Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वसुबन्धु: अभिधर्मकोशभाष्य
प्रथमं कोशस्थानम्
[001|03-001|07] ओं नमो बुद्धाय यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार / तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् // vakk_1.1 //
[001|08] शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति /
[001|09-001|10] बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः /
[001|10] सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः /
[001|10-001|11] अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् /
[001|11-001|12] तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् /
[001|12] अतो ऽसौ सर्वथासर्वहतान्धकारः /
[001|13] प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः / क्लिष्टसंमोहात्यन्तविगमात् /
[001|14] न तु सर्वथा /
[001|14-001|15] तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् /
[001|15-001|16] इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति /
[001|17] संसारो हि जगदासङ्गस्थानत्वात् दुरुत्तरत्वाच्च पङ्कभूतः /
[001|17-001|20] तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य /
[001|20] यथार्थमविपरीतं शास्तीति यथार्थशास्ता /
[001|20-001|21] अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति /
[001|21-001|22] यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति /
[001|22-002|01] तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि /
[002|01] शिष्यशासनाच्छास्त्रम् /
[002|01-002|02] कतमच्छास्त्रमित्याह अभिधर्मकोशम्
[002|02] को ऽयमभिधर्मो नाम /
[002|03] प्रज्ञा ऽमला सानुचरा ऽभिधर्मः (1-2अ)
[002|04] तत्र प्रज्ञा धर्मप्रविचयः/ अमलेति अनास्रवा / सानुचरेति सपरिवारा /
[002|04-002|05] एवमनास्रवः पञ्चस्कन्धको ऽभिधर्म इत्युक्तं भवति /
[002|05] एष तावत् पारमार्थिको ऽभिधर्मः /
[002|06] सांकेतिकस्तु
[002|07] तत्प्राप्तये यापि च यच्च शास्त्रम् / (1-2ब्)
[002|08-002|09] यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा /
[002|09-002|10] यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते /
[002|10] निर्वचनं तु स्वलक्षणधारणाद् धर्मः /
[002|10-002|11] तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः /
[002|12] उक्तो ऽभिधर्मः / इदं तु शास्त्रं कथमभिधर्मकोशम् /
[002|13-002|14] तस्यार्थतो ऽस्मिन् समनुप्रवेशात् स चाश्रयो स्येत्यभिधर्मकोशम् (1-2च्-2द्) // vakk_1.2 //
[002|15-002|16] स हि शास्त्रसंज्ञको ऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति /
[002|16] अथवा सो ऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य /
[002|17] ततो ह्येतन्निराकृष्टम् / अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् /
[002|18-002|19] किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्यो ऽभिधर्मकोशं वक्तुमाद्रियत इति //
[002|19] आह//
[002|20-002|23] धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तये ऽभ्युपायः / क्लेशैश्च भ्रमति भवार्णवे ऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा // vakk_1.3 //
[002|24] यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः /
[002|24-003|01] क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवे ऽस्मिनन् /
[003|01-003|02] अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः /
[003|02] नहि विना ऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति /
[003|03-003|04] स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः /
[003|05] कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह
[003|06] सास्रवा ऽनास्रवा धर्माः (1-4अ)
[003|07] एष सर्वधर्माणां समासनिर्द्देशः /
[003|07-003|08] तत्र कतमे सास्रवा धर्मा इत्याह
[003|08-003|09] संस्कृता मार्गवर्जिताः / सास्रवाः (1-4ब्-4च्1)
[003|10] मार्गसत्यं वर्जयित्वा ऽन्ये संस्कृता धर्माः सास्रवाः / किं कारणम् /
[003|11] आस्रवास्तेषु यस्मात् समनुशेरते (1-4च्2-4द्) // vakk_1.4 //
[003|12-003|13] कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः /
[003|13-003|14] यथा ऽत्र नानुशेरते तत् पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः /
[003|14] उक्ताः सास्रवाः /
[003|15] अनस्रवाः कतमे /
[003|16] अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् / (1-5अ-5ब्)
[003|17] कतमत्त्रि विधम् /
[003|18] आकाशं द्वौ निरोधौ च (1-5च्)
[003|19] कतमौ द्वौ / प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश्च /
[003|19-003|20] इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः /
[003|20] किं कारणम् / नहि तेष्वास्रवा अनुशेरत इति /
[003|21] यदेतत् त्रिविधमसंस्कृतमुद्दिष्टम्
[003|22] तत्राकाशमनावृतिः (1-5द्) // vakk_1.5 //
[003|23] अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः //
[003|24] प्रतिसंख्यानिरोधो यो विसंयोगः (1-6अ-6ब्1)
[004|01] यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः /
[004|01-004|02] दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः /
[004|02] प्रतिसंख्यानिरोधः /
[004|02-004|03] मध्यपदलोपात् गोरथवत् /
[004|04] किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः / नेत्याह /
[004|05] किं तर्हि /
[004|06] पृथक् पृथक् / (1-6ब्2)
[004|07] यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि /
[004|07-004|08] अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क् करणात् सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत /
[004|08-004|09] सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् /
[004|09-004|10] यत्तर्ह्युक्तम् "असभागोनिरोध" इत्यस्य को ऽर्थः /
[004|10-004|11] नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत् सभागो ऽस्तीति /
[004|11] उक्तः प्रतिसंख्यानिरोधः //
[004|12] उत्पादात्यन्तविघ्नो ऽन्यो निरोधो ऽप्रतिसंख्यया (1-6च्-6द्) // vakk_1.6 //
[004|13-004|14] अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद् यो ऽन्यो निरोधः सो ऽप्रतिसंख्यानिरोधः /
[004|14] न ह्यसौ प्रतिसंख्यया लभ्यते / किं तर्हि / प्रत्ययवैकल्यात् /
[004|14-004|16] यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् /
[004|16-004|17] न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति /
[004|17] अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात् प्राप्यते /
[004|18] चतुष्कोटिकं चात्र भवति / सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते /
[004|19] तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् /
[004|19-004|20] सन्ति येषामप्रतिसंख्यानिरोध एव /
[004|20] तद्यथा ऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् / सन्ति ते येसामुभयम् /
[004|21] तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् / सन्ति येषां नोभयम् /
[004|21-004|22] तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति /
[004|22] उक्तं त्रिविधमसंस्कृतम् //
[004|23] यत्तूक्तं "संस्कृता मार्गवर्जिताः /
[004|23-004|24] सास्रवा" इति कतमे ते संस्कृताः /
[004|25] ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् / (1-7अ-7ब्)
[004|26] रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः /
[004|27] समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः / नह्येकप्रत्ययजनितं किञ्चिदस्तीति /
[004|27-005|01] तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् /
[005|02] त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (1-7च्-7द्) // vakk_1.7 //
[005|03] त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्ते ऽनितयत्येति वा /
[005|03-005|04] कथा वावायम् तस्या वस्तु नाम /
[005|04] सार्थकवस्तुग्रहणात् तु संस्कृन्तं कथावस्तूच्यते /
[005|04-005|05] अन्यथा हि उरकरणग्रन्थो विरुध्येत /
[005|05] "कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि /"
[005|05-005|06] निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् /
[005|06] तदेषामस्तीति सनिःसाराः /
[005|06-005|07] सहेतुकत्वात् सवस्तुकाः /
[005|07] हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः /
[005|07-005|08] इत्येते संस्कृतधर्मौअर्यायाः /
[005|08] त एव पुयः संस्कृता धरमाः /
[005|09] ये सास्रवा उपादानस्कन्धास्ते (1-8अ-8ब्1)
[005|10] अतः किं दिद्धं /
[005|10-005|11] य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः /
[005|11] अनास्रवाः संस्कारा इति तत्र उपादानानि क्लेशाः /
[005|11-005|12] तत्संभूतत्वादुपादानस्कन्धाः //
[005|12] त्रुणतुपाग्निवत् / तद्धिधेयत्वाद्वा राजपुरूपवत् /
[005|12-005|13] उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् /
[005|13-005|14] त एव सास्रवा धर्मा उच्यन्ते /
[005|15] सरणा अपि / (1-8ब्2)
[005|16] रण्सा हि क्लेशाः / आत्मपारव्यावाधनात् / स्तदनुशयितत्वात् सरणाः / सास्रववत् / पुनः
[005|17] दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (1-8च्-8द्) // vakk_1.8 //
[005|18] आर्याणां प्रतिकूलत्वाद्दुःखम् / समुदेत्यस्माद् दुःखमिति समुदयः /
[005|18-005|19] लक्ष्यत इति लोकः /
[005|19] दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् / भवतीति भवः
[005|20] इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः
[005|21] पञ्च रूपादयः स्कन्धा इत्युक्तम् / तत्र
[005|22] रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च / (1-9अ-9ब्)
[005|23] पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण /
[005|23-005|24] पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः /
[005|25] अविज्ञप्तिश्चेति / एतावान् रूपस्कन्धः
[005|26] तत्र य एते पञ्च रूपादयो ऽर्था उक्ताः /
[005|27] तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (1-9च्-9द्) // vakk_1.9 //
[006|01-006|02] रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः /
[006|02-006|03] यथोक्तं भगवता "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय" रूप प्रसाद इति विस्तरः /
[006|03-006|04] यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः /
[006|04-006|05] चक्षुर्विज्ञानाद्याश्रया इत्यर्थः /
[006|05] एवं कृत्वा प्रकरणग्रण्थो ऽप्यनुवृत्तो भवति / "चक्षुः कतमत् /
[006|05-006|06] चक्षुर्विज्ञानाश्रयो रूपप्रसाद" इति विस्तरः /
[006|06] निर्द्दिष्टानि पञ्चेन्द्रियाणि /
[006|07] अर्थाः पञ्चा निर्द्देश्याः / तत्र तावत्]
[006|08] रूपं द्विधा
[006|09] वर्णः संस्थानं च / तत्र वर्णश्चतुर्विधो नीलादिः / तद्भेदा अन्ये /
[006|09-006|10] सम्स्थानमष्टविधं दीर्घदि विसातान्तम् /
[006|10] तदेव रूपायतनं पुनरुच्यते /
[006|11] विम्शतिधा
[006|12-006|13] तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलं उन्नतमवनतं सातं विसातं अभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति /
[006|13-006|14] केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति /
[006|14] तत्र सातं समस्थानम् / विसातं विषम स्थानम्ल् महिका नीहारः / आतपः सूर्यप्रभा /
[006|14-006|15] आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा /
[006|16] छाया यत्र रूपाणां दर्शनम् / विपर्ययादन्धकारम् /
[006|16-006|17] शेषं सुगमत्वान्न विपञ्चितम् /
[006|17] अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः
[006|17-006|18] नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् /
[006|18] अस्ति संस्थानतो न वर्णतः /
[006|18-006|19] घादीनां प्रदेषः कायविज्ञप्तिस्वभावः /
[006|19] अस्त्युभयथा / परिशिष्टं रूपायतनम् /
[006|19-006|20] आतपालोकावेव वर्णतो विद्येते इत्यपरे /
[006|20] "दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद" इति /
[006|21] कथं पुनरेकं द्रव्यमुभयथा विद्यते / अस्त्युभयस्य तत्र प्रज्ञानात् /
[006|21-006|22] ज्ञानार्थो ह्येष विदिर्न सत्तार्थः /
[006|22] कायविज्ञप्तावपि तर्हि प्रसङ्गः / उक्तं रूपायतनं //
[006|23] शब्दस्त्वष्टविधः /
[006|24] उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः /
[006|24-006|25] पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति /
[006|25-006|26] तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः /
[006|26] अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः /
[006|26-006|27] सत्त्वाख्यो वाग्विज्ञप्तिषब्दः /
[006|27] असत्त्वाख्यो ऽन्यः
[006|27-006|28] उपात्तानुपात्तमहाभूतहेतुको ऽप्यस्ति शब्द इत्यपरे /
[006|28] तद्यथा हस्तमृदङ्गसंयोगज इति /
[006|28-007|01] स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति /
[007|01] उक्तः शब्दः //
[007|02] रसः /
[007|03] षोढ
[007|04] मधुराम्ललवणकटुकतित्तकषायभेदात् /
[007|05] चतुर्विधो गन्धः
[007|06] सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् / त्रिविधस्तु शास्त्रे /
[007|06-007|07] "सुगन्धो दुर्गन्धः समगन्ध" इति /
[007|08] स्पृश्यमेकादशात्मद्कम् // vakk_1.10 //
[007|09] स्प्रष्टव्यमेकादशद्रव्यस्वभावम् /
[007|09-007|10] चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति /
[007|10] तत्र भूतानि पश्चाद्वक्ष्याम्ः /
[007|10-007|11] श्लक्ष्णत्वं मृदुता /
[007|11] कर्कशत्वं परुषता / गुरुत्वं येन भावास्तुल्यन्ते / लघुत्वं विपर्ययात् /
[007|11-007|12] शीतमुष्णाभिलाषकृत् /
[007|12] जिघत्सा भोजनाभिलाषकृत् / कारणे कार्योपचारात् / यथा
[007|13-007|14] "बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना / सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं" // इति /
[007|15] तत्र रूपधातौ जिघत्सापिपासे न स्तः / शेषमस्ति
[007|15-007|16] यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते /
[007|16] शीतमुपघातकं नास्ति /
[007|16-007|17] अनुग्राहकं किलास्ति /
[007|18-007|19] यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति /
[007|19] कदाचिद् बहुभिर्यदा न व्यवच्छेदः /
[007|19-007|20] तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात् पश्यतः /
[007|20] एवं श्रोत्रादिविज्ञानं वेदितव्यं /
[007|21] कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके /
[007|21-007|22] चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना /
[007|22] सर्वैरेकादशभिरित्यपरे /
[007|22-007|23] ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः /
[007|23-007|24] आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः /
[007|25] इदं विचार्यते /
[007|25-007|26] कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं पूर्वमुत्पद्यते /
[007|26] यस्य विषयः पटीयान् /
[007|26-007|27] समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते /
[007|27] भोक्तुकामतावर्जितत्वात्सस्न्ततेः /
[007|27-007|28] उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणं /
[007|29] अविज्ञप्तिरिदानीं वक्तव्या / सेयमुच्यते
[008|01-008|02] विक्षिप्ताचित्तकस्यापि यो ऽनुबण्धः शुभाशुभः / महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते // vakk_1.11 //
[008|03] विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि //
[008|03-008|04] अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि /
[008|04] अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते /
[008|05] यो ऽनु बन्ध इति यः प्रवाहः / शुभाशुभ इति कुशलाकुशलः /
[008|05-008|06] कुशलाकुशले प्राप्तिवाहो ऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति /
[008|07] हेत्वर्थ उपादायार्थ इति वैभाषिकाः / जननादिहेतुभावात् /
[008|07-008|08] स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः /
[008|08-008|09] रूपक्रियास्वभावापि सती विज्ञप्तिवत् परं न विज्ञापयतीत्यविज्ञप्तिः /
[008।09-008।09 उच्यत इति आचार्यवचनं दर्शयति /
[008|09-008|10] समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः /
[008|11] महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि /
[008|12] भूतानि पृथिवीधातुरप्तेजोवायुधातवः
[008|13] इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद् धातवश्चत्वारि महाभूतान्य् उच्यन्ते /
[008|14] महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् /
[008|14-008|15] अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् /
[008|15-008|16] ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह
[008|17] धृत्यादिकर्मसंसिद्धाः
[008|18] धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः /
[008|18-008|19] व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् /
[008|19] इदमेषां कर्म / स्वभावस्तु यथाक्रमं
[008|20] खरस्नेहोस्णतेरणाः // vakk_1.12 //
[008|21] खरः पृथिवीधातुः / स्नेहो ऽब्धातुः / उष्णता तेजोधातुः /
[008|22] ईरणा वायुधातुः / ईर्यते ऽनया भूतस्रोतो देशान्तरोत्पादनात् प्रदीपेरणवदितीरणा /
[008|23] "वायुधातुः कतमो लघुसमुदीरणत्वम्" इति प्रकारणेषु निर्दिष्टं सूत्रे च /
[008|23-008|24] तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु /
[008|24-008|25] अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंअणा ऽस्य स्वभावो ऽभिव्यक्तः /
[008|26] कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः /
[009|01] पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया / [009|02] तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति / यथा पृथिवी एवं
[009|03] आपस्तेजश्च
[009|04] वर्णसंस्थानमेवोच्यते लोकसंज्ञया /
[009|05] वायुस्तु धातुरेव
[009|06] य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते /
[009|07] तथपि च // vakk_1.13 //
[009|08] यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि /
[009|08-009|09] नीलिका वात्या मण्डलिका वात्येति //
[009|10] कस्मात् पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते / रौपणात् /
[009|10-009|11] उक्तं भगवता "रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते //
[009|11-009|12] केन रुप्यते /
[009|12] पाणिस्पर्शेनापि स्पृष्टो रूप्यत" इति विस्तरः / रूप्यते बाध्यत इत्यर्थः /
[009|13] तथा ह्यर्थवर्गीयेषूक्तम्
[009|14-009|15] "तस्य चेत् कामयानस्य च्छन्दजातस्य देहिनः / ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते //"
[009|16] रूपस्य पुनः का बधना / विपरिणामोत्पादना /
[009|16-009|17] प्रतिघातो रूपेणेत्यपरे /
[009|17] परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् /
[009|17-009|18] न वै परमाणुरूपमेकं पृथग् भूतमस्ति /
[009|18] सञ्घातस्थं तु तद् रूप्यत एव /
[009|18-009|19] अतीतानागतं तर्हि रूपं न प्राप्नोति /
[009|19] तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् /
[009|19-009|20] अविज्ञप्तिस्तर्हि न प्राप्नोति /
[009|20] सापि विज्ञप्तिरूपणाद् रूपिता भवति /
[009|20-009|21] वृक्षप्रचलने च्छायाप्रचलनवत् /
[009|21] नाविकारात् /
[009|21-009|22] विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद् वृक्षाभावे च्छाया ऽभाववत् /
[009|22-009|23] आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात् रूपत्वप्रसङ्गः /
[009|23] विषमो ऽयमुपन्यासः /
[009|23-009|24] अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते /
[009|24-009|25] न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति /
[009|25-009|26] इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति /
[009|26-010|01] च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् /
[010|01] सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता / युज्यते /
[010|02] निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधो ऽभ्युपगम्यते /
[010|02-010|03] अतो न भवत्येष परिहारः /
[010|03-010|04] अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः /
[010|04] कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः /
[010|05] न त्वेवमविज्ञप्तिः /
[010|05-010|06] तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति /
[010|07] य एव रूपस्कन्धस्वभावा उक्ताः
[010|08] इन्द्रियार्थस्त एवेष्टा अशायतनधातवः /
[010|09] आयतनव्यवस्थायां दशायतनानि /
[010|09-010|10] चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनमिति /
[010|10-010|11] धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत् कायधातुः स्प्रष्टव्यधातुरिति /
[010|11] उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् /
[010।12=01012] वेदनादयो वक्तव्यः /
[010|12] तत्र
[010|13] वेदना ऽनुभवः
[010|14] त्रिविधो ऽनुभवो वेदनास्कन्धः / सुखो दुःखो , दुःखासुखश्च /
[010|14-010|15] स पुनर्भिद्यमानः षड् वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति /
[010|16] संज्ञा निमित्तोद्ग्रहणात्मिका // vakk_1.14 //
[010|17-010|18] यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः /
[010|18] स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् //
[010|19] चतुर्भ्यो ऽन्ये तु संस्कारस्कन्धः
[010|20] रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्यो ऽन्ये तु संस्काराः संस्कारस्कन्धः/
[010|20-010|21] भगवता तु सूत्रे षट् चेतनाकाया इत्युक्तं प्राधान्यात् /
[010|21-010|22] सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना /
[010|22-010|23] अत एवोक्तं भगवता "संस्कृतमभिसंस्करोति /
[010|23] तस्मात् संस्कारा उपादानस्कन्ध इत्य् उच्यत" इति
[010|23-010|25] अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्/
[010|25-010|26] उक्तं च भगवता "नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति /
[010|26] एवमप्रहाये" त्युक्तम् /
[011|01] तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो "भ्युपगन्तव्यः /
[011|02] एते पुनस्त्रयः /
[011|03] वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां
[011|04] धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः // vakk_1.15 //
[011|05] इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते /
[011|06] विज्ञानं प्रतिविज्ञप्तिः
[011|07] विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते /
[011|07-011|08] स पुनः षड् विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति /
[011|08-011|09] य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां
[011|10] मन आयतनं च तत् /
[011|11] धातुव्यवस्थायां स एव
[011|12] धातवः सस्प्त च मताः
[011|13] कतमे सप्त /
[011|14] षड् विज्ञानान्यथो मनः // vakk_1.16 //
[011|15] चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च /
[011|15-011|16] एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति /
[011|16-011|17] अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः /
[011|17-011|18] वेदना दयः स्कन्धास्त्रयो "विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड् विज्ञानधातवो मनोधातुश्चेति //
[011|19] ननु च षड् विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् /
[011|19-011|20] अथ को "यं पुनस्तेभ्यो "न्यो मनोधातुः न खलु कश्चिदन्यः /
[011|20] किं नर्हि / तेषामेव
[011|21] षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः /
[011|22] यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत /
[011|22-011|23] तद्यथा स एव पुत्रो "न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति /
[011|23-011|25] एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते /
[011|25] यद्यप्येवं तथापि
[011|26] षष्ठाश्रयप्रसिद्ध्यर्थ धातवो "षादश् स्मृताः // vakk_1.17 //
[011|27] पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः /
[011|28] षष्ठस्य मनोविज्ञानधातोराश्रयो "न्यो नास्ति /
[011|28-011|29] अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः /
[011|29-012|01] एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति /
[012|01] अर्हतस्तर्हि चरमं चित्तम् न मनो भविष्यति /
[012|02] नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति / न /
[012|02-012|03] तस्यापि मनोभावेनावस्थितत्वात् /
[012|03] अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः //
[012|04] तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः /
[012|04-012|05] उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् /
[012|05] समासतस्तु ज्ञातव्यः
[012|06-012|07] सर्वसंग्रह एकेन स्कन्देह्नायतनेन च धातुना च
[012|08] रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः /
[012|08-012|09] स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः /
[012|10] स्वभावेन
[012|11] न परभावेन / किम् कारणम् /
[012|12] परभाववियोगतः // vakk_1.18 //
[012|13] वियुक्तो हि परभवेन धर्मः / तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते /
[012|13-012|14] तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् /
[012|15] तत्स्वभावत्वात् / नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् /
[012|15-012|16] यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात् सांकेतिको वेदितव्यः /
[012|17] ननु चैकविंशत्या धातुभिर्भवितव्यम् / चक्षुषो द्वित्वात् श्रोत्रघ्राणयोश्च /
[012|18] न भवितव्यम् / यस्मात् /
[012|19-012|20] जातिगोचरविज्ञानसामान्यादेकधातुता द्वित्वे "पि चक्षुरदीनं
[012|21] त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् /
[012|21-012|22] गोचरसामान्यमुभयो रूपविषयत्वात् /
[012|22] विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् / तस्मदेक एव चक्षुर्धातुः /
[012|23] एवं श्रोत्रघ्राणयोरपि योज्यम् /
[012|24] शोभार्थं तु द्वयोद्भवः // vakk_1.19 //
[012|25] एकधातुत्वे "पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् /
[012|25-013|01] अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात् महद् वैरुप्यं स्यादिति /
[013|02] उक्ताः स्कन्धायतनधातवः
[013|03] इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति /
[013|04] राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः /
[013|05-013|07] ऽयत् किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यम् औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात् सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् /
[013|07-013|08] तत्रातीतं रूपमनित्यतानिरुद्धम् /
[013|08] अनागतमनुत्पन्नम् / प्रत्युत्पन्नमुत्पन्नानिरुद्धम् /
[013|09] आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा
[013|09-013|10] औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा /
[013|10] आपेक्षिकत्वादसिद्धमिति चेत् / न /
[013|10-013|11] अपेक्षाभेदात् /
[013|11] यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् / हीनं क्लिष्टम् /
[013|12] प्रणितमक्लिष्टम् / दूरमतीतानागतम् / अन्तिकं प्रत्युत्पन्नम् /
[013|12-013|13] एवं यावत् विज्ञानम् /
[013|13] अयं तु विशषः / औदारिकं पञ्चेन्द्रियाश्रयम् सूक्ष्मं मानसम् /
[013|13-013|14] भूमितो वेति वैभाषिकाः /
[013|14] भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यम् सूक्ष्ममन्यत् /
[013|15] हीनममनापं प्रणीतं मनापम् / दूरमदृश्यदेशम् / अन्तिकं दृश्यदेशम् /
[013|15-013|16] अतीतादीनां स्वशब्देनाभि हितत्वात् /
[013|16] एवम् वेदनादयो ऽपि वेदितव्याः /
[013|17] दूरान्तिकत्वं तु तेषामाश्रयवशात् / औदारिकसूक्ष्मत्वं तु पूअर्ववदिति //
[013|18] चित्तचैत्तायद्वारार्थ आयतनार्थः /
[013|18-013|19] निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि /
[013|19] विस्तृण्वन्तीत्यर्थः / गोत्रार्थो धात्वर्थः /
[013|19-013|21] यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवम् एकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते /
[013|21] आकरास्तत्र गोत्राण्युअच्यन्ते /
[013|21-013|22] त इमे चक्षुरादयः कस्याकराः /
[013|22] स्वस्या जातेः / सभागहेतुत्वात् /
[013|22-013|23] असंस्कृतं तर्हि न धातुः स्यात् /
[013|23] चित्तचित्तानां तर्हि जातिवाचको "यं धातुशब्द इत्यपरे /
[013|23-013|24] अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति /
[013|24-013|25] यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति /
[013|25] अनेकद्रव्यसमूहत्वात् राशिपुद्गलवत् / न /
[013|26] एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् / न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् /
[013|27] न ह्येकस्यास्ति राशित्वमिति / कार्यब् हारोद्वहनार्थः स्कन्धार्थ इत्यपरे /
[013|27-013|28] प्रच्छेदार्थो वा /
[013|28] तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति / तदेतदुत्सूत्रम् /
[013|29] सूत्रं हि राश्यर्थमेव ब्रवीति "यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि"ति विस्तरः
[013|30] प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते /
[013|30-014|01] सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति /
[014|01] न शक्यमेवं विज्ञातुम् /
[014|01-014|02] "तत्सर्वमैकध्यमभिसंक्षिप्ये"ति वचनात् / तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः
[014|02-014|03] रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति /
[014|03-014|04] बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् /
[014|04] न /
[014|04-014|05] एकशः समग्राणां कारणभावात् विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् / 01405-01405] विभाषायां तूच्यते "यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते /
[014|06] स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः /
[014|06-014|07] अथ नापेक्षते /
[014|07] स आह / परमाणुरेको धातुरेकमायतनमेकः स्कन्ध" इति /
[014|07-014|08] भवति हि प्रदेशे "पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति /
[014|09] किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते / आह / विनेयानां
[014|10] मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः // vakk_1.20 //
[014|11] त्रयः प्रकारास्त्रैधम् / त्रिप्रकारः किल सत्त्वानां मोहः /
[014|11-014|12] केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः /
[014|12] केचिद्रूप एव / केचिद्रूपचित्तयोः / इन्द्रियाण्यपि त्रिविधानि /
[014|13] तीक्ष्णमध्यमृद्विन्द्रियत्वात् / रूचिरपि त्रिविधा /
[014|13-014|14] संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् /
[014|14] तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति //
[014|15-014|16] किम् पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक् स्कन्धीकृते इत्याह
[014|17-014|18] विवादमूलसंसारहेतुत्वात् क्रमकारणात् / चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ // vakk_1.21 //
[014|19] द्वे विवादमूले / कामाध्यवसानं दृष्ट्यध्यवसानं च /
[014|19-014|20] तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू /
[014|20-014|21] वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति /
[014|21] संसारस्यापि ते प्रधानहेतू / वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति /
[014|22-014|23] यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततो ऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् /
[014|23] एतच्च त्रेधो पपादयिष्यामः /
[014|24] स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्
[014|25] तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते अर्थायोगात् /
[014|25-015|01] नहि तद्रूपं नापि यावद्विज्ञानमिति /
[015|01] नचापि षष्ठः स्कन्धो वक्तुं शक्यते / कुतः / अर्थायोगात् /
[015|02] "राश्यर्थो हि स्कन्धार्थ" इत्युक्तम् /
[015|02-015|03] नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् /
[015|03-015|04] संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनं /
[015|04-015|05] नचोभयथा "प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् /
[015|05-015|06] यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे /
[015|06-015|07] तेषां धात्वायतनेष्वप्येष प्रसङ्गः /
[015|07] उक्तः स्कन्धानामन्यः प्रकारः //
[015|08] क्रमः पुनः /
[015|09] यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः // vakk_1.22 //
[015|10] रूपं हि सप्रतिघत्वात्सर्वौदारिकम् / अरुपिणां वेदना प्रचारौदारिकतया /
[015|10-015|11] तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति /
[015|11] द्वाभ्यां चौ दारिकतरा संज्ञा /
[015|11-015|12] विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् /
[015|12-015|13] अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् /
[015|13] तद्गर्द्धः संज्ञाविपर्यासात् /
[015|14] तद्विपर्यासः क्लेशैश्चित्तं अच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः /
[015|14-015|15] भाजनाद्यर्थेन वा /
[015|15] भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः / धातुतो वा /
[015|16] कामगुणरूपप्रभावितो हि कामधातुः / वेदनाप्रभावितानि ध्यानानि /
[015|16-015|17] संज्ञाप्रभाविताः त्रयः आरूप्याः /
[015|17] संस्कारमात्रप्रभावितं भवाग्रम् /
[015|17-015|18] एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः /
[015|18-015|19] अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः /
[015|19-015|20] अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते /
[015|20-015|21] यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति //
[015|22] आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः /
[015|23] तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः / तेषां च पुनः षण्णां /
[015|24] प्राक् पञ्च वार्त्तमार्थ्यात्
[015|25] चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात् पूर्वमुक्तानि / मनस्त्वनियतविषयम्
[015|25-016|01] किञ्चिद्वर्त्तमानविषयं किञ्चित् व्यध्वानध्रविषयम् /
[016|02] भौतिकार्थ्याच्चतुष्टयम् /
[016|03] प्रागिति वर्त्तते / पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि / भौतिकविषयत्वात् /
[016|03-016|04] कायस्य त्वनियतो विषयः
[016|04] कदाचिद् भूतानि कदाचिद् भौतिकम् कदाचिदुभयम् /
[016|05] दूराशुतरवृत्त्या ऽन्यत्
[016|06] शेषं पुनरितस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् / चक्षुःश्रोत्रं हि दूरविषयम् /
[016|07] तत् पूर्वमुक्तं द्वयात् / तयोरपि चक्षुषो दूरतरे वृत्तिः /
[016|07-016|08] पश्यतो ऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत् पूर्वमुक्तम् /
[016|08] घ्राणस्य तु नास्ति दूरे वृत्तिः / जिह्वायाश्च /
[016|09] तयोराशुतरवृत्तित्वात् घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् /
[016|10] यथास्थानं क्रमो ऽथवा // vakk_1.23 //
[016|11] अथवा अस्मिन् शरीरे चक्षुषो ऽधिष्ठानमुपारिष्टात् निविष्टम् / तस्मादधः श्रोत्रस्य /
[016|12] तस्मादधो घ्राणस्य / तस्मात् जिह्वायाः तक्याः स्यास्य बहुल्येन /
[016|12-016|13] मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् /
[016|14] किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते /
[016|14-016|15] सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह
[016|16-016|17] विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् / एकमायतनं रूपमेकं धर्माख्यमुच्यते // vakk_1.24 //
[016|18] कथं विशेषणार्थम् /
[016|18-016|19] यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति /
[016|19-016|20] चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते /
[016|20-016|21] अथवा रूपायतनस्य प्राधान्यात् /
[016|21] तद्धि सप्रतिघत्वाच्च / पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते /
[016|22] सनिदर्शनत्वाच्च /
[016|22-016|23] इदमिहामुत्रेति निरूपणात् लोके ऽपि च तद्रूपमिति प्रतीतं नान्यानि /
[016|23] विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि /
[016|23-017|01] अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् /
[017|01] अतः सामान्येनाभिधानं क्रियते धर्मशब्देन / [017|02] अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति /
[017|02-017|03] विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे //
[017|04-017|05] अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंएभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः
[017|05] एभिरेव संग्रहो न व्यतिरेकः / तत्र तावत्
[017|06-017|07] धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः / तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः // vakk_1.25 //
[017|08] येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि /
[017|09] येषां नामस्वभावं तेषां संस्कारस्कन्धेन //
[017|10] किं पुनर्धर्मस्कन्धस्य प्रमाणम् /
[017|11] शास्त्रप्रमाण इत्येके
[017|12] एके तावत् आहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति /
[017|12-017|13] तच्च षट्सहस्राणि /
[017|13] अपरे पुनराहुः
[017|14] स्कन्धादीनं कथैकशः /
[017|15-017|17] स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति /
[017|18] चरितप्रतिपक्षस्तु धर्मस्कन्धो ऽनुवर्णितः // vakk_1.26 //
[017|19] एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् / रागद्वेषमोहमानादिचरितभेदेन /
[017|20] तेषां प्रतिपक्षेण भगवता ऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि /
[017|20-017|21] यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि /
[017|22-017|23] तथा ऽन्ये ऽपि यथायोगं स्कन्धायतनधातवः / प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् // vakk_1.27 //
[017|24-017|26] ये ऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्ते ऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंअच्छास्त्रे संप्रधर्य /
[017|26-018|02] तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः /
[018|02-017|02] शेषाः संस्कारस्कन्धेन /
[018|02-018|03] दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन /
[018|03] सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् /
[018|04] तथा ऽभिभ्वायतनानि /
[018|04-018|05] आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् /
[018|05-018|06] पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन /
[018|06] सपरिवाराणि तु शब्दो मनोधर्मायतनैः /
[018|07] द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् /
[018|07-018|08] नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् /
[018|08] एवं बहुधातुके ऽपि द्वाषष्टिर्धातवो देशिताः /
[018|08-018|09] तेषां यथायोगं संग्रहो वेदितव्यः //
[018|10-018|11] य इमे तत्र षड् धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् /
[018|11-018|12] तत् किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वं अच विज्ञानं विज्ञानधातुः/
[018|12] नेत्याह / किं तर्हि / द्वारवातायनमुखनासिकादिषु
[018|13] छिद्रमाकाशधात्वाख्यम्
[018|14] छिद्रमित्युच्यमानं किं वेदितव्यम् /
[018|15] आलोकतमसी किल /
[018|16] नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते /
[018|16-018|17] तस्मात् किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः /
[018|17-018|18] स एव चाघसामन्तकं रूपमित्युच्यते /
[018|18] अघं किल चित्तस्थं रूपम् / अत्यर्थं घातात् /
[018|18-018|19] तस्य तत्सामन्तकमिति /
[018|19] अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे /
[018|20] विज्ञानधातुर्विज्ञानं सास्रवं
[018|21] कस्मादनास्रवं नोच्यते / यस्मादिमे षड् धातव इष्टाः /
[018|22] जन्मनिश्रयाः // vakk_1.28 //
[018|23] एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत् च्युतिचित्तसाधारणभूताः
[018|23-018|24] अनास्रवास्तु धर्मा नैवमिति /
[018|24-018|25] तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति /
[018|26] ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः /
[019|01] सनिदर्शन एको ऽत्र रूपं
[019|02] स हि शक्यते निदर्शयितुमिदमिहामुत्रेति / उक्तं भवति अनिदर्शनाः शेषा इति //
[019|03] कति सप्रतिघाः कत्यप्रतिघाः /
[019|04] सपरतिघा दश /
[019|05] रूपिणः /
[019|06] य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः /
[019|06-019|07] प्रतिघो नाम प्रतिघातः स च त्रिविधः /
[019|07] आवरणविषयालम्बनप्रतिघातः /
[019|07-019|08] तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः /
[019|08] यथा हस्तो हस्ते प्रतिहन्यते उपले वा / उपलो ऽपि तयोः /
[019|09] विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु /
[019|09-019|10] यथोक्तं प्रज्ञप्ता"वस्ति चक्षुर्जले प्रतिहन्यते न स्थले /
[019|10] यथा मत्स्यानाम् /
[019|10-019|11] अस्ति स्थले न जले /
[019|11] प्रायेण मनुष्याणाम् / अस्त्युभयत्र /
[019|11-019|12] शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् /
[019|12] अस्ति नोभयत्र / एतानाकारान् स्थापयित्वा /
[019|12-019|13] अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा /
[019|13] तद्यथा तितीलोलूकादीनाम् / दिवा न रात्रौ /
[019|13-019|14] प्रायेण मनुष्याणाम् /
[019|14] रात्रौ दिवा च / श्वशृगालतुरगद्वीपिमार्जारादीनाम् / नोभयत्र /
[019|14-019|15] एतानाकारान् स्थापयित्वे"त्ययं विशयप्रतिघातः /
[019|15-019|16] आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु /
[019|16] कः पुनर्विषयालम्बनयोर्विशेषः /
[019|16-019|17] यस्मिन् यस्य कारित्रं स तस्य विषयः /
[019|17] यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् /
[019|17-019|18] कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते /
[019|18] तस्मात् परेणाप्रवृत्तेः /
[019|18-019|19] निपातो वा ऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः
[019|19-019|20] तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् /
[019|20-019|21] ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः
[019|21] प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः /
[019|22] द्वितीया पञ्च विषयाः / तृतीया पञ्चेन्द्रियाणि /
[019|22-019|23] चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः /
[019|23-019|24] ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति /
[019|24] पश्चात्पादकः / ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते /
[019|25-010|25] स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन /
[019|25] पञ्चेन्द्रियाणि /
[020|01-020|02] "यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् / तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि"ति
[020|03] भदन्तकुमारलातः / उक्ताः सप्रतिघा अप्रतिघाश्च //
[020|04] एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता /
[020|05] अव्याकृता अष्टौ
[020|06] कतमे अष्टौ / य एते सप्रतिघा दशोक्ताः /
[020|07] त एवारूपशब्दकाः // vakk_1.29 //
[020|08] पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च /
[020|08-020|09] एते ऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः /
[020|09] विपाकं प्रत्यव्याकरणादित्यपरे / एवमनास्रवे ऽपि प्रसङ्गः //
[020|10] त्रिधा ऽन्ये
[020|11] अन्ये दश धातवः कुशलाकुशलाव्याकृताः /
[020|11-020|12] तत्र सप्त धातवो ऽलोभादिसंप्रयुक्ता कुशलाः /
[020|12] लोभादिसंप्रयुक्ता अकुशलाः / अन्ये अव्याकृताः /
[020|12-020|13] धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः /
[020|13-020|14] लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः
[020|14] अन्यो ऽव्याकृतः /
[020|14-020|15] रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ /
[020|15] तदन्याव्याकृतौ / उक्तः कुशलादिभावः /
[020|16] एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः /
[020|17] कामधात्वाप्ताः सर्वे
[020|18] आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः /
[020|19] रुपे चतुर्दश /
[020|20] रूपधातौ चतुर्दश धातवः /
[020|21] विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः // vakk_1.30 //
[020|22] तत्र हि गन्धरसौ न स्तः /
[020|22-020|23] तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः /
[020|23] ततो घ्राणजिह्वाविज्ञाने अपि न स्तः /
[020|23-020|24] आलम्बनाभावात् /
[020|24] एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः / कवडीकाराहारत्वात् /
[020|25] यो नाहारस्वभावः स तत्रास्ति / गन्धरसयोरप्येष प्रसङ्गः /
[020|25-020|26] नास्ति विना ऽभ्यवहारेण गन्धरसयोः परिभोगः /
[020|26-021|01] अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन /
[021|01-021|02] तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् /
[021|02] अन्ये पुनराहुः /
[021|02-021|03] ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते /
[021|03] प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायो ऽनुगृह्यते /
[021|03-021|04] अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति /
[021|04] एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् /
[021|05] अस्ति प्रयोजनम् /
[021|05-021|06] ताभ्यां हि विनाऽ; श्रयशोभैव न स्यादिति व्यवहार्श्च /
[021|06-021|07] यद्येतत् प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् /
[021|07] नानिन्द्रियमधिष्ठानं संभवति / पुरुषेन्द्रियाधिष्ठानवत् /
[021|07-021|08] युक्तस्तदसंभवो निष्प्रयोजनत्वात् /
[021|08-021|09] घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम्
[021|09] अतो ऽस्य विना ऽपीन्द्रियेण युक्तः संभवः /
[021|09-021|10] निःप्रयोजना ऽपीन्द्रियाभिनिर्वृत्तिर्भवति /
[021|10] यथा गर्भे नियतमृत्यूनाम् / स्यान्नाम निःप्रयोजना न तु निर्हेतुका /
[021|11] कश्च हेतुरिन्द्रियोत्पत्तेः / इन्दरियसतृष्णस्य कर्मविशेषः /
[021|11-021|12] यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति /
[021|12] न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः /
[021|13] पुरुषेन्द्रैयमपि वा किं न निवर्त्तते / अशोभाकरत्वात् /
[021|13-021|14] कोशगतवस्तिगुह्यानां किं न शोभेत /
[021|14] न च प्रयोजनवशादुत्पत्तिः / किं तर्हि /
[021|14-021|15] कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः /
[021|15] सूत्रं तर्हि विरुध्यते /
[021|15-021|16] "अविकला अहीनेन्दरिया" इति /
[021|16] यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति को ऽत्र विरोधः /
[021|16-021|17] इतरथा हि पुरुशेन्द्रियस्यापि स्यात् प्रसङ्गः /
[021|17] एवं तुवर्णयन्ति /
[021|17-021|18] स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ /
[021|18] आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन /
[021|19] पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति / तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति /
[021|20] आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः /
[021|21-021|22] रूपवीतरागाणां तत्रोपपत्तिरतो ऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संअभवन्ति //
[021|23] कति सास्रवाः कत्यनास्रवाः / य एते मनोधर्ममनोविज्ञानधातव उक्ताः
[021|24] सास्रवानास्रवा एते त्रयः
[021|25] ये मार्गसत्यासंस्कृतसंघृहीतास्ते ऽनास्रवा अन्ये सास्रवाः /
[021|26] शेषास्तु सास्रवाः // vakk_1.31 //
[022|01] पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः //
[022|02] कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः /
[022|03] सवितर्कविचारा हि पञ्च विज्ञानधातवः /
[022|04] नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः / अवधारणार्थो हिशब्दः /
[022|05] अन्त्यास्त्रयस्त्रिप्रकाराः
[022|06] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः एते त्रयस्त्रिप्रकाराः /
[022|06-022|08] तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः /
[022|08] ध्यानान्तरे ऽवितर्का विचारमात्राः /
[022|08-022|09] द्वितीयाद्ध्यानात् प्रभृत्याभवाग्रादवितर्का अविचाराः /
[022|09-022|10] सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः /
[022|10-022|11] वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात् विचारसंप्रयोगाच्च /
[022|11] कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति /
[022|11-022|12] स कथं वक्तव्यः /
[022|12] अविचारो वितर्कमातरः / द्वितीयविचाराभावात् वितर्कसंप्रयोगाच्च /
[022|13] अत एवोच्यते "स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः /
[022|14] सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः /
[022|14-022|15] अवितर्को विचारमात्रो वितर्कः /
[022|15] अवितर्का अविचारा असंप्रयुक्ताः / अविचारो वितर्कमात्रो विचार" इति /
[022|16] शेषा उभयवर्जिताः // vakk_1.32 //
[022|17] दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् //
[022|18] यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते /
[022|19] निरूपणानुस्मरणविकल्पेनाविकल्पकाः /
[022|20] त्रिविधः किल विकल्पः / स्वभावाभिनिरूपणानुस्मरणविकल्पः /
[022|20-022|21] तदेषां स्वभावविकल्पो ऽस्ति /
[022|21] नेतरौ / तस्मादविकल्पका इत्युच्यन्ते /
[022|21-022|22] यथा एकपादको ऽश्वो ऽपादक इति /
[022|22] तत्र स्वभावविकल्पो वितर्कः / स चैत्तेषु पश्चान्निर्देक्ष्यते /
[022|22-022|23] इतरौ पुनः किंस्वभावौ /
[022|23] यथाक्रमं
[022|24] तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी // vakk_1.33 //
[022|25] मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते / असमाहिता व्यग्रेत्युच्यते /
[022|25-022|26] सा ह्यभिनिरूपणाविकल्पः /
[022|26] मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः /
[022|27] कति सालम्बनाः कत्यनालम्बनाः /
[023|01] सप्त सालम्बनाश्चित्तधातवः
[023|02-023|03] चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् /
[023|04-021|04] अर्धं च धर्मतः /
[023|05] सालम्बनं यच्चैतसिकस्वभावम् /
[023|05-023|06] शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तको ऽनालम्बना इत् इसिद्धम् /
[023|07] कत्युपात्ताः कत्यनुपात्ताः /
[023|08] नवानुपात्ताः /
[023|09] कतमे नव / ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् /
[023|10] ते चाष्टौ शब्दश्च
[023|11] इमे ते नवानुपात्ताः / सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च /
[023|12] अन्ये नव द्विधा // vakk_1.34 //
[023|13-013|13] उपात्ता अनुपात्ताश्च /
[023|13] तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः /
[023|14] अतीतानागता अनुपात्ताः /
[023|14-023|15] रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः /
[023|15-023|16] अन्ये ऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च /
[023|16] उपात्तमिति को ऽर्थः /
[023|16-023|17] यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् /
[023|17] यल्लोके सचेतनमित्युच्यते /
[023|18] कति धातवो भूतस्वभावाः कति भौतिकाः /
[023|19] स्प्रष्टव्यं द्विविधं
[023|20] भूतानि भौतिकं च / तत्र भूतानि चत्वारि / भौतिकं श्लक्ष्णत्वादि सप्तविधम् /
[023|21] भूतेषु भवत्वात् /
[023|22] शेषा रूपिणो नव भौतिकाः /
[023|23] पञ्चेन्द्रियधातवश्च चत्वारो विषयाः / एते नव धातवो भौतिका एव /
[023|24] धर्मधात्वेकदेशश्च
[023|25] अविज्ञप्तिसंज्ञको भौतिकः /
[023|25-024|01] शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा /
[024|01-023|01] "भूतमात्रं दशायतनानी"ति भदन्त्ब्दुद्धदेवः /
[024|01-024|02] तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात् सूत्रे /
[024|02] तेषां स्प्रष्टव्यत्वात् /
[024|02-024|03] न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण /
[024|03-024|05] उक्तं च सूत्रे "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघं एवं यावत् कायः
[024|05-024|06] रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् /
[024|06-024|07] शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् /
[024|07] एवं गन्धरसाः /
[024|07-024|08] स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि"ति /
[024|09] स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् /
[024|09-024|10] यत्तर्हि सूत्रे उक्तं "यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि"ति
[024|10-024|11] तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः /
[024|11-024|12] षड्धातुरयं भिक्षो पुरुष"इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् /
[024|12] पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च /
[024|12-024|13] न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् /
[024|13-024|14] "संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ; इति सूत्रे वचनात्सरागचित्तादि वचनाच्च /
[024|15] तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् /
[024|16] कति संचिताः कत्यसंचिताः /
[024|17] संचिता दश रूपिणः // vakk_1.35 //
[024|18] पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः /
[024|18-024|19] परमाणुसंघातत्वात् शेषा न संचिता इति सिद्धं भवति //
[024|20-024|21] अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते /
[024|22] छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् /
[024|23] रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् / छेदो नाम क एष धर्मः /
[024|23-024|24] संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् /
[024|24] न कायेन्द्रियादीनि च्छिद्यन्ते /
[024|24-024|25] निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् /
[024|25] न हीन्द्रियाणि द्विधा भवन्ति /
[024|25-024|26] छिन्नस्याङ्गस्य निरिन्द्रियत्वात् /
[024|26] न चापि च्छिन्दन्ति / मणिप्रभावदन्धत्वात् /
[024|26-024|27] यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् /
[025|01] दह्यते तुलयत्येवं
[025|02] तदेव दह्यते तदेव तुलयति / नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् / न शब्द उछेदित्वात् /
[025|03] विवादो दग्धृतुल्ययोः // vakk_1.36 //
[025|04] केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च
[025|04-025|05] केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति /
[025|06-025|07] कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः /
[025|07] आह /
[025|08] विपाकजौपचयिकाः पञ्चाध्यात्मं /
[025|09-025|10] अध्यात्मं तावत् पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च /
[025|10] नैःष्यन्दिका न सन्ति / तद्व्यतिरिक्तनिष्यन्दाभावात् /
[025|10-025|11] तत्र विपाकहेतोर्जाताः विपाकजाः /
[025|11] मध्यपदलोपात् गोरथवत् /
[025|11-025|12] फलकालप्राप्तं वा कर्म विपाक इत्युच्यते /
[025|12] विपच्यत इति कृत्वा / तस्माज्जाता विपाकजाः /
[025|12-025|13] फलं तु विपक्तिरेवेति विपाकः /
[025|13] भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः /
[025|13-025|14] "षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्"इति /
[025|14-025|15] आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः /
[025|15] ब्रह्ंअचर्येण चेत्येके / अनुपघातमात्रं तु तेन स्यान्नोपचयः /
[025|15-025|16] विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा /
[025|16-025|17] शब्द औपचयिको नैःष्यन्दिकश्चास्ति /
[025|18] विपाकजः /
[025|19] न शब्दः
[025|20] किं कारणम् / ईहातः प्रवृत्तेः /
[025|20-025|21] यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं "पारुष्यविरतेः सुभावितत्वाद् ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति /
[025|21] तृतीया ऽसौ परंपरेत्येके /
[025|22] कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति / पञ्चम्यसौ परंपरेत्यपरे /
[025|22-025|24] कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति /
[025|24-025|25] एवम् तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति /
[025|25] यदि शब्दवद् युक्तिविरोधः स्यात् /
[025|26] अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः // vakk_1.37 //
[025|27] कतमे ऽष्टौ / सप्त चित्तधातवो धर्मधातुश्च / नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः /
[026|01] विपाकजा विपाकहेतुजनिताः / औपचयिका न सन्त्यप्रतिघानां सञाभावात् /
[026|02] त्रिधा ऽन्ये
[026|03] अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः /
[026|03-026|04] ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि /
[026|05] द्रव्यवानेकः
[026|06] असंस्कृतं हि सारत्वाद् द्रव्यम् / तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः /
[026|07] क्षणिकाः पश्चिमास्त्रयः /
[026|08] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः /
[026|08-026|09] ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते /
[026|09-026|10] अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः /
[026|10-026|11] तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च /
[026|11] शेषास्तत्सहभुवो धर्मधातुः //
[026|12-025|12] इदं विचार्यते /
[026|12-026|13] यश्चक्षुर्धातुना ऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुना ऽपि सः /
[026|13] यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुना ऽपि सः / आह /
[026|14] चक्षुर्विज्ञानधात्वोः स्यात् पृथक् लाभः सहापि च // vakk_1.38 //
[026|15] पृथक् तावत् स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना /
[026|15-026|16] कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः /
[026|16] आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः /
[026|16-026|17] स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना /
[026|17-026|18] द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः /
[026|18-026|19] सहापि स्यादुभयेन समन्वागमं प्रतिलभते /
[026|19] आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः / नोभयेन /
[026|20] एतानाकारान् स्थापयित्वा / यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुना ऽपि सः /
[026|21] चतुष्कोटिकः / प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः /
[026|22] द्वितीया कामधातावलब्धविहीन चक्षुः /
[026|22-026|23] तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् /
[026|23-026|24] चतुऋथ्येतानाकारान् स्थापयित्वा /
[026|24-026|25] एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ /
[026|25] एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति /
[027|01] कत्याध्यात्मिका धातवः कति बाह्याः /
[027|02] द्वादशाध्यात्मिकाः
[027|03] कतमे द्वादश /
[027|04] हित्वा रूपादन्
[027|05] षड् विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः /
[027|05-027|06] रूपादयस्तु षड् विषयधातवो बाह्याः /
[027|06] आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा /
[027|06-027|07] अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते /
[027|08] "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः"
[027|09-026|09] इत्युक्तम् /
[027|09] चित्तस्य चान्यत्र दमनमुक्तं भगवता /
[027|10] "चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्" इति /
[027|11] अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् /
[027|11-027|12] चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद् बाह्यत्वम् /
[027|12-027|13] एवम् तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति /
[027|13] न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति /
[027|13-027|14] यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते /
[027|14-027|15] अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः /
[027|15] इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः /
[027|15-027|16] यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्यात् अतीते ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत /
[027|17] नहि लक्षणस्याध्वसु व्यभिचारो ऽस्तीति //
[027|18] कति धातवः सभागाः कति तत्सभागाः / एकान्तेन तावत् [027|19] धर्मसंज्ञकः /
[027|20] सभागः
[027|21-027|22] यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते /
[027|22-027|23] न च सो ऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा /
[027|23-027|24] तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते "सर्वधर्मा अनात्मान" इति /
[027|14-027|25] तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् /
[027|25-027|26] स पुनश्चित्तक्षणो ऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति /
[027|26] तस्माद् धर्मधातुअर्नित्यं सभागः /
[027|27] तत्सभागाश्च शेषाः
[027|28] सभागश्चेति चशब्दः / को ऽयं तत्सभागो नाम /
[028|01] यो न स्वकर्मकृत् // vakk_1.39 //
[028|02] उक्तं भवति यः स्वकर्मकृत् स सभाग इति /
[028|02-028|03] तत्र येन चक्षुषा रूपाण्यपश्यत् पश्यति द्रक्ष्यति वा तदुच्यते सभागं अचक्षुः /
[028|03-028|04] एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् /
[028|04] तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् /
[028|04-028|05] यद् दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि /
[028|05-028|06] पाश्चात्त्यानां पुनः पञ्चविधम् /
[028|06] तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च /
[028|07] एवं यावत् कायो वेदितव्यः / मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् /
[028|07-028|08] रूपाणि च यानि चक्षुषा ऽपशायत् पश्यति द्रक्ष्यति वा तानि सभागानि /
[028|08] तत्सभागानि चतुर्विधानि /
[028|09] यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि /
[028|09-028|10] एवं यावत् स्प्रष्टव्यानि /
[028|10] स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि /
[028|10-028|11] यदेकस्य चक्षुः सभागं तत्सर्वेषाम् /
[028|11] एवं तत्सभागमपि /
[028|110-02811] तथ यावन्मनः /
[028|11-028|12] रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् /
[028|12] किं कारणम् /
[028|12-028|13] अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवो ऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु /
[028|13-028|14] नतु संभवो ऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् /
[028|14] अतो ऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् /
[028|15] रूपस्य तु साधारणत्वात् अनेकसन्तानवशेन /
[028|15-028|16] यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः /
[028|16] भवतु शब्द एवम् /
[028|16-028|18] गन्धादयस्तु य एकेन गृह्यन्ते न ते ऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः /
[028|18] अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् /
[028|18-028|19] अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि /
[028|20] न त्वेवं चक्षुरादयः / तस्मान्देषां रूपादिवदतिदेशः /
[028|20-028|21] चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः /
[028|22] सभाग इति को ऽर्थः /
[028|22-028|23] इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः /
[028|23] स एषामस्तीति सभागः / स्पर्शसमानकार्यत्वाद्वा /
[028|23-028|24] ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात् तत्सभागाः /
[028|25] कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः / रूपिणस्तावत्
[028|26] दश भावनया हेयाः पञ्च च
[028|27] विज्ञानधातवः /
[028|28] अन्त्यास्त्रयस्त्रिधा /
[028|29] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च / एते त्रयो धातवः पाठानुपूर्व्या ऽन्त्यास्त्रिप्रकाराः /
[029|01] अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः /
[029|01-029|02] शेषाः सास्रवा भावनाहेयाः /
[029|02] अनास्रवा अहेयाः /
[029|02-029|03] ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म /
[029|03-029|04] आर्यमार्गविरोधित्वात् न तद् दऋशनप्रहातव्यम् /
[029|04] एष हि संक्षेपः /
[029|05] न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःअजं
[029|06] नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् /
[029|06-029|07] अक्लिष्टव्याकृतं च पृथग्जनत्वम् /
[029|07] समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत् रूपं कायवाक्कर्म /
[029|08] तस्मान्न दर्शनप्रहातव्यम् /
[029|08-029|09] सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च /
[029|10] नाप्यषष्टजम् // vakk_1.40 //
[029|11] षष्ठमुच्यते मन आयतनम् /
[029|11-029|12] तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् //
[029|13] अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः /
[029|14] चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः
[029|15] कतमः स इत्याह
[029|16] अष्टधा /
[029|17-029|18] पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग् दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः / तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति /
[029|19-029|20] लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा /
[029|20-029|21] शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी /
[029|21-029|22] समेघामेघरत्रिन्दिवरूपदर्शनवत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् /
[029|22] अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते /
[029|23] यस्मात् /
[029|24] पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् // vakk_1.41 //
[029|25] सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् / न चैवं पञ्चविज्ञानसहाजा प्रज्ञा /
[030|01] तस्माद्सौ न दृष्टिः / अत एव चान्या ऽपि क्लिष्टा ऽक्लिष्टा वा प्राज्ञा न दृष्टिः /
[030|02] चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः / रूपालोचनार्थेन / यस्मात्
[030|03] चक्षुः पश्यति रूपाणि
[030|04] यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनो ऽपि पश्येत् / न वै सर्वं चक्षुः पश्यति / किं तर्हि /
[030|05] सभागं
[030|06] सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति /
[030|06-030|07] एवम् तर्हि तदेव चक्षुराश्रितम् विज्ञानं पश्यतीत्यस्तु /
[030|08] न तदाश्रितम् /
[030|09] विज्ञानं
[030|10] पश्यतीति शस्यमविज्ञातुम् / किं कारणम् /
[030|11] दृश्यते रूपं न किलान्तरितं यतः // vakk_1.42 //
[030|12] यस्मात् किल रूपं कुड्यादिव्यवहितं न दृश्यते /
[030|12-030|13] यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात् कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् /
[030|13-030|14] नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति /
[030|14] किं खलु नोत्पद्यते /
[030|14-030|16] यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात् युज्यते /
[030|16-030|17] किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत् यत आवृतं न पश्येत् /
[030|17] सप्रतिघत्वात् /
[030|17-030|18] काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते /
[030|18] सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् /
[030|19] किं तर्हि /
[030|19-030|20] यत्रालोकस्याप्रतिबन्ध आवृते ऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् /
[030|20-030|21] यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते /
[030|21] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वे"ति /
[030|21-030|22] तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा "मनसा धर्मान् विज्ञाये" त्याह /
[030|22-030|23] न च मनो धर्मान् विजानाति /
[030|23] अतीतत्वात् / किं तर्हि / मनोविज्ञानम् /
[030|23-030|24] आश्रितकर्म वा आश्रयस्योपचर्यते /
[030|24] यथा मञ्चाः क्रोशन्तीति /
[030|24-030|25] यथा च सूत्र उक्तं "चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि"ति /
[030|25] न च तानि चक्षुषा विज्ञायन्ते /
[030|25-030|27] उक्तं च सूत्रे "चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय" इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति / श्
[030|27] दर्शने तत्र द्वाराख्या / नह्येतद्युज्यते / चक्षुर्दार्शनं अरूपाणां दर्श्नायेति /
[031|01] यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः /
[031|01-031|02] यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति /
[031|02-031|03] तद्यथा काचित् प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि /
[031|03] अन्ये पुनराहुः /
[031|03-031|04] "यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः का ऽन्या दृशिक्रिये"ति वक्तव्यम् /
[031|04] तदेतदचोद्यम् /
[031|04-031|05] यदि हि विज्ञानं विजानातीतीष्यते /
[031|05] न च तत्र कर्तृक्रियाभेदः / एवमत्रापि /
[031|05-031|06] अपरे पुनर्ब्रुवते /
[031|06-031|07] "चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते /
[031|07] यथा नादस्याश्रयभावात् घण्टा नदतीत्युच्यते" इति /
[031|07-031|08] ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति /
[031|08] न प्राप्नोति /
[031|08-031|09] तद्विज्ञानं दर्शनमिति रुढं लोके /
[031|09] तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् /
[031|09-031|10] विभाषायामप्युक्तं "चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत" इति /
[030|10-031|11] तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति /
[031|11] विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते /
[031|12] यथा सूर्यो दिवसकर इति / अत्र सौत्रान्तिका आहुः / किमिदमाकाशं खाद्यते /
[031|13] चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् / तत्र कः पश्यति को वा दृश्यते /
[031|14] निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च /
[031|14-031|15] तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते /
[031|15] चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् /
[031|15-031|16] उक्तं हि भगवता "जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि"ति /
[031|16-031|17] एष तु काश्मीरवैभाषिकाणां सिद्धान्तः /
[031|17-031|18] चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति /
[031|19] तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् /
[031|20] नात्र नियमः /
[031|21] उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् /
[031|22] उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः /
[031|22-031|23] तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति /
[031|23-031|24] एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति /
[031|24] नैकतरान्यथीभावात् /
[031|24-031|25] न चाश्रयविच्छेदाद् विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद् रौपवदिति /
[031|26-031|27] यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः /
[032|01] चक्षुःश्रोत्रमनो ऽप्राप्तविषयं
[032|02] तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति / दूराच्छब्दं शृणोति /
[032|02-032|03] सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत /
[032|03] घ्राणादिवत् /
[032|03-032|04] यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च /
[032|04-032|05] कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति /
[032|05] प्राप्तविषयत्वे ऽपि चैतत्समानम् /
[032|05-032|06] कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा /
[032|06-032|07] यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः /
[032|7-03207] सहभूगन्धाद्यग्रहणात् /
[032|07] एवं चक्षुषो ऽप्यप्राप्तः स्यान्न तु सर्वः /
[032|07-032|08] मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् /
[032|08] केचित् पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते /
[032|09] कर्णभ्यन्तरे ऽपि शब्दश्रवणात् / शेषं तु घ्राणजिह्वाकायाख्यम् /
[032|10] त्रयमन्यथा // vakk_1.43 //
[032|11] प्राप्तविषयमित्यर्थः / घ्राणं कथं प्राप्तविषयम् / निरुच्छ्वासस्य गन्धाग्रहणात् /
[032|12] केयं प्राप्तिर्नाम / निरन्तरोत्पत्तिः /
[032|12-032|13] किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न /
[032|13-031|13] न स्पृशन्तीति काश्मीरकाः /
[032|13] किं कारणम् /
[032|13-032|14] यदि तावत् सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि /
[032|14] अथैकदेशेन सावयवाः प्रसज्येरन् /
[032|15] निरवयवाश्च परमाणवः / कथं शब्दाभिनिश्पत्तिर्भवति /
[032|15-032|16] अत एव यदि हि स्पृशेयुर्हस्तो हस्ते ऽभ्याहतः सज्येतो पलश्चोपले / [032|16-032|17] कथं चितं प्रत्याहतं न विशीर्यते /
[032|17] वायुधातुसंधारितत्वात् /
[032|17-032|18] कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित् संधारणाय यथा विवर्त्तन्यामिति /
[032|18-032|19] कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते /
[032|19] तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् /
[032|20] अपिख्लु संघाताः सावयवत्वात् स्पृशन्तीत्यद्वीषः /
[032|20-032|21] एवं च कृत्वा ऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् /
[032|21-032|22] किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह"कारणं प्रति /
[032|22-032|23] कदाचित् स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते /
[032|23] कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति /
[033|01] कदाचित् स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः /
[033|01-033|02] कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज" इति /
[033|02] यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः /
[033|03] न स्पृशन्ति / निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः / भदन्तमतं चैष्टव्यम् /
[033|04] अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत /
[033|04-033|05] यतः सप्रतिघा इष्यन्ते /
[033|05] नच परमाणुभ्यो ऽन्ये संघाता इति /
[033|05-033|06] त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते /
[033|06-033|07] यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः /
[033|07] नो चेत् स्पृष्टस्याप्यप्रसङ्गः //
[033|08-033|09] किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य /
[033|09-033|10] यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः /
[033|11] त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् /
[033|12] यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति /
[033|13] चक्षुःश्रोत्राभ्यां त्वनियमः / कदाचिदल्पीयांसो यदा वालाग्रं पश्यति /
[033|13-033|14] कदाचित् समा यदा द्राक्षाफतं पश्यति /
[033|14-033|15] कदाचित् भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण /
[033|15] एवम् श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् /
[033|15-033|16] मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते /
[033|16] कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः /
[033|17] चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः /
[033|17-033|18] अच्छचर्मावच्छादितास्तु न विकीर्यन्ते /
[033|18-033|19] अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे /
[033|19] न चान्यो ऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् /
[033|19-033|20] श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः /
[033|20] घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् /
[033|20-033|21] आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि /
[033|21] जिह्वेन्द्रियपरमाण्वो ऽर्धचन्द्रवत् /
[033|21-033|22] वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् /
[033|22-033|23] कायेन्द्रियपरमाणवः कायवदवस्थिताः /
[033|23] स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् / पुरुषेन्द्रियपरमाणवो ऽङ्गुष्ठवत् /
[033|24] तत्र चक्षुरिन्द्रियपरमाणवः कदाचित् सर्वे सभागा भवन्ति कदाचित्तत्सभागाः /
[033|24-033|25] कदाचिदेके सभागाः एके तत्सभागाः /
[033|25] एवम् यावज्जिह्वेन्द्रियपरमाणवः /
[033|25-033|26] कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति /
[033|26-033|27] प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति /
[033|27-034|01] सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत /
[034|01] न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति /
[034|01-034|02] संचिताश्रयालम्बनत्वात् पञ्चानां विज्ञानकायानाम् /
[034|02] अत एवानिदर्शनः परमाणुरदृश्यत्वात् //
[034|03-034|04] य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयो ऽपि /
[034|05] नेत्याह /
[034|05-034|-5] किं तर्हि /
[034|06] चरमस्याश्रयो ऽतीतः
[034|07] मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः /
[034|08-034|07] पञ्चानां सहजश्च तैः // vakk_1.44 //
[034|09] अतीतश्चेति चशब्दः /
[034|09-034|10] तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत् कायविज्ञानस्य कायः /
[034|10] अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
