Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[097|15] उक्ता हेतवः फलानि च //

[097|16-097|17] तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः /

[097|17-097|18] के पुनः शेषाः /

[097|18] विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति /

[097|18-097|19] एते चतुर्विधा धर्माः /

[097|20-097|21] क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् / विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः // vakk_2.60 //

[097|22] क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते /

[097|22-097|23] विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव /

[097|23-097|24] शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते /

[097|24-097|25] प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते /

[097|26] कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह

[097|27] चित्तचैत्ताः

[097|28] अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह /

[097|29] तथा ऽन्ये ऽपि संप्रयुक्तकवर्जिताः /

[097|30-098|01] प्रयुक्तकहेतुनैकेन वर्जिताः अन्ये ऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः /

[098|01] तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च /

[098|01-098|02] शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् /

[098|02] एकहेतुसंभूतो नास्ति धर्मः //

समाप्तो हेतुविस्तरः //

[098|03] प्रत्ययाः कतमे /

[098|04] चत्वारः प्रत्यया उक्ताः

[098|05] क्ववोक्ताः / सूत्रे / "चतस्रः प्रत्ययताः /

[098|05-098|06] हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे"ति /

[098|06] प्रत्ययजातिः प्रत्ययता / तत्र

[098|07] हेत्वाख्यः पञ्च हेतवः // vakk_2.61 //

[098|08] कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः /

[098|09] चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः /

[098|10] अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः /

[098|10-098|11] समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः /

[098|11] अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः /

[098|12-098|13] तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित् कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः /

[098|14-098|15] अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः /

[098|15] अल्पबहुतरोत्पत्तेरिति भदन्तः /

[098|15-098|16] कदाचिद्धि महतो रूपादल्पमुत्पद्यते /

[098|16] तद्यथा पलालराशेर्भस्म / कदाचिदल्पाद्वहूत्पद्यते /

[098|16-098|17] तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति /

[098|17-098|18] ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः /

[098|18-098|19] कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये /

[098|19] अस्ति जात्यन्तरं प्रति न स्वजातिम् /

[098|19-098|20] नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा /

[098|20-098|21] किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति /

[098|21] नैतदस्ति /

[098|21-098|22] सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात् प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् /

[098|23] सन्तानसभागिकास्तु मन्यन्ते "स्वजातेरेव समनन्तरप्रत्ययः /

[098|23-098|24] तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे"ति विस्तरः /

[098|24-098|26] यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति /

[098|26] तदेतन्न वत्स्र्यते /

[098|26-098|27] प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत् चित्तविप्रयुक्ता अपि संस्काराः /

[098|27-098|29] अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत् संमुखीभावात् / [098|29] कस्मादनागतो नेष्यते समनन्तरप्रत्ययः /

[098|29-099|01] व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरता ऽभावात् /

[099|01-099|02] कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति /

[099|02] अतीतसांप्रतानुमानात् /

[099|02-099|03] अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः /

[099|04] इदं चापि संप्रत्येवञ्जातीयकं कर्म /

[099|04-099|05] तस्मादतो ऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति /

[099|05] नचान्यत् ज्ञानमानुमानिकं भवति /

[099|05-099|07] यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति /

[099|07-099|08] एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वा ऽपरान्तं न जानीयात् /

[099|08] अन्ये पुनराहुः /

[099|08-099|10] फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषो ऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति /

[099|10-099|11] नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी /

[099|11] तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः /

[099|12] "अचिन्त्यो हि बुद्धानां बुद्धिविषय" इत्युक्तं भगवता /

[099|12-099|13] अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः /

[099|14] एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति /

[099|15] यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते /

[099|15-099|16] तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति /

[099|16] कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः /

[099|17] अन्यचित्तासंबन्धनात् /

[099|17-099|18] ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात् मनो ऽपि चरमं चित्तं न प्राप्नोति /

[099|18-099|19] आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः /

[099|19-099|20] कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति /

[099|20-099|21] कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते /

[099|21-099|22] ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते /

[099|22] चतुष्कोटिकः /

[099|22-099|23] प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः /

[099|23-099|24] द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः /

[099|24-099|25] तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था /

[099|25-099|26] चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च /

[099|26-099|27] ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते /

[099|27] चतुष्कोटिकः /

[099|27-100|01] ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये /

[100|01-100|02] कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते /

[100|02] चित्तान्तराव्यवहितत्वात् //

उक्तःः समनन्तरप्रत्ययः //

[100|03] आलम्बनं सर्वधर्माः /

[100|04] यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् / श्रोत्रविज्ञानस्य शब्दः /

[100|04-100|05] ग्राणविज्ञानस्य गन्धः /

[100|05] जिह्वाविज्ञानस्य रसः / कायविज्ञानस्य स्प्रष्टव्यम् /

[100|05-100|06] मन्नोविज्ञानस्य सर्वधर्माः /

[100|06] यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्/

[100|07] अनालम्ब्यमानो ऽपि तथालक्षणत्वाद् /

[100|07-100|08] यथा ऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति /

[100|08-100|09] त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः /

[100|09] किमाश्रयनियमेनापि नियताः / ओमित्याह /

[100|09-100|10] उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः /

[100|10] अतीता अप्याश्रयसहिता इत्यपरे //

[100|11] उक्त आलम्बनप्रत्ययः //

[100|12] कारणाख्यो ऽधिपः स्मृतः // vakk_2.62 //

[100|13] य एव कारणहेतुः स एवा धिपतिप्रत्ययः /

[100|13-100|14] अधिको ऽयं प्रत्यय इत्यधिपतिप्रत्ययः /

[100|14-100|15] आलम्बनप्रत्ययो ऽपि सवन्धर्माः अधिपतिप्रत्ययो ऽपीति किमस्त्याधिक्यम् /

[100|15] न जातु सहभुवो धर्मा आलम्बनं भवन्ति /

[100|15-100|16] भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् /

[100|16] अधिकस्य वा प्रत्ययः /

[100|16-100|17] सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य /

[100|17] स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः /

[100|17-100|18] स्यात्स्वभावः स्वभावस्य परभावो ऽपि /

[100|18] स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य /

[100|19-100|18] अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति /

[100|19-100|20] हेतुप्रत्ययस्तावत् पञ्चविध उक्तः /

[100|20] तत्र

[100|21] निरुध्यमाने कारित्रं द्वी हेतू कुरुतः /

[100|22] निरुध्यमानं नाम वर्क्तमानम् / निरोधाभिमुखत्वात् /

[100|22-100|23] तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः /

[100|23] सहोत्पन्ने ऽपि फले तयोर्व्यापारः /

[100|24] त्रयः /

[100|25] जायमाने

[100|26] जायमानं नामानागतमुत्पादाभिमुखम् /

[100|26-100|27] तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति /

[100|27] एवं तावद्धेतुप्रत्ययः /

[101|01] ततो ऽन्यौ तु प्रत्ययौ तद्विपर्ययात् // vakk_2.63 //

[101|02-101|03] येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ /

[101|03-101|04] समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् /

[101|04] आलम्बनप्रत्ययो निरुध्यमाने / वर्त्तमानैश्चित्तचैतैर्ग्रहणात् /

[101|04-101|05] अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् //

[101|06] उक्ताः सकारित्राः प्रत्ययाः //

[101|07] अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते /

[101|08] चतुर्भिश्चत्तचैत्ता हि

[101|09] तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः /

[101|09-101|10] समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः /

[101|10] आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च /

[101|10-101|11] अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः /

[101|12] समापत्तिद्वयं त्रिभिः /

[101|13] निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति / नहि ते आलम्बिके /

[101|13-101|14] हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः /

[101|14-101|15] सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः /

[101|15] समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् /

[101|15-101|16] अधिपतिप्रत्ययः पूर्ववत् /

[101|16] चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे /

[101|16-101|17] चित्तोत्पत्तिविबन्धकत्वात् न समनन्तरप्रत्ययः /

[101|18] द्वाभ्यामन्ये तु जायन्ते

[101|19-101|20] अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव /

[101|20-101|21] आह तु "प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति /

[101|21] को ऽत्र हेतुः / यदि खलु हेतुकृतां सिद्धिं मन्यसे /

[101|22] ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति /

[101|23] अपिच

[101|24] नेश्वरादेः क्रमादिभिः // vakk_2.64 //

[101|25] यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् /

[101|26] दृश्यते च भावानां क्रमसंभवः /

[101|26-101|27] स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति /

[101|27] च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् /

[101|27-102|01] स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् /

[102|01-102|02] कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् /

[102|02-102|04] तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् /

[102|04-102|05] योगपद्ये ऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् /

[102|05] यथाच्छन्दमुत्पादनादि ति चेत् / न /

[102|05-102|06] तेषां पश्चाद्विशेषाभावात् /

[102|06] कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः /

[102|06-102|08] यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् /

[102|08-102|09] यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमो ऽस्तु तस्मै तादृशायेश्व्राय /

[102|09] सुगीतश्चायं तमारभ्य श्लोको भवति /

[102|10] "यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् /

[102|11] मांसशोणितमज्जादो यत्ततो रुद्र उच्यत" इति /

[102|12-102|13] एकं खल्वपि जगतः कारणं परिगृह्णता ऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् /

[102|13] सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् /

[102|14] कारणेभ्यो ऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् /

[102|14-102|15] सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् /

[102|15] अथादिसर्ग ईश्वरहेतुकः /

[102|15-102|16] तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग /

[102|16] एवं प्रधाने ऽपि यथायोगं वाच्यम् /

[102|16-102|17] तस्मान्न लोकस्यैकं कारणमस्ति /

[102|17] स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति /

[102|17-102|18] अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति /

[102|19] गतमेतद्यत्तु खलु तदुक्तं "द्वाभ्यामन्ये तु जायन्त" इति /

[102|20] अथ कथं भूतानि भूतानां हेतुप्रत्ययः /

[102|21] द्विधा भूतानि तद्धेतुः

[102|22] भूतहेतुरित्यर्थः / सभागसहभूहेतुभ्यां

[102|23] भौतिकस्य तु पञ्चधा /

[102|24] भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः / कथम् /

[102|25] "जननान्निःश्रयात् स्थानादुपस्तम्भोगवृंहणात्"

[102|26] सो ऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः /

[102|26-102|27] जननहेतुस्तेभ्य उत्पत्तेः /

[102|27-102|28] निश्रयहेतुर्जातस्य भूतानुविधायित्वात् पुरुषकारफलादाचार्यादिनिःश्रयवत् /

[102|28] प्रतिष्ठाहेतुराधारभावात् / चित्रकृत्यवत् /

[103|01] उपस्तम्भहेतुरनुच्छेदहेतुत्वात् /

[103|01-103|02] एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति /

[103|03] त्रिधा भौतिकमन्योन्यं /

[103|04] हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात् न सर्वदा गण्यते /

[103|04-103|05] तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म /

[103|05] नान्यदुपादायरूपम् /

[103|05-103|06] सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य /

[103|06] विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः /

[103|07] भूतानामेकधैव तत् // vakk_2.65 //

[103|08] भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः /

[103|09-103|10] अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति /

[103|10] स इदानीं वक्तव्यः /

[103|10-103|11] तत्र तावत् समासेन द्वादश चित्तानि /

[103|11] किमर्थमित्याह

[103|12] कुशलाकुशलं कामे निवृतानिवृतं मनः /

[103|13] कामधातौ चत्वारि चित्तानि /

[101|13] कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च /

[103|14] रूपारूप्येष्वकुशलादन्यत्र

[103|15] रूपधातावकुशलं नास्ति / त्रीणि सन्ति / एवमारूप्यधातौ /

[103|15-103|16] इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति /

[103|17] अनास्रवं द्विधा // vakk_2.66 //

[103|18] शैक्षमशैक्षं च / एवमेतानि द्वादश चित्तानि भवन्ति / तत्र

[103|19] कामे नव शुभाच्चित्ताच्चित्तानि

[103|20] अनन्तरमिति पश्चाद्वक्ष्यति /

[103|20-103|21] कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते /

[103|21] स्वभूमिकानि चत्वारि / रूपावचरे द्वे /

[103|21-103|22] समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् /

[103|22] आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले /

[103|22-103|23] अतिविप्रकृष्टत्वात् न कुशलम् /

[103|23] आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे /

[103|23-103|24] आश्रयाकारालम्बनप्रतिपक्षदूरताभिः /

[103|24] शैक्षमशैक्षं चेति /

[103|25] अष्टाभ्य एव तत् /

[103|26] तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते /

[103|26-103|27] स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् /

[103|27] कुशलाच्च व्युत्थानकाले / [103|27-103|28] निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् /

[103|28] शैक्षाशैक्षाभ्यां च व्युत्थानकाले /

[104|01] दशभ्यो ऽकुशलं

[104|02-104|03] शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते /

[104|04] तस्माच्चत्वारि /

[104|05] अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव /

[104|05-104|06] यथा ऽकुशलमुक्तं कामधातौ

[104|07] निवृतं तथा // vakk_2.67 //

[104|08] दशभ्य एव समनन्तरम् / तस्माच्च पुनश्चत्वार्येव /

[104|09] पञ्चभ्यो ऽनिवृतं

[104|10] काम इति वर्त्तते / अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते /

[104|10-104|11] स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् /

[104|12] तस्मात्सप्त चित्तान्यनन्तरम् /

[104|13] अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि / रूपावचरे द्वे /

[104|13-104|14] कुशलं निर्माणचित्तादनन्तरम् /

[104|14] क्लिष्टम् प्रतिसन्धिकाले /

[104|14-104|15] आरूप्यावचरं च क्लिष्टम् प्रतिसन्धिकाल एव /

[104|16] रूपे दशैकं च शुभात्

[104|17] रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते /

[104|17-104|18] आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा /

[104|19] नवभ्यस्तदनन्तरम् // vakk_2.68 //

[104|20] रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते /

[104|20-104|21] कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा /

[104|22] अष्टाभ्यो निवृतं

[104|23] निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते /

[104|23-104|24] कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा /

[104|25] तस्मात् षट्

[104|26] रूपावचरान्निवृताव्याकृतादनन्तरं षट् /

[104|26-104|27] स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा /

[104|28] त्रिभ्यो ऽनिवृतं पुनः /

[104|29] रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव /

[105|01] तस्मात् षट्

[105|02] स्वभूमिकानि त्रीणि / कामावचरे च क्लिष्टे / आरूप्यावचरं च /

[105|02-105|03] यथा रूपधातावनिवृताव्याकृतमुक्तम् /

[105|04] एवमारूप्ये तस्य नीतिः /

[105|05] ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः /

[105|05-105|06] तस्मादपि च षडेवोत्पद्यन्ते /

[105|06] स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि /

[105|07] शुभात्पुनः // vakk_2.69 //

[105|08] नव चित्तानि

[105|09] आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते /

[105|09-105|10] कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा /

[105|11] तत् षण्णां

[105|12] आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात् कुक्शलाच्छैक्षाशैक्षाभ्यां च /

[105|13] निवृतात्सप्त

[105|14-105|15] आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् /

[105|16] तत्तथा /

[105|17] तदपि सप्तभ्य एवोत्पद्यते / कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा /

[105|18] चतुर्भ्यः शैक्षम् /

[105|19] त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च /

[105|20] अस्मात्तु पञ्च

[105|21] तान्येव चत्वार्यशैक्षं च /

[105|22] अशैक्षं तु पञ्चकात् // vakk_2.70 //

[105|23] अत एवानन्तरोक्तात् /

[105|24] तस्माच्चत्वारि चित्तानि

[105|25] तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते /

[105|25-105|26] त्रैधातुकानि कुशलान्यशैक्षं च //

[105|26] समाप्तानि द्वादश चित्तानि //

[105|27] पुनः क्रियन्ते

[106|01] द्वादशैतानि विंशतिः /

[106|02] कथं कृत्वा /

[106|03] प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा // vakk_2.71 //

[106|04] त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते / प्रायोगिकं चोपपत्तिलाभिकं च

[106|05] विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् /

[106|06] चतुर्धा ऽव्याकृतं कामे

[106|07] भित्त्वेति वर्त्तते / कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते /

[106|07-106|08] विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च /

[106|09] रूपे शिल्पविवर्जितम् // vakk_2.72 //

[106|10] रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा / तत्र शिल्पाभावात् /

[106|10-106|11] एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति /

[106|11-106|12] षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते /

[106|12] ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति /

[106|13] रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् / शैल्पस्थानिकस्य तु शब्दो ऽपि /

[106|13-106|14] एतानि मनोविज्ञानान्येव /

[106|14] पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः /

[106|15-106|16] ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे /

[106|17] एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् /

[106|17-106|18] कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते /

[106|18-106|19] स्वभूमिकानि सप्ता ऽन्यत्राभिज्ञाफलात् /

[106|19] रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च / तत् पुनरष्टचित्तानन्तरम् /

[106|19-106|20] स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /

[106|20-106|21] उपपत्तिप्रतिलम्भिकानन्तरं नव /

[106|21-106|22] स्वभूमिकानि सप्त ऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे /

[106|22] तत् पुनरेकादशानन्तरम् /

[106|22-106|23] स्वेभ्यः सप्तभ्यः पूर्ववत् रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /

[106|23] अकुशल निवृत्ताव्याकृतानन्तरं सप्त /

[106|24] स्वान्येव पूर्ववत् / ते पुनश्चतुर्दशचित्तानन्तरम् /

[106|24-106|25] स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्यो ऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् /

[106|25-106|26] आरुप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् /

[106|26] ऐर्यापथिकविपाकजानन्तरमष्टौ /

[106|26-106|27] स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे /

[106|27-106|28] ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् /

[106|28] शैल्पस्थानिकानन्तरं षट् / स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् /

[106|29] तत् पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् /

[107|01] अभिज्ञाफलानन्तरं द्वे / स्वं चाभिज्ञाफलमेव / रूपावचरं च प्रायोगिकम् /

[107|01-107|02] तदप्यस्मादेव द्वयात् /

[107|03] रूपावचराणामिदानीं षण्णां वक्षामः / प्रायोगिकानन्तरं द्वादश /

[107|03-107|05] कामावचरे कुशले अभिज्ञाफलं च स्वानि षट् आरुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च /

[107|05] तत् पुनर्दशचित्तानन्तरम् /

[107|05-107|07] कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्यो ऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च /

[107|07] उपपत्तिप्रतिलम्भिकानन्तरमष्टौ /

[107|07-107|08] कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलात् आरुप्यावचरं क्लिष्टम्/

[107|08-107|09] तत् पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् /

[107|09] क्लिष्टानन्तरं नव /

[107|09-107|10] कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् /

[107|10] तत् पुनरेकादशचित्तानन्तरम् /

[107|11-107|12] कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्यो ऽन्यत्राभिज्ञाफलात् आरूप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् /

[107|12-107|13] ऐर्यापथिकानन्तरं सप्त /

[107|13-107|14] कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् /

[107|14-107|15] तत् पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् /

[107|15] एवं विपाकजं वक्तव्यम् / अभिज्ञाफलानन्तरं द्वे /

[107|15-107|16] स्वे एव प्रायोगिकाभिज्ञाफले /

[107|16] तदप्याभ्यामेव /

[107|17] आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः / प्रायोगिकानन्तरं सप्त /

[107|17-107|18] रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च /

[107|18] तत् पुनः षट्चित्तानन्तरम् /

[107|18-107|19] रूपावचरात् प्रायोगिकात्स्वेभ्यस्त्रिभ्यो ऽन्यत्र वीपाकजात् शैक्षाशैक्षाभ्यां च /

[107|19-107|20] उपपत्तिप्रातिलम्भिकानन्तरं सप्त /

[107|20] स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि /

[107|20-107|21] तत् पुनश्चतुर्भ्यः स्वेभ्य एव /

[107|21] क्लिष्टानन्तरम्ष्टौ /

[107|21-107|22] स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे /

[107|22] तत् पुनर्दशानन्तरम् /

[107|22-107|23] स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः /

[107|23] विपाकजानन्तरं षट् /

[107|24] स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि /

[107|24-107|25] तत् पुनश्चतुर्भ्यः स्वेभ्य एव /

[107|25] शैक्षानन्तरं षट् /

[107|25-107|26] त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च /

[107|26] तत् पुनश्चतुर्भ्यः /

[107|26-107|27] प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च /

[107|27] अशैक्षानन्तरं पञ्च / यथा शैक्षानन्तरं शैक्षमेकं हित्वा /

[107|27-107|28] तत् पुनः पञ्चभ्यः /

[107|28] त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति /

[108|01-108|02] किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् /

[108|02-108|03] ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि /

[108|03-108|04] निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तो ऽस्य प्रायोगिकचित्तानन्तरमुत्पादः /

[108|04-108|05] एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते /

[108|05] विगुणत्वात् /

[108|05-108|06] तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः /

[108|06-108|07] कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते /

[108|07-108|08] अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते /

[108|08-108|09] रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते /

[108|09] पटुत्वात् /

[108|09-108|10] आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते ऽपटुत्वादिति //

[108|11] त्रयो मनस्काराः //

स्वलक्षणमनस्कारः /

[108|11-108|12] तद्यथा "रूपणालक्षणं रूप"मित्येवमादि /

[108|12] सामान्यलक्षणमनस्कारः / षोडशाकारसंप्रयुक्तः /

[108|12-108|13] अधिमुक्तिमनस्कारः /

[108|13-108|14] अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु /

[108|14-108|16] त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारम् एवं सति युतमिदं भवति "अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती"ति /

[108|16] सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति / तस्मात्तु त्रिविधमित्यपरे /

[108|17] अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति /

[108|18] अतः पारंपर्यमभिसंधायोक्तम् "अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती"ति /

[108|19] आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे /

[108|19-108|21] स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् /

[108|21] अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् /

[108|21-108|22] नहि कामावचरः शक्यो ऽतिविप्रकृष्टत्वात् /

[108|22-108|23] नच तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयात् /

[108|23] नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति /

[108|23-108|24] नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्यो ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति /

[108|25-108|26] तद्यथा "सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण"मिति तत्संमुखी करिष्यति /

[108|26] तदेतन्न वर्णयन्ति /

[108|26-108|27] अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् /

[108|27-108|28] आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा /

[108|28] शेषासु स्वभूमिकमेव /

[108|28-108|29] कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः /

[108|29] भावनामयो नास्ति /

[108|30] रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः / चिन्तामयो नास्ति /

[108|30-108|31] यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते / [108|31-109|01] आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ /

[109|01-109|02] तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावो ऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः /

[109|02] प्रयोगप्रतिबद्धत्वात् /

[109|02-109|03] मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः /

[109|03] पटुत्वादिति //

[109|04] यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः /

[109|05] क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः

[109|06] कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः /

[109|06-109|07] तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च /

[109|08-109|09] अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात् परिहाणितश्च /

[109|09] आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च /

[109|10]

रूपावचरे ऽपि क्लिल्ष्टे षण्णां लाभः /

[109|10-109|11] रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् /

[109|11-109|12] आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः /

[109|12] आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः /

[109|12-109|13] परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च /

[109|14] शुभे /

[109|15] त्रयाणां रूपजे

[109|16-109|17] रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः /

[109|18] शैक्षे चतुर्णां

[109|19] तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य /

[109|20] आर्यमार्गेण कामरूपधातुवैराग्ये /

[109|21] तस्य शेषिते // vakk_2.73 //

[109|22] शेषं कृतं शेषितम् /

[109|22-109|23] यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य /

[109|23] अन्ये पुनरभेदेनाहुः /

[109|24-109|25] "क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः / षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु //"

[109|26] तत्र सप्तानां कुशले चित्त इति वक्तव्यम् /

[109|26-110|02] कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात् कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् /

[110|02] संग्रहश्लोकः /

[110|03-110|04] "उपपत्तिसमापत्तिवैराग्यपरिहाणिषु / कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः" //

[110|04] इति /

[110|05] //समाप्तः प्रत्ययप्रसङ्गः //

=====================================================================

[110|06] अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम

[110|07] द्वितीयं कोशस्थानं

[110|08] समाप्तमिति /

=====================================================================

[110|09] श्रीलामावाकस्य

=====================================================================

तृतीयं कोशस्थानम्

=====================================================================

[111|02] ओं नमो दुद्धाय /

[111|03] इदमिदानीं वक्तव्यम् / कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः /

[111|03-111|04] तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते

[111|05] नरकप्रेततिर्यञ्चो मनुष्याः षड् दिवौकसः /

[111|06] कामधातुः

[111|07] चतस्रो गतयः /

[111|07-111|09] षट् च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन /

[111|09] स एष कति स्थानानीत्याह

[111|10] स नरकद्वीपभेदेन विंशतिः // vakk_3.1 //

[111|11] स्थानानीति वाक्यशेषः संबध्यते / अष्टौ महानरकाः /

[111|11-111|12] संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनो ऽवीचिश्चेति /

[111|12] चत्वारो द्वीपाः /

[111|12-111|13] जम्बूद्वीपः पूर्वविदेहो ऽवरगोदानीयः उत्तरकुरुश्च /

[111|13-111|14] षट् चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि /

[111|14-111|15] कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् /

[111|15] एतस्माच्च कामधातोः

[111|16] ऊर्ध्वं सप्तदशस्थानो रूपधातुः

[111|17] कथमित्याह

[111|18] पृथक् पृथक्

[111|19] ध्यानं त्रिभूमिकं तत्र

[111|20] प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि /

[111|21] चतुर्थं त्वष्टभूमिकम् // vakk_3.2 //

[111|22] तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः /

[111|22-111|23] द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः /

[111|23-111|24] तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः /

[111|24-111|25] चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः /

[111|25-111|26] सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः /

[111|26-111|27] ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति /

[112|01] आरूप्यधातुरस्थानः

[112|02] नह्यरूपिणां धर्मानां स्थानमस्ति /

[112|02-112|03] अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः /

[112|03] स तु

[112|04] उपपत्त्या चतुर्विधः /

[112|05] उपपत्तिभेदेन चतुर्विध आरूप्यधातुः /

[112|05-112|06] यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति /

[112|06] नत्वेषां देशकृतमौत्तराधर्य भिद्यते /

[112|07] यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति /

[112|07-112|08] पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवो ऽभिनिर्वर्त्तते /

[112|09-112|10] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते /

[112|11] निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः // vakk_3.3 //

[112|12] निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः /

[112|13] रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः /

[112|14] दुर्बलत्वात् / तस्याः केन बलवत्त्वम् / समापत्तिविशेषजत्वात् /

[112|14-112|15] सा हि समापत्तिर्विभूतरूपसंज्ञा /

[112|15] तत एव तर्हि बलवत्त्वात् प्रवर्त्तिष्यते किम् पुनर्निश्रयेण /

[112|15-112|16] इदं चापि वक्तव्यम् /

[112|16-112|17] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते /

[112|17] तदेव द्वयमन्यो ऽन्यम् /

[112|18] रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् / दुर्बलत्वात्तयोः /

[112|18-112|19] तत्रेदानीं केन बलवत्त्वाम् /

[112|19] समापत्तिविशेषजत्वात् /

[112|19-112|20] तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा /

[112|20-112|21] तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यम् निश्रय इति सौत्रान्तिकाः /

[112|21-112|23] अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः /

[112|23] हेतोस्तद्विमुखत्वादिति /

[112|24] अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते / स्वलक्षणधारणाद्धातुः /

[112|25-112|26] कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत् मरिचपानकवच्च /

[112|26] नात्र रूपमस्तित्यरूपः /

[112|27] अरूपस्य भाव आरुप्यम् / रूपणीयो वा रूप्यः /

[112|27-112|28] न रूप्यो ऽरूप्यस्तद्भाव आरूप्यम् /

[112|28] तत्प्रतिसंयुक्तो धातुरारूप्यधातुः /

[112|28-113|01] कामानां धातुः कामधातुः कामान् यो दधाति /

[113|01] एवं रूपारूप्यधातू वेदितव्यौ / को ऽयं कामो नाम /

[113|01-113|02] समासातः कवडीकाराहार मैथुनोपसंहितो रागः /

[113|03-113|04] "न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः / तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्" //

इति

[113|05] गाथाभिधानान् / अजीवक आर्यशारिपुत्रं प्रत्याह

[113|06-113|07] "न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् / भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सो ऽकुशलान् वितर्कान्" /

[113|08] आर्यशारिपुत्र आह

[113|09-113|10] ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः / शास्ता ऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि"//

[113|11-113|12] किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः /

[113|12] नेत्याह / किं तर्हि / येषु कामरूपारुप्यरागा अनुशेरते /

[113|13] के पुनरमी कामरूपारूप्यरागाः /

[113|13-113|14] ये कामरूपारूप्यधातुष्वनुशेरते /

[113|14] इदमिदानीं तदश्ववन्धीयम् / कस्यायमश्वबन्धो यस्यायमश्वः /

[113|14-113|15] कस्यायमश्वः /

[113|15] यस्यायमश्वबन्धः / इत्युभयमपि न ज्ञायते / नेदमश्वबन्धीयम् /

[113|15-113|16] कृतनिर्देशानि हि स्थानानि कामधातौ /

[113|16] तेष्ववीतरागस्य यो रागः स कामरागः /

[113|17] यत्रानुशेते सो ऽपि धर्मः कामप्रतिसंयुक्तः /

[113|17-113|18] एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ /

[113|18] असमाहितभूमिको वा रागः कामरागः /

[113|18-113|19] ध्यानारूप्येषु रागो रूपारूप्यरागः /

[113|19] निर्माणचित्ते कथं कामरागः /

[113|19-113|20] श्रुत्वा परिहाय च तदास्वादनात् /

[113|20] निर्माणवशेन वा निर्मायक चित्तो ऽपि रागः / गन्धरसनिर्माणाद्वा /

[113|21] तस्य कामवचरत्वम् / रूपावचरेण तयोरनिर्माणात् / किं पुनरेकमेव त्रैधातुकम् /

[113|22] त्रैधातुकानामन्तो नास्ति / यावदाकाशं तावन्तो धातवः /

[113|22-113|23] अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः /

[113|23-113|24] प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणे ऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् /

[113|25] कथमवस्थानं लोकधतूनां /

[113|25-113|27] तिर्यक्सूत्र उक्तं तद्यथा "ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् /

[113|27-113|28] एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च /

[113|28-113|29] यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि"ति /

[113|29] नतूक्तमूर्ध्वमधश्चेति /

[114|01] ऊर्ध्वमप्यध्हो ऽपीत्यपरे / निकायान्तरपाठाद् / अकनिष्ठादूर्ध्वं पुनः कामधातुः /

[114|02] कामधातोश्चाधः पुनरकनिष्ठाः / यश्चैकस्मात् कामधातोर्वीतरागः स सर्वेभ्यः /

[114|03] एवं रूपारूप्येभ्यः /

[114|03-114|04] यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् /

[114|04-114|05] य एते त्रयो धातव उक्ताः /

[114|06] नरकादिस्वनामोक्ता गतयः पञ्च तेषु

[114|07] नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति /

[114|07-114|08] स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः /

[114|08] कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः /

[114|08-114|09] रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः /

[114|09] किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते /

[114|10] सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः / यास्तु पञ्च गतयः /

[114|11] ताः /

[114|12] अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः // vakk_3.4 //

[114|13] अनिवृताव्याकृता एव गतयः / अन्यथा हि गतिसंभेदः स्यात् /

[114|13-114|14] सत्त्वाख्या एव च नचान्तराभवस्वभावाः /

[114|14-114|15] प्रज्ञ्यप्तिपूक्तम् "चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः /

[114|15] किमसंबृहीतम् /

[114|16] अन्तराभव" इति / धर्मस्कन्धे ऽपि चोक्तम् "चक्षुर्धातुः कतमः /

[114|16-114|18] चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयो ऽन्तराभविकश्चे"ति /

[114|18-114|19] सूत्रे ऽपि च बहिष्कृतो ऽन्तराभवो गतिभ्यः /

[114|19] कस्मिन् सूत्रे /

[114|19-114|20] "सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव" इति /

[114|20-114|21] अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः /

[114|21] अथ एव चानिवृताव्याकृताः सिध्यन्ति /

[114|22] तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् / काश्मीराश्च सूत्रं पठन्ति /

[114|22-114|24] स्थविरशारिपुत्रेणोक्तं "नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति /

[114|24-114|25] तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते /

[114|26-224|26] निर्वृत्ते विपाके नारक इति संख्यां गच्छति /

[114|26-114|27] तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति /

[114|27] अतो ऽप्यनिवृताव्याकृता एव गतयः /

[114|27-115|01] प्रकरणाग्रन्थस्तर्हि परिहार्यो "गतिषु सर्वे ऽनुशया अनुशेरत" इति /

[115|01-115|02] प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव /

[115|02-115|03] ग्रामग्रहणे ग्रामोपचार ग्रहणवत् /

[115|03] कुशलक्लिष्टा अपीत्यपरे /

[115|03-115|04] यक्तूक्तम् "कर्मभवस्य ताभ्यो बहिष्करणा"दिति /

[115|04] नावश्यं पृथग्वचनाद्बहिष्कृतो भवति /

[115|04-115|05] तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ /

[115|05] न च दृष्टयो न क्लेशाः /

[115|05-115|06] एवं कर्मभवो ऽपि गतिश्च स्यात् /

[115|06] पृथक् चास्य वचनं स्यात् गतिहेतुज्ञापनाऋथम् /

[115|07] अन्तराभवे ऽप्येष प्रसङ्गः / नायोगात् / गच्छन्ति तामिति गतिः /

[115|07-115|08] नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् /

[115|08] आरूप्या अपि गतिर्न भविष्यन्ति /

[115|09-015|09] च्युतिदेश एवोत्पादात् /

[115|09-115|10] एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् /

[115|10] यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् /

[115|10-115|11] यतर्हि स्थविरशारिपुत्रेणोक्तं "निर्वृत्ते विपाके नारक इति संख्यां गच्छती"ति /

[115|11-115|12] निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति /

[115|12-115|13] यत्तर्ह्यक्तं "तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति /

[115|13-115|14] गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् /

[115|14-115|15] अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः /

[115|15] ताश्च विपाकस्वभावा एवेत्येके /

[115|15-115|16] औपचयिकस्वभावा अपीत्यपरे /

[115|17] अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः

[115|18] नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः /

[115|19] विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः // vakk_3.5 //

[115|20] विज्ञानस्थितयः सप्त

[115|21-115|22] सूत्रे उक्तः "रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः /

[115|22] इयं प्रथमा विज्ञानस्थितिः / कतमे पुनस्ते तदेकत्या देवाः /

[115|23] कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः" /

[115|23-115|24] नानात्वेन काय एषामिति नानात्वकायाः /

[115|24] अनेकवर्णलिङ्गसंस्थानत्वात् /

[115|24-115|25] नानात्वेन संज्ञा नानात्वसंज्ञा /

[115|25-115|24] सैषामस्तीति नानात्वसंज्ञिनः /

[115|25] सुखदुःखादुःखासुखसंज्ञित्वात् /

[115|25-115|27] रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः /

[115|27] इयं द्वितीया विज्ञानस्थितिः /

[115|27-115|28] ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति /

[115|28-115|29] ब्रह्मणो ऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः /

[115|29-115|31] अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः /

[115|31-116|02] यदिदमुक्तं सूत्रे "तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्ये ऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि"ति /

[116|02] अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति /

[116|02-116|03] कथं तमद्राक्षुः /

[116|03] आभास्वरस्था इत्येके /

[116|03-116|05] ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः /

[116|05] अन्तराभवस्था अद्राक्षुरित्यपरे /

[116|06] तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति /

[116|06-116|07] कथं तेषामेवं भवति स्म "इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि"ति /

[116|08-116|09] तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव /

[116|09-116|10] रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः /

[116|10] इयं तृतीया विज्ञानस्थितिः /

[116|10-116|11] अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् /

[116|11-116|12] अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् /

[116|12-116|13] तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः /

[116|13] सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः /

[116|14-116|15] ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति /

[116|15-116|16] सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति /

[116|16-116|17] यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति /

[116|17] ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः /

[116|17-116|18] न तेषां तेन सुखेनास्ति परिखेदः /

[116|18] किं कारणम् /

[116|18-116|19] शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते /

[116|19-116|20] सूत्र उक्तं "यथा ते नानात्वसंज्ञिनः /

[116|20-116|22] तत्र ये सत्त्वा आभास्वरे देवनिकाये ऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते /

[116|22] सहैवैषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽर्वागागमिष्यतीति /

[116|23-116|24] तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति /

[116|24-116|25] मा भैष्ट माऋषाः मा भैष्ट मार्षाः /

[116|25] पूर्वमप्येषा ऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वा ऽत्रैवान्तर्हिते"ति /

[116|26-116|27] अतो ऽर्चिष आगमव्यपगमसंज्ञित्वात् भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति /

[116|27-116|28] रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः /

[116|28] इयं चतुर्थी विज्ञानस्थितिः /

[116|28-117|01] तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः /

[117|01] एकत्वसंज्ञिनः सुखसंज्ञित्वात् /

[117|01-117|02] तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः /

[117|02-117|03] द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः /

[117|03-117|04] आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः /

[117|04] का ऽत्र विज्ञानस्थितिः /

[117|04-117|05] तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् /

[117|05] शेषं कस्मान्ना विज्ञानस्थितिः /

प्[11705] यस्मात्

[117|06] शेषं तत्परिभेदवत् /

[117|07] किं पुनः शेषम् / दुर्गतयश्चतुर्थ ध्यानं भवग्रं च /

[117|07-117|08] अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः /

[117|08] कः पुनः परिभेदः येन विज्ञानं परिभिद्यते

[117|08-117|09] तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् /

[117|09] चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च /

[117|10] भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् / पुनराह /

[117|10-117|11] यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामता ऽसौ विज्ञानस्थितिरुक्ता /

[117|11-117|12] अपायेषु चोभयं नास्हि /

[117|12-117|13] चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति /

[117|14] एताश्च सप्त विज्ञानस्थितयो यथोक्ताः /

[117|15] भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः // vakk_3.6 //

[117|16] एषु हि सत्त्वा आवसन्ति स्वेच्छया /

[117|17] अनिच्छावसनान्नान्ये

[117|18] के पुनरन्ये / अपायाः / तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते /

[117|19] नत्विच्छया वसन्ति / अतस्तेन सत्त्वावासा बन्धनस्थानवत् /

[117|19-117|20] अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र

[117|21] चतस्रः स्थितयः पुनः /

[117|22] कतमाश्चतस्रः / रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति /

[117|23] तासां कः स्वभावः / ता हि यथाक्रमं /

[117|24] चत्वारः सास्रवाः स्कन्धाः

[117|25] ते पुनः

[117|26] स्वभूमावेव

[117|27] नान्यत्र भूमौ / किं कारणम् / प्रतिष्टा हि स्थितिः /

[117|27-117|28] न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात् प्रतितिष्ठतीति /

[117|28-117|29] कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति /

[117|29] स्थातुः परिहारेण स्थितिविधानात् /

[118|01] नहि स्थातैव स्थितिरुच्यते /

[118|01-128|01] यथा न राजैव राजासनमिति /

[118|01-118|02] यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः /

[118|03] नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः /

[118|03-118|04] यत्तर्हि सूत्र उक्तं "विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति /

[118|04-118|05] यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि"ति /

[118|05] तत्कथम् /

[118|05-118|06] "सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता" इति तत्कथम् /

[118|06-118|07] एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः /

[118|07-118|08] प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति /

[118|08] तस्माच्चतसृषु विज्ञानस्थितिषु

[118|09] केवलम् // vakk_3.7 //

[118|10] विज्ञानं न स्थितिः प्रोक्तं

[118|11] अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः /

[118|11-118|13] वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास /

[118|13-118|14] ये धर्माः सहवर्त्तिनो विज्ञानस्य ते ऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः /

[118|15-118|16] अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त /

[118|16] नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त /

[118|17] चतुष्कोटि तु संग्रहे /

[118|18] संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् /

[118|18-118|19] स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि /

[118|19] प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् /

[118|19-118|20] द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः /

[118|20-118|21] तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा /

[118|22] यच्चैतत् गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः /

[118|23] चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः // vakk_3.8 //

[118|24] अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः / योनिर्नाम जातिः /

[118|25] युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः / अण्डजा योनिः कतमा /

[118|26] ये सत्त्वा अण्डेभ्यो जायन्ते / तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः /

[118|27] जरायुजा योइः कतमा / ये सत्त्वा जरायोर्जायन्ते /

[118|27-118|28] तद्यथा हस्त्यश्वगोमहिषखरवराहादयः /

[118|28] संस्वेदजा योनिः कतमा /

[118|28-118|29] ये सत्त्वा भूसंस्वेदाज्जायन्ते /

[118|29] तद्यथा कृमिकीटपतङ्गमशकादयः / उपपादुका योनिः कतमा /

[119|01] ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते /

[119|01-119|02] अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते /

[119|02] तद्यथा देवनारकान्तराभविकादयः /

[119|03] अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह

[119|04] चतुर्धा नर तिर्यञ्चः

[119|05] मनुष्याश्चतुर्विधाः /

[119|05-119|07] अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत् पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि /

[119|07] जरायुजा यथेदानीम् /

[119|07-119|08] संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः /

[119|08] उपपादुकाः पुनः प्राथमकल्पिकाः /

[119|08-119|09] एवं तिर्यञ्चो ऽपि चतुर्विधाः /

[119|09] त्रिविधा दृश्यन्त एव / उपपादुकास्तु नागसुपर्णि प्रभृतयः /

[119|10] नारका उपपादुकाः /

[119|11] अन्तराभवदेवाश्च

[119|12] सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव /

[119|13] प्रेता अपि जरायुजाः // vakk_3.9 //

[119|14] अपिशब्दादप्युपपादुका इति / आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते

[119|15] "पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् /

[119|16] भक्षयामि जनित्वा तान् नास्ति तृप्तिस्तथापि मे //"

[119|17] कतमा योनिः सर्वसाध्वी / उपपादुका /

[119|17-119|18] अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वे ऽपि जरायुर्जां योर्नि भजते /

[119|18-119|19] एवं हि क्रियमाणे महान्तमर्थं पश्यति /

[119|19-119|21] ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मे ऽवतरणार्थं चक्रवर्त्तिवंश्यो ऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् /

[119|21-119|23] इतरथा ह्यप्रज्ञायमानकुलगोत्रः को ऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथा ऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति /

[119|24] अपरे त्वाहुः /

[119|24-119|26] शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान् मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतो ऽन्तर्धीयते /

[119|26-119|27] आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः /

[119|27] प्रश्नात्प्रश्नान्तरमुपजायते /

[119|27-120|02] यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे "उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि"ति /

[120|02] नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः /

[120|02-120|03] भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति /

[120|04] कतमा योनिः सर्ववह्वी / उपपादुकैव /

[120|04-120|05] सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति /

[120|06] को ऽयमस्तराभावो नाम /

[120|07] मृत्यूपपत्तिभवयोरन्तरा भवतीह वः /

[120|08-120|09] मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावो ऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सो ऽन्तराभव इत्युच्यते /

[120|09] गत्यन्तरालत्वात् /

[120|09-120|10] कथमयं जातश्च नाम नचोपपन्नो भवति /

[120|11] गम्यदेशानुपेतत्वान्नोपपन्नो ऽन्तराभवः // vakk_3.10 //

[120|12] उपपत्तिगतो ह्युपपन्न इत्युच्यते / पदेर्गत्यर्थत्वात् /

[120|12-120|13] नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः /

[120|13] कः पुनरसौ देशो गन्तव्यः /

[120|13-120|14] यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च /

[120|14-120|15] विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः /

[120|15] तदेतन्नेष्यते / किं कारणम् / युक्तितश्च आगमतश्च /

[120|15-120|16] तत्र तावत् युक्तिं निश्रित्योच्यते /

[120|17] व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः /

[120|18-120|19] सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य /

[120|19-120|920] तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः /

[120|20-120|21] विच्छिन्नो ऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात् प्रतिबिम्बस्य /

[120|21] एवं मरणभवादुपपत्तिभवस्य स्यात् /

[120|22] प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम् // vakk_3.11 //

[120|23] प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् /

[120|23-120|24]

सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति /

[120|24] कथं तावदसिद्धम् /

[120|25] सहैकत्र द्वयाभावात्

[120|26] तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च /

[120|26-120|27] न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् /

[120|27-120|30] तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्यो ऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता /

[120|30-121|01] छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः /

[121|01-121|02] उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तो ऽस्य तत्र प्रादुर्भावः /

[121|02] अथवा "सहैकत्र द्वयाभावादि"ति कतमस्य द्वयस्य /

[121|02-121|03] आदर्शतलस्येन्दुप्रतिबिम्बकस्य च /

[121|03-121|04] अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् /

[121|04-121|05] तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते /

[121|05] अतो नास्त्येव तत् किञ्चित् /

[121|05-121|06] सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति //

[121|06] अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः /

[121|06-121|07] एवं तावन्दसिद्धत्वात् /

[121|07] कथमसाम्यादनिदर्शनं भवति /

[121|08] असन्तानाद्

[121|09] नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात् सहभावाच्च /

[121|10] यथा मरणस्योपपत्तिभवः /

[121|10-121|11] सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च /

[121|12] द्वयोदयात् /

[121|13] द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति /

[121|13-121|14] बिम्बाच्चादर्शा च्चेति यत् प्राधानं कारणं तदाश्रित्योत्पद्यते /

[121|14-121|16] नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतो ऽप्ययमसमानो दृष्टान्तः /

[121|16] न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति /

[121|16-121|17] यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते /

[121|17-121|18] एवं तावद्युक्तितो नेष्यते /

[121|18] न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः / तस्मादस्त्येवान्तराभवः /

[121|19] कण्ठोक्तेश्चास्ति

[121|20] सूत्र उक्तं "सप्त भवाः /

[121|20-121|21] नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव इति /

[121|21] नैतत्सूत्रं तैराम्नायते / इतस्तर्हि

[121|22] गन्धर्वात्

[121|23] "त्रयाणां स्थानानां संमुखीभावात् मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति /

[121|23-121|24] माता कल्या स्पि भवति ऋतुमती च /

[121|24] मातापितरौ रक्तौ भवतः सनिपतितौ च /

[121|25] गन्धर्वश्च प्रत्युपस्थितो भाती"ति / अन्तराभवं हित्वा को ऽन्यो गन्धर्वः /

[121|26] एतदपि नैव तैराम्नायते / कथं तर्हि / "स्क्न्धभेदश्च प्रत्युपस्थितो भवती"ति /

[121|27] यद्येवमाश्वलायनसूत्रं कथं नीयते /

[121|27-121|28] "जानन्त भवन्तो यो ऽसौ गन्धर्वः प्रत्युपस्थितः /

[121|28] क्षत्रियो वा ऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा /

[121|28-122|01] यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या" इति /

[122|02] नहि स्कन्धभेदस्यागमनं युज्यते / अथैतदपि न पठच्यते / इतस्तर्हि /

[122|03] पञ्चोक्तेः /

[122|04] "पञ्चानागामिन" इत्युक्तं भगवता /

[122|04-122|05] अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति /

[122|05-122|06] असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् /

[122|06] अन्तरा नाम देवाः सन्तीत्येके /

[122|07] उपपद्यादयो ऽपि हि नाम देवा एवं सति प्रसज्यते / तस्मान्येयं कल्पना साध्वी /

[122|08] इतश्च

[122|09] गतिसूत्रतः // vakk_3.12 //

[122|10] "सप्त सत्पुरुषगतयः" इत्यत्र सूत्रे / अन्तरापरिनिर्वायिणस्त्रय उक्ताः /

[122|10-122|11] कालदेशप्रकर्षभेदेन /

[122|11-122|12] तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः /

[122|12] तद्यथा ऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः /

[122|12-122|13] तद्यथा ऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः /

[122|13-122|14] नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला //

[122|14] अन्ये पुनराहुः /

[122|15-122|16] आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सो ऽन्तरापरिनिर्वायी /

[122|16-122|17] स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा /

[122|17] तेन त्रिविधो भवतीति /

[122|17-122|18] प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति /

[122|18] द्वितीयो देवसमृद्धिं चानुभूय /

[122|18-122|19] तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य /

[122|19-122|21] उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वे ऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते /

[122|21] देशगतिविशेषाभावात् /

[122|21-122|22] आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् /

[122|22] न च पठ्यते /

[122|23-122|24] "ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् / संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः //

[122|25] इत्येतस्यायुर्दानगाथायाम् / तस्मादेतदपि सर्वं कल्पनामात्रम् /

[122|26] अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते /

[122|26-123|01] किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च /

[123|01-123|02] येषां तु तावदयमागमः प्रमाणं तेषामागमतो ऽपि सिद्धो ऽन्तराभवः /

[123|02-123|03] यत्तर्हि सूत्र उत्तम् "अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित" इति /

[123|03] तत् कथमिति /

[123|04] स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः /

[123|04-123|05] कालल्ं कृत्वा ऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः /

[123|05-123|06] अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते /

[123|06] अतो ऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति /

[123|07-123|08] इदमिदानीं कथं नीयते "पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत" इति /

[123|08] अन्यां गतिमगत्वेत्यभिप्रायः /

[123|08-123|09] उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् /

[123|09] अथ यथारुतं कल्प्यते / पञ्चैव कृत्वा नैकमिति प्राप्नोति /

[123|09-123|10] क्रियानन्तरं च /

[123|10] न कालान्तरं जीवित्वा को वा ऽन्तराभवस्योपपद्यमानत्वं नेच्छति /

[123|10-123|11] अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते /

[123|11] अभिमुखत्वात् /

[123|11-123|12] न च ब्रूम उपपन्नो भवतीति /

[123|12] इयं तर्हि गाथा कथं नीयते

[123|13-123|14] "उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज / वासो ऽपि हि नास्ति ते ऽन्तरा पाथेयं च न विद्यते तवे" ति //

[123|15] अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः /

[123|15-123|16] अथवा ऽन्तराभवे ऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति /

[123|16-123|17] अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् /

[123|17] तुल्य एष भवतो ऽप्यनुयोगः /

[123|17-123|18] तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् /

[123|18-123|19] ज्ञापकं हि नामागतिका गतिरिति /

[123|20] अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवो ऽभिनिवर्त्तते /

[123|21] एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः /

[123|22] येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये /

[123|22-123|23] अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति /

[123|23-123|25] एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिको ऽन्तराभवो ऽभिनिर्वर्त्तते इति नारको ऽन्तराभवः कुक्षिं निर्दहेत् /

[123|25-123|26] पूर्वकालभवे ऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः /

[123|26] अस्तु वा प्रज्वलितः /

[123|26-123|27] स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् /

[123|27-123|28] अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः /

[123|28-124|01] प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च /

[124|01-124|02] अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः /

[124|03] यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् /

[124|03-124|04] निमित्तमात्रं तत् तिर्यग्योनेश्चिरव्यावृत्तत्वात् /

[124|04] तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति /

[124|05-124|06] "करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः / अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः" //

[124|07] नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण /

[124|07-124|08] अत एव यमलयोर्यः पश्चात् प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति /

[124|08] धर्मसूत्रविभाष्यं कथं नीयते /

[124|09-124|10] "वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् / मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति" //

[124|11] नैतदवश्यनेतव्यम् / नह्येतत् सूत्रं न विनयः नाभिधर्मः / काव्यमेतत् /

[124|11-124|12] कवीनां च काव्यं समायोजयतां केचित् भावाः समारोपिता गच्छन्ति /

[124|12] अथवा नेतव्यमेव /

[124|12-124|13] यथा ऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सो ऽपि गाथामकार्षीदिति /

[124|13-124|14] रूपावचरो ऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति /

[124|14] अपत्राप्योत्सदत्वात् /

[124|14-124|15] बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा /

[124|15] अन्यो नग्नः /

[124|15-124|16] कामधातोरनपत्राप्योत्सदत्वात् /

[124|17] अथ को ऽयं पूर्वकालभवो नाम /

[124|18] स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः // vakk_3.13 //

[124|19] भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः / स एव चतुर्धा भिद्यते / अन्तराभवो यथोक्तः /

[124|20] उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः /

[124|20-124|21] तस्मात् परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः /

[124|21] चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते /

[124|22] स चायमन्तराभवः /

[124|23] सजातिशुद्धदिव्याक्षिदृश्यः

[124|24] समानजातीयैरेवान्तराभविकैर्दृश्यते /

[124|24-125|01] येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति /

[125|01] उपपत्तिक्षुषा तु न दृश्यते / जात्यर्थमच्छत्वात् /

[125|01-125|02] देवान्तराभविकः सर्वान् पश्यति /

[125|02] मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे /

[125|03] कर्मर्द्धिवेगवान् /

[125|04] ऋद्धिराकाशगमनम् / कर्मणा ऋद्धिः कर्मर्द्धिः / तस्या वेगः कर्मर्द्धिवेगः शीग्रता /

[125|05] सो ऽस्यास्तीति कर्मर्द्धिवेगवान् / येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् /

[125|05-125|06] कर्मणो ऽस्य बलीयस्त्वात् /

[125|07] सकलाक्षः

[125|08] समग्रपञ्चेन्द्रियः /

[125|09] अप्रतिघवान्

[125|10] प्रतिघातः प्रतिघः / सो ऽस्यास्तीति प्रतिघवान् / न प्रतिघवानप्रतिघवान् /

[125|10-125|11] वज्रादिभिरप्यनिवार्यत्वात् /

[125|11-125|12] तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते /

[125|12] यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा /

[125|13] अनिवर्त्यः

[125|14] नहि कदाचिन्मनुष्यान्तराभवो ऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा /

[125|14-125|15] नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यम् नान्यस्यामिति /

[125|16] किं पुनरन्तराभवो ऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते / ओमित्याह / न त्वौदारिकम् /

[125|17] किं तर्हि /

[125|18] स गन्धभुक् // vakk_3.14 //

[125|19] अत एव गन्धर्व इत्युच्यते / धातूनामनेकार्थत्वात् / ह्रस्वत्वं शकन्धुकर्कन्धुवत् /

[125|19-125|20] अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः /

[125|20] कियन्तं कालमवतिष्ठते / नास्ति नियम इति भदन्तः /

[125|21] यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः / एकनिकायसभागत्वात् /

[125|21-125|22] इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत /

[125|22-126|01] यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत /

[126|01-126|02] किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् /

[126|02] नैतदागतं सूत्रे शास्त्रे वा /

[126|02-126|03] एवं तु युज्यते /

[126|03] गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति /

[126|03-126|05] ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति /

[126|05-126|07] अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र /

[126|07-126|08] तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् /

[126|08-126|09] अत एव चोक्तं भगवता "अचिन्त्यः सत्त्वानां कर्मविपाक" इति /

[126|09] सप्ताहं तिष्ठतीति भदन्तवसुमित्रः /

[126|09-126|10] यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते /

[126|10] सप्त सप्ताहानीत्यपरे /

[126|10-126|11] अल्पं कालमिति वंभाषिकाः /

[126|11-126|12] स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति /

[126|12] नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति /

[126|12-126|13] तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति /

[126|13-126|14] अथानियातं ततो ऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे /

[126|14-126|15] तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनां ऋक्षानां हेमन्ते चाक्ष्वानाम् /

[126|15-126|17] गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस् स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति /

[126|17-126|18] न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् /

[126|19] स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतो ऽन्तराभवः

[126|20] विपर्यस्तमतिर्याति गतिदेशम् रिरंसया /

[126|21] स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थो ऽपि स्वमुपपत्तिदेशं प्रेक्षते /

[126|21-126|22] तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि /

[126|22-126|23] विपर्ययात् प्रतिघः /

[126|23-126|24] एवं पठच्यते प्रज्ञप्तौ "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति /

[126|24-126|25] स ताभ्यां विपर्यस्तो रन्तुकामतया तम् देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते /

[126|25-126|26] तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षो ऽभिनिविशते /

[126|26-126|27] ततो ऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति /

[126|27-126|28] स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी /

[127|01] अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति /

[127|01-127|02] न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात्/

[127|02-127|03] अथः स्त्रीभूतः पुरुषभूतो वा ऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात् गर्भ आप्यायमानो नपुंसकं भवतीति" /

[127|03] इदं विचार्यते /

[127|03-127|05] किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित् भूतान्तराण्येव कर्मभिर्जायन्ते /

[127|05] तान्युपश्रित्येति / तान्येवेत्येके /

[127|05-127|06] अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति /

[127|06-127|07] वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते /

[127|07-127|08] एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति "मातापित्रशुचिकललसंभुतस्ये"ति /

[127|08-127|09] तथा "दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त" इति /

[127|09] भूतान्तराण्येवेत्यपरे / तद्यथापर्णक्रिमेः /

[127|09-127|10] अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति /

[127|10-127|11] एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते /

[127|11] अन्यत्र तु यथायोगं वक्तव्यमित्याहुः /

[127|11-127|12] तत्र चायं योगो दृश्यते

[127|13] गन्धस्थानाभिकामो ऽन्यः

[127|14-127|15] संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात् गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् /

[127|15] उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् /

[127|15-127|16] कथं नरकेषु स्थानाभिलाषः /

[127|16] विपर्यस्तबुद्धित्वात् /

[127|16-127|17] स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् /

[127|17-127|18] तत्र उष्णाभिलाषाद्धावति /

[127|18-127|19] पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति /

[127|19-127|20] यद् अवस्थस् तद् उपपत्तिसंवर्त्तनीयं कर्माकार्षीत् तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः /

[127|20-127|21] तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन् मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् /

[127|22] ऊर्ध्वपादस्तु नारकः // vakk_3.15 //

[127|23-127|24] "ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः / ऋषीणामभिवक्तारः संयतानां तपस्विनाम्" इति //

[127|25] गाथाभिधानात् /

[127|26] यदुक्तं "विपर्यस्तमतिर्याती"ति /

[127|26-127|27] किमवश्यं सर्वो ऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति /

[127|27] नित्याह / किं तर्हि / चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः / कतमाश्चतस्रः /

[128|01] संप्रजानन् विशत्येकः

[128|02] तिष्ठति निष्क्रामति सा संप्रजानन् /

[128|03] तिष्ठत्यप्यपरः /

[128|04] संप्रजानन्निति वर्त्तते / प्रविशत्यपीत्यपिक्षब्दात् /

[128|05] अपरः /

[128|06] निष्क्रामत्यपि

[128|07] संप्राजानन् प्रविशति तिष्ठत्यपि /

[128|08] सर्वाणि मूढो ऽन्यः

[128|09-128|10] कश्चित् पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि / [128|10] एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः /

[128|11] श्लोकबन्धानुगुण्यतः /

[128|12] नित्यमण्डजः // vakk_3.16 //

[128|13] अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति / कथमण्डाज्जातो गर्भं प्रविशति /

[128|14] यो ऽपि जनिष्यते सो ऽप्यण्दजः / अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते /

[128|15] तद्यथा "संकृतमभिसंस्करोती"ति सूत्रे ओदनं पचतीति सक्तुम् पिनष्टीति लोके /

[128|16] तस्मान्नैष दोषः /

[128|17] कथं पुनरसंप्रजानन् मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् /

[128|18-128|19] अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते /

[128|19] वातो वाति देवो वर्षति /

[128|19-128|21] शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति /

[128|21-128|22] तिष्ठतो ऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति /

[128|22-128|23] महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वा ऽभिरोहामि कूटागारं वा पर्यङ्क वेति /

[128|23] तथा तिष्ठामि निर्यामीति /

[128|23-128|24] एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति /

[128|24-128|25] संप्रजानंस्तु सम्यक् प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति /

[128|25-128|26] नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते /

[128|26] अत्र पुनरपदिश्यते /

[128|27] गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् /

[128|28] चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च / यथाक्रममित्यन्ते वक्ष्यति /

[128|28-128|29] तत्र प्रथमा चक्रवर्त्तिनः /

[128|29] स हि प्रविशत्येव संप्रजानन् न तिष्ठति नापि निष्क्रामति /

[128|30] प्रत्येकबुद्धस्तिष्ठत्यपि / बुद्धो निष्क्रामत्यपि / अत्रापि भाविन्या संज्ञया निर्देशः /

[129|01] कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम् // vakk_3.17 //

[129|02] विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा /

[129|02-129|03]

विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया /

[129|03] विशद पुण्यकर्मज्ञानानां तृतीया /

[129|03-129|04] त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् /

[129|04] शेषाणां चतुर्थीति सिद्धं भवति /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.