Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[303|22-303|23] रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च /
[303|23] इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् /
[303|23-303|25] तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् /
[303|25-303|26] सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते /
[303|26-304|01] तत् पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् /
[304|01-304|02] तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य /
[304|02-304|05] इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् /
[304|05] अनया वर्तन्या ऽन्यदप्यनुगन्तव्यम् /
[304|05-304|06] यैरनुशयैर्यच्चित्तं सानुशयं ते ऽनुशयास्तस्मिश्चित्ते ऽनुशेरते /
[304|06] स्युरनुशेरते /
[304|06-304|07] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणां /
[304|07] स्युर्नानुशेरते /
[304|07-304|08] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च /
[304|08] तदेवं कृत्वा भवति /
[304|09] द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः /
[304|10-304|11] क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् /
[304|11-304|12] अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति /
[304|13] अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति /
[304|13-304|14] आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति /
[304|14] दुःखमस्मै न रोचते यावत् मार्गस्ततः
[304|15] मोहाकाङ्क्षा
[304|16] मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते / दुःखं न्विदं नत्विदं दुःखमित्येवमादि /
[304|17] ततो मिथ्यादृष्टिः
[304|18] विचिकित्साया मिथ्यादृष्टिः प्रवर्तते /
[304|18-304|19] संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः /
[304|19] नास्ति दुःखमित्येव्मादि /
[304|20] सत्कायदृक्ततः // vakk_5.32 //
[304|21] मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते / दुःखतः स्कन्धानपोह्यात्मतो ऽभिनिवेशात् /
[304|22] ततो ऽन्तग्रहणं
[305|01] सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते / आत्मनः शाश्वतोच्छेदान्तग्रहणात् /
[305|02] तस्माच्छ्हीलामर्शः
[305|03] अन्तग्रहाच्छीलव्रतपरामर्शः /
[305|03-305|04] यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् /
[305|05] ततो दृशः /
[305|06] आमर्श इति वर्तते / शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते /
[305|06-305|07] येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् /
[305|07] ततो /
[305|08] रागः स्वदृष्टौ मानश्च
[305|09] तस्यामभिष्वङ्गात् तया चोन्नतिगमनात् /
[305|10] द्वेषो ऽन्यत्र
[305|11] स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते /
[305|11-305|13] अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् /
[305|14] इत्यनुक्रमः // vakk_5.33 //
[305|15] एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः /
[305|16] उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते /
[305|17-305|18] अप्रहीणादनुशयाद्विषयात् प्रत्युपस्थितात् अयोनिशो मनस्कारात् क्लेशः
[305|19-305|20] तद्यथा रागानुशयो ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते /
[305|20-305|21] तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि /
[305|21] एवमन्यो ऽपि क्लेश उत्पद्यत इति वेदितव्यो यः
[305|22] संपूर्णकारणः // vakk_5.34 //
[306|01] कदाचित्किअल् विषयबलेनैवोत्पद्यन्ते / न हेतुबलेन /
[306|01-306|02] यथा परिहाणधर्मकस्यार्हत इति /
[306|02-306|03] एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवो ऽविद्यास्रव इति /
[306|03-306|04] चत्वार ओघाः कामौघो भवौघो दृष्ट्योभो ऽविद्यौघश्च /
[306|04] चत्वारो योगा एत एव /
[306|04-306|05] चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति /
[306|05] तत्र तावत्
[306|06] कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना /
[306|07] मोहेन
[306|08-306|09] अविद्यां वर्जयित्वा ऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि /
[306|09-306|10] एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि /
[306|11] अनुशया एव रूपारूप्ये भवास्रवः // vakk_5.35 //
[306|12] विना मोहेनेति वर्तते /
[306|12-306|13] रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि /
[306|13] रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा /
[306|14] आरूप्यावचराः षड्विंशतिः / ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च /
[306|15] प्रकरणेषु चोक्तं "भवास्रवः कतमः /
[306|15-306|16] अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि /
[306|16] संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी"ति /
[306|16-306|17] कस्मा दिह तस्याग्रहणम् /
[306|17] अस्वातन्त्र्यादिति काश्मीराः /
[306|18] किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः /
[306|19] अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः /
[306|20] अत एकीकृताः /
[306|21-306|22] ते ह्यूभये ऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः /
[306|22-306|23] येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् /
[306|23] तानि पञ्चदश द्रव्याणि /
[306|23-306|24] किं कारणमसौ पृथग्व्यवस्थाप्यते /
[306|24] सर्वेषां हि तेषां
[307|01] मूलमविद्येत्यास्रवः पृथक् // vakk_5.36 //
[307|02] यथा चैते आस्रवा उक्ता वेदितव्याः
[307|03] तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् / [307|04] कामास्रव एव कामौघः कामयोगश्च /
[307|04-307|05] एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः /
[307|05] ताः किल पटुत्वादोघयोगेषु पृथक् स्थापिताः /
[307|06] नास्रवेष्वसहायानां न किलास्यानुकूलता // vakk_5.37 //
[307|07] आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते /
[307|07-307|08] न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् /
[307|08] अत आस्रवेषु न पृठक् स्थापिताः /
[307|08-307|09] मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि /
[307|09-307|10] रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति /
[307|10] भवौघो ऽष्टाविंसतिद्रव्याणि /
[307|10-307|11] रागमाना विंशतिर्विचिकित्सा ऽष्टौ /
[307|11] दृष्ट्योघः षट्त्रिंशद्द्रव्याणि /
[307|11-307|12] अविद्यौघः पञ्चदश द्रव्याणि /
[307|12] ओघवद् योगा वेदितव्याः /
[307|13] यथोक्ता एव सा ऽविद्या द्विधा दृष्टिविवेचनात् /
[307|14] उपादानानि
[307|15] कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि /
[307|15-307|16] रागप्रतिघमाना ऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि /
[307|16-307|17] भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि /
[307|17] रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ /
[307|18] दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि /
[307|18-307|19] शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् /
[307|19] मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च /
[307|20-307|21] गृहिणो ऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति /
[307|21-307|22] किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् /
[307|22] भवग्रहणादुपादानानि /
[307|23] अविद्या तु ग्राहिका नेति मिश्रिता // vakk_5.38 //
[308|01] असंप्रख्यानलक्षणतया ऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता /
[308|01-308|02] सूत्रे तु भगवतोक्तं "कामयोगः कतमः /
[308|02-308|04] विस्तरेण यावद्यो ऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तम् पर्यादाय तिष्ठति /
[308|04-308|05] अयमुच्यते कामयोगः /
[308|05] एवं यावद्भवयोगः" /
[308|05-308|06] च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति /
[308|07] उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति /
[308|08] अथ को ऽयमनुशयार्थः कश्च यावदुपादानार्थः /
[308|09-308|10] अणवो ऽनुगताश्चैते द्विधा चाप्यनुशेरते / अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः // vakk_5.39 //
[308|11] तत्राणवः सूक्ष्मप्रचारत्वात् दुर्विज्ञानतया / अनुगताः प्राप्त्यनुषङ्गतः /
[308|11-308|12] अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च /
[308|12-308|13] अनुबध्नन्त्यप्रयोगेण प्रतिवारयतो ऽपि पुनः पुनः संमुखीभावात् /
[308|13] एभिः कारणैरनुशया उच्यन्ते /
[308|14-308|15] आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ / उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः // vakk_5.40 //
[308|16] आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैर् इत्यास्रवाः /
[308|17] हरन्तीत्योघाः / श्लेषयन्तीति योगाः / उपगृह्णन्तीति उपदानानि /
[308|17-308|18] एवं तु साधीयः स्याद् /
[308|18] आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः /
[308|18-308|19] "तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते /
[308|19-308|20] सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्या ऽल्पकृच्छ्रेणानुस्रोत उह्यतऽऽ; इति सूत्रवादानुसारात् /
[308|21] अधिमात्रवेगत्वादोघाः / तर्हि तद्वानुह्यते तदनुविधानात् /
[308|21-308|22] नातिमात्रसमुदाचारिणो ऽपि योगा विविधदुःखसंयोजनात् /
[308|22-308|23] आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति /
[308|24] संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः /
[309|01-309|02] त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः /
[309|02-309|03] तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि /
[309|03] तत्रानुनयसंयोजनं त्रैधातुको रागः /
[309|03-309|04] एवमन्यानि यथासंभवम् योज्यानि /
[309|04] दृष्टिसंयोजनं तिस्रो दृष्टयः / परामर्शसंयोजनं द्वे दृष्टी /
[309|05-309|06] अत एवोच्यते स्यात् द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत /
[309|06-309|07] आह स्यात् समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु /
[309|08] तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः /
[309|09-309|10] सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् /
[309|10] दृष्ट्यनुशयश्च तेष्वनुशेते /
[309|10-309|11] ते एव परामर्शडृष्टी संप्रयोगतः /
[309|12-309|13] किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् /
[309|14] द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम् // vakk_5.41 //
[309|15] अष्टादश द्रव्याणि तिस्रो दृष्टयः / अष्टादशैव द्वे परामर्शदृष्टी /
[309|15-309|16] अतः किल द्रव्य सामान्यादेते संयोजनान्तरम् कृते /
[309|16-309|17] एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् /
[309|18-309|19] अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत् पर्यवस्थानम् /
[309|20-309|21] एकान्ताकुशलं यस्मात् स्वतन्त्रं चोभयं यतः / ईष्र्यामात्सर्यमेषूक्तं पृथक् संयोजनद्वयम् // vakk_5.42 //
[309|22-309|23] नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति /
[309|23] यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् /
[309|23-309|24] यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ /
[309|24] तस्मान्न भवत्ययं परिहार इत्यपरे /
[309|24-309|25] पुनरन्यत्र भगवता संयोजनमुक्तम्
[310|01] पञ्चधा ऽवरभागीयं
[310|02] तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति /
[310|03] कस्मादेतान्ववरभागीयान्युच्यन्ते / अवरभागहितत्वात् /
[310|03-310|04] अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि /
[310|04] यस्मात् /
[310|05] द्वाभ्यां कामानतिक्रमः /
[310|06] त्रिभिस्तु पुनरावृत्तिः
[310|07] कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति /
[310|07-310|08] सत्कायदृष्ट्यादिभिरतिक्रान्तो ऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् /
[310|08-310|09] त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् /
[310|09-310|10] अत एव तान्यवरभागीयानीत्यपरे /
[310|10-310|12] यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च /
[310|12] सर्वमेतद्वक्तव्यं स्यात् / किं तूक्तं
[310|13] मुखमूलग्रहात्त्रयम् // vakk_5.43 //
[310|14] त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च /
[310|14-310|15] तेषामेभिस्त्रिभिर्मुखं गृहीतमिति /
[310|15] अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता /
[310|15-310|16] दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता /
[310|16] मूलं गृहीतमिति /
[310|17] अपरे पुनराहुः /
[310|18-310|19] अगन्तुकामतामार्गविभ्रमो मार्गसंशयः / इत्यन्तराया मोक्षस्य गमने ऽतस्त्रिदेशना // vakk_5.44 //
[311|01] त्रयो ऽन्तराया देशान्तरगमने भवन्ति /
[311|01-311|02] अगन्तुकामता मार्गविभ्रमो ऽन्यमार्गसंश्रयणात् मार्गसंशयश्च /
[311|02] एवं मोक्षगमने ऽप्येत एव त्रयोन्तरायाः /
[311|02-311|03] तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति /
[311|03-311|04] शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः /
[311|04] विचिकित्सया मार्गसंशयः /
[311|04-311|06] एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् /
[311|06] यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् / एवं पुनः
[311|07] पञ्चधैवोर्ध्वभागीयं
[311|08] कथमित्याह
[311|09] द्वौ रागौ रूप्यरूपिजौ
[311|10] तौ
[311|11] औद्धत्यमानमोहाश्च
[311|12] इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि /
[311|12-311|13] तद्यथा रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या च /
[311|13] एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् / समाप्तः संयोजनप्रसङ्गः /
[311|14] बन्धनानि कतमानि / त्रीणि बन्धनानि /
[311|14-311|15] रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः /
[311|15] कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता /
[311|16] विद्वशाद् बन्धनत्रयम् // vakk_5.45 //
[312|01] त्रिवेदनावशार्त्तीणि बन्धनानि /
[312|01-312|02] सुखायां हि वेदनायां रागो ऽनुशेते आलम्बनसंप्रयोगाभ्याम् /
[312|02] दुःखायां द्वेषः / अदुःखासुखायां मोहो न तथा रागद्वेषौ /
[312|02-312|03] स्वासांतनिकालम्बनतो वा नियमः /
[312|03] अनुशयाः पूर्वमेवोक्ताः /
[312|04] उपक्लेशाः वक्तव्याः / तत्र ये यावत् क्लेशा उपक्लेशा अपि ते /
[312|04-312|05] चित्तोपक्लेशनात् /
[312|06-312|07] ये ऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः / क्लेशेभ्यस्ते ऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः // vakk_5.46 //
[312|08-312|09] ये ऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः /
[312|09-312|10] इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः /
[312|10] कानि पुनः पर्यवस्थानानीत्याह /
[312|10-312|11] क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् /
[312|11] प्रकरणशास्त्रे तु
[312|12-312|13] आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः / कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा // vakk_5.47 //
[312|14] वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ
[312|15] क्रोधभ्रक्षौ च
[312|16] तत्राह्लीक्यानपत्राप्ये व्याख्याते / परसंपत्तौ चेतसो व्यारोष ईर्ष्या /
[312|16-312|17] धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् /
[312|17] औद्धत्यं चेतसो ऽव्युपशमः /
[312|17-312|18] कौकृत्यं स्त्यानं च व्याख्याते /
[312|18] कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् /
[312|18-312|19] तत्तु क्लिष्टमेव पर्यवस्थानम् /
[312|19] कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः /
[312|20] अवद्यप्रच्छादनं भ्रक्षः / एषां च दशानां पर्यवस्थानानां
[312|21] रागोत्था आह्लीक्यौद्धत्यमत्सराः /
[312|22] एते त्रय उपक्लेशा रागनिःष्यन्दाः /
[313|01] भ्रक्षे विवादः
[313|02] तृष्णानिःष्यनद इत्येके / अविद्यानिःष्यन्द इत्यपरे / उभयोरित्यन्ये /
[313|02-313|03] यथा क्रमं ज्ञाताज्ञातानामिति /
[313|04] अविद्यातः स्त्यानमिद्धानपत्रपाः // vakk_5.48 //
[313|05] एते त्रयो ऽविद्यानिःष्यन्दाः /
[313|06-313|07] कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये /
[313|08] प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः /
[313|09] अन्ये च षट्क्लेशमलाः
[313|10] तद्यथा
[313|11] माया शाठ्यं मदस्तथा // vakk_5.49 //
[313|12] प्रदाश उपनाहश्च विहिंसा चेति
[313|13] तत्र परवञ्चना माया /
[313|13-313|14] चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते /
[313|14] मदः पूर्वोक्तः /
[313|14-313|15] सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति /
[313|15] आघातवस्तुवहुलीकार उपनाहः /
[313|16] विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते /
[313|16-313|17] एषां पुनः षण्णां क्लेशमलानां
[313|18] रागजौ
[313|19] मायामदौ प्रतिघजे उपनाहविहिंसने // vakk_5.50 //
[314|01] दृष्ट्यामर्शात् प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् /
[314|02] "किं कुटिलं पापिका दृष्टिरिति" गाथावचनाद् युज्यते /
[314|02-314|03] शाठ्यं दृष्टिनिःष्यन्दः /
[314|04] क एषां किंप्रहातव्यः / यानि तावत् दश पर्यवस्थानान्युक्तानि
[314|05] तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा // vakk_5.51 //
[314|06] एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् /
[314|06-314|07] यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः /
[314|08] तदन्ये भावनाहेयाः
[314|09] तेभ्यो ऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव /
[314|09-314|10] इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च /
[314|10-314|11] स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् /
[314|11] यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः
[314|12] स्वतन्त्राश्च तथा मलाः /
[314|13] षट्क्लेशमलास्तथैव / एते पुनर्यथोक्ता उपक्लेशाः
[314|14] कामे ऽशुभाः
[314|15] कामधातावकुशलाः / तत्रापि
[314|16] त्रयो द्विधा
[314|17] स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि /
[314|18] परेणाव्याकृतास्ततः // vakk_5.52 //
[314|19] कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् /
[315|01] कति पुनरेषां कुतस्त्या वेदितव्याः /
[315|02] माया शाठ्यं च कामाद्यध्यानयोः
[315|03] एतौ द्वौ कामधातौ प्रथमे च ध्याने / कथं ब्रह्मलोके मायाः /
[315|04] ब्रह्मवञ्चनात् /
[315|05-315|06] स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः /
[315|06] उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् /
[315|07] स्त्यानौद्धत्यमदा धातुत्रये
[315|08] एते त्रयस्त्रैधातुकाः /
[315|09] अन्ये कामधातुजाः // vakk_5.53 //
[315|10] षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव /
[315|10-315|11] उक्ता क्लेशाः उपक्लेशाश्च /
[315|12] अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः / संक्षेपतः
[315|13] समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः /
[315|14-315|15] दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि /
[315|15] ते हि सकले मनोभूमिके /
[315|16] उपक्लेशाः स्वतन्त्राश्च
[315|17-315|18] ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः /
[315|19] षड्विज्ञानाश्रयाः परे // vakk_5.54 //
[315|20] अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः / के पुनरन्ये /
[316|01] भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः /
[316|01-316|02] आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि /
[316|02] ये च क्लेशमहाभूमिकेषूक्ताः /
[316|03-316|04] यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः /
[316|05] सुखभ्यां संप्रयुक्तो हि रागः
[316|06] सुखसौमनस्याभ्यां रागः संप्रयुक्तः /
[316|07] द्वेषो विपर्ययात् /
[316|08] दुःखाभ्यामित्यर्थः / दुःखेन दौर्मनस्येन च /
[316|08-316|09] हर्षदैन्याकारवर्तित्वात् षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः /
[316|10] मोहः सर्वैः
[316|11] अविद्यायाः सर्वक्लेशसंप्रयोगित्वात् पञ्चभिरपीन्द्रियैः संप्रयोगः /
[316|12] असद्दृष्टिर्मनोदुःखसुखेन तु // vakk_5.55 //
[316|13] मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च /
[316|13-316|14] ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् /
[316|15] दौर्मनस्येन काङ्क्षा
[316|16] संशयितो हि निश्चयेनार्थी दुर्मनायते /
[316|17] अन्ये सौमनस्येन
[316|18] अन्ये ऽनुशयाः सौमनस्येनैव संप्रयुक्ताः / के पुनरन्ये / चतस्रो दृष्टनो मानश्च /
[316|19] हर्षाकारवर्तित्वात् / किंप्रतिसंयुक्ता इमे ऽनुशया निर्दिष्टाः / आह /
[316|20] कामजाः /
[317|01] एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह
[317|02] सर्वे ऽप्युपेक्षया
[317|03] सर्वे ऽप्येते ऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः /
[317|03-317|04] प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते /
[317|04] अधोभूमिकाः कथमित्याह
[317|05] स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः // vakk_5.56 //
[317|06] स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते / यस्यां भूमौ यावन्तीन्द्रियाणि /
[317|07-317|08] तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् /
[317|08] उक्तः क्लेशानामिन्द्रियसंप्रयोगः /
[317|09] उपक्लेशानां पुनः
[317|10] दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् /
[317|11] उपनाहं प्रदाशश्च
[317|12] संप्रयुक्तानीति वर्तते / दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च /
[317|13] मात्सर्यं तु विपर्ययात् // vakk_5.57 //
[317|14] सौमनस्येनेत्यर्थः / लोभान्वयत्वेन हर्षाकारवर्तित्वात् /
[317|15] माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा
[317|16] सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते / कदाचिद्धि सुमनाः परं वञ्चयते /
[317|16-317|17] कदाचिद्दुर्मनाः /
[317|17] एवं यावत् स्वपिति /
[317|18] मदः /
[317|19] सुखाभ्याम्
[318|01] तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया / यस्मात्
[318|02] सर्वगोपेक्षा
[318|03] अतस्तया सर्वे ऽनुशयाः संप्रयुज्यन्ते /
[318|03-318|04] न हि तस्याः क्वचित् प्रतिषेधो यथा ऽविद्यायाः /
[318|05] चात्वार्यन्यानि पञ्चभिः // vakk_5.58 //
[318|06-318|07] आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते /
[318|07] अकुशलमहाभूमिकत्वात् क्लेशमहाभूमिकत्वाच्च /
[318|08-318|09] यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च /
[318|09-318|10] तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते /
[318|10] अथ कामप्रतिसंयुक्ता एव /
[318|10-318|11] "केवलो ऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी"त्येकान्ताकुशलत्ववचनात्सूत्रे /
[318|12] कामे निवरणानि
[318|13] नान्यत्र धातौ /
[318|13-318|14] किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् /
[318|15] एकविपक्षाहारकृत्यतः /
[318|16] द्व्येकता
[318|17] द्वयोरेकता द्व्येकता / विपक्षः प्रतिपक्षो ऽनाहार इत्येको ऽर्थः /
[318|17-318|18] स्त्यानमिद्धयोरेक आहारः सूत्रे ऽनाहारश्च /
[318|18] कः स्त्यानमिद्धनिवरणस्याहारः / पञ्च धर्माः /
[318|19] तन्द्रा अरतिर्विजृम्भिका भक्ते ऽसमता चेतसो लीनत्वमिति /
[318|19-318|20] अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति /
[318|20] कृत्यमनयोरप्येकम् /
[318|20-319|01] उभे अपि ह्येते चित्तं लयं चोदयतः /
[319|01] औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः /
[319|02] कश्चौद्धत्यकौकृत्यनिवरणस्याहारः / चत्वारो धर्माः /
[319|02-319|03] ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति /
[319|04] कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः / शमथ इति / कृत्यमप्यनयोरेकम् /
[319|04-319|05] उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः /
[319|05-319|06] अत एकविपक्षाहारकृत्यत्वात् द्वयोरप्येकत्वमुक्तम् /
[319|06] यदि सर्वक्लेशा निवरणं कस्मात् पञ्चैवोक्तानि /
[319|07] पञ्चता स्कन्धविधातविचिकित्सनात् // vakk_5.59 //
[319|08] कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः /
[319|08-319|10] स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि /
[319|10-319|11] एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति /
[319|11] अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे /
[319|12] समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् / धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति /
[319|13] अन्ये त्वन्यथा वर्णयन्ति / कथं वर्णयन्ति /
[319|13-319|15] चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितो ऽन्तरायं कुरुतः /
[319|15-319|17] ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात् स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः /
[319|17] व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति /
[319|18] अतः पञ्च निवरणान्युक्तानि /
[319|19] इदं विचार्यते /
[319|19-319|20] विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते /
[319|20-319|21] यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् /
[319|21-319|22] नावश्यमालम्बनपरिज्ञानात् क्लेशानां क्षयो भवति /
[319|22] किम् तर्हि / चतुर्भिः प्रकारैः / कतमैश्चतुर्भिः /
[319|22-319|23] दर्शनहेयानां तावत्
[319|24] आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् /
[319|25] आलम्बनग्रहाणाच्च
[319|26-319|27] तत्रालम्बनपरिज्ञानाद् दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च /
[319|27] तदालम्बनसंक्षयाद् विसभागधातुसर्वत्रगाणाम् /
[319|27-320|01] तदालम्बना हि सभागधातुसर्वत्रगाः /
[320|01] तेषु प्रहीणेषु ते ऽपि प्रहीणा भवन्ति /
[320|01-320|02] आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् /
[320|02-320|03] ते ह्यनास्रवालम्बनास्तेषामालम्बनम् /
[320|03] अतस्तेषु प्रहीणेषु ते ऽपिप्रहीणा भवन्ति / भावनाहेयानां पुनः
[320|04] प्रतिपक्षोदयात् क्षयः // vakk_5.60 //
[320|05] यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते /
[320|05-320|06] कस्य पुनः कः प्रतिपक्षः /
[320|06] अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात् प्रवेदयिष्यामः /
[320|07] कतिविधश्च प्रतिपक्ष इत्याह
[320|08] प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः /
[320|09] प्रतिपक्षः
[320|10] प्रहाणप्रतिपक्षः आनन्तर्यमार्गः /
[320|10-320|11] आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते /
[320|11-320|12] दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् /
[320|12] विमुक्तिमार्गो ऽपीत्यपरे / सो ऽपि हि तां प्राप्ति दूरीकरोति /
[320|13] विदूषणाप्रतिपक्षो येन मार्गेण तं धातुम् दोषतो दर्शनाद्विदूषयति /
[320|13-320|14] अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् /
[320|14] विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः /
[320|15] प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः / आधारप्रतिपक्षो विमुक्तिमार्गः /
[320|15-320|16] दूरीभावप्रतिपक्षो विशेषमार्ग इति /
[320|17] प्रहीयमाणः क्लेशः कुतः प्रहातव्यः /
[320|18] प्रहातव्यः क्लेश आलम्बनात् मतः // vakk_5.61 //
[320|19] न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते /
[320|19-320|20] यस्मान्न पुनस्तदालम्ब्योत्पद्यते /
[320|20-320|21] अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् /
[320|21] अतीतस्तु कथम् / अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः /
[321|01] एषो ऽपि नैकान्तः / तस्माद्वक्तव्यमेतत् / कियता क्लेशः प्रहीणो वक्तव्यः /
[321|01-321|02] स्वासंतानिकः प्राप्तिच्छेदात् /
[321|02-321|03] पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् /
[321|04] दूरीभाव इत्युच्यते / कतिविध्हो दूरीभावः / चतुर्विधा किल दूरता /
[321|05-321|06] वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः / भूतशीलप्रदेशाध्वद्वयानामिव दूरता // vakk_5.62 //
[321|07] विलक्षणदूरता यथा महाभूतानाम् / वैलक्षण्यात्सहजानामपि दूरता /
[321|07-321|08] विपक्षदूरता यथा शीलस्य दौःशील्यम् /
[321|08-321|09] देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिमसमुद्रवत् /
[321|09] कालदूरता यथा अतीतानागतदूरमुच्यते / दुतस्तद्दूरम् /
[321|10] वर्तमानात् / यदनन्तरातमुत्पद्यमानं वा तत् कथं दूरम् /
[321|10-321|11] अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन /
[321|11] वर्तमानमप्येवं दूरं प्राप्नोति / अकारित्रा त्तर्हि तद्दूरम् /
[321|12] असंस्कृतस्य कथमन्तिकत्वं सिध्यति / सर्वत्र तत्प्राप्तेः /
[321|12-321|13] अतीतानागते ऽपि तत्प्रसङ्गः /
[321|13] आकाशं च कथम् /
[321|13-321|14] एवं तर्ह्यतीतानागतमन्यो ऽन्यं वर्त्तमानव्यवहितत्वाद् दूरम् /
[321|14] वर्त्तमानमुभयो रासन्नत्वादन्तिकम् /
[321|14-321|15] असंस्कृतं चाप्यव्यवहितत्वादिति /
[321|15] एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति /
[321|15-321|16] एवं तु युक्तं स्यात् /
[321|16] धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् / अतीतं च प्रच्युतत्वादिति /
[321|17] किम् मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति / नैतदस्ति /
[321|18] सर्वेषां हि क्लेशानां
[321|19] सकृत् क्षयः
[321|20] यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः /
[321|21] विसंयोगलाभस्तेषां पुनः पुनः /
[322|01] कतिषु कालेष्वित्याह षट्सु कालेषु /
[322|02] प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु // vakk_5.63 //
[322|03] प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः / फलानि चत्वारि श्रामण्यफलानि /
[322|04] इन्द्रियविवृद्धिरिन्द्रियसंचारः / एतेषु कालेषु क्लेशस्य विसंयोगलाभः /
[322|04-322|05] स पुनरेष यथायोगं द्रष्टव्यः /
[322|05] केषाञ्चित् षट्सु कालेषु केषाञ्चिद् यावद्द्वयोः /
[322|06] स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते /
[322|06-322|07] द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च /
[322|07] तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् /
[322|07-322|08] प्रहाणपरिज्ञा तु प्रहाणमेव /
[322|08] फले हेतूपचारात् / किमेकैव परिज्ञा सर्वप्रहाणम् / नेत्याह / किं तर्हि /
[322|09] परिज्ञा नव
[322|10] तत्र तावत्
[322|11] कामाद्यप्रकारद्वयसंक्षयः /
[322|12] एका
[322|13-322|14] कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा /
[322|15] द्वयोः क्षये द्वे ते
[322|16] कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा /
[322|16-322|17] मार्गदर्शनहेयस्यैका /
[322|17] यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः
[322|18] तथोर्ध्वं निस्र एव ताः // vakk_5.64 //
[322|19] रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति /
[322|19-322|21] दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट् परिज्ञा भवन्ति /
[323|01] अन्या अवरभागीयरूपसर्वास्रवक्षयाः /
[323|02] तिस्रः परिज्ञाः
[323|03] अवरभागीयप्रहाणमेका परिज्ञा / रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा /
[323|04] आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा /
[323|04-323|05] कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक् परिज्ञा न दर्शनहेयानाम् /
[323|05-323|06] भावनाहेयानामतुल्यप्रतिपक्षत्वात् /
[323|06] इत्येता नव परिज्ञाः / आसां पूर्विकाः
[323|07] षट् क्षान्तिफलं
[323|08] या एव दर्शनहेयप्रहाणस्वभावाः /
[323|09] ज्ञानस्य शेषिताः // vakk_5.65 //
[323|10] अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् /
[323|11] कथं क्षान्तिफलं परिज्ञा भवन्ति / क्षान्तीनां ज्ञानपरिवारत्वात् /
[323|11-323|12] राजपरिवारे राजोपचारवत् /
[323|12] ज्ञानैकफलत्वाच्च /
[323|13] अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा /
[323|14] अष्टौ
[323|15-323|16] वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः /
[323|16] कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात् भदन्तघोषकस्य मतेनाष्टौ /
[323|17] स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति /
[323|18] अनास्रवविसंयोगप्राप्तिलाभात् / अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव /
[323|19] ध्यानान्तरं ध्यानवद्द्रष्टव्यम् / आरुप्याणां तु
[323|20] सामन्तकस्यैका
[323|21] आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् /
[324|01] मौलारूप्यत्रयस्य च // vakk_5.66 //
[324|02] मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् /
[324|03] आर्यमार्गस्य सर्वाः
[324|04] नव परिज्ञाः फलम् /
[324|05] द्वे लौकिकस्य
[324|06] लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् /
[324|07] अन्वयस्य च /
[324|08] अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे /
[324|09] धर्मज्ञानस्य तिस्रस्तु
[324|10] पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् /
[324|11] षट् तत्पक्षस्य पञ्च च // vakk_5.67 //
[324|12] धर्मज्ञानपक्षस्य षट् परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् /
[324|12-324|13] अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् /
[324|13] पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते /
[324|14] कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते /
[324|14-324|15] यस्मात् क्षान्तिफलं तावत् प्रहाणं व्यवस्थाप्यते /
[324|16] अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः /
[324|17] हेतुद्वयसमुद्घातात् परिज्ञा
[324|18] यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते /
[324|18-325|01] पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते /
[325|01] आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् /
[325|01-325|02] तत्र यावत् दुःखे ऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् /
[325|02-325|03] दुःखे ऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः /
[325|03-325|04] समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् /
[325|04] अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति /
[325|04-325|05] अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते /
[325|05] ज्ञानफलं तु प्रहाणम् / अतश्च कारणत्रयात् परिज्ञाख्यां लभते /
[325|06] चतुर्थाच्च
[325|07] धात्वतिक्रमात् // vakk_5.68 //
[325|08] यदा धातुं समतिक्रामति /
[325|08-325|09] कृत्स्नधातुवेराग्यात् उभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे /
[325|09-325|10] यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति /
[325|10-325|11] स तु नास्य उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः /
[325|12] कः कतिभिः परिज्ञाभिः समन्वागतः /
[325|13] नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः /
[325|14] पृथग्जनस्तावन्नैव समन्वागतः /
[325|14-325|15] आर्यो ऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः /
[325|15] समुदये धर्मज्ञान एकया समन्वागतः /
[325|15-325|16] समुदये ऽन्वयज्ञाने द्वाभ्याम् /
[325|16-325|17] निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः /
[325|18] भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा // vakk_5.69 //
[325|19-325|20] भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत् कामवैराग्यं न प्राप्तः /
[325|20-325|21] परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वा एकया ऽवरभागीयप्रहाणपरिज्ञया /
[325|21-325|22] अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया /
[325|22-325|23] परिहीणो ऽपि रूपावचरेण पर्यवस्थानेनैकया ऽवरभागीयप्रहाणपरिज्ञया /
[325|23-325|24] रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् /
[325|24] प्रहीणो ऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव /
[325|24-325|25] किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः /
[325|25-325|01] यस्मात्
[326|01] तासां संकलनं धातुवैराग्यफललाभतः /
[326|02-326|03] द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात् फलप्राप्तितश्च /
[326|03] तयोश्चावस्थयोरेतदुभयं भवति /
[326|03-326|04] अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते /
[326|05] अथ कः कति परिज्ञास्त्यजति लभते वा /
[326|06] एकां द्वे पञ्च षट् कश्चिज्जहात्याप्नोति पञ्च न // vakk_5.70 //
[326|07] एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः /
[326|07-326|08] द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः /
[326|08-326|09] पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने /
[326|09-326|10] स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति /
[326|10] षट् परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् / लाभे ऽप्येवमेव /
[326|10-326|11] कश्चिदेकां परिज्ञां लभते /
[326|11] यः कश्चिदपूर्वा लभते /
[326|11-326|12] कश्चिद् द्वे यः केवलादारूप्यधातुवैराग्यात् परिहीयते /
[326|12] कश्चित् षट् यो ऽनागामिफलात् परिहीयते /
[326|12-326|13] पञ्च तु नै कश्चिल्लभते /
[326|14] समाप्तः परिज्ञाप्रसङ्गः //
=====================================================================
[326|15-326|16] अभिधर्मकोशभाष्ये ऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्त्मिति //
[326|17] श्रीलामावाकस्य यदत्र पुण्यम् /
षष्ठं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[327|03] उक्तं यथा प्रहाणं परिज्ञाख्यां लभते / तदपि च
[327|04] क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् /
[327|05] दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् /
[327|05-327|06] ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् /
[327|06] अत इदमुच्यते
[327|07] द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः // vakk_6.1 //
[327|08] द्विधो भवनामार्गो लौकिकोक् लोकोत्तरश्च /
[327|08-327|09] दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् /
[327|09] नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च /
[327|09-327|10] न हि लौकिकस्य एषा शक्तिरस्ति /
[327|11] सत्यदर्शनादित्युक्तम् / कानीमानि सत्यानि कति च /
[327|12] सत्यान्युक्तानि चत्वारि
[327|13] ववोक्तानि / सास्रवानास्रवधर्मनिर्देशे /
[327|13-327|15] "अनास्रवा मार्गसत्यमि"ति स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोग" इति निरोधसत्यं "दुःखं समुदयो लोक" इत्यत्र दुःखसमुदयसत्ये /
[327|15] किमेष एवैषामनुक्रमः / नेत्याह / किं तर्हि /
[327|16] दुःखं समुदयस्तथा /
[327|17] निरोधमार्ग इति
[327|18] एष एषामनुक्रमः / स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः /
[327|18-327|19] स पुनरयम्
[327|20] एषां यथा ऽभिसमयं क्रमः // vakk_6.2 //
[328|01] यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः /
[328|01-328|02] इतरथा हि पूर्वं हेतुनिर्देशो ऽभविष्यत् पश्चात् फलनिर्देशः /
[328|02] केषाञ्चिदुत्पत्त्यनुकूला देशनाः /
[328|03] यथा स्मृत्युपस्थानध्यानादीनाम् /
[328|03-328|04] देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक् प्रहाणानाम् /
[328|04] न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति /
[328|04-328|05] पश्चादनुत्पन्नानामनुत्पादायेति /
[328|05] सत्यानां त्वभिसमयानुकूला देशना /
[328|05-328|06] किं पुनः कारणमेवमेषां सत्यानामभिसमयः /
[328|06-328|07] यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते /
[328|07-328|08] पश्चात्को ऽस्य हेतुरिति समुदयसत्यं को ऽस्य निरोध इति निरोधसत्यं को ऽस्य मार्ग इति मार्गसत्यम् /
[328|08-328|09] व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् /
[328|09] सूत्रे ऽप्येष एव सत्यानां दृष्टान्तो दर्शितः /
[328|10] कतमस्मिन् सूत्रे / "चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते"त्यत्र /
[328|10-328|11] यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः /
[328|11-328|12] पूर्ववेधात् /
[328|12] दृष्टभूमिनिःसंगाश्वधावनवत् / अभिसमय इति को ऽर्थः /
[328|12-328|13] अभिसंबोध इणो बोधनार्थत्वात् /
[328|13] करमादनास्रव एव न सास्रवः / स हि निर्वाणाभिमुखः सम्यक्बोधः /
[328|14] सम्यगिति तत्त्वेन / तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् /
[328|15] हेतुभूताः समुदयसत्यम् / समुदेत्यस्मादिति कृत्वा /
[328|15-328|16] अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः /
[328|16] निरोधमार्गयोस्तु द्रव्यतो ऽपि /
[328|16-328|17] आर्यसत्यानीति सूत्र उच्यन्ते /
[328|17] को ऽस्यार्थः /
[328|17-328|18] आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् /
[328|18] किमन्येषामेतानि मृषा / सर्वेषामेतानि सत्यान्यविपरीतत्वात् /
[328|18-328|19] आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः /
[328|19-328|20] अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् /
[328|21-328|22] "यदार्याः सुखतः प्राहुस्तत् परे दुःखतो बिदुः / यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः //"
[328|23] इति गाथा / द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे /
[328|23-328|24] यथा वेदनैकदेशो दुःखस्वभावः /
[328|24] कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते /
[328|25-328|26] दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः / मनाषा अमनापाश्च तदन्ये चैव सास्रवाः // vakk_6.3 //
[329|01] तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च /
[329|01-329|02] ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः /
[329|02] तत्र मनाषा विपरिणामदुःखतया /
[329|03] अमनाषा दुःखदुःखतया / तेभ्यो ऽन्ये संस्कारदुःखतया /
[329|03-329|04] के पुनर्मनापाः के ऽमनाषाः के क्नोभयथा /
[329|04-329|05] तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयो ऽपि संस्कारा मनापादिसंज्ञां लभन्ते /
[329|05-329|06] सुखाया हि वेदनाया विपरिणामेन दुःखता /
[329|06-329|07] सूत्र उक्तं "सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्"ति /
[329|07] दुःखायाः दुःखस्वभावेनैव दुःखता /
[329|07-329|08] "दुःखा वेदना उत्पाददुःखा स्थितिदुःखा" इति सूत्रे /
[329|08] अदुःखासुखावेदनायाः संस्कारेणैव दुःखता /
[329|09] "प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि"ति /
[329|09-329|10] वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते /
[329|10] दुःखमेव दुःखता दुःखदुःखता / एवं यावत् संस्कारा एव दुःखतेत्यपरे /
[329|11] असाधारणत्वात् मनाषा ऽमनापानां विपरिणामदुःखदुःखते उक्ते /
[329|11-329|12] सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः /
[329|12] तांस्त्वार्या एव पश्यन्ति //
आह चात्र /
[329|13-329|16] "ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च / करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि"ति //
[329|17-329|18] न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति /
[329|18] एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः /
[329|19] संस्कृतत्वात् / प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् /
[329|19-329|20] न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् /
[329|20-329|21] यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य /
[329|21-329|22] यदापि दुःखमप्यत्रास्ति तस्मात् दुःखमेवार्यसत्यमुच्यते /
[329|22-329|23] सुखस्याल्पत्वात् मूद्गादिभावे ऽपि माषराश्यपदेशवदित्येके /
[329|23-329|24] को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् /
[329|24] आह खल्वपि
[329|25-329|26] "दुःखस्य च हेतुत्वात् दुःखैश्चानल्पकैः समुदितत्वात् / दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति" इति //
[330|01] सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति / संस्कारदुःखतैकरसत्वात् /
[330|01-330|02] अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् /
[330|02-330|03] कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति /
[330|03] अनित्यतया प्रतिकूलत्वात् / यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति /
[330|04] न चतान्येवं दुःखानि यथा दुःखवेदनेति / यस्तु मन्यते दुःखहेतुत्वादिति /
[330|05] तस्यासौ समुदयाकारः स्यान्न दुःखकारः /
[330|05-330|06] आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत /
[330|06-330|07] न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति /
[330|07] संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् /
[330|07-330|08] यदि तर्ह्यनित्यत्वात् दुःखतःपश्यन्ति /
[330|08] अनित्यदुःखाकारयोः कः प्रतिविशेषः /
[330|08-330|09] उदयव्ययधर्मित्वादनित्यं पश्यन्ति /
[330|09] प्रतिकूलत्वात् दुःखम् /
[330|09-330|10] अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति /
[330|10-330|11] नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा /
[330|11] कथमिदं गम्यते / सूत्राद्युक्तितश्च / कथं तावत्सूत्रात् /
[330|11-330|12] उक्तं हि भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति /
[330|12-330|13] "दुःखा वेदना दुःखतो द्रष्टव्ये"ति /
[330|13] "दुःखे सुखमिति संज्ञाविपर्यास" इति / एवं तावत्सूत्रात् / कथं युक्तितः /
[330|14] सुखहेत्वव्यवस्थानात् /
[330|14-330|15] य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते /
[330|15-330|17] न च युक्ता सुखहेतुबृद्धच्या समेन वा ऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य /
[330|17] अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति /
[330|17-330|18] एवमीर्यापथविकल्पे ऽपि वक्तव्यम् /
[330|18] दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च /
[330|18-330|20] न हि तावत् सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण /
[330|20-330|21] तस्मात् प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः /
[330|22] तस्मान्नास्त्येव सुखमिति / अस्त्येवेत्याभिवार्मिकाः / एष एव चन्यायः /
[330|22-330|23] कथं कृत्वा /
[330|23] इदं हि तावदयं प्रष्टव्यः सुखापवादी / किमिदं दुःखं नाम /
[330|23-330|24] यद्वाधनात्मकं चेत् /
[330|24] कथमिति वक्तव्यम् / उपघातकं चेत् / अनुग्राहकं सुखमिति सिद्धम् /
[330|24-330|25] अनभिप्रेतं चेत् /
[330|25] अभिप्रेतं सुखमिति सिद्धम् /
[330|25-330|26] तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले /
[330|26] तस्मादनिष्पनमभिप्रेतत्वं चेत् / न / अन्यथा ऽनभिप्रेतत्वात् /
[330|27] या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति /
[330|27-331|02] तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति /
[331|02] न तु खलु स्वलक्षणाकारेण /
[331|03-331|04] यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः /
[331|04] तस्मादस्त्येव स्वलक्षणतः सुख वेदना //
[331|05-331|07] यत्तु भगवतोक्तं "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति तद्भगवतैव नीतार्थं "संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति /
[331|07-331|08] अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति /
[331|08-331|09] यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् /
[331|09] तिस्र इमे वेदना उक्ता भगवता सुखा दुःखा ऽदुःखासुखा च /
[331|10] उक्तं चेदं भगवता "यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये"ति /
[331|10-331|11] किं नु संधाय भगवता भाषितम् यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति /
[331|11-331|12] एवं हि सो ऽप्रक्ष्यत् किं नु संधाय भाषितं तिस्रो वेदना इति /
[331|12] भगवानष्येव व्याकरिष्यत् /
[331|12-331|13] इदं मया संधाय भाषितं तिस्रो वेदना इति /
[331|13] न त्वेवमाह / तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः /
[331|14-331|15] इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति /
[331|15] यदष्युक्तं "सुखा वेदना दुःखेति द्रष्टव्ये"ति / उभयं तस्यामस्ति /
[331|15-331|16] सुखत्वं च स्वभावतोमनापत्वाद् दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् /
[331|16-331|17] सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् /
[331|17-331|18] दुःखतो दृश्यमाना मोक्षाय कल्पते /
[331|18] तद्वैराग्यादिति /
[331|18-331|19] यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः /
[331|19] कथमिदं गम्यते स्वभावतः सा सुखेति / य दाह
[331|20-331|21] "संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् / वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति" //
[331|22] यदपि चोक्तं "दुःखे सुखमिति संज्ञाविपर्यास" इति / आभिप्रायिक एष निर्देशः /
[331|23] लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च /
[331|23-331|24] तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः /
[331|24] एवमुपपत्तिम् /
[331|25] तस्मान्नातः सुखवेदना ऽभावसिद्धिः /
[331|25-331|26] यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत् तिस्रो वेदना इति वचने कोगुणो ऽभविष्यत् /
[331|26-332|01] लोकानुवृत्त्येति चेत् न /
[332|01-332|02] सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात् यथाभूतवचनाच्च /
[332|02-332|04] "यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये" ति विस्तरेणोक्त्वा "येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक् प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती" त्येवमादि /
[332|04-332|05] लोको ऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् /
[332|05] मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् / न /
[332|06] सुखस्यापि त्रिविधत्वात् मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् /
[332|06-332|08] यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति /
[332|08-332|09] अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् /
[332|09] अशेषदुःखापगमात् / एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् /
[332|10-332|11] कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रो ऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति /
[332|11] त्रिषु च ध्यानेषु सुखवचनात् मृदु दुःखं स्यात् /
[332|11-332|12] ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् /
[332|12-332|14] उक्तं च भगवता "रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि"त्येवमादि /
[332|14] तस्मादप्यस्ति किञ्चित्सुखम् /
[332|14-332|15] एवं तावन्न सूत्रात्सुखवेदना ऽभावः सिध्यति /
[332|15] यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् / हेत्वपरिज्ञानादिदमुच्यते /
[332|16] आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा / न केवलो विषयः /
[332|17-332|18] स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः /
[332|18-332|20] तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः /
[332|20-332|21] ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः /
[332|21-332|22] यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः /
[332|22-332|23] यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् /
[332|23-332|24] ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि /
[332|24-332|25] भावसंचारे ऽपि चावस्थान्तरजं सुखमेवोत्पद्यते /
[332|25] यावदसौ तादृशी कायावस्था ऽन्तर्घीयते /
[332|25-332|26] अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् /
[332|26] एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् /
[332|27] "अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित" इति
[333|01] चेत् / कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् /
[333|01-333|02] तस्मादस्त्येव सुखा वेदनेति सिद्धम् /
[333|02] त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति /
[333|02-333|03] यत्तु समुदयसत्यं तदेवोच्यते /
[333|03] इदमुत्सूत्रम् सूत्रे हि तृष्णैवोक्ता / प्रधान्यादसौ सूत्र उक्ता /
[333|03-333|04] अन्ये ऽपि तु समुदयः /
[333|04] कथमिदं प्रत्येतव्यम् / अन्यत्रान्यस्यापि वचनात् / उक्तं हि भगवता /
[333|05] "कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय" इति /
[333|06] पुनश्चोक्तं "पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् /
[333|07] पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि"ति /
[333|07-333|08] तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे /
[333|08-333|09] अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता /
[333|09-333|10] उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता /
[333|10-333|11] "कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय" इति सूत्रे वचनात् /
[333|11-333|12] सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽष्युक्ताः /
[333|12] का पुनरुषपत्तिः का चाभिनिर्वृत्तिः /
[333|12-333|13] धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः /
[333|13] अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः /
[333|14] तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः /
[333|14-333|15] तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः /
[333|15] आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः /
[333|16] तृष्णा ऽभिनिर्वृत्तिहेतुरिति का ऽत्र युक्तिः / वीततृष्णस्य जन्माभावात् /
[333|16-333|17] उभये ऽपि ब्रियन्ते /
[333|17] सतृष्णा वीततृष्णाश्च / सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति /
[333|18] विना तृष्णया जन्माभावात् / भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः /
[333|18-333|19] संततिनमनाच्च /
[333|19] यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः /
[333|19-333|20] तस्मात् पुनर्भवे ऽष्येवमिति व्यवस्यामः / [333|20-333|21] न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया /
[333|21] शुष्कमसूरोपस्नानलेपाङ्गवत् /
[333|21-333|22] न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः /
[333|23] चत्वार्यपि सत्यान्युक्तानि भगवता /
[333|23-333|24] द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च /
[333|24] तयोः किं लक्षणम् /
[334|01-334|02] यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् / घटार्थवत्संवृतिसत् परमार्थसदन्यथा // vakk_6.4 //
[334|03] यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् / तद्यथा घटः /
[334|04] तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति /
[334|04-334|05] तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् /
[334|05] तद्यथाम्बु /
[334|05-334|06] तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति /
[334|06-334|07] तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात् घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् /
[334|07-334|08] अतोन्यथा परमार्थ सत्यम् /
[334|08] तत्र भिन्ने ऽपोइ तद्बुधिर्भवत्येव /
[334|08-334|09] अन्यधर्मापोहे ऽपि बुद्धच्या तत् परमार्थसत् /
[334|09] तद्यथा रूपम् /
[334|09-334|10] तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव /
[334|10] एवं वेदनादयो ऽपि द्रष्टव्याः /
[334|10-334|11] एतत् परमार्थेन भावात् परमार्थसत्यमिति /
[334|11-334|12] यथा लोकोत्तरेन ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् /
[334|12-334|13] यथान्येन तथा संवृतिसत्यम् इति पूर्वाचार्याः /
[334|13] उक्तानि सत्यानि /
[334|14] कथं पुनस्तेषां दर्शनं भवति / वक्तव्यम् / अत आदिप्राथानमारभ्योच्यते /
[334|15] वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते /
[334|16] सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति /
[334|16-334|17] ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि /
[334|17-334|18] श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते /
[334|18] समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते /
[334|18-334|19] चिन्तामयीं निश्रित्य भावनामयी जायते /
[334|20] किं पुनरासां प्रज्ञानां लक्षणम् /
[334|21] नामोभयार्थविषया श्रुतमय्यादिका धियः // vakk_6.5 //
[334|22] नामालम्बना किल श्रुतमयी प्रज्ञा / नामार्थालम्बना चिन्तामयी /
[334|22-334|23] कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् /
[334|23] अर्थलम्वनैव भावनामयी /
[334|24] सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते /
[334|24-335|01] तद्यथा ऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति /
[335|01] कियच्छिक्षितः कदाचित् मुञ्चेत् कदाचिदालम्वते /
[335|01-335|02] सुशिक्षिता प्लवन् निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः /
[335|02-335|03] अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे /
[335|03-335|04] याहि नामालम्बना श्रुतमयी प्राप्नोति या ऽर्थालम्बना भावनामयीति /
[335|04-335|05] इदं तु लक्षणं नानिरवद्यं विद्यते /
[335|05] आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी / युक्तिनिध्यानजश्चिन्तामयी /
[335|06] समाधिज्जो भावनामयीति / हेतौ मयट्विधानात् /
[335|06-335|07] यद्यथा ऽन्नमयाः प्राणाः तृणमय्यो गायः इति /
[335|08] तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह /
[335|09] व्यपकर्षद्वयवतः
[335|10] यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति / संसर्गाकुशलवितर्कदूरीकरणात् /
[335|11] तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति / यो ऽल्पेच्छः संतुष्टश्च /
[335|12] नासंतुष्टमहेच्छयोः /
[335|13] का पुनरियमसंतुष्टिः / का च महेच्छता /
[335|14] लब्धे भूयःस्पृहा ऽतुष्टिरलब्धेच्छा महेच्छाता // vakk_6.6 //
[335|15] लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामत ऽसंतुष्टिः /
[335|15-335|16] अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः /
[335|16-335|17] ननु च सा ऽतिभूयस्कामता ऽलब्ध एव न लब्धे भवतीति को ऽनयोर्विशेष इति वक्तव्यमेतद् /
[335|17] एवं तु युज्यते /
[335|17-335|18] लब्धेनाप्रणीतेनाप्रभूतेन परितापो ऽसंतुष्टिः /
[335|18] अलब्धप्रणीतप्रभूतेच्छा महेच्छता /
[335|19] विपर्यासात्तद्विपक्षौ
[335|20] असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ /
[335|20-335|21] संतुष्टिश्चाल्पेच्छता चेति /
[336|01] त्रिधात्वाप्तामलौ च तौ /
[336|02] तद्विपक्षाविति वर्तते / त्रिधातुकौ च पोरतिसंयुक्तौ च / सास्रवानास्रवत्वात् /
[336|03] असंतुष्टिमहेच्छते च कामावचर्यावेव /
[336|04] कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह /
[336|05] अलोभः
[336|06] अलोभस्वभावे ह्येते /
[336|07] आर्यवंशाश्च
[336|08] अलोभ इति वर्तते / आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः /
[336|08-336|09] ते ऽप्यलोभस्वभावाः /
[336|10] तेषां तुष्टच्यात्मकास्त्रयः // vakk_6.7 //
[336|11] ज्संतुष्टिस्वभावाः / चीवरपिण्डपातशयनासनसंतुष्टयः /
[336|11-336|12] प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः /
[336|12] भवकामरागवैमुख्यात् /
[336|13] अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता /
[336|14] कर्मान्तेन त्रिभिर्वृत्तिः
[336|15-336|16] धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च /
[336|16] त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म /
[336|17] अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति /
[336|17-336|18] कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् /
[336|19] तृष्णोत्पादविपक्षतः /
[336|20] चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः /
[336|20-336|21] "चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमाना ऽभिनिविशते /
[336|21-336|22] पिण्डपातहेतोः शय्यासनहेतोरिति /
[336|22] भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत" इति विस्तरः /
[337|01] एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः /
[337|02] ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये // vakk_6.8 //
[337|03] स एवार्थः पुनः परिशेषेणोच्यते /
[337|03-337|04] ममकारवस्तु चीवरादयो ऽहं कारवस्त्वात्मभावः /
[337|04] तत्रेच्छा तृष्णा /
[337|04-337|05] तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति /
[337|05] उभयेच्छात्यन्तशान्तये चतुर्थ इति /
[337|05-337|06] उक्तामिदं यथा भूतस्य भावना संपद्यते /
[337|07] तस्य त्वेवं पात्रोभूतस्य कथम् तस्यां भावनायामवतारो भवति /
[337|08] तत्रावतारो ऽशुभया चानापानस्मृतेन च /
[337|09] स्मृतिरेव स्मृतम् / केषां पुनरशुभया केषामानापानस्मृत्या / यथाक्रमम्
[337|10] अधिरागवितर्काणाम्
[337|11] अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः /
[337|11-337|12] यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया /
[337|12] यो हि वितर्कचरितस्तस्यानापानस्मृत्येति /
[337|12-337|13] अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके /
[337|13-337|14] अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति /
[337|14] अवहिमुखत्वादित्यपरे /
[337|14-337|15] अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी /
[337|15] तद्विषयोपनिध्यानात् /
[337|15-337|16] तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च /
[337|16-337|17] प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति /
[337|17-337|19] द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् /
[337|19] अभदेन तु शस्यते
[337|20] शङ्कला सर्वरागिणाम् // vakk_6.9 //
[338|01-338|02] अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणम् विष्कम्भणं तु /
[338|02-338|03] स पुनर् अयम् अशुभां भावयन् योगाचारस् त्रिविध उच्यते /
[338|03] आदिकार्मिकः कृतपरिजयो ऽतिक्रान्तमनस्कारश् च / तत्र
[338|04] आसमुद्रास्थिविस्तारसंक्षेपाद् आदिकर्मिकः /(6-10अब्)
[338|05] अशुभां भावयितुकाम आदितो योगाचारः /
[338|05-338|06] स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः /
[338|06-338|07] स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति /
[338|07-338|09] तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्ताम् पृथिवीमस्थिसंकलां पूर्णामधिमुच्यते ऽधिमोक्षाभिवर्धनार्थम् /
[338|09-338|10] पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् /
[338|10] इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति /
[338|10-338|11] अयम् आदिकर्मिको योगाचारः /
[338|12] पादास्थ्न आकपालार्थत्यागात् कृतजयः स्मृतः // vakk_6.10 //
[338|13-338|14] स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति /
[338|14-338|15] एवं क्रमेण यावत् कपालस्यार्धं हित्वा ऽर्धं मनसि करोति क्षयकृतपरिजयः /
[338|16] अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् /(6-11अब्)
[338|17] सो ऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति /
[338|17-338|18] अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः /
[338|18-338|19] अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् /
[338|19-338|20] जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् /
[338|21] अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते /
[338|22] यथाक्रमम् /
[338|23] अलोभो दशभूः कामदृश्यालम्बा नृजा ऽशुभा // vakk_6.11 //
[338|24-338|26] अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने /
[338|25-338|26] अथ एवार्थालम्वनेति सिद्धम् /
[338|26] मनुष्येष्वेवोत्पद्यते / नान्यस्यां गतौ / कुत एव धातौ /
[339|01] तत्रापि नोत्तरकुरौ / नाम्नैव सिद्धमशुभाकारेति / यदध्विका तदध्वालम्बना /
[339|02] अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना / अधिमुक्तिमनस्कारत्वात्सास्रवा /
[339|02-339|03] वैराग्यलाभिकी च प्रायोगिकी च /
[339|03] उचितानुचितत्वात् /
[339|03-339|04] उक्तमशुभायाः सप्रभेदं लक्षणम् /
[339|05] आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा /
[339|06] कामाश्रया
[339|07] आननमान आश्वासो यो वायुः प्रविशति /
[339|07-339|08] अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति /
[339|08] तयोः स्मृतिरानापानस्मृतिः / सैव प्रज्ञास्वभावा /
[339|08-339|09] स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् /
[339|09-339|10] पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् /
[339|10-339|11] वितर्कानुगुणत्वात् किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः /
[339|11-339|12] सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् तस्याश्चावधाने साध्यत्वादिति /
[339|12-339|13] ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका /
[339|13] परेणाश्वासप्रश्वासानमभूमित्वात् /
[339|13-339|14] वाय्वालम्बना चैषा कामधात्वाश्रया /
[339|14] देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च /
[339|14-339|15] तत्वमनस्कारश्चैषा /
[339|15] इदं धर्माणामेव /
[339|16] न बाह्यानाम्
[339|17] उपदेशाभावात् / स्वयं च सूक्ष्मधर्मानभिसंबोधात् / सा चेयं
[339|18] षड्विधा गणनादिभिः // vakk_6.12 //
[339|19] षट्कारणयुक्ता चैषा परिपूर्णा भवति /
[339|19-339|20] गणनया ऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च /
[339|20-339|22] तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वा ऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश /
[339|22] चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा /
[339|22-339|23] तस्यां तु त्रयो दोषाः /
[339|23] ऊनगणना यदि द्वावेकं गृह्लाति /
[339|23-339|24] अधिकगणना यद्येकं द्वाविति /
[339|24] संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा /
[339|24-340|01] अतो ऽन्यथा सम्यग्गणना /
[340|01] अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते /
[340|02] अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति /
[340|02-340|03] कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति /
[340|04] तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्4ण यावत् पादावनुगच्छति /
[340|05] निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे /
[340|06] तदेतत्तत्वमनसिकारत्वान्न युक्तम् /
[340|06-340|07] स्थापना नाम नासिकाग्रे यावत् पादन्ङ्गुष्ठे स्थितां पश्यति /
[340|07] मणिसूत्रवत् /
[340|07-340|08] किमनुग्राहका एते उपधातकाः शीता उष्णा इति /
[340|08] उपलक्षणा नाम नैते केवला वायव एव /
[340|08-340|10] चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति /
[340|10-340|11] विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु /
[340|11] परिशुद्धिर्दर्शनमार्गादिष्ववतारः /
[340|12] स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे / क्षयज्ञानादिशुद्धिरिति /
[340|13-340|14] "गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता" इति संग्रहश्लोकाः /
[340|15] तत्र पुनर्वेदितव्यौ
[340|16] आनापातौ यतः कायः /
[340|17] यद्भूमिको हि कायः तद्भूमिकावेतै / कायैकदेशत्वात् /
[340|17-340|18] कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते /
[340|18-340|19] आरुप्यकललादिगतानामभावात् अचित्तचतुर्थध्यानसमापन्नानां च /
[340|19-340|20] यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते /
[340|20-340|21] जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति /
[340|21-340|22] एतौ चानापानौ /
[340|23] सत्त्वाख्यौ
[340|24] नासत्त्वसंख्यातौ /
[340|25] अनुपात्तकौ /
[341|01] इन्द्रियविनिर्भागित्वात् /
[341|02] नैःष्यन्दिकौ
[341|03] नौपचयिकविपाकजौ / कायोपचयनानुपचयात् छ्हिन्नानां पुनः प्रतिसंधानाच्च /
[341|04]
नह्येतद्विपाकरूपस्यास्ति /
[341|05] नाधरेण लक्षयेते मनसा च तौ // vakk_6.13 //
[341|06] स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् / नावरेणेर्यापथिक नैर्माणिकेन /
[341|07] उक्ते द्वे अवतारमुखे / ताभ्यां तु समाधिलब्धा
[341|08] निष्पन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम् /
[341|09] विपश्यनायाः संपादनार्थम् / कथं च पुनः कुर्यात् /
[341|10] कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् // vakk_6.14 //
[341|11] कायं स्वसामान्यलक्षणाभ्यां परीक्षते / वेदनां चित्तं धर्माश्च /
[341|11-341|12] स्वभाव एवैषां स्वलक्षणम् /
[341|12-341|13] सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यता ऽनात्मते सर्वधर्माणाम् /
[341|13] कायस्य पुनः कः स्वभावः / भूतभौतिकत्वम् /
[341|14] धर्मास्त्रिभ्यो ऽन्ये /
[341|14-341|15] सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति /
[341|16] अथ स्मृत्युपस्थानानां कः स्वभावः /
[341|16-341|17] विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् /
[341|17] तत्र स्वभावस्मृत्युपस्थानम् /
[341|18] प्रज्ञा
[341|19] कीदृशी प्रज्ञा /
[341|20] श्रुतादिमयी
[342|01] श्रुतमयी चिन्तामयी भावनामयी च /
[342|01-342|02] त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि /
[342|03] अन्ये संसर्गालम्बनाः
[342|04] अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् /
[342|04-342|05] तदालम्बना आलम्बनस्मृत्युपस्थानम् /
[342|05] स्वभावस्मृत्युपस्थानं प्रज्ञेति / कुत एव तत् /
[342|05-342|06] "कामे कायानुपश्यना स्मृत्युपस्थान"मिति वचनात् /
[342|06] का पुनरनुपश्यना / प्रज्ञा /
[342|06-342|07] तया हि तद्वाननुपश्यः क्रियते /
[342|07-342|08] यतश्चोक्त "मध्यात्मं काये कायानुपश्यी विहरती"ति /
[342|08] अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी / काये ऽनुपश्यी कायानुपश्यी /
[342|09] कस्मात् प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता / स्मृत्युद्रेकत्वादिति वैभाषिकाः /
[342|10] स्मृतिवलाधानवृत्तित्वादिति यो ऽर्थः / दारूपाटन कीलसंधारणवत् /
[342|10-342|11] एवं तु युज्यते /
[342|11] स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् /
[342|12-342|13] तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन "तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत" इति विस्तरः /
[342|13-342|14] भगावता ऽपि चोक्तं "तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे"ति /
[342|14-342|15] यत्र तूक्तं "कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च /
[342|15-342|17] आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम"इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् /
[342|17] स्मृतिरत्रोपतिष्ठत इति कृत्वा /
[342|17-342|18] यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् /
[342|19] क्रमः /
[342|20] यथोत्पत्ति
[342|21] कस्मात्पुनरेवमुत्पत्तिः / औदारिकस्य पूर्वं दर्शनात् /
[342|22-342|23] यतो वा कामरागस्य कायो ऽधष्ठानं स च वेदना ऽभिलाषात्स च चित्तस्यादान्तत्वात् तत्क्लेशाप्रहाणादिति वैभाषिकाः /
[342|24] चतुष्कं तु विपर्यासविपक्षतः // vakk_6.15 //
[343|01-343|03] शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा /
[343|03] यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् /
[343|03-343|04] अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् /
[343|04-343|05] एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
[343|06-343|07] स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः / आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति // vakk_6.16 //
[343|08-343|09] संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति /
[343|09] अनित्यतो दुःखतः शून्यतो ऽनात्मतश्च /
[343|10] तत् ऊष्मगतोत्पत्तिः
[343|11-343|12] तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते /
[343|12] ऊष्मगतमिवोष्मगतम् / क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् /
[343|13] तच्चतुःसत्यगोचरम् /
[343|14] तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् /
[343|15] षोडशाकारम्
[343|16-343|17] दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतो ऽनात्मतश्च /
[343|17] समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च /
[343|17-343|18] निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च /
[343|18-343|19] मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च /
[343|19] एषां तु विशेषणम् पश्चाद्वक्षयामः /
[343|20] ऊष्मभ्यो मूर्धानः
[343|21] ते ऽपि तादृशाः // vakk_6.17 //
[344|01] यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च /
[344|01-344|02] उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात् मूर्धानः /
[344|02] एभ्यो हि पातो ऽतिक्रमो वा /
[344|03] उभयाकरणं धर्मेण
[344|04] एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् /
[344|04-344|05] किमिदमाकरणम् /
[344|05] सत्येष्वकाराणां प्रथमतोविन्यसनम् /
[344|06] अन्यैरपि तु वर्धनम् /
[344|07] चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् /
[344|07-344|08] विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबो ऽवहुमानत्वात् /
[344|08] मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
[344|09] तेभ्यः क्षान्तिः
[344|10] अधिमात्रस्य क्षमणादपरिहाणितः / सा ऽपि त्रिप्रकारा मृद्वी मध्या ऽधिमात्रा च /
[344|11] द्विधा तद्वत्
[344|12] यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् /
[344|12-344|13] विवर्धने त्वयं विशेषः /
[344|13] सर्वस्याः
[344|14] क्षान्त्या धर्मेण वर्धनम् // vakk_6.18 //
[344|15] स्मृत्युपस्थानेनैव नान्येन /
[344|16] कामाप्तदुःखविषया त्वधिमात्रा
[344|17] क्षान्तिरिति वर्त्तते / अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव /
[344|18] अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् /
[344|18-344|20] यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत् कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति /
[345|01] क्षणं च सा /
[345|02] क्षणिका चासौ न प्राकर्षिकी /
[345|03] तथाग्रधर्माः
[345|04] यथैवाधिमात्रा क्षान्तिः /
[345|04-345|05] ते ऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैते ऽग्राश्च धर्माः /
[345|05] सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः /
[345|05-345|06] विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् /
[345|06-345|07] त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते /
[345|08] सर्वे तु पञ्चस्कन्धाः
[345|09] सपरिवारग्रहणात् /
[345|10] विनाप्तिभिः // vakk_6.19 //
[345|11] प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते /
[345|11-345|12] मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति /
[345|12-345|13] तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते /
[345|14] निरोधसत्यालम्बने तदेवोभयथा / सर्वत्राकाराः सभागाः /
[345|14-345|15] विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि /
[345|15-345|16] तत्रैव निरोधालम्बने ऽन्त्यमनागतानिचत्वारि आकाराः सर्वे /
[345|16] लब्धत्वाद्गोत्राणाम् /
[345|16-345|17] मूर्धाकरणे चतुःसत्यालम्बने ऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे /
[345|17-345|18] त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे /
[345|18] क्षान्तीनां सर्वत्र चान्त्यम् /
[345|19] अनागतानि चत्वारि आकाराः सर्वे /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
