Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[129|05] अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते /

[129|05-129|06] यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति /

[129|06] स एष प्रतिषिध्यते

[129|07] नात्मास्ति

[129|08] कीदृश आत्मा य इमान् निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते /

[129|09] स तदृशो नास्त्यन्तर्व्यापारपुरुषः /

[129|09-129|11] एवं तूक्तं भगवता "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् /

[129|11-129|12] तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः "/

[129|12] कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते /

[129|13] स्कन्धमात्रं तु

[129|14] यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः /

[129|14-129|15] एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति /

[129|16] क्लेशकर्माभिसंस्कृतम् /

[129|17] अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् // vakk_3.18 //

[129|18] क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः /

[129|18-129|19] क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति /

[129|19-129|20] तद्यथा प्रदीपः क्षणिको ऽपि संतत्या देशान्तरमिति नास्त्येष दोषः /

[129|20-129|21] तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति /

[129|21] स पुनः

[129|22] यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः /

[129|23] परलोकं पुनर्याति

[129|24] नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् /

[129|24-129|25] अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति /

[129|25] केन क्रमेण /

[130|01-130|02] "कललं प्रथमं धवति कललाज्जायते ऽर्बुदः / अर्बुदाज्जायते पेशी पेशीतो जायते घनः //

[130|03-130|04] घनात् प्रशाखा जायन्ते केशरोमनखादयः / इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः //

[130|05] इत्यार्याः /

[130|05-130|06] एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः /

[130|06-130|08] तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात् मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति /

[130|08-130|09] सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं संपरिवर्त्त्यते /

[130|09-130|15] यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति /

[130|16] स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते /

[130|16-130|20] अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति /

[130|20-130|21] तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति /

[130|21-130|22] सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत् परलोकं पुनर्याति /

[130|23] इत्यनदिभवचक्रकम् // vakk_3.19 //

[130|24-130|25] एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् /

[130|25-130|26] आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् /

[130|27-130|28] दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः /

[130|28-131|01] नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः /

[131|01] तस्मान्नास्त्येव संसारस्यादिः / अन्तस्तु हेतुक्षयात् युक्तः /

[131|01-131|02] हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति /

[131|03] य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः

[131|04] स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः /

[131|05-131|06] तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च /

[131|06-131|07] त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि /

[131|07-131|08] कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते /

[131|09] पूर्वापरान्तयोर्द्वे द्वे मध्ये ऽष्टौ

[131|10] अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते /

[131|10-131|11] शेषाण्यष्टौ मध्ये /

[131|11] किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति / नेत्याह / कस्य तर्हि /

[131|12] परिपूरिणः // vakk_3.20 //

[131|13-131|14] परीपूरो ऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सो ऽत्र पुद्गलो ऽभिप्रेतो न तु यो ऽन्तराल एव म्रियते /

[131|14] नापि रूपारुप्यावचरः /

[131|14-131|15] तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः /

[131|15-131|16] "विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि"ति वचनात् /

[131|16-131|18] यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः /

[131|18] सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् /

[131|19] अथ क इमे ऽविद्यादयः /

[131|20] पूर्वक्लेशा दशा ऽविद्या

[131|21] या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते /

[131|21-131|22] साहचर्यात्तद्वशेन तेषां समुदाचाराच्च /

[131|22] राजागमनवचने तदनुयात्रिका गमनसिद्धवत् /

[131|23] संस्काराः पूर्वकर्मणः /

[131|24] दशेति वर्त्तते /

[131|24-131|25] पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः /

[131|26] संधिस्कन्धास्तु विज्ञानं

[131|27] मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् /

[132|01] नामरूपमतः परम् // vakk_3.21 //

[132|02] प्राक् षडायतनोत्पादात्

[132|03-132|04] संधिचित्तात् परेण यावत् षडायतनं नोत्पद्यते सा ऽवस्था नामरूपं तावत् षडायतनमित्युच्यते /

[132|04-132|05] प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् /

[132|06] तत्पूर्वं त्रिकसंगमात् /

[132|07-132|08] उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः /

[132|09] स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः // vakk_3.22 //

[132|10] त्रयाणां संनिपातात् स्पर्शो भवति /

[132|10-132|11] स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति सा ऽवस्था स्पर्श इत्युच्यते /

[132|11] परिच्छेदसामर्थ्ये सति

[132|12] वित्तिः प्राक् मैथुनात्

[132|13] वेदनावस्था यावन्मैथुनरागो न समुदाचरति /

[132|14] तृष्णा भोगमैथुनरागिणः /

[132|15] कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते /

[132|16] उपादानं तु भोगानां प्राप्तये परिधावतः // vakk_3.23 //

[132|17-132|18] यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते /

[132|18] तथा च परिधावन्

[132|19] स भविष्यत् भवफलं कुरुते कर्म तत् भवः /

[132|20] स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सो ऽस्य भवः /

[132|21] तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति / यो ऽसौ

[132|22] प्रतिसंधिः पुनर्जातिः

[132|23] यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः / तत् ऊर्ध्वं

[132|24] जरामरणमा विदः // vakk_3.24 //

[132|25] जातेः परेण यावदेदनावस्था जरामरणम् /

[132|25-132|27] यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि /

[132|27] स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते /

[133|01] क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च / कथं क्षणिकः /

[133|01-133|02] एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति /

[133|02-133|03] तद्यथा लोभवशेन प्राणिनं जीविताद् व्यपरोपयेत् /

[133|03] यो मोहः सा ऽविद्या / या चेतना ते संस्काराः / वस्तुप्रतिविज्ञप्तिर्विज्ञानम् /

[133|04] विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् /

[133|04-133|05] नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् /

[133|05] षड्डायतनाभिनिपातः स्पर्शः / स्पर्शानुभवनं वेदना /

[133|05-133|06] यो लोभः स तृष्णा /

[133|06] तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् /

[133|06-133|07] तत्समुत्थितं कायवाक्कर्म भवः /

[133|07-133|08] तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति /

[133|08] पुनराहुः /

[133|08-133|09] क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु "प्रतीत्यसमुत्पादः कतमः /

[133|09] सर्वे संस्कृता धर्मा" इति /

[133|09-133|10] आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः /

[133|10] स एव प्राकर्षिकः / एषां कतमो ऽयमभिप्रेतो भगवतः /

[133|11] आवस्थिकः किलेष्टो ऽयं

[133|12] यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म /

[133|13] प्राधान्यत्त्वङ्गकीर्तनम् /

[133|14-133|15] अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः /

[133|15-133|16] किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा "प्रतीत्यसमुत्पादः कतमः /

[133|16] सर्वे संस्कृता धर्मा" इति /

[133|16-133|17] अभिप्रायिकः सूत्रे लाक्षणिको ऽभिधर्मः /

[133|17-133|18] तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्यो ऽसत्त्वाख्यश्चेति भेदः /

[133|18] किमर्थं पुनः सूत्रे सत्त्वाख्य एव /

[133|19] पूर्वापरान्तमध्येषु संमोहविनिवृत्तये // vakk_3.25 //

[133|20] अत एव च त्रिकाण्डः /

[133|20-133|21] तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीते ऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति /

[133|22] अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागते ऽध्वनीति विस्तरः /

[133|23] मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति /

[133|24-133|26] एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत् भवश्च /

[133|26-134|02] तथाहि सूत्र एवोक्तं "यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा भवन्ति /

[134|02] स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीते ऽध्वनी"ति विस्तरः /

[134|03] तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे /

[134|03-134|04] तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः /

[134|05] क्लेशकर्मवस्तूनि / तत्र

[134|06] क्लेशास्त्रीणि

[134|07] त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि /

[134|08] द्वयं कर्म

[134|09] अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च /

[134|10] सप्त वस्तु

[134|11] सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि /

[134|12] क्लेशकर्माश्रयत्वात् / यथा च वस्तु सप्ताङ्गानि

[134|13] फलं तथा /

[134|14] सप्तैवाङ्गानि फाभूतानि / शेषाणि पञ्च हेतुभूतानि /

[134|14-134|15] कर्मक्लेशस्वभावभूतत्वात् /

[134|15] किं पुनः कारणं मध्ये फलहेतू विशालितौ /

[134|15-134|16] वस्तुनः पञ्चधा भेदात् /

[134|16] क्लेशस्य द्विधा / अनागते ऽध्वनि फलं संक्षिप्तं द्विधा भेदात् /

[134|17] अतीते ऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति /

[134|18] फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः // vakk_3.26 //

[134|19] मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्यो ऽनुमानुमिति नोक्तः /

[134|20] पुनरपरात्मकं हि यत्नं मा कार्यमिति /

[134|20-134|22] यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् /

[134|22-134|23] अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः /

[134|23] नोपसंख्यातव्यम् / यस्मादुपदर्शितो ऽत्र भगवता

[134|24-134|25] क्लेशात् क्लेशः क्रिया चैव ततो वस्तु ततः पुनः / वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः // vakk_3.27 //

[134|26] क्लेशात् क्लेशो जायते तृष्णाया उपादानम् / क्लेशात् कर्म /

[134|26-135|01] उपादानात् भवो ऽविद्यायाश्च संस्कारा /

[135|01] कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः /

[135|01-135|02] वस्तुनो वस्तुविज्ञानानामरूपं यावत् स्पर्शाद्वेदना जातेश्च जरामरणम् /

[135|02-135|03] वस्तुनः क्लेशो वेदनाया स्तृष्णेति /

[135|03-135|04] यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्या ऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति /

[135|04-135|05] वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् /

[135|05-135|06] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती"ति वचनात् /

[135|06] अन्यथा हि किमस्य सामर्थ्यं स्यात् /

[135|07] अयोनिशोमनस्कारहेतुका ऽविद्योक्ता सूत्रान्तरे / अविद्याहेतुकश्चायोनिशोमनस्कारः /

[135|08] स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे /

[135|08-135|09] कथमयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः /

[135|09] यदि संप्रयोगतः / तृष्णा ऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः /

[135|10] सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति /

[135|11-135|12] यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णा ऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् /

[135|12] अन्यः पुनराह /

[135|12-135|13] अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे /

[135|13] स चापि स्पर्शकाले निर्दिष्टः /

[135|13-135|14] "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज" इति /

[135|14] वेदनाकाले चावश्यमविद्यया भवितव्यम् /

[135|15] "अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे"ति सूत्रान्तरात् /

[135|16-135|17] अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् /

[135|17-135|18] नचाप्यनवस्थाप्रसङ्गः /

[135|18-135|19] तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति /

[135|19] तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् / न वक्तव्यम् / कथमनुच्यमानं गम्यते /

[135|20] युक्तितः / कया युक्त्या /

[135|20-135|21] नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः /

[135|21-135|22] नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या /

[135|22] अतिप्रसङ्ग एवं प्राप्नोति /

[135|22-135|23] यौवत् युक्त्या संभवति तावदनुक्तम् गम्यत इति /

[135|23-135|24] तस्मान्न भवत्ययं परिहारः /

[135|24] अचोद्यमेव त्वेतद् /

[135|24-135|25] अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः /

[135|25] नचापरिपूर्णो निर्देश इति / किं कारणम् /

[135|26-135|27] प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतो ऽत्रार्थस्य विवक्षितत्वात् /

[135|27] एतस्य च पूर्वमेवोत्तत्वात् /

[136|01] पूर्वापरान्तमध्येषु संमोह विनिवृत्तये" /

[136|02-136|03] उक्तं भगवता "प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः /

[136|03] शास्त्रतस्तावन्न कश्चित् /

[136|03-136|04] उभ्यं हि सर्वे संस्कृता धर्मा इति /

[136|04] कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते /

[136|04-136|05] कथं तावदकृता एवानागताः संस्कृता उच्यन्ते /

[136|05] आभिसम्स्कारिकया चेतनया चेतितत्वात् /

[136|05-136|06] अनास्रवाः कथम् /

[136|06] ते ऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति / निर्वाणे ऽपि प्रसङ्गः /

[136|07-136|08] तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः /

[136|08] सूत्राभिप्रायस्त्वयमुच्यते /

[136|09] हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् /

[136|10-136|11] हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यते ऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् /

[136|11] एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति / हेतुफलभवात् /

[136|11-136|12] न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् /

[136|12-136|13] यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत् पितृपुत्रवच्च /

[136|13-136|14] स्थविरपूर्णाशः किलाह स्यात् प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति /

[136|14] चतुष्कोटिकः /

[136|15] प्रथमा कोटिरनागता धर्माः / द्वितीया ऽर्हतश्चरमाः /

[136|15-136|16] तृतीया तदन्ये ऽतीतप्रत्युपन्ना धर्माः /

[136|16] चतुर्थ्य संस्कृता धर्मा इति / अत्र तु सौत्रान्तिका विज्ञापयन्ति /

[136|16-136|17] किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः /

[136|17] सूत्रार्थ इत्याह /

[136|17-136|18] यदि सूत्रार्थो नैष सूत्रार्थः /

[136|18] कथं कृत्वा /

[136|18-136|19] यत्तावदुक्तमा "वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी" त्येतदुत्सूत्रम् /

[136|19] सूत्रे ऽन्यथा निर्देशाद् /

[136|20] "अविद्या कतमा / यत्तत् पूर्वान्ते ऽज्ञानमि"ति विस्तरेण /

[136|20-136|21] यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः /

[136|21] न वै सर्वं निर्देशतो नीतार्थं भवति /

[136|21-136|22] यथाप्रधानं चापि निर्देशाः क्रियन्ते /

[136|22-136|23] तद्यथा हस्तिपदोपमे "पृथिवीधातुः कतमः" इत्यधिकृत्याह "केशा रोमाणी"ति /

[136|23] सन्ति च तत्रान्ये ऽपि रूपादयः / एवमत्रापि यथाप्रधानं निर्देशः स्यात् /

[136|24] औपसंहार एषः / नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते /

[136|24-136|25] यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते /

[136|25-136|26] न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः /

[136|26-137|01] एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः /

[137|01-137|02] ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः /

[137|02] सो ऽपि निर्दिष्ट एवेति /

[137|02-137|04] यद्व "पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात् भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् /

[137|04] जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः /

[137|05-137|06] यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् /

[137|06-137|07] सत्यपि च पञ्चस्कन्धके ऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः /

[137|07] किं तर्हि अविद्याहेतुका एव /

[137|07-137|08] तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति /

[137|08] यथानिर्देशमेव सूत्रार्थः /

[137|09] यदप्युक्तं "हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक" इति /

[137|10] एतदप्युत्सूत्रम् / सूत्रे ऽन्यथा निर्देशात् / "प्रतीत्यसमुत्पादः कतमः /

[137|10-137|12] यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति या ऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद" इति /

[137|12] ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः /

[137|13] अतो येयं धर्मता य एष नियमः / अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा /

[137|14] एष प्रतीत्यसमुत्पादो न हेतुरेव /

[137|14-137|15] यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते /

[137|15-137|16] प्रतीत्यसमुत्पन्ना धर्माः कतमे /

[137|16] अविद्या यावज्जातिः जरामरणम् /"

[137|16-137|17] तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते /

[137|17] असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः /

[137|18] "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते"ति वचनात् /

[137|18-137|19] तदेतदभिप्रायवशादेवं च न चैवम् /

[137|19] कथं तावदेवं कथं वा नैवम् /

[137|19-137|21] यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् /

[137|21-137|22] अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित् भावान्तरं नित्यमस्तीति /

[137|22-137|23] नैतदेवमिति प्रतिषेद्धव्यम् /

[137|23] किं कारणम् / उत्पादस्य संस्कृतलक्षणत्वात् /

[137|23-137|24] न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते /

[137|24-137|25] उत्पादश्च नामोत्पत्तुर्भवतीति को ऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत /

[137|25-137|26] पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति /

[138|01] अथ प्रतीत्यसमुत्पाद इति कः पदार्थः /

[138|01-138|02] प्रतिः प्राप्त्यर्थ एति गत्यर्थः /

[138|02] उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति यो ऽर्थः सोऽर्थः प्रतीत्येति /

[138|03] पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः /

[138|03-138|04] तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः /

[138|04] न युक्त एष पदार्थः / किं कारणम् /

[138|04-138|05] एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति /

[138|05] तद्यथा स्नात्वा भुङ्क्त इति /

[138|05-138|06] नचासौ पूर्वमुत्पादात् कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते /

[138|06-138|07] नचाप्यकर्तु कास्ति क्रियेति /

[138|07] आह चात्र

[138|08-138|09] "प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते / सह चेत् क्त्वा न सिद्धो ऽत्र पूर्वकालविधानत" इति //

[138|10] नैष दोषः / इदं तावद्यं प्रष्टव्यः शाब्दिकः /

[138|10-138|11] किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहो ऽनागते इति /

[138|11] किं चातः / यदि वर्त्तमान उत्पद्यते /

[138|11-138|12] कथं वर्त्तमानो यदि नोत्पन्नः /

[138|12] उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः /

[138|12-138|13] अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति /

[138|13-138|14] अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति /

[138|14] किमवस्थश्चोत्पद्यते / उत्पादाभिमुखो ऽनागतः /

[138|14-138|15] तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते /

[138|15-138|16] अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया /

[138|16-138|17] न चात्र भवितुरर्थात् भूतिमन्यां क्रियां पश्यामः /

[138|17] तस्मादच्छलं व्यवहारेषु / एष तु वाक्यार्थः /

[138|17-138|18] अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति यो ऽर्थः सो ऽर्थः प्रतीत्यसमुत्पाद इति /

[138|19] आह चात्र

[138|20-138|23] "असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथा ऽथ सन् / उत्पन्न उत्पद्यत इत्यनिष्ठा ऽसन् पुरा ऽपि वा //

सहकाले ऽपि च क्त्वा ऽस्ति दीपं प्राप्य तमो गतम् / आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते //"

[138|24] अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति /

[138|24-138|25] प्रतिर्वीप्सार्थः /

[138|25] इतौ साधव इत्या अनवस्थायिनः / उत्पूर्वः पदिः प्रादुर्भावार्थः /

[138|26-138|27] तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति /

[138|27] एषा तु कल्पना ऽत्रैव कल्प्यते /

[138|27-138|28] इह कथं भविष्यति "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति"ति /

[138|28-139|01] किमर्थं पुनर्भगवान् पर्यायद्वयमाह "अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते" इति /

[139|01-139|02] अवधारणार्थम् /

[139|02-139|03] यथा ऽन्यत्राह "अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा" इति /

[139|03] अङ्गपरंपरां वा दर्शयितुम् /

[139|03-139|04] अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति /

[139|04] जन्मपरंपरां वा /

[139|04-139|05] पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति /

[139|05-139|06] साक्षात् पारंपर्येण प्रत्ययभावं दर्शयति /

[139|06] कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित् पारंपर्येणेति /

[139|07] अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे /

[139|07-139|08] नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति /

[139|08-139|09] अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति /

[139|09] अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः /

[139|10-139|11] सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् /

[139|11-139|12] अतस्ताम् कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत् भवति नान्यस्मिन् /

[139|12-139|13] यदुता "विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति"ति /

[139|14] अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः / अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते /

[139|15] तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः /

[139|15-139|16] स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे /

[139|16] यावत् कारणस्रोतस्तावत् कार्यस्रोतो भवति /

[139|16-139|17] कारणस्यैवचोत्पादात् कार्यमुत्पद्यत इति / [139|17-139|18] उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक् स्थितिं पश्चादुत्पोआदम् /

[139|18-139|19] पुनराह "अस्मिन् सतीदं भवती"ति "कार्ये सति कारणस्य विनाशो भवती"ति /

[139|19-139|20] स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् /

[139|20-139|21] यस्मादस्योत्पादादिदमुत्पद्यत इति /

[139|21] एष चेत्सूत्रार्थो ऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत /

[139|21-139|22] पूर्वं च तावत् कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति /

[139|22-139|23] एवं हि साधुः क्रमो भवति /

[139|23-139|24] इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य /

[139|24] तस्मान्नैष सूत्रार्थः /

[139|24-139|25] कथं पुन "र्विद्याप्रत्ययाः संस्कारा यावत् जातिप्रत्ययं जरामरणामि"ति /

[139|25] आभिसंबन्धमात्रं दर्शयिष्यामः /

[139|25-140|02] बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजानन् आत्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंअततिस्तां तां गतिं गच्छति /

[140|02-140|03] ज्वालागमनयोगेनान्तराभवसंबन्धात् /

[140|03] तदन्यसंस्काराप्रत्ययं विज्ञानम् /

[140|03-140|04] एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे "विज्ञानं कतमत् /

[140|04] षड्विज्ञानकाया" इति /

[140|05-140|06] विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् /

[140|06] विभङ्गे महानिदानपर्याये चैवं निर्देशात् /

[140|06-140|07] "तथा नामरूपपरिपाकात्क्रमेण षडायतनम् /

[140|07] ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव" इति /

[140|07-140|08] त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः /

[140|08] ततस्त्रिविधा वेदना / तत्स्तृष्णा /

[140|08-140|09] दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा /

[140|09] सुखायामदुःखासुखायां च रूपतृष्णा /

[140|09-140|10] अदुःखासुखायामारुप्यतृष्णा /

[140|10] तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् /

[140|10-140|11] तत्र कामाः पञ्च कामगुणाः /

[140|11] दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे / शीलं दौःशील्यविरतिः /

[140|12] व्रतं कुक्कुरगोव्रतादीनि / यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः /

[140|13-140|14] ब्राह्मणपाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् /

[140|14] आत्मवादः पुनरात्मभावः /

[140|14-140|15] आत्मेति वादो ऽस्मिन्नित्यात्मवादः /

[140|15] आत्मदृष्ट्यस्मिमानावित्यपरे / कथमनयोरात्मवादत्वम् /

[140|15-140|16] "आभ्यामात्मे"ति वचनात् /

[140|16] आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते /

[140|16-140|17] प्रज्ञप्तिमात्रकस्योपादानात् /

[140|17-140|18] यथोक्त "मात्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा" इति /

[140|18-140|19] तेषामुपादानं तेषु यश्छन्दरागः /

[140|19] एवं हि भगवता सर्वत्राख्यातम् "उपादानं कतमत् /

[140|19-140|20] यो ऽत्रच्छन्दरागं" इति /

[140|20] उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते / तद्भवः /

[140|20-140|21] "यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये"ति सूत्रात् /

[140|21-140|22] भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन /

[140|22] अनागतं जन्म जातिः पञ्चस्कन्धिका /

[140|22-140|23] जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे /

[140|23] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती"ति /

[140|24] केवलस्येत्यात्मीयरहितस्य / महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य /

[140|25] समुदयो भवतीति प्रदुर्भावः / स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः /

[140|26] अथाविद्येति को ऽर्थः / या न विद्या / चक्षुरादिष्वपि प्रसङ्गः /

[140|26-140|27] विद्याया अभावस्तर्हि /

[140|27] एवं सति न किञ्चित् स्यात् /

[140|27-140|28] न चैतत् युक्तम् /

[140|28] तस्मात्

[141|01] विद्याविपक्षो धर्मो ऽन्यो ऽविद्या ऽमित्रानृतादिवत् // vakk_3.28 //

[141|02-141|03] यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः /

[141|03] ऋतं चोच्यते सत्यम् /

[141|03-141|04] तद्विपक्षभूतं वाक्यमनृतं भवति /

[141|04] अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः /

[141|04-141|05] एवमविद्या ऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् /

[141|05] कुत एतत् / प्रत्ययभावेनोपदेशात् / अपि च

[141|06] संयोजनादिवचनात्

[141|07] संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु /

[141|07-141|08] न चाभावमात्रं तथा भवितुमर्हति /

[141|08] न चापि चक्षुरादयः / तस्माद्धर्मान्तरमेवाविद्या /

[141|08-141|09] यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः /

[141|09] एवमविद्या ऽप्यस्तु /

[141|10] कुप्रज्ञा चेन्न दर्शनात् /

[141|11] कुत्सिता हि प्रज्ञ क्लिष्टा / सा च दृष्टिस्वभावा इति नाविद्या युज्यते /

[141|11-141|12] या तर्हि न दृष्टिः सा भविष्यति /

[141|12] सा ऽपि भवितुं नार्हति / किं कारणम् /

[141|13] दृष्टेस्तत्संप्रयुक्तत्वात्

[141|14] अविद्या चेत् प्रज्ञा ऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत /

[141|14-141|15] द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् /

[141|15] इतश्च

[141|16] प्रज्ञोपक्लेशदेशनात् // vakk_3.29 //

[141|17] "रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती"त्युक्तम् सूत्रे /

[141|18] न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति /

[141|18-141|19] यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या /

[141|19] किं पुनरेवं नेष्यते /

[141|20] क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति /

[141|20-141|21] अतो ऽसौ तस्या उपक्लेश इति /

[141|21] यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते /

[141|21-141|22] किं तदवश्यं रागपर्यवस्थितं भवति /

[141|22] उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते /

[141|22-141|23] तां पुन्र्भावनां व्यावर्तयतो विमुच्यते /

[141|23-141|24] एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः /

[141|24] को हि परिकल्पयन् वार्यते / जात्यन्तरमेव त्वविद्यां वर्णयन्ति /

[141|25] यो ऽपि मन्यते "सर्वक्लेशा अविद्ये"ति तस्याप्यत एव व्युदासः /

[141|25-142|01] सर्वक्लेशस्वभावा ऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत /

[142|01-142|02] अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात् चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् /

[142|02-142|03] अथ मतं विशेषणार्थं तथोक्तमिति /

[142|03] प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् /

[142|03-142|04] भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः /

[142|04] सत्यवन्न कर्मफलानामसंप्रख्यानम् /

[142|04-142|05] एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति /

[142|05-142|06] यदि यन्न संप्रख्यानं संप्रख्यानाभावे ऽपि तथैव दोषो यथा अविद्यायाम् /

[142|06-142|07] अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् /

[142|07] तदिदं तथैव न ज्ञायते किं तदिति /

[142|07-142|08] एवञ्जातीयको ऽपि धर्माणां निर्देशो भवति /

[142|08] तद्यथा "चक्षुः कतमत् / यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय" इति /

[142|09] अस्मीति सत्त्वमयता ऽविद्येते भदन्तधर्मत्रातः / का पुनरस्मिमानादन्या मयता /

[142|10-142|12] या ऽसौ सूत्र उक्ता "सो ऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात् परिज्ञानान्निश्छायो निवृत" इति /

[142|12] अस्त्येषा मयता / सा त्वियमविद्येति कुत एतत् /

[142|13] यत एषा नान्यः क्लेशः शक्यते वक्तुम् / ननु चान्यो मान एव स्यात् /

[142|13-142|14] अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते /

[142|14] तस्मात्तिष्ठत्वेतत् /

[142|15] अथ नामरूपमिति को ऽर्थः / रूपं विस्तरेण यथोक्तम् /

[142|16] नाम त्वरूपिणः स्कन्धाः

[142|17] किं कारणम् / नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम / कतमस्य नाम्नो वशेन /

[142|18] यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि /

[142|19] एतस्य पुनः केन नामत्वम् / तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनात् /

[142|19-142|20] इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे //

[142|21] षडायतनमुक्तम् /

[142|22] स्पर्शो वक्तव्यः /

[142|23] ष्पर्शाः षट्

[142|24] चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति / ते पुनः

[143|01] संनिपातजाः /

[143|02] त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् /

[143|02-143|03] युक्तं तावत् पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः /

[143|03] सहजत्वात् /

[143|03-143|04] मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः /

[143|04-143|05] अयमेव तेषां संनिपातो यः कार्यकारणभावः /

[143|05] एककार्यार्थो वा संनिपातार्थः /

[143|05-143|06] सर्वे च ते त्रयो ऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति /

[143|06] अत्र पुनराचार्याणां भेदं गता बुद्धयः /

[143|06-143|08] केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः" इति /

[143|08-143|09] केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "षट्षट्को धर्मपर्यायः कतमः /

[143|10] षडाध्यात्मिकान्यायतनानि / षट् बाह्यान्यायतनानि / षट् विज्ञानकायाः /

[143|10-143|11] षट् स्पर्शकायाः /

[143|11] षट् वेदनाकायाः / षट् तृष्णाकाया" इति /

[143|11-143|12] अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग् देशिताः /

[143|12-143|13] तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः /

[143|13] न वै पृथिग्निर्देशात् पृथग्भावो भवति /

[143|13-143|14] मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति /

[143|14-143|15] नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् //

[143|15-143|16] न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् /

[143|16-143|17] यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् /

[143|17] तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति /

[143|18-143|19] न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् /

[143|19-143|20] अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके /

[143|20-143|21] ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति "इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श" इति /

[143|21] न वा एवं पठन्ति /

[143|21-143|22] किं तर्हि /

[143|22-143|23] संगतेः संनिपातात् समवायादिति पठन्ति कारणे व कार्योपचारो ऽयमिति ब्रुवन्ति /

[143|23] अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन /

[143|23-143|24] अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः /

[143|24] तेषां प्न्नां षण्णां स्पर्शानां

[143|25] पञ्चप्रतिघसंस्पर्शः षष्ठो ऽधिवचनाह्वय // vakk_3.30 //

[143|26] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते /

[143|26-144|01] सप्रतिघेन्द्रियाश्रयत्वात् /

[144|01] मनः संस्पर्शः षष्ठः सो ऽधिवचनस्पर्श इत्युच्यते /

[144|01-144|02] किं कारणं अधिवचनमुच्यते नाम /

[144|02] तत्किलास्याधिकमालम्बनमतो ऽधिवचनसंस्पर्श इति /

[144|02-144|04] यथोक्तं "चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती"ति /

[144|04] एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः /

[144|05] अपरे पुनराहुः / वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् /

[144|06] अतस्तदेवाधिवचनम् /

[144|06-144|07] तेन संप्रयुक्तः स्पर्शो ऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः /

[144|07] पुनस्त एव षट् स्पर्शास्त्रयो भवन्ति /

[144|08] विद्याविद्येतरस्पर्शाः

[144|09] विद्यासंस्पर्शो ऽविद्यासंस्पर्शः / ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति /

[144|09-144|10] एते पुनर्यथाक्रमं वेदितव्याः /

[144|11] अमलक्लिष्टशेषिताः /

[144|12-144|13] अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टो ऽविद्यासंस्पर्शो विद्या ऽविद्याभ्यां संप्रयुक्तत्वात् /

[144|13] शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् / कः पुन शेषः /

[144|14] कुशलसास्रवो ऽनिवृताव्याकृतश्च /

[144|14-144|15] पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात् द्वौ सोपर्शौ भवतः /

[144|16] व्यापादानुनयस्पर्शौ

[144|17] व्यापादानुनयाभ्यां संप्रयोगात् / पुनः सर्वसंग्रहेण

[144|18] सुखवेद्यादयस्त्रयः // vakk_3.31 //

[144|19] सुखवेदनीयः स्पर्शो दुःखवेदनीयो ऽदुःखासुखवेदनीयश्च / सुखवेदनादिहितत्वात् /

[144|20] अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् / किं तत् / वेदितम् /

[144|20-144|21] सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति

[144|21-144|22] एवं दुःखादुःखासुखवेदनीयावपि योज्यौ /

[144|22] त एते षोडश स्पर्शा भवन्ति / उक्तः स्पर्शः //

[144|23] वेदना वक्तव्या / तत्र यः पूर्वं षड्विधः स्पर्श उक्तः

[144|24] तज्जाः षड्वेदनाः

[144|25] चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः / तासां पुनः

[145|01] पञ्च कायिकी चैतसी परा /

[145|02] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते /

[145|02-145|03] रूपीन्द्रियाश्रितत्वात् /

[145|03] मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते / चित्तमात्राश्रितत्वात् /

[145|03-145|04] अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित् समानकालम् /

[145|04-145|05] समानकालमिति वैभाषिकाः /

[145|05] अन्योन्यं सहभूहेतुत्वात् /

[145|05-145|06] कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति /

[145|06] कथं च न सिध्यति / असामर्थ्यात् /

[145|06-145|07] जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञा ऽविशिष्टम् /

[145|07-145|08] यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति /

[145|08] अन्योन्यजनकप्रसङ्गत्तर्हि / इष्टत्वाददोषः /

[145|09] इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् /

[145|09-145|10] इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् /

[145|10-145|11] "चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श" इति वचनात् /

[145|11-145|12] जनकधर्मातिक्रमाव्चायुक्तम् /

[145|12-145|13] यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात् भिन्नकालः प्रसिद्धः /

[145|13-153|14] तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात् मनोविज्ञानमित्येवमादि /

[145|14-145|15] अन्यथा परंपरापेक्षत्वात् कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित् पश्चाद्विशेषाभावात् /

[145|15-145|16] नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः /

[145|16] सहभावो ऽपि तु सिद्धः /

[145|16-145|18] तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् /

[145|18-145|19] पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः //

[145|19] यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः /

[145|20] स्पर्शादुत्तरकालं वेदनेत्यपरे / इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् /

[145|20-145|21] सो ऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति /

[145|21-145|22] एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः /

[145|22] नैष दोषः /

[145|22-145|23] पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति /

[145|24] इदमयुक्तं वर्त्तते / किमत्रायुक्तम् /

[145|24-145|25] यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति /

[145|25-145|26] कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदना ऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति /

[145|26-146|01] अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् /

[146|01-146|02] तस्माच्च यत् पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः /

[146|02] प्रत्ययवैधुर्यादित्येवं सति को दोषः / महाभूमिकनियमो भिद्यते /

[146|03] "सर्वत्र चित्ते दशमहाभूमिका" इति / क्व चैष नियमः सिद्धः / शास्त्रे /

[146|03-146|04] सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः /

[146|04-146|05] उक्तं हि भगवता "सूत्रान्तप्रतिशरणैर्भवितव्यमि" ति /

[146|05-146|06] न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति /

[146|06] कस्तर्हि महाभूमिकार्थः / तिस्रो भूमयः /

[146|06-146|07] सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः पुनश्तिस्र कुसला भूमिः अकुशला ऽव्याकृता भुमिः /

[146|07-146|08] पुनस्तिस्रः /

[146|08] शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः /

[146|08-146|09] तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः /

[146|09-146|10] ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः /

[146|10] ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः /

[146|10-146|11] ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे /

[146|11] अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः /

[146|11-146|12] इदानीं पूर्वं न पठ्यन्ते स्म /

[146|12-146|14] यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने"ति /

[146|14-146|15] सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् /

[146|15-146|16] समनन्तरे ऽपि चायं सहशब्दो दृष्टस्तद्यथा "मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती" त्यज्ञापकमेतत् /

[146|16-146|18] यत्तर्हि सूत्र उक्तं "या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् /

[146|18] संप्रधार्यं तावदेतत् क एष सम्सृष्टार्थः /

[146|18-146|20] तत्र हि सूत्र एवमुक्तं "यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती"ति /

[146|20-146|21] तन्न विज्ञायते किम् तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति /

[146|21] आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियमः /

[146|22] यच्चापि सूत्र उक्तं "त्रयाणां संनिपातः स्पर्शः" इति /

[146|22-146|23] तत् कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति /

[146|23-146|24] तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या /

[146|24] अलमतिप्रसङ्गिया कथया / प्रकृतमेवानुक्रम्यताम् //

[146|25] उक्ता समासेन चैतसिकी वेदना //

[146|26] पुनश्चाष्टादशविधा सा मनोपविचारतः // vakk_3.32 //

[146|27] सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते /

[146|27-146|28] पुनः संधिकरणं चात्र द्रष्टव्यम् /

[146|28] अष्टादशमनो पविचाराः कतमे /

[146|28-147|01] षट् सौमनस्योपचिराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः /

[147|01] कथमेषां व्यवस्थानम् / यदि स्वभावतः /

[147|02] त्रयो भविष्यन्ति / सौमनस्यदौर्मनस्योपेक्षाविचाराः /

[147|02-147|03] अथ संप्रयोगतः /

[147|03] एको भविष्यति / सर्वेषां मनः संप्रयुक्तत्वात् / अथालम्बनतः / [147|03-147|04] षट् भविष्यन्ति /

[147|04] रूपादिषड्विषयालम्बनत्वत् / त्रिभिरपि स्थापना /

[147|04-147|05] तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् /

[147|05-147|06] त्रयो धर्मोपविचारा उभयथा /

[147|06] मनोपविचारा इति को ऽर्थः /

[147|06-147|07] मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति /

[147|07] विषयेषु वा मन उपविचारयन्तीत्यपरे /

[147|08] वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् /

[147|08-147|09] कस्मात् कायिकी वेदना न मनोपविचारः /

[147|09-147|10] नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिका ऽविकल्पकत्वादित्ययोगः /

[147|10] तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् /

[147|10-147|11] आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति /

[147|12] यदि मनोभूमिका एवैते /

[147|12-147|13] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः /

[147|13] कथम् /

[147|13-147|14] पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं "मनोभूमिका ह्येते /

[147|14-147|15] तद्यथा ऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे"ति /

[147|15-147|16] अपि तु "दृष्ट्वा यावत् स्पृष्ट्वे"ति वचनात् /

[147|16-147|17] अचोद्यमेवैतत् / ये ऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति ते ऽपि मनोपविचाराः /

[147|17-147|18] इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः /

[147|18-147|19] यथा तु यक्ततरं तथोक्तं यो ऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सो ऽपि मनोपविचारः /

[147|20] यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः /

[147|20-147|21] किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात् यावदुपेक्षास्थानीयमेव /

[147|21-147|22] अस्ति संतानं नियमय्य न त्व्बालम्बनम् //

[147|23-147|24] अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः /

[147|24] आह

[147|25] कामे स्वालम्बनाः सर्वे

[147|26] आमधातौ सर्वे ऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् / तेषामेव

[148|01] रूपी द्वादशगोचरः /

[148|02] रूपधातुर्द्वादशानामालम्बनं षट् गन्धरसोपविचारानपास्य / तत्र तयोरभावात् /

[148|03] त्रयाणामुत्तरः

[148|04] गोचर इति वर्तते / आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् /

[148|04-148|05] तत्र रूपाद्यभावात् //

[148|05] उक्ताः कामप्रतिसंयुकताः /

[148|06] रूपप्रतिसंयुक्ता वक्तव्याः / तत्र तावत्

[148|07] ध्यानद्वये द्वादश

[148|08] दौर्मनस्योपविचारानपास्य / ते च द्वादश

[148|09] कामगाः // vakk_3.33 //

[148|10] कामान् गच्छन्तीति कामगाः / कामधातुमालबन्त इत्यर्थः /

[148|10-148|11] दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः /

[148|11] कथमेतत् गम्यते / एवमेतत् गम्यत इति /

[148|12] स्वो ऽष्टालम्बनम्

[148|13] स एव रूपधातुस्तेषं स्वः / स एव रूपधातुस्तेषां स्वः /

[148|13-148|14] स्वो ऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा /

[148|15] आरूप्यो द्वयोः

[148|16] धर्मोपविचारयोरालम्बनम् /

[148|17] ध्यानद्वये तु षट् /

[148|18] तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये / तेषां पुनरालम्बनं

[148|19] कामाः षण्णां

[148|20] कामधातुः षण्णामप्यालम्बनम् /

[148|21] चतुर्णां स्वः

[148|22] रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् /

[148|23] एकस्यालम्बनं परः // vakk_3.34 //

[148|24] आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् / उक्ता रूपप्रतिसंयुक्ताः /

[149|01] आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते /

[149|02] चत्वारो ऽरूपिसामन्ते

[149|03] आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् /

[149|03-149|04] तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः /

[149|04] ते च

[149|05] रूपगाः

[149|06] चतुर्थं हि ध्यानमेषामालम्बनम् /

[149|06-149|08] येषां तत् व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः /

[149|09] एक ऊर्ध्वगः /

[149|10] एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः /

[149|11] एको मौले

[149|12] मौले पुनरारूप्ये धर्मोपविचार एवैको ऽस्ति नान्यः / स चापि

[149|13] स्वविषयः

[149|14] आरुप्यधात्वालम्बन एव /

[149|14-149|15] नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात् प्रतिवेदविष्यामः /

[149|15] एते च मनोपविचाराः

[149|16] सर्वे ऽष्टादश सास्रवाः // vakk_3.35 //

[149|17] नास्ति कश्चिदनास्रवः / कः कतिभिः समन्वागतः /

[149|17-149|21] कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः /

[149|21-149|22] चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः /

[149|22] द्वितीयध्यानभूमिकैरष्टाभिः /

[149|23] तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् / अनया वर्त्तन्या शेषमनुगन्तव्यम् /

[149|24-149|25] ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः /

[149|25] अपर आह /

[149|25-150|01] अस्त्येवं मनोपविचाराणां वैभाषिकीयो ऽर्थः /

[150|01] सूत्रार्थस्त्वन्यथा दृश्यते /

[150|01-150|02] नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् /

[150|02-150|03] अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः /

[150|03] किं तर्हि / सांक्लेशिका यैर्मनो विषयानुपविचरतीति /

[150|03-150|04] कथं चोपविचरति /

[150|04-150|05] अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट् सातता विहारा भवन्ति /

[150|05-150|07] चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजानन् एवं यावन्मनसा धर्मान् विज्ञायेति /

[150|07-150|08] नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति /

[150|08-150|09] पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति /

[150|09] गर्धनैष्क्रम्याश्रितभेदेन /

[150|10] तद्भेदस्य शास्त्रा गमितत्वात् /

[150|10-150|11] तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः /

[150|11] एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् /

[150|11-150|12] शेषाण्यङ्गानि पुनर्नोच्यन्ते /

[150|12] किं कारणम् / यस्मात्

[150|13] उक्तं च वक्ष्यते चान्यत्

[150|14] किञ्चिदत्राङ्गमुक्तं किञ्चित् पश्चद्वक्ष्यते / तत्र विज्ञानं तावदुक्तं

[150|15] "विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि"ति /

[150|16] षडायतनमप्युक्तं

[150|17] "तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय" इति /

[150|18] संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते / तृष्णोपादानानि क्लेशकोशस्थाने /

[150|19] स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक् ज्ञापितम् /

[150|20] अत्र तु क्लेश इष्यते /

[150|21] बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा // vakk_3.36 //

[150|22] किमस्य वीजादिभिः साधर्म्यम् /

[150|22-150|23] तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात् क्लेशकर्मवस्तूनाम् /

[150|23-151|01] यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः /

[151|01-151|02] यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः /

[151|02-151|03] यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत् क्लेशकर्मवस्तूनां हेतुर्भवन्ति /

[151|03-151|06] यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत् क्लेशो बीजादिवद्वेदितव्यः /

[151|07] तुषितण्डुलवत् कर्म तथैवौषधिपुष्पवत् /

[151|08] तुषौ ऽस्यास्तीति तुषी / तुषस्थानीयः क्लेश उक्तः /

[151|08-151|09] इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते /

[151|09-151|10] सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते /

[151|10-151|11] यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि /

[151|12] सिद्धान्नपानवद्वस्तु

[151|13-151|14] पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु /

[151|14] नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते /

[151|14-151|15] यदि हि प्रवर्धेत मोक्षो न स्यात् /

[151|15-151|16] न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति /

[151|16] यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च /

[151|16-151|17] ते च व्याख्याताः /

[151|18] तस्मिन् भवचतुष्टये // vakk_3.37 //

[151|19] उपपत्तिभवः क्लिष्टः

[151|20] एकान्तेन / कतमेन क्लेशेन /

[151|21] सर्वक्लेशै स्वभूमिकैः /

[151|22] यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः /

[151|22-151|23] नहि स क्लेशो ऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः /

[151|23-151|24] क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः /

[151|24-151|25] यद्यपि सा ऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते /

[151|25] पूर्वावेधात् /

[151|25-151|26] अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः /

[151|27] त्रिधा ऽन्ये

[151|28] अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः /

[152|01] अथैषां भवानां कतमः किंप्रतिसंयुक्तः /

[152|02] त्रय आरूप्ये

[152|03] अन्तराभवं वर्जयित्वा /

[152|03-152|04] नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवो ऽभिनिर्वर्तेत /

[152|04-152|05] कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति /

[152|05-152|06] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण /

[152|07] अथ कथं सत्त्वानां स्थितिभवतीत्याह

[152|08] आहारस्थितिकं जगत् // vakk_3.38 //

[152|09-152|10] एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो "यदुत सर्वस्त्त्वा आहारस्थितिका" इति सूत्रपदम् /

[152|10] के पुनराहाराः / चत्वार आहाराः /

[152|10-152|11] कवडीकाराहारः प्रथमः /

[152|11] औदारिकः सूक्ष्मश्च /

[152|11-152|12] सूक्ष्मो ऽन्तराभविकानां गन्धाहारत्वात् /

[152|12]

देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् /

[152|12-152|13] तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् /

[152|13] सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् /

[152|13-152|14] स्पर्शो द्वितीयः /

[152|14] मनःसंचेतना तृतीयः / विज्ञानमाहारश्चतुर्थः /

[152|15] तत्र पुनः

[152|16] कवडीकार आहारः कामे

[152|17] न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः / स च

[152|18] त्र्यायतनात्मकः /

[152|19] कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः /

[152|19-152|20] कवडीकृत्याभ्यवहरणात् /

[152|20] मुखनासिकाग्रासव्यवच्छेदतः /

[152|20-152|21] च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् /

[152|21] बाहुल्येन किलैष निर्देशः /

[152|21-152|22] यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः /

[152|22] स्नानाभ्यङ्गवदिति /

[152|22-152|23] कस्मान्न रूपायतनमाहारः /

[152|23] तदपि कवडीकृत्याभ्यवह्रियते /

[152|24] न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् // vakk_3.39 //

[152|25] आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते /

[152|25-152|26] रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति /

[152|26] कुत एवान्यान्यविषत्वात् /

[153|01-153|02] यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् /

[153|02-153|03] मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् /

[153|04] स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु /

[153|05] स्पर्शस्त्रिकसंनिपातजः /

[153|05-153|06] चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते /

[153|06] किमर्थं नानास्रवाणि /

[153|06-153|07] यस्मात् भवापोषणार्थ आहारार्थः /

[153|07] तानि च भावक्षयायोत्थितानीति वैभाषिकाः /

[153|07-153|09] अपि तु सूत्र उक्तं "चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये"ति /

[153|09] न चैवमनास्रवा धर्मा इति नाहाराः /

[153|10] भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते / अथ संभवैषिणः कतमे /

[153|11] मनोमयः संभवैषी गन्धर्वश्चान्तराभवः // vakk_3.40 //

[153|12] निर्वृत्तिश्च

[153|13] अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता /

[153|13-153|14] स एव मनोनिर्जातत्वात् मनोमय उक्तः /

[153|14] शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् /

[153|14-153|15] संभवैषणशीलत्वात् संभवैषी /

[153|15] गन्धर्वणात् गन्धर्वः / उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः /

[153|15-153|16] "अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत" इति सूत्रपदात् /

[153|16-153|18] "तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्" इति सूत्र चतुःकोटिकात् /

[153|18] प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसो ऽनागामिनः /

[153|18-153|19] द्वितीयान्तरापरिनिर्वायिणः /

[153|19] तृतीया ऽर्हताम् / चतुर्थ्येतानाकारान् स्थापयित्वा /

[153|19-153|20] भूतावा ऽर्हन्तः संभवैषिणः सतृष्णाः /

[153|21] अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय /

[153|21-153|22] सर्वे ऽप्युभयथेति वैभाषिकाः /

[153|22] कवडीकाराहारो ऽपि हि तद्रागिणां पुनर्भवाय संवर्तते / उक्तं हि /

[153|23-153|24] भगवता "अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय" इति /

[153|24] मनःसंचेतना ऽपि चेह स्थितये दृश्यते /

[153|24-153|26] एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ /

[153|26-153|27] तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति /

[153|27-154|02] पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति /

[154|02-154|04] संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात् स्थलमभिरुह्य सिकतास्थले ऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रे ऽवतरन्ति /

[154|04-154|05] तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति /

[154|05] तदेतन्न वर्णयन्ति सौत्रान्तिकाः /

[154|05-154|06] मा भूत् परकीयेणाहारेणाहार इति /

[154|06] एवं तु वर्णयन्ति /

[154|06-154|07] येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति /

[154|07-154|08] येषां तु मुष्यते तानि पूतीभवन्ति /

[154|08] तस्याः स्पर्शावस्थायाः स्मरन्तीति /

[154|09] अथ कस्माच्चत्वार एवाहाराः /

[154|09-154|10] ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः /

[154|10] यद्यप्येतदेवं तथापि प्रधान्येनोक्तम्

[154|11] इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् /

[154|12] द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम् // vakk_3.41 //

[154|13] आश्रयो हि सेन्द्रियः कायः / तस्य पुष्टये कवडीकाराहाराः /

[154|13-154|14] आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः /

[154|14] अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् /

[154|14-154|16] मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् /

[154|16] अतश्चत्वार उक्ताः /

[154|16-154|17] पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् /

[154|17] उत्तरौ मातृस्थानीयौ जनकत्वादिति /

[154|18] यः कश्चित् कवडीकारः सर्वः स आहारः /

[154|18-154|19] स्यात् कवडीकारो नाहार इति चतुष्कोटिकम् /

[154|19-154|20] प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः /

[154|20] द्वितीया कोटिस्त्रय आहाराः /

[154|20-154|21] तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः /

[154|21-154|22] चतुर्थ्येतानाकारान् स्थापयित्वा /

[154|22-154|23] एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि /

[154|23-154|24] स्यात् स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः /

[154|24] स्यादन्यभूमिकाननास्रवांश्च /

[154|24-154|25] यो ऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सो ऽप्याहार एव /

[154|25] आपाते ऽनुग्रहात् /

[154|25-154|26] द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः /

[154|26] अथ कस्यां गतौ कत्याहाराः /

[154|27] सर्वासु सर्वे / एवं योनिष्वपि / कथं नरकेषु कवडीकार आहारः /

[154|27-154|28] प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् /

[154|28-155|01] यद्यूपघातको ऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च "कवडीकार आहारः कतमः /

[155|01-155|03] यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापना ऽनुयापनेति विस्तरेण यावद्विज्ञानम् /"

[155|03] उपचयाहाराभिसंधिवचनादविरोधः /

[155|03-155|04] अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् /

[155|04] सो ऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति /

[155|04-155|05] अपितु प्रत्येकनरकेषु मनुष्यवत् कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् /

[155|05-155|07] उक्तं भगवता "यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् /

[155|07] अतो दानादिदं दानं महाफलतरमि"ति /

[155|07-155|08] को ऽयं जम्बूषण्डगतो नाम पृथग्जनः /

[155|08] जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके /

[155|08-155|09] तदेतन्न युक्तमेकमिति वचनात् /

[155|09] कश्चात्र विशेषः /

[155|09-155|10] स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात् नाल्पीयसो वीतरागानिति /

[155|10] संनिकृष्टो बोधिसत्त्व इत्यपरे /

[155|11] तदेतन्न वर्णयन्ति "बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य" इति /

[155|11-155|12] अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः /

[155|12-155|13] नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा /

[155|13-155|14] जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः /

[155|14] बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते /

[155|14-155|15] स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति /

[155|15-155|16] अनन्तेभ्यो ऽपि हि स तेभ्यो विशिष्यमाणः /

[155|16] शतग्रहणं तु पूर्वाधिकारात् /

[155|16-155|17] इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव /

[155|17-155|18] अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् /

[155|18-155|19] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः /

[155|20] इदमिदानीं वक्तव्यम् / कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह

[155|21] छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः /

[155|22] मनोविज्ञान एवेष्टाः

[155|23-155|24] कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च /

[155|24] एते षट् धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र /

[155|24-155|25] उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः /

[155|25] वेदनायां तु

[156|01] उपेक्षायां च्युतोद्भवौ // vakk_3.42 //

[156|02] च्युतिरेव च्युतमुपपत्तिरुद्भवः /

[156|02-156|03] एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् /

[156|03] इतरे हि वेदने पट्व्यौ / न च पटुविज्ञाने च्युत्युपपत्ती युज्येते /

[156|03-156|04] तत्रापि च मनोविज्ञाने ऽपि

[156|05] नैकाग्राचित्तयोरेतौ

[156|06] च्युतोद्भवाविति वर्तते / नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा /

[156|06-156|07] विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च /

[156|07-156|08] नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत /

[156|08-156|09] यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात् प्रच्यवेत नान्यथा /

[156|09-156|10] उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् /

[156|11] मरणभवस्त्रिप्रकार इत्युक्तम् / अर्हस्तु

[156|12] निर्वात्यव्याकृतद्वये /

[156|13] ऐर्यापथिके विपाकचित्ते वा / अस्ति चेत्कामधातौ विपाक उपेक्षा /

[156|13-156|14] नास्ति चेदैर्यापथिक एव /

[156|14] किमर्थमव्याकृट एव नान्यस्मिन् /

[156|14-156|15] तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् /

[156|16] अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते /

[156|16-156|17] सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते /

[156|17] यदि तु क्रमेण च्यवते ततः

[156|18] क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः // vakk_3.43 //

[156|19] अधोनृसुरगाजानां

[156|20] अधो गच्छन्तीत्यधोगा अपायगामिनः / नृन् गच्छन्तीति नृगा मनुष्यगामिनः /

[156|20-156|21] सुरान् गच्छन्तीति सुरगा देवगामिनः /

[156|21-156|22] तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते /

[156|22] न पुनर्जायन्त इत्यजा अर्हन्तः / तेषामपि हृदये विज्ञानं निरुध्यते /

[156|23] मूर्ध्नीत्यपरे /

[156|23-156|24] कायेन्द्रियस्य तेषु निरोधात् कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति /

[156|24-156|25] एवं च पुनः क्रमेण मरणम् /

[156|25] प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते /

[156|26] मर्मच्छेदस्त्वबादिभिः /

[156|27] शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति /

[156|27-157|01] ते ह्येतदुच्यन्ते मर्माणीति /

[157|01-157|03] तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते /

[157|03-157|04] कस्मान्न पृथिवीधातुना /

[157|04] चतुर्थदोषाभावात् / वातपित्तश्लेष्माणो हि त्रयो दोषाः /

[157|04-157|05] ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति /

[157|05] भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे /

[157|05-157|06] देवेषु नास्ति मर्मच्छेदः /

[157|06] किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति /

[157|07-157|09] वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मना ऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः /

[157|09] एतानि तु व्यभिचारीणि /

[157|09-157|10] पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते /

[157|10-157|11] वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते /

[157|11-157|12] सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता /

[157|12-157|13] त्रयो राशयः /

[157|13-157|14] सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति /

[157|14] तत्र पुनः

[157|15] सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः // vakk_3.44 //

[157|16] "सम्यक्त्वं कतमत् /

[157|16-157|17] यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व"मिति सूत्रम् /

[157|17] आर्याः कतमे /

[157|18] येषामनास्रवो मार्ग उत्पन्नः / आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः /

[157|18-157|19] आत्यन्तिकविसंयोगप्राप्तिलाभात् /

[157|19-157|20] एते हि क्लेशक्षये नियतत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनो ऽप्यवश्यं परिनिर्वाणधर्माण इति /

[157|20] कस्मान्न सम्यक्त्वे नियताः /

[157|21] ते हि मिथ्यात्वेऽपि नियता भवेयुः /

[157|21-157|22] न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः /

[157|22] मिथ्यात्वं कतमत् /

[157|22-157|23] नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् /

[157|23] तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः /

[157|23-157|24] नियतेभ्योऽन्येऽनियता इति सिद्धम् /

[157|24] प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च /

[157|25] उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः /

[157|26-157|27] तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः / लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् // vakk_3.45 //

[158|01] त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति /

[158|01-158|02] यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् /

[158|02-158|04] कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः /

[158|04] तस्योपरिष्टात्

[158|05] अपामेकादशोद्वेधं सहस्राणि च विंशतिः //

[158|06] मण्डलमिति वर्त्तते /

[158|06-158|07] तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति /

[158|07] तत् भवत्यषां मण्डलम् /

[158|07-158|08] तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि / [158|08] कथं ता आपो न तिर्यङ्ग्विस्रवन्ति /

[158|08-158|09] सत्त्वानां कर्माधिपत्येन /

[158|09-158|10] यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके /

[158|10] कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः /

[158|10-158|12] ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन /

[158|12] तत् भवत्यषां मण्डलम् /

[158|13] अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् // vakk_3.46 //

[158|14] किं च शेषम् / त्रयो लक्ल्षाः सहस्राणि च विंशतिः /

[158|14-158|15] सा काञ्चनमयी मही भवत्यपामुपरिष्टात् उक्तो जलकाञ्चनमण्डलोच्छ्रायः /

[158|16-158|17] तिर्यक् त्रीणि सहस्राणि सार्धं शतचतुष्टयम् / लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् // vakk_3.47 //

[158|18] समानं ह्येतदुभयं विस्तारतः /

[158|19] समन्ततस्तु त्रिगुणं

[158|20-158|21] समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् /

[158|21-158|22] यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात् संनिविष्टं

[158|23-158|24] तत्र मेरुर्युगन्धरः / ईशाधारः खदिरकः सुदर्शनगिरिस्तथा // vakk_3.48 //

[159|01] अश्वकर्णो विनितको निमिन्धरगिरिः

[159|02] इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः / मध्ये सुमेरुः /

[159|02-159|03] शेषाः सुमेरुपरिचायावस्थिताः /

[159|03-159|04] तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः /

[159|05] ततः /

[159|06] द्वीपाः

[159|07] ततो बहिश्चत्वारो द्वीपाः / तेभ्यः पुनः

[159|08] बहिश्चक्रवाडः

[159|09] तेन चातुर्द्विपकश्चक्रीकृतः / तेषां तु

[159|10] सप्त हैमाः स आयसः // vakk_3.49 //

[159|11] युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः /

[159|12] चतूरत्नमयो मेरुः

[159|13] सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु /

[159|13-159|14] यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते /

[159|14-159|15] जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति /

[159|15-159|16] तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति /

[159|17] अथ कथं तेषां संभवः /

[159|17-159|18] काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति /

[159|18-159|19] ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति /

[159|19-159|20] एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति /

[159|20-159|21] न तु खलु यथा सांख्यानां परिणामः /

[159|21] कथं च सांख्यानां परिणामः /

[159|21-159|22] अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति /

[159|22] कश्चात्र दोषः /

[159|22-159|23] स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत /

[159|23-159|24] कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति /

[159|24] तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः /

[159|24-159|25] एवमप्ययुक्तम् /

[159|25] किमत्रायुक्तम् / तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः /

[159|25-159|26] एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात् प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते /

[159|26-159|27] त एते पर्वताश्च भवन्ति द्वीपाश्च /

[159|27] ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः

[160|01] जलेऽशीतिसहस्रके /

[160|02] मग्नाः

[160|03] काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः /

[160|04] ऊर्ध्वं जलात् मेरुर्भूयो ऽशीतिसहस्रकः // vakk_3.50 //

[160|05] इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः /

[160|06] अर्धार्धहानिरष्टासु

[160|07] जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि /

[160|07-160|09] ततो ऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः /

[160|10] समोच्छ्रायघनाश्च ते /

[160|11] यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः /

[160|12] शीताः सप्तान्तराण्येषां

[160|13-160|14] एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य /

[160|14-160|15] तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते /

[160|16] तासां च पुनः

[160|17] आद्याशीतिसहस्रिका // vakk_3.51 //

[160|18] सुमेरुयुगन्धरान्तरं प्रथमा शीता / अशीतिर्योजनसहस्राणि वैपुल्येन /

[160|19] आभ्यन्तरः समुद्रोऽसौ

[160|20] द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च / तदाऽसौ शीताऽभ्यन्तरः समुद्रः

[160|21] त्रिगुणः स तु पार्श्वतः /

[160|22] अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् /

[160|22-160|23] पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत् सहस्राणि लक्षद्वयं च /

[161|01] अर्धार्धेनापराः शीताः

[161|02-161|03] युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत् योजनसहस्राणि /

[161|03-161|04] ततो ऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति /

[161|04] यावदर्धत्रयोदशशतानि सप्तमी शीता /

[161|04-161|05] दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् /

[161|06] शेषं बाह्यो महोदधेः // vakk_3.52 //

[161|07] किं शेषम् / निमिन्धरचक्रवाडयोरन्तरम् /

[161|07-161|08] तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य /

[161|08] स खलु विस्तारेण योजनानां

[161|09] लक्षत्रयं सहस्राणि विंशतिर्द्वे च

[161|10] तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु /

[161|11] तत्र तु /

[161|12] जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः // vakk_3.53 //

[161|13] साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः /

[161|13-161|15] तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति //

[161|15] नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः /

[161|16] सार्धत्रियोजनं त्वेकं

[161|17] च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि / अत एव ह्यसौ शकटाकृतिः /

[161|18] प्राग्विदेहोऽर्धचन्द्रवत् /

[161|19] इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः / सो ऽर्धचन्द्र इवाभिनिर्वृत्तः /

[161|19-161|20] परिमाणतस्तु

[161|21] पार्श्वत्रयं तथा ऽस्य

[161|22] यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे /

[161|23] एकं सार्धं त्रिशतयोजनम् // vakk_3.54 //

[161|24] चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि /

[161|25] गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः /

[162|01-162|02] इतः पश्चिमेन सुमेरुपार्श्वे ऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन /

[162|02] मण्डलश्चासौ पूर्णचन्द्रवत् /

[162|03] सार्धे द्वे मध्यमस्य

[162|04] मध्यमस्यार्धतृतीये योजनसहस्रे /

[162|05] अष्टौ चतुरस्रः कुरुः समः // vakk_3.55 //

[162|06] इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः /

[162|06-162|07] सो ऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः /

[162|07] कृत्यापीठिकावत् /

[162|07-162|08] सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे /

[162|08] तथा ऽन्यानि स्तोकमपि नाधिकम् /

[162|08-162|09] यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.