Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[068|02] अपिचासत्त्वसभागता ऽपि किं नेष्यते /
[068|03-068|04] शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात् तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते /
[068|04-068|05] वैशेषिकाश्चैवं द्योतिता भवन्ति /
[068|05] तेषामपि ह्येष सिद्धान्तः /
[068|05-068|06] सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति /
[068|06] अयं तु तेषां विशेषः /
[068|06-068|07] स एको ऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता /
[068|07-068|08] अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः /
[068|08-068|09] उस्तं हि भगवता "स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि"ति /
[068|09] उक्तमेतन्नतूक्तं द्रव्यान्तरमिति / का तर्हि सा /
[068|09-068|10] त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् /
[068|10-068|11] तत्त्वेतन्न वर्णयन्ति /
[068|12] अथ किमिदमासंज्ञिकं नाम /
[068|13] आसंज्ञिकमसंज्ञिषु /
[068|14] निरोधश्चित्तचैत्तानां
[068|15-068|17] असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागते ऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते /
[681|7-06817] नदीतोयसंनिरोधवत् /
[068|17] तत् पुनरेकान्तेन
[068|18] विपाकः
[068|19] कस्य विपाकः / असंज्ञिसमापत्तेः / कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः /
[068|20] ते बृहत्फलाः // vakk_2.41 //
[068|21] बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् /
[068|22] किं पुनस्तेनैव कदाचिअत् संशिनो भवन्ति / भवन्त्युपपत्तिकाले च्युतिकाले च /
[068|23-068|24] "प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात् च्युतिर्भवती"ति सूत्रे पाथः /
[068|24-068|25] ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र /
[068|25-068|26] पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति /
[068|26-068|27] येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति /
[068|27] यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् /
[068|28] अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती /
[068|28-068|29] असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च /
[068|29] केयमसंज्ञिसमापत्तिः /
[068|29-068|30] यथैवासंज्ञिकमुक्तं "निअरोधश्चित्तचैत्तानामि"ति /
[069|01] तथा ऽसंज्ञिसमापत्तिः
[069|02] असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः /
[069|02-069|03] सा ऽपि चित्तचैत्तानां निरोधः /
[069|03] एतावत्तथाशब्देनान्वाकृष्यते / सा तु समापत्तिः /
[069|04] ध्याने ऽन्त्ये
[069|05] अन्त्यध्यानं चतुर्थं तत्पर्यापन्ना ऽसौ नान्यभुमिका / किमर्थमेनां समापद्यन्ते /
[069|06] निःसृतीच्छया /
[069|07] निःसरणमेषां मन्यन्ते / अतो मोक्षकामतया समापद्यन्ते /
[069|07-069|08] आसंज्ञिकं विपाकत्वात् अव्याकृतमिति सिद्धम् /
[069|08] इयं तु
[069|09] शुभा
[069|10] कुशलैवासंज्ञिसमापत्तिः / तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः / कुशला सती
[069|11] उपपद्यवेद्यैव
[069|12] उपपद्यवेदनीयैव / न दृष्टधर्मपर्यायवेदनीया नापि अनियता /
[069|12-069|13] यो ऽप्येनामुत्पाद्य परिहीयते सो ऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति /
[069|13-069|14] अत एव तल्लाभी नियामं नावक्रामति /
[069|14] सेयं पृथग्जनस्यैवेष्यते /
[069|15] नार्यस्य
[069|16] नह्यार्यां असंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः/
[069|16-069|17] निःसरणसंज्ञिनो हि तां समापद्यन्ते /
[069|17-069|18] अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् /
[069|18] अन्ये ऽपि अतावन्न प्रतिलभन्ते / किं कारणम् /
[069|18-069|19] एषा ह्युचिता ऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च /
[069|20] एकाध्विकाप्यते // vakk_2.42 //
[069|21] एककालिकेत्यर्थः / वर्त्तमानकालिकैव लभ्यते
[069|21-069|22] यथा प्रातिमोक्षसंवरः /
[069|22-069|23] लब्धया तु द्वितईयादिषु क्षणेष्वतीतया ऽपि समन्वागतो भवति यावन्न त्यजति /
[069|23] अचित्तक त्वान्नानागता भाव्यते /
[069|24] निरोधसमापत्तिरिदानिं कतमा /
[070|01] निरोधाख्या तथैवेयं
[070|02] यथैवासंज्ञिमापत्थिः / तथाशब्देन कः प्रकारो गृह्यते / "निरोधश्चित्तचैत्तानामि"ति /
[070|03] अयं त्वस्या विशेषः / इयं
[070|04] विहारार्थं
[070|05] शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते /
[070|05-070|06] तां तु निःसरणसंज्ञा पूर्वकेण /
[070|06] सा खल्वपि चतुर्थध्यानभूमिका / इयं तु
[070|07] भवाग्रजा /
[070|08] नैवसंज्ञानासंज्ञायतनभूमिकैव / सा चेयं
[070|09] शुभा
[070|10] कुशलैव न क्लिल्ष्टा नाव्याकाऋता / कुशला सती
[070|11] द्विवेद्या ऽनियता च /
[070|12] द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च /
[070|12-070|13] अनियता च विपाकं प्रति कदाचिन्न विपच्यते /
[070|13-070|14] यदीह परिनिअर्वायात् तस्या हि भवाग्रे चतुःस्कन्धको विपाकः /
[070|14] सा चेयमेकान्तेन
[070|15] आर्यस्य
[070|16-070|17] नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः /
[070|17] आर्यस्यापि चेयं न वैराग्यलभ्या / [070|18] किं तर्हि /
[070|19] आप्या प्रयोगतः // vakk_2.43 //
[070|20] प्रयोगलभ्यैवेयम् / न चातीता लभ्यते नाप्यनागत भाव्यते /
[070|20-070|21] चित्तबलेन तद्भावनात् /
[070|21] किं भगवतो ऽपि परायोगिकी / नेत्याह /
[070|22] बोधिलभ्या मुनेः
[070|23-070|24] क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम /
[070|24] इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः /
[070|25] तस्मादेषां सर्ववैराग्यलाभिकम् /
[070|25-070|26] कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति /
[070|27-071|01] सिध्यत्युत्पादितायामिव तस्यां वशित्वात् प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः /
[071|01] अथ कस्मादेवं नेष्यते /
[071|01-071|02] एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति /
[071|02-071|03] "निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत"इति /
[071|04] न प्राक्
[071|05] नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः / किं कारणम् /
[071|06] चतुस्त्रिंशत्क्षणाप्तितः /
[071|07] चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः /
[071|07-071|09] सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् /
[071|09] त एते चतुस्त्रिंशत् भवन्ति /
[071|09-071|10] आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति /
[071|10-071|11] अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति /
[071|11-071|12] किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् /
[071|12-071|13] व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः /
[071|13] सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् /
[071|13-071|14] कथं तर्हि "न तावत् भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय" इति /
[071|14-071|15] अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः /
[071|15-071|16] पूर्वमेव तु वर्णयन्ति काश्मीराः /
[071|16] यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः /
[071|17] कामरूपाश्रये भूते
[071|18] उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते /
[071|18-071|19] ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते /
[071|19-071|20] स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः /
[071|20-071|22] स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव" इति /
[071|22] अत उभे अप्येते कामरूपाश्रये /
[071|22-071|23] तत्रापि त्वयं विशेषः /
[071|24] निरोधाख्यादितो नृषु // vakk_2.44 //
[071|25] निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः /
[071|26] किमतो ऽप्यस्ति परिहाणिः / अस्तीत्याह /
[071|26-072|01] अन्यथा हि न्दायि सूत्रं विरुध्येत /
[072|01-072|02] "इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च /
[072|02-072|05] सो ऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते /
[072|05-072|06] स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाती"ति /
[072|06-072|07] अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता /
[072|07] इयं च समापत्तिर्भावाग्रिकी /
[072|08] तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः /
[072|08-072|09] चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति /
[072|09] तेषां विनापि परिहाण्या सिध्यत्येतत् /
[072|10] एतदेव तु न सिध्यति / चतुर्थध्यानभूमिका ऽप्यसावस्तीति / किं कारणम् /
[072|11] "नवानुपूर्वसमापत्तय" इति सूत्रे वचनात् /
[072|11-072|12] यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति /
[072|12] प्राथमकल्पिकं प्रत्येष नियमः /
[072|12-072|13] प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते /
[072|13] एवमनयोः समापत्त्योर्भूमितो ऽपि विशेषः /
[072|14] चतुर्थध्यानतया ऽग्राभूमिकत्वात् /
[072|14-072|15] प्रयोगतो ऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् /
[072|15] संतानतो ऽपि पृथग्जनार्यसंतानत्वात् /
[072|15-072|16] फलतो ऽप्यासंज्ञिकभवाग्रफलत्वात् /
[072|16-072|17] वेदनीयतो ऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् /
[072|17] प्रथमोत्पादनतो ऽपि द्विधातुमनुष्योत्पादनात् /
[072|17-072|18] कस्मात् पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते /
[072|18-072|19] तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् /
[072|19] वेदनादिज्ञाने ऽपि परचित्तज्ञानवचनवत् /
[072|19-072|20] कथमिदानीं बहुकालं निरुद्धाच्चित्तात् पुनरपि चित्तं जायते /
[072|20-072|21] अतीतस्याप्यस्तित्वात् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् /
[072|21] अपरे पुनराहुः /
[072|21-072|22] कथं तावद् रूपोपपन्नानां चिरनिरुद्धे ऽपि रूपे पुनरपि रूपं जायते /
[072|22] चित्ताद् एव हि तज् जायते न रूपात् /
[072|22-072|23] एवं चित्तम् अप्य् अस्माद् एव सेन्द्रियात् कायाज् जायते न चित्तात् /
[072|23-072|24] अन्योन्यबीजकं ह्य् एतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः /
[072|24-072|25] भदन्तवसुमित्रस्त्वाह परिपृच्छायां "यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि"ति /
[072|26] ति / भदन्तघोषक आह तदिदं नोपपद्यते /
[072|26-072|27] "सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः /
[072|27-072|28] स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता /
[072|28] अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् / अथापि स्यात् /
[073|01] यथा वेदनाप्रत्यया तृष्णे"त्युक्तम् /
[073|01-073|02] सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति /
[073|02] तस्याविशेषितत्वात् /
[073|02-073|03] अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् /
[073|04] तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः /
[073|04-073|05] कथमचित्तिकायाः समापत्तित्वम् /
[073|05] महाभूतसमतापादनात् /
[073|05-073|06] समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः /
[073|06] किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः /
[073|07] द्रव्यत इत्याह / चित्तोत्पत्तिप्रतिबन्धनात् / न / समापत्तिचित्तेनैव तत्प्रतिबन्धनात् /
[073|08-073|09] समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति /
[073|09] तद्विरुद्धाश्रयापादनात् /
[073|09-073|11] या ऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात् भवति व्युत्थितस्येति संस्कृता ऽसौ समापत्तिः प्रज्ञप्यते /
[073|11] अथवा आश्रयस्यैव तथा समापादनं समापत्तिः /
[073|11-073|12] एवमासंज्ञिकमपि द्रष्टव्यम् /
[073|12-073|13] चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति /
[073|13] व्याख्याते समापत्ती //
[073|14] जीवितं कतमत् /
[073|15] आयुर्जीवितम्
[073|16] एवं ह्युक्तमभिधर्मे ऽजीवितेन्रियं कतमत् / त्रैधातुकमायुरि"ति /
[073|16-073|17] एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति /
[073|18] आधार ऊष्मविज्ञानयोर्हि यः /
[073|19] इदमुक्तं भगवता
[073|20-073|21] "आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी / अपविद्धस्तदा शेते यथा काष्ठमचेतन" इति //
[073|22] तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः /
[073|22-073|23] तस्येदानीमायुषः क आधारभूतः /
[073|23-073|24] एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते /
[073|24] यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः /
[073|25] आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् /
[073|25-073|26] ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते /
[073|26] मा भूत् सर्वं विज्ञानमामरणाद्विपाक इति /
[073|27] ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य /
[073|27-073|28] एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् /
[073|28] तस्य पुनः कर्माधारो भविष्यति /
[073।28-074।01 न वै लभ्यते कामचारो यत् क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति /
[074|02] उक्तं चात्र / किमुक्तम् /
[074|02-074|03] "मा भूत्सर्वं विज्ञानमामरणाद्विपाक" इति /
[074|03] तस्मादस्त्येव तयोराधारभूतमायुः /
[074|03-074|04] नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् /
[074|04] किं तर्हि / त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः /
[074|05-074|06] यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत् सो ऽवतिष्ठते तदायुरित्युच्यते /
[074|06-074|07] सस्यानां पाककालावेधवत् क्षिप्तेषुस्थितिकालावेधवच्च /
[074|07-074|08] यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद् भवतीति /
[074|08-074|09] तस्य तदेकत्वात् प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च /
[074|09-074|10] वायुना तत्प्रतिबन्ध इति चेत् /
[074|10] अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् /
[074|10-074|11] एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति /
[074|12] अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि /
[074|12-074|13] प्रज्ञप्तावुक्तम् "आयुःक्षयान्मरणं न पुण्यक्षयादि"ति /
[074|13] चतुष्कोटिः /
[074|13-074|14] प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् /
[074|14] द्वितीया भोगविपाकस्य / तृतीयोभयोः /
[074|14-074|15] चतुर्थी विषमापरिहारेण /
[074|15] आयुरुत्सर्गाच्चेति वक्तव्यक्म् / न वक्तव्यम् / आयुःक्षयादेव तन्मरणम् /
[074|16] प्रथमकोट्यन्तर्गमात् /
[074|16-074|17] क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् /
[074|17] तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् /
[074|17-074|18] ज्ञानप्रस्थाने ऽप्युक्तम् "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् /
[074|18] सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् /
[074|19] आह /
[074|19-074|20] कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् /
[074|20-074|21] समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्" /
[074|21] को ऽस्य भाषितस्यार्थः /
[074|21-074|22] यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात् प्रथमम् /
[074|22-074|23] यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात् द्वितीयम् /
[074|23-074|24] सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः /
[074|24] तस्मादस्त्यकालमृत्युः /
[074|24-074|25] सूत्र उक्तम् "चत्वार आत्मभावप्रतिलम्भाः /
[074|25] अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने"ति /
[074|26] चतुष्कोटिकः /
[074|26-074|27] आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च /
[074|27-074|28] तेषां हि प्रहर्षमनःओप्रदोषाभ्यां तस्मात् स्थानाच्च्युतिर्भवति नान्यथा/
[074|28] दुद्धानां चेति वक्तव्यम् /
[075|01] स्वयंमृत्युत्वात् / परसंचेतनैव क्रमते गर्भाण्डगतानाम् /
[075|01-075|02] उभयमप्येषां कामावचराणां प्रायेण /
[075|02-075|06] नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः/
[075|06-075|07] अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंअचेतना /
[075|07-075|08] नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे"ति /
[075|08-075|09] अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति /
[075|09-075|10] ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति /
[075|10] पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः /
[075|11] क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तो ऽपि प्रतीयते / यदाह /
[075|11-075|12] "तद्यथा देवा ब्रह्मकायिकाः /
[075|12] इयं प्रथमा सुखोपपत्तिरिति / क्वचित् पर्यन्तेनादिरपि प्रतीयते /
[075|13] यदाह / तद्यथा देवा आभास्वराः / इयं द्वितीया सुखोपपत्तिरि"ति
[075|13-075|14] अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः /
[075|14-074|15] एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते /
[075|15-075|16] स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः /
[075|16] यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् /
[075|16-075|17] सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति /
[075|17-075|18] तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन /
[075|18] उक्तं जीवितम् //
[075|19] लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता // vakk_2.45 //
[075|20] एतानि हि संस्कृतस्य चत्वारि लक्षणानि /
[075|20-075|21] यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते / [075|21] विपर्ययादसंस्कृतः /
[075|21-075|22] तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति /
[075|22-075|23] ननु "त्रीणिमानि संस्कृत लक्षणानी"ति सूत्र उक्तम् /
[075|23] चतुर्थमप्यत्र वक्तव्यं स्यात् / किं चात्र नोक्तम् / आह /
[075|24] स्थितिः / यत्तर्हि "इदं स्थित्यन्यथात्वमि"ति /
[075|24-075|25] जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति /
[075|25-076|01] ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् /
[076|01-076|02] जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति /
[076|02-076|03] जरा ऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् /
[076|03] तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः /
[076|03-076|04] तत एक एनं गहनादाकर्षेत् द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति /
[076|04-076|05] स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती /
[076|05-076|06] अतो ऽसौ संस्कृतलक्षणं न व्यवस्थापिता /
[076|06] असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् /
[076|06-076|07] अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे /
[076|07] किं प्रयोजनम् /
[076|08-076|09] एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति /
[076|09] अतश्चत्वार्येव संस्कृत लक्षणानि /
[076|09-076|10] तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् /
[076|10] भवन्त्येव /
[076|11] जातिजात्यादयस्तेषां
[076|12] तेषामपि चत्वार्यनुलक्षणानि भवन्ति /
[076|12-076|13] जातिजातिः स्थितिस्थितिः जराजरा अनित्यता ऽनित्यता इति /
[076|13] ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च /
[076|14] तेषां पुनरन्यजात्यादिप्रसङ्गात् / न प्राप्नोति / यस्मात् /
[076|15] ते ऽष्टधर्मैकवृत्तयः /
[076|16] तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः / किमिदं वृत्तिरिति / कारित्रं पुरुषकारः /
[076|17] जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते /
[076|18] सार्धं लक्षणानुलक्षणैरष्टाभिः /
[076|18-076|19] तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति /
[076|19] जातिजातिः पुन स्तामेव जातिम् /
[076|19-076|20] तद्यथा किल काचित् कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि /
[076|20-076|21] तद्वत् स्थितिरप्यात्मानं वर्जयित्वा ऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् /
[076|21-076|22] एवं जरा ऽनित्यते अपि यथायोग्यं यज्ये /
[076|22] तस्माना भवत्यनवस्थाप्रसङ्गः /
[076|22-076|23] तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः /
[076|23-076|24] नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथा ऽभिव्यज्यन्ते /
[076|24] किं कारणम् / प्रमाणाभावात् /
[076|24-076|25] नह्येषां द्रव्यतो ऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति /
[076|26-076|27] यत्तर्हि सूत्र उक्तं "संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वमपी" ति /
[076|27] ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः / अर्थश्च प्रतिशरण मुक्तं भगवता /
[076|28] कः पुनरस्यार्थः /
[076|28-076|29] अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते /
[076|29-077|02] तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह "त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि" /
[077|02] न तु क्षणस्य / नहि क्षणस्योत्पादादयः प्रज्ञायन्ते /
[077|03] नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति /
[077|03-077|04] अथ एवात्र सूत्रे "संस्कृतस्योत्पादो ऽपि प्रज्ञायत" इत्युक्तम् /
[077|04-077|05] पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त /
[077|05-077|06] मैवं विज्ञायि संस्कृतस्य वस्तुनो ऽस्तित्वे लक्षणानि जलवलाकावत् साध्वसादुत्वे वा कन्यालक्षणवदिति /
[077|06-077|07] तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः /
[077|07] स एव प्रवाहो ऽनुवर्त्तमानः स्थितिः /
[077|07-077|08] तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् /
[077|08-077|09] एवं च कृत्वोक्तं "विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती"ति /
[077|10] आह चात्र
[077|11-077|12] "जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः / स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता //"
[077|13-077|14] "जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः / स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष" इति //
[077|15-077|16] "क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् / न च व्येत्येव तेनास्य वृथा तत्परिकल्पना //"
[077|17] तस्मात् प्रवाह एव स्थितिः / एवं च कृत्वा ऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति /
[077|18] "स्थितिः कतमा / उत्पन्नानां संस्काराणामविनाश" इति /
[077|18-077|19] नहि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति /
[077|19] यदपि च ज्ञानप्रस्थान उक्तम् "एकस्मिंश्चित्ते क उत्पादः /
[077|20] आह / जातिः / को व्ययो मरणम् / किं स्थित्यन्यथात्वं जरे"ति /
[077|20-077|21] तत्रापि निकायसभागचित्तं युज्यते /
[077|21-077|22] प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विना ऽपि द्रव्यान्तरकल्पनया /
[077|22] कथमिति /
[077|23] प्रतिक्षणमभूत्वाभाव उत्पादः / भूत्वा ऽभावो व्ययः /
[077|23-077|24] पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः /
[077|24] तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति / यदा तर्हि सदृशा उत्पद्यन्ते /
[077|24-077|25] न ते निर्विशेषा भवन्ति /
[077|25] कथमिदं ज्ञायते /
[077|25-077|26] क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः /
[077|26-077|27] नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते /
[077|27-077|29] अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात् स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति /
[077|29] न वै संस्कृतस्य स्थितिरेवोच्यते /
[078|01] लक्षणमपि तु स्थित्यन्यथात्वम् /
[078|01-078|02] अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः /
[078|02-078|04] समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता "संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सो ऽन्यथा चान्यथा च भवती"ति /
[078|04-078|05] किम् अत्र द्रव्यान्तरैर् जात्यादिभिः कथम् इदानीं स एव धर्मो लक्ष्यस् तस्यैव लक्षणं योक्ष्यते /
[078|05-078|08] कथं तावन् महापुरुषलक्षणानि महापुरुषान् नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर् नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि /
[078|08-078|09] यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् /
[078|09] स एवात्र न्यायः स्यात् /
[078|09-078|10] नच संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते /
[078|10-078|11] गृह्णतापि स्वभावं यावत् प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः /
[078|11-078|12] तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते /
[078|12] अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः /
[078|12-078|13] किमयुक्तं स्यात् /
[078|13-078|14] एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् /
[078|14] कारित्रकालभेदात् / अनागता हि जातिः कारित्रं हि करोति /
[078|14-078|16] यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा /
[078|16] इदं तावदिह संप्रधार्यं भवेत् /
[078|16-078|17] किमनागतं द्रव्यतो ऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् /
[078|17-078|18] सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् /
[078|18-078|20] उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् /
[078|20-078|21] स्थित्यादयो ऽपि च युगपत् कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः /
[078|21-078|22] यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति /
[078|22-078|24] किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा यो ऽपि हि ब्रूयात् स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते /
[078|24] अथाप्येवं ब्रूयात् एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति /
[078|25-078|26] एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति /
[078|26] कुत एतत् / स्थितेर्बलीयस्त्वात् / पुनः केनावलीयस्त्वम् /
[078|26-078|27] यदैनां सह धर्मेणानित्यता हन्ति /
[078|27] कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् /
[078|28] स्थतुर्युक्तमनुत्सोढुम् /
[078|28-078|29] नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् /
[078|29] शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् /
[078|29-079|01] अतो न युक्तं यन्नोत्सहते /
[079|01] को वा ऽत्र प्रतिबन्धः / ते एव जरा ऽनित्यते /
[079|01-079|02] यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् /
[079|02-078|04] निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् /
[079|04-079|05] स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् /
[079|05-079|06] स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः /
[079|06] स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशो ऽनित्यता /
[079|07] जरा तु खलु सर्वथात्वेन न तथा / पूर्वापरविशेषात् विपरिणामाच्च /
[079|07-079|08] अतस्तदन्यथात्वे ऽन्य एव /
[079|08] उक्तं हि
[079|09-079|10] "तथात्वेन जरा ऽसिद्धिरन्यथात्वे ऽन्य एव सः / तस्मानैकस्य भावस्य जरा नामोपपद्यते"//
[079|11-079|12] यो ऽप्याह निकायान्तरीयो "विनाश कारणं प्राप्यानित्यता विनाशायती"ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा /
[079|12-079|15] तत् एवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत /
[079|15-070|16] तस्मात् प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति /
[079|17] अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते / यस्मात्
[079|18] जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना // vakk_2.46 //
[079|19] नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति /
[079|19-079|20] हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः /
[079|20-079|21] सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः /
[079|21] किं च भोः सर्वं विद्यमानमुपलभ्यते /
[079|22] सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते /
[079|22-079|23] जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति /
[079|23-079|24] एवं यावदनित्यता यथायोगं वक्तव्या /
[079|24] तेन तर्ह्य् अनात्मत्वम् अप्य् एष्टव्यम् अनात्मबुद्धि-सिद्ध्यर्थम् /
[079|24-079|26] संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-सत्तादयो ऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदाdi-buddhi-siddhyarथम् /
[079|26-079|27] षष्टीविधानार्थं च रूपस्य संयोग इति /
[079|27] एषा च षष्टो कथं कल्प्यते /
[079|27-079|28] रूपस्य स्वभाव इति /
[079|28] तस्मात् प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति /
[079|28-080|01] स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः /
[080|01-080|02] तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत मा ऽन्यः प्रत्यायीति /
[080|02-080|03] तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति /
[080|03-080|04] एवं स्थित्यादयो ऽपि यथायोगं वेदितव्याः /
[080|04] यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते /
[080|05] जायत् इत्यभूत्वा भवति / असंस्कृतं च नित्यमस्तीति न जायते /
[080|05-080|06] यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् /
[080|06-080|08] यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वे ऽप्यसमर्थाः स्युः /
[080|08] सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः /
[080|09-080|10] नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते /
[080|10-080|11] तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः /
[080|11] उक्तानि लक्षणानि //
[080|12] नामकायादयः कतमे /
[080|13] नामकायादयः संज्ञावाक्याक्षरसमुक्तयः /
[080|14] आदिग्रहणेन पदव्यञ्जनकायग्रहणम् / तत्र संज्ञाकरणं नाम /
[080|14-080|15] तद्यथा रूपं शब्द इत्येवमादिः /
[080|15-080|16] वाक्यं पदं यावता ऽर्थपरिसमाप्तिस्तद्यथा "अनित्या वत संस्कारा" इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते /
[080|16-080|17] व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि /
[080|17] ननु चाक्षराण्यपि लिप्यवयवानां नामानि /
[080|17-080|18] न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः /
[080|19] कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि /
[080|19-080|20] एषां च संज्ञादीनां समुक्तयो नामादिकायाः /
[080|20] उच समवाये पठन्ति / तस्य समुक्तिरित्येतद् रूपं भवति /
[080|21] यो ऽर्थः समवाय इति सो ऽर्थः समुक्तिरिति /
[080|21-080|22] तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि /
[080|22-080|23] पदकायः तद्यथा "सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि" त्येवमादि /
[080|23-080|24] व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि /
[080|24-080|25] ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति /
[080|25] कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते / नैते वाक्स्वभावाः /
[080|25-080|26] घोषो हि वाक् नच घोषामात्रेनार्थाः प्रतीयन्ते /
[080|26] किं तर्हि /
[080|26-080|28] वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग् येन तु घोषेणार्थः प्रतीयते स घोषो वाक् /
[080|28] केन पुनर्घोषेणार्थः प्रतीयते /
[080|28-081|01] यो ऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः /
[081|02-081|03] "वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु / नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि"ति //
[081|04-081|05] यो ऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति /
[081|05-081|06] तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात् सिध्यतीति किमर्थरं नाम कल्पयित्वा /
[081|06] इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति /
[081|06-081|07] किं तावदुत्पादयत्याहोस्वित् प्रकाशयति /
[081|07] यद्युत्पाद यति /
[081|07-081|09] घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति /
[081|09] अथ प्रकाशयति /
[081|09-081|11] घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति /
[081|11] न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् /
[081|12] न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् /
[081|12-081|13] कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् /
[081|13-081|14] एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्यो ऽपि तमेवैकम् शृणोति सो ऽप्यर्थं प्रतिपद्येत /
[081|14-081|15] अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति /
[081|15-081|16] अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् /
[081|16] एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः /
[081|16-081|18] व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुम् नोत्सहन्त इति व्यञ्जयापि वाक् नैवोत्पादिका न प्रकाशिका युज्यते /
[081|18-081|19] अथाप्यर्थसहजं नाम जात्यादिवदिष्यते /
[081|19] एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् /
[081|19-081|21] अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यात् असंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् /
[081|21-081|22] यदप्युक्तं भगवता
[081|23] "नामसंनिशारिता गाथा गाथानां कविराश्रयः" इति
[081|24-081|25] अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते /
[081|25] पङ्क्तिवच्चित्तानुपूर्व्यवच्च /
[081|26] अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना /
[081|26-081|27] तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः /
[081|27-081|28] सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः /
[081|28] नहि सर्व धर्मास्तर्कगम्या भवन्तीति /
[082|01-082|02] अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् /
[082|02] आह
[082|03] कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः /
[082|04] कामाप्ता रूपाप्ताश्चेति / आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे /
[082|05] सत्त्वाख्या एते / यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते /
[082|05-082|06] नैःष्यन्दिका अनिवृताव्याकृताश्च /
[082|06-082|07] यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च /
[082|08] तथा // vakk_2.47 //
[082|09] सभागता सा तु पुनर्विपाको ऽपि
[082|10] न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी /
[082|11] आप्तयो द्विधा /
[082|12] प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च /
[081|13] लक्षणानि च /
[081|14] द्विधेति वर्त्तते प्राप्तिवत् /
[082|15] निःष्यन्दाः समापत्त्य समन्वयाः // vakk_2.48 //
[082|16] द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव / शेषमेषां वक्तव्यमुक्तम् /
[082|17] शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः / कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् /
[082|18] कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता / सर्वसंस्कृटसहभूत्वात् //
उक्ता विप्रयुक्ताः //
[082|19-082|20] यक्तूक्तं "जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" इति क इमे हेतवः केच प्रत्ययाः /
[082|21-082|22] कारणं सहभूश्चैव सभागः संप्रयुक्तकः / सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते // vakk_2.49 //
[082|23] षडिमे हेतवः /
[082|23-082|24] कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति /
[082|24] तत्र
[082|25] स्वतो ऽन्ये कारणं हेतुः
[082|26] संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति /
[082|27] अविघ्नभावावस्थानात् /
[082|27-083|02] ननु च ये ऽस्याजानत उदपत्स्यन्तास्रवा जानतो ऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति /
[083|02] उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् /
[083|03] भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् /
[083|03-083|04] तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति /
[083|04-083|06] यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ /
[083|06-083|07] असन्तो ऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः /
[083|07-083|08] असमर्थे ऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः /
[083|08-083|09] यस्तु प्रधानः कारणहेतुः स उत्पादने ऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयो ऽङ्कुरादीनामिति /
[083|10-083|11] यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति /
[083|11-083|12] तस्येदमचोद्यम् /
[083|12] यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति /
[083|13] सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे /
[083|13-083|14] तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् /
[083|14] कथं कृत्वा /
[083|14-083|16] तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् /
[083|16] एवमन्यस्यापि प्रतिपत्तव्यम् / एषा हि दिक् /
[083|16-083|17] उक्तः कारणहेतुः /
[083|18] सहभूर्ये मिथःफलाः /
[083|19] मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा / कथम् /
[083|20] भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् // vakk_2.50 //
[083|21] चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः / चित्तं चित्तानुवर्त्तिनां धर्माणां ते ऽपि तस्य /
[083|22] संस्कृतलक्षणानि लक्ष्यस्य सो ऽपि तषाम् /
[083|22-083|23] एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् /
[083|23-083|24] विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् //
[083|25] के पुनरेते चित्तानुवर्त्तिनो धर्माः /
[083|26] चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च /
[083|27] चित्तानुवर्त्तिनः
[083|28] सर्वेचित्तसंप्रयुक्ताः / ध्यानसंवरो ऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च /
[083|28-084|01] एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते /
[084|01] कथमेते चित्तमनुपरिवर्त्तन्ते / समासतः
[084|02] कालफलादिशुभतादिभिः // vakk_2.51 //
[084|03] कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च /
[084|03-084|04] फलादिभिरेकफलविपाकनिःष्यन्दतया /
[084|04] पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः /
[084|05] शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया /
[084|05-084|06] एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते /
[084|06-084|07] तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः /
[084|07-084|08] दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् /
[084|08] तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः /
[084|08-084|09] स्वान्यनुलक्षणानि स्थापयित्वा /
[084|09] चतुर्दशेत्यपरे / दश महभूमिकाः स्वान्येव च लक्षणानीति /
[084|09-084|10] तदेतन्न वर्णयन्ति /
[084|10] प्रकरणग्रन्थो ह्येवं विरुध्येत /
[084|10-084|11] "स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः /
[084|11-084|13] सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः /
[084|13] सत्कायदृष्टेक्श्च हेतुर्यदेतत् स्थापितमि" ति /
[084|13-084|15] ये तर्हि "तत्संप्रयुक्तानां च धर्माणा मि" त्येतन्न पथन्ति तैरप्येतत् पथितव्यम् अर्थतो वैवं बोद्धव्यमिति काश्मीराः /
[084|15] यक्तावत् सहभूहेतुना हेतुः सहभ्वपि तत् /
[084|15-084|16] स्यात्तु सहाभूर्न सहभूहेतुना हेतुः /
[084|16] धर्मस्यानुलक्षणानि / तानि चान्योन्यम् /
[084|16-084|19] अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित् सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् /
[084|19-084|20] न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति /
[084|20] सर्वमप्येतत् स्यात् /
[084|20-084|21] किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत् कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति /
[084|22] तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च /
[084|22-084|24] संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित् पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति /
[084|24] इतस्तर्हि भावाभावयोस्तद्वत्त्वात् /
[084|24-084|25] एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर् हेतुकाः /
[084।25-084।26 यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति /
[084|26-085|01] सहभुवाम् च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः /
[085|01] स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् /
[085|02-085|03] अथ एवाह एवं तर्ह्यविनिर्भाविणो ऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः /
[085|03-085|04] त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति /
[085|04] मीमांस्यं तावदेतत् /
[085|04-085|06] किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित् पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका /
[085|06-085|07] एषामपि नामान्ये ऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः /
[085|08] सभागहेतुः कतमः /
[085|09] सभागहेतुः सदृशाः
[085|10-085|11] सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् /
[085|12] चत्वारस्तु न रूपस्येत्यपरे / न्यूनत्वात् /
[085|12-085|13] कललं कललादीनां दशानामवस्थानाम् अर्वुदायो ऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे /
[085|13-085|14] अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् /
[085|14-085|15] बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् /
[085|15-085|16] ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते "अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति" रिति /
[085|17] किं पुनः सर्वे सदृशानां सभागहेतः / नेत्याह / किं तर्हि /
[085|18] स्वनिकायभुवः /
[085|19] स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः /
[085|19-085|20] पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः /
[085|20] नव भूमयः /
[085|20-085|21] कामधातुरष्टौ च ध्यानारूप्याः /
[085|21] तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् /
[085|21-085|22] एवं यावत् भावनाहेया भावनाहेयानाम् /
[085|22-085|24] ते ऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत् भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् /
[085|24] ते ऽपि न सर्वे / किं तर्हि /
[085|25] अग्रजाः /
[085|26] पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः / अनागता नैव सभागहेतुः /
[085|27] एवमतीते कुत एतत् आह / शास्त्रात् / "सभागहेतुः कतमः /
[085|27-086|02] पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः /
[086|02] एवमतीतान्यतीतप्रत्युत्पन्नानाम् /
[086|02-086|03] अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्" /
[086|03-086|04] इदपि शास्त्रं "यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः /
[086|04] आह /
[086|04-086|05] न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः /
[086|05-086|06] यस्तु मन्यते अनागतो ऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं "न कदाचिन्न हेतुरि"ति /
[086|06-086|08] तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात् भवति /
[086|08-086|10] इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति /
[086|10] कस्मादेवमाह /
[086|10-086|11] यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् /
[086|11] यथा चेह तथा तत्रेति /
[086|11-086|12] एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत /
[086|12-086|13] तस्मात् पूर्वक एवात्र परिहारः साधुः /
[086|13-086|15] यत्तर्हीदमुक्तम् "अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि"ति /
[086|15-086|16] अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्त्तव्यमर्थतो ऽपि चैवं बोद्धव्यमिति /
[086|16-086|18] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता" इति /
[086|18] हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च /
[086|18-086|19] फलं पुरुषकारफलमधिपतिफलं च /
[086|19] आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् /
[086|19-086|20] ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् /
[086|20-086|21] इष्यत एवावस्थां प्रति न द्रव्यम् /
[086|21] अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् /
[086|21-086|22] किं पुनः स्याद्यदि विपाकहेतुवदनागतो ऽपि सभागहेतुः स्यात् /
[086|22] शास्त्रे तस्य ग्रहणं स्यात् /
[086|22-086|23] स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः /
[086|23] नैतदस्ति /
[086|23-086|24] निःष्यन्दफलेन हि सफलः सभागहेतुः /
[086|24] तच्चानागतस्यायुक्तं पूर्वपश्चिमता ऽभावात् /
[086|24-086|25] न चोत्पन्नमनागतस्य निष्यन्दो युज्यते /
[086|25] यथा ऽतीतं वर्त्तमानस्य / मा भूद्धेतोः पूर्वं फलमिति /
[086|26] नास्त्यनागतः सभागहेतुः / विपाकहेतुरपि एवमनागतो न प्रप्नोति /
[086|26-086|27] वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमता ऽभावात् /
[086|27] नैतदस्ति /
[086|28-086|29] सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत /
[086|29] नचान्योन्यनिःष्यन्दता युक्तिमतीति /
[087|01] नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते /
[087|01-087|02] भिन्नलक्षणात्वाद्धेतुफलयोः /
[087|02-087|03] तस्मादवस्थाव्यव्स्थितं एव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतो ऽपि न वार्यते /
[087|04] यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः /
[087|05] अन्यो ऽन्यं नवभूमिस्तु मार्गः
[087|06] सभागहेतुरित्यधिकारः /
[087|06-087|07] अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्यो ऽन्यं सभागहेतुः /
[087|07] किं कारणम् /
[087|07-087|08] आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् /
[087|08-087|09] अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति /
[087|09] स पुनः /
[087|10] समविशिष्टयोः // vakk_2.52 //
[087|11] न्यूनस्य हेतुर्भवति /
[087|11-087|12] तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य /
[087|12-087|13] अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् /
[087|13] दर्शनभावना ऽशैक्ष्यमार्गास्त्रिध्येकेषाम् /
[087|13-087|14] तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः /
[087|14] तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव /
[087|14-087|15] तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च /
[087|15-087|16] धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य /
[087|16-087|17] कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा /
[087|17] इन्द्रियतो हेतूपचयतश्च /
[087|17-087|18] तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः /
[087|18-087|19] यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः /
[087|20] किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति / नेत्याह /
[087|20-087|21] लौकिका अपि हि
[087|22] प्रयोगजास्तयोरेव
[087|23] समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य / यथा कतमे इत्याह
[087|24] श्रुतचिन्तामयादिकाः /
[087|25-087|26] एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् /
[087|26-087|27] तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् /
[087|27] भावनामयाभावात् /
[087|27-087|28] रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् /
[087|28] भावनामया भावनामयानामेव /
[087|28-087|29] आरूप्यावचराभावनामया भावनामयानामेव /
[087|29-088|01] तेषामपि नवप्रकारभेदात् मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः /
[088|01-088|02] उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः /
[088|02] क्लिष्टा अप्येवम् /
[088|02-088|03] अनिवृताव्याकृतास्तु चतुर्विधाः /
[088|03] विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च /
[088|03-088|04] ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् /
[088|05] तत्र नोत्तरध्यानफलमधरध्यानफलस्य /
[088|05-088|06] नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति /
[088|06-088|07] तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति /
[088|07-088|08] अत एव चाहुः स्यादुत्पन्नो ऽनास्रवो ऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्/
[088|08-088|09] सर्वं च विशिष्टं न्यूनस्य न हेतुः /
[088|09-088|10] स्यादेकसन्ताननियतः पूर्वप्रतिलब्धो ऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः /
[088|10-088|11] स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः /
[088|11-088|12] स्यात् पूर्वोत्पन्नो ऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः /
[088|12] स्यादविमात्रो न्यूनस्य /
[088|12-088|14] तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति /
[088|14] उक्तः सभागहेतुः /
[088|15] संप्रयुक्तकहेतुस्तु चित्तचैत्ताः /
[088|16] एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः /
[088|16-088|17] एकाकारा लम्बनास्तर्हि /
[088|17] एवमपि स एव प्रसङ्गः / एककालास्तर्हि /
[088|17-088|18] एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् /
[088|18] तस्मात्तर्हि
[088|19] समाश्रयाः // vakk_2.53 //
[088|20] समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः /
[088|20-088|22] समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः /
[088|22] इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः /
[088|22-088|23] यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः /
[088|23] अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः /
[088|24] अन्योन्यफलार्थेन सहभूहेतुः / सहसार्थिकान्योन्यबलमार्गप्रयाणवत् /
[088|24-088|25] पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः /
[088|25-088|26] तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् /
[088|26-088|27] एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः /
[088|27] उक्तः संप्रयुक्तकहेतुः /
[089|01] सर्वत्रगहेतुः कतमः /
[089|02] सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः /
[089|03] स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः /
[089|04] तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः /
[089|04-089|05] क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक् व्यवस्थाप्यते /
[089|05-089|06] निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते /
[089|06-089|07] किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः /
[089|07-089|08] सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः /
[089|08-089|09] तथा प्रकारणेषूक्तं "दर्शनप्रहातव्यहेतुकाः धर्माः कतमे /
[089|09] क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति /
[089|09-089|10] अव्याकृतहेतुका धर्माः कतमे / [089|10] अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति /
[089|10-089|13] दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टम् दुःखसत्य"मिति /
[089|13] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "स्याद्धर्मो ऽकुशलो ऽकुशलहेतुक एव /
[089|14-089|15] स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती"ति /
[089|15] अप्रहीणहेतुमेतत् संधायोक्तम् /
[089|15-089|16] दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः /
[089|16] उक्तः सर्वदगहेतुः /
[089|17] विपाकहेतुः कतमः /
[089|18] विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः // vakk_2.54 //
[089|19] अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः / विपाकधर्मत्वात् /
[089|19-089|20] कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति /
[089|20] दुर्बलत्वात् / पूति बीजवत् /
[089|21] कस्मान्नानास्रवाः / तृष्णानभिष्यन्दितत्वात् / अनभिष्यन्दितसारबीजवत् /
[089|21-089|22] अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः /
[089|22] शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति /
[089|23] साराभिष्यन्दितबीजवत् /
[089|23-089|24] कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः /
[089|24] किं चातः /
[089|24-089|25] यदि विपाकस्य हेतुर्विपाकहेतुः "वीपाकजं चक्षुरि"ति एतन्न प्राप्नोति /
[089|25-089|26] अथ विपाक एव हेतुर्विपाकहेतुः "कर्मणो विपाक" इत्येतन्न प्राप्नोति /
[089|26] नैष दोषः / "उभयथापि योग" इत्युक्तं प्राक् //
[089|26-089|27] अथ विपाक इति को ऽर्थः /
[089|27] विसदृशः पाको विपाकः / अन्येषां तु हेतूनां सदृशः पाकः /
[089|27-090|01] एकस्योभयथेति वैभाषिकाः /
[090|01] नैव तु तेषां पाको युक्तः /
[090|01-090|02] पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः /
[090|02-090|03] न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति /
[090|03] न चापि सभागहेत्वादीनां फलपर्यन्तो ऽस्ति /
[090|03-090|04] पुनः पुनः कुशलाद्यासंसारफलत्वात् /
[090|04] कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च /
[090|05] द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च /
[090|05-090|06] चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः //
[090|06-090|07] रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः /
[090|07-090|08] द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः /
[090|08-090|09] चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते /
[090|09] पञ्चस्कन्धक एकफलः समाहिते //
[090|09-090|10] आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः /
[090|10-090|11] चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च /
[090|11-090|12] अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् /
[090|12] यस्य मन आयतनं तस्य द्वे मनोधर्मायतने /
[090|12-090|13] एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि /
[090|13-090|14] एवं यस्य रूपगन्धरसायतनानि /
[090|14] यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि /
[090|15] एवं यस्य श्रोत्रग्राणजिह्वायतनानि /
[090|15-090|16] अस्ति तत् कर्म यस्य पञ्च षट् सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते /
[090|16-090|17] विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवत् /
[090|17] तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति /
[090|17-090|18] तद्यथा पद्मदाडिमन्यग्रोधादीनाम् /
[090|18] कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् /
[090|19] एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते /
[090|19-090|20] न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति /
[090|20-090|21] एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् /
[090|21-090|22] न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात् समनन्तरक्षणस्य /
[090|22] प्रवाहापेक्षो हि विपाकहेतुः /
[090|23] अथ क एषां हेतूनामध्वनियमः /
[090|23-090|24] उक्त एषामर्थतो ऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते /
[090|25] सर्वत्रगः सभागश्च द्वयध्वगौ
[090|26] अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः / उक्तं चात्र कारणम् /
[090|27] त्र्यध्वगा स्त्रयः /
[090|28] सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः / कारणहेतुस्तु कालनियमानुपदर्शनात् /
[090|29] सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः / उक्ता हेतवः /
[090|30] किं पुनस्तत्फलं यस्यैते हेतवः /
[091|01] संस्कृतं सविसंयोग फलं
[091|02] फलं धर्माः / कतमे / "संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे"ति शास्त्रम् /
[091|02-091|04] एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत् फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः /
[091|04] संस्कृतस्यैव धर्मस्य हेतुफले भवतः /
[091|05] नासंस्कृतस्य ते // vakk_2.55 //
[091|06] किं कारणम् / षड्विधहेत्वसंभवात् पञ्चविधफलासंभवाच्च /
[091|06-091|07] कस्मात् मार्गो विसंयोगस्य कारणहेतुर्नेष्यते /
[091|07-091|08] यास्मात् स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् /
[091|08] कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् /
[091|09] तद्बलेन प्राप्तेः / प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति /
[091|09-091|10] तस्यामेव तस्य सामर्थ्यान्न विसंयोगः /
[091|10] अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे /
[091|10-091|11] कथमस्य प्राप्तौ सामर्थ्यम् /
[091|11] उत्पादनात् / कथं विसंयोगे / प्रपणात् /
[091|11-091|12] तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः /
[091|12] फलं चास्य विसंयोगः /
[091|12-091|13] अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः /
[091|13] उत्पत्त्यनावरणभावेन कारणहेतुः /
[091|13-091|14] न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् /
[091|14] नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् /
[091|15] उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः / कथमुक्तम् /
[091|16] "ये हेतवो ये प्रत्यया रूपस्योत्पादाय ते ऽप्यनित्याः /
[091|17] अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यम् भविष्यति"
[091|18] एवं यावद्धि विज्ञानमिति /
[091|18-091|19] एवं तर्हि विज्ञानस्यालमबनप्रत्ययो ऽप्यसंस्कृतं न प्राप्नोति /
[091|19] उत्पादायेत्यवधारणात् / प्राप्नोति /
[091|20] "ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या"
[091|21] इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति /
[091|21-091|23] ननु च हेतवो ऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः /
[091|23-091|24] उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः /
[091|24] यद्यपि नोक्तो नतु प्रतिषिद्धः /
[091|24-091|25] सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति /
[091|26] अथ को ऽयं विसंयोगो नाम / ननु चोक्तं प्राक् "प्रतिसंख्यानिरोध" इति /
[091|27-092|01] तदानीं "प्रतिसंख्यानिरोधः कतमो यो विसंयोग" इत्युक्तमिदानीं इसंयोगःकथमः /
[092|01] यः प्रतिसंख्यानिरोध इत्युच्यते /
[092|01-092|02] तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने /
[092|02] तस्मादन्यथा तत्स्वभावो यक्तव्यः /
[092|02-092|03] आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः /
[092|03] एतावक्तु शक्यते वक्तुम् नित्यं कुशलं चास्ति द्रव्यान्तरम् /
[092|03-092|04] तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति /
[092|04] सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः /
[092|05] नहि तद्रूपवेदनादियत् भावान्तरमस्ति / किं तर्हि / स्प्रष्टव्याभावमात्रमाकाशम् /
[092|06] तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः /
[092|06-092|07] उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः /
[092|07-092|08] विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो /प्रतिसंख्यानिरोधः /
[092|08-092|09] तद्यथा निकायसभागशेषस्यान्तरामरणे /
[092|09] निकायान्तरीयाः पुनराहुः /
[092|09-092|10] अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतो ऽसौ प्रतिसंख्यानिरोधः /
[092|10-092|11] यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतो ऽसावप्रतिसंख्यानिरोध इति /
[092|12] सो ऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ /
[092|12-092|13] य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे /
[092|13-092|14] अस्यां तु कल्पनायामनित्यो ऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् /
[092|14-092|15] ननु च प्रतिसंख्यानिरोधो ऽप्यनित्यः प्राप्नोति /
[092|15] प्रतिसंख्यापूर्वकत्वात् /
[092|15-092|16] न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः /
[092|16] किं तर्हि /
[092|16-092|17] पूर्वमेव स तेषामनुत्पादो ऽस्ति /
[092|17-092|18] विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति /
[092|18-092|19] एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः /
[092|19-092|21] यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते "पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त" इति /
[092|21-092|22] प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते /
[092|22] अस्त्येतदेवम् /
[092|22-092|24] किं तु तदालम्बनक्लेशप्रहाणात् दुःखस्य प्रहाणमुक्तं भगवता "यो रूपे च्छन्दरागस्तं प्रजहीत /
[092|24-092|25] च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद् विज्ञानमि"ति /
[092|25] एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते /
[092|26] अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत / अत्राप्येष नयः /
[092|27-092|29] अथवा ऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत् प्रत्युत्पन्नम् /
[092|29-093|01] तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितो ऽनागतस्योत्पत्तये /
[093|01] तस्य प्रहाणात्तदपि प्रहीणं भवति /
[093|01-093|02] यथा विपाकक्षयात्कर्मं क्षीणं भवति /
[093|02-093|03] अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावात् अत्यन्तमनुत्पादः प्रहाणम् /
[093|03-093|04] अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् /
[093|04] नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति /
[093|04-093|06] यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता "ये केचिद्धर्माः संस्कृता वा ऽसंस्कृता वा विरागस्तेषामग्र आख्यायते" इति कथमसतामसन्नग्रो भवितुमर्हति /
[093|06-093|07] न वै नास्त्येवासंस्कृतमिति ब्रूमः /
[093|07] एतत्तु तदीदृशं यथा ऽस्माभिरुक्तम् /
[093|07-093|08] तद्यथा अस्ति शब्दस्य प्रागभावो ऽस्ति पश्चादभाव इत्युच्यते /
[093|08] अथ च पुनर्नाभावो भावः सिध्यति /
[093|08-093|09] एवमसंस्कृतमपि द्रष्टव्यम् /
[093|09-093|10] अभावो ऽपि च कश्चित् प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सो ऽग्र इति प्रशंसां लब्धुमर्हति /
[093|10] विनेयानां तस्मिन्नुपच्छन्दनार्थम् /
[093|11] यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् / नहि ततु किञ्चिदस्तीति /
[093|12] कस्तावदयं सत्यार्थः / ननु चाविपरीतार्थः /
[093|12-093|14] उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति को ऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् /
[093|14-093|15] उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति /
[093|15-093|16] यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् /
[093|16-093|17] एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः /
[093|17] यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् /
[093|17-093|18] किं च पुनः स्यात् /
[093|18] वैभाषिकपक्षः पालितः स्यात् /
[093|18-093|19] देवता एनं पालयिष्यन्ति पालनीयं चेत् मंस्यते /
[093|19] अभूतं तु परिकल्पितं स्यात् / किं कारणम् /
[093|19-093|20] नहि तस्य रूपवेदनादिवत् स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म /
[093|20-093|21] अमुष्य च वस्तुनो ऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते /
[093|21-093|22] नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् /
[093|22] प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति /
[093|22-093|23] भावान्तरत्वे ऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते /
[093|24] तस्य तर्हि प्राप्तिनियमे को हेतुः /
[093|24-093|25] "दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि"त्युक्तं सूत्रे /
[093|25] तत्र कथमभावस्य प्राप्तिः स्यात् /
[093|25-093|26] प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात् प्राप्तं निर्वाणमित्युच्यते /
[093|26-093|27] आगमश्चाप्यभावमात्रं द्योतयति /
[093|27] एवं ह्याह /
[093|27-094|01] "यत् स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमो ऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादो ऽप्रादुर्भावः /
[094|01-094|02] एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण" मिति /
[094|02-094|03] किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतो ऽप्रादुर्भाव इति /
[094|03] असमर्थामेतां सप्तमीं पश्यामः / किमुक्तं भवति /
[094|04-094|05] नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् /
[094|05-094|06] अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः /
[094|06-094|07] अयं च दृष्टान्त एवं सूपनीतो भवति /
[094|08] "प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस" इति /
[094|09] यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतो ऽपि चेतसो विमोक्ष इति /
[094|09-094|10] अभिधर्मे ऽपि चोक्तम् "अवस्तुका धर्माः कतमे /
[094|10] असंस्कृता धर्मा" इति /
[094|10-094|11] अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति /
[094|11] नास्यायमर्थः /
[089|411-09411] कस्तर्हि /
[094|11] पञ्चविधवस्तु /
[094|11-094|12] स्वभाववस्तु यथोक्तं "यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने"ति /
[094|12] आलम्बनवस्तु /
[094|12-094|13] यथोक्तं "सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे"ति /
[094|13] संयोगवस्तु /
[094|13-094|14] यथोक्तं "यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मिन्नि"ति /
[094|14-094|15] हेतुवस्तु यथोक्तं "सवस्तुका धर्माः कतमे /
[094|15] संस्कृता धर्मा" इति //
परिग्रहवस्तु /
[094|15-094|16] यथोक्तं "क्षत्रवस्तु गृहवस्त्वि"ति /
[094|16-094|17] तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः /
[094|17] तस्य तु हेतुफले न विद्येते इति / गतं तावदेतत् /
[094|18] अथैषां फलानां कतमत् फलं कस्य हेतोः /
[094|19] विपाकफलमन्त्यस्य
[094|20] विपाकहेतुरन्त्ये ऽभिहितत्वात् अन्त्यः / तस्य विपाकफलम् /
[094|21] पूर्वस्याधिपतं फलम् /
[094|22] कारणहेतुः पूर्वमुक्तत्वात् पूर्वः / तस्याधिपजं फलम् /
[094|22-094|23] अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् /
[094|23-094|24] एतदेव अङ्गीभावो ऽपि चास्ति कारणहेतोस्तद्यथा "पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् /
[094|24-094|25] श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् /
[094|25-094|26] श्रुत्वा द्रष्टुकामतोत्पत्ते" रित्येवमादि योज्यम् /
[094|27] सभाग सर्वत्रगयोर्निष्यन्दः
[094|28] सदृशफलत्वादनयोर्निःष्यन्दफलम् /
[095|01] पौरुषं द्वयोः // vakk_2.56 //
[095|02] सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् / पुरुषभावव्यतिरेकात् पुरुषकारः पुरुषं एव /
[095|03] तस्य फलं पौरुषम् / को ऽयं पुरुषकारो नाम / यस्य धर्मस्य यत् कारित्रम् /
[095|04] पुरुषकार इव हि पुरुषकारः / तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति /
[095|05] किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव /
[095|05-095|06] अन्येषामप्यस्त्यन्यत्र विपाकहेतोः /
[095|06-095|07] यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति /
[095|07] न चैवं विपाकः / तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् /
[095|07-095|08] यथा कर्षकाणां सस्यमित्यपरे /
[095|09] किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् /
[095|10] विपाको ऽव्याकृतो धर्मः /
[095|11] अनिवृताव्याकृतो हि धर्मः विपाकः / असत्त्वाख्यो ऽपि स्यादत आह /
[095|12] सत्त्वाख्यः
[095|13] औपचयिको ऽपि स्यात् नैःष्यन्दिको ऽप्यत् आह /
[095|14] व्याकृतोद्भवः /
[095|15] कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् /
[095|15-095|16] तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः /
[095|16] एतद्विपाकस्य लक्षणम् /
[095|16-095|17] कस्मादसत्त्वाख्यो ऽर्थः कर्मजो न विपाकः /
[095|17] साधारणत्वात् / अन्यो ऽपि हि तत्तथैव परिभोक्तुं समर्थः /
[095|18] असाधारणस्तु विपाकः / नह्यन्यकृतस्य कर्मणो ऽन्यो विपाकं प्रतिसंवेदयते /
[095|18-095|19] अधिपतिफलं कस्मात् प्रतिसंवेदयते /
[095|19] साधारणकर्मसंभूतत्वात् /
[095|20] निःष्यन्दो हेतुसदृशः /
[095|21] हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् / तद्यथा सभागसर्वत्रगहेत्वोः /
[095|21-095|22] यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते /
[095|22-095|23] यस्मात् भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः /
[095|23-095|24] यस्य तु प्रकारतो ऽपि सादृश्यं सो ऽभ्युपगम्यत एव सभागहेतुः /
[095|24-095|25] अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते /
[095|25] प्रथमा कोटिरसर्वत्रगः सभागहेतुः /
[095|25-095|26] द्वितीया ऽन्यनैकायिकः सर्वत्रगहेतुः /
[095|26] तृतीयैकनैकायिकः सर्वत्रगहेतुः /
[095|26-095|27] चतुर्थ्यतानाकारान्स्थापयित्वेति /
[096|01] विसंयोगः क्षयो धिया // vakk_2.57 //
[096|02] क्षयो निरोधः / धीः प्रज्ञा / तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति /
[096|03] यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् /
[096|04-096|05] तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि /
[096|05-096|06] प्रतिसंख्यानिरोधस्तु यद्वलात् प्राप्यत इति वक्तव्यम् /
[096|07-095|607] अपूर्वः संस्कृतस्यैव संस्कृतो ऽधिपतेः फलम् // vakk_2.58 //
[096|08] पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् /
[096|08-096|09] पुरुषाधिपतिफलयोः किं नाना कारणम् /
[096|09] कर्तुः पुरुषकारफलम् / अकर्तुरप्यधिपतिफलम् /
[096|10] तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च / अन्येषामधिपतिफलमेव /
[096|11] अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा /
[096|12] वर्तमानाः फलं पञ्च गृह्णन्ति
[096|13] नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् / कारणहेतुरप्येवम् /
[096|13-096|14] स तु नावश्यं सफल इति नोच्यते /
[096|15] द्वौ प्रयच्छतः /
[096|16] सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः /
[096|16-096|17] समानकालमेव ह्यनयेः फलदानग्रहणम् /
[096|18] वर्त्तमानाभ्यतीतौ द्वौ [096|19] फलं प्रयच्छतः सभागसर्वत्रगहेतू / युक्तं तावद्यदतीताविति /
[096|19-096|20] अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः /
[096|20] समनन्तरनिवर्त्तनात् /
[096|20-096|21] निवृत्ते तु फले तौ चाभ्यतीतौ भवतः /
[096|21] फलं चापि दत्तं न पुनस्तदेव दत्तः /
[096|21-096|22] अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः /
[096|22-096|23] प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति /
[096|23-096|24] द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते /
[096|24] एवं तु वक्तव्यम् /
[096|24-096|25] स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु /
[096|25] चतुर्थ्यतानाकारान् स्थापयित्वा /
[096|26] अकुशलस्य तु प्रथमा कोटिः /
[096|26-096|28] कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते /
[096|28] एवं तु वक्तव्यम् /
[096|28-096|29] स्यात्ता एव परिहीयमाणस्य /
[096|29] तृतीया कामावीतरागस्य शेषास्ववस्थासु /
[096|29-097|01] चतुर्थ्यतानाकारान् स्थापयित्वा /
[097|01-097|02] एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् /
[097|02] अनिवृताव्याकृतस्य पश्चात्पादकः /
[097|02-097|03] यास्तावत् ददाति प्रतिगृह्णात्यपि सः /
[097|03] स्यात् प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः /
[097|03-097|04] सालम्बननियमेन तु क्षणशः /
[097|04] कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति / चतुष्कोक्टिकः /
[097|05] प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति /
[097|06] द्वितीया विपर्ययात् / तृतीया कुशलचित्तानन्तरं कुशलमेव /
[097|06-097|07] चतुर्थ्यतानाकारान् स्थापयित्वा /
[097|07] एवमकुशलादयो ऽपि योज्याः / कथं पुनः फलं प्रतिगृहीतं भवति /
[097|08] तस्य बीजभावोपगमात् /
[097|09] एको ऽतीतः प्रयच्छति // vakk_2.59 //
[097|10] विपाकहेतुरतीत एव फलं प्रयच्छति / यस्मान्न सह वा समनन्तरो वा ऽस्ति विपाकः /
[097|11] पुनरन्ये चतुर्विधं फलमाहुः / प्रतिष्ठाफलम् /
[097|11-097|12] यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः /
[097|12] प्रयोगफलम् / यथा ऽशुभाया यावदनुत्पादज्ञानम् /
[097|13] सामग्रीफलम् / यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि / भावनाफलम् /
[097|13-097|14] यथा रूपावचरस्य चित्तस्य निर्माणम् /
[097|14-097|15] एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
