Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[162|10] तेषां खलु द्वीपानामन्तराले ऽन्तरद्वीपा अभिनिर्वृत्ताः /

[162|10-162|11] के पुनस्ते कति चेत्याह

[162|12-162|13] देहा विदेहाः कुरवः कौरवाश्चामरावराः / अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः // vakk_3.56 //

[162|14] तत्र देहविदेहौ पूर्वविदेहपरिवारौ / कुरुकौरवौ उत्तरकुरोः /

[162|14-162|15] गाठोत्तरमन्त्रिणावपरगोदानीयस्य /

[162|15] चामरावरौ जम्बूद्वीपस्य / सर्वे मनुष्यैरावासिताः /

[162|15-162|16] एको राक्षसैरित्यपरे /

[162|17] इहोत्तरेण कीटाद्रिनवकाद्धिमवान्

[162|18-162|19] इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः /

[162|20] ततः /

[162|21] पञ्चाशद्विस्तृतायामं सरो ऽर्वाग्गन्धमादनात् // vakk_3.57 //

[162|22-162|23] तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक् यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च /

[162|23-162|24] तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः /

[162|24] पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः /

[162|24-162|25] दुर्गमं च मनुअष्याणामनृद्धिमताम् /

[162|25-162|26] तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः /

[162|26-162|27] तत्फलाधिकारेण वा जम्बूद्वीप इति /

[162|28] नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च /

[163|01] अधः सहस्रैविंशत्या तन्मात्रो ऽवीचिरस्य हि /

[163|02-163|03] अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति /

[163|03-163|04] दुःखनिरन्तरत्वादवीचिः /

[163|04-163|05] अन्येषु सान्तरं दुःखम् तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति /

[163|05-163|06] अत एव संजीवः /

[163|06] नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे /

[163|06-163|07] अन्येष्वपि सुखा वेदना विपाको नास्ति /

[163|07] नैः ष्यन्दिकी न वार्यते /

[163|08] तदूर्ध्वं सप्त नरकाः

[163|09] तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः /

[163|09-163|10] प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च /

[163|10] अवीचिपार्श्वेष्वित्यपरे / ते पुनः

[163|11] सर्वे ऽष्टौ षोडशोत्सदाः // vakk_3.58 //

[163|12] उक्तं हि भगवता

[163|13-163|14] "इत्येते नरका अष्टावाख्याता दुरतिक्रमाः / रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः //

[163|15-163|16] चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशो ऽसिताः / अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः //

[163|17-163|18] तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता / अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे"ति /

[163|19] षोडशोत्सदाः कतमे /

[163|20] कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी /

[163|21] तेषां चतुर्दिशं /

[163|22] द्वारे द्वारे तेषां चत्वार उत्सदाः / कुकूलं जानुमात्रम् /

[163|22-163|23] यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् /

[163|24-163|25] कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति /

[163|25-164|01] क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् /

[164|01-164|02] असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति /

[164|02-164|03] अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् /

[164|03-164|04] तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः /

[164|04-164|05] अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति /

[164|05-164|06] तदेतत् क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते /

[164|06-164|08] चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते /

[164|09] तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः /

[164|09-164|10] सा हि महानरकस्य परिखेवोत्पन्ना /

[164|10] त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते /

[164|11] अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते / नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते /

[164|12] नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे /

[164|13] प्रश्नात्प्रश्नान्तरमुपजायते /

[164|13-164|14] किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति /

[164|14] नेत्येके / कथमिदानीं चेष्टन्ते /

[164|14-164|15] सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् /

[164|15] यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं

[164|16-164|17] "क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये / दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा" इति //

[164|18-164|19] ये ते यमेनानुशिष्टाः सत्त्वान् नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति /

[164|19] सत्त्वसंख्याता इत्येके / तस्येदानीं कर्मणः क्व विपाकः /

[164|20-164|21] तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः /

[164|21] कथमग्निना न दह्यन्ते / अग्नेर्नूनं कर्मभिः कृतावधित्वात् /

[164|21-164|22] भूतविशेषनिर्वृत्तेर्वा /

[164|23] इमे तावदुष्णा अष्टौ महानरका उच्यन्ते /

[164|24] शीता अन्ये ऽष्टावर्वुदादयः // vakk_3.59 //

[164|25] अन्ये शीतनरका अष्टौ /

[164|25-165|01] तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च /

[165|01-165|02] तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि /

[165|02] ते ऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् /

[165|02-165|03] कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः /

[165|03-165|04] धान्यराशिवदधो विशाला हि द्वीपाः /

[165|04] अत एव महासमुद्रो ऽनुपूर्वनिम्नः /

[165|04-165|05] इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः /

[165|05-165|06] प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः /

[165|06] बहूनां सत्त्वानां द्वयोरेकस्य वा /

[165|06-165|07] तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वा ऽधश्च भावात् /

[165|07-165|08] एष तावन्नरकभाजनानां संनिवेशः /

[165|08] तिर्यञ्चः स्थलजलाकाशगोचराः /

[165|08-165|09] तेषां किल मूलं स्थानं महासमुद्रस्ततो ऽन्यत्र विसृता इति /

[165|09] प्रेतानां यमो राजा /

[165|09-165|10] तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततो ऽन्यत्र विसृताः /

[165|11] केचित् प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति / शेषा यथा प्रेतावदाने /

[165|12] अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ / वायौ /

[165|12-165|13] वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत् सुमेरुं परिवर्तन्ते /

[165|13-165|14] चन्द्रार्कताराणां वोर्ध्वचारः /

[165|14] कियद्वीप्रकृष्टावितश्चन्द्रार्कौ /

[165|15] अर्धेन मेरोश्चन्द्रार्कौ /

[165|16] युगन्धरगिरेर्मूर्ध्ना समं वहतः / किं प्रमाणौ / यथाक्रमं

[165|17] पण्चाशत्सैकयोजनौ /

[165|18] पञ्चाशत् योजनानि चन्द्रमण्डलस्य प्रमाणम् /

[165|18-165|19] सैकानि पञ्चाशत् सूर्यमण्दलस्य प्रमाणम् /

[165|19] एकपञ्चाशदित्यर्थः /

[165|19-165|20] तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः /

[165|20-165|21] सूर्यविमानस्याधस्तात् वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च /

[165|21-165|22] चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च /

[165|22-165|23] प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् /

[165|23] चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः /

[165|23-165|24] किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति /

[165|24] नेत्याह / किं तर्हि / तेषु /

[165|25] अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् // vakk_3.60 //

[165|26-165|27] यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः /

[165|27] एवमन्येष्वपि योज्यम् / सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ /

[165|28] तत्र पुनः

[166|01] प्रावृण्मासे द्वितीये ऽन्त्यनवम्यां वर्धते निशा /

[166|02] वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः /

[166|03] हेमन्तानां चतुर्थे तु हीयते

[166|04] सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते / अन्त्यनवम्यामिति वर्त्तते /

[166|04-166|05] फाल्गुनमासस्य द्वितीयपक्षनवम्याम् /

[166|06] अहर्विपर्ययात् // vakk_3.61 //

[166|07] यदा रात्रिर्वर्धते तदा दिवसो हीयते / यदा रात्रिर्हीयते तदा दिवसो वर्धते /

[166|08] कियत्या मात्रया वर्धते /

[166|09] लवशो रात्र्यहर्वृद्धी

[166|10] लवं लवं रात्रिर्वर्धते दिवसो वा / ते च हानिवृद्धी यथाक्रमं

[166|11] दक्षिणोत्तरगे रवौ /

[166|12] जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः /

[166|13] शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते / किं तत्र कारणम् /

[166|14] स्वच्छायया ऽर्कसामीप्याद्विकलेन्दुसमीक्षणम् // vakk_3.62 //

[166|15-166|16] यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति /

[166|16-166|17] ततो ऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः /

[166|17-166|18] वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः /

[166|18-166|19] अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति /

[166|19] देवाश्चातुर्महाराजकायिकाः / किमेतान्येव तेषां स्थानानि /

[166|20] विमानवासिनामेतानि / भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि /

[166|20-166|21] कति चास्य परिषण्डाः कियत्यो वा /

[166|22] परिषण्डाश्चतस्रो ऽस्य दशसाहस्रिकान्तराः /

[166|23]/ दशयोजनसहस्राण्युद्गम्यैका / एवं यावच्चतुर्थी / ताभिः सुमेरोरर्धमाक्षिप्तम् /

[166|24] ताश्च ततो यथासंख्यं

[167|01] षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः // vakk_3.63 //

[167|02] प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता /

[167|03] द्वितीया ऽष्टौ तृतीया चत्वारि चतुर्थी द्वे /

[167|04] करोटपाणयस्तासु मालाधारास्सदामदाः /

[167|05] महाराजिकदेवाश्च

[167|06] प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति /

[167|06-167|07] द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः /

[167|07] सर्व एते चतुर्महाराजकायिकाः /

[167|07-167|08] चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च /

[167|08-167|09] अतस्तस्यां महाराजकायिका देवा इत्युक्तम् /

[167|09] यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं

[167|10] पर्वतेष्वपि सप्तसु // vakk_3.64 //

[167|11] युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः / अत एवैष देवनिकायः सर्वेषां महिष्ठः /

[167|12] मेरुमूर्ध्नि त्रयस्त्रिंशाः

[167|13] अथ कियान्मेरुमूर्धा /

[167|14] स चाशीतिसहस्रदिक् /

[165|15] एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् /

[167|15] अन्ये पुनराहुः /

[167|15-167|16] स विंशतिसहस्रदिक् /

[167|16] चत्वारि पार्श्वन्यस्य चतस्रो दिशः /

[167|16-167|17] एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात् परिक्षेपेणाशीतिरिति //

[167|17] तस्य च

[167|18] विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः // vakk_3.65 //

[167|19] सूमेरुमूर्ध्नो विदिशः कोणाः /

[167|19-167|20] तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति /

[167|20] तस्य च मेरुमूर्ध्नः

[167|21-167|22] मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् / पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु // vakk_3.66 //

[167|23-167|24] सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरम् दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् /

[167|24-167|25] प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता /

[167|25-167|26] तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी /

[168|01] सार्धद्विशतपाश्र्वो ऽत्र वैजयन्तः

[168|02-168|04] शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् /

[168|04] इयं तावन्नगरस्याभिरामता /

[168|05] बहिः पुनः /

[168|06] तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् // vakk_3.67 //

[168|07] तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः /

[168|08] चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च / तैस्तन्नगरं बहिरलङ्कृतम् /

[168|09] विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् /

[168|10-168|11] एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति /

[168|12] वहिरेव नगरस्य पार्श्वे

[168|13] पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे // vakk_3.68 //

[168|14] पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः /

[168|14-168|15] तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः/

[168|15-168|16] पञ्चाशत् योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति /

[168|16-168|17] तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् /

[168|17] युक्तं तावदनुवातम् /

[168|17-168|18] प्रतिवातं तु कथम् /

[168|18] वृक्षानतिक्रमं संधायोक्तमित्येके /

[168|18-168|19] नहि नाम स्प्रतिवातं वातो वाति /

[168|19-168|20] तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात् प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति /

[168|20-168|21] मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति /

[168|21-168|22] किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते /

[168|22] नात्र नियमः /

[168|23] उभयथापि ह्याचार्येष्टिः / यत्तर्हि भगवतोक्तं

[168|24-168|25] "न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा / सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती"ति /

[169|01] मानुष्यकं पुष्पगन्धं संधायोक्तम् / तद्धि प्रतीतं लोके /

[169|01-169|03] न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति "योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति /

[169|03-169|04] सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति /

[169|04] एष तावत्त्रिदशानां भाजनसंनिवेशः /

[169|05] ततऊर्ध्वं विमानेषु देवाः

[169|06] त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः /

[169|06-169|07] ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः /

[169|08] इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते /

[169|09] कामभुजस्तु षट् /

[169|10] तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः /

[169|10-169|11] तद्यथा चतुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः /

[169|11] ते पुनः

[169|12] द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः // vakk_3.69 //

[169|13] द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् /

[169|13-169|14] चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् /

[169|14] तेषां तु वायुनिर्मोक्षात् दाहविगमः शुक्राभावात् /

[169|14-169|15] आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् /

[169|15-169|16] पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् /

[169|16-169|17] स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या /

[169|17] कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः /

[169|17-169|18] यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः /

[169|18-169|19] यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता /

[169|19-169|20] कियत्प्रमाणो जायते /

[169|21] पञ्चवर्षोपमो यावत् दशवर्षोपमः शिशुः /

[169|22] संभवत्येषु

[169|23] यथासंख्यं षट्सु देवनिकायेषु / ते तु क्षिप्रमेवाभिवर्धन्ते /

[169|24] संपूर्णाः सवस्त्राश्चैव रूपिणः // vakk_3.70 //

[170|01] रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते /

[170|01-170|02] सर्वे देवा आर्यभाषाभाषिणः /

[170|02] तदत्र कामधातौ वेदितव्याः

[170|03] कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः /

[170|04] कथं कृत्वा /

[170|04-170|05] सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति /

[170|05] तद्यथा मनुष्यास्तदेकत्याश्च देवाः / ते पुनश्चत्वारो देवनिकायाः /

[170|06] सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति /

[170|06-170|07] तद्यथा देवा निर्माणरतयः /

[170|07-170|08] सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति /

[170|08] तद्यथा देवाः परनिर्मितवशवर्त्तिनः /

[170|08-170|10] ता एता यथोत् पन्नपरिभोगित्वात् यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते /

[170|10] रूपधातौ तु

[170|11] सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः // vakk_3.71 //

[170|12] त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः /

[170|12-170|14] ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति /

[170|14] अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः /

[170|14-170|15] ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् /

[170|16-170|17] यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् /

[170|17] नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् / अपि तु

[170|18] स्थानात् स्थानादधो यावत्तावदूर्ध्वं ततस्ततः /

[170|19-170|20] जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत् पुनस्तस्मादूर्ध्वं स्थानान्तरम् /

[170|20-170|21] तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि /

[170|21-170|22] तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानम् तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् /

[170|23] ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति /

[170|23-170|24] एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् /

[170|25] तस्मादूर्ध्वं न पुनः स्थानमस्ति / अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते /

[170|25-170|26] अघनिष्ठा इत्यपरे /

[170|26] अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति /

[170|27] किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति

[171|01] नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् // vakk_3.72 //

[171|02] ऋद्ध्या वा त्रायस्त्रिंशा यामान् / गच्छेयुः /

[171|02-171|03] पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन /

[171|03] एवं शेषाः /

[171|03-171|04] आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् /

[171|04] यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् /

[171|04-171|05] अत एव तेनास्वेन कायेनागच्छन्ति /

[171|05-171|06] किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः /

[171|07] अथैषां यामादिविमानानां कियत् प्रमाणम् /

[171|07-171|08] चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके /

[171|08] द्विगुणोत्तरमित्यपरे / प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः /

[171|08-171|09] द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः /

[171|09] तृतीयं यावान् द्विसाहस्रः /

[171|09-171|10] चतुर्थं यावांस्रिसाहस्र इत्येके /

[171|10] प्रथमादीनि साहस्रादिपरिमाणानि /

[171|10-171|11] चतुर्थं त्वपरिमाणमित्यपरे /

[171|12] अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा /

[171|13-171|14] चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् / ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः // vakk_3.73 //

[171|15-171|17] सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत् परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः /

[171|18] तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः /

[171|19] तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः /

[171|20] तत्सहस्रं त्रिसाहस्रः

[171|21] तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः /

[171|21-171|22] एष हि कृत्स्नः

[171|23] समसंवर्तसंभवः // vakk_3.74 //

[171|24] समं संवर्तते समं विवर्तते / संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते /

[171|25-171|26] किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति /

[171|26] अस्तीत्याह / तत्र तावत्

[171|27] जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः /

[171|28] जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः

[172|01] द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः // vakk_3.75 //

[172|02-172|03] पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् /

[172|04] पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् /

[172|05] कामिनां

[172|06] पादः क्रोशस्य चतुर्थो भगः /

[172|06-172|08] तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनां अध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् /

[172|09] रुपिणां त्वादौ योजनार्धं

[172|10] रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् /

[172|11] ततः परम् // vakk_3.76 //

[172|12] अर्धार्धवृद्धिः

[172|13] त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणो ऽध्यर्धं परीत्ताभानां द्वे योजने /

[172|14-172|15] उर्ध्वं तु परीत्ताभेभ्य आश्रयः / द्विगुणद्विगुणा हित्वा ऽनभ्रकेभ्यऽस्त्रियोजनम् // vakk_3.77 //

[172|16] अप्रमाणाभानां चत्वारि योजनानि / आभास्वराणामष्टौ /

[172|16-172|17] एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः /

[172|17-172|18] अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् /

[172|18-172|19] तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् /

[172|20] एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः / अस्तीत्याह /

[172|21] सहस्रमायुः कुरुषु

[172|22] वर्षाणाम् /

[172|23] द्वयोरर्धार्धवर्जितम् /

[172|24] द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् /

[172|24-172|25] अर्धतृतीये वर्षशते पूर्वविदेहानाम् /

[173|01] इहानियतम्

[173|02] जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित् भूयो भवति कदाचिदल्पीयः /

[173|03] अन्ते तु दशाब्दाः

[173|04] अब्दः संवत्सरः / अन्ते हीयमानं दश वर्षाण्यायुर्भवति /

[173|05] आदितोऽमितम् // vakk_3.78 //

[173|06] आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति /

[173|06-173|07] सहस्रादिसंख्यया परिमातुं न शक्यते /

[173|08] उक्तं मनुष्याणां देवानां वक्तव्यम् /

[173|08-173|09] तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते /

[173|10-173|11] नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् / कामेऽधराणां

[173|12-173|13] यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् /

[173|14] तेनायुः पञ्चवर्षशतानि तु // vakk_3.79 //

[173|15-173|16] तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् /

[173|17] द्विगुणोत्तरमूर्ध्वानामुभयं

[173|18] ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च / कथं कृत्वा /

[173|18-173|19] यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् /

[173|19-173|20] तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः /

[173|20] एवं यामादीनां यथाक्रमम् /

[173|20-173|21] मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् /

[173|21-173|22] तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् /

[173|22] युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् //

[173|22-173|23] कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा /

[173|23-173|24] पुष्पाणां संकोचविकासात्कुमुदबन्धु वत् शकुनीनां कूजनाकूजनात् मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् /

[173|25] उक्तमायुः कामिनाम् /

[174|01] रूपिणां पुनः /

[174|02] नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः // vakk_3.80 //

[174|03] येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः / येषां योजनं तेषां कल्पम् /

[174|03-174|05] एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् /

[174|06] आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् /

[174|07] आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् /

[174|08] विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि /

[174|08-174|09] आकिञ्चन्यायतने तस्मादधिकं विंशतिः /

[174|09] भवाग्रे तस्मादधिकं विंशतिः /

[174|09-174|10] एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् /

[174|11-174|12] कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः /

[174|13] महाकल्पः परीत्ताभात् प्रभृत्यर्धमधस्ततः // vakk_3.81 //

[174|14] परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् /

[174|14-174|15] तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् /

[174|15] कथं कृत्वा /

[174|15-174|17] यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः /

[174|17-174|18] एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् /

[174|19] उक्तं सुगतावायुः प्रमाणम् /

[174|20] दुर्गताविदानीं वक्तव्यम् / तत्र तावत्

[174|21-174|22] कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् / संजीवादिषु षट्सु

[174|23-174|24] यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः /

[174|24-174|25] संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च /

[174|26] आयुस्तैस्तेषां कामदेववत् // vakk_3.82 //

[174|27-174|28] तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् /

[174|28] कथं कृत्वा /

[174|28-174|29] यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवं /

[174|29-175|01] तेन यावत् द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः /

[175|01-175|02] यत्त्रायस्त्रिंशानामायुः प्रमाणं तत् कालसूत्रे महानरके एकं रात्रिन्दिवम् /

[175|02-175|03] तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणं /

[175|03-175|04] एवमन्येष्वपि यथायोगं योज्यं यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् /

[175|05] अर्धं प्रतापने

[175|06] प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् /

[175|07] अवीचावन्तःकल्पं

[175|08] तिरश्चां तु नियमो नास्ति /

[175|09] परं पुनः /

[175|10] कल्पं तिरश्चां

[175|11] परमायुस्तिरश्चामन्तरकल्पं तत् पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् /

[175|11-175|13] उक्तं हि भगवता "अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा" इति विस्तरः /

[175|14] प्रेतानां मासाह्ना शतपञ्चकम् // vakk_3.83 //

[175|15] यो मनुष्याणां मासः स प्रेतानामहोरात्रः /

[175|15-175|16] तेनाहोरात्रेण पञ्च वर्षशतान्यायुः /

[175|16] शीतनरकेष्वायुषः किं प्रमाणम् /

[175|17-175|18] वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः / अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे // vakk_3.84 //

[175|19-175|20] उपमानमात्रेण तेष्वायुराख्यातं भगवता "तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः /

[175|20-175|22] ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् /

[175|22] न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि /

[175|22-175|24] यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म" इति /

[175|25] एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न /

[175|26] सर्वत्रास्ति

[176|01] कुरुबाह्योऽन्तरामृत्युः

[176|02] उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति / अन्येषु नावश्यम् /

[176|03] पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया /

[176|03-176|05] तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् /

[176|06-176|07] योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः /

[176|08] तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते /

[176|09] परमाण्वक्षरक्षणाः /

[176|10] रूपनामाध्वपर्यन्ताः

[176|11] रूपस्यापचीयमानस्य पर्यन्तः परमाणुः /

[176|11-176|12] कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति /

[176|12] क्षणस्य पुनः किं प्रमाणम् /

[176|12-176|13] समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति /

[176|13-176|14] बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः /

[176|15] परमाणुरणुस्तथा // vakk_3.85 //

[176|16-176|17] लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः / यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् // vakk_3.86 //

[176|18] एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् / सप्त परमाणवोऽणुः /

[176|18-176|19] सप्ताणवो लोहरजः /

[176|19] तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः /

[176|19-176|20] तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः /

[176|20] तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः /

[176|20-176|21] सप्त यूका यवः /

[176|21-176|22] सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् /

[176|22] पार्श्वाकृतास्तु /

[177|01] चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् /

[177|02] धनुः

[177|03] व्यासेनेत्यर्थः /

[177|04] पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् // vakk_3.87 //

[177|05] मनुषां पञ्च शतानि क्रोशः / क्रोशमात्रं च ग्रामादि रण्यमिष्टम् /

[177|06] तेऽष्टौ योजनमित्याहुः /

[177|07] उक्तं योजनस्य प्रमाणम् / वर्षस्येदानीमुच्यते /

[177|08] विंशं क्षणशतं पुनः /

[177|09] तत्क्षणः

[177|10] क्षणानां विंशं शतमेकस्तत्क्षणः /

[177|11] ते पुनः षष्टिर्लवः /

[177|12] तत्क्षणाः षष्टिर्लव इत्युच्यते /

[177|13] त्रिंशद्गुणोत्तराः // vakk_3.88 //

[177|14] त्रयो मुहूर्त्ताहोरात्रमासाः

[177|15] त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः /

[177|15-177|16] कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा / [177|16] त्रिदशाहोरात्रा मासः /

[177|17] द्वादशमासकः /

[177|18] संवत्सरः सोनरात्रः

[177|19-177|20] चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः /

[177|20] संवत्सरेण हि षडूनरात्रा निपात्यन्ते / कथं कृत्वा /

[177|21] "हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते / शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते //"

[177|23] उक्तं वर्षप्रमाणम् /

[178|01] कल्पस्येदानीं वक्तव्यम् /

[178|02] कल्पो बहुविधः स्मृतः // vakk_3.89 //

[178|03] अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति / तत्र तावत्

[178|04] संवर्त्तकल्पो नरकासंभवात् भाजनक्षयः /

[178|05] नरकेषु हि सत्त्वासंभवात् प्रभृति यावत् भाजनसंक्षयः / द्वे हि संवर्त्तन्यौ /

[178|05-178|06] गतिसंवर्तनी धातुसंवर्तनी च /

[178|06] पुनर्द्वे संवर्तन्यौ / सत्त्वसंवर्तनी भाजनसंवर्तनी च /

[178|07] भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते / स आरम्भः संवर्तकल्पस्य /

[178|08] यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं वक्तव्यम् /

[178|08-178|09] यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् /

[178|09-178|10] यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयता ऽयं लोकः संवृत्तो भवति /

[178|10-178|11] यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते /

[178|11-178|12] एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या /

[178|12] महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते /

[178|12-178|13] मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति /

[178|13-178|16] स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात् व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति /

[178|16-178|17] तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते /

[178|17] कालं कृत्वा ब्रह्मलोक उपपद्यन्ते /

[178|17-178|18] यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या /

[178|18-178|19] एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः /

[178|19-178|20] यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या /

[178|20-178|21] औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते /

[178|21] तत्र वैराग्याभावात् /

[178|21-178|22] एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते /

[178|22-178|24] यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या /

[178|24-178|25] एवं यावत् परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः /

[178|25-178|26] यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या /

[178|26-178|28] ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति /

[178|28-179|01] तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते /

[179|01-179|02] यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या /

[179|02-179|04] ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति /

[179|04-179|05] तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति /

[179|05] तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् /

[179|05-179|06] नहि विसभागा अपक्षालाः क्रमन्ते /

[179|06] तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् /

[179|06-179|07] कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति /

[179|07-179|08] एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति /

[179|08-179|09] नरकेषु सत्त्वानां च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः /

[179|10] विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः // vakk_3.90 //

[179|11] थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते /

[179|12-179|14] तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत् पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते /

[179|14-179|15] तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् /

[179|15] यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् /

[179|16] ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते /

[179|16-179|17] ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च /

[179|17-179|18] प्रथमं तु ब्राह्म विमानमुत्पद्यते /

[179|18] ततो यावत् यामीयं ततो वायुमण्डलादीनि /

[179|18-179|19] इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या /

[179|19-179|20] अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते /

[179|20-179|21] अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते /

[179|21] ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु /

[179|21-179|22] क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते /

[179|22-179|23] धर्मता ह्येषा यत् पश्चात् संवर्तते तत् पूर्वं विवर्त्तते /

[179|23-179|24] यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति /

[179|24-179|25] यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति /

[179|26] अन्तःकल्पोऽमितात् यावद्दशवर्षायुषः

[179|27-180|01] विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति /

[180|01-180|02] अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति /

[180|02] सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः /

[180|03] ततः /

[180|04] उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे // vakk_3.91 //

[180|05] तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति / कथं कृत्वा /

[180|06] तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति /

[180|07] पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति //

एवं द्वितीयोऽन्तरकल्पः /

[180|07-180|08] एवं यावदष्टादश /

[180|09] उत्कर्ष एकः

[180|10] एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः /

[180|10-180|11] दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते /

[180|11] अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति /

[180|12] तेऽशीतिसहस्राद्यावदायुषः /

[180|13-180|14] नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति /

[180|15] इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् // vakk_3.92 //

[180|16] इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति /

[180|16-180|17] यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं

[180|18] विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् /

[180|19] विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते /

[180|19-180|20] यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते /

[180|20-180|22] तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्या ऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति /

[180|22-180|23] ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति /

[180|24] ते ह्यशीतिर्महाकल्पः

[180|25] एतन्महाकल्पस्य प्रमाणम् / कल्पः किंस्वभावः / पञ्चस्कन्धस्वभावः /

[180|25-181|01] यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत" इति /

[181|01] तत् कतमेषां कल्पानाम् /

[181|01-181|02] य एव महाकल्पो निर्दिष्टः /

[181|03] तदसंख्यत्रयोद्भवम् // vakk_3.93 //

[181|04] बुद्धत्वम्

[181|05] संख्येयानां कल्पानां त्रयेण /

[181|05-181|06] कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते /

[181|06] नैअदेवं वेदितव्यं / किं तर्हि /

[181|06-181|07] "षष्टिः स्थानान्तराण्यसंख्येयमि"ति मुक्तकसूत्रं पठ्यते /

[181|07] कतमानि षष्टिः / एको ह्यद्वितीयः प्रथमं स्थानान्तरम् /

[181|08] एककानां दशको द्वितीयम् / दश दशकानि शतं तृतीयम् / दश शतानि सहस्रम् /

[181|09] दश सहस्राणि प्रभेदः / दश प्रभेदा लक्षम् /

[181|09-181|10] दश लक्षा अतिलक्षः /

[181|10] दशातिलक्षाः कौटिः / दश कौट्यो मध्यः/ दश मध्या अयुतम् /

[181|11] शायुता महायुतम् / दश महायुता नियुतम् / दश नियुता महानियुतम् /

[181|11-181|12] दश महानियुताः प्रयुतम् /

[181|12] दश प्रयुता महाप्रयुतः / दश महाप्रयुताः कङ्करः /

[181|12-181|13] दश कङ्करा महाकङ्करः /

[181|13] दश महाकङ्करा विस्वरः / दश विस्वरा महाविस्वरः /

[181|13-181|14] दश महाविस्वरा अक्षोभ्यः /

[181|14] दशाक्षोभ्या महाक्षोभ्यः / दश महाक्षोभ्या विवाहः /

[181|15] दश विवाहा महाविवाहः / दश महाविवाहा उत्सङ्गः / दशोत्सङ्गा महोत्सङ्गः /

[181|16] दश महोत्सङ्गा वाहनः / दश वाहनानि महावाहनम् /

[181|16-181|17] दश महावाहनानि तटिभः /

[181|17] दश तिटिभा महातिटिभः / दश महातिटिभा हेतुः /

[181|17-181|18] दश हेतवो महाहेतुः /

[181|18] दश महाहेतवः करभः / दश करभा महाकरभः /

[181|18-181|19] दश महाकरभा इन्द्रः /

[181|19] दशेन्द्रा महेन्द्रः / दश महेन्द्राः समाप्तम् / दश समाप्तानि महासमाप्तम् /

[181|20] दश महासमाप्तानि गतिः / दश गतयो महागतिः / दश महागतयो निम्बरजः /

[181|20-181|21] दश निम्बरजांसि महानिम्बरजः /

[181|21] दश महानिम्बरजांसि मुद्रा / दश मुद्रा महामुद्रा /

[181|21-181|22] दश महामुद्राः बलम् /

[181|22] दश बलानि महाबलम् /

[181|22-181|23] दश महाबलानि सज्ञा /

[181|23] दश संज्ञा महासंज्ञा / दश महासंज्ञा विभूतः / दश विभूता महाविभूतः /

[181|23-181|24] दश महाविभूता बलाक्षम् /

[181|24] दश बलाक्षा महाबलाक्षम् / दश महाबलाक्षाण्यसम्ख्यम् /

[181|25] अष्टकं मध्याद्विस्तृतम् /

[181|25-182|01] इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते /

[182|01] ततो व्यावृत्य पुनर्गण्यन्ते /

[182|01-182|02] एवं त्रीणि असंख्येयानीत्युच्यन्ते /

[182|02] न तु नैव परिसंख्यातुं शक्यन्त इति /

[182|03] किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते /

[182|04] किमेतदेव भविष्यति /

[182|04-182|05] महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः /

[182|06] यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते /

[182|06-182|07] परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात् परित्रातुं शक्नुयामिति /

[182|07-182|08] क एषां परार्थेन स्वार्थः /

[182|08] एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् /

[182|08-182|09] इदानीमेतच्छ्राद्धास्यते /

[182|09] सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः /

[182|09-182|11] कारुणिकैस्तु श्रद्धितमेवैतत् यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते /

[182|11-182|12] तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् /

[182|12-182|15] यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् /

[182|15-182|16] गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत् परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति /

[182|16] न ते पुनः स्वार्थमन्यं पश्यन्ति / आह चात्र

[182|17-182|20] "हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः / श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः //"

[182|21] किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः /

[182|22] अपकर्षे हि शताद्यावत्तदुद्भवः /

[182|23-182|24] अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते /

[182|24] कस्मान्नोत्कर्षकाले / तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति /

[183|01] कस्मान्न शतात् /

[183|01-183|02] तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति /

[183|02-183|03] तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च /

[183|03] अपकर्षस्याधस्तात् प्रत्यवरा आयुरादयः किटभूतत्वात् कषाया उच्यन्ते /

[183|04] द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् / द्वाभ्यां कुशलपक्षवीपत्तिः /

[183|04-183|05] कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात् गृहिप्रव्रजितपक्षयोर्वा /

[183|05-183|06] एकेनात्मभाववीपत्तिः /

[183|06] प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् /

[183|07] अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः /

[183|08] द्वयोः प्रत्येकबुद्धानां /

[183|09] उत्कर्षेऽयपकर्षेऽपि / द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च /

[183|10] तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते /

[183|10-183|11] पृथग्जनपूर्विणोऽपि सन्तीत्यपरे /

[183|11] येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते / [183|11-183|14] तथाहि पूर्वयोगं पठन्ति "पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत् प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात् प्रत्येकबोधिमभिसंबन्द्धा" इति /

[183|14] नचार्याः सन्तः कष्टानि तपांसि तप्येरन् /

[183|14-183|15] खड्गविषाणकल्पाः पुनरेकविहारिणः /

[183|15] तेषां प्रत्येकबुद्धानां

[183|16] खड्गः कल्पशतान्वयः // vakk_3.94 //

[183|17-183|18] महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति /

[183|18] विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः /

[183|18-183|19] ते ह्येकमात्मानं दमयन्ति नान्यान् /

[183|19] किं पुनरत्र कारणम् /

[183|19-183|20] नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् /

[183|20] शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् /

[183|21] नापि निष्करुणाः / सत्त्वानुग्रहार्थमृद्धेराविष्करणात् /

[183|21-183|22] नापि सत्त्वानामभव्यत्वात् /

[183|22] तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते / किं तर्हि /

[183|22-183|23] पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात् नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् /

[183|24] अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् /

[183|24-183|25] गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् /

[184|01] अथ चक्रवर्त्तिनः कदोत्पद्यन्ते /

[184|02] चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् /

[184|03] अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः /

[184|03-184|04] तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् /

[184|04-184|05] राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः /

[184|05] ते पुनश्चतुर्विधाः /

[184|06] सुवर्णरूप्यताम्रायश्चक्रिणः

[184|07] सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति /

[184|07-184|08] प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थो ऽधमः /

[184|09] ते ऽधरक्रमात् // vakk_3.95 //

[184|10] एकद्वित्रिचतुर्द्वीपाः

[184|11] यस्यायसं चक्रं स एकद्वीपाधिपतिः / यस्य ताम्रमयं स द्वयोः /

[184|11-184|12] यस्य रूप्यमयं स त्रयाणाम् /

[184|12] यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः / एष प्राज्ञप्तिको निर्देशः /

[184|13] सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् /

[184|13-184|16] "यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती"ति /

[184|17] एवं चैते चक्रवर्तिन उत्पद्यन्ते /

[184|18] न च द्वौ सह बुद्धवत् /

[184|19-184|20]

सूत्र उक्त" मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः /

[184|20-184|21] यथा तथागत एवं चक्रवर्त्तिनावि"ति /

[184|21] इदमत्र संप्रधार्यम् /

[184|21-184|22] किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति /

[184|22-184|23] नान्यत्र बुद्धा उत्पद्यन्ते इत्येके /

[184|23] किं कारणम् /

[184|23-184|24] मा भूत् भगवतः शक्तिव्याघातः इति /

[184|24] एक एव हि भगवान् सर्वत्र शक्तः /

[184|24-184|25] यत्र बुद्ध एको न शक्तः स्याद् विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति /

[184|25-184|27] उक्तं च सूत्रे "स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेत् अस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय /

[184|27-184|28] एवं च पृष्टः किं व्याकुर्याः /

[184|28-185|01] स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय /

[185|01] तत्कस्य हेतोः /

[185|01-185|03] संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतं अस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत" इति /

[185|03-185|04] यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे "यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत" इति /

[185|04] आभिप्रायिक एष निर्देशः /

[185|04-185|05] कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् /

[185|05-185|06] अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः /

[185|06] सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः / किं कारणम् /

[185|07] बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते /

[185|07-185|09] न चैकत्र बहूनां बुद्धानां युगपत् योग उत्पत्तुं न चास्ति तदुत् पत्तौ कक्श्चित् प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते /

[185|09-185|10] अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् /

[185|10-185|11] कथं चेह बुद्धो व्याप्रियते /

[185|11-185|13] अस्य पुद्गलस्येदमिन्द्रियम् इयता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति /

[185|13-185|15] यत्त्विदं सूत्रमत्रोपनीत "मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि"ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित् सर्वानिति /

[185|15-185|16] चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः /

[185|16] सहोत्पत्तिप्रतिषेधात् बुद्धवत् /

[185|16-185|17] अथैतत् क्षम्यते इदं तु कस्मान्न क्षम्यते "पुण्यस्तु बुद्धानां लोक उत्पाद" इति /

[185|17-185|18] यदि बहूनां बहुषु स्यान्न दोषः स्यात् /

[185|18] भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च /

[185|18-185|19] अथैङ्कस्मिन्नपि कस्मात् द्वौ तथागतौ न सहोत्पद्येते /

[185|19] प्रयोजनाभावात् प्रणिधानवशाच्च /

[185|19-185|21] एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोके ऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति /

[185|21] आदराभित्वरार्थं च /

[185|22-185|23] एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वा ऽनाथा भूमेति /

[185|24] अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति / यथाक्रमं

[185|25] प्रत्युद्यानस्वयंयान कलहास्त्रजितः

[185|26] यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति /

[185|26-186|01] इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च /

[186|01-186|02] तान् देवः समनुशास्तु /

[186|02] वयं देवस्यानुयात्रिका भविष्याम इति /

[186|02-186|03] यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति /

[186|03-186|04] यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात् प्रह्वीभवन्ति /

[186|04-186|05] यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति /

[186|05] सर्वे तु चक्रवर्तिनः

[186|06] अवधाः // vakk_3.96 //

[186|07-186|08] शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति /

[186|08] अत एव ते नियतं देवेषूत्पद्यन्ते /

[186|08-186|09] सूत्र उक्तं "राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति /

[186|10-186|11] तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये"ति /

[186|11] कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते /

[186|12] न वै कश्चित् परकीयेणोत्पद्यते /

[186|12-186|13] येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति /

[186|13-186|14] किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः /

[186|14] अन्योऽपि विशेषोऽस्ति /

[186|14-186|15] तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् /

[186|15] तत्र तु

[186|16] देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः /

[186|17] देशस्थतराणि बुद्धानां लक्षणानि /

[186|17-186|18] उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः /

[186|19] किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् / नेत्याह /

[186|20] किं तर्हि /

[186|21] प्रागासन्नुपिवत् सत्त्वाः

[186|22] प्रथमकल्पिका मनुष्या रूपावचरा इवासन् /

[186|22-186|24] सूत्र उक्तं "ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती"ति /

[186|25] रसरागात्ततः शनैः // vakk_3.97 //

[186|26] आलस्यात्सम्निधिम् कृत्वा साग्रहैः क्षेत्रपो भृतः /

[186|27] तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः /

[186|27-187|01] तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च /

[187|01-187|02] तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः /

[187|02] स आरम्भः कवडीकाराहारस्य /

[187|02-187|03] तेषां तदाहाराभ्यासात् खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः /

[187|03-187|04] ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ /

[187|04-187|05] सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् /

[187|05] तत्रापि गृद्धास्तदप्यन्तर्हितम् / वनलता प्रादुर्भूता /

[187|05-187|06] तत्रापि गृद्धाः साऽप्यन्तर्हिता /

[187|06] अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः /

[187|06-187|08] तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् /

[187|08-187|09] तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः /

[187|09-187|10] एष आरम्भः कामिनां कामभूतग्रहावेशस्य /

[187|10-187|11] ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म /

[187|11] अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् /

[187|12] अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः /

[187|12-187|13] तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म /

[187|13-187|14] ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः /

[187|14] प्रथम आरम्भश्चौर्यस्य /

[187|14-187|15] तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः /

[187|15-187|16] तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना /

[187|16-187|17] महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना /

[187|17] एष आरम्भो राजपरंपरायाः /

[187|17-187|18] तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना /

[187|18-187|19] अथान्यतमस्य राज्ञो लोभात् सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म /

[187|20] ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति

[187|21] ततः कर्मपथाधिक्यादपह्रासे दशायुषः // vakk_3.98 //

[187|22-187|23] तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति /

[187|23] अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च /

[187|24] दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति / कथं भवतीत्याह

[187|25] कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः /

[187|26] त्रिभिरन्तरकल्पस्य निर्याणं भवति / शस्त्रेण रोगेण दुर्भिक्षेण च /

[187|26-188|02] अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः /

[188|02-188|03] तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति /

[188|03-188|05] तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठम् वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति /

[188|05] तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति /

[188|05-188|06] पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति /

[188|06-188|07] तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते /

[188|07-188|08] पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः /

[188|08] कथं च चञ्चः /

[188|09] द्वाभ्यां कारणाभ्याम् / य इदानीं समवायः स तदानीं चञ्च इत्युच्यते /

[188|09-188|10] समुद्गोऽपि चञ्चः /

[188|10-188|11] ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति /

[188|11] अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते /

[188|12] कथं श्वेतास्थि / द्वाभ्यां कारणाभ्याम् /

[188|12-188|14] तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति /

[188|14] कथं शलाकावृत्तिः / द्वाभ्यां कारणाभ्याम् /

[188|14-188|17] ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति /

[188|17] एवं वर्णयन्ति /

[188|17-188|19] येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति /

[188|20] अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति

[188|21] दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम् // vakk_3.99 //

[188|22] शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति / रोगः सप्त मासांश्च दिवसांश्च /

[188|23] दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः /

[188|23-188|24] तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति /

[188|24-188|25] व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च /

[188|25] यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यम् यथायोगमिति /

[188|26] अथ कतीमाः संवर्तन्यः /

[189|01] संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः /

[189|02] एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी /

[189|02-189|03] सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी /

[189|04] ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते /

[189|04-189|05] अत्र तु केचितीर्थङ्करा इच्छन्ति /

[189|05] परमाणवो नित्यास्ते तदानीं शिष्यन्त इति / कस्मात्त एवमिच्छन्ति /

[189|06] मा भूदबीजकः स्थूलानां प्रादुर्भाव इति /

[189|06-189|07] ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् /

[189|07] सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति /

[189|07-189|08] "वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त" इति महीशासकाः सूत्रे पठन्ति /

[189|08-189|09] एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति /

[189|09] किं तर्हि //

[189|09-189|10] स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः /

[189|10] एवं यावत् परमाणुभ्यः /

[189|10-189|11] किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् /

[189|11] न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् /

[189|11-189|12] किं पुनः कारणं त एवमिच्छन्ति /

[189|12] नहि विजातीयात्संभवो युक्त इति / कस्मान्न युक्तः /

[189|12-189|13] अनियमो हि स्यात् /

[189|13] शक्तिनियमान्नैवं भविष्यति / शब्दपाकजोत्पत्तिवत् /

[189|13-189|14] चित्रो हि गुणधर्मो द्रव्यं तु नैवम् /

[189|14-189|15] समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति /

[189|15] इदमयुक्तं वर्तते /

[189|15-189|16] किमत्रायुक्तम् यदसिद्धं साधनायोदाह्रियते /

[189|16] किमत्रासिद्धम् /

[189|17] अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति /

[189|17-189|18] त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते /

[189|18] पिपीलिकापङ्क्तिवत् / कथं गम्येत /

[189|18-189|19] एकतन्तुसंयोगे पटस्यानुपलम्भात् /

[189|19] को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः /

[189|19-189|20] अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः /

[189|20] समूहमात्रं च पटः स्यात् / कश्च तन्तुभ्योऽन्यः पटभागः /

[189|20-189|21] अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् /

[189|21-189|22] मध्यपरभागानामिन्द्रियेणासंनिकर्षात् /

[189|22-189|23] क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् /

[189|23-189|24] तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् /

[189|24] भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् /

[189|24-189|26] चित्ररूपादित्वे विजातीयारम्भोऽपि स्यात् अचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा /

[189|26] क्रियाऽपि चित्रेत्यतिचित्रम् /

[189|26-189|27] तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः /

[189|27-190|02] परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः /

[190|02] तेषां परमाणुवदेकः देशोऽतीन्द्रियः /

[190|02-190|03] रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः /

[190|03-190|04] द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति /

[190|04-190|05] अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचित् इमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति /

[190|06-190|07] चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः /

[190|07-190|08] पाकजोत्पत्तौ घटपरिज्ञनं संस्थानसामान्यात् पङ्क्तिवत् /

[190|08] चिह्नमपश्यतः परिज्ञानाभावात् /

[190|08-190|09] को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः /

[190|10] अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति /

[190|11] ध्यानत्रयं द्वितीयादि शीर्ष तासाम् यथाक्रमम् // vakk_3.100 //

[190|12] त्रीणि संवर्तनीशीर्षाणि / तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते /

[190|13] अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते /

[190|13-190|14] वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते /

[190|14] यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते /

[190|14-190|16] किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते /

[190|17] तदपक्षालसाधम्र्यात्

[190|18] प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः /

[190|18-190|19] ते च मनसः परिदाहकत्वादग्निकल्पाः /

[190|19] द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः /

[190|20] अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात् दुःखेन्द्रियस्य निरोध उक्तः सूत्रे /

[190|21] तृतीये ध्याने आश्वासप्रश्वासाः / ते च वायव एव /

[190|21-190|22] इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्याम् ध्यानोपपत्तौ तथाभूतो बाह्य इति /

[190|22-190|23] कस्मात् पृथिवीसंवर्तनी न भवति /

[190|23-190|24] पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति /

[190|24] अथ चतुर्थध्याने कथं न संवर्तनी /

[190|25] न चतुर्थेऽस्त्यनिञ्जनात् /

[190|26] चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता /

[190|26-190|27] अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी /

[190|27] शुद्धावासप्रभावादित्यपरे /

[190|27-191|01] नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति /

[191|01-191|02] नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति /

[191|03] न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् // vakk_3.101 //

[191|04] नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् / किं तर्हि /

[191|04-191|05] विच्छिन्नस्थानान्तरं तारकावत् /

[191|05] तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा /

[191|05-191|06] स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् /

[191|06] केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति / निरन्तरं तावत्

[191|07] सप्ताग्निना

[191|08] सप्त संवर्तन्यस्तेजसा भवन्ति / ततः /

[191|09] अद्भिरेका

[191|10] सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति /

[191|11] एवं गतेऽद्भिः सप्तके पुनः /

[191|12] तेजसा सप्तकः

[191|13] एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति /

[191|14] पश्चाद्वायुसंवर्तनी ततः // vakk_3.102 //

[191|15] पश्चादेकावायुसंवर्तनी भवति / किं कारणम् /

[191|15-191|17] यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी /

[191|17-191|18] एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति "चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि"ति /

[191|19-191|20] "ये धर्मा हेतुप्रभवा हेतुम् तेषां तथागतोह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमण" // इति /

[191|21] अभिधर्मकोशभाष्ये लोकनिर्देशो नाम

[191|22-191|23] तृतीयं कोशस्थानम् समाप्तमिति /

चतुर्थं कोशस्थानम्

=====================================================================

[192|02] ओं नमो बुद्धाय /

[192|03] अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत् केन कृतम् /

[192|03-192|04] न खलु केनचिद्बुद्धिपूर्वकं कृतम् /

[192|04] किं तर्हि / सत्त्वानां

[192|05] कर्मजं लोकवैचित्र्यं

[192|06-192|07] यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि /

[192|07-192|08] कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः /

[192|08-192|09] अव्यामिश्रकारिणां तु देवानामुभये ऽपि रम्याः /

[192|09] किं पुनस्तत्कर्मेत्याह

[192|10] चेतना तत्कृतं च तत् /

[192|11] सूत्र उक्तं "द्वे कर्मणी चेतना कर्म चेतयित्वा चे"ति /

[192|11-192|12] यत्तच्चेतयित्वा चेतनाकृटं च तत् /

[192|12] ते एते द्वे कर्मणी त्रीणि भवन्ति / कायवाङ्मनस्कर्माणि /

[192|12-192|13] कथमेषां कर्मणां व्यवस्थानम् /

[192|13] किमाश्रयतः आहोस्वित् स्वभावतः समुत्थानतो वा /

[192|13-192|14] आश्रयतश्चेदेकं कायकर्म प्राप्नोति /

[192|14] सर्वेषां कायाश्रितत्वात् स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति /

[192|15] वचसः कर्मस्वभावत्वात् / समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति /

[192|15-192|16] सर्वेषां मनः समुत्थितत्वात् /

[192|16] यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः / तत्र पुनः

[192|17] चेतना मानसं कर्म

[192|18] चेतना मनस्कर्मे ति वेदितव्यम् /

[192|19] तज्जं वाक्कायकर्मणी // vakk_4.1 //

[192|20] यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये /

[192|21] ते तु विज्ञप्त्यविज्ञप्ती

[192|22] ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये / तत्र तु

[192|23] कायविज्ञप्तिरिष्यते /

[192|24] संस्थानं

[192|25] चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः / गतिरित्यपरे /

[192|25-192|26] प्रस्यन्दमानस्य हि कायकर्म नो ऽप्रस्यन्दमानस्येति /

[192|26] त उच्यन्ते

[193|01] न गतिर्यस्मात्संस्कृतं क्षणिकं

[193|02] को ऽयं क्षणो नाम / आत्मलाभो ऽनन्त्रविनाशी / सो ऽस्यास्तीति क्षणिकम् /

[193|03] दण्डकवत् / सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते /

[193|04] तस्यायुक्ता देशान्तरसंक्रान्तिः / तस्मान्न गतिः कायकर्म /

[193|04-193|05] स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् /

[193|05] सिद्धमेवैतत् विद्धि / कुतः / संस्कृतस्यावश्यं /

[193|06] व्ययात् // vakk_4.2 //

[193|07] अकस्मिको हि भावानां विनाशः / किं कारणम् / कार्यस्य हि कारणं भवति /

[193|08] वनाशश्चाभावः / यश्चाभावस्तस्य किं कर्तव्यम् /

[193|08-193|09] सो ऽसावाकस्मिकोक् विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात् पश्चादपि न स्याद्भावस्य तुल्यत्वात् /

[193|09-193|10] तथान्यथीभूतः /

[193|10] न युक्तं तस्यैव / न्यथात्वम् / न हि स एव तस्माद्विलक्षणो युज्यते /

[193|10-193|11] दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः /

[193|11-193|12] न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति /

[193|12-193|13] न च सर्वस्याकस्मिको विनाशः कथं तावत् भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते /

[193|13] तेषां पुनरदर्शनात् /

[193|13-193|14] संप्रधार्यं तावदेतत् /

[193|14-193|15] किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते /

[193|15-193|16] यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति /

[193|16] तस्मादनुमानसाध्यो ऽयमर्थः / किं पुनरत्रानुमानम् /

[193|16-193|17] उक्तं तावत् अकार्यत्वादभावस्येति /

[193|17] पुनः

[193|18] न कस्यचिदहेतोः स्यात्

[193|19] यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् /

[193|19-193|20] क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते /

[193|20-193|21] यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति /

[193|21] तदयुक्तम् / बुद्ध्योरसमवधानात् /

[193|21-193|22] न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा /

[193|22-193|24] यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् /

[193|24-193|25] अन्त्ययोश्च कथं यो ऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् /

[193|25] न ह्यभावः कारणं भवितुमर्हति /

[193|25-193|26] न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः /

[193|27] सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन /

[194|01-194|02] यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ

[194|03] हेतुः स्याच्च विनाशकः /

[194|04] हेतुरेव च विनाशकः स्यात् / कथं कृत्वा /

[194|04-194|06] घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा /

[194|06-194|07] न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति /

[194|07-194|08] ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः /

[194|08-194|09] क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः /

[194|09-194|10] यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति /

[194|10-194|11] तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति /

[194|11-194|12] इदमत्राग्निसंयोगाः कुर्वन्ति /

[194|12-194|14] तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः /

[194|14] गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् /

[194|15] गत्यभावे च "संस्थानं कायविज्ञप्ति"रिति सिद्धम् /

[194|15-194|16] नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः /

[194|16] एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते /

[194|16-194|17] तमेवापेक्ष्याल्पीयसि ह्रस्वमिति /

[194|17] चतुर्दिशं भूयसि चतुरस्रमिति /

[194|17-194|27] सर्वत्र समे वृत्तमिति /

[194|18] एवं सर्वम् /

[194|18-194|19] तद्यथा ऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति /

[194|19-194|20] न तु खलु जात्यन्तरमस्ति संस्थानम् /

[194|20] यदि हि स्यात् [194|21] द्विग्राह्यं स्यात्

[194|22-194|23] चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् /

[194|23] न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति /

[194|23-194|24] यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् /

[194|24] स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात् भवति /

[194|24-194|25] स तु साहचर्यात् भवति न तु साक्षात् ग्रहणम् /

[194|25-194|26] यथा ऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति /

[194|26-195|01] युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित् स्प्रष्टव्यं क्वचित् संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् /

[195|01-195|02] अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् /

[195|02] वर्णे ऽपि स्यात् वर्णवद्धा संस्थाने ऽप्यनियमेन स्यात् /

[195|02-195|03] नचैवं भवति /

[195|03] अयुक्तमस्य स्प्रष्टव्यात्स्मरणं /

[195|03-195|04] चित्रास्तरणेवा ऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् /

[195|04] तच्चायीउक्तं वर्णवत् /

[195|04-195|05] तस्मान्नास्ति द्रव्यतः संस्थानम् /

[194|06] यच्चापि किञ्चित् सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते /

[195|07] न चाणौ तत्

[195|08] न च संस्थानं परमाणौ विद्यते दीर्घादि /

[195|08-195|09] तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः /

[195|09-195|10] अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति /

[195|10] सो ऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् /

[195|10-195|11] सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते /

[195|11] न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति कुत एषां संचयः /

[195|12] यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् /

[195|12-195|14] ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि /

[195|14-195|16] यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति /

[195|16] पङ्क्तिसेनापरिकल्पवत् / इत्थं चैतदेवम् /

[195|17] यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति /

[195|18-195|19] अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति /

[195|19] संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति / नतु पुनर्द्रव्यतः /

[195|20] तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति /

[195|20-195|21] कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री /

[195|21] एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये /

[195|22-195|23] यत्तर्हि "चेतना कर्म चेतयित्वा चे"त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति /

[195|23] तथा चेतयित्वा पश्चात् क्रिया चेतनोत्पद्यते /

[195|23-195|24] यया कायः प्रेर्यते सा ऽसौ चेतयित्वा कर्मेत्युच्यते /

[195|24-195|25] एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते /

[195|25-195|26] अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति /

[195|26-195|27] यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् /

[195|27-195|28] चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत् नै वं भविष्यति /

[195|28] चेतनाविशेषेण तदाक्ष्पविशेषात् /

[195|28-196|01] सा ऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते /

[196|01] जडत्वात् /

[196|01-196|02] द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् /

[196|03] वाग्विज्ञप्तिस्तु वाग्ध्वनिः // vakk_4.3 //

[196|04] वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः / अविज्ञप्तिः पूर्वमेवोक्ता /

[196|04-196|05] सा ऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः /

[196|05] अभ्युपेत्याकरणमात्रत्वात् /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.