Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[196|05-196|06] अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च /
[196|06-196|07] अस्तीति वैभांषिकाः /
[196|07] कथं ज्ञायते /
[196|08] त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः /
[196|09] त्रिविधं रूपमुक्तं सूत्रे / "त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति /
[196|09-196|10] अस्ति रूपं सनिदर्शनं सप्रतिघम् /
[196|10] अस्ति रूपमनिदर्शनं सप्रतिघम् /
[196|10-196|11] अस्ति रूपमनिदर्शनमप्रतिघमि"ति /
[196|11] अनास्रवं च भगवता रूपमुक्तम् / "अनास्रवाः धर्माः कतमे /
[196|12-196|13] यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्नो नोत्पद्यते ऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने /
[196|13] इम उच्यन्ते ऽनास्रवा धर्मा" इति /
[196|13-196|14] न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् /
[196|14] वृद्धिरपि चोक्ता /
[196|14-196|17] "एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् /
[196|17] एवं निरौपधिकैरि"ति //
[196|17-196|18] न चाविज्ञप्तिमन्तरेणान्यमनसो ऽप्ति पुण्यस्याभिवृद्धिर्युज्यते /
[196|18-196|19] अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ /
[196|19] नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते /
[196|20] तस्य कर्यणो ऽकृतत्वात् / कृते ऽपि च तस्याः स्वभावविशेषादिति /
[196|20-196|22] उक्तं च भगवता "धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि"ति /
[196|22] न त्वरूपीत्युक्तम् /
[196|22-196|23] तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत /
[196|23] अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण /
[196|23-196|24] समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् /
[196|24-196|26] यत्तर्हीदमुक्तं "तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक् संकल्पः सम्यक् व्यायामः सम्यक् स्मृतिः सम्यक् समाधिः /
[196|26-196|27] पूर्वमेव चास्य सम्यक् वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता" इति /
[196|27-196|28] लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् /
[196|28-197|01] प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ /
[197|01-197|02] न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्को ऽप्ययं भिक्षुः स्यात् भिक्षुणी वेति /
[197|02] सेतुश्च सूत्रे विरक्तिरुक्ता / दौःशील्यविवन्धत्वात् /
[197|02-197|03] न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः /
[197|03-197|04] अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् /
[197|04] नैवं त्वेतत् / किं कारणम् / यत् तावदुक्तं "त्रिविधरूपोक्तेरि" ति /
[197|04-197|05] तत्र योगाचारा उपदिशन्ति /
[197|05] ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते /
[197|06] चक्षुरिन्द्रियाविषयत्वात् अनिदर्शनम् / देशानावरणत्वादप्रतिघमिति / अथ मतम् /
[197|07] कथमिदानीं तत् रूपम् इति / एतदविज्ञप्तौ समानम् / [197|07-197|08] यदप्युक्तमनास्रवरूपोक्तेरिति तद् एव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः /
[197|09] अर्हतो यद्रूपं बाह्यं चेत्यपरे / आस्रवाणामनिश्रयत्वात् /
[197|09-197|10] यत्तर्हि सूत्र उक्तं "सास्रवा धर्माः कतमे /
[197|10] यावदेव चक्षुर्यवदेव रूपाणी"ति विस्तरः /
[197|10-197|11] तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् /
[197|11] पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् / किं स्यात् /
[197|12] लक्षणसंकरः स्यात् /
[197|12-197|13] यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति को ऽत्र संकरः /
[197|13-197|15] यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु"र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि"ति विस्तरः /
[197|15-197|19] यदप्युक्तं "पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति "धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति /"
[197|19-197|20] "इदमभिसंधायोक्तं" भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यम् इति /
[197|20-197|21] अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसो ऽपि संतानान्तरस्य परिणामः सेत्स्यतीति /
[197|21] एतदविज्ञप्तौ स्मानम् /
[197|21-197|23] कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति /
[197|23-197|24] अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति /
[197|24-197|25] अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् /
[197|25-197|26] औपधिके ऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे /
[197|26-198|01] यत्तर्हि सूत्र उक्तं "यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य" इत्यत्र तदानीं दातुः कश्चेतनाविशेषः /
[198|01-198|02] तस्मात्संततिपरिणामविशेष एव न्याय्यः /
[198|02-198|03] यदप्युक्तं "कारयतः कथं कर्मपथाः सेत्स्यन्ती"ति तत्राप्येवं वर्णयन्ति /
[198|03-198|05] तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्ते ऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः /
[198|05-198|06] सो ऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते /
[198|06] कार्ये कारणोपचारात् /
[198|06-198|07] कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति /
[198|07-198|08] उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः /
[198|08-198|09] हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति /
[198|09] न त्वियता कर्मपथः परिसमाप्यते /
[198|10] मा भूदहते ऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति /
[198|11] स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् /
[198|11-198|13] क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः /
[198|13] न खलु कश्चित् प्रद्वेषः /
[198|13-198|14] किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः /
[198|15-198|16] यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः /
[198|16] चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः / उक्तं चात्र /
[198|17] किमुक्तम् / "विज्ञप्त्यभावादि"त्येवमादि / तदभावादविज्ञप्तेरभावः /
[198|17-198|18] यदप्युक्तं "धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि"ति /
[198|18-198|19] तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् /
[198|19] यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति /
[198|19-198|20] अङ्गं तावदाचक्ष्व /
[198|20] कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति /
[198|20-198|21] किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते /
[198|21] नेत्याह / किं तर्हि /
[198|22] तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते /
[198|22-198|23] यस्याः प्रतिलम्भाद्व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते /
[198|23-198|24] अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते /
[198|24-198|27] यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात् व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते /
[198|27-199|01] अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति /
[199|01] अपरस्त्वाह / तदक्रियामात्रमत्राङ्गमुक्तं स्यात् /
[199|01-199|02] यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् /
[199|02-199|03] नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते /
[199|03-199|04] तद्याथा ऽष्टौ लोकधर्माः लाभो ऽलाभः यशो ऽयशः निन्दा प्रशंसा सुखं दुःखमिति /
[199|04] नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् /
[199|05-199|06] प्रातिमोक्षसंवरो ऽपि स्यात् यया चेतनया विधिपूर्वं कृत्वा ऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति /
[199|06] अन्यचित्तोन संवृतः स्यादिति चेत् / न /
[199|07-199|09] तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात् सेतुभावो ऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणात् इत्यर्थमेव च तस्याः समादानम् /
[199|09-199|10] यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात् न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् /
[199|10-199|11] अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः /
[199|12-199|13] यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तम् तत् किम् विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि /
[199|13] अन्यान्येव सा महाभूतान्युपादायोत्पद्यते /
[199|14] न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते /
[199|14-199|15] किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते /
[199|15-199|16] सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय /
[199|16] किं पुनस्तदिति /
[199|17] क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा // vakk_4.4 //
[199|18] प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते /
[199|19] तान्यस्या आश्रयार्थेन भवन्ति / प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन /
[199|20] प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् /
[199|20-199|21] चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ /
[199|22] अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म /
[199|23] स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् /
[199|24-199|25] कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय /
[199|26] अनास्रवं यत्र जातः
[199|27-200|01] अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् /
[200|01] धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः /
[200|02] तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये /
[200|03] अविज्ञप्तिरनुपात्तिका // vakk_4.5 //
[200|04] नैःष्यन्दिकी च सत्त्वाख्या
[200|05] किञ्च
[200|06] निष्यन्दोपात्तभूतजा /
[200|07] नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति /
[200|07-200|08] असमाहितभूमिकाया एष प्रकारः /
[200|09] समाधिजौपचयिकानुपाताभिन्नभूतजा // vakk_4.6 //
[200|10] ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा /
[200|10-200|12] सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत् संभिन्नप्रलापात् /
[200|12] किं कारणम् /
[200|13] चित्तवत् भूताभेदात् / [200|13-200|14] प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति /
[200|14] विज्ञप्तिस्तु नैःष्यन्दिकी / उपात्ता तु कायिकी /
[200|14-200|16] किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न /
[200|16] किञ्चातः यदि बाधित्वोत्पद्यते / न /
[200|16-200|17] विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति /
[200|17] अथाबाधित्वा /
[200|17-200|18] कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति /
[200|18-200|19] अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति /
[200|19-200|20] एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् /
[200|20] तन्महाभूतैरभिव्यापनात् /
[200|20-200|21] अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् /
[200|21] शुषिरत्वात् कायस्यास्ति तेषामवकाशः /
[200|22] तत् खल्वेतत् कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् /
[200|22-200|23] चेतना चेतयित्वा चेति /
[200|23] चेतयित्वा पुनर्द्विधा / कायवाक्कर्म चेतना च /
[200|23-200|24] कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च /
[200|24-200|25] एवं वाक्कर्म चेतना चेति पञ्चविधं भवति /
[200|25] तत्र पुनरविज्ञप्तिर्द्विधा / कुशला ऽकुशला च /
[200|26] नाव्याकृतास्त्यविज्ञप्तिः
[200|27] किं कारणम् /
[200|27-200|28] अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धे ऽपि तस्मिन्ननुवध्नीयात् /
[201|01] त्रिधा ऽन्यत्
[201|02] अन्यत्कर्म त्रिविधम् / कुशलाकुशलाव्याकृतम् / किं तदन्यत् / विज्ञप्तिश्चेतना च /
[201|03] अशुभं पुनः /
[201|04] कामे
[201|05] अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् / नान्यत्र /
[201|05-201|06] अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च /
[201|06-201|07] कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् /
[201|07] तत्र
[201|08] रूपे ऽप्यविज्ञप्तिः
[201|09] कामे ऽपीत्यपिशब्दात् / आरूप्येषु नास्ति भूताभावात् /
[201|09-201|10] यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ /
[201|10] इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् /
[201|11] न / तस्या धात्वपतितत्वात् /
[201|11-201|12] आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् /
[201|12] सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये /
[201|13] विभूतरूपसंज्ञत्वात् / दौःशील्यप्रतिपक्षेण शीलम् / तच्च दौःशील्यं कामावचरम् /
[201|14] आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे /
[201|14-201|15] अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः
[201|16] विज्ञप्तिः सविचारयोः // vakk_4.7 //
[201|17] विज्ञप्तिस्तु सविचारयोरेव भूम्योः / कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् /
[201|18] कामे ऽपि निवृता नास्ति
[201|19] निवृता तु विज्ञप्तिः कामधातावपि नास्ति / ब्रह्मलोक एवास्ति /
[201|19-201|20] महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते /
[201|20-201|21] स हि स्वपर्षन्मध्ये आयुष्मतो ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् /
[201|21-201|22] तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् /
[201|22] अन्ये पुनराहुः /
[201|22-201|23] द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता /
[201|23] न कुशला न क्लिष्टा / किं कारणम् /
[201|24-201|25] न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् /
[201|25] न्यूनत्वात्प्रहीणत्वच्च / पूर्वमेव तु वर्णयन्ति /
[201|25-201|26] किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति /
[202|01] समुत्थानमसद्यतः /
[202|02] सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते /
[202|02-202|03] तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते /
[202|03] दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् /
[202|04] तच्च कामधातौ निवृतव्याकृतं नास्ति /
[202|05] किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् / नेत्याह /
[202|06] किं तर्हि / चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च /
[202|07] तत्र तावत् /
[202|08] परमार्थशुभो मोक्षः
[202|09] निर्वाणं हि सर्वदुःखव्युपशमः / ततः परमक्षेमत्वात् परमार्थेन कुशलमारोग्यवत् /
[202|10] स्वतो मूलह्यर् पत्रपाः // vakk_4.8 //
[202|11] त्रीणि कुशलमूलानि /
[202|11-202|12] ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् /
[202|12] पथ्यौषधवत् /
[202|13] संप्रयोगेण तद्युक्ताः
[202|14-202|15] तैरेव कुशलमूलह्यर् पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् /
[202|16] समुत्था नात् क्रियादयः /
[202|17-202|18] कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः /
[202|19] औषधपानीयसंभूतधात्रीक्षीरवत् /
[202|19-202|20] प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् /
[202|20-202|21] तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च /
[202|21] यथा च कुशलमुक्तं ततो
[202|22] विपर्ययेणाकुशलं
[202|23] कथं कृत्वा / संसारः परमार्थेनाकुशलः / सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् /
[202|24] अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः / तत्संप्रयुक्ता धर्माः संप्रयोगतः /
[202|24-202|25] तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः /
[203|01] एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा / संसाराभ्यन्तरत्वात् /
[203|02] परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते /
[203|03] इष्टविपाकं च कुक्शलमित्युच्यते / यदि तु परमार्थेनाव्याकृतं मृग्यते तत् / [203|04] परमाव्याकृते ध्रुवे // vakk_4.9 //
[203|05] द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते / आकाशमप्रतिसंख्यानिरोधश्च /
[203|05-203|06] इदं विचार्यते /
[203|06-203|07] यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् /
[203|07] कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु /
[203|07-203|09] समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् /
[203|09-203|10] दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः /
[203|10] कर्त्तव्यो ऽत्र यत्नः / यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति /
[203|11-203|12] किं तर्हि भगवतोक्तं "ततो ऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त" मित्येवमादि /
[203|12] अविरुद्धमेतत् /
[203|13] समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् /
[203|14] द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च / तत्रैव क्षणे तद्भावात् /
[203|15] प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् // vakk_4.10 //
[203|16] हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् / तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् /
[203|17] किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् /
[203|17-203|18] तेन हि विना ऽसौ मृतस्येव न स्यादा क्षिप्ता ऽपि सती /
[203|18] अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति /
[203|18-203|19] स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् /
[203|19] तत्र च
[203|20] प्रवर्तकं दृष्टिहेयं विज्ञानम्
[203|21] दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् /
[203|21-203|22] तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् /
[203|22] न त्वनुवर्तकम् /
[203|22-203|23] बहिर्मुखचित्तस्य क्रियाकाले तदभावात् /
[203|23] तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् / किं स्यात् /
[203|23-203|24] अभिधर्मोबाधितः स्यात् /
[203|24] विद्या ऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् /
[203|24-203|25] साध्य एष पक्षः /
[203|25] भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः / समानचित्तोत्थापितत्वात् /
[204|01] नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति / अथवा पुनर्भवन्तु / नैवं शक्यम् /
[204|02] नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि / किं कारणम् /
[204|02-204|03] अक्लिष्टस्य धर्मस्य विद्या ऽविद्याभ्यामविरोधात् /
[204|03-204|04] अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः /
[204|05] उभयं पुनः //
[204|06] मानसं भावनाहेयं /
[204|07] भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति / प्रवर्त्तकं चानुवर्तकं च /
[204|08] पञ्चकं त्वनुवर्तकम् // vakk_4.11 //
[204|09] पञ्च विज्ञानकाया अनुवर्तका एव / तदिदं चतुष्कोटिकं भवति /
[204|09-204|10] प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् /
[204|10] अनुवर्तका एव पञ्च विज्ञानकायाः /
[204|10-204|11] उभयं भावनाहेयं मनोविज्ञानम् /
[204|11] नोभयमनास्रवम् / किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति /
[204|12] नायमेकान्तम् /
[204|13] प्रवर्तके शुभादौ हि स्यात्त्रिधा ऽप्यनुवर्तकम् /
[204|14] कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् /
[204|15] एवमकुशले चाव्याकृते च /
[204|16] तुल्यं मुनेः
[204|17] बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् / कुशले कुशलमव्याकृते चाव्याकृतम् /
[204|18] शुभं यावत्
[204|19] कुशलं वा भवत्यनुवर्तकमव्याकृते ऽपि प्रवर्तके /
[204|19-204|20] न तु कदाचित् कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति /
[204|20] आम्नायमाना हि बुद्धानां देशनेति /
[204|20-204|21] नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः /
[204|21-204|22] कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् /
[204|22] उक्तं हि सूत्रे
[204|23-204|24] "चरन् समाहितो नागस्तिष्ठन्नागः समाहितः / स्वपन् समाहितो नागो निषण्णो ऽपि समाहित" इति /
[204|25-204|26] अनिच्छया ऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः /
[204|26-204|27] मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् /
[204|27] तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् /
[205|01] नोभयं तु विपाप्कजम् // vakk_4.12 //
[205|02] विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् /
[205|02-205|03] किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथा ऽनुवर्तकम् /
[205|03] किं चातः /
[205|03-205|04] यथा प्रवर्तकं चेत् /
[205|04] इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति /
[205|05] सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् /
[205|05-205|06] न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् /
[205|06-205|07] यथानुवर्तकं चेत् अकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति /
[205|07] यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् /
[205|07-205|08] भावना हेयान्तरितत्वात् /
[205|08] यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् /
[205|09] हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् /
[205|09-205|10] अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति /
[205|10] एवं वक्तव्यम् / अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति /
[205|11] अवसितः प्रसङ्गः /
[205|12] सा तु पूर्वोक्ता /
[205|13] अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा /
[205|14] संवरश्चासंवरश्च / ताभ्यां चेतरो नैवसंवरो नासंवरः /
[205|14-205|15] दौःशील्यप्रसरस्य संवरणं संरोधः संवरः /
[205|15] तत्र पुनः
[205|16] संवरः प्रातिमोक्षाख्यो ध्यानजो ऽनास्रवस्तथा // vakk_4.13 //
[205|17] त्रिविधः संवरः / प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् /
[205|17-205|18] ध्यानसंवरो रूपावचरं शीलम् /
[205|18] अनास्रवसंवरो ऽनास्रवं शीलम् / तत्र पुनः
[205|19] अष्टधा प्रातिमोक्षाख्यः
[205|20-205|21] भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च /
[205|21-205|22] एषो ऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते /
[205|22] नामत एषो ऽष्टविधः /
[205|23] द्रव्यतस्तु चतुर्विधः /
[205|24] भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च /
[205|24-205|25] इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः /
[205|25] प्रतिनियतलक्षणत्वात् /
[205|25-205|26] भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ /
[205|26-205|27] उपासकसंवरादुपासिकासंवरो नान्यः /
[205|27] कथं ज्ञायते /
[206|01] लिङ्गतो नामसंचारात्
[206|02] लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते /
[206|02-206|03] लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति /
[206|03] कथं कृत्वा /
[206|03-206|04] परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः /
[206|04-206|05] श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः /
[206|05] उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति /
[206|05-206|06] न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे /
[206|06-206|07] तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः /
[206|08-206|10] य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्यो ऽन्य उच्यन्ते पञ्चदश विंशतिवत् दीनारशतेरवच्च आहोस्वित् पृथगेव ते सकला जायन्ते /
[206|10] आह /
[206|11] पृथक्
[206|12] अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते /
[206|12-206|13] त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः /
[206|13] एवं शेषाः / को नु तासां विशेषः /
[206|13-206|14] निदानविशेषाद्विशेषः /
[206|14] कथं कृत्वा /
[206|14-206|17] यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः /
[206|17-206|18] एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् /
[206|18] न चैतदिष्टम् / तस्मात् पृथगेव ते संवराः /
[206|19] ते चाविरोधिनः // vakk_4.14 //
[206|20] ते च त्रयो ऽपि सह वर्तन्ते / नोत्तरसंवरसमादानात् पुर्वकस्य त्यागः /
[206|20-206|21] मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति /
[206|22] कथं चायमुपासको भवति कथमुपवासस्थो यावत् भिक्षुः /
[206|23-206|24] पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् / उपासकोपवासस्थश्रमणोद्देशभिक्षुता // vakk_4.15 //
[206|25] यथासंख्यमनुदेशो वेदितव्यः /
[206|25-207|01] पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति /
[207|01-207|02] प्राणातिपाताददत्तादानात्काममिथ्याचारात् मृषावादात्सुरामैरेयमद्यपानाच्च /
[207|02-207|03] अष्टाभ्यो विरतिसमादानादुपवासस्थः /
[207|03-207|04] प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च /
[207|04-207|05] दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति /
[207|05] एभ्य एव जातरूपरजतप्रतिग्रहाच्च /
[207|05-207|06] नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति /
[207|06-207|07] सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्युच्यते /
[207|07] स एष प्रातिमोक्षसंवरः /
[207|08] शीलं सुचरितं कर्म संवरश्चोच्यते
[207|09] विषमकर्मणां विरतिसमादानाच्छीलम् / शीतलत्वादिति निरुक्तिः /
[207|10] "सुखशीलसमादानं कायो न परिदह्यत" इति
[207|11] गाथावचनात् / विद्वत्प्रशस्तत्वात्सुचरितम् / क्रियास्वभावत्वात्कर्म /
[207|11-207|12] ननु चाविज्ञप्तिरक्रियेत्युच्यते /
[207|12] सा कथं क्रिया भाति /
[207|12-207|13] न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते /
[207|13] सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति /
[207|14] क्रियाहेतुत्वात् क्रियाफलत्वाच्चेत्यपरे / संवर इति कायवाचोः संवरणात् /
[207|14-207|15] एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते /
[207|16] पुनः /
[207|17] आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः // vakk_4.16 //
[207|18] संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते /
[207|18-207|19] पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः /
[207|19] स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् /
[207|19-207|20] प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते /
[207|20] मौलसंगृहीतत्वात् /
[207|20-207|21] द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः /
[207|21] पृष्ठं च न मौलः कर्मपथः /
[207|22] अथैषां संवराणां केन कः समन्वागतः /
[207|23] प्रातिमोक्षान्विता अष्टौ
[207|24] प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थो ऽष्टमः /
[208|01] किं खलु बाह्यकानां समादानशीलं नास्ति / अस्ति नतु प्रातिमोक्षसंवरः /
[208|01-208|02] किं कारणम् /
[208|02] नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते / भवसंनिश्रितत्वात् /
[208|03] ध्यानजेन तदन्वितः /
[208|04] ध्यानाद्ध्याने वा जातो ध्यानजः / यो ध्यानेन समन्वागतः सो ऽवश्यं ध्यानसंवरेण /
[208|05] सामन्तकमप्यत्र ध्यानं कृत्वोच्यते / यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते /
[208|06] अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति /
[208|07] अनास्रवेणार्यसत्त्वाः
[208|08] आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः / ते पुनः शैक्षाशैक्षाः /
[208|08-208|09] यदुक्तं "सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि"ति /
[208|10] कतमो तौ / एषामेव त्रयाणाम्
[208|11] अन्त्यौ चित्तानुवर्तिनौ // vakk_4.17 //
[208|12] ध्यानसंवरो ऽनास्रवसंवरश्च / न प्रातिमोक्षसंवरः / किं कारणम् /
[208|12-208|13] अन्यचित्ताचित्तकस्याप्यनुवृत्तेः /
[208|13] पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते /
[208|14] कस्यामवस्थायामित्याह
[208|15] अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ /
[208|16] अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते /
[208|17] ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् /
[208|17-208|18] अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते //
[208|18-208|19] प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः /
[208|19] द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः /
[208|20] तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः /
[208|20-208|21] चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः /
[208|21-208|22] एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् /
[208|22] यत्तर्हि भगवतोक्तं
[208|23-208|24] "कायेन संवरः साधु साधु वाचा ऽथ संवरः / मनसा संवरः साधु साधु सर्वत्र संवरः / इति /
[208|25] यच्चोक्तं "चक्षुरिन्द्रियेण संवरसंवृतो विहरती"ति /
[208|25-208|26] एतौ मनैन्द्रियसंवरौ किंस्वभावौ /
[208|26] नैतावविज्ञप्तिशीलस्वभावौ / किं तर्हि /
[209|01] संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ // vakk_4.18 //
[209|02-209|03] प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति /
[209|03] इन्द्रियसंवरो ऽपि /
[209|04] इदं विचार्यते /
[209|04-209|05] कः कतमया विज्ञप्त्या ऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति /
[209|05] तत्र
[209|06] प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया /
[209|07] अविज्ञप्त्या ऽन्वितः
[209|08-209|09] यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर् न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः /
[209|10] पूर्वात् क्षणादूर्ध्वमतीतया // vakk_4.19 //
[209|11][ प्रथमात् क्षणादूर्ध्वमतीतया ऽपि समन्वागतः /
[209|11-209|12] अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् /
[209|12] यथा प्रातिमोक्षसंवरस्थ उक्तः
[209|13] तथैवासंवरस्थो ऽपि
[209|14-209|15] असंवरस्थो ऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः /
[209|15] क्षणादूर्ध्वमतीतया ऽपि /
[209|16] ध्यानसंवरवान् सदा /
[209|17] अतीताजातया
[209|18-209|19] ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् /
[209|19] प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते /
[209|20] आर्यस्तु प्रथमे नाभ्यतीतया // vakk_4.20 //
[209|21] आर्यस्तु पुद्गलो ऽप्येवमनास्रव्या / अयं तु विशेषः /
[209|21-209|22] स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् /
[210|01] समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया /
[210|02-210|03] तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ /
[210|03-210|04] संवरासंवरस्थानां तावदेष वृत्तान्तः /
[210|05] अथेदानीं मध्यस्थस्य /
[210|06] मध्यस्थस्यास्ति चेदादौ मध्यया
[210|07] यो नैव संवरे नासंवरे स्थितः स मध्यस्थः /
[210|07-210|08] तस्य नावश्यमविज्ञप्तिरस्ति /
[210|08] यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः /
[210|09] वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्
[210|10] ऊर्ध्वं द्विकालया // vakk_4.21 //
[210|11] प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च / आत्यागादिति वर्तते /
[210|11-210|12] किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति /
[210|13] भवन् कदा कियन्तं वा कालमित्याह
[210|14-210|15] असंवरस्थः शुभया ऽशुभया संवरे स्थितः / अविज्ञप्त्यान्वितो यावत् प्रसादक्लेशवेगवान् // vakk_4.22 //
[210|16-210|18] येन प्रसादवेगेनासंवरस्थस्य कुशला ऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशला ऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती /
[210|18-210|19] स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतया ऽपि /
[210|19] अविज्ञप्त्यधिकारः समाप्तः /
[210|20] विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः /
[210|21] सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः /
[210|22] अतीतया क्षणादूर्ध्वमात्यागात्
[210|23] प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति /
[210|24] नास्त्यजातया // vakk_4.23 //
[211|01] अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः /
[211|02] निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः /
[211|03] अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः /
[211|04] दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति / किङ्कृतं तस्या दौर्बल्यम् /
[211|05] चित्तकृतम् / चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् / नैतदेवम् /
[211|05-211|06] जडा हि विज्ञप्तिः परतन्त्रा च /
[211|06] न चैवं चित्तम् /
[211|06-211|07] सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति /
[211|08] असंवरस्थ इत्युक्तम् / को ऽयमसंवरो नाम /
[211|09] असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः // vakk_4.24 //
[211|10] असंवरस्येमे पर्यायशब्दाः / तत्र कायवाचोरसंवरणादसंवरः /
[211|10-211|11] सद्भिः कुत्सितत्वादनिष्टफलत्वाद् दुश्चरितम् /
[211|11] शीलविपक्षाद्दौःशील्यम् / कायवाक्कर्मत्वात्कर्म /
[211|12] मौलसंगृहीतत्वात्कर्मपथः / स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् /
[211|13] तत्र तावत् /
[211|14] विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः /
[211|15-211|17] मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः /
[211|18] त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः // vakk_4.25 //
[211|19-211|20] अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् /
[211|20-211|21] उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् /
[211|22] अथैते संवराः कथं लभ्यन्ते /
[211|23] ध्यानजो ध्यनभूम्यैव लभ्यते
[211|24-211|25] यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरो ऽपि सहभूतत्वात् /
[211|26] अनास्रवस्तया / [211|27] आर्यया
[211|28] तयैव ध्यानभूम्या ऽनास्रवया लभ्यमानया ऽनास्रवः संवरो लभ्यते /
[211|28-211|30] तत्र षट् ध्यानभूमयो ऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः /
[212|01] प्रातिमोक्षाख्यः परविज्ञपनादिभिः // vakk_4.26 //
[212|02] प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते / यद्येनं परो विज्ञपयति असौ च परम् /
[212|03] स पुनः संघाद्वा पुद्गलाद्वा / संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये /
[212|04] दशविधा उपसंपदिति विनयविभाषिकाः / तस्य ऊपसंग्रहणार्थमादिशब्दः /
[212|04-212|09] स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानाम् एहिभिक्षुकया यशःप्रभृतीनाम् शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः /
[212|09-212|10] स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः /
[212|11] यावज्जीवं समादानमहोरात्रं च संवृतेः /
[212|12-212|13] सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम् उपवाससंवरस्याहोरात्रमित्येष नियमः /
[212|13] किं कारणम् / द्वौ हि कालपर्यन्तौ /
[212|13-212|14] अहोरात्रपर्यन्तो जीवितपर्यन्तश्च /
[212|14] अहारोत्राणां पौनरुक्त्येन पक्षादयः / कालो नाम क एष धर्मः /
[212|15] संस्कारपरिदीपनाधिवचनमेतत् / आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते /
[212|16] तमो ऽवस्था रात्रिः / युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः /
[212|17] विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च /
[212|17-212|19] अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ /
[212|19-212|20] इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म /
[212|20] इदमिदानीं संप्रधार्यम् /
[212|20-212|22] किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रके ऽपि संवरसमादानेन संनियोजनार्थमिति /
[212|22] कुतस्त्वेतदेवं तर्क्यते /
[212|22-212|23] अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् /
[212|23-212|24] तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः /
[212|24] असंवरस्येदानीं कः कालनियमः /
[212|25] नासंवरो ऽस्त्यहोरात्रं
[212|26] यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः / किं कारणम् /
[213|01] न किलैवं प्रगृह्यते // vakk_4.27 //
[213|02-213|03] न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति /
[213|03] कुत्सितत्वात्कर्मणः /
[213|03-213|04] एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति /
[213|04] यावज्जीवमप्यस्य लाभो न स्यात् /
[213|04-213|06] यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन /
[213|06] उपवाससंवरस्तु समादानबलाधानादनात्यन्तिके ऽप्याशये लभ्यत एव /
[213|07] संवरार्थित्वात् /
[213|07-213|08] यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सो ऽवश्यं लभेत /
[213|08] न त्वेददृष्टमिति नैवं व्यवस्थाप्यते /
[213|09] अविज्ञप्तिवदसंवरो ऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः /
[213|09-213|10] स एव तु पापक्रियाभिसंधिरसंवरः /
[213|10] सानुबन्धो यतः कुशलचित्तो ऽपि तद्वानुच्यते /
[213|10-213|11] तस्यानिराकृतत्वात् /
[213|12] अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः /
[213|13-213|14] काल्यं ग्राह्यो ऽन्यतो नीचैः स्थितेनोक्तानुवादिता / उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात् // vakk_4.28 //
[213|15] काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य /
[213|15-213|16] यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् /
[213|16-213|17] अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् /
[213|17-213|18] नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वा ऽन्यत्र स्थास्यात् /
[213|18-213|19] अगौरवस्य हि संवरो नोत्पद्यते /
[213|19] दातुश्च वचनमनुब्रुवीत / न पूर्वं न युगपत् /
[213|19-213|20] एवं ह्यसौ परस्मात् गृहीतो भवति /
[213|20] अन्यथा हि दानग्रहणं न सिध्येत् /
[213|20-213|21] समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः /
[213|21] निर्भूषेण च / आजस्रिकमभ्यलङ्कारं मुक्त्वा /
[213|22] आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति /
[213|22-213|23] आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत् पुनः सूर्योदयात् /
[213|23-213|24] अतो ऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः /
[213|24-213|25] एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते /
[213|25] अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् /
[213|25-213|26] यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे /
[213|26-213|27] अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा /
[214|01-214|02] "पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधो ऽयमि"ति /
[214|03] किमर्थं पुनरष्टाङ्गन्युपादीयन्ते / यस्मात्
[214|04] शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् /
[214|05] चत्वार्येकं तथा त्रीणि
[214|06] चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः / प्रकृतिसावद्यविरतित्वात् /
[214|07] एकमप्रमादाङ्ग मद्यपानाद्विरतिः / समात्तशीलो ऽपि मद्यपः प्रमाद्येत /
[214|07-214|08] त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः /
[214|08] संवेगानुगुणत्वात् /
[214|08-214|09] किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् /
[214|10] स्मृतिनाशो मदश्च तैः // vakk_4.29 //
[214|11] मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् /
[214|11-214|12] उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् /
[214|12] मत्तस्य च दौःशील्यमदूरं भवेत् /
[214|12-214|14] काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् /
[214|14] तदभावादुभयं न स्यादिति /
[214|14-214|15] केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते /
[214|15] तस्य शेषाण्यष्टाङ्गानीति /
[214|15-214|16] नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा /
[214|16] एवं तु सति सूत्रपाठो न युज्येत /
[214|16-214|18] अकालभोजनाद्विरति मुक्त्वा "अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय" इति /
[214|18] कस्तर्हि सो ऽन्य उपवासो यस्येमान्यङ्गानि / समुदायस्यावयवा अङ्गानि /
[214|19-214|20] यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथा ऽष्टाङ्ग उपवासो द्रष्टव्यः /
[214|20-214|21] अकालभोजनात् प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च /
[214|21-214|22] धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः / [214|22-214|23] नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति /
[214|23-214|24] पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् /
[214|25] किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि /
[214|26] अन्यस्याप्युपवासो ऽस्ति शरणं त्वगतस्य न /
[214|27-215|01] अनुपवासको ऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा /
[215|01] अन्यत्राज्ञानात् /
[215|01-215|04] सूत्र उक्तं "यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय /
[215|04] इयता उपावासको भवती"ति / तत् किं शरणगमनादेवोपवासको भवति /
[215|05] भवतीति बहिर्देशकाः / न विना संवरेणेति काश्मीराः / यत्तर्हि सूत्र उक्तम् /
[215|06] नास्त्यत्र विरोधः / यस्मादस्योत्पद्यते तत एव
[215|07] उपासकत्वोपगमात्संवृत्
[215|08] उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते /
[215|08-215|09] "यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि"ति /
[215|09-215|10] प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् /
[215|10] लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम्
[215|11] उक्तिस्तु भिक्षुवत् // vakk_4.30 //
[215|12-215|13] यथैवं भिक्षुर्लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासको ऽपि न तु विना संवरेणोपासको ऽस्ति /
[215|14] सर्वे चेत् संवृता एकदेशकार्यादयः कथम् /
[215|15-215|16] यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः /
[215|17] तत्पालनात् किल प्रोक्ताः
[215|18] यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः / सर्वे तु समं संवरस्थाः /
[215|19] इदमुत्सूत्रं वर्तते / किमत्रोत्सूत्रम् /
[215|19-215|20] उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात् प्राणतिपातमित्याहेति /
[215|20] न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः /
[215|21] तत्रैव चोपासकलक्षणोपदेशो नान्यत्र /
[215|21-215|22] यत्र त्वेष पाठो "यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि"ति /
[215|22-215|23] तत्र ते दृष्टसत्या "अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म /
[215|23] जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु"मिति /
[215|23-215|24] न त्वेष लक्षणोपदेशः संवरस्य /
[215|24] प्राणापेतं तु न क्वचित् पठ्यते /
[215|24-216|01] कश्चैतदपरिस्फुटार्थं पठेत् /
[216|01] एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते /
[216|02] कुतो विसर्जनमावेणिकधर्माणाम् /
[216|02-216|03] को ह्यपासकसंवरं जानन् एतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति /
[216|03-216|04] उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते /
[216|04-216|05] "कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारी भवति /"
[216|05-216|06] यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् /
[216|06-216|07] कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति /
[216|07] शास्तृप्रज्ञप्तिवशात् /
[216|08] उपासकत्वादिप्रतिनियमो ऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् /
[216|08-216|09] विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः /
[216|09-216|10] सर्वेषां तु संवराणाम् /
[216|11] मृद्वादित्वं यथा मनः // vakk_4.31 //
[216|12] मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् /
[216|12-216|13] एवं च कृत्वा ऽर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्यात् पृथग्जनस्याधिमात्रः /
[216|13-216|14] किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः /
[216|14] न स्यादन्यत्राज्ञानात् /
[216|15] यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति /
[216|16-216|17] बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः / निर्वाणं चेति शरणं यो याति शारणत्रयम् // vakk_4.32 //
[216|18-216|20] यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति /
[216|20] के पुनस्ते / क्षयज्ञानादयः सपरिवाराः /
[216|20-216|21] रूपकायस्य पूर्वं पश्चाच्चाविशेषात् /
[216|21] किं सर्वबुद्धानथैकम् / लक्षणतः सर्वबुधान् /
[216|21-216|22] मार्गस्याविलक्षाणत्वात् /
[216|22-216|23] यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति /
[216|23] अभेदत्वात् /
[216|24] किं सर्वसंघानथैकम् / लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् /
[216|24-216|26] यत्तु सूत्र उक्तं "यो ऽप्यसौ भविष्यत्यनागते ऽध्वनि संघो नाम तमपि शरणं गच्छतमि "ति /
[216|26] तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् /
[216|26-216|27] यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् /
[216|27-216|28] स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् /
[216|28-216|29] यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति /
[216|29-217|01] आश्रयविपादनात्ते ऽपि विपादिता भवन्तीति वैभाषिकाः /
[217|01] शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति /
[217|01-217|02] किं तर्हि /
[217|02] बुद्धकरका इति / अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् /
[217|02-217|03] अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् /
[217|04] यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति /
[217|04-217|05] एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति /
[217|05-217|06] यो बुद्धं शरणं गच्छति सो ऽष्टादशावेणिकान्बुद्धर्मानित्यपरे /
[217|06-217|07] किंस्वभावानि शरणगमनानि /
[217|07] वाग्विज्ञप्तिस्वभावानि / कः पुनः शरणार्थः /
[217|07-217|08] त्राणार्थः शरणार्थः /
[217|08] तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् / उक्तं हि भगवता
[217|09-217|10] "बहवः शरणं यान्ति पर्वतांश्च वनानि च आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः //
[217|11-217|12] न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् / नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते //
[217|13-217|14] यस्तु बुद्धं च धर्मं च संघं च शरणं गतः / चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा //
[217|15-217|16] दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् / आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् //
[217|17-217|18] एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् / एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते //"इति /
[217|19] एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि /
[217|20-217|21] किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितम् उपासकस्य तु काममिथ्याचारात् /
[217|22] मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः /
[217|23] काममिथ्याचारो हि लोके ऽत्यन्तं गर्हितः / परेषां दारोपघातादापायिकत्वाच्च /
[217|24] न तथा ऽब्रह्मचर्यम् /
[217|24-217|25] सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् /
[217|25-217|26] आर्याश्चाकरणसंवरं काममिथ्याचारात् प्रतिलभन्ते /
[217|26-218|01] जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति /
[218|01-218|02] अक्रियानियमो ह्यकरणसंवरः /
[218|02-218|03] य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्यो ऽपि संवरः प्रतिलब्धो ऽथ न /
[218|03] प्रतिलब्धो मा भूत् प्रादेशिकसंवरलाभ इति /
[218|03-218|04] कथं संवरक्षोभो न भवति /
[218|04] यस्मात्
[218|05] यथाभ्युपगमं लाभः संवरस्य न संततेः // vakk_4.33 //
[218|06] यथा ह्येषामभ्युपगमस्तथा संवरलाभः / कथं चैषामभ्युपगमः /
[218|06-218|07] काममिथ्याचाराद्विरमामीति /
[218|07-218|08] न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः /
[218|09-218|10] अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः /
[218|10] एभिरेव च त्रिभिः कारणैः /
[218|11] "मृषावादातिगर्ह्यत्वात् सौकर्यादक्रियाप्तितः /"
[218|12] मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे /
[218|13-218|15] सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमो ऽप्यात्मनि माविष्कुर्यादिति /
[218|15-218|16] किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् /
[218|17] प्रतिक्षेपणसावद्यान्मद्यादेव
[218|18] किं कारणं मद्यादेव नान्यस्मात् /
[218|19] अन्यगुप्तये // vakk_4.34 //
[218|20] मद्यं पिवतो ऽन्यान्यप्यङ्गान्यगुप्तानि स्युः /
[218|20-218|21] कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते /
[218|21] प्रकृतिसावद्यलक्षणाभावात् /
[218|21-218|22] प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते /
[218|22] शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् /
[218|22-218|23] क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति /
[218|23-218|24] न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति /
[218|24] प्रकृतिसावद्यं मद्यमिति विनयधराः /
[218|24-218|25] "कथं भदन्त ग्लान उपस्थातव्यः /
[218|25-218|26] प्रकृतिसावद्यमुपालिन् स्थापयित्वा" इत्युक्तं भगवता /
[218|26] शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् /
[218|27-218|28] इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि" त्यतः प्रकृतिसावद्यमिति ज्ञायते /
[218|28] आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् /
[218|29] प्राणिवधादिवत् / कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति / नेत्याभिधार्मिकाः /
[219|01-219|02] उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात्/
[219|02] अत एव कुशाग्रपानप्रतिषेधः /
[219|03] आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् /
[219|03-219|04] अल्पकस्याप्यपानमनियमाद्विषवत् /
[219|04] दुश्चरितवचनं प्रमादस्थानत्वात् /
[219|04-219|05] अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् /
[219|05] अत्यासेवितेन दुर्गतिगमनाभिधानम् /
[219|05-219|06] तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा /
[219|06-219|07] सुरामैरेयमद्यप्रमादस्थानमिति को ऽर्थः /
[219|07] सुरा अनासवः / मैरेयं द्रवासवः /
[219|07-219|08] ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् /
[219|08-219|09] पूगफलकोद्रवादयो ऽपि मदयन्तीति सुरामैरेयग्रहणम् /
[219|09-219|10] प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् /
[219|10] सर्वप्रमादास्पदत्वादिति /
[219|11-219|12] य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ /
[219|12] नेत्याह / किं तर्हि /
[219|13] सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते /
[219|14] वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः /
[219|15] सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः /
[219|15-219|17] उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते /
[219|17] सत्त्वाधिष्टानप्रवृत्तत्वात् नातीतानागतेभ्यः / तेषामसत्त्वसंख्यातत्वात् /
[219|18] मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ // vakk_4.35 //
[219|19-219|21] मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्यो ऽपि /
[219|21] अत एव चतुष्कोटिकं क्रियते /
[219|21-219|22] सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः /
[219|22-219|23] प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च /
[219|23-219|24] द्वितीया ऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः /
[219|24] तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः /
[220|01] चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति /
[220|01-220|02] नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् /
[220|02-220|03] अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् /
[220|04-220|05] अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः /
[220|05] नियतं तावत् लभ्यते /
[220|06] संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः /
[220|07] सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चित् अङ्गेभ्यस्तु विभाषा /
[220|07-220|08] कश्चित् सर्वेभ्यो लभ्यते /
[220|08] भिक्षुसंवरः / कश्चिच्चतुर्भ्यः / ततो ऽन्यः /
[220|08-220|09] कर्मपथा हि संवरस्याङ्गानि /
[220|09] कारणैरपि केनचित् पर्यायेण सर्वैः केनचिदेकेन / केन तावत्सर्वैः /
[220|10] यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते / केनै केन /
[220|10-220|11] यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते /
[220|11-220|12] पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः /
[220|12-220|13] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते /
[220|13-220|14] अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः /
[220|14] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते /
[220|15] अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च /
[220|15-220|16] यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते /
[220|16] अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः /
[220|16-220|17] य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते / [220|17-220|18] यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति /
[220|18-220|19] यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् /
[220|19-220|20] पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते /
[220|20] सत्त्वाङ्गदेशकालसमयनियमात् /
[220|20-220|21] अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः /
[220|21] अमुष्मादङ्गादित्यङनियमः / अमुस्मिन देश इति देशनियमः /
[220|22] मासाद्यावदिति कालनियमः / अन्यत्र युद्धादिति समयनियमः /
[220|22-220|23] सुचरितमात्रं तु स्यात्तथा गृह्णतः /
[220|23] कथमशक्येभ्यः संवरलाभः /
[220|23-220|24] सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् /
[220|24-220|25] यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् /
[220|25] शक्याशक्यानामितरेतरसंचारात् /
[220|25-220|26] एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः /
[220|26] नैवं भविस्यति /
[220|26-221|01] यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारे ऽपि न स्याताम् /
[221|01] न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् /
[221|01-221|02] को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् /
[221|02-221|04] यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः /
[221|04] तस्मात्पूर्वक एव परिहारः साधुः /
[221|04-221|06] एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत /
[221|06] सर्वेषां सत्त्वेभ्यो लाभात् /
[221|06-221|07] यदि हि ते ऽप्यभविष्यं स्तेभ्यो ऽपि ते ऽलप्स्यन्त /
[221|07] उक्तं यतः संवरो लभ्यते /
[221|08] असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः // vakk_4.36 //
[221|09] असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च /
[221|09-221|10] नास्ति हि विकलेनासंवरेणासंवरिकः /
[221|10] न तु सर्वकारणैर्युगपत् मृद्वादिचित्तासंभवात् /
[221|10-221|12] यो मृदुना चित्तेनासंवरं प्रतिलभते सो ऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या /
[221|12-221|13] एवं मध्याधिमात्रेण योज्यम् /
[221|13-221|15] तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च /
[221|15-221|16] राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात् तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा /
[221|16-221|17] उरभ्रान् घ्नन्तीति औरभ्रिकाः /
[221|17] एवमन्ये ऽपि योज्याः /
[221|17-221|18] युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः /
[221|18] सर्वसत्त्वहिताध्याशयेन ग्रहणात् /
[221|18-221|20] औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते /
[221|20] मात्रादीनपि हि त उरभ्रीभूतान् हन्युः /
[221|20-221|21] न हि तावत्ते त एव इति विद्वांसो हन्युः /
[221|21-212|22] आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् /
[221|22-221|23] यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात् सर्वथा न हन्युरिति इन स्यात्तेभ्य्यो ऽसंवरः /
[221|23-222|01] कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः /
[222|01] एतन्मात्रादिषु समानम् /
[222|01-222|02] कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति /
[222|02] यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च /
[222|03] कथमस्य पूर्वङ्गेभ्यो ऽसंवरः स्यात् / आशयस्याविपन्नत्वात् /
[222|03-222|04] मूको ऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति /
[222|04-222|05] यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते /
[222|05] सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः /
[222|05-222|07] यथा भ्युपगमं विकलो ऽपि स्यात् प्रादेशिको ऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः /
[222|07] तन्मात्रशील दौःश्लील्यप्रतिबन्धात् /
[222|08] उक्तमिदमसंवरस्य येभ्यो लाभः / कथं तु लाभ इति नोक्तम् / तत इदमुच्यते /
[222|09] असंवरस्य क्रियया लाभो ऽभ्युपगमेन वा /
[222|10] द्वाभ्यां कारणाभ्यामसंवरो लभ्यते /
[222|10-222|11] वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः /
[222|11] वयमप्यनया जीविकया जीविष्याम इति /
[222|12] शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् // vakk_4.37 //
[222|13] क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते /
[222|13-222|14] यथौपधिकेषु पुण्यक्रियावस्तुषु /
[222|14-222|15] अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि /
[222|15-222|16] आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्याविज्ञप्तिरुत्पद्यते /
[222|16-222|17] उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः /
[222|18] त्याग इदानीं वक्तव्यः / तत्र तावत्
[222|19-222|20] प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः / उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् // vakk_4.38 //
[222|21] दाम्यन्त्यनेनेति दमः संवरो ऽभिप्रेतस्तेनेन्द्रियदमनात् /
[222|21-222|22] चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः /
[222|22] स्थापयित्वोपवासम् /
[222|22-222|24] शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात् युगपदु भयव्यञ्जनप्रादुर्भावात् कुशलमूलसमुच्छेदाच्च /
[222|24] उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च /
[222|24-222|25] तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति /
[222|25-222|26] किं पुनः कारणमेभिः कारणैस्त्यागो भवति /
[222|26-222|27] समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च /
[223|01] पतनीयेन चेत्येके
[223|02] अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति /
[223|03] सद्धमन्तिर्धितो ऽपरे /
[223|04] सद्धर्मस्यान्तर्धानादित्यपरे /
[223|04-223|05] यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति /
[223|06] धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम् // vakk_4.39 //
[223|07] काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति /
[223|07-223|08] न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः /
[223|08] किं कारणम् / न ह्येकदेशक्षोभात् कृत्स्न संवरत्यागो युक्त इति /
[223|09] नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः / किं तर्हि /
[223|09-223|10] द्वयमस्य भवति शीलं दौःशील्यं च /
[223|10] यथा कस्यचिद्धनं स्यादृणं च /
[223|10-223|11] आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति /
[223|12] यत्तर्हि भगवतोक्तम् "भिक्षुर्भवत्यश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् /"
[223|13] कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति /
[223|13-223|14] परमार्थभिक्षुत्वं संधायैतदुक्तम् /
[223|14] इदमभिसाहसं वर्तते / किमत्राभिसाहसम् /
[223|14-223|15] यत् भगवता नीतार्थं पुनरन्यथा नीयते /
[223|15] दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते /
[223|15-223|16] कथमेत नीतार्थम् /
[223|16] एष हि विनये निर्देषः / "चतुर्विधो भिक्षुः /
[223|17] संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात् भिक्षुः /
[223|17-223|18] अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि"ति /
[223|18-223|21] न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत् यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तो ऽनुयोग "स्तद्यथा तालो मस्तकाच्छिन्नो ऽभव्यो ऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु" मित्युपमां कुर्वता /
[223|21] कः पुनरूपमार्थः /
[223|21-223|22] एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति /
[223|22-223|24] स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः /
[223|23-224|02] यस्य चैकग्रासपरिभोगो ऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगो ऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तं /
[224|03-224|04] "नाशयत कारण्डवकं कशम्बकमपकर्षत / अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्"इति //
[224|05] तस्य कीदृशो भिक्षुभावः / यादृशस्तादृशो ऽस्तु / अस्ति तु भिक्षुभावः /
[224|05-224|06] तथाहि "चत्वारः श्रमणा न पञ्चमो ऽस्ति चुन्दे"ति
[224|07] भगवानवोचत्
[224|08-224|09] "मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी" अस्त्येतदुक्तम् /
[224|09-224|10] स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् /
[224|10-224|11] यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् /
[224|11] न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति /
[224|11-224|12] यस्तु पाराजिकः सो ऽवश्यमभिक्षुः /
[224|12-224|13] कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना /
[224|13-224|14] यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते /
[224|14-224|15] तीव्रानपत्राप्यविपादितत्वात् संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया /
[224|15] तथा ह्यसौ निक्षिप्तशिक्षो ऽपि न प्रव्राज्यते /
[224|15-224|16] कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतो ऽपि भिक्षुर्नमो ऽस्तु तस्मै तादृशाय भिक्षुत्वाय /
[224|17] सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति /
[224|17-224|18] लब्धस्य तु नास्ति त्यागः /
[224|19] अथ ध्यानानास्रवसंवरयोः कथं त्यागः /
[224|20] भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् /
[224|21] सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते /
[224|21-224|22] उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् /
[224|23] यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते
[224|24] तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः // vakk_4.40 //
[224|25] अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते /
[224|25-225|01] फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते /
[225|01] इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः / परिहाणित उत्तरो मार्गः /
[225|01-225|02] फलं फलविशिष्टो वा /
[225|02] एवं तावत् संवरास्त्यज्यन्ते /
[225|03] असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः /
[225|04] त्रिभिः कारणैरसंवरच्छेदः / संवरप्राप्तितः /
[225|04-225|05] यदि संवरं समादत्ते ध्यानसंवरं वा लभते /
[225|05] हेतुप्रत्ययबलेन समाधिलाभात् / तेनासंवश्छिद्यते /
[225|05-225|06] प्रतिद्वन्द्वबलीयस्त्वात् /
[225|06] मरणेनाश्रयत्यागात् / द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति /
[225|06-225|07] शस्त्रजालत्यागे ऽप्यकरणाशयतः /
[225|07] संवरमन्तरेणासंवरच्छेदो नास्ति /
[225|07-225|08] निदानपरिवर्जने ऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् /
[225|09-225|10] य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् /
[225|10] असंवरमित्येके / त्यागाशयस्यानात्यन्तिकत्वात् /
[225|10-225|11] प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे /
[225|11-225|12] तल्लाभस्य विज्ञप्त्यधीनत्वात् /
[225|13] अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते /
[225|14] वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा // vakk_4.41 //
[225|15-225|16] येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्सा ऽपि च्छिद्यते /
[225|16] कुम्भकारचक्रेषुगतिवत् / आदानत्यागादपि च्छिद्यते /
[225|17] यदि समादानं त्यजत्यलं समादानेनेति /
[225|17-225|18] क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः /
[225|18] अर्थविच्छेदादपि विच्छिद्यते / कतमस्यार्थस्य /
[225|18-225|19] चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः /
[225|19-225|20] आयुषो ऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते /
[225|20-225|21] यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते /
[225|22] कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः /
[225|23] कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते /
[225|23-225|24] कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा /
[225|25] प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते // vakk_4.42 //
[226|01] क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते /
[226|01-226|02] यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा /
[226|03] अथ केषां सत्त्वानामसंवरो भवति केषां संवरः /
[226|04] नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् /
[226|05] कुरुंश्च
[226|06] मनुष्यगतावेवासंवरो नान्यत्र /
[226|06-226|07] तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा /
[226|08] संवरो ऽप्येवं देवानां च
[226|09] संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः /
[226|09-226|10] शण्ढादीनां संवरो नास्तीति कथं गम्यते /
[226|10] सूत्राद्विनयाच्च /
[226|10-226|12] सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती"ति /
[226|12-226|13] विनये ऽपि तद्रूपो नाशयितव्य उक्तः /
[226|13] किं पुनः कारणमेषां संवरो नास्ति /
[226|13-226|14] उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च /
[226|14] असंवरस्तर्हि कस्मान्नास्ति /
[226|14-226|15] पापे ऽप्यस्थिराशयत्वात् /
[226|15] यत्रैअव च संवरस्तत्रासंवरो ऽपि प्रतिद्वन्द्वभावात् /
[226|15-226|16] उत्तरकोरवाणां समादानसमाध्यभावात् पापक्रियाशयाभावाच्च संवरासंवराभावः /
[226|16-226|17] आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद् यद्विपादनाच्च संवरासंवरौ स्याताम् /
[226|18-226|20] अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरो ऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति /
[226|20-226|21] यत्तर्हि सूत्र उक्तम् "अण्डजो भिक्षवो नागो ऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती"ति /
[226|22] सुचरितमात्रं तत्तेषां न संवरः / तस्मादेवमनुष्याणामेव संवरः / तत्र पुनः
[226|23] नृणां त्रयः // vakk_4.43 //
[226|24] मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते /
[226|25] कामरूपजदेवानां ध्यानजः
[226|26] ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति /
[226|27] अनास्रवः पुनः /
[227|01] ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् // vakk_4.44 //
[227|02-227|03] अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा /
[227|03] आरूप्योपपन्नानामपि तेषां तु समन्वागमतो ऽस्ति न संमुखीभावतः /
[227|04] अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते /
[227|05] त्रीणि कर्माणि / कुशलं कर्माकुशलमव्याकृतं कमेति / तत्र
[227|06] क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् /
[227|07] इदं कुशलादीनां लक्षणम् /
[227|07-227|08] क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् /
[227|08-227|09] तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः /
[227|09-227|10] ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत् वेदितव्यम् /
[227|10] अव्याकृतमित्यर्थः / पुनः
[227|11] पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम् // vakk_4.45 //
[227|12] त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च / पुनः त्रीणि /
[227|12-227|13] सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च /
[227|13] तत्र तावत्
[227|14] कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् /
[227|15] शुभमिति वर्तते / रूपारूप्यावचरं कुशलं कर्मानेञ्जम् /
[227|15-227|16] ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता /
[227|16-227|17] "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि /
[227|17] समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् /
[227|18] आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे /
[227|18-227|19] आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य /
[227|19] किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् /
[227|20] तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति // vakk_4.46 //
[227|21] कामावचरं हि विपाकं प्रति कम्पते / कथं कम्पते / अव्यवस्थानात् /
[227|21-227|22] अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते /
[227|22] अन्यदेवनैकायिकं चान्य देवनिकाये /
[227|22-227|24] यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते /
[227|24-227|25] रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते /
[227|25-228|01] तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते /
[228|01] अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके /
[228|02] यश्च लोकतो ऽर्थः प्रसिद्धः किं तत्र यत्नेन / कृतः पुण्यादीनां कर्मणां निर्देशः /
[228|03] सुखवेदनीयादीनां कर्तव्यः / स एष क्रियते /
[228|04] सुखवेद्यं शुभं ध्यानादातृतीयात्
[228|05] कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद्ध्यानात् /
[228|05-228|06] एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि /
[228|07] अतः परम्
[228|08] अदुःखासुखवेद्यं तु
[228|09] शुभमिति वर्तते /
[228|09-228|10] तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदना ऽभावात् /
[228|11] दुःखवेद्यमिहाशुभम् // vakk_4.47 //
[228|12] अकुशलं कर्म दुःखवेदनीयम् / इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् /
[228|12-228|13] न चैषां वेदनैव फलम् /
[228|13] किं तर्हि / ससंभारा /
[228|14] अधो ऽपि मध्यमस्त्येके /
[228|15] अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधो ऽप्यस्ति /
[228|16] किं कारणम् /
[228|17] ध्यानान्तरविपाकतः /
[228|18] इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः /
[228|18-228|19] तत्र सुखदुःखयोरभावात् /
[228|19] ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके /
[228|19-228|20] नैव तस्य वेदना विपाक इत्यपरे /
[228|20] तदेतदुच्छास्त्रम् /
[228|20-228|21] शास्त्रे हि पठितं "स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत /
[228|21] स्यात्कुशलस्यावितर्कस्य कर्मण" इति /
[228|22] अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः // vakk_4.48 //
[228|23] यतश्चोक्तं सूत्रे "स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत /
[228|23-228|24] स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः /
[228|24-228|25] अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता" इत्यतो ऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् /
[228|25-229|01] नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः /
[229|01] किमिदानीं तत्कुक्शलमाहोस्विदकुशलं /
[229|01-229|02] दुर्बलं तु तत् /
[229|02-229|03] एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीया" "दिष्ट-विपाकं च कुशल" मित्यस्य विरोधः /
[229|03] बाहुलिक एष निर्देशो द्रष्टव्यः /
[229|03-229|04] कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते /
[229|04-229|05] सुखवेदनायै हितं सुखवेदनोयं सुखो ऽस्य वेदनीय इति वा /
[229|05] कश्च वेदनीयः / यो विपाकः /
[229|05-229|06] स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते /
[229|06] स्नानीयकपायवत् /
[229|06-229|07] एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् /
[229|07] अपि च /
[229|08-229|09] स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः / संमुखीभावतश्चेति पञ्चधा वेदनीयता // vakk_4.49 //
[229|10] स्वभाववेदनीयता वेदनानाम् / स्वभावेनैव वेदनीयत्वात् /
[229|10-229|11] संप्रयोगवेदनीयता स्पर्शस्य /
[229|11] "सुखवेदनीयः स्पर्शः" इति / आलम्बनवेदनीयता विषयाणाम् /
[229|11-229|13] यथोक्तं "चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी"त्येवमादि /
[229|13] वेदनया हि तामालम्बमानः प्रतिसंवेदयते /
[229|13-229|14] विपाकवेदनीयता कर्मणः /
[229|14] "दृष्टधर्मवेदनीयं कर्मे"ति विस्तरः / संमुखीभाववेदनीयता /
[229|15-229|16] यथोक्तं "यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत" इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
