Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[229|16-229|17] नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदना ऽस्ति स यां तां वेदयते /

[229|17] संमुखीकुर्वस्तु तां वेदयत इत्युच्यते /

[229|17-229|18] अतो विपाकस्य वेदनीयत्वात् कर्माप्युच्यते सुखवेदनीयमित्येवमादि /

[229|19] नियतानियतं तच्च

[229|20] तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् /

[229|20-229|21] नावश्यवेदनीयमनियतम् /

[229|22] नियतं त्रिविधं पुनः /

[229|23] दृष्टधर्मादिवेद्यत्वात्

[229|24-229|25] दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन /

[229|26] पञ्चधा कर्म केचन // vakk_4.50 //

[229|27] अपरे पुनः पञ्चविधं कर्मेच्छन्ति / अनियतवेदनीयं द्विधा कृत्वा /

[229|27-230|01] विपाकेन नियतमनियतं चेति /

[230|01] तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते /

[230|01-230|02] उपपद्यवेदनीयं द्वितीये जन्मनि /

[230|02] अपरपर्यायवेदनीयं तस्मात्परेण /

[230|02-230|04] जन्मान्तरे ऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे /

[230|04] मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति /

[230|04-230|05] तदेवं नेच्छन्ति वैभाषिकाः /

[230|05-230|06] अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् /

[230|06-230|07] यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति /

[230|08] चतुष्कोटिकमित्यन्ये

[230|09] दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति / अस्ति कर्मावस्थानियतं न विपाके नियतम् /

[230|10] यत्कर्म दृष्टधर्मादिवेदनीयं विपाके ऽनीयतम् / अस्ति विपाके नियतं नावस्थायाम् /

[230|11] यत्कर्मानियतवेदनीयं विपाके नियतम् /

[230|11-230|12] अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् /

[230|12] अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् /

[230|13] तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च / एवं यावदनियतवेदनीयम् /

[230|14] नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति /

[230|14-230|15] स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् /

[230|15-230|16] स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ /

[230|16] एषां च पुनश्चतुर्णां कर्मणां /

[230|17] निकायाक्षेपणं त्रिभिः /

[230|18] नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते /

[230|19] कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ /

[230|20] सर्वत्र चतुराक्षेपः /

[230|21-230|22] सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् /

[230|22] अस्योत्सर्गस्यायमपवादः /

[230|23] शुभस्य नरके त्रिधा // vakk_4.51 //

[230|24] नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य /

[230|24-230|25] तत्रेष्टविपाकाभावात् /

[230|26] यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् /

[230|27-230|28] यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति /

[230|28] किमन्यत्करोति /

[231|01] नान्यवेद्यकृदप्यार्यः

[231|02] थर इति वर्तते /

[231|02-231|03] आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति /

[231|03-231|04] न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः /

[231|05] कामे ऽग्रे वा ऽस्थिरो ऽपि न // vakk_4.52 //

[231|06-231|07] परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् /

[231|07] किं कारणम् / फलाद्धि स परिहीणो भवति /

[231|07-231|08] न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः /

[231|09] किमन्तराभवे ऽप्यस्ति कर्मण आक्षेपः / अस्तीत्याह /

[231|10] द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः /

[231|11] गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति / कथं कृत्वा /

[231|11-231|12] पञ्च हि गर्भावस्थाः /

[231|12] कललार्वुदपेशीघनप्रशाखावस्थाः / पञ्च जातावस्थाः /

[231|12-231|13] बालकुमारवमध्यवृद्धावस्थाः /

[231|13] तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च /

[231|14] एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च /

[231|15] दृष्टधर्म फलं तच्च

[231|16] तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् /

[231|17] किं कारणम् /

[231|18] निकायो ह्येक एव सः // vakk_4.53 //

[231|19-231|20] एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः /

[231|20] अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् /

[231|20-231|21] उपपद्यवेदनीयेन च तस्याक्षेपात् /

[231|22] कीदृशं कर्म नियतं वेदितव्यम् /

[231|23-231|24] तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् / गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् // vakk_4.54 //

[231|25-232|01] यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् /

[232|01] तत्र गुणक्षेत्रं त्रीणि रत्नानि /

[232|01-232|02] पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः /

[232|02-232|03] तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते /

[232|03] पितरौ पुनर्माता च पिता च /

[232|04] तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् /

[232|05] अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् /

[232|06] दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः /

[232|07] दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति /

[232|07-232|08] यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते /

[232|08] आशयविशेषाद्वा /

[232|08-232|09] यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः /

[232|09] अथवा

[232|10] तद्भूम्यत्यन्तवैराग्यात्

[232|11-232|12] तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततो ऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते /

[232|12] तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह

[232|13] विपाके नियतं हि यत् // vakk_4.55 //

[232|14] यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः /

[232|14-232|15] यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतो ऽत्यन्तवैराग्यासंभवात् /

[232|15-232|16] यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् /

[232|17] कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते / आह /

[232|17-232|18] बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च /

[232|19-232|20] ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः / तेषु कारापकारस्य फलं सद्यो ऽनुभूयते // vakk_4.56 //

[232|21] निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते / निर्वाणसदृशत्वात्समापत्तेः /

[232|22] स हि गतप्रत्यागत एव निर्वाणाद्भवति /

[232|22-232|23] अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते /

[232|23-232|25] मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते /

[232|25-232|26] दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते /

[232|26-232|27] अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते /

[232|27-233|01] अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते /

[233|01-233|03] शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति /

[233|04] विपाकः पुनर्वेदनाप्रधानः / तदिदानीं विचार्यते /

[233|04-233|05] स्यात् कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी /

[233|05-233|06] स्यात् कायिक्येव न चैतसिकी स्यादित्याह

[233|07-233|08] कुक्शलस्यावितर्कस्य कर्मणो वेदना मता / विपाकश्चैतसिक्येव

[233|09] अवितर्कं कर्म ध्यानान्तरात् प्रभृति यावत् भवाग्रे /

[233|09-233|10] तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः /

[233|10] कस्मान्न कायिकी /

[233|10-233|11] तस्या अवश्यं सवितर्कविचारत्वात् /

[233|12] कायिक्येवाशुभस्य तु // vakk_4.57 //

[233|13] अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः / कस्मान्न चैतसिकी /

[233|13-233|15] तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् /

[233|16] यत्तर्हि सत्त्वानां चित्तक्षेपो भवति / कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन /

[233|17] चित्तक्षेपो मनश्चित्ते /

[233|18] मनोविज्ञान इत्यर्थः / नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते / अविकल्पकत्वात् /

[233|19] स च कर्मविपाकजः /

[233|20] स चैष चित्तक्षेपः सत्त्वानां कर्मजः /

[233|20-233|23] ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निम् वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते /

[233|24] भयोपघातवैषम्यशोकैश्च

[233|25] कथं तावद्भयेन /

[233|25-233|26] अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति /

[233|26] तेभ्यो भीतानां चित्तं क्षीप्यते / कथमुपघातेन /

[233|26-234|01] अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति /

[234|01] कथं महाभूतवैषम्येण /

[234|01-234|02] वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते /

[234|02] कथं शोकेन / यथा वासिष्ठीप्रभृतीनाम् /

[234|02-234|03] यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः /

[234|03] कथं न चैतसिकी वेदना विपाकः प्राप्नोति /

[234|03-234|04] नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः /

[234|04-234|05] तस्माज्जातमतो विपाकजम् /

[234|05-234|06] कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते /

[234|06] एवं चेदं चतुष्कोटिकं युज्यते /

[234|06-234|07] अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः /

[234|07] क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य /

[234|07-234|08] क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् /

[234|08] उभयं क्षिप्तचित्तस्य क्लिष्टम् /

[234|09] नोभयं स्वस्थचित्तस्याक्लिष्टम् /

[234|10] कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते /

[234|11] अकुरुकामिनाम् // vakk_4.58 //

[234|12] अकुरुणां कामिनाम् / देवेष्वपि हि देव / उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु /

[234|13] नारकास्तु नित्यं क्षिप्तचित्ता एव /

[234|13-234|15] ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा /

[234|15] हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः /

[234|15-234|16] आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् /

[234|16-234|17] न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् /

[234|17] न भयेन / पञ्चभयसमतिक्रमात् / नोपघातेन /

[234|17-234|18] मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् /

[234|18] न शोकेन / धर्मताभिज्ञत्वात् /

[234|19] पुनस्त्रयो वङ्का उक्ताः सूत्रे / कायवङ्कोक् वाग्वङ्को मनोवङ्कः / त्रयो दोषाः /

[234|20] कायदोषो वाग्दोषो मनोदोषः / त्रयः कषायाः /

[234|20-234|21] कायकषायो वाक्कषायो मनः कषायः इति /

[234|21] तत्र यथाक्रमं वेदितव्याः /

[234|22] वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे /

[234|23] शठ्यजं कायकर्म कायवङ्क इत्युक्तम् / कुटिलान्वयत्वात् / एवं वाङ्मनोवङ्कौ /

[234|24] द्वेषजं कायकर्म कायदोष इत्युक्तम् / चित्तप्रदोषान्वयत्वात् / एवं वाङ्मनोदोषौ /

[234|25] रागजं कायकर्म कायकषाय इत्युक्तम् / राञ्जनान्वयत्वात् / एवं वाङ्मनःकषायौ /

[234|26] कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम् // vakk_4.59 //

[235|01] "अस्ति कर्म कृष्णं कृष्णविपाकम् / अस्ति कर्म शुक्लं शुक्लविपाकम् /

[235|01-235|02] अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् /

[235|02-235|03] अस्ति कर्माकृष्णमशुक्लमविपाकम् /

[235|03] यत्तत्कर्म कर्मक्षयाय संवर्तत" इति / तत्र

[235|04-235|05] अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् / कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् // vakk_4.60 //

[235|06] अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात् कृष्णविपाकं चामनोज्ञविपाकत्वात् /

[235|07] रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् /

[235|07-235|08] शुक्लविपाकं च मनोज्ञविपाकत्वात् /

[235|08] आरुप्याप्तं कस्मान्नोच्यते /

[235|08-235|09] यत्र किल द्विविधो ऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च /

[235|09-235|10] त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति /

[235|10] तदपि तूक्तं सूत्रान्तरे /

[235|10-235|11] "कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत् कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्" /

[235|11-235|12] संतानत एतद्व्यवस्थापितं न स्वभावतः /

[235|12-235|13] न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत् कृष्णं च स्यात् शुक्लं चान्योन्यविरोधात् /

[235|13-235|14] ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात् कृष्णशुक्लत्वं प्राप्नोति /

[235|14] नावश्यमकुशलं कुशलेन व्यवकीर्यते /

[235|15] कामधातौ तस्य बलवत्त्वात् / कुक्शलं तु व्यवकीर्यते / दुर्बलत्वादिति /

[235|16] अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते /

[235|16-235|17] तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लता ऽभावात् /

[235|17-235|18] आभिप्रायिको ह्येषो ऽशुक्ल शब्दः /

[235|18-235|19] उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य "इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या" इति /

[235|19] शास्त्रे च /

[235|19-235|20] "शुक्ला धर्माः कतमे /

[235|20] कुशला धर्मा अनिवृताव्याकृताश्चे"ति /

[235|20-235|21] अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च /

[235|22] किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते /

[235|23] नेत्युच्यते / किं तर्हि /

[236|01-236|02] धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके / या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् // vakk_4.61 //

[236|03-236|04] दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म /

[236|05] नवमे चेतना या सा कृष्णशुक्लक्षयाय च /

[236|06-236|07] नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय /

[236|08] शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा // vakk_4.62 //

[236|09-236|10] ध्यानाद्व्यानाद्वैराग्यं कुर्वतो यो ऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय /

[236|10-236|11] किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन /

[236|11-236|12] नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् /

[236|12] किं तर्हि / तदालम्बनक्लेशप्रहाणात् /

[236|12-236|13] अतो यावदेको ऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते /

[236|14] अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः /

[236|15-236|16] अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति /

[236|16-236|18] नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतो ऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् /

[236|19] दृग्धेयं कृष्णमन्ये

[236|20] अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् /

[236|21] अन्यत्कृष्णशुक्लं तु कामजम् // vakk_4.63 //

[236|22] अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् / किं तदन्यत् / भावनाप्रहातव्यम् /

[236|22-236|23] तद्धि कुशलं चाकुशलं चेति /

[236|23-236|24] सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च /

[236|24] तत्र

[237|01-237|02] अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् / मौनत्रयम्

[237|03] अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये /

[237|03-237|04] अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति /

[237|04] किं कारणम् / चित्तं हि परमार्थमुनिः /

[237|04-237|05] तत् किल कायवाक्कर्मभ्यामनुमीयत इति /

[237|05] अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म /

[237|05-237|06] चित्ता विज्ञप्त्यभावात् /

[237|06] विरमार्थेन च मौनम् / अतो मन एव विरतं मौनमित्युच्यते /

[237|07] कस्मादशैक्षमेव नान्यत् / अर्हतः पर्मार्थमुनित्वात् /

[237|07-237|08] सर्वक्लेशजल्पोपरतेः /

[237|08] त्रीणि शौचेयानि उक्तानि सूत्रे / कायशौचेयं वाक्शौचेयं मनःसौचेयं च /

[237|09] तदेतत् /

[237|10] त्रिधा शौचं सर्वं सुचरितत्रयम् // vakk_4.64 //

[237|11] सर्वं कायसुचरितं कायशौचम् / सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् /

[237|11-237|12] दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा /

[237|12-237|13] एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् /

[237|13] त्रीणि दुश्चरितान्युक्तानि / तत्र

[237|14] अशुभं कायकर्मादि मतं दुश्चरित त्रयम् /

[237|15] अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् /

[237|16] अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा // vakk_4.65 //

[237|17-237|18] अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च /

[237|18] अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः /

[237|18-237|19] संचेतनीयसूत्रे वचनात् /

[237|19] एवं तु सति कर्मक्लेशयोरैक्यं स्यात् /

[237|19-237|20] किम् स्याद्यदि कश्चित् क्लेशो ऽपि कर्म स्यात् /

[237|20] नैतदस्ति / सूत्रं विरुद्धं स्यात् /

[237|20-237|21] सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः /

[237|21-237|22] अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् /

[237|23] विपर्ययात्सुचरितम्

[237|24] इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्या ऽव्यापादसम्यग्दृष्टयश्च /

[237|24-238|02] परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् /

[238|02] तन्मूलत्वात् / यानि चैतानि दुश्चरितसुचरितान्युक्तानि

[238|03-238|04] तदौदारिकसंग्रहात् / दश कर्मपथा उक्ता यथायोगं शुभाशुभाः // vakk_4.66 //

[238|05-238|06] तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्यो ऽकुशला दुश्चरितेभ्यः /

[238|06-238|07] किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् /

[238|07-238|08] अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्यो ऽपि बन्धानादिः /

[238|08] तस्य नात्यौदारिकत्वात् / [238|08-238|09] यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् /

[238|10] वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव /

[238|10-238|11] मनोदुश्चरितस्य च प्रदेशचेतना /

[238|11-238|12] कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना /

[238|13] एषां च कर्मपथानाम्

[238|14] अशुभाः षडविज्ञप्तिः

[238|15-238|16] अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः /

[238|16] परेण कारयतो मौलविज्ञप्त्यभावात् /

[238|17] द्विधैकः

[238|18-238|19] काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् /

[238|19] नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति /

[238|20] ते ऽपि कुर्वतः /

[238|21-238|22] ते ऽपि षट् कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात् मरणे त्वविज्ञप्तिरेव /

[238|23] कुशलानां पुनः कर्मपथानां

[238|24] द्विविधाः सप्त कुशलाः

[238|25] कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च /

[238|25-238|26] विज्ञप्त्यधीनत्वात्समादानशीलस्य /

[239|01] अविज्ञप्तिः समाधिजाः // vakk_4.67 //

[239|02] ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते /

[239|02-239|03] ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् /

[239|04] सामन्तकास्तु विज्ञप्तिः

[239|05] कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् /

[239|06] अविज्ञप्तिर्भवेन्न वा /

[239|07-239|08] यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् /

[239|09] विपर्ययेण पृष्ठानि

[239|10] सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति /

[239|10-239|11] तानि अवश्यमविज्ञप्तिस्वभावानि /

[239|11] विज्ञप्तिस्तु भवेन्न वा /

[239|11-239|12] यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात् विज्ञप्तिरन्यथा न स्यात् /

[239|12-239|13] अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् /

[239|13-239|16] यदा तावदिह कश्चित् पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत् प्रयोगः /

[239|16-239|17] येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथः /

[239|17-239|18] द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च /

[239|18-239|19] तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति /

[239|19-239|21] यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति /

[239|21] एवमन्येष्वपि यथासंभवं योज्यम् /

[239|21-239|22] अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः /

[239|23] इदमत्र वक्तव्यम् /

[239|23-239|24] किं तावत् मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते /

[239|24] किं चातः /

[239|24-239|25] यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति /

[239|25-240|01] न चेष सिद्धान्तः /

[240|01] अथ मृते /

[240|01-240|02] यदुक्तं "येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा ऽविज्ञप्तिरयं मौलः कर्मपथ" इति तना वक्तव्यम् /

[240|03] यच्चापीदं शास्त्र उक्तं "स्यात् प्राणी हतः प्राणातिपातश्चानिरुद्धः /

[240|03-240|06] स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध" इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयो ऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् /

[240|06] यथा न दोषस्तथा ऽस्तु / कथं च न दोषः /

[240|06-240|07] मौल एवात्र प्रयोगशब्देनोक्त इति /

[240|07] विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति /

[240|07-240|08] कथं च न भवितव्यम् /

[240|08] असामर्थ्यत् / अविज्ञप्तिरिदानीं कथं भवति /

[240|08-240|10] तस्मात् प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात् कर्मत्पथो ऽप्यन्यस्य प्रयोगः पृष्ठं च भवति /

[240|10] प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः /

[240|10-240|14] यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात् परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थम् अनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरन् अभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति /

[240|14] एवमन्येष्वपि यथायोगं योज्यम् /

[240|14-240|15] न त्वभिध्यादयः प्रयोगा युज्यन्ते /

[240|15] नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति / क्रियानारम्भात् /

[240|16-240|17] सूत्र उक्तं "प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि"रिति /

[240|17-240|18] तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् /

[240|18] नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा /

[240|19] प्रयोगस्तु त्रिमूलजः // vakk_4.68 //

[240|20] प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः /

[240|20-240|22] तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय /

[240|22] द्वेषजो यथा वैरनिपीडनार्थम् /

[240|22-240|23] मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् /

[240|23-240|24] दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति /

[240|24] पारसीकानां च / ते ह्येवमाहुः /

[240|25] "मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या"विति /

[240|25-241|01] ये चान्ये ऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति /

[241|01-241|02] यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः /

[241|02-241|03] लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशो ऽर्थं वा आत्मसुकृतपरित्राणाय वा /

[241|03] द्वेषजं यद्वैरनिपीडनार्थम् /

[241|03-241|04] मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् /

[241|04-241|05] दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः "सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते /

[241|05-241|06] तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे" ति /

[241|07] न चैशामपरस्वसंज्ञा भवति / यच्च मिथ्यादृष्टिप्रवर्त्तितम् /

[241|07-241|08] लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय /

[241|08-241|09] द्वेषजो वैरनिपीडनार्थम् /

[241|09] मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे /

[241|10] योथोक्तं "ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति /

[241|10-241|11] उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा"मिति /

[241|11-241|12] ये चाहु "रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम" इति /

[241|12-241|13] मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् /

[241|13] मोहजो मृषावादो यथाह /

[241|14-241|17] "न नर्मयुक्तमनृतं हि नास्ति न स्त्रीषु राजन्न विवाहकाले / प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानी"ति /

[241|18] यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः / पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः / [241|19] यष्चच वेदाद्यसच्छास्त्रप्रलापः /

[241|20] अभिध्यादयः कथं लोभजाः /

[241|21] तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः /

[241|22] लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः /

[241|22-241|23] उक्ता कुशलाः कर्मपथाः /

[241|24] कुशलाः कथमित्याह

[241|25] कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः // vakk_4.69 //

[241|26] सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः /

[241|26-241|27] कुषलचित्तसमुत्थितत्वात् /

[241|27-242|01] तस्य च अवश्य मलोभादिभिः संप्रयोगात् तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः /

[242|01] मौलाद्विरतिः मौलः /

[242|01-242|02] पृष्ठाद् विरतिः पृष्ठः /

[242|02-242|03] तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च /

[242|03] अयं प्रयोगः /

[242|03-242|04] तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः /

[242|04-242|05] तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् /

[242|06] यदुक्तं "न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे"त्यथ कस्य केन निष्ठा /

[242|07] वधव्यापादपारुष्यनिष्ठा द्वेषेण

[242|08] एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः /

[242|08-242|09] परित्यागपरुषचित्तसंमुखी भावात् /

[242|10] लोभतः /

[242|11] परस्त्रीगमनाभिध्या ऽदत्तादानसमापनम् // vakk_4.70 //

[242|12] लोभेन काममिथ्याचाराभिध्या ऽदत्तादानानां समाप्तिः /

[242|13] मिथ्यादृष्टेस्तु मोहेन

[242|14] अधिमात्रभूतो हि तां निष्ठापयति /

[242|15] शेषाणां त्रिभिरिष्यते /

[242|16] के पुनः शेषाः / मृषावादपैशुन्यसंभिन्नप्रलापाः /

[242|16-242|17] एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा

[242|18-242|19] य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं

[242|20] सत्त्वभोगावधिष्ठानं नामरूपं च नाम च // vakk_4.71 //

[242|21] सत्त्वाधिष्ठाना वधादयः / भोगाधिष्ठानां परस्त्रीगमनादयः /

[242|21-242|22] नामरूपाधिष्ठामिथ्यादृष्टिः /

[242|22] नामकायाधिष्ठाना मृषावादादयः /

[242|23-242|24] यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न /

[242|25] समं प्राक् च मृतस्यास्ति न मौलः

[242|26-242|27] अत एवोच्यते "स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते /

[242|27] आह /

[242|27-243|02] स्यात् यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या"दिति किं पुनस्तत्कारणम् नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः /

[243|03] अन्याश्रयोदयात् /

[243|04] थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नो ऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः /

[243|05] तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न युक्तः /

[243|05-243|06] यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति /

[243|07] सेनादिष्वेककार्यत्वात् सर्वे कत्तृवदन्विताः // vakk_4.72 //

[243|08] यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् /

[243|08-243|09] अर्थतो हि ते ऽयोन्यं पयोक्तारो भवन्ति /

[243|09-243|11] यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात् यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति /

[243|12-243|13] कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते /

[243|14] प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् /

[243|15] यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा /

[243|16] इयता प्राणातिपातो भवति /

[243|16-243|17] यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सो ऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति /

[243|17-243|18] यो ऽस्तु सो ऽस्त्विति कृतमेवानेन त्यागचित्तं भवति /

[243|18] कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति /

[243|19] प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते / तमभिपातयति /

[243|19-243|20] यथा प्रदीपं निरोधयति घण्टास्वनं वा /

[243|20] जीवितेन्द्रियं वा प्राणास्तन्निरोधयति /

[243|20-243|21] यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा /

[243|22] कस्य तज्जीवितं यस्तदभावान्मृतो भवति /

[243|22-243|23] कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः /

[243|23] उक्तं तु भगवता

[243|24-243|25] "आयुरुष्मा ऽथ विज्ञानं यदा कायं जहत्यमी / अपविद्धस्तदा शेते यथा काष्ठमचेतन" // इति /

[243|26] तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति /

[243|26-243|27] अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथा ऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः /

[243|27-244|01] तेषां परदारदर्शने ऽप्येष प्रसङ्गः /

[244|01-244|03] निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् /

[244|03] वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् /

[244|03-244|04] कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् /

[244|04] परेणाग्निम् स्पर्शयतस्तेनादाहवत् /

[244|04-244|05] अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति /

[244|06] उक्तः प्राणातिपातः /

[244|07] अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः // vakk_4.73 //

[244|08] अभ्रान्त्येति वर्तते /

[244|08-244|09] यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमात् इयता ऽदत्तादानं भवति /

[244|09-244|10] स्तूपादपहरतो बुद्धाद दत्तादानम् /

[244|10] सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति /

[244|10-244|11] येषां सम्रक्ष्यमित्यपरे /

[244|11-244|12] अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात् परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः /

[244|13] अगम्यगमनं काममिथ्याचारश्चतुर्विधः /

[244|14] चतुष्प्रकारमगम्यगमनं काममिथ्याचारः /

[244|14-244|15] अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा /

[244|15-244|16] अनङ्गे वा गच्छति स्वामपि भार्याम् अपाने मुखे वा /

[244|16] अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा /

[244|17] अकाले वा गच्छति / कः पुनः अकालः /

[244|17-244|18] गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा /

[244|18] यदि भर्तुरनुज्ञया सनियमा भवतीत्येके / अभ्रान्त्येति वर्तते /

[244|18-244|19] यदि स्वसंज्ञी परस्त्रियं यायात् न स्यात् कर्मपथः /

[244|19-244|20] यद्यन्यः परस्त्रीसंज्ञया ऽन्यामभिगच्छेत् परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके / [244|20-244|21] अन्यत्र प्रयोगान्न स्यात् प्राणाति पातवदित्यपरे /

[244|21] भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः /

[244|21-244|22] विषयस्वामिनः /

[244|22] तस्य हि तन्न मर्षणीयम् / तस्यापि सनियमा स्वभार्येव तु सा न गम्या /

[244|23] कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षा ऽन्ततो राज्ञः /

[244|24] अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः // vakk_4.74 //

[244|25-245|01] यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः /

[245|01] अनभिज्ञे किं स्यात् /

[245|01-245|02] संभिन्नप्रलापः स्यात् /

[245|02] वाक्यमित्युच्यते /

[245|02-245|03] कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः /

[245|03] पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति / पूर्वे तु वर्णाः प्रयोगः /

[245|04] अर्थाभिज्ञ इत्युच्यते /

[245|04-245|05] कि तावदभिज्ञातार्थे श्रोतरि आहोस्वित् अभिज्ञातुं समर्थे /

[245|05] किं चातः /

[245|05-245|06] यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः /

[245|06-245|07] अथाभिज्ञातुं समर्थे /

[245|07] एवं दोषो न भवति /

[245|07-245|08] कथं चाभिज्ञातुं समर्थो ऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने /

[245|08] यथा न दोषस्तथा ऽस्तु /

[245|09] षोदश व्यवहाराः सूत्र उक्ताः /

[245|09-245|11] "अदृष्टे दृष्टवादिता अश्रुते ऽमते ऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद् विज्ञाते ऽविज्ञातवादिता इतीमे ऽनार्या अष्टौ व्यवहाराः /

[245|11-245|12] दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट् ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः /

[245|12-245|13] तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् /

[245|14-245|15] चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् / तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् // vakk_4.75 //

[245|16] यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् / यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् /

[245|16-245|17] यन्मनो विज्ञानेन तत् विज्ञातम् /

[245|17] यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् / किं कारणम् /

[245|18] गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि / अत एतेषु मताख्येति वैभाषिकाः /

[245|19] किमत्र ज्ञापकम् / सूत्रं युक्तिश्च /

[245|19-245|21] सूत्रं तावत् "तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति /

[245|21-245|22] अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा /

[245|22] नो भदन्त /

[245|22-245|24] ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त /

[245|24-245|25] अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु"क्तम् /

[245|25-245|26] अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते /

[245|26-245|27] अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः /

[245|27] सूत्रं तावज्ज्ञापकमन्यार्थत्वात् /

[245|27-245|28] न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म /

[245|28] किं तर्हि /

[245|28-246|01] अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते /

[246|01] किं पुनर्डृष्टं किं च यावद्विज्ञातम् / केचित्तावदाहुः /

[246|01-246|02] "यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् /

[246|02] यत् परत आगमितं तच्छ्रुतम् /

[246|02-246|03] यत् स्वयं युक्त्यनुमानतो रुचितं तन्मतम् /

[246|03-246|04] यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि"ति /

[246|04] एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते /

[246|05] श्रुता मता विज्ञाता इति वा /

[246|05-246|06] षष्ठो ऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः /

[246|06] तस्माद्युक्तिंरप्येषा युक्तिर्न भवति /

[246|06-246|07] पूर्वाचार्या एवमाहुः /

[246|07] यद् दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा / श्रुतं यच् छ्रोत्रेण परतश्चाखरितम् /

[246|08] मतं यत् स्वयं चिन्तितम् / विज्ञातं यत् प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् /

[246|09] प्रसङ्गेन शास्त्रं प्रवर्तयताम् / यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः /

[246|10] स्यात् / अत एवोच्यते / "स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत /

[246|11] स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत /

[246|11-246|12] स्यात् कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत /

[246|13] स्यात् ऋशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे"ति /

[246|13-246|14] यद्युभयथा ऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति /

[246|15] कर्तव्यो ऽत्र यत्नः / गतो मृषावादः /

[246|16] पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने /

[246|17] यत् क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत् पैशुन्यम् /

[246|17-246|18] अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च /

[246|19] पारुष्यमप्रियं

[246|20] वचनत् / क्लिष्टचित्तस्येति वर्तते / अर्थाभिज्ञे अभ्रान्त्येति च /

[246|20-246|22] यत् क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत् विवक्षितं तत् पारुष्यम् /

[246|23] सर्वं क्लिष्टं भिन्न प्रलापिता // vakk_4.76 //

[246|24] वाक्यमित्यधिकारो वर्तते / सर्वं क्लिष्टं वचनं संभिन्नप्रलापः /

[246|24-246|25] सैव संभिन्नप्रलापिता /

[246|25] तद्योगेन हि संभिन्नप्रलापी भवति /

[247|01] अतो ऽन्यत् क्लिष्टमित्यन्ये

[247|02] अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत् क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे /

[247|03] लपनागीतनाट्यवत् /

[247|04] कुशास्त्रवच्च

[247|05-247|06] तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित् गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति /

[247|06] कुक्शास्त्राणि च तद्दृष्टयो ऽपि गदन्ति /

[247|06-247|07] एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः /

[247|07-247|08] कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः /

[247|08-247|09] नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि /

[247|09-247|10] तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे /

[247|11] अभिध्या तु परस्वविषमस्पृहा // vakk_4.77 //

[247|12-247|13] अहो वत यत् परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा सा ऽभिध्या कर्मपथः /

[247|13-247|14] सर्वैव कामावचरी तृष्णाभिध्येत्यपरे /

[247|14-247|15] तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे "सो ऽभिध्यां लोके प्रहाये" त्येवमादि /

[247|15-247|16] यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे /

[247।16-247।17 मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति /

[247|18] व्यापादः सत्त्वविद्वेषः

[247|19] सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः /

[247|20] नास्तिदृष्टिः शुभाशुभे /

[247|21] मिथ्यादृष्टिः

[247|22] शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः /

[247|22-247|24] तद्यथा "नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोके ऽहन्त" इति /

[247|24-247|25] सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति /

[247|25] आदिमात्रं तु श्लोके दर्शितम् / एवंलक्षणा एते दश कर्मपथाः /

[248|01] कर्मपथा इति कोऽर्थः /

[248|02] त्रयो ह्यत्र पन्थानः सप्त कर्म च // vakk_4.78 //

[248|03] अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः /

[248|03-248|04] तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति /

[248|04] तद्वशेन तथाभिसंस्करणात् /

[248|04-248|06] सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात् कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति /

[248|06] कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः /

[248|07] असरूपाणामप्येकशेषसिद्धेः /

[248|07-248|08] एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः /

[248|08-248|09] प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः /

[248|09-248|09-] यथौदारिकं च ग्रहणादित्युक्तं प्राक् /

[248|09-248|10] येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः /

[248|10-248|11] ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः /

[248|11] त एव हि प्रष्टव्याः /

[248|12] अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः /

[248|12-248|13] इतरेतरावाहनाद्वा /

[248|13-248|14] य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः /

[248|15] मूलच्छेदस्त्वसद्दृष्ट्या

[248|16] कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया /

[248|16-248|17] यत्तर्हि शास्त्र उक्तं "कतमान्यधिमात्राण्यकुशलमूलानि /

[248|17-248|18] यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती"ति /

[248|18-248|20] अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते /

[248|21] कतमेषां कुशलमूलानां समुच्छेदो भवति /

[248|22] कामाप्तोत्पत्तिलाभिनाम् /

[248|23] कामावचराणि कुशलमूलानि समुछिद्यन्ते /

[248|23-248|24] रूपारूप्यावचरैरसमन्वागतत्वात् /

[248|24] प्रज्ञप्तिभाष्यं तर्हि कथं नीयते /

[248|24-248|25] "इयता ऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती"ति /

[248|25-249|01] तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् /

[249|01] संततेस्तदभाजनत्वापादनात् /

[249|01-249|02] उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते /

[249|02] प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् /

[249|02-249|03] किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते

[249|04] फलहेत्वपवादिन्या

[249|05-249|06] या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति /

[249|06-249|07] आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे /

[249|07-249|08] सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया /

[249|08] संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके /

[249|08-249|09] एवं तु वर्णयन्ति /

[249|10] सर्वथा

[249|11] नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते / दर्शनप्रहातव्यवदित्येके /

[249|11-249|12] एवं तु वर्णयन्ति /

[249|13] क्रमशः

[249|14] नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते /

[249|14-249|15] भावना हेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनीति /

[249|15-249|16] एवमयं ग्रन्थः पालितो भवति /

[249|16] "कतमान्यणुसहगतानि कुशलमूलानि / आह /

[249|16-249|18] यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती"ति /

[249|18] अस्य तर्हि ग्रन्थस्य को नयः /

[249|18-249|19] "कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि /

[249|19-249|20] यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती"ति /

[249|20] समाप्तिमेतत् संधायोक्तम् / तैनिरवशेषच्छेदात् /

[249|20-249|21] एको ऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति /

[249|21-249|22] दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके /

[249|22] एवं तु वर्णयन्त्युभयथेति /

[249|22-249|23] पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके /

[249|23] एवं तु वर्णयन्ति /

[249|23-249|24] यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति /

[249|24] अथ कुशलमूलानि समुच्छिद्यन्ते

[249|25] नृषु // vakk_4.79 //

[249|26] मनुष्येष्वेव नापायेषु / क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् /

[249|26-249|27] न देवेषु कर्मफल प्रत्यक्षत्वात् /

[249|27] त्रिषु द्वीपेषु नोत्तरकुरौ / अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे /

[249|28] तेषामयं ग्रन्थो विरुध्यते / "जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः /

[250|01] एवं पूर्वविदेहको गोदानीयक" इति / तानि पुनः

[250|02] छिनत्ति स्त्री पुमान्

[250|03] स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात् न स्त्रीत्यपरे

[250|03-250|04] अयं ग्रन्थो विरुध्येत

[250|04-250|05] "यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत" इति

[250|05] तेषामपि तृष्णाचरितो न समुच्छिनत्ति

[250|05-250|06] चलाशयत्वात्

[250|06] कस्तर्हि

[250|07] दृष्टिचरितः

[250|08] दृढगूढपापाशयत्वात् अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात्

[250|08-250|09] आपायिकवच्च

[250|09] किंस्वभावः कुशलमूलसमुच्छेदः

[250|10] सो ऽसमन्वयः

[250|11] यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते /

[250|11-250|12] तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते /

[250|12-250|13] तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः

[250|14] संधिः काङ्क्षास्तिदृष्टिभ्यां /

[250|15] यदा ऽस्य हेतुफले विचिकित्सा चोत्पद्यते / अष्टिदृष्टिर्वा सम्यक् दृष्टिरित्यर्थः /

[250|16] तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसंधितानि कुशलमूलान्युच्यन्ते /

[250|16-250|17] नवप्रकाराणां युगपत् प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् /

[250|17-250|18] स पुनस्तेषां प्रतिसंधिः

[250|19] नेहानन्तर्यकारिणः // vakk_4.80 //

[250|20] अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् /

[250|20-250|22] तमेव संधायोक्तम् "अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति" इति /

[250|22-250|24] उपपद्यमानो ऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः /

[250|24-250|25] एवं यः स्वबलेन परबलेन /

[250|25] पुनराह /

[250|25-250|26] य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति /

[250|26] य आशयप्रयोगविपन्नः स भेदात्कायस्येति /

[250|26-251|01] एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति /

[251|01] स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति /

[251|02] चतुष्कोटिकम् / प्रथमा कोटिः पूरणादयः / द्वितीया ऽजातशत्रुः / तृतीया देवदत्तः /

[251|03] चतुर्थ्येतानाकारान् स्थापयित्वा /

[251|03-251|04] कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः /

[251|04] आनन्तर्यकारिणां तु तत्र वा ऽन्यत्र वा नरके /

[251|05] कर्मपथप्रसङ्ग एवायं वर्तते /

[251|05-251|06] तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति /

[251|07] युगपद्यावदष्टाभिरशुभैः सह वर्तते /

[251|08] चेतना

[251|09] एकेन तावत्सह वर्तते /

[251|09-251|10] विना ऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने /

[251|10] द्वभ्यां सह वर्तते /

[251|10-251|11] व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वा ऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा /

[251|12] त्रिभिः सह वर्तते / व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् /

[251|12-251|13] न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति /

[251|13-251|14] अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः /

[251|14-251|15] अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव /

[251|15] चतुर्भिः सह वर्तते /

[251|15-251|16] भेदाभिप्रायस्यानृत वचने परुषवचने वा /

[251|16] तत्र हिमानस एको भवति वाचिकास्त्रयः /

[251|16-251|17] अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने /

[251|17] एवं पण्चषट्सप्तभिर्यो जयितव्या /

[251|17-251|18] अष्टाभिः सह वर्तते /

[251|18] षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने /

[251|19] एवं तावदकुशलैः /

[251|20] दशभिर्यावच्छुभैः

[251|21] कुशलैः पुनः कर्मपथर्यावत् दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वा ऽपवादं करोति

[251|22] नैकाष्टपञ्चभिः // vakk_4.81 //

[251|23] एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते / तत्र द्वाभ्यां सह वर्तते /

[251|23-252|01] कुशलेषु पञ्चसु विज्ञानेषु /

[252|01] आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः /

[252|01-252|02] त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने /

[252|02-252|03] चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने /

[252|03] षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने /

[252|03-252|04] सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने /

[252|05] नवभिः कुशलेषु पञ्चषु विज्ञानेषु /

[252|05-252|06] तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते /

[252|06-252|07] दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव /

[252|07-252|09] सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतना ऽन्यत्र क्षयानुत्पादज्ञानाभ्याम् संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने /

[252|09-252|10] पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् /

[252|11-252|12] कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा /

[252|13] भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा /

[252|14] इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति /

[252|14-252|15] संमुखीभावतः समन्वागमभावतश्च /

[252|15] परिदेवनात्संभिन्नप्रलापः / परस्परपरितापनात्पारुष्यं रुक्षसंतानतया /

[252|16] परस्परद्वेषाद्व्यापादः /

[252|17] समन्वागमतो ऽभिध्यामिथ्यादृष्टी /

[252|18] न संमुखीभावतः / रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च /

[252|18-252|19] कर्मक्षयेण मरणान्न प्राणातिपातः /

[252|19-252|20] द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः /

[252|20] अत एव न पैशुन्यं नित्यभिन्नत्वाच्च /

[252|21] कुरौ त्रयः // vakk_4.82 //

[252|22] समन्वागमत इति वर्तते / अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः /

[252|23-252|24] अममापरिग्रहत्वात् स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च /

[252|25] सप्तमः स्वयमप्यत्र

[252|26] असंभिन्नप्रलापः संमुखीभावतो ऽप्यस्ति / ते हि क्लिष्टचित्ताः कदाचित् गायन्ति /

[253|01] अपापाशयत्वात् न प्राणतिपातादयः /

[253|01-253|02] नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात् प्रयोजनाभावाच्च /

[253|02] कथमेषामब्रह्मचर्यम् /

[253|02-253|03] ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति /

[253|03-253|04] गम्या चेत् वृक्षश्छादयति तां ते गच्छन्ति /

[253|04] अगम्या चेन्न छादयति तां ते न गच्छन्ति /

[253|05] कामे ऽन्यत्र दशाशुभाः /

[253|06] स्वयमपीति वर्तते /

[253|06-253|07] नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतो ऽपि विद्यन्ते /

[253|07] तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः / [253|07-253|08] मनुष्येष्वसंवरसंगृहीता अपि /

[253|08] यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति /

[253|08-253|09] देवा अपि शिरोमध्यच्छेदात् भ्रियन्त इत्यपरे /

[253|09] उक्ता अशुभाः /

[253|10] शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः // vakk_4.83 //

[253|11-253|12] पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्या ऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते /

[253|13] आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त

[253|14] कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव /

[253|14-253|16] आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् /

[253|16] असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् /

[253|16-253|17] यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति /

[253|18] पञ्च भूम्याश्रयेण त्वनागतेन /

[253|19] शेषिते /

[253|20] संमुखीभावतश्चापि हित्वा सनरकान् कुरुन् // vakk_4.84 //

[253|21] शेसः कृतः शेषितः / यो ऽन्यो धातुः शेषितो गतिर्वा /

[253|21-253|22] तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतो ऽपि संविद्यन्ते ऽन्यत्र नरकोत्तरकुरुभ्यः /

[253|22-253|23] ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा /

[253|23-253|24] त एते दशाकुशलाः कर्मपथाः कुशलाश्च

[253|25] सर्वे ऽधिपतिनिष्यन्दविपाकफलदा मताः /

[253|26] अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते / तदेषां विपाकफलम् /

[254|01-254|05] स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदो ऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः /

[254|05] तस्या मोहभूयस्त्वात् / इदमेषां निःष्यन्दफलम् /

[254|05-254|06] अल्पमप्यायुर्मनुष्येषु कुशलफलम् /

[254|06] तत् कथं प्राणातिपातस्य निःष्यन्दफलं भवति /

[254|06-254|07] नोच्यते तदेवायुस्तस्य फलम्

[254|07] किं तर्हि / तेनाल्पायुर्भवतीति /

[254|07-254|08] अतो ऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् /

[254|08-254|09] प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति /

[254|09-254|12] अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजो ऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्या ऽल्पफला अफला वा /

[254|12] इदमेषामधिपतिफलम् /

[254|13] किं तेनैव कर्मणा ऽयमिहाल्पायुर्भवत्यथान्येन / तेनेवेत्येके /

[254|13-254|14] तद्विपाकफलमिदं निष्यन्दफलमिति /

[254|14] तत्र प्रयोगेणेह मौलेल्नेत्येके /

[254|14-254|15] परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति /

[254|15] यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च /

[254|16] सादृश्यविशेषात्तु तथोक्तम् /

[254|16-254|17] किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते /

[254|17-254|18] प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतो ऽस्य

[254|19] दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् // vakk_4.85 //

[254|20] परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति /

[254|20-254|21] मारणन्निःष्यन्दफलेनाल्पायुर्भवति /

[254|21] ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति /

[254|23] एवमन्येष्वपि योज्यम् /

[254|23-254|24] एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते /

[254|24-254|25] स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् /

[254|25-254|26] यद्भगवता "मिथ्यावांइमथ्याकर्मान्तो मिथ्याजीव" इत्युक्तं को ऽयमन्यस्ताभ्यां मिथ्याजीवः /

[254|26] नायमन्यो ऽस्ति / तदेव तु

[255|01] लोभजं कायवाक्कर्म मिथ्याजीवः

[255|02] द्वेषमोहजौ तु कायवाक्कर्मान्तौ / स चैष ताभ्यां

[255|03] पृथक् कृतः /

[255|04] दुःशोधत्वात्

[255|05] हारी हि लोभधर्मः / तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् /

[255|05-255|06] अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः /

[255|06] आह चात्र

[255|07-255|08] "दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना / आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने"ति //

[255|09] परिष्कारलोभोत्थं चेत्

[255|10] यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् /

[255|10-255|11] नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत्

[255|12] न सूत्रतः // vakk_4.86 //

[255|13] शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि /

[255|14] किं कारणम् / मिथ्यविषयपरिभोगात् / गतमेतत् /

[254|15] यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् /

[255|16] प्रहाणमार्गे समले सफलं कर्म पञ्चभिः /

[255|17] प्रहाणार्थं मार्गः प्रहीयन्ते वा ऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः /

[255|18] तस्मिन्सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् /

[255|18-255|19] तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः /

[255|19] निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः /

[255|19-255|20] विसंयोगफलं विसंयोग एव /

[255|20] यत्तत् प्रहाणम् /

[255|20-255|21] पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथा ऽधिमुक्तिमार्गस्तत्सहभुवश्च /

[255|21] यच्चानागतं भाव्यते तच्च प्रहाणम् /

[255|21-255|22] अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः /

[255|23] चतुर्भिरमले

[255|24] अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा /

[255|25] अन्यच्च सास्रवं यच्छुभाशुभम् // vakk_4.87 //

[256|01-256|02] यच्चान्यत् प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा /

[256|03] अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् /

[256|04] प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा /

[256|05] चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः // vakk_4.88 //

[256|06] अनुक्रममिति पश्चाद्वक्ष्यति /

[256|06-256|07] कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा /

[256|07] अकुशला द्वे पुरुषकाराधिपतिफले /

[256|07-256|08] अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा /

[256|08] अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् /

[256|10] यथाक्रममित्यर्थः / अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले / [256|11] अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा /

[256|11-256|12] अव्याकृताश्चत्वारि विसंयोगफलं हित्वा /

[256|12-256|13] अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् /

[256|14] अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः // vakk_4.89 //

[256|15] अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् /

[256|15-256|16] अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा /

[256|16-256|17] अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् /

[256|17] अव्याकृता धर्मा एतान्येव त्रीणि /

[256|18] सर्वे ऽतीतस्य चत्वारि

[256|19] सर्व इति त्रैयध्विकाः /

[256|19-256|20] अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि /

[256|20] विसंयोगफलल्ं हित्वा /

[256|21] मध्यमस्याप्यनागताः /

[256|22] प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वाति फलान्येतान्येव /

[256|23] मध्यमा द्वे

[256|24] प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले /

[256|25] अजातस्य फलानि त्रिण्यनागताः // vakk_4.90 //

[257|01] अनागतस्यानागतानि त्रीणि फलानि / निःष्यन्दविसंयोगफले हित्वा /

[257|02] स्वभूमिधर्माश्चत्वारि

[257|03] स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा /

[257|04] त्रीणि द्वे वा ऽन्यभूमिकाः /

[257|05] अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि / विपाकविसंयोगफले हित्वा /

[257|06] धात्वपतितत्वात् / सास्रवाश्चेत् द्वे पुरुषकाराधिपतिफले /

[257|07] शैक्षस्य त्रीणि शैक्षाद्याः

[257|08] शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा /

[257|08-257|09] अशैक्षा अप्येवम् /

[257|09] नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा /

[257|10] अशैक्षस्य तु कर्मणः // vakk_4.91 //

[257|11] धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् /

[257|12] अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् /

[257|12-257|13] अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा /

[257|13] नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले /

[257|14] ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च // vakk_4.92 //

[257|15-257|16] शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले /

[257|16] अशैक्षा अप्येवम् / नैवशैक्षानाशैक्षाः पञ्च फलानि /

[257|17] त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः /

[257|18] दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा /

[257|19] भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा / अप्रहेया एकमधिपतिफलम् /

[257|20] ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः // vakk_4.93 //

[257|21] भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले /

[257|21-257|22] भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा /

[257|22] अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा /

[257|23] अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् /

[257|24] अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् /

[257|24-258|01] भावनाहेया द्वे पुरुषकाराधिपतिफले /

[258|01] अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा /

[258|01-258|02] पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्ये ऽपि ज्ञापनार्थम् /

[258|02] एष हि पेयालधर्मः /

[258|03] कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते /

[258|03-258|04] शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् /

[258|04] तस्य किं लक्षणम् /

[258|05] अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन // vakk_4.94 //

[258|06] क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके /

[258|07] विधिभ्रष्टमपीत्यपरे /

[258|07-258|08] येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि /

[258|08] तच्चान्यथा विदधाति / तदयुक्तविधानादयोगविहितमिति /

[258|08-258|09] कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे /

[258|09] उभाभ्यामन्यन्नोभयथा /

[258|09-258|10] नैवयोगविहितं नायोगविहितम् /

[258|11] किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि /

[258|11-258|12] तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् /

[258|12] एष हि सिद्धान्तः /

[258|13] एकं जन्माक्षीपत्येकम्

[258|14] एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या /

[258|14-258|15] तत्र हि लब्धे जात इत्युच्यते /

[258|15-258|16] यत्तर्हि स्थविरानिरुद्धेनोक्तं "सो ऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात" इति /

[258|17] तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत् पुण्यं कृतवान् /

[258|17-258|18] तत उत्थानं दर्शयति स्म /

[258|18-258|19] यथा मनुष्यो दीनारोत्थो ऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति /

[258|19] अपरे त्वाहुः /

[258|19-258|20] तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित् किञ्चित्फलं परिगृहीतमिति /

[258|20-258|21] अनेकेनाप्येकमाक्षिप्यते मा भूत् खण्डशो निकायसभागस्याक्षेप इति /

[258|22] एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म /

[258|23] अनेकं परिपूरकम् /

[258|24] यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति /

[258|24-258|26] तथा हि तुल्ये मानुष्ये कश्चित् सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः /

[258|26] न च केवलं कर्मैवाक्षेपकं जन्मनः / किं तर्हि /

[258|27] अन्यदपि सविपाकम् / सर्वथा तु

[259|01] नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च // vakk_4.95 //

[259|02] अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते /

[259|02-259|03] कर्मासहभूतत्वात् /

[259|03] प्राप्तिभिश्च कर्मणो ऽनेकफलत्वात् /

[259|04] त्रिण्यावरणान्युक्तानि भगवता / कर्मावरणं क्लेशावरणं विपाकावरणं च /

[259|04-259|05] तेषां कः स्वभावः /

[259|06-259|07] आनन्तर्याणि कर्माणि तीव्रक्लेशो ऽथ दुर्गतिः / कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् // vakk_4.96 //

[259|08] पञ्चानन्तर्याणि कर्मावरणम् /

[259|08-259|09] तद्यथा मातृवधः पितृवधो ऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् /

[259|09] तीव्रक्लेशता क्लेशावरणम् / द्विविधो हि क्लेशः /

[259|10] तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च यो ऽधिमात्रः / तत्र यस्तीव्रः स आवरणम् /

[259|11] यथा शण्ठादीनाम् /

[259|11-259|12] शक्तो ह्यधिमत्रवेगो ऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहो ऽप्याजस्रिकः /

[259|12-259|13] आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते /

[259|13] तस्य मृदुं प्रतीत्य मध्य उपजायते / मध्यं प्रतीत्याधिमात्रः /

[259|14-259|15] तस्मात् एवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च /

[259|15] कस्यैतान्यावरणानि /

[259|15-259|17] आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानाम् अन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः /

[259|17-259|19] यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि /

[259|19] क्लेशावरणं चैषां सर्वजघन्यम् / ततः कर्मावरणम् /

[259|19-259|20] ताम्यां हि द्वितीये ऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः /

[259|21] आनन्तर्याणीति को ऽर्थः /

[259|21-259|22] नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि /

[259|22] न तिरस्कर्तुमित्यर्थः /

[259|22-259|23] न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः /

[259|23] तद्भाव आनन्तर्यम् /

[259|24] यस्य धर्मस्य योगात्सो ऽनन्तरो भवति / श्रामण्यवत् /

[259|25] अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् / एकान्तेन तावत्

[260|01] त्रिषु द्वीपेष्वानन्तर्य

[260|02] नोत्तरकुरौ नान्यासु गतिषु / कुत एवान्यत्र धातौ / तेत्ष्वपि स्त्रिपुरुषाणामेव /

[260|03] शण्डा दीनां तु नेष्यते /

[260|04] किं कारणं / तदेवासंवराभावे कारणमुद्दिष्टम् / अपि च

[260|05] अल्पोपकारालज्जित्वात्

[260|06] यथाक्रमं मातापित्रोस्तेषां च / अल्पोपकारौ किलैषां मातापितरौ /

[260|06-260|07] विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च /

[260|07-260|08] तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् /

[260|08] अत एव तिर्यवप्रेतानामपि नेष्यते /

[260|09] पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः /

[260|09-260|10] मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् //

[260|10] उक्तं कर्मावरणम् //

[260|11] शेषे गतिषु पञ्चसु // vakk_4.97 //

[260|12] के पुनः शेषे / क्लेशविपाकावरणे / मनुष्येषु विपाकावरणम् /

[260|12-260|13] कौरवा देवेष्वसंज्ञिसत्त्वाः /

[260|13] किंस्वभावान्यानन्तर्याणि /

[260|13-260|14] चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः /

[260|14-260|15] अनुपक्रमधर्माणो हि तथागताः /

[260|15] हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् /

[260|15-260|16] भिद्यते वा ऽनेनेति कृत्वा /

[260|17] संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः /

[260|18] अक्लिष्टाव्याकृतो धर्मः

[260|19] असामग्री नान चित्तविप्रयुक्तः संस्कारो ऽनिवृताव्याकृतः संघभेदः /

[260|19-260|20] स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः /

[260|20] किं तर्हि /

[260|21] संघस्तेन समन्वितः // vakk_4.98 //

[260|22] यो हि भिन्नस्तस्य भेदो न भेत्तुः / अथ भेत्ता केन समन्वागतः /

[260|23] सदवद्यमृषावादस्तेन भेत्ता समन्वितः /

[260|24] संघभेदावद्येन भेत्ता समन्वागतः / तत् पुनर्मृषावादः /

[260|24-260|25] स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती /

[260|25] स च तेनावद्येन समन्वागतो भेत्ता /

[261|01] अवीचौ पच्यते कल्पन्

[261|02] अन्तरकल्पमवीचौ महानरके विपच्यते / अन्यैस्तु नावश्यमवीचौ /

[261|02-261|03] अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते /

[261|03-261|04] किं तु तैस्तस्य भवति /

[261|05] अध्हिकैरधिका रुजः // vakk_4.99 //

[261|06-261|07] सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते /

[261|07-261|08] कः पुनरेष संघं भनत्ति /

[261|09] भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति /

[261|10] भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः / स च दृष्टिचरित एव न तृष्णाचरितः /

[261|11] ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् / क्व भिनत्ति /

[261|12] अत्र भगवान् संनिहितस्ततः /

[261|13] अन्यत्र

[261|14] नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् / तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च /

[261|15] कान् भिनत्ति /

[261|16] बालिशान् /

[261|17] पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् / तानपि न क्षान्तिलाभिन इत्यपरे /

[261|17-261|18] कियता भिन्नः संघो भवति /

[261|19] शास्तृमार्गान्तरक्षान्तौ भिन्नः

[261|20-261|21] यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः /

[261|21] कियन्तं कालं भिन्न आस्ते / तामेव रात्रिं

[261|22] न विवसत्यसौ // vakk_4.100 //

[261|23] अपर्युषित एव हि संघभेदे संघो ऽवश्यं प्रतिसंधीयते / यो ऽयं संघभेद उक्तः

[261|24] चक्रभेदः स च मतः

[261|25] धर्मचक्रं हि तदा भगवतो भिन्नं भवति / मार्गप्रवृत्तिविष्ठापनात् /

[261|25-261|26] अत एव चक्रादश्चोच्यते संघभेदश्च /

[261|26] क्व पुनश्चक्रभेदो भवति /

[262|01] जम्बूद्वीपे

[262|02] नान्येषु द्वीपेषु / कतिभिर्भिक्षुभिः /

[262|03] नवादिभिः /

[262|04] नवादिं कृत्वा / परेणानियमः / अष्टौ भिक्षयः संघो भवति / नवमो भेत्ता /

[262|04-262|05] अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् /

[262|05] एवं भिन्नो भवति /

[262|05-262|06] अन्यस्तु संघभेदः कर्मभेदाद् भवति /

[262|06] यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति / स चैष

[262|07] कर्मभेदस्त्रिषु द्वीपेषु

[262|08] येष्वेव शासनम् / कतिभिर्भिक्षुभिः

[262|09] अष्टाभिरधिकैश्च सः // vakk_4.101 //

[262|10] चक्रभेदस्तु षट्सु कालेषु न भवति / कतमेषु /

[262|11-262|12] आदावन्ते ऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ / सीमायां चाप्यबद्धायां चक्रभेदो न जायते // vakk_4.102 //

[262|13] आदावचिरप्रवर्तिते धर्मचक्रे / अन्ते परिनिर्वाणकाले भगवतः /

[262|13-262|14] एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति /

[262|14-262|15] मध्ये ऽप्यर्बुदात् पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति /

[262|15-262|16] युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति /

[262|16] भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् /

[262|16-262|17] उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् /

[262|17-262|18] सीमायामबद्धायां यावत् सीमा न बद्धा भवति /

[262|18-262|19] एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति /

[262|19] न च पुनः सर्वेषां बद्धानां चक्रभेदः / कर्माधीनत्वात् /

[262|20] कस्मात् मातृवधादिष्वानन्तर्यं नान्यत्र /

[262|21] उपकारियुणक्षेत्रनिराकृतिविपादनात् /

[262|22] मातापितृवधे तावदुपकारिणो निराकरणात् / कथं तावुपकारिणौ /

[262|22-262|23] आत्मभावस्य तत्प्रभवत्वात् /

[262|23] किं तयोर्निराकरणम् / परित्यागः / गुणक्षेत्रत्वादर्हद्वधाद् आनन्तर्यम् /

[262|24-262|25] यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात् पितुर्वा तत्रैकस्मिन्नाम्नायो

[263|01] व्यञ्जनान्तरितो ऽपि स्यात्

[263|02] अत एवोच्यते "स्यात् पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् /

[263|02-263|03] आनन्तर्यावद्येन च स्पृश्येत /

[263|03] स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति /

[263|03-263|04] स्यात् स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीम् आनन्तर्यावद्येन च स्पृश्येत /

[263|04-263|05] स्यात् पितुर्व्यञ्जनं परिवृत्तं स्यादि"ति /

[263|05] अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् /

[263|05-263|06] कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् /

[263|07] माता यच्छोणितोद्भवः // vakk_4.103 //

[263|08] यस्याः शोणितादसावुद्भूतः सत्त्वः सा ऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या /

[263|09] सा ह्यापायिका पोषिका संवर्धिका च /

[263|09-263|10] यदि मातरि प्रयोगं कृत्वा ऽन्यां मारयेन्न स्यादानन्तर्यम् /

[263|10] अमातृप्रयोगेण मारयेत्तथापि न स्यात् /

[263|10-263|11] मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च /

[263|11-263|12] एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः /

[263|12] विज्ञप्तिस्त्वानन्तर्यमेव /

[263|13] तस्य कर्मणो बलीयस्त्वात् / परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः /

[263|14-263|15] अनर्हत्संज्ञया ऽपि अर्हद्घाते भवत्यानन्तर्यम् अहम् हन्मीत्याश्रयावधारणात् /

[263|15] यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् /

[263|16] इदमवदानं कथं नीयते "गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते /

[263|16-263|17] यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि"ति /

[263|17] द्वाभ्यां कारणाभ्यामिति वक्तव्यम् /

[263|18] द्वाभ्यां वा मुखाभ्यां परिभाषितः /

[263|18-263|19] किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् /

[263|19] वधाभिप्रायस्य स्यात् /

[263|20] बुद्धे न ताडनेच्छस्य

[263|21] यदि ताडनाभित्राय उत्पादयेन्न स्यात् / यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात्

[263|22] प्रहारान्नोर्ध्वमर्हति /

[263|23] स्यादानन्तर्यमिति वर्तते / नहि तेन तत्र प्रयोगः कृतः /

[263|23-263|24] किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् /

[263|25] नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः // vakk_4.104 //

[264|01-264|02] अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् /

[264|03] एषामानन्तर्याणां कतमत् महासावद्यम् /

[264|04] संघमेदे मृषावादो महावद्यतमो मतः /

[264|05-264|06] यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात् स सर्वेषां दुश्चरितानां महावद्यतमः /

[264|06] किं कारणम् /

[264|06-264|07] तथागतधर्मशरीरप्रहारितत्वात् लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् /

[264|07-264|10] संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत् पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः /

[264|10-264|11] शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः /

[264|11-264|13] यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तम् आनन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः /

[264|13-264|14] त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः /

[264|14-264|15] अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् /

[264|16] सुचरितानां पुनः कतमत् महाफलतमम् /

[264|17] भवाग्रचेतना लोके महाफलतमा शुभे // vakk_4.105 //

[264|18] कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा /

[264|18-264|19] तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः /

[264|19] विपाकफलं चाधिकृत्यैतदुक्तम् /

[264|19-264|21] विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् /

[264|21] अत एव लोक इत्युक्तम् /

[264|22] किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते / आनन्तर्यसभागैरप्यवश्यमुपपद्यते /

[264|23] नत्वनन्तरमेवेत्यपरे / कतमानि तानीत्याह

[264|24-264|25] दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् / बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका // vakk_4.106 //

[265|01] आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् /

[265|02] एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमम् सभागानि /

[265|02-265|04] यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात् नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति /

[265|04-265|05] अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति /

[265|05] कतमेषु त्रिसु /

[265|06] क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् // vakk_4.107 // [265|07] मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते /

[265|07-265|08] तद्विपाकभूम्यतिक्रमात् /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.