|19] न भक्तिमात्रेण /

[272|19-272|20] यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति /

[272|21] कुक्षेत्रे ऽपीष्टफलता फलबीजाविपर्ययात् // vakk_4.121 //

[272|22-272|23] कुक्षेत्रे ऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् /

[272|23-272|24] एवं कुक्षेत्रे ऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् /

[272|24-273|01] क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा /

[273|01] गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् //

[273|02] शीलमयं वक्तव्यम् / तदुच्यते

[273|03] दौःशीत्लमशुभं रूपं शीलं तद्विरतिः

[273|04] अकुशलं हि रूपं दौःशील्यमुच्यते / तस्माद्विरतिः शीलम् / सा पुनर्विरतिः

[273|05] द्विधा /

[273|06] यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणम् अविज्ञप्तिः /

[273|06-273|07] न च केवलं दौःशील्याद्विरतिः शीलम् /

[273|07] किं तर्हि /

[273|08] प्रतिक्षिप्ताच्च बुद्धेन

[273|09-273|10] यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् /

[273|10] समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते //

[273|10-273|11] उक्तं तमासेन शीलम् //

[273|12] विशुद्धं तु चतुर्गुणम् // vakk_4.122 //

[273|13] तत्तु शीलं चतुर्गुणं भवति / विपर्ययादविशुद्धम् / अथ कथं चतुर्गुणमित्याह

[273|14] दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् /

[273|15] दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन / हेतुना ऽप्यनुपहतं भवति /

[273|16] लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति /

[273|16-273|17] स्मृत्युपस्थानसंनिश्रितत्वात् समाश्रितं च भवति /

[273|17] नोपपत्तिविशेषाश्रितम् /

[273|17-273|18] निर्वाणपरिणामितवात् /

[273|18] पञ्चभिः कारणैः इत्यपरे /

[273|18-273|19] मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्या ऽनुपरिगहीतं निर्वाणपरिणामितं चेति /

[273|19-273|20] चतुर्विधं शीलमित्यपरे /

[273|20] भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात् पाल्यते /

[273|20-273|21] आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् /

[273|21-273|22] बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् /

[273|22] परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति //

गतं शीलम् //

[273|23] समाहितं तु कुशलं भावना

[273|24] किमिदं समाहितं नाम / समाधिस्वभावं सहभू यत् / किमर्थमेतत् भावनेत्युच्यते /

[274|01] चित्तवासनात् // vakk_4.123 //

[274|02] तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति / गुणैस्तन्मयीकरणात्संततेः /

[274|02-274|03] पुष्पैस्तिलभावनावत् /

[274|03] दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् /

[274|03-274|04] अथ शीलं भावना च

[274|05] स्वर्गाय शीलं प्राधान्यात् विसंयोगाय भावना /

[274|06] दानमपि स्वर्गाय शीलं प्राधान्यात् / शीलमपि विसंयोगाय / भावना तु प्राधान्यात् /

[274|07] सुत्र उक्तं "चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती"ति /

[274|07-274|08] कतमत् तद् ब्राह्मपुण्यम् /

[274|08] यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति वैभाषिकाः /

[274|09] पूर्वाचार्यास् तु व्याचक्षते /

[274|10] चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् // vakk_4.124 //

[274|11] यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् /

[274|11-274|12] ब्रह्मपुरोहितानां कल्पायुष्कत्वात् /

[274|12] निकायान्तरे गाथां पठन्ति

[274|13] "ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत" इति /

[274|14] आमिषदानमुक्तम् / धर्मदानं वक्तव्यम् / तदिदमुच्यते /

[274|15] धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना /

[274|16] सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् /

[274|16-274|17] अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति /

[274|17-274|18] क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः /

[274|18] उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः

[274|19] पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा // vakk_4.125 //

[274|20-274|21] पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति /

[274|21-274|23] यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात् खलविलेषु बीजास्तित्वम् /

[274|23-274|24] निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः /

[275|01] यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः /

[275|02-275|03] योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा / लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् // vakk_4.126 //

[275|04] योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् / त्रिधा कर्मेति कायवाङ्मनस्कर्म /

[275|04-275|05] तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् /

[275|05] गणना काव्यं च वाक्कर्म /

[275|06] इत्येतानि पञ्चस्कन्धस्वभावानि / संख्या मनस्कर्म / यन्मनसा संकलनं धर्माणाम् /

[275|07] धर्माणामिदानीं केचित् पर्याया उच्यन्ते /

[275|08] सावद्या निवृता हीनाः क्लिष्टा धर्माः

[275|09] क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः /

[275|10] शुभामलाः /

[275|11] प्रणीताः

[275|12] कुशलानास्रवाणां प्रणीता इति पर्यायः /

[275|12-275|13] हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धं भवति /

[275|14] संस्कृतशुभाः सेव्याः

[275|15] कुसलसंस्कृतानां सेवितव्या इति पर्यायः / शेषा असेवितव्या इति सिद्धं भवति /

[275|16] कस्मादसंस्कृतं न सेव्यम् / अनभ्यसनीयत्वादफलत्वाच्च / फलर्थं हि सेवा भवति /

[275|17] सोत्तरा अन्ये सर्वधर्माः /

[275|18] मोक्षस्त्वनुत्तरः // vakk_4.127 //

[275|19] नहि निर्वाणाद्विशिष्टतरमस्ति / तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् /

=====================================================================

[275|20-275|21] अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति //

पञ्चमं कोशस्थानम्

=====================================================================

ओं नमो बुद्धाय

=====================================================================

[277|03] "कर्मजं लोकवैचित्र्य" मित्युक्तम् /

[277|03-277|04] तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति /

[277|04] अतो वेदितव्याः

[277|05] मूलं भवस्यानुशयाः

[277|06] क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति /

[277|06-277|09] मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारं अरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति /

[277|10] कति चेमे ऽनुशयाः / समासेन षट् / कतमे

[277|11] षड्रागः प्रतिघस्तथा /

[277|12] मानो ऽविद्या च दृष्टिश्च विचिकित्सा च

[277|13] अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् /

[277|13-277|14] एतच्च पश्चात् प्रवेदयिष्यामः /

[277|15] ते पुनः // vakk_5.1 //

[277|16] षड्रागभेदात्सप्तोक्ताः

[277|17] त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः /

[277|17-277|19] कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति /

[277|19-278|01] कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित् कामरागस्यानुशयः कामरागनुशयः /

[278|01] किं चातः /

[278|01-278|02] कामराग एवानुशयश्चेत् सूत्रविरोधः /

[278|02] "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति /

[278|02-278|03] उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति /

[278|03-278|04] तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत"इति /

[278|04-278|06] कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः "कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त" इति /

[278|06] कामराग एवानुश्य इति वैभाषिकाः /

[278|06-278|07] एवं यावद्विचिकित्सैवानुशय इति /

[278|07] ननु चोक्तमेवं सूत्रविरोध इति / नास्ति विरोधः / सानुशयं सानुबन्धमित्यर्थः /

[278|08] औपचारिको वा सूत्रे ऽनुशयशब्दः प्राप्तौ / यथा दुःखो ऽग्निरिति /

[278|08-278|09] लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः /

[278|09] तस्मात्संयुक्ता एवानुशयाः / कथमिदं गम्यते /

[278|10] अनुशयानां

[278|11] "चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्" /

[278|12-278|13] यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः /

[278|13] अथ विप्रयुक्तैरप्येवं स्यात् /

[278|13-278|14] कुशलं न कदाचिदुपलभ्येत /

[278|14] तेषां नित्यं संनिहितत्वात् / उपलभ्यते च / अतः

[278|15-278|16] "कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः" इति /

[278|17-278|18] तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति /

[278|18] क्लेशकृतमेवेच्छति / एवं तु साधु यथा सौत्रान्तिकानाम् /

[278|19] कथं च सौत्रान्तिकानाम् / कामरागस्यानुशयः कामरागानुशय इति /

[278|19-278|20] न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् /

[278|20] प्रसुप्तो हि क्लेशो ऽनुशय उच्यते /

[278|21] प्रबुद्धः पर्यवस्थानम् / का च तस्य प्रसुप्तिः / असंमुखीभूतस्य बीजभावानुबन्धः /

[278|22] कः प्रबोधः / संमुखीभावः / को ऽयं वीजभावो नाम /

[278|22-278|23] आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः /

[278|23-278|24] यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति /

[278|24-279|01] यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते /

[279|01-279|03] यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के "सो ऽस्य भवति सुखायां वेदनायां रागानुशय" इति /

[279|03] भवतीति वचनान्नासौ तदैवानुशयः / कदा तर्हि भवति /

[279|03-279|04] यदा प्रसुप्तो भवति /

[279|04] हेतौ वा तदुपचार एष द्रष्टव्यः / तिष्ठतु प्रसङ्गः / शास्त्रं प्रवर्त्तताम् /

[279|05] य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति /

[279|06] को ऽयं भवरागः /

[279|07] भवरागो द्विधातुजः /

[279|08] रूपारूप्यधातुजो रागो भवरागः कृटः / किं कारणमेवं कृतः /

[279|09] अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः // vakk_5.2 //

[279|10] समापत्तिरागो हि तेषां प्रायेण / स चान्तर्मुखप्रवृत्तस्तस्मात् भवरागः /

[279|11] उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति /

[279|11-279|12] आत्मभाव एव तु भवः /

[279|12-279|13] ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् /

[279|13] अतः स रागो भवराग इत्युक्तः /

[279|13-279|14] पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते /

[279|14] कथं कृत्वा /

[279|15-279|16] दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः / दृष्टिशीलवृतपरामर्शाविति पुनर्दश // vakk_5.3 //

[279|17] षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति /

[279|17-279|18] पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च /

[278|18-278|19] यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानो ऽविद्या विचिकित्सा /

[279|19-279|20] एते पुनरेते दशानुशया अभिधर्मे ऽष्टानवतिः क्रियन्ते /

[279|20-279|21] कामावचराः षट्त्रिंशद् रूपावचरा एकत्रिंशत् आरूप्यावचरा एकत्रिंशत् /

[279|21] कथं कृत्वा /

[279|21-279|22] समासतो ह्येते ऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च /

[279|22-279|23] तत्र तावत् कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् /

[279|23] कतमे त इत्याह

[280|01-280|02] दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः / यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः // vakk_5.4 //

[280|03] य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति /

[280|04] एभ्य एव सप्त समुदयदर्शनप्रहेयाः /

[280|04-280|05] सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा /

[280|05] अष्टौ मार्गदर्शनहेयाः /

[280|05-280|06] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा /

[280|06] इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः /

[280|07] सत्यानां दर्शनमात्रेण प्रहाणात् /

[280|08] चत्वारो भावनाहेयाः

[280|09] तद्यथा रागः प्रतिघो मानो ऽविद्या च /

[280|09-280|10] दृष्टसत्यस्य पश्चात् मार्गाभ्यासेन प्रहाणात् /

[280|10] तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया /

[280|10-280|11] एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति /

[280|11] दुःखसमुदयनिरोधमार्गदर्शनहेया /

[280|11-280|12] एवं दृष्टिपरामर्शो विचिकित्सा च /

[280|12] शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः /

[280|13-280|14] रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च /

[280|14] कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद् भावनाहेयाः /

[280|14-280|15] ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः /

[280|15-280|17] ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति /

[280|18] त एवाप्रतिघाः पुनः /

[280|19] रूपधातौ

[280|20] पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति /

[280|21] यथा रूपधातौ

[280|22] तथारूप्ये

[280|23] एकत्रिंशदनुशया भवन्ति /

[280|24] इत्यष्टानवतिर्मताः // vakk_5.5 //

[280|24-280|25] त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् /

[281|01] य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते /

[281|02] नेत्याह / किं तर्हि /

[281|03] भवाग्रजाः क्षान्तिवध्या दृग्घेया एव

[281|04] ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः /

[281|05] शेषजाः /

[281|06] दृग्भावनाभ्याम्

[281|07] क्षान्तिवध्या इति वर्तते /

[प्28।107-28108] शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः /

[281|09] अक्षान्तिवध्या भावनयैव तु // vakk_5.6 //

[281|10] सर्वासु भूमिषु ये ऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः /

[281|10-281|11] नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे /

[281|12-281|14] तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानाम् अहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः /

[281|13-281|14] न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् /

[281|14-281|15] तस्मात् कामप्रतिसंयुक्ता एव ता अप्रहीणा इति /

[281|15-281|16] दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः /

[281|17] दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत् कस्तासां स्वभावः /

[281|18-281|19] आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः / अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः // vakk_5.7 //

[281|20] आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः / सीदतीति सत् /

[281|20-281|21] चयः कायः संघातः स्कन्ध इत्यर्थः /

[281|21] सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः /

[281|22] नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता / एतत्पूर्वको हि तेष्वात्मग्रहः /

[281|23] सत्काये दृष्टिः सत्कायदृष्टिः /

[281|23-281|24] सर्वैव सास्रवालम्बना दृष्टिः सत्काये /

[281|24] आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता /

[281|24-282|01] यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति /

[282|01-282|03] यथोक्तं "ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति /

[282|03] तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वा ऽन्तग्राहदृष्टिः /

[282|04] शाश्वतोच्छेदान्तग्रहणात् / सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः /

[282|04-282|05] सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता /

[282|05-282|06] अतिशयवत्त्वात् दुर्गन्धक्षतवत् /

[282|06] एषा ह्यपवादिका अन्यास्तु समारोपिकाः / हीने अग्रदृष्टिर्दृष्टिपरामर्शः /

[282|07] किं हीनम् / सर्वं सास्रवम् / आर्यैः प्रहीणत्वात् / तस्याग्रतो ग्रहणं दृष्टिपरामर्शः / [282|08] दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः /

[282|08-282|09] अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः /

[282|09] तद्यथा महेश्वरो न हेतुर्लोकानाम् /

[282|09-282|10] तं च हेतुं पश्यति प्रजापतिमन्यं वा /

[282|10-282|11] अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति /

[282|11-282|12] शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति /

[282|12-282|13] अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः /

[282|13] सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः /

[282|13-282|14] कस्मादयं न समुदयदर्शनप्रहातव्यः /

[282|14-282|15] यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य /

[282|15] तद्यस्मात् स

[282|16-282|17] ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते / कारणाभिनिवेशो ऽतो दुःखदृग्घेय एव सः // vakk_5.8 //

[282|18] दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते /

[282|18-282|19] तस्मात्तत्कृतो ऽपि कारणाभिनिवेशस्तत एव प्रहीयते /

[282|19-282|20] यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सो ऽपि दुःखदर्शनप्रहातव्य एव /

[282|20] एष हि शास्त्रपाठः /

[282|20-282|22] "ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति /

[282|22-282|23] अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः" इति विस्तरः /

[282|23-282|24] किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः /

[282|24] दुःखे विप्रतिपन्नत्वात् /

[282|24-282|25] सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् /

[282|25-282|26] कीदृशो वा ऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः /

[282|26] यो मार्गदर्शनप्रहातव्यालम्बनः /

[282|26-282|27] सो ऽपि हि नाम दुःखे विप्रतिपन्नः /

[282|27-282|28] यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वा ऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति /

[283|01] अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह /

[283|01-283|02] सो ऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति /

[283|02-283|03] तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति /

[283|03-283|04] यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः /

[283|04] तस्मात् परीक्ष्य एषो ऽर्थः /

[283|05] यदुक्तं "नित्यात्मविपर्यासादि"ति / किमेतावेव द्वौ विपर्यासौ /

[283|05-283|06] चत्वारो विपर्यासाः /

[283|06] अनित्ये नित्यमिति / दुःखे सुखमिति / अशुचौ शुचीति /

[283|06-283|07] अनात्मन्यात्मेति /

[283|07] अथैतद्विपर्यासचतुष्कं किंस्वभावम् /

[283|08] दृष्टित्रयाद्विपर्यासचतुष्कं

[283|09] अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः /

[283|09-283|10] दृष्टिपरामर्शात्सुखशुचिविपर्यासौ /

[283|10] सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः / सकलेत्यपरे /

[283|10-283|11] कथमात्मीयदृष्टिर्विपर्यासः /

[283|11] कथं च न विपर्यासः / विपर्याससूत्राद् /

[283|11-283|13] आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात् ममेति दृष्ट्यन्तरं स्यात् /

[283|13] मया मह्यमित्येतदपि स्यात् /

[283|14] कस्मादन्ये क्लेशा न विपर्यासाः /

[283|14-283|15] यस्मात् त्रिभिः कारणैर्विपर्यासानां व्यवस्थानम् कतमैस्त्रिभिः /

[283|16] वीपरीततः /

[283|17] नितीरणात् समारोपात्

[283|18] एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च /

[283|18-283|19] उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके /

[283|19] अभावमुखप्रवृत्तत्वात् /

[283|19-283|20] शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् /

[283|20-283|21] अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः /

[283|21-283|22] यत्तर्हि सूत्रे उक्त "मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास" इति /

[283|22] दृष्टिरेवात्र विपर्यासः /

[284|01] संज्ञाचित्ते तु तद्वशात् // vakk_5.9 //

[284|02] दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ /

[284|02-284|03] वेदनादयो ऽपि कस्मान्नोक्ताः /

[284|03] लोकप्रसिद्ध्या /

[284|03-284|04] लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति /

[284|04-284|05] त एते विपर्यासाः सर्वे ऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति /

[284|05] दर्शनप्रहेयत्वात् दृष्टीनां ससंप्रयोगाणाम् / द्वादश विपर्यासाः /

[284|05-284|06] अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः /

[284|06] एवं यावदनात्मन्यात्मेति /

[284|06-284|07] तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः /

[284|07-284|08] दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः /

[284|08-284|09] इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति /

[284|09] तदेतन्नेच्छन्ति वैभाषिकाः /

[284|10] यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते /

[284|10-284|11] सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते /

[284|11-284|12] न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति /

[284|12-284|13] सूत्रे ऽपि चोक्तं "यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति /

[284|13-284|14] यावत् तस्य तस्मिन् समये यो ऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत" इति विस्तरः /

[284|14-284|16] तस्माद् दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् /

[284|16] यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं

[284|17-284|18] "विपर्यासे च संज्ञानां चित्तं ते परिदह्यते" / निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् //

[284|19] तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे /

[284|19-284|20] ते ऽपि चार्यसत्यानां यथाभूतपरिज्ञानात् प्रहीयन्ते /

[284|20-284|21] न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः /

[284|22] अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य / मानस्याप्यस्ति / कथमित्याह

[284|23] सप्त मानाः

[284|24] मानो ऽतिमानो मानातिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च /

[284|25] अभेदेन चित्तस्योन्नतिर्मान उक्ताः / स प्रवृत्तिभेदात् सप्तधा भवति /

[284|25-285|01] हीनाद्विशिष्टः समेन वा समो ऽस्मीति मन्यमानस्योन्नतिर्मानः /

[285|01] समाद्विशिष्टो ऽस्मीत्यभिमानः /

[285|02] विशिष्टाद्विशिष्टो ऽस्मीति मानातिमानः /

[285|02-285|03] पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः /

[285|03] अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः /

[285|03-285|04] बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमानः /

[285|04] अगुणवतो गुणवानस्मीति मिथ्यामानः /

[285|05] यत्तर्हि शास्त्रे नव मानविधा उक्ताः / "श्रेयानस्मीति मानविधा /

[285|05-285|06] सदृशो ऽस्मीति मानविधा /

[285|06] हीनो ऽस्मीति मानविधा /

[285|06-285|07] अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः /

[285|07] नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन" इति /

[285|07-285|08] एभ्य एव मानेभ्य एताः /

[285|09] नवविधास्त्रिभ्यः

[285|10] कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः /

[285|10-285|11] तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः /

[285|11] अतिमानमानोनमानाः / द्वितीयं त्रयमूनमानमानातिमानाः /

[285|11-285|12] तृतीयं त्रयं मानातिमानोनमानाः /

[285|12-285|13] युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमान उन्नतिस्थानत्वात् /

[285|13-285|14] नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् /

[285|14] अस्ति सदृशो यो ऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते /

[285|15] अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः /

[285|15-285|17] प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानो ऽपि स्यादति मानो ऽपि मानातिमानो ऽपि हीनसमविशिष्टापेक्षया /

[285|18] अथैते सप्त मानाः किंप्रहातव्या इत्याह

[285|19] दृग्भावनाक्ष्याः /

[285|20] दृग्भावनाभ्यामेषां क्षयः /

[285|20-285|21] एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति /

[285|21] नावश्यं तद्यथा

[285|22] वधादिपर्यवस्थानं हेयं भावनया

[285|23-285|24] येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद् भावनाहेयं भावनाहेयधर्मालम्बनत्वात् /

[285|25] तथा // vakk_5.10 //

[286|01] विभवेच्छा

[286|02] विभवतृष्णा ऽपि भावनाहेया / विभवो नाम क एष धर्मः / त्रैधातुकी अनित्यता /

[286|03] तत्र प्रर्थना विभवतृष्णा / तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते /

[286|03-286|04] "अहो वताहमैरावणः स्यां नागराज" इत्येवमादि /

[286|04-286|05] मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च /

[286|06] न चार्यस्य संभवन्ति विधादयः /

[286|07] नास्मिता

[286|08] आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् /

[286|08-286|09] किं कारणमप्रहीणा अप्येते न समुदाचरन्ति /

[286|10] दृष्टिपुष्टत्वात्

[286|11] सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च /

[286|11-286|12] अतो भग्नपृष्ठत्वात् नोत्थातुम् पुनरुत्सहन्ते /

[286|12] वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् /

[286|12-286|13] विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् /

[286|13] भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् /

[286|14] कौकृत्यं नापि चाशुभम् // vakk_5.11 //

[286|15] अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् /

[286|15-286|16] न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् /

[286|17] अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः /

[286|18-286|19] सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा / विमतिः सह ताभिश्च या ऽविद्या ऽवेणिकी च या // vakk_5.12 //

[286|20-286|21] दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या /

[286|20-287|01] इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः /

[287|01] सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् /

[287|02] किमेभिर्युगपदालम्बते आहोस्वित् क्रमेण / यदि क्रमेण अन्येषामपि प्रसङ्ग /

[287|02-287|04] अथ युगपत् कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः /

[287|04] सकलं नोच्यते सकलं युगपदालम्बन्त इति /

[287|04-287|05] अपि तु पञ्चप्रकारमपि सर्वं युगपत् /

[287|05-287|06] एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति /

[287|06-287|07] एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् /

[287|07-287|08] भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् /

[287|08] अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् /

[287|08-287|09] स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ /

[287|09] तस्मान्न सर्वत्रगाविति वैभाषिकाः /

[287|10] व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः

[287|11] नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः /

[287|12] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ऽन्ये नवानुशया विसभागधातुसर्वत्रगाः /

[287|13] कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित् द्वौ /

[287|13-287|14] "ये ऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः /

[287|14-287|15] कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना" इति वचनात् /

[287|15-287|17] यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः /

[287|17-287|18] आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् /

[287|18] का तर्हीयं दृष्टिः /

[287|18-287|19] नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः /

[287|19-287|20] कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः /

[287|21] किं खल्वनुशयाः एव सर्वत्रगाः / नेत्याह /

[287|22] प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्ते ऽपि सर्वगाः // vakk_5.13 //

[287|23] सर्वत्रगैरनुशयैः सहभुवो ये ऽप्यन्ये धर्मास्ते ऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् /

[287|23-288|01] अनेक फलत्वात् /

[288|01-288|02] अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते /

[288|02] प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः /

[288|02-288|03] द्वितीया ऽतीतप्रत्युपन्नास्तत्सहभुवः /

[288|03] तृतीयाचतुथौ योज्ये /

[288|04] एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः /

[288|05-288|06] मिथ्यादृग्विमती ताभ्यां युक्ता ऽविद्या ऽथ केवला / निरोधमार्गदृग्घेयाः षडनास्रवगोचराः // vakk_5.14 //

[288|07-288|08] निरोधदर्शनप्रहातव्यास्त्रयो ऽनुशया मिथ्यादृष्टिर्विचिकित्सा ऽविद्या च ताभ्यां संप्रयुक्ता ऽ; ऽवेणिकी च /

[288|08] मार्गदर्शनप्रहातव्या अप्येत एव त्रयः /

[288|08-288|09] इत्येते षडनास्रवालम्बनाः /

[288|09] शेषां सास्रवालम्बना इति सिद्धम् / तत्र पुनः

[288|10-288|11] स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः / तद्गोचराणां विषयो मार्गो ह्यन्यो ऽन्यहेतुकः // vakk_5.15 //

[288|12-288|13] निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत् भवाग्रभूमिकानां भवाग्रस्यैव /

[288|13-288|14] मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् /

[288|14-288|15] यो ऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः /

[288|15-288|16] स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्यो ऽन्यहेतुकत्वात् /

[288|16-288|17] यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति /

[288|17-288|18] न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते /

[288|18-288|19] धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति /

[288|19-288|20] न तत् सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् /

[288|20-288|21] नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् /

[288|22] अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते /

[288|23] न रागस्तस्य वर्ज्यत्वात्

[289|01-289|02] वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् /

[289|03] न द्वेषो ऽनपकारतः /

[289|04] अपकारवस्तुनि हि प्रतिघ उत्पद्यते / न चैवं निरोधमागौं /

[289|05] न मानो न परामर्शौ शान्तशुद्धयग्रभावतः // vakk_5.16 //

[289|06] निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति /

[289|06-289|07] भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः /

[289|07] अग्रौ च तौ / हीने चाग्रग्राहो दृष्टिपरामर्शः /

[289|08] तस्मादयुक्तमेषामनास्रवालम्बनत्वम् /

[289|09] एषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगत एव /

[289|10-289|11] सर्वत्रगा अनुशयाः सकलामनुशेरते / स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः // vakk_5.17 //

[289|12-289|13] ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतो ऽनुशेरते /

[289|13] असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतो ऽनुशेरते नान्यम् /

[289|14] तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् /

[289|14-289|15] एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् /

[289|15] उत्सर्गं कृत्वा ऽपवादं करोति

[289|16] नानास्रवोर्ध्वविषयाः

[289|17] अनास्रवालम्बना अनुशया नैवालम्बनतो ऽनुशेरते / नाप्यूर्ध्वभूम्यालम्बनाः /

[289|17-289|18] किं कारणम् /

[289|18] तदालम्बनस्य वस्तुनः

[289|19] अस्वीकाराद्विपक्षतः /

[289|20-289|21] यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्ये ऽप्यनुशया अनुगमयितुमुत्सहन्ते /

[289|21] आर्द्र इव पटे रजांसि संस्थातुम् /

[289|21-289|22] न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः /

[289|22] अतो न तदालम्बनास्तेष्वनुशेरते / यस्त्विहस्थस्तां भूमिं प्रार्थयते /

[289|23-290|01] कुशलो ऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् /

[290|01] अतो न तेषु प्रतिष्ठां लभन्ते /

[290|01-290|02] तप्त इवोपले तलानि पादानाम् /

[290|02] आनुगुण्यार्थो ऽत्रानुशयार्थः / न च ते तदनुगुणा इत्यपरे /

[290|02-290|03] वातिकस्य रुक्षाननुशयनवत् /

[290|03] अत उक्ता आलम्बनतो ऽनुशेरते /

[290|04] येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः // vakk_5.18 //

[290|05] अनुशरेत इति वर्तते /

[290|05-290|06] यो ऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो ऽनुशेते /

[290|06] यावदप्रहीण इति विशेषणार्थस्तुशब्दः /

[290|06-290|07] स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः /

[290|07-290|08] ते चानुशयाः संप्रयोगतो ऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः /

[290|09] एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः /

[290|10] ऊर्ध्वमव्याकृताः सर्वे

[290|11] रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः / किं कारणम् /

[290|12] क्लिष्टानां धर्माणां दुःखविपाकः स्यात् / तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् /

[290|13] कामे सत्कायदर्शनम् /

[290|14] अन्तग्राहः सहाभ्यां च मोहः

[290|15] कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः /

[290|15-290|16] किं कारणम् /

[290|16] दानादिभिरविरुद्धत्वात् /

[290|16-290|17] अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति /

[290|17] उच्छेददृष्टिरपि मोक्षानुकूला /

[290|17-290|19] अत एवोक्तं भगवता "एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यती"ति /

[290|19] अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च /

[290|19-290|20] स्वर्गतृष्णा ऽस्मिमानयोरप्येवं प्रसङ्गः /

[290|20] सहजा सत्कायदृष्टिरव्याकृता /

[290|20-290|21] या मृगपक्षिणामपि वर्त्तते /

[290|21] विकल्पिता त्वकुशलेति पूर्वाचार्याः /

[291|01] शेषस्त्विहाशुभाः // vakk_5.19 //

[291|02] शेषास् त्वशुभा अनुशयाः कामधातावकुशलाः /

[291|03] कत्यकुशलमूलानि कति न /

[291|04] कामे ऽकुशलमूलानि रागप्रतिघमूढयः /

[291|05-291|06] कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहो ऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् /

[291|07] त्रीण्यकुशलमूलानि

[291|08] लोभो ऽकुशलमूलं द्वेषो मोहो ऽकुशलमूलम् /

[291|08-291|09] यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् /

[291|09-291|10] शेषा अनुशया नाकुशलमूलानीति सिद्धम् /

[291|11] कत्यव्याकृतमूलानि कति न / त्रीण्यव्याकृत मूलानि / कतमानि त्रीणि /

[291|12] तृष्णा ऽविद्या मतिश्च सा // vakk_5.20 //

[291|13-291|14] सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वा ऽसावव्याकृतमूलमिति काश्मीराः /

[291|15] द्वैधोर्ध्ववृत्तेर्नातो ऽन्यौ

[291|16] विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति / चलत्वात् /

[291|16-291|17] उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् /

[291|17-291|18] विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति /

[292|01] चत्वार्येवेति बाह्यकाः /

[292|02] बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति /

[292|03] तृष्णादृङ् मानमोहास्ते

[292|04] स इत्यव्याकृता इति दर्शयति / अव्याकृता तृष्णा दृष्टिर्मानो ऽविद्या च /

[292|04-292|05] किं कारणमेतान्यव्याकृतमूलानीच्छन्ति /

[292|06] ध्यायित्रित्वादविद्यया // vakk_5.21 //

[292|07] यस्मात्त्रयो ध्यायिनः / तृष्णादृष्टिमानोत्तरध्यायिनः / ते चाविद्यावशाद्भवन्तीति /

[292|08] यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् / नेत्याह /

[292|09] किं तर्हि / स्थापनीयः प्रश्नो ऽव्याकृत इत्युक्तम् / चतुर्विधो हि प्रश्नः /

[292|09-292|10] एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च /

[292|10-292|11] तत्र यथाक्रमं वेदितव्यम् /

[292|12-292|14] एकांशतो व्याकरणं विभज्य परिपृच्छय च / स्थाप्यं च मरणोत्पत्ति विशिष्टात्मा ऽन्यतादिवत् // vakk_5.22 //

[292|15] किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति /

[292|15-292|16] किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति /

[292|16-292|17] किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् /

[292|17] कानधिकृत्य प्रश्नयसीति /

[292|17-292|18] यदि ब्रूयाद् देवानिति /

[292|18] हीन इति व्याकर्त्तव्यम् / अथ ब्रूयादपायानिति /

[292|18-292|19] विशिष्ट इति व्याकर्त्तव्यम् /

[292|19] किमन्यः स्कन्धेभ्यः सत्त्वो ऽनन्य इति स्थापनीयः /

[292|19-292|20] सत्त्वद्रव्यस्याभावात् वन्ध्यापुत्रश्यामगौरतादिवत् /

[292|21] कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति / एवं व्याकरणात् /

[292|22] अपर आह / इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति /

[292|23-292|24] यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् /

[292|24-293|01] मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् /

[293|01-293|02] तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात् विभज्यव्याकरणं युज्यते /

[293|02-293|03] स्कन्धेभ्यो ऽन्यः सत्त्व इत्येतदव्याकृतमेव /

[293|03] न चाव्याकरणमेव व्याकरणं युज्यत इति /

[293|03-293|04] यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते /

[293|04] कथं न व्याकृतो भवति /

[293|05] आभिधर्मिका आहुः /

[293|05-293|07] "तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातो ऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् /

[293|07-293|08] विभज्जव्याकरणं नाम यदि कश्चिद् ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति /

[293|09] यदि ब्रू यादतीतानिति / स व्यक्तव्यो ऽतीता अपि बहवो रूपं यावद्विज्ञानमिति /

[293|10] अथं ब्रूयाद्रूपमिति / स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च /

[293|11] यद्याह कुशलमिति /

[293|11-293|12] तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति /

[293|12] यद्याह प्राणातिपाताद्विरतिमिति /

[293|12-293|13] सा ऽपि त्रिप्रकारा अलोभजा ऽद्वेषजा ऽमोहजा /

[293|13] यद्याहालोभजामिति /

[293|13-293|14] अलोभजा ऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति /

[293|14] एतदेव च शठस्य परिपृच्छ्य व्याकरणम् /

[293|14-293|15] तस्य वक्तव्यं धर्मा बहव इति /

[293|15] न तु विभक्तव्या यावत्तूष्णिम् वा तिष्ठति स्वयं वा व्याकरोतीति /

[293|16-293|17] यदा तौ न किञ्चित् पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित् व्याक्रियते केवलं परिप्रश्न्येते तत् कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् /

[293|18] यो ह्हि पन्थानं ब्रूहीत्याह किम् तेन पन्था न पृष्टो भवति /

[293|18-293|19] परिपृच्छयैव व्याकरणात् कथं न परिपृच्छाव्याकरणं भवति /

[293|19-293|20] स्थापनीयस्तु यथा अन्तवान् लोको ऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् /

[293|20-293|21] भदन्तमहासाङ्घिकाः सूत्रं पठन्ति /

[293|21] "चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति /

[293|21-293|22] कतमानि चत्वारि /

[293|22] अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः / अस्ति यावत् स्थापनीयः /

[293|23] कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः /

[293|23-293|24] सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः /

[293|24] कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः /

[293|24-293|25] संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययम् विभज्यव्याकरणीयः प्रश्नः /

[293|25-293|26] कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः /

[293|26-293|27] संज्ञासु पुरुषस्यात्मा उताहो ऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति /

[293|27-293|28] स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि /

[293|28-293|29] एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः /

[293|29] अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः /

[293|29-294|01] कतमश्च भिक्षवः स्थापनीयः प्रश्नः /

[294|01] तद्यथा शाश्वतो लोको ऽशाश्वतः /

[294|01-294|02] शाश्वतश्चाशाश्वतश्च /

[294|02] नैव शाश्वतो नाशाश्वतः / अन्तवानन्ततः / अन्तवांश्चानन्तश्च /

[294|02-294|03] नैवान्तवान्नानन्तवान् /

[294|03-294|04] भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात् यावदन्यो जीवो ऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न" इति /

[294|04-294|05] यस्य पुद्गलस्य यो ऽनुशयो यस्मिन्नालम्बने ऽनुशेते स तेन तस्मिन् संप्रयुक्तः /

[294|05-294|06] इदं तु वक्तव्यमतीते न कस्मिन् यावत् प्रत्युपन्ने न कस्मिन्निति /

[294|07] समासत इमे द्विविधाः क्लेशाः / स्वलक्षणक्लेशाश्च रागप्रतिवमानाः /

[294|08] सामान्यक्लेशाश्च दृष्टिविचिकित्साद ऽविद्याः / तत्र तावत् /

[294|09-294|10] रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः / यत्रोत्पन्ना ऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः // vakk_5.23 //

[294|11-294|12] अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः /

[294|12] एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते /

[294|13] सर्वत्रानागतैरेभिर्मानसैः

[294|14] यत्राप्रहीणास्ते इति वर्त्तते /

[294|14-294|15] अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके /

[294|15] मानसानां त्र्यध्वविषयत्वात्

[294|16] स्वाध्विके परैः /

[294|17] अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः / के पुनरन्ये /

[294|17-294|18] ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च /

[294|18] उत्पत्तिधर्मभिरेव / तैरेव तु

[294|19] अजैः सर्वत्र

[294|20] अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः / त्रैयध्विके ऽपि

[294|21] शेषैस्तु सर्वैः सर्वत्र संयुतः // vakk_5.24 // [295|01] के पुनः शेषाः / दृष्टिविचिकित्सा ऽविद्यास्त्रैयध्विकाः /

[295|01-295|02] तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः /

[295|02] सामान्यक्लेशत्वात् / यावदप्रहीणा इत्यधिकारो ऽनुवर्त्तत एव /

[295|02-295|03] किं पुनरिदमतीतानागतमुच्यते ऽस्त्यथ न /

[295|03-295|04] यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति /

[295|04] अथ नास्ति / कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा /

[295|04-295|05] न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् /

[295|05-295|06] प्रतिज्ञायते तु विशदं

[295|07] सर्वकालास्तिता

[295|08] किं कारणम् /

[295|09] उक्तत्वात्

[295|10-295|11] उक्तं हि भगवता ऽ"तीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत् /

[295|11-295|12] यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवति /

[295|12-295|13] अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत् /

[295|13-295|14] यस्मात्तर्ह्यस्त्यनागतं रूपमिति" विस्तरः /

[295|15] द्वयात्

[295|16] "द्वयं प्रतीत्य विज्ञानस्योत्पाद" इत्युक्तम् / द्वयं कतमत् /

[295|16-295|17] चक्षू रूपाणि यावत् मनो धर्मा इति /

[295|17] असति वा ऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् /

[295|18] एवं तावदागमतो ऽस्त्यतीतानागतं युक्तितो ऽपि /

[295|19] सद्विषयात्

[295|20] सति विषये विज्ञानं प्रवर्तते नासति /

[295|20-295|21] यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् /

[295|21] ततो विज्ञानमेव न स्यादालम्बनाभावात् /

[295|22] फलात् /

[295|23] यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् /

[295|23-296|01] न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति /

[296|01-296|02] तस्मादस्त्येवातीतानागतमिति वैभाषिकाः /

[296|02] अवश्यं च किलैतत्सर्वास्तिवादेन सता ऽभ्युपगन्तव्यम् / यस्मात्

[296|03] तदस्तिवादात् सर्वास्तिवादा इष्टाः

[296|04] ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः /

[296|04-296|06] ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः /

[296|06-296|07] कति चैते सर्वास्तिवादा इत्याह

[296|08] चतुर्विधाः // vakk_5.25 //

[296|09] ते भावलक्षणावस्था ऽन्यथा ऽन्यथिकसंज्ञिताः /

[296|10] भावान्यथिको भदन्तधर्मत्रातः / स किलाह /

[296|10-296|11] धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् /

[296|11-296|12] यथा सुवर्णभाजनस्य भित्त्वा ऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् /

[296|12-296|13] यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् /

[296|13-296|14] एवं धर्मो ऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् /

[296|14-296|15] एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति /

[296|16] लक्षाणान्यथिको भदन्तघोषकः / स किलाह /

[296|16-296|17] धर्मो ऽध्वसु प्रवर्त्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः /

[296|17-296|18] अनागतो ऽनागतलक्षणयुक्तो ऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः /

[296|18-296|19] एवं प्रत्युत्पन्नो ऽप्यतीतानागताभ्यामवियुक्तः /

[296|19] तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति /

[296|20] अवस्था ऽन्यथिको भदन्तवसुमित्रः / स किलाह /

[296|20-296|21] धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यो ऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः /

[296|21-296|23] यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति /

[297|01] अन्यथान्यथिको भदन्तबुद्धदेवः / स किलाह /

[297|01-297|02] धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्यो ऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः /

[297|02-297|03] यथैका स्त्री माता वोच्यते दुहिता वेति /

[297|03] इत्येते चत्वारः सर्वास्तिवादाः /

[297|04] एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः /

[297|04-297|05] द्वितीयस्याध्वसंकरः प्राप्नोति /

[297|05] सर्वस्य सर्वक्षणयोगात् /

[297|05-297|06] पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् /

[297|06-297|07] चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्ति /

[297|07-297|08] अतीते ऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति /

[297|08] एवमनागते ऽपि / अत एषां सर्वेषां

[297|09] तृतीयः शोभनः

[297|10] यो ऽयमवस्था ऽन्यथिकः / तस्य किल

[297|11] अध्वानः कारित्रेण व्यवस्थिताः // vakk_5.26 //

[297|12] यदा स धर्मः कारित्रं न करोति तदा ऽनागतः / यदा करोति तदा प्रत्युत्पन्नः /

[297|13] यदा कृत्वा निरुद्धस्तदा ऽतीत इति / परिगतमेतत्सर्वम् / इदं तु वक्तव्यम् /

[297|13-297|14] यद्यतीतमपि द्रव्यतो ऽस्त्यनागतमिति /

[297|14] कस्मात्तदतीतमित्युच्यते ऽनागतमिति वा /

[297|14-297|15] ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति /

[297|15-297|16] यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् /

[297|16] फलदानप्रतिग्रहणम् /

[297|16-297|17] अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात् कारित्रप्रसङ्गो ऽर्धकारित्रस्य वेति लक्षणसंकरः /

[297|18] इदं च वक्तव्यम् / तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे

[297|19] किं विघ्नं

[297|20] येन कदाचित् कारित्रं करोति कदाचिन्नेति / प्रत्ययानामसामग्रयमिति चेत् / न /

[297|21] नित्यमास्तित्वाभ्युपगमात् / यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते

[297|22] तत्कथं

[298|01] किं कारित्रस्याप्यन्यदस्ति कारित्रम् /

[298|01-298|02] अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च /

[298|02] तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् /

[298|02-298|03] अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदा ऽनागत इति /

[298|04] स्यादेष दोषो यदि धर्मात् कारित्रमन्यत्स्यात् / तत्तु खलु

[298|05] नान्यत्

[298|06] अतो न भवत्येष दोषः / एवं तहि स एव

[298|07] अध्वायोगः

[298|08-298|09] यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति /

[298|09] किमत्र न सिध्यति /

[298|10] यो ह्यजातो धर्मः सो ऽनागतः / यो जातो भवति न च विनष्टः स वर्त्तमानः /

[298|11] यो विनष्टः सो ऽतीतः इति / एतदेवात्र वक्तव्यम् /

[298|11-298|12] यदि यथा वर्त्तमानं द्रव्यतो ऽस्ति तथा ऽतीतमनागतं चास्ति /

[298|12] तस्य

[298|13] तथा सतः /

[298|14] अजातनष्टता केन

[298|15] तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति /

[298|16] किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते /

[298|16-298|17] किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते /

[298|17] तस्मान्न सिध्यति सर्वथा ऽप्यत्राध्वत्रयम् /

[298|17-298|18] यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति /

[298|18-298|19] यदप्युक्तं "संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग" इति /

[298|19] तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् /

[298|19-298|20] नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः /

[298|20] आह खल्वपि

[298|21-298|22] "स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते / न च स्वभावाद् भावो ऽन्यो व्यक्तमीश्वरचेष्टितम् /"

[299|01] यत्तूक्तमुक्तत्वादिति / वयमपि ब्रूमो ऽस्त्यतीतानागतमिति /

[299|01-299|02] अतीतं तु यद् भूतपूर्वम् /

[299|02] अनागतं यत्सति हेतौ भविष्यति /

[299|02-299|03] एवं च कृत्वा ऽस्तीत्युच्यते न तु पुनर्द्रव्यतः /

[299|03] कश्चैवमाह / वर्तमानवत्तदस्तीति / कथमन्यथा ऽस्ति /

[299|03-299|04] अतीता नागतात्मना /

[299|04] इदं पुनस्तवोपस्थितम् /

[299|04-299|05] कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति /

[299|05-299|07] तस्मात् भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता "अस्त्यतीतमस्त्यनागतमि"ति /

[299|07] अस्तिशब्दस्य निपातत्वात् /

[299|07-299|09] यथा ऽस्ति दीपस्य प्रागभावो ऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति /

[299|09] एवमतीतानागतमप्यस्तीत्युक्तम् /

[299|09-299|10] अन्यथा ह्यतीतानागतभाव एव न सिध्येत् /

[299|10-299|11] यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता "यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती"ति /

[299|11-299|12] किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म /

[299|12-299|13] तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् /

[299|13] अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् /

[299|13-299|15] इत्थं चैतदेवं यत् परमार्थशून्यतयामुक्तं भगवता "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति /

[299|15-299|16] इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती"ति

[299|16-299|17] यदि चानागतं चक्षुः स्यान्नोक्तं स्याद् भूत्वा न भवतीति /

[299|17] वर्त्तमाने ऽध्वन्यभूत्वा भवतीति चेत् न /

[299|17-299|18] अध्वनो भावादनर्थान्तरत्वात् /

[299|18] अथ स्वात्मन्यभूत्वा भवति / सिद्धमिदमनागतं चक्षुर्नास्तीति /

[299|18-299|19] यदप्युक्तं "द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् /

[299|20-299|21] यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति /

[299|21-299|22] यदि तावत् जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति /

[299|23] निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते / अथालम्बनमात्रं धर्मा भवन्ति /

[299|24] अतीतानागतमप्यालम्बनं भवतीति ब्रूमः / यदि नास्ति कथमालम्बनम् /

[299|24-299|25] अत्रेदानीं ब्रूमः /

[299|25] यदा तदालम्बनं तथास्ति कथं तदालम्बनम् अभूत् भविष्यति चेति /

[299|25-299|26] न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति /

[299|26] किं तर्हि / अभूदिति /

[299|26-299|27] यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते /

[299|27-299|28] यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते /

[299|28] यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति /

[299|28-299|29] अथ नास्ति /

[299|29] असदप्यालम्बनं भवतीति सिद्धम् / तदेव तद्विकीर्णमिति चेत् / न /

[300|01] विकीर्णस्याग्रहणात् / यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् /

[300|01-300|02] एवं सति परमाणवो नित्याः प्राप्नुवन्ति /

[300|02-300|03] परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति /

[300|03-300|04] न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति /

[300|04-300|05] सूत्रं चापविद्धं भवति "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती"ति विस्तरः /

[300|05] अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् /

[300|05-300|06] ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते /

[300|06] यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति /

[300|06-300|07] अथ न सन्ति /

[300|07] असदप्यालम्बनमिति सिद्धम् /

[300|07-300|08] यद्यसदप्यालम्बनं स्यात् त्रयोदशमप्यायतनं स्यात् /

[300|08] अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् /

[300|09] एतदेव नामलम्बनम् / एवं तर्हि नाम एव नास्तीति प्रतीयेत /

[300|09-300|10] यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् /

[300|10] शब्द एव /

[300|10-300|11] एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् /

[300|11] अनागतावस्य इति चेत् /

[300|11-300|12] सति कथं नास्तिबुद्धिः /

[300|12] वर्तमानो नास्तीति चेत् / न / एकत्वात् /

[300|12-300|13] यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः /

[300|13] तस्मादुभयं विज्ञानस्यालम्बनम् भावश्चाभावश्च /

[300|14-300|15] यत्तर्हि बोधिसत्त्वेनोक्तम् "यत्तत् लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत" इति /

[300|15-300|16] अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति /

[300|16] अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः /

[300|16-300|18] इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतो ऽस्य विमर्शः स्यात् को वा विशेषः /

[300|18] इत्थं चैतदेवम् /

[300|18-300|19] यदन्यत्र भगवतोक्तम् "एतत् भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति /

[300|19-300|20] सायमवोदितः कल्पं विशेषाय परैष्यति /

[300|20-300|21] सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत" इति /

[300|21] तस्मादयमप्यहेतुः / सदालम्बनत्वाद्विज्ञानस्येति /

[300|21-300|22] यदष्युक्तं फलादिति /

[300|22] नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्ति वर्णयन्ति /

[300|23] किं तर्हि / तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः /

[300|24-300|25] यस्य त्वतीतानागतं द्रव्यतो ऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् /

[300|25] उत्पादने सामर्थ्यम् / उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् /

[301|01] अथ सर्वमेव चास्ति / कस्येदानीं क्व सामर्थ्यम् /

[301|01-301|02] वार्षगण्यवादश्चैवं द्योतितो भवति /

[301|02] "यदस्त्यस्त्येव तत् / यन्नास्ति नास्त्येव तत् / असतो नास्ति संभवः /

[301|03] सतो नास्ति विनाश" इति / वर्तमानीकरणे तर्हि सामर्थ्यम् /

[301|03-301|04] किमिदं वर्त्तमानीकरणं नाम /

[301|04] देशान्तराकर्षणम् चेत् / नित्यं प्रसक्तम् / अरूपिणां च कथं तत् /

[301|04-301|05] यच्च तदाकर्षणं तदभूत्वा भूतम् /

[301|05-301|06] स्वभावविशेषणं चेत् सिद्धमभूत्वा भवनम् /

[301|06] तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति /

[301|06-301|07] यदतीतानागतं द्रव्यतो ऽस्तीति वदति /

[301|07] एवं तु साधुर्भवति / यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति /

[301|08] कथं च सूत्रे सर्वमस्तीत्युक्तम् / "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी"ति /

[301|09] अध्वत्रयं वा /

[301|09-301|10] यथा तु तदस्ति तथोक्तं अथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति /

[301|10-301|11] तज्जतद्धेत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति /

[301|11] अस्त्येव त्वतीतानागतमिति वैभाषिकाः /

[301|11-301|12] यत्र नेतुम् शक्यते तत्रात्मकात्मनैवं वेदितव्यम् /

[301|13] गम्भीरा खलुधर्मता // vakk_5.27 //

[301|14] नावश्यं तर्ह्यसाध्या भवतीति / अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते /

[301|15] रूपमुत्पद्यते रूपं निरुध्यते / अस्ति पर्यायो ऽन्यदुत्पद्यते ऽन्यन्निरुध्यते /

[301|15-301|16] अनागतमुत्पद्यते वर्त्तमानं निरुध्यते /

[301|16] अध्वा ऽप्युत्पद्यते / उत्पद्यमानस्याध्वसंगृहीतत्वात् /

[301|17] अध्वनो ऽप्युत्पद्यते / अनेकक्षणिकत्वादनागतस्याध्वनः /

[301|17-301|18] गतमेतत् यत्प्रसङ्गेनागतम् /

[301|19] इदानीमिदं विचार्यते / यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि /

[301|19-301|20] यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति /

[301|20-301|21] यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु /

[301|21] स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा

[301|22-301|23] प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः / प्राक् प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः // vakk_5.28 //

[301|24-302|01] दुःखज्ञाने समुत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति /

[302|01] तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः /

[302|02-302|03] भावनाप्रहातव्ये ऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन् प्रहीणे ऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः /

[302|04-302|05] कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते /

[302|05] तस्मात् पिण्डविभाषां कुर्वन्ति /

[302|05-302|06] कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति /

[302|06-302|07] समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च /

[302|07] चित्तान्यपि षोडश एतान्येव /

[302|07-302|09] तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तो ऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् /

[302|09] तत्र तावत्

[302|10-302|11] दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः / स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः // vakk_5.29 //

[302|12] स्वकं च तत्त्रयं च स्वकत्रयम् /

[302|12-302|13] एकं च तद्रूप्राप्तं च एकरूपाप्तम् /

[302|13] एषा विग्रहजातिः /

[302|13-302|14] कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् /

[302|14-302|15] स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति /

[302|16] स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः /

[302|17] रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् /

[302|17-302|18] स्वधातुकानां त्रयाणां तेषामेव /

[302|18] अधरधातुकानां त्रयाणां तेषामेव /

[302|18-302|19] ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव /

[302|19] अनास्रवस्य चेति /

[302|20] आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः // vakk_5.30 //

[302|21] आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् /

[302|21-302|22] त्रैधातुकानां त्रिप्रकाराणां तेषामेव /

[302|22] अनास्रवस्य चेति /

[302|22-302|23] उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः /

[302|24] निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः /

[303|01] निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव /

[303|01-303|02] तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः /

[303|02] कथं कृत्वा /

[303|02-303|03] कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् /

[303|03-303|04] पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य /

[303|04] मार्गदर्शनहेया अप्येवम् /

[303|04-303|05] पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य /

[303|05] एवं रूपारूप्यावचराणि /

[303|05-303|07] निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति /

[303|07-303|08] उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः /

[303|09] अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः // vakk_5.31 //

[303|10] अनास्रवा धर्मा दशानां चित्तानामालम्बनम् /

[303|10-303|11] त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति /

[303|11-303|12] पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति /

[303|13-303|15] "दुःखहेतुदृगभ्यासहेया धातुत्रये ऽमलाः पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः" / इति /

[303|16-303|17] एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् /

[303|17] दिङमात्रं दर्शयिष्यामः /

[303|18-303|19] सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् /

[303|19-303|20] सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति /

[303|20-303|21] तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति /

[303|21] कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.