Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[034|11] अत एवोच्यते "यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये"ति /
[034|12] चतुष्कोतिकः / प्रथमा कोतिश्चक्षुः / द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः /
[034|13] तृतीया समनन्तरातीतं मनः / चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः /
[034|13-034|14] एवं यावत् कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् /
[034|14] मनोविज्ञानस्य पूर्वपादकः /
[034|14-034|15] यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः /
[034|15] स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन /
[034|15-034|16] समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति /
[034|17-034|18] किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः /
[034|19] तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः /
[034|20] धातव इत्यधिकारः /
[034|20-034|21] चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात् न तु रूपादीनां विकारेण तद्विकारः /
[034|22] तस्मात् साधीयस्तदधीनत्वत् त एवाश्रया न रूपादयः /
[034|23-034|24] किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् /
[034|24] न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति /
[034|24-034|25] य एते चक्षुरादय आश्रया एषाम् /
[034|26] अतो ऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते // vakk_1.45 //
[034|27] कथमसाधारणत्वम् / न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते /
[034|27-034|28] रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति /
[034|28] एवं यावत् कायो वेदितव्यः /
[034|29] तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः /
[034|29-034|30] यथा भेरीशब्दो यवाङ्कुर इति /
[035|01-035|02] अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि /
[035|02] आह / सर्वेषां भेदः /
[035|03] कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकम् भवति /
[035|04-035|05] तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि /
[035|06-035|07] द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् / [035|07-035|06] प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् /
[035|08-035|10] द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् /
[035|10-035|11] एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् /
[035|11-035|12] प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकं /
[035|12-035|13] द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् /
[035|13-035|14] कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् /
[035|14-035|15] द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् /
[035|15] एवं तृतीयध्यानचक्षुषा योज्यम् /
[035|16-035|17] द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् /
[035|17] अयं तु नियमः /
[035|18] न कायस्याधरं चक्षुः /
[035|19] पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि /
[035|20] द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च /
[035|20-035|21] तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् /
[035|21-035|22] यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति /
[035|23] ऊध्र्वं रूपं न चक्षुषः /
[035|24] न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते /
[035|25] विज्ञानं च
[035|26] ऊर्ध्व न चक्षुषो रूपवत् /
[036|01] अस्य रूपं तु कायस्योभे च सर्वतः // vakk_1.46 //
[036|02] अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च /
[036|03] कायस्य चोभे रूपविज्ञाने सर्वतो भवतः / यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम्
[036|04] तथा श्रोत्रं
[036|05-036|06] "न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः / विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः //"इति
[036|07] विस्तरेण योज्यम् /
[036|08] त्रयाणां तु सर्वमेव स्वभूमिकम् /
[036|09] घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव /
[036|09-036|10] इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते /
[036|11] कायविज्ञानमधरस्वभूमि
[036|12] कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति /
[036|12-036|13] कायविज्ञानं तु केषाञ्चित् स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नां /
[036|13-036|14] केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति /
[036|15] अनियतं मनः // vakk_1.47 //
[036|16-036|17] कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् /
[036|17-036|19] पञ्चभूमिके ऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते /
[036|19-036|20] अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते /
[036|20] अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः /
[036|21] इदमिदानीं विचार्यते /
[036|21-036|22] अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः /
[036|22] आह /
[036|23] पञ्च बाह्या द्विविज्ञेयाः
[036|24-036|25] रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते /
[036|25] एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति /
[036|26-036|27] शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति /
[037|01] एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः /
[037|01-037|02] न कश्च्त् सकलो ऽस्ति नित्यो धातुरपि तु
[037|03] नित्या धर्मा असंस्कृताः /
[037|04] तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः /
[037|05] कतीन्द्रियं कति नेन्द्रियम् /
[037|06] धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः // vakk_1.48 //
[037|07] द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे /
[037|07-037|11] चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयं उपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियं अनाज्ञातमाज्ञास्यामीन्दरियम् आज्ञेन्द्रियं आज्ञातावीन्द्रियमिति /
[037|11-037|12] आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति /
[037|12] सालम्बनत्वात् /
[037|12-037|13] तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् /
[037|13-037|14] द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः /
[037|14-037|15] सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेश् इति पश्चाद् वक्ष्यति /
[037|15-037|16] शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् //
[037|17] अभिधर्मकोशभाष्ये धातुनिर्देशो नाम
[037|18] प्रथमं कोशस्थानं समाप्तम् इति /
[037|19-037|21] ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निर्होध एवंवादीउ महाश्रमणः //
[037|22] लिखापितमिदं श्रीलामावाकेनेति /
द्वितीयं कोशस्थानम्
=====================================================================
[038|02] ओं नमो बुद्धाय /
=====================================================================
[038|03] उक्तानीन्द्रियाणि / कः पुनरिन्द्रियार्थः / "इदि परमैश्वर्ये" /
[038|03-038|04] तस्य इन्दन्तीति इन्द्रियाणि /
[038|04] अत आधिपत्यार्थ इन्द्रियार्थः / कस्य चैषां क्वाधिपत्यम् /
[038|05] चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं
[038|06] चक्षुःश्रोत्रयोस्तावत् प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् /
[038|06-038|07] आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् /
[038|07] आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् /
[038|08] चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ /
[038|08-038|09] रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे /
[038|09] घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् /
[038|09-038|10] आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् /
[038|10] घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ /
[038|11] गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति /
[038|12] द्वयोः किल /
[038|13] चतुर्णां
[038|14] स्त्रीपुरुषजीवितमनैन्द्रियाणां / द्वयोरर्थयोः प्रत्येकमाधिपत्यम् /
[038|14-038|15] स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः /
[038|15] तत्र सत्त्वभेदः स्त्रि पुरुष इति /
[038|15-038|16] सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् /
[038|16] संस्लेशव्यवदानयोरित्यपरे /
[038|17-038|18] तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति /
[038|19] जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः /
[038|19-038|20] मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः /
[038|20-038|22] तत्र पुन्र्भवसंबन्धे यथोक्तं "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे"ति /
[038|22] वशिभावानुवर्त्तने यथोक्तं "चित्तेनायं लोको नीयत" इति विस्तरः /
[038|22-038|23] यत् पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां
[038|24] पञ्चकाष्टानं संक्लेशव्यवदानयोः // vakk_2.1 //
[038|25] आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे / रागादीनां तदनुशायित्वात् /
[038|25-039|01] श्रद्धादीनां व्यवदाने /
[039|01] तै र्व्यवदायते / व्यवदाने ऽपि सुखादीनामाधिपत्यमित्यपरे /
[039|01-039|02] "यस्मात् सुखितस्य चित्तं समाधीयते" /
[039|02-039|03] दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः /
[039|03] अपरे पुनराहुः /
[039|03-039|04] नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् /
[039|04] विज्ञाने तु तयोराधिपत्यम् /
[039|04-039|05] नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वा ऽस्ति /
[039|05] यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत /
[039|05-039|06] तस्मान्नैवमेषामिन्द्रियत्वम् /
[039|06] कथं तर्हि /
[039|07] स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् /
[039|08] चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् /
[039|08-039|09] मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् /
[039|09] अत एतानि षट् प्रत्येकमिन्द्रियम् /
[039|09-039|10] ननु चार्थानामप्यत्राधिपत्यम् /
[039|10] नाधिपत्यम् / अधिकं हि प्रभुत्वमाधिपत्यम् /
[039|10-039|11] चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् /
[039|11-039|12] सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः /
[039|12] न रूपस्य / तद्वि पर्ययात् / एवं यावत् मनसो धर्मेषु योज्यम् /
[039|13] स्रीत्व पुंस्त्वाधिपत्यात्तु कायात् स्त्रीपुरुषेन्द्रिये // vakk_2.2 //
[039|14] कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते / नार्थन्तरभूते /
[039|14-039|15] कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते /
[039|15-039|16] यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् /
[039|16] तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः /
[039|16-039|17] एतद्धि स्त्रिया स्त्रीत्वम् /
[039|17] पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः / एतद्धि पुंसः पुंस्त्वम् /
[039|18-039|19] निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः / जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः // vakk_2.3 //
[039|20] निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् /
[039|20-039|21] तथाहि सुखायां वेदनायां रागो ऽनुशेते दुःखायां प्रतिघो ऽदुःखासुखायामविद्येत्युक्तं सूत्रे /
[039|21-039|22] व्यवदाने श्रद्धादीनां पञ्चानाम् /
[039|22] तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते /
[039|23] अत एते ऽपि प्रत्येकमिन्द्रियमिष्टाः /
[040|01] आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा /
[040|02] उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः // vakk_2.4 //
[040|03] प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः /
[040|03-040|04] तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् /
[040|04] आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे /
[040|05] नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति / आदिशब्दो ऽन्यपर्यायद्योतनार्थः /
[040|06] कतमो ऽन्यः पार्यायः / दर्श्नहेयक्लेशपरिहाणम् प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् /
[040|07] भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य / दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य /
[040|08] विमुक्तिप्रीतिसुखसंवेदनादिति /
[040|08-040|09] आधिपात्यादिन्द्रियत्वे ऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् /
[040|09-040|10] अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् /
[040|10] वागादीनां च / वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् /
[040|11] वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् / न खलूपसंख्यातव्यम् / यस्मादिहेष्टम्
[040|12-040|13] चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च / संभारो व्यवदानं च यावता तावदिन्द्रियम् // vakk_2.5 //
[040|14] तत्र चित्ताश्रयः षडिन्द्रियाणि / एतच्च षडायतनं मौलं सट्त्वद्रव्यम् /
[040|14-040|16] तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः /
[040|16] व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः /
[040|16-040|17] अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् /
[040|18-040|19] प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः / चतुर्दश तथा ऽन्यानि निवृत्तेरिन्द्रियाणि वा // vakk_2.6 //
[040|20] मतविकल्पार्थो वाशब्दः / अपरे पुनराहुः / प्रवृत्तेरश्रयः षडिन्द्रियाणि /
[040|20-040|21] उत्पत्तिः स्त्रीपुरुषेन्द्रिये /
[040|21] तत उत्पत्तेः / स्थितिर्जीवितेन्द्रियम् / तेनावस्थानात् /
[040|21-040|22] उपभोगो वेदनाभिः /
[040|22] अत एतानि चतुर्दशेन्द्रियाणि / तेनैव प्रकारेण निवृत्तेरन्यानि /
[040|22-040|23] श्रद्धदीनि हि निवृत्तेराश्रयाः /
[040|23-040|24] आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियम् उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि /
[040|24] अत एव चईषामेषो ऽनुक्रमः /
[040|25] वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् /
[040|25-040|26] पाणिपादस्य चादानविहरणादनन्यत्वात् /
[040|26-040|27] तदेव हि तदन्यथा ऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते /
[040|27] विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् /
[040|27-040|28] पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् /
[040|28] वायुना च तत्प्रेरणात् /
[041|01] उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति /
[041|01-041|03] कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत /
[041|03-041|04] सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् //
[041|05] तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः /
[041|05-041|06] जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः /
[041|06] श्रद्धादीनां चैत्तेषु करिष्यते /
[041|06-041|07] सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः /
[041|07] सो ऽयं क्रियते /
[041|08] दुःखेन्द्रियमशाता या कायिकी वेदना [041|09] अशातेत्युपधातिका दुःखेत्यर्थः /
[041|10] सुखम् /
[041|11] शाता
[041|12] सुखेन्द्रियं कायिकी शात वेदना / शातेत्यनुग्राहिका सुखेत्यर्थः /
[041|13] ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् // vakk_2.7 //
[041|14] तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् /
[041|14-041|15] नहि तत्र कायिकी वेदना ऽस्ति /
[041|15] पञ्चविज्ञानकायाभावात् /
[041|16] अन्यत्र सा सौमनस्यं
[041|17-041|18] तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् /
[041|18-041|19] तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् /
[041|19] प्रीतिर्हि सौमनस्यम् /
[041|20] अशाता चैतसी पुनः /
[041|21] दौर्मनस्यमुपेक्षा तु मध्या
[041|22] नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते / सोपेक्षेन्द्रियम् /
[041|22-041|23] किं कायिकी चैतसिकीत्याह /
[041|24] उभयी
[041|25] किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते /
[042|01] अविकल्पनात् // vakk_2.8 //
[042|02] चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् /
[042|02-041|03] विषयवशादर्हतामप्युत्पत्तेः /
[042|03] अतस्तयोरिन्द्रियत्वेन भेदः /
[042|03-042|04] उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियम् क्रियते /
[042|04-042|05] अन्यथा च कायिकम् सुखमनुगृह्णात्यन्यथा चैतसिकम् /
[042|05] एवम् दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् /
[042|05-042|06] उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः /
[042|07] दृग्भावना ऽसैक्षपथे नव त्रीणि
[042|08] मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च /
[042|08-042|09] तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते /
[042|09-042|10] दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियमिति /
[042|10] किं कारणम् /
[042|10-042|11] दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः /
[042|11-042|12] भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् /
[042|12] अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः /
[042|12-042|13] सो ऽस्यास्तीति आज्ञातावी /
[042|13] आज्ञातमवितुं शीलमस्येति वा / क्षयानुत्पादिज्ञानलाभात् /
[042|14] "दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति" तथाभूतस्येन्रियमाज्ञातावीन्रियम् /
[042|15-042|16] स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि /
[042|16-042|17] तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् /
[042|18] अमलं त्रयम् /
[042|19] अनास्रवमित्यर्थः / मलानामास्रवपर्यायत्वात् /
[042|20] रूपीणि जीवितं दुःखे सास्रवाणि
[042|21] रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि /
[042|22] रूपीणि पुनः सप्त चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् /
[042|23] द्विधा नव // vakk_2.9 //
[042|24-042|25] मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि /
[042|25] अनास्रवाण्येव श्रद्धादीनीत्येके /
[042|25-042|27] उक्तं हि भगवता "यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति /
[042|27] नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् /
[042|27-042|28] तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह /
[042|28] पृथग्जनो वा द्विविधः /
[043|01] आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः /
[043|02] तमधिकाऋत्याह "बाह्यं पृथग्जनपक्षावस्थितं वदामी"ति /
[043|02-032|04] उक्तं च सूत्रे "सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी" त्यप्रवर्त्तित एव धर्मचक्रे /
[043|04] तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि /
[043|05-043|07] पुनश्चोक्तं "यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि"ति विस्तरः /
[043|07] न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः //
[043|08] कतीन्द्रियाणि विपाकः कति न विपाकः / एकान्तेन तावत्
[043|09] विपाको जीवितं
[043|10] अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः /
[043|11] शास्त्र उक्थं "कथमायुःसंस्कारान् स्थापयति /
[043|11-043|13] अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत् प्रणिधाय प्रन्तकोटिकम् चतुर्थं ध्यानं समापद्यते /
[043|14-043|15] स तस्मात् व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति /
[043|15] तस्य यत् भोगविपाकं तदायुर्विपाकं भवति /
[043।15-043।16 येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति /
[043|16-043|17] त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषं /
[043|17] स भावनाबलेनाकृष्य प्रतिसंवेदयत" इति /
[043|17-043|18] कथमायुःसंस्कारा नुत्सृजति /
[043|18] तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते/
[043|19] यन्मे आयुर्विपाकं तत् भोगविपाकं भवत्विति तस्य तथा भवति /
[043|20] भदन्तघोषकस्त्वाह /
[043|20-043|21] तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषो ऽनुकूलानि वैहोधिकानि च /
[043|21-043|22] एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति /
[043|22] एवं तु भवितव्यम् /
[043|22-043|24] समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति /
[043|24] तस्मान्न तज्जीवितेन्द्रियं विपाकं ततो ऽन्यत्तु विपाकः /
[043|25] प्रश्नात् प्रश्नान्तरमुपजायते / किमर्थमायुःसंस्कारानधितिष्ठन्ति /
[043|25-043|26] परहितार्थं शासन्स्थित्यर्थं वा /
[043|26] ते ह्यात्मनः क्षीणमायुः पश्यन्ति /
[043|27] न च तत्रान्यं शक्तं पश्यन्ति / अथ किमर्थमुत्सृजन्ति /
[044|01] अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् / यथोक्तं
[044|02-044|03] "सुचीर्णे ब्रह्मचर्ये ऽस्मिन् मार्गे चैव सुभाविते / तुष्ट आयुःक्षयात् भवति रोगस्यापगमे यथा //"
[044|04] इति / अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् /
[044|05] मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः /
[044|06] तस्य हि समाधौ वशित्वम् / क्लेशैश्चानुपस्तब्धा सन्ततिः / [044|06-044|07] सूत्र उक्तम् "भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्" /
[044|07-044|08] तेषां को विशेषः /
[044|08] न कश्चिदित्येके / तथा ह्युक्तम् "जीवितेन्द्रियं कतमत् /
[044|08-044|09] त्रैधातुकमायुरि"ति /
[044|09] पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे /
[044|10] यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः /
[044|10-044|11] यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति /
[044|11-044|12] बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् /
[044|12] नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति /
[044|12-044|13] न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके /
[044|13-044|14] बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् /
[044|14] अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे /
[044|14-044|15] किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च /
[044|15-044|16] मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः /
[044|16] त्रैमास्यमेव नोध्र्वम् विनेयकार्याभावात् /
[044|17-044|18] यच्चापि तत् प्रतिज्ञातम् "एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी"ति /
[044|18] तस्यापि संपादनार्थम् /
[044|18-044|19] स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः /
[044|19] बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति /
[044|19-044|20] निष्ठितमानुषङ्गिकम् //
[044|21] प्रकृतमेवारभ्यते /
[044|22] द्वेधा द्वादश
[044|23] कतमानि द्वादश /
[044|24] अन्त्याष्टकादृते /
[044|25] दौर्मनस्याच्च
[044|26] अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा /
[044|27-045|01] जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च /
[045|01] तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः / शेषाणि विपाकः /
[045|02] मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः /
[045|02-045|03] ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् /
[045|03] शेषाणि विपाकः /
[045|03-045|04] जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् /
[045|04-045|05] यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते "त्रीणि कार्याणि /
[045|05-045|06] सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे"ति संप्रयोगवेदनीयतामधिकृत्योक्तम् /
[045|06-045|07] दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् /
[045|07] यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः /
[045|07-045|08] सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः /
[045|08] यथेच्छसि तथा ऽस्तु /
[045|08-045|09] संप्रयोगे ऽपि न दोषः विपाके ऽपि न दोषः /
[045|09] अगत्या ह्येतदेवं गम्येत /
[045|09-045|10] का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति /
[045|10] दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च /
[045|10-045|11] नचैवम् विपाकः /
[045|11] सौमनस्यमप्येवं न स्याद्विपाकः /
[045|11-045|12] यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् /
[045|13] सौमनस्यमप्येवम् /
[045|13-045|14] यदि सौमनस्यं विपाकः स्यात् पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् /
[045|14] वीतरागाणां तर्हि दौर्मनस्यासंभवात् /
[045|14-045|15] न चैवं विपाकः /
[045|15] सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् / यादृशं तादृशमस्तु /
[045|16] सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य /
[045|16-045|17] सर्वथा ऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः /
[045|17-045|18] तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य /
[045|18] मनैन्द्रियमुभयोरुभयस्य /
[045|18-045|19] सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य /
[045|19] दुःखेन्द्रियमकुशलस्य /
[045|19-045|20] सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः /
[045|20] नत्विन्द्रियस्य कुशलाक्षेपात् / गतमेतद् /
[045|21] इदं नु वक्तव्यम् / कतीन्द्रियाणि सविपाकानि कत्यविपाकानि /
[045|21-045|22] यदेतत् दौर्मनस्यमनन्तरोक्तं
[045|23] तत्त्वेकं सविपाकं /
[045|24] तदेकं सविपाकमेव / तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः /
[045|24-045|25] नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् /
[045|25] अतो नास्त्यविपाकं दौर्मनस्यम् /
[045|26] दश द्विधा // vakk_2.10 //
[045|27] सविपाकान्यविपाकानि च / कतमानि दश /
[046|01] मनो ऽन्यवित्तिश्रद्धादीनि
[046|02] अन्यवित्तिग्रहणात् दौर्मनस्यादन्यत् वेदितं गृह्यते /
[046|02-046|03] श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः /
[046|03-046|04] तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः /
[046|04] अनास्रवा अव्याकृताश्चाविपाकाः /
[046|04-046|05] दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् /
[046|05] श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि /
[046|06] अन्यदविपाकमिति सिद्धम् /
[046|07] कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि / एकान्तेन तावत् /
[046|08] अष्टकं कुशलं [046|09] पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि /
[046|10] द्विधा /
[046|11] दौर्मनस्यं /
[046|12] कुशलं चाकुशलं च /
[046|13] मनो ऽन्या च वित्तिस्त्रेधा
[046|14] कुशलाकुशलाव्याकृतानि /
[046|15] अन्यदेकधा // vakk_2.11 //
[046|16] किञ्चिदन्यत् / जीविताष्टमं चक्षुरादि / एतदव्याकृतमेव //
[046|17] कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् /
[046|18] कामाप्तममलं हित्वा / [046|19] कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् /
[046|19-046|20] एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा /
[046|20] तद्ध्यप्रतिसंयुक्तमेव /
[046|21] रूपाप्तं स्त्रीपुमिन्द्रिये /
[046|22] दुःखे च हित्वा
[046|23] अमलं चेति वर्त्तते / दुःखे इति दुःखदौर्मनस्ये /
[046|23-046|24] तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः /
[046|24] कथमिदानीं पुरुषास्त उच्यन्ते /
[046|25] क्वोच्यन्ते / सूत्रे /
[046|25-046|26] "अस्थानमनवकाशो यत् स्त्री ब्रह्मत्वं कारयिष्यति /
[046|26] नेदं स्थानं विद्यते / स्थानमेतत् विद्यते यत् पुरुष" इति /
[046|26-046|27] अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति /
[046|27-046|28] दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ /
[046|28] दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च /
[047|01-047|01] आरूप्याप्तं सुखे चापोह्य रूपि च // vakk_2.12 //
[047|02] स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते / किमवशाइष्यते /
[047|02-047|03] मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च /
[047|03] एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि /
[047|04] कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि /
[047|05] मनोवित्तित्रयं त्रेधा
[047|06] कतमद् वित्तित्रयम् / सुखसौमनस्योपेक्षाः /
[047|07] द्विहेया दुर्मनस्कता /
[047|08] दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् /
[047|09] नव भावनया /
[047|10] हेयानीत्यधिकारः / जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव /
[047|11] पञ्च त्वहेयान्यपि
[047|12] श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि / सास्रवानास्रवत्वात् /
[047|13] न त्रयम् // vakk_2.13 //
[047|14] त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् / नहि निर्दोषं प्रहाणार्हम् /
[047|15] उक्तः प्रकारभेदः /
[047|16] लाभ इदानीं वक्तव्यः /
[047|16-047|17] कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते /
[047|18] कामेष्वादौ विपाको द्वे लभ्यते
[047|19] कायेन्द्रियं जीवितेन्द्रियं च / ते पुनः
[047|20] नोपपादुकैः /
[047|21] उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् / कस्मान्न मनौपेक्षेन्द्रिये /
[047|22] प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् / अथोपपादुकैः कति लभ्यन्ते /
[047|23] तैः षड वा
[047|24] यद्यव्यञ्जना भवन्ति / यथा प्राथमकल्पिकाः / कतमानि षट् /
[047|24-047|25] चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि /
[048|01] सप्त वा
[048|02] यद्येकव्यञ्जना भवन्ति /
[048|02-048|92] यथा देवादिषु /
[048|03] अष्टौ वा
[048|04] यद्युभयव्यञ्जना भवन्ति / किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति /
[048|04-048|05] भवन्त्यपायेषु
[048|05] एवं तावत् कामधातौ / अथ रूपधातावारूप्यधातौ च कथमित्याह /
[048|06] षड् रूपेषु
[048|07] कामप्रधानत्वात् कामधातुः कामा इति निर्दिश्यते /
[048|07-048|08] रूपप्रधानत्वाद् रूपधातू रूपाणीति /
[048|08-048|09] सूत्रे ऽप्युक्तं "ये ऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या" इति /
[048|09] तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते /
[048|09-048|10] यान्येव कामधातावव्यञ्जनैअरुपपादुकैः
[048|11] एकमुत्तरे // vakk_2.14 //
[048|12] रूपधातोरारूप्यधातुरुत्तरः / समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् /
[048|13] तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् /
[048|14] उक्तो लाभः /
[048|15] त्याग इदानीं वक्तव्यः / कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति
[048|16] निरोधयत्युपरमान्नारूप्ये जीवितम् मनः /
[048|17] उपेक्षां चैव रूपे ऽष्टौ
[048|18] रूपधातौ म्रियल्माणो ऽष्टौ निरोधयति / तानि च त्रीणि चक्षुरादीनि पञ्च /
[048|18-048|19] सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च /
[048|20] कामे दश नवाष्टौ वा // vakk_2.15 //
[048|21] कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति /
[048|21-048|22] तानि चाष्टौ स्त्री पुरुषेन्द्रिये च /
[048|22] एकव्यञ्जनो नव / अव्यञ्जनो ऽष्टौ / सकृन्मरण एष न्यायः /
[048|23] क्रममृत्यौ तु चत्वारि /
[048|24] क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति / कायजीवितमनौपेक्षेन्द्रियाणि /
[048|25] नह्येषां पृथग्निरोधः / एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः /
[048|26] यदा तु कुशले चेतसि स्थितो म्रियते तदा
[049|01] षुभे सर्वत्र पञ्च च /
[049|02] कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति /
[049|02-049|03] श्रद्धादीनि च पञ्चाधिकानि /
[049|03] एषां कुशले चेतस्यवश्यंभावः /
[049|03-049|04] एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् /
[049|05] इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते /
[049|05-049|06] अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते /
[049|07] नवाप्तिरन्त्य फलयोः
[049|08] नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः / के पुनरन्त्ये / स्रोत आपत्तिफलमर्हत्त्वं च /
[049|09] के मध्ये / सकृदागामिफलमनागामिफलं च /
[049|09-049|10] तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः /
[049|10-049|11] आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे /
[049|11-049|12] उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् /
[049|12-049|13] अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः /
[049|14] सप्ताष्ट्नवभिर्द्वयोः // vakk_2.16 //
[049|15] सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः /
[049|15-049|16] कथं कृत्वा /
[049|16-049|17] सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः /
[049|17] पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति /
[049|17-049|18] अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः /
[049|18] आज्ञेन्द्रियमष्टमं भवति /
[049|18-049|19] अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य /
[049|19-049|20] अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः /
[049|21] यथा सकृदागामिफलस्य /
[049|21-049|22] अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव /
[049|22] अथ वीतरागः प्राप्नोति तस्य नवभिः /
[049|22-049|23] यथा स्रोत आपत्तिफलस्य /
04923-04923] अयं तु विशेषः /
[049|23-049|24] सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति /
[049|24] निश्रयविशेषात् /
[049|24-049|26] यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति /
[049|26] तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमं /
[049|26-049|27] भवत्यानन्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः /
[049|27-049|28] अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः /
[049|28] आज्ञेन्रियं नवमं भवति /
[049|28-050|01] यत्तर्ह्यभिधर्म उक्तं "कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति" /
[050|01-050|02] तत् कथं नवभिरित्युच्यते /
[050|02] नवभिरेव तत् प्राप्नोति /
[050|03] एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् /
[050|04-050|05] अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् /
[050|05-050|06] नतु खलु संभवो ऽस्ति सुखादीनामेकस्मिन् काले /
[050|06] कथमनागाभिनो ऽप्येष प्रसङ्गो न भवति /
[050|06-050|07] नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते /
[050|07-050|08] तद्वैराग्यस्य द्विमार्गप्रापणात् /
[050|09] इदं विचार्यते/ कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति /
[050|10] तत्र
[050|11] उपेक्षाजीवितमनोयुक्तो ऽवश्यं त्रयान्वितः // vakk_2.17 //
[050|12-050|13] य एषामुपेक्षादीनामन्यतमेन समन्वागतः सो ऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव /
[050|13] नह्येषामन्यो ऽय्नेन विना समन्वागमः / शेषैस्त्वनियमः /
[050|13-050|14] स्यात्समन्वागतः स्यादसमन्वागतः /
[050|14-050|15] तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः /
[050|15] कामधातौ च येनाप्रतिलब्धविहीनानि /
[050|15-050|16] कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः /
[050|16] स्त्रीन्द्रियेण रूपारूप्योपपन्नः / कामधतौ येनाप्रतिलब्धविहीनम् /
[050|16-050|17] एवं पुरुषेन्द्रियेण /
[050|17] सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः /
[050|18] सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव /
[050|18-050|19] दुःखेन्द्रियेण रूपारूप्योपपन्नः /
[050|19] दौर्मनस्येन कामवीतरागः /
[050|19-050|20] श्रद्धादिभिः समुच्छिन्नकुशलमूलः /
[050|20] आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः /
[050|20-050|21] आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः /
[050|21] आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः /
[050|22] अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः /
[050|23] चतुर्भिः सुख कायाभ्यां
[050|24-050|25] यः सुखेन्द्रियेण समन्वागतः सो ऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च /
[050|25] यः कायेन्द्रियेण सो ऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च /
[051|01] पञ्चभिश्चक्षुरादिमान् /
[051|02] यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च/
[051|02-051|03] एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् /
[051|04] सौमनस्यी च
[051|05] यश्चापि सौमनस्येन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः /
[051|06] द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति /
[051|07] क्लिष्टेन तृतीयध्यानभूमिकेन /
[051|08] दुःखी तु सप्तभिः /
[051|09] यो दुःखेन्द्रियेण सो ऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः /
[051|10] स्त्रीन्द्रियादिमान् // vakk_2.18 //
[051|11] अष्टाभिः
[051|12] यः स्त्रीन्द्रियेण समन्वागतः सो ऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच /
[051|13] आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः /
[051|13-051|14] तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति /
[051|14] तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण / एवं दौर्मनस्येन्द्रियेण /
[051|14-051|15] श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च /
[051|16] एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः /
[051|17] आज्ञात इन्द्रियमाज्ञातेन्द्रियम् /
[051|17-051|18] य आज्ञातेन्द्रियेण समन्वागतः सो ऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च /
[051|19] एवमाज्ञा तावीन्द्रियेणापि / तैरेव दशभिराज्ञातावीन्द्रियेण च /
[051|20] आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः // vakk_2.19 //
[051|21] कतमैस्त्रयोदशभिः /
[051|21-051|22] मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च //
[051|23] अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः /
[051|24] सर्वाल्पैर्निःशुभो ऽष्टाभिर्विन्मनःकायजीवितैः /
[051|25] युक्तः
[051|26] समुच्छिन्नकुशमूलो निःशुभः / स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः /
[051|26-052|01] पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च /
[052|01] वेदना हि वित् वेदयत इति कृत्वा / वेदनं वा वित् /
[052|02] यथा संपदनं संपत् / यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः
[052|03] बालस्तथारूप्ये
[052|04] बाल इति पृथग्जनस्याख्या / कतमैरष्टाभिः /
[052|05] उपेक्षायुर्मनःशुभैः // vakk_2.20 //
[052|06] उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च //
[052|06-052|07] एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्ते /
[052|07] आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः / न /
[052|07-052|08] अष्टाधिकाराद् द्वालाधिकाराच्च //
[052|09] अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः /
[052|10] बहुभिर्युक्त एकान्नविंआशत्या ऽमलवर्जितैः /
[052|11] अना स्रवणि त्रीणि वर्जयित्वा / स पुनः /
[052|12] द्विलिङ्गः
[052|13] द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः / कश्चापरः /
[052|14] आर्यो रागी
[052|15] अवीतरागो ऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः /
[052|16] एकलिङ्गद्वयमलवर्जितैः // vakk_2.21 //
[052|17] एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा / आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् /
[052|17-052|18] उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः /
[052|19] इदमिदानीं विचार्यते /
[052|19-052|20] किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति /
[052|20] सन्तीत्याह /
[052।20-052।21 सर्व इमे धर्माः पञ्च भवन्ति /
[052|21] रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च /
[052|22] तत्रासंस्कृतं नैवोत्पद्यते / रूपिणां तु धर्माणामयं नियमः /
[052|23] कामे ऽष्टद्रव्यको ऽशब्दः परमाणुरनिन्द्रियः /
[052|24] सर्वसूक्ष्मो हि रूपसंघातः परमाणुर् इत्य् उच्याते / यतो नान्यतरो विज्ञायेत /
[052|24-052|25] स काम घातावशब्दको ऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः/
[052|25-053|01] अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि /
[053|01-053|02] सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा /
[053|02] तत्र तावत्
[053|03] कायेन्द्रियी नवद्रव्यः
[053|04] कायेन्द्रियमत्रास्तीति सो ऽयं कायेन्द्रियी / तत्र नवद्रव्याणि / तानि चाष्टौ कायेन्द्रियं च /
[053|05] दशद्रव्यो ऽपरेन्द्रियः // vakk_2.22 //
[053|06] अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि /
[053|06-053|07] तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् /
[053|07-053|08] सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते /
[053|08-053|09] अस्ति हीन्द्रियाविनिर्भागी शब्दो ऽपि य उपात्तमहाभूतहेतुकः /
[053|09-053|10] कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा /
[053|10-053|11] यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः /
[053|11] सूचीतूनी कलापस्पर्शवत् सक्तुलवणचूर्णरसवच्च /
[053|11-053|12] कथं पुनस्तेषु शेषास्तित्वं गम्यते /
[053|12] कर्मतः संग्रहघृतिपक्तिव्यूहनात् /
[053|12-053|13] प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावात् अप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे /
[053|13-053|14] अव्यति भेदे ऽपि तु स्याच्छैत्यातिशयः /
[053|14] शब्दवेदनातिशयवत् /
[053|14-053|15] बीजतस् तेषु तेषां भावो न स्वरूपत इत्यपरे /
[053|15] "सन्त्यस्मिन् दारुस्कन्धे विविधा धातव"इति वचनात् /
[053|15-053|16] कथं वायौ वर्णसद्भावः /
[053|16] श्रद्धानीय एषो ऽर्थो नानुमानीयः /
[053|16-053|17] संस्पन्दतो गन्धग्रहणात् तस्य वर्णाव्यभिचारात् /
[053|17-053|18] रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात् न पुनरुच्यन्ते /
[053|19] किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् / किं चातः /
[053|19-053|20] यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति /
[053|20-053|21] अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् /
[053|21] तस्यापि परमाणुसंचितत्वात् /
[053|21-053|22] गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च /
[053|22-053|23] शीतेनापि क्वचित् जिघत्सया पिपासया च /
[053|23] अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति /
[053|23-053|24] चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् /
[053|24-053|25] किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् /
[053|25-053|26] एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् /
[054|01] अत्र पुनर्जातिद्रव्यं गृह्यते / भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् /
[054|01-054|02] कः पुनर्यत्स एवं विकल्पेन वक्तुम् /
[054|02] च्छन्दतो ऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः /
[054|03] उक्तो रूपिणां सहोत्पादनियमः / शेषाणां वक्तव्यस्तत्र तावत् /
[054|04] चित्तं चैत्ताः सहवश्यं /
[054|05] नह्येते विना ऽन्योन्यं भवितुमुत्सहन्ते /
[054|06] सर्वं संस्कृतलक्षणैः /
[054|07] सहावश्यमिति वर्त्तते /
[054|07-054|08] यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते /
[054|09] प्राप्त्या वा /
[054|10-054|410] प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः /
[054|11] चैत्ता इत्युच्यन्ते / क इमे चैत्ताः /
[054|12] पञ्चधा चैत्ता महाभूम्यादिभेदतः // vakk_2.23 //
[054|13-054|14] पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च /
[054|14] भूमिर्नाम गतिविशयः /
[054|14-054|15] यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते /
[054।15-054।16 तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति /
[054|16] के पुनः सर्वत्र चेतसि /
[054|17-054|18] वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः / मनस्कारो ऽधिमोक्षश्च समाधिः सर्वचेतसि // vakk_2.24 //
[054|19] इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति / तत्र वेदना त्रिविधो ऽनुभवः /
[054|20] सुखो दुःखो ऽदुःखा सुखश्च / चेतना चित्ताभिसंस्कारो मनस्कर्म /
[054|20-054|21] संज्ञा संज्ञानं विषयनिमित्तोद्रूह /
[054|21] च्छन्दः कर्त्तृकामता / [054|21-054|22] स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः /
[054|22] मतिः प्रज्ञा धर्मप्रविचयः /
[054|22-054|23] स्मृतिरालम्बनासंप्रमोषः /
[054|23] मनस्कारश्चेतस आभोगः / अधिमोक्षो ऽधिमुक्तिः /
[054|23-054|24] समाधिश्चित्तस्यैकाग्रता /
[054|24] सूक्ष्मो हि चित्तचैत्तानां विशेषः /
[054|24-054|25] स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत् किं पुनः क्षणेषु /
[054|25-055|02] रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः /
[055|02-055|03] कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति /
[055|03] के पुनस्त इति /
[055|04-055|05] श्रद्धा ऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा / मूलद्वयमहिंसा च वीर्यं च कुशले सदा // vakk_2.25 //
[055|06] इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति / तत्र श्रद्धा चेतसः प्रसादः /
[055|06-055|07] सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे /
[055|07] अप्रमादः दुशलानां धर्माणां भावनाः /
[055|07-055|08] का पुनस्ते भ्यो ऽन्या भावना /
[055|08] या तेष्ववहितता /
[055|08-055|09] चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति /
[055|09] प्रश्रब्धिश्चित्तकर्मण्यता / ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता /
[055|09-055|10] न खलु नोक्ता /
[055|10] सा तु यथा कायिकी वेदना तथा वेदितव्या /
[055|10-055|11] कथं सा बोध्यङ्गेषु योक्ष्यते /
[055|11] तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या /
[055|11-055|12] कथं सा बोध्यङ्गमितयुच्यते /
[055|12] बोध्यङ्गानुकूल्यात् /
[055|12-055|13] सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति /
[055|13] अस्ति पुनः स्वचित् अन्यत्राप्येवं दृश्यते / अस्तीत्याह /
[055|13-055|14] तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता /
[055|14-055|15] प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् /
[055|15-055|16] सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः /
[055|16-055|17] नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते /
[055|17-055|18] एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते /
[055|18] उपेक्षा चित्तसमता चित्तानाभोगता / कथमिदानीमेतद्योक्ष्यते /
[055|18-055|19] "तत्रैव चित्ते आभोगात्मको मनस्कारो ऽनाभोगात्मिका चोपेक्षे"ति /
[055|19-055|20] ननु चोक्तं "दुर्ज्ञान एषां विशेष" इति /
[055|20] अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते /
[055|20-055|21] इदम् तु खल्वतिदुर्ज्ञानं यद्विरोधे ऽप्यविरोध इति /
[055|21] अन्यत्राभोगो ऽन्यत्रानाभोग इति को ऽत्र विरोधः /
[055|21-055|22] न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति /
[055|22-055|23] एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सो ऽस्यापि वेदितव्यः /
[055|23] ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते /
[055|23-055|24] मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ /
[055|24] अमोहो ऽप्यस्ति स तु प्रज्ञात्मकः /
[055|24-055|25] प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते /
[055|25] अविहिंसा अविहेठना / वीर्यं चेतसो ऽभ्युत्साहः /
[056|01] उक्ताः कुशला महाभूमिकाः /
[056|02] महती भूमिर्महाभूमिः /
[056|02-056|03] क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति /
[056|03] के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति /
[056|04] मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः /
[056|05] क्लिष्टे सदैव
[056|06] तत्र मोहो नामाविद्या ऽज्ञानमसंप्रख्यानम् /
[056|06-056|07] प्रमादः कुशलानां धर्माणामभावना ऽप्रमाद विपक्षो धर्मः /
[056|07] कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः /
[056|07-056|08] आश्रद्ध्यं चेतसो ऽप्रसादः श्रद्धाविपक्षः /
[056|08] स्त्यानं कतमत् /
[056|08-056|09] या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता /
[056|09] कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे /
[056|10] कथं चैतसिको धर्मः कायिक इत्युच्यते / यथा कायिकी वेदना /
[056|10-056|11] औद्धत्यं पुनश्चेतसो ऽव्युपशमः /
[056|11] इतीमे षट् क्लेशमहाभूमिकाः /
[056|11-056|12] ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते /
[056|12-056|13] "आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे" ति /
[056|14] प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः / का पुनरत्रेष्टिः /
[056|14-056|16] मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते /
[056|16] यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् /
[056|17] स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता / समाधिरेव क्लिष्टो विक्षेप इत्येवमादि /
[056|18-056|19] अत एवोच्यते "ये महाभूमिकाः क्लेशमहाभूमिका अपि त" इति /
[056|19] चतुष्कोटिकः / प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च /
[056|19-056|20] द्वितीया ऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च /
[056|20-056|21] तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः /
[056|21] चतुर्थ्येतानाकारान् स्थापयित्वेति /
[056|21-056|22] केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति /
[056|22] तेषामन्यथा चतुष्कोटिकः /
[056|22-056|23] स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः /
[056|23-056|24] एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् /
[056|24-056|25] क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति /
[056|25-056|26] कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः /
[056|26] नह्येते जातु सहचरिष्णुतां जहीतः /
[056|26-056|27] तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः /
[056|27] अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति /
[056|28] एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र //
[057|01] अकुशले त्वाह्रीक्यमनपत्रपा // vakk_2.26 //
[057|02-057|03] अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते /
[057|03] तयोश्च पश्चाल्लक्षणं वक्ष्यते /
[057|04-057|05] क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः / मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः // vakk_2.27 // [057|06-057|07] परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् /
[057|07] एषां तु निर्देक्श उपक्लेशेषु करिष्यते /
[057|08] उक्ता इमे पञ्चप्रकाराश्चैत्ताः /
[057|08-057|09] अन्ये ऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः /
[057|09] तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति /
[057|10] कामावचरं तावत् पञ्चविधं चित्तम् / कुशलमकुशलम् /
[057|10-057|11] तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च /
[057|11-057|12] अव्याकृतं द्विविधं निवृताव्याकृतम् अनिवृताव्याकृतं च /
[057|12] तत्र तावत् कामावचरचित्तमवश्यं सवितर्कं सविचारम् / अतो ऽत्र
[057|13] सवितर्कविचारत्वात् कुशले कामचेतसि /
[057|14] द्वाविंशतिश्चैतसिकाः
[057|15] अवश्यं भवन्ति / दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च /
[057|16] कौकृत्यमधिकं क्वचित् // vakk_2.28 //
[057|17] नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति /
[057|17-057|18] यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति /
[057|18] किमिदं कौकृत्यं नाम / कुकृतस्य भावः कौकृत्यम् /
[057|19] इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः /
[057|19-057|21] तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभो ऽशुभ इति /
[057|21-057|22] लोके ऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति /
[057|22] स्थानभूतं च कौकृत्यं विप्रतिसारस्य /
[057|22-057|23] फले वा हेतूपचारो ऽयम् /
[057|23-057|24] यथोक्तं "षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि"ति /
[057|24] यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् / अकृते ऽपि कृताख्या भवति /
[058|01] न मया साधु कृतं यन्न कृतमिति / कतमत् कौकृत्यं कुशलम् /
[058|01-058|02] यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा /
[058|02] विपर्ययादकुशलं कौकृत्यम् /
[058|02-058|03] तदेतदुभयमप्युभयाधिष्टानम् /
[058|04] आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः /
[058|05] यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः /
[058|05-058|06] दश महाभूमिकाः षट् क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च /
[058|06-058|07] आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः /
[058|07-058|08] दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणिके /
[058|08] ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति / न भवन्ति /
[058|08-058|09] यस्मान्महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते /
[058|09-058|10] तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा /
[058|11] क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः // vakk_2.29 //
[058|12-058|13] यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति /
[058|13-058|14] स च क्लेशः आवेणिकोक्ताश्च विंशतिः /
[058|14-058|15] क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति /
[058|15] कौकृत्येनाप्येकविंशतिः /
[058|15-058|16] तदेव कौकृत्यमेकविंशतितमं भवति /
[058|16] समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः /
[058|16-058|17] अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः /
[058|18] निवृते ऽष्टदश
[058|19-058|18] सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् /
[058|19-058|20] तत्राष्टादश चैत्ताः /
[058|20] दश महाभूमिकाः षट् क्लेशमहाभूमिकाः वितर्कविचारौ च /
[058|20-058|21] दृष्टिः पूर्ववदेव नाधिका भवति /
[058|22] अय्नत्र द्वादशाव्याकृते मताः /
[058|23] निवृतादन्यदव्याकृतमनिवृताव्याकृतम् / तत्र द्वादश चैत्ता इष्टाः /
[058|23-058|24] दश महाभूमिका वितर्कविचारौ च /
[058|24] बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति /
[058|24-058|25] तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति /
[058|26] मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकम् हि तत् // vakk_2.30 //
[058|27] सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् /
[058|27-059|01] अतो तत्र तत्स्यात् तत्राधिकं तद्वेदितव्यम् /
[059|01-059|02] यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि /
[059|02] य एव कामधातौ चैत्तानां नियम उक्तः
[059|03] कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः /
[059|04] अतो यथोक्तात् कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत् किञ्चिदकुशलम् /
[059|05] प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च / अन्यत्सर्व तथैव /
[059|06] य एव प्रथमे ध्याने न सन्ति त एव
[059|07] ध्यानान्तरे वितर्कश्च
[059|08] नास्ति / शेषं तथैव /
[059|09] विचारश्चाप्यतः परम् // vakk_2.31 //
[059|10-059|11] ध्यानान्तरात् परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च /
[059|11] माया शाठ्यं चेत्यपिशब्दात् / शेषं तथैव /
[059|11-059|12] ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् /
[059|12-059|13] स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते" इति /
[059|13-059|14] अप्रजानन् क्षेपमकार्षीत् /
[059|14-059|15] "अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि"ति /
[059|15] उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः //
[059|16] इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते /
[059|16-059|17] आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् /
[059|18] अह्रीरगुरुता
[059|19-059|20] गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः //
[059|21] अवद्ये भयादर्शित्वमत्रपा /
[059|22] अवद्यं नाम यद्विगर्हितं सद्भिः / तत्राभयदर्शिता ऽनपत्राप्यम् /
[059|22-059|23] भयमत्रानिष्टं फलं भीयते ऽस्मादिति /
[059|23-059|24] कथमिदं विज्ञातव्यम् अभयस्य दर्शनमभयदर्शिता आहोस्वित् भयस्यादर्शनम् /
[059|24] किं चातः /
[059|24-059|25] अभयस्य दर्शनं चेत् प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते /
[059|25] नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता / किं तर्हि /
[059|25-059|26] यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति /
[059|26] अन्ये पुनराहुः /
[059|26-060|01] आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षया ऽनपत्राप्यमिति /
[060|01] एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यतः /
[060|01-060|03] न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् /
[060|03-060|04] अस्ति या परमपेक्षमाणस्य प्रवर्त्तते सा ऽनपत्राप्यम् /
[060|04] विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् /
[060|04-060|05] प्रतहमेन तावत् कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः /
[060|05] अवद्येष्वभयदर्शिअता ऽपत्राप्यम् /
[060|06] द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने /
[060|07] प्रेम्णो गौरवस्य च किं नानाकारणम् /
[060|08] प्रेम श्रद्धा /
[060|09] द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च / तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु /
[060|09-060|10] अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु /
[060|10] स्याच्छ्रद्धा नप्रेम /
[060|10-060|11] दुःधसमुदयालम्बना श्रद्धा /
[060|11] स्यात् प्रेम न श्रद्धा / क्लिष्टं प्रेम /
[060|11-060|12] उभयं निरोधमार्गालम्बना श्रद्धा /
[060|12] नोभयमेतानाकारान् स्थापयित्वा /
[060|12-060|13] पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु /
[060|13] गौरवं न प्रेम अन्यगुरुषु / उभयं स्वगुरुषु /
[060|13-060|14] नोभयम् एतानाकारान् स्थापयित्वा /
[060|14] श्रद्धा हि नाम गुणसंभावना / तत्पूर्विका च प्रियता प्रेम /
[060|15] तस्मान्न सैव प्रेमेत्यपरे /
[060|16] गुरुत्वं ह्रीः /
[060|17] गौरवं हि नाम सप्रतीशता / तत्पूर्विका च लज्जा ह्रीः /
[060|17-060|18] अतो न गौरवमेव ह्लीरित्यपरे /
[060|19] ते पुनः कामरूपयोः // vakk_2.32 //
[060|20] आरूप्यधातौ प्रेमगौरवे न स्तः /
[060|20-060|21] ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते /
[060|21] द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च / एवं सप्रतीशता ऽपि /
[060|21-060|22] तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः /
[060|22] ते चेह प्रेमगौरवे अभिप्रेते /
[060|23] वितर्कविचारयोः किं नानाकारणम् /
[060|24] वितर्कचारा वौदार्यसूक्ष्मते /
[060|25] कस्य / चेतस इति पश्चाद्वक्ष्यति / चित्तौदारिकता वितर्कः / चित्तसूक्ष्मता विचारः /
[060|25-060|26] कथं पुनः अनयोरेकत्र चित्ते योगः /
[060|26] केचिदाहुः /
[060|26-061|01] यथा ऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः /
[061|01-061|03] एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ /
[061|03-061|04] आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् /
[061|04-061|05] नचौदारिकसूक्ष्मातया जातिभेदो युकतः //
[061|05] अन्ये पुनराहुः /
[061|05-061|06] वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः /
[061|06] "वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये"ति /
[061|06-061|07] तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः /
[061|07-061|08] यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति /
[061|08-061|09] न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् /
[061|09] एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति /
[061|10] जातिभेदो /प्यस्ति / स तर्हि वक्तव्यः / दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते /
[061|11] नैवं व्यक्तो भवति / प्रत्येकं जातीनां मृद्वधिमात्रतवात् /
[061|11-061|12] नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे /
[061|12] कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् /
[061|13] भूमितस्तत् पञ्चाङ्गयुकतं न क्षणतः //
[061|14] मानमदयोः किं नानाकारणम् /
[061|15-061|16] मान उन्नतिः / मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः // vakk_2.33 //
[061|17] येन केनचित् परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः /
[061|17-061|18] मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् /
[061|18] यथा मद्यज एवं रागजः /
[061|18-061|19] संप्रहऋशणविशेषो मद इत्यपरे /
[061|20] उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते /
[061|21] प्रवचन एताभिः सद्व्यवहारात् /
[061|22] चित्तं मनो ऽथ विज्ञानमेकार्थं
[061|23] चिनोतीति चित्तम् / मनुत इति मनः / विजानातीति विज्ञानम् /
[061|23-062|01] चित्तं शुभाशुभैर्धातुभिरिति चित्तम् /
[062|01] तदेवाश्रयभुतं मनः / आश्रितभूतं विज्ञानमित्यपरे /
[062|01-062|02] यथा चित्तं मनो विज्ञानमित्येको ऽर्थः /
[062|02] एवं /
[062|03] चित्तचैतसाः /
[062|04] साश्रया लम्बनाकाराः संपरयुक्ताश्च /
[062|05] एको ऽर्थः / त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् /
[062|05-062|06] सालम्बना विषयग्रहणात् /
[062|06] साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् /
[062|06-062|07] सम्प्रयुक्ताः समं प्रयुक्तत्वात् /
[062|07] केन प्रकारेण समं परयुक्ता इत्याह
[062|08] पञ्चधा // vakk_2.34 //
[062|09] पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः / केयं समता /
[062|09-062|10] यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति /
[062|10] निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः /
[062|11-062|12] विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता / आसंज्ञिकं समापत्ती जीवितं लक्षणानि च // vakk_2.35 //
[062|13] नामकायादयश्चेति
[062|14] इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते /
[062|15] तत्र तावत्
[062|16] प्रप्तिर्लाभः समन्वयः / [062|17] द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः /
[062|18] विपर्ययादप्राप्तिरिति सिद्धम् / कस्य पुनरिमे प्राप्त्यप्राप्ती /
[062|19] प्राप्त्यप्राप्ती स्वसंतान पतितानां
[062|20] न परसंतानपतितानाम् / नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् /
[062|21] न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः / एष तावत् संस्कृतेषु नियमः /
[062|21-062|22] असंस्कृतेषु पुनः प्राप्त्यप्राप्ती
[062|23] निरोधयोः // vakk_2.36 //
[062|24] सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः /
[062|24-062|25] अत एव हि चोत्तमभिधर्मे "अनास्रवैर्धर्मः कः समन्वागतः /
[062|25] आह /
[062|25-062|26] सर्वसत्त्वा" इति /
[062|26-063|01] प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः /
[063|01-063|02] आकाशेन तु नास्ति कश्चित्समन्वागतः /
[063|02] तस्मादस्य नासति प्राप्तिः /
[063|02-063|03] यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः /
[063|03] प्राप्तिर्नामास्ति किञ्चित् भावान्तर्मिति / कुत एतत् /
[063|04] आह सूत्रात् /
[063|04-063|05] सूत्रे ह्युस्तं "स एषां दशानामशैक्षाणां धर्मणामुत्पादात् प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण" इति विस्तरः /
[063|06] तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च / किं कारणम् /
[063|07] सूत्र वचनात् / "राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत" इति विस्तरः /
[063|08] वशित्वमत्र समन्वागमशब्देनोक्तम् / तस्य तेषु रत्नेषु वशित्वं कामचार इति /
[063|09] अत्र वशित्वं समन्वागमो ऽन्यत्र पुनर्द्रव्यान्तरमिति / कुत एतत् कः पुनरेवमयोगः /
[063|10-063|11] अयम् अयोगः यद् अस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद् रागद्वेषादिवद् वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् /
[063|11] तस्मात् द्रव्यधर्मासंभवादयोगः /
[063|11-063|12] उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् /
[063|12] असंस्कृतस्य न स्यात् /
[063|12-063|13] ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् /
[063|13] सहजप्राप्तिहेतुका चेत् /
[063|13-063|14] जातिरिदानीं किङ्करी जातिजातिर्वा /
[063|14-063|15] सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात् प्राप्त्यभेदात् /
[063|15] यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः /
[063|15-063|16] तस्मान्नोत्पत्तिहेतुः प्राप्तिः /
[063|16] कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति / किं तर्हि /
[063|16-063|17] व्यवस्था हेतुः /
[063|17-063|18] असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद् व्यवस्थानम् /
[063|18-063|19] प्रहीणाप्रहीण क्लेशताविशेषादेतत् भवितुमर्हति /
[063|19-063|20] एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति /
[063|20] प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् / आश्रयविशेषादेतत्सिध्यति /
[063|21-063|22] आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति /
[063|22-063|23] अतो ऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते /
[063|23] उपहतवीजभावे वा लौकिकेन मार्गेण /
[063|24] विपर्ययादप्रहीणक्लेशः /
[063|24-063|25] यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते /
[063|25-063|26] कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति /
[063|26-063|27] तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात् समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः /
[063|27-064|01] तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः /
[064|01-064|02] न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः /
[064|02-064|03] येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते /
[064|03-064|05] तस्माद्वीजमेवात्रानपोद्धृतमनुपहतम् परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद् द्रव्यम् /
[064|05] किं पुनरिदं बीजं नाम /
[064|05-064|06] यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात् पारंपर्येण वा /
[064|06] सन्ततिपरिणामविशेषात् / को ऽयं परिणामो नाम /
[064|06-064|07] सन्ततेरन्यथात्वम् / का चेयं सन्ततिः/
[064|07] हेतुफलभूतस्त्रैयध्विकाः संस्काराः /
[064|07-064|08] यत् तूक्त "लोभेन समन्वागतो ऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि"ति /
[064|08-064|09] तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः /
[064|09-064|10] यावद्धि तस्याधिवासको ऽविनोदको भवति तावत् भव्यस्तानि भावयितुम् /
[064|10-064|11] एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः /
[064|11] तस्य च प्रतिषेधो ऽसमन्वागम इति /
[064|11-064|12] द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति /
[064|12] किं कारणम् / एष हि नः सिद्धान्त इति / सा किलैषा प्रप्तिः
[064|13] त्रैयध्विकानां त्रिविधा
[064|14] अतीतानां धर्माणामतीता ऽपि प्राप्तिरस्त्यनागत्या ऽपि प्रत्युत्पन्ना ऽपि /
[064|14-064|15] एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा /
[064|16] षुभादीनां षुभादिका /
[064|17] कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः /
[064|18] स्वधातुका तदाप्तानां
[064|19] ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः /
[064|19-064|20] कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् /
[064|21] अनाप्ता नां चतुर्विधा // vakk_2.37 //
[064|22] अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः / समासेन त्रैधातुकी चानास्रवा च /
[064|23-064|24] तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च /
[064|24] मार्गसत्यस्यानास्रवैव / सेयं समस्य चतुर्विधा भवति /
[064|25] शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः /
[065|01] स निर्दिश्यते
[065|02] त्रिधा नशैक्षा ऽशैक्षाणां
[065|03] नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च /
[065|03-065|04] तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः /
[065|04] सास्रवाणां तावत् नैवशैक्षानाशैक्षी प्राप्तिः /
[065|04-065|05] अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य /
[065|05-065|06] तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी /
[065|06-065|07] दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः /
[065|07] अहेयानां तु भेदः / स निर्दिश्यते
[065|08] अहेयानां द्विधा मता /
[065|09-065|10] अप्रहेयाधर्मा अनास्रवाः / तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य /
[065|10-065|11] तस्यैवार्यमार्गप्राप्तस्यानास्रवा ऽहेया मार्गसत्यस्य च /
[065|12] यदुक्तं "त्रैयध्विकानां त्रिविधे" ति तस्योत्सर्गस्यायमपवादः
[065|13] अव्याकृताप्तिः सहजा
[065|14] अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा / दुर्बलत्वात् /
[065|14-065|15] तेनतेषामतीतानामतीतैव यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव /
[065|15-065|16] किं सर्वस्यैवानिवृताव्याकृतस्य /
[065|16] न सर्वस्य /
[065|17] अभिज्ञानैर्माणिकादृते // vakk_2.38 //
[065|18] द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा /
[065|18-065|19] तेषां हि बलवत्त्वात् प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात् सहजा प्राप्तिः /
[065|19-065|20] शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या त्यर्थमभ्यस्तस्येच्छन्ति /
[065|21] किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह
[065|22] निवृतस्य च रूपस्य
[065|23-065|24] निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः /
[065|25-065|26] यथा ऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित् प्राप्तिभेदो ऽस्ति /
[065|26] अस्तीत्याह /
[065|27] कामे रूपस्य नाग्रजा /
[065|28] कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति /
[065|28-065|29] सहजा चास्ति पश्चात्कालजा च /
[065|30] किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः / नेत्याह / किं तर्हि /
[066|01] अक्लिष्टाव्याकृता ऽप्राप्तिः
[066|02] अप्राप्तिरनिवृताव्याकृतैव सर्वा / अध्वभेदेन पुनः
[066|03] सा ऽतीताजातयोस्त्रिधा // vakk_2.39 //
[066|04] प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना /
[066|04-066|05] अतीतानागतयोस्तु त्रैयध्विकी /
[066|06] कामाद्याप्तामलानां च
[066|07] त्रिविधेति वर्त्तते / कामाप्तानां कामरूपारूप्यावचरी /
[066|07-066|08] एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः /
[066|08] तथाहि /
[066|09] मार्गस्याप्राप्तिरिष्यते /
[066|10] पृथग्जनत्वम्
[066|11] "पृथग्जनत्वं कतमत् / आर्यधर्माणामलाभ" इति शास्त्रपाठः /
[066|11-066|12] अलाभश्च नामाप्राप्तिः /
[066|12] नच पृथग्जनत्वमनास्रवं भवितुमर्हति /
[066|12-066|13] कतमेषामार्यधर्माणामलाभः /
[066|13] सर्वेषामविशेषवचनात् / स तु यो विना लाभेनालाभः /
[066|13-066|14] अन्यथा हि चुद्धो ऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् /
[066|14-066|15] एवशब्दस्तर्हि पठितव्यः /
[066|15] न पठितव्यः / एकपदान्यपि ह्यवधारणानि भवन्ति /
[066|15-066|16] तद्यथा अब्भक्षो वायुभक्ष इति /
[066|16] दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे /
[066|16-066|17] न च तद्योगा दनार्यत्वप्रसङ्गः /
[066|17] तदलाभस्यात्यन्तं हतत्वात् /
[066|17-066|18] ते तर्हि त्रिगोत्रा इति कतमेषामलाभः /
[066|18] सर्वेषाम् / एवं तर्हि स एव दोषः / पुनः स एव परिहारः /
[066|18-066|19] यत्नस्तर्हि व्यर्थः /
[066|19] एवं तु साधु यथा सौत्रान्तिकानाम् / कथं च सौत्रान्तिकानाम् /
[066|20] "अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि"ति /
[066|21] अथेयमप्राप्तिः कथं विहीयते / यस्य या धर्मस्य प्राप्तिरसौ
[066|22] तत्प्राप्तिभुसंचाराद् विहीयते // vakk_2.40 //
[066|23-066|24] यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च /
[066|24] एवमन्येषामपि योज्यम् /
[066|24-066|25] विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते /
[066|25-066|26] किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः /
[066|26] उभयोरप्युभयं भव्तीत्याहुः /
[066|26-066|27] ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् /
[066|27] नानवस्थाप्रसङ्गः / परस्परसमन्वागमात् /
[066|27-067|01] आत्मना तृतीयो हि धर्म उत्पद्यते /
[067|01] स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च /
[067|01-067|02] तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च /
[067|02-067|03] प्राप्तिप्राप्त्युत्पादात् पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था /
[067|03-067|04] एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते /
[067|04-067|05] तासां च पुनस्तिस्रो ऽनुप्राप्तय इति षड् भवन्ति /
[067|05-067|06] तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति /
[067|06-067|10] एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति /
[067|10] अत्युत्सवो वतायं प्राप्तीनां वर्त्तते /
[067|11] केवलं तु अप्रतिघातिन्यो यतो ऽवकाशमाकाशे लभन्ते /
[067|11-067|12] इतरथा ह्याकाशे ऽप्यव काशो न स्यात् द्वितीयस्य प्राणिनः //
[067|13] अथ केयं सभागता /
[067|14] सभागता सत्त्वसाम्यं
[067|15] सभागता नाम द्रव्यम् / सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा /
[067|16] सा पुनरभिन्ना भिन्ना च / अभिन्ना सर्वसत्त्वानां सत्त्वसभागता /
[067|16-067|17] प्रतिसत्त्वं सर्वेषु भावात् /
[067|17-067|18] भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता /
[067|18-067|20] पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यात् अन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्च /
[067|20-067|21] एवं स्कन्धादि बुद्धिप्रज्ञप्तय्यो ऽपि योज्याः /
[067|21] स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति /
[067|22] चतुष्कोटिकः / प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः /
[067|22-067|23] द्वितीया नियाममव्क्रामन् /
[067|23] स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते /
[067|24] तृतीया गतिसंचारात् / चतुर्थ्येतानाकारान् स्थापयित्वा / [067|25] यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन /
[067|26] नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते /
[067|26-068|02] नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात् नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
