Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[345|19-345|20] अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव /
[345|20] अन्याभावाद्दर्शनमार्गसादृश्याच्च /
[345|21] इति निर्वेधभागीयं चतुर्धा
[346|01-346|02] इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयो ऽग्रधर्माश्च /
[346|02-346|03] एषां द्वे मृदूनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् /
[346|03] निर्वेधभागीयानीति को ऽर्थः / विध विभागे /
[346|03-346|05] निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात् सत्यानां च विभजनादिदं दुःखमयं यावत् मार्ग इति /
[346|05] तस्य भागो दर्शनमार्गैकदेशः /
[346|05-346|06] तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि /
[346|06] तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम्
[346|07] भावनामयम् /
[346|08] न श्रुतचिन्तामयम् /
[346|09] अनागम्यान्तरध्यानभूमिकम्
[346|10] अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् /
[346|11] नोर्ध्व दर्शनमार्गपरिवारत्वात् / तदभावः कामधात्वालम्बनत्वात् /
[346|11-346|12] तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् /
[346|12] तेषां रूपधातौ पञ्चस्कन्धको विपाकः /
[346|12-346|13] पूरिपूरकाण्येवनाक्षेपकाणि /
[346|13] भवद्वेषित्वात् /
[346|14] द्वे त्वधो ऽपि वा // vakk_6.20 //
[346|15] वाशब्दो मतविकल्पार्थः /
[346|15-346|16] भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः /
[346|17] सर्वाण्यपि त्वेतानि चत्वारि
[346|18] कामाश्रयाणि
[346|19] त्रीणि मनुष्येष्वेवोत्पद्यन्ते / त्रिषु द्वीपेषु / उत्पादितपूर्वाणां तु देवेषु संमुखीभावः /
[346|20] चतुर्थं देवेष्वपि / त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते /
[346|21] अग्रधर्मान् द्वच्याश्रयान् लभते ऽङ्गना /
[347|01] अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते / पुरुषः पुरुषाश्रयानेव /
[347|01-347|02] स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् /
[347|02] कथं निर्वेधभागीयानां त्यागः /
[347|03] भूमित्यागात्त्यजत्यार्यस्तानि
[347|04-347|05] यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् / [347|06] अनार्यस्तु मृत्युना // vakk_6.21 //
[347|07] पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे /
[347|08] आद्ये द्वेपरिहाण्या च
[347|09] त्यजति मृत्युना च पृथग्जन एव / आर्यस्य तु नास्ति ताभ्यां परिहाणिः /
[347|09-347|10] क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः /
[347|11] मौलेस्तत्रैव सत्यदृक् /
[347|12-347|13] यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति /
[347|13] तीव्रसंवेगत्वात् /
[347|14] अपूर्वाप्तिर्विहीनेषु
[347|15] यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि /
[347|16] प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् /
[347|16-347|17] सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव /
[347|18] एते पुनर्विहीनिपरिहाणी किंस्वभावे /
[347|19] हानी द्वे असमन्वितिः // vakk_6.22 //
[347|20] उभे अप्येते असमन्वागमस्वभावे /
[347|22] परिहाणिस्तु दोषकृता नावश्यं विहानिः /
[347|23] गुणविशेषकृता च सा / परिहीणो ऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति /
[347|24] मोक्षभागीयात्को विशेषः / सत्यदर्शनासन्नतरत्वमसत्यन्तराये /
[348|01] मूर्धलाभी न मूलच्छित्
[348|02-348|03] परिहीणो ऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति /
[348|03] अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् /
[348|04] क्षान्तिलाभ्यनपायगः /
[348|05-348|06] विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् /
[348|06-348|07] क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते /
[348|07-348|09] अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च /
[348|09] तां तु यथायोगं मृद्वधिमात्रायां च / मृद्वच्यामपायगतीनाम् /
[348|10] अधिमात्रायामितरेषाम् / निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् / तत्र
[348|11] शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्
[348|12] ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः /
[348|13] क्षान्तौ तु लब्धायां नास्त्येव संभवः / किं कारणम् /
[348|13-348|14] अपायानां किल व्यावृत्तत्वात् /
[348|14] बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति /
[348|14-348|15] तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः /
[348|16] त्रीण्यपीतरः // vakk_6.23 //
[348|17] विवर्त्य स्यादिति वर्तते /
[348|17-348|18] त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात् प्रत्येकबुद्ध इत्यर्थः /
[348|18-348|19] प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि /
[348|20] आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः /
[348|21] शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः /
[348|21-348|22] तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते /
[349|01] क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः /
[349|01-349|02] अशुभामारभ्य यावद्वोधिरित्यपरे /
[349|02] येषां तु खड्गादन्यो ऽपि प्रत्येकबुद्धो ऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः /
[349|03] किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् /
[349|03-349|04] नैतदस्ति अवश्यं हि
[349|05] प्राक्तेभ्यो मोक्षभागीयं
[349|06] उत्पादयितव्यम् / सर्वस्वल्पं हि
[349|07] क्षिप्रं मोक्षस्त्रिभिर्भवैः // vakk_6.24 //
[349|08] एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् / द्वितीये निर्वेधभागीयानि /
[349|09] तृतीये आर्यमार्गम् / बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् /
[349|09-349|10] क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति /
[349|10-349|11] तच्च पुनर्मोक्षभागीयं वर्णयन्ति /
[349|12] श्रुतचिन्तामयं
[349|13] न भावनामयम् / कति कर्माणि /
[349|14] त्रीणि कर्माणि
[349|15] प्राधान्येन तु मनस्कर्म्म /
[349|15-349|16] तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति /
[349|16-349|17] कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति /
[349|17] तत्त्वेतत् /
[349|18] आक्षिप्यते नृषु /
[349|19] मनुष्येष्वेव त्रिषु द्वीपेषु / नान्यत्र / प्रज्ञानिर्वेदयोरभावाद्यथायोगम् /
[349|19-349|20] उक्तं प्रसङ्गेन मोक्षभागीयम् /
[349|21] अभिसमयक्रमस्तु वक्तुमारब्धः / तत्र च यावदग्रधर्मा उक्ताः /
[349|21-349|22] शेषं वक्तव्यम् /
[349|22] अत इदमुच्यते /
[350|01] लौकिकेभ्यो ऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा // vakk_6.25 //
[350|02] लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते / कस्मिन्नालम्बने /
[350|03] कामदुःखे /
[350|04] कामावचरदुःखमस्या आलम्बनम् / सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते /
[350|04-350|05] अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् /
[350|05] कर्मज्ञानार्थं क्षान्तिः / पुष्पफलवृक्षवत् /
[350|05-350|06] सैव च नियामावक्रान्तिरित्युच्यते /
[350|06] सम्यक्त्वनियामावक्रमणात् /
[350|06-350|07] सम्यक्त्वं निर्वाणमुक्तं सूत्रे /
[350|07] तत्र नियमो नियाम एकान्तीभावः / तस्याभिगमनमवक्रमणम् /
[350|08] तस्यां चोत्पन्नायामार्यपुद्गल उच्यते / अनागतया पृथग्जनत्वं व्यावर्त्यते /
[350|08-350|09] एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् /
[350|09-350|10] प्रदीपजातिवत् /
[350|10] लौकिकाग्रधर्मैरित्यपरे / न तद्धर्मत्वात्तद्विरोधित्वाददोषः /
[350|11] शत्रुस्कन्धारुढतद्घातनवत् / उभयैरित्यपरे / आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति /
[350|12] ततो ऽत्रैव धर्मज्ञानं
[350|13] ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते /
[350|14] तत् दुःखे धर्मज्ञानमित्युच्यते / अनास्रवाधिकारः सर्वत्र वेदितव्यः /
[350|14-350|15] यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते
[350|16] तथा पुनः /
[350|17] शेषे दुःखे ऽन्वयक्षान्तिज्ञाने
[350|18] दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते /
[350|19] सा दुःखे ऽन्वयज्ञानक्षान्तिरित्युच्यते / ततो ऽन्वयज्ञानमुत्पद्यते /
[350|19-350|20] तत् दुःखे ऽन्वय ज्ञानमित्युच्यते /
[350|20] प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् /
[350|20-350|21] तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् /
[350|21] तथैवानुगमनात् /
[350|21-350|22] यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते
[351|01] सत्यत्रये तथा // vakk_6.26 //
[351|02] दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते /
[351|02-351|03] ततः समुदये धर्मज्ञानम् /
[351|02-351|06] एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानम् कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधे ऽन्वयज्ञानक्षान्तिर्निरोधे ऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गे ऽन्वयज्ञानक्षान्तिर्मार्गे ऽन्वयज्ञानम् /
[351|07] इति षोडशचित्तो ऽयं सत्याभिसमयः
[351|08] इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति /
[351|08-351|09] ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति /
[351|09] अभिप्राय एष द्रष्टव्यः /
[351|09-351|10] अभेदेन ह्यभिसमय उच्यते सत्येषु
[351|11] त्रिधा /
[351|12] दर्शनालम्बकार्याख्यः
[351|13] दर्शनाभिसमयो ऽनास्रवया प्रज्ञया सत्यानाम् /
[351|13-351|14] आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि /
[351|14] कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः /
[351|14-351|15] दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः समुदयादीनां कार्याभिसमयः /
[351|15-351|16] प्रहाणसाक्षात्करणभावनात् /
[351|16] तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् /
[351|17] अयुक्तं ब्रूयादाकारभेदात् / अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् /
[351|18] न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् / एवं च सूत्रविरोधः /
[351|18-351|21] "इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत् मार्ग वा मार्गतो मनसि कुर्वतो ऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय" इति /
[351|21] भावनामार्ग एवमिति चेत् / न / यथादर्शनं भावनात् /
[352|01] अथाप्येकस्य दर्शनाच्छेषेषु व4इत्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् /
[352|01-352|02] अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् /
[352|02-352|03] अथ पुनर्ब्रूयात् दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात् करोति मार्गं भावयति /
[352|03-352|04] अत इकाभिसमय इति /
[352|04] एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् /
[352|04-352|05] दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते /
[352|05-352|07] "नहैव गृहपते सत्यानामेकाभिसमयो ऽपि पूर्वाभिसयय" इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि /
[352|07-352|08] "यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धे ऽपि स" इति सूत्रादेकाभिसमय इति चेत् /
[352|08] न / असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् /
[352|08-352|09] य एषौक्तः षोढशचित्तको ऽभिसमयः
[352|10] सो ऽग्रधर्मैकभूमिकः // vakk_6.27 //
[352|11] यद्भूमिको ऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि /
[352|11-352|12] त पुनः षड्भूमिका इत्युक्तं प्राक् /
[352|12] कस्मात् पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति / यस्मात्
[352|13] क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् /
[352|14] अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् /
[352|14-352|15] विमुक्तिमार्गास्तु ज्ञानानि /
[352|15-352|16] क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् /
[352|16] अत उभयैरवश्यं भवितव्यम् /
[352|16-352|17] द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् /
[352|17-352|18] यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् /
[352|18] प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् /
[352|18-352|19] क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् /
[352|19] न /
[352|20] क्षान्तीनां ज्ञानपरिवारत्वात् / राजपरिवारकृतस्य राजकृतव्यपदेशवत् /
[352|21] किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः / नेत्याह / किं तर्हि /
[352|22] अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः // vakk_6.28 //
[353|01-353|02] दुःखधर्मज्ञानक्षान्तिमारभ्य यावत् मार्गे ऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः /
[353|02] कि कारणम् / अदृष्टसत्यदर्शनात् /
[353|02-353|03] षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति /
[353|03] यथाद्रष्टाभ्यसनाद्भावनामार्ग एव /
[353|03-353|04] ननु च तेनाष्यदृष्टं पश्यति मार्गे ऽन्वयज्ञानक्षान्तिम् /
[353|04] सत्यं प्रति चिन्ता न क्षणम् /
[353|04-353|05] न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति /
[353|05] यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति /
[353|05-353|07] फलत्वादष्टज्ञानषोडशाकारभावनात् पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः /
[353|07-353|08] अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् /
[353|08] अत एव दर्शनमार्ग इति चेत् / न / अतिप्रसङ्गात् /
[353|08-353|09] सप्त ज्ञानानि कस्माद्दर्शनमार्गः /
[353|09] दर्शनस्यासमाप्तत्वात् /
[353|09-353|10] न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः /
[353|10-353|11] उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते /
[353|12] यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः /
[353|12-353|13] य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ
[353|14] मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ /
[353|15] मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते / तीक्ष्णेन्द्रियो धर्मानुसारीति /
[353|16] श्रद्धयानुसारः श्रद्धानुसारः / सो ऽस्यास्तीति श्रद्धानुसारी /
[353|16-353|17] श्रद्धयानुसर्तुं शीलमस्येति वा /
[353|17] पूर्वं परसंप्रत्ययेनार्थानुसरणात् / एवं धर्मानुसारी /
[353|17-353|18] पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् /
[353|18] तौ पुनः
[353|19] अहीनभावनाहेयौ फलाद्यप्रतिपन्नकौ // vakk_6.29 //
[353|20] फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् /
[353|20-353|22] तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते /
[353|23] यावत् पञ्चप्रकारघ्नौ
[353|24-353|25] यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत् पञ्च प्रकाराः प्रहीणा भवन्ति /
[353|25] तथैव प्रथमफलप्रतीपन्नकावुच्येते /
[354|01] द्वितीये ऽर्वाङ्नवक्षयात् /
[354|02] द्वीतीयनिमित्तं द्वितीये /
[354|02-354|03] यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति /
[354|03] द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते / कतमच्च द्वितीयम् /
[354|04] सकृदागामिफलम् /
[354|05] कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ // vakk_6.30 //
[354|06-354|07] यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात् कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात् तौ तृतीय प्रतीपन्नकावुच्येते /
[354|07] कतमच्च तृतीयम् /
[354|08] अनागामिफलम् /
[354|09] षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः /
[354|10] षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते /
[354|10-354|11] नापि प्रतिपन्नकौ /
[354|11] किं तर्हि / फलस्थो /
[354|11-354|12] यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति /
[354|12] स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा /
[354|13] अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् / दर्शनमार्गेण भावनाहेयानामप्रहाणात् /
[354|13-354|14] पूर्वं च भवाग्रवैराग्यासंभवात् /
[354|15] श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा // vakk_6.31 //
[354|16] तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते /
[354|17] यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते /
[354|17-354|18] श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् /
[354|18-354|19] किं पुनः कारणं प्रहीणपञ्चप्रकारो ऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः /
[354|20] यस्मात्
[354|21-354|22] फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः / नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः // vakk_6.32 //
[354|23] फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः /
[354|23-354|24] अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत् प्रतिपन्नको नोच्यते /
[354|24-354|25] एवमन्यत्रापि फले वेदितव्यम् /
[354|25-355|01] यस्तु तृतीयध्यानवीतरागो ऽधरां भूमि निश्रित्य नियाममवक्रामति सो ऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति /
[355|01-355|02] अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् /
[355|02-355|03] एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् /
[355|04] आनुपूर्विकं तु वक्तव्यम् / अत इदं तावद्वच्यवस्थाप्यते /
[355|04-355|05] यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं
[355|06] नवप्रकारा दोषा हि भूमौ भूमौ
[355|07] यावद्भवाग्रे / यथा च दोषाः
[355|08] तथा गुणाः /
[355|09] तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव /
[355|09-355|10] कथं कृत्वा /
[355|11] मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः // vakk_6.33 //
[355|12] मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः /
[355|12-355|13] तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते /
[355|13-355|15] तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रो ऽधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्चेति /
[355|15-355|16] तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् /
[355|16] एवं यावदधिमात्राधिमात्रेण मृदुमृदोः /
[355|16-355|18] आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवात् औदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात् सूक्ष्मः /
[355|18-355|19] औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः /
[355|19] शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः /
[355|19-355|21] क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् /
[355|21-355|22] बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत् क्षणिकाल्पप्रदीपमहातमोपघातवच्य /
[355|22] एवं नवप्रकारेषु क्लेशेषु सर्वत्र
[355|23] अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः /
[356|01] यस्य हि फलस्थस्यैको ऽपि भावनाहेयः प्रकारो ऽप्रहीणः स स्रोत आपनः /
[356|01-356|02] सप्तजन्मानि करोतीति सप्तकृत /
[356|02] परः सर्वान्त्यः /
[356|02-356|03] न हि सर्वसप्तकृदिति /
[356|03] सप्तकृत्वःपरम इति सूत्रपाठः / सप्तकृत्वः परमं जन्मा ऽस्येत्यर्थः /
[356|04] प्रकर्षे परमशब्दः / निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् /
[356|04-356|05] तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः /
[356|05] कथमापन्नः /
[356|05-356|06] आद्यमार्गलाभाच्चेत् अष्टमको ऽपि स्यात् /
[356|06] आद्यफललाभाच्चेत् भूयो वीतरागो ऽपि स्यात् / कामवीतरागः /
[356|07] सर्वफलप्रापिणमधिकृत्याद्यफललाभात् / किं पुनः कारणं स एव नाष्टमकः /
[356|08-356|09] प्रतिपन्नकफलमार्गलाभात् दर्शनभावनामार्गलाभात् सकलस्रोतो ऽभिसमयाच्च मार्गान्वयज्ञाने /
[356|09-356|10] स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् /
[356|10] एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति /
[356|10-356|11] सप्तकसामान्यात्तु सप्तकृत्वः /
[356|11] परम उक्तः / सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः /
[356|12-356|13] यत्तर्ह्हि सूत्र उक्तं "अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलो ऽष्टमं भवमभिनिर्वर्तयिष्यति /
[356|13] नेदं स्थानं विद्यत" इति / एकस्यां गतावित्यभिप्रायः /
[356|13-356|15] यथारुतं वा कल्प्यमाने ऽन्तराभवो ऽपि न स्यात् एवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति /
[356|15-356|16] कामधात्वभि संधिवचनाददोषः /
[356|16] किमत्र ज्ञापकं सूत्रं युक्तिर्वा /
[356|16-356|17] इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति /
[356|17] एवं हि पठच्यते /
[356|18] "सप्तकृत्वो देवाश्च मनुष्याश्चे"ति / प्रत्येकमपि तु काश्यपीयाः पठन्ति /
[356|19] "सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि"ति / नात्राभिनिवेष्टव्यम् /
[356|19-356|20] यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति /
[356|20] यो देवेषु स तानेव /
[356|21] किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति /
[356|21-356|22] तावता ककलेनावश्यं संततिपरिपाकात् /
[356|22] मार्गो हि स तज्जातीयः / सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च /
[356|23] सप्तसंयोजनावशेषत्वाच्च / द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति /
[356|23-356|24] अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति /
[356|24-356|25] तावत् भववेदनीयस्य कर्मणो वलाधानात् /
[356|25] असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति /
[356|25-356|26] अगारं तु पोउनर्नाध्यावसति /
[356|26] धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते /
[356|26-356|27] अन्याश्रमिकं लिङ्गेनेत्यपरे /
[356|27] कस्मादविनिपातकधर्मा भवति /
[356|27-356|29] तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः /
[356|29] अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् / आह चात्र
[357|01-357|04] "कृत्वा बुधो ऽल्पमपि पापमधः प्रयाति कृत्वा बुधो महदपि प्रजहात्यनर्थम् मज्जन्यधो ऽल्पमपि वारिणि संहतं हि पात्रिकृतं महदपि प्लवते तदेव" इति /
[257|05] दुःखस्यान्तं करोतीति को दुःखस्यान्तः /
[357|05] यस्मात् परेण दुःखं नास्ति /
[357|06] अप्रतिसंधिकं दुःखं करोतीत्यर्थः / अथवा निर्वाणमन्तः / कथं निर्वाणं करोति /
[357|07] तत्प्राप्तिविवन्धापनयनात् / यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः /
[357|08] अन्यो ऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते /
[357|08-357|09] एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति /
[357|10] त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः // vakk_6.34 //
[357|11] स एव स्रोत आपन्नस्त्रिभिः /
[357|11-357|12] क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् /
[357|12] इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् /
[357|12-357|13] जन्मतो द्वित्रिजन्मावशेषत्वात् /
[357|13-357|14] श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् /
[357|14-357|15] जन्म तु कदाचिदल्पीयः स्यात् /[35715] परेण भव्यत्वाद् /
[357|15] अतो ऽस्य ग्रहणम् /
[357|15-357|16] कस्मान्न पञ्चप्रकारप्रहाणात् /
[357|16-357|17] तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात् नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः /
[357|17] एकवीचिकस्येव धात्वनतिक्रमात् /
[357|17-357|18] स एव कुलङ्कुलो द्विविधः /
[357|18-357|19] देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वा ऽन्यत्र वा देवनिकाये /
[357|19-357|20] मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वा ऽन्यत्र व द्वीपे परिनिर्वाति /
[357|20] स एव पुनः फलस्थः
[357|21] आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः /
[357|22-357|23] यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः /
[357|24] क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः // vakk_6.35 //
[358|01] द्वितीयफलप्राप्तो भवति /
[358|01-358|02] देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी /
[358|02] परेण जन्माघावात् / रागद्वेषमोहानां च तनुत्वादित्युच्यते /
[358|03] मृदुप्रकारावशेषत्वात् / स एव पुनः फलस्थः /
[358|04] क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः /
[358|05] तृतीयप्रतिपन्नश्च
[358|06] त्रिभिः कारणैः / स एव सकृदागाम्येकवीचिदो वेदितव्यः /
[358|06-358|07] सप्ताष्टप्रकारप्रहाणात् /
[358|07-358|08] तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् /
[358|08] कथमस्यैकः प्रकारः फलं विध्नयितुम् शक्नोति / धात्वतिक्रमात् /
[358|09] अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त" इत्युक्तं प्राक् /
[358|09-358|10] यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति /
[358|10] विपाकनिःष्यन्दफलभूम्यतिक्रमात् /
[358|10-358|12] वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात् निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वा ऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः /
[358|12-358|13] तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः /
[358|13-358|14] पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः /
[358|15] सो ऽनागामी नवक्षयात् // vakk_6.36 //
[358|16] स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः /
[358|16-358|17] कामधात्वनागमनात् /
[358|17-258|18] "पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि"त्युच्यते प्रहाणसंकुलनात् /
[358|18] अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति /
[358|19] सो ऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः /
[358|20] ऊर्ध्वस्रोताश्च
[358|21] अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः /
[358|21-358|22] एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् /
[358|22] स एवानागामी पुनः पञ्चधा भवति /
[359|01] अन्तरापरिनिर्वायी यो ऽन्तराभवे परिनिर्वाति /
[359|01-359|02] उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् /
[359|02] सोपधिशेषनिर्वाणेन /
[359|02-359|03] सो ऽप्पि निरूपधिशेषेणेत्यपरे /
[359|03] नायुरुत्सर्गावशित्वात् /
[359|03-359|04] साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः /
[359|04] साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् /
[359|05] अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् /
[359|05-359|06] संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे /
[359|06] तत्तु न / अतिप्रसङ्गात् /
[359|06-359|07] सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते /
[359|07] तथैव च युज्यते /
[359|07-359|08] वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः /
[359|08-359|09] उपपद्यपरिनिर्वायिणस्तु वाहितरो ऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति /
[359|09-359|10] ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः /
[359|10] स्रोतो गतिरित्येको ऽर्थः /
[359|11] स ध्याने व्यवकीर्णो ऽकनिष्ठगः // vakk_6.37 //
[359|12] ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च / हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् /
[359|13-359|14] फलतो ऽकनिष्ठभवाग्रपरमत्वात् तत्र येन ध्यानं व्यवकीर्णं सो ऽकनिष्ठान् गत्वा परिनिर्वाति /
[359|15] स प्लुतो ऽर्धप्लुतः सर्वच्युतश्च [359|16] स पुनरेषो ऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः / प्लुतादिभेदात् /
[359|16-359|19] तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यात् ओपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात् प्रच्युतो ऽकनिष्ठेषूपपद्यते /
[359|19] एष हिमध्यानिमज्जनात् प्लुतः /
[359|19-359|20] अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति /
[359|20-359|21] महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति /
[359|21-359|22] सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति /
[359|22] न च दकाचिदनागामी /
[359|22-359|23] तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति /
[359|23] विशेषगामित्वात् /
[359|23-359|24] एवं चास्य परिपूर्णमनागामित्वं भवति /
[359|24] यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् /
[359|14-359|15] एवं तावद्धच्याने व्यवकीर्णे ऽकनिष्टगो वेदितव्यः /
[359|15-359|25] ततः
[360|01] अन्यो भवाग्रगः /
[360|02] अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति /
[360|02-360|04] स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति /
[360|04] शमथचरितो ह्येषः /
[360|04-360|05] पूर्वकस्तु विपश्यनाचरितः /
[360|05] अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः /
[360|05-360|06] अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति /
[360|06-360|07] इमे तावत् पञ्च रुपोपगा अनागामिनः /
[360|08] आरुग्यगश्चतुर्धान्यः
[360|09] अन्य आरुप्यगो ऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते /
[360|09-360|10] स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् /
[360|10] त एते षडनागामिनो भवन्ति / ततः
[360|11] इह निर्वापको ऽपरः // vakk_6.38 //
[360|12] इहैव जन्मन्यपरः परिनिर्वाति / स दृष्टधर्मपरिनिर्वायो सप्तमः /
[360|13] पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः /
[360|14] पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति /
[360|15] कतमेषां त्रयाणाम् / अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च / कथं त्रिधाभेदात् /
[360|16] अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात् दृष्टान्तत्रयेण /
[360|16-360|17] उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् /
[360|17-360|18] सर्वे ह्येते त्रयो ऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः /
[360|18] ऊर्ध्वंस्रोतसः प्लुतादिभेदात् /
[360|18-360|19] सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् /
[360|20] तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः // vakk_6.39 //
[360|21] तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः /
[360|21-361|01] त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च /
[361|01-361|02] तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः /
[361|02] प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् पूर्ववत् /
[361|02-361|03] पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति /
[361|03-361|04] त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति /
[361|04] कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः /
[361|05] ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः /
[361|06] ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता /
[361|06-361|07] तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रे ऽभिहिताः /
[361|07] कस्मात् पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः /
[361|07-361|08] एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले /
[361|08-361|09] एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति /
[361|09] नत्वेतद्यथोक्तमन्यत्रास्ति / अतः
[361|10] सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः // vakk_6.40 //
[361|11] सप्त सत्पुरुषगतयो नान्या इति /
[361|11-361|12] यत्तर्हि सूत्रे एवोक्तं "सत्पुरुषाः कतमः /
[361|12] शैक्ष्यः सम्यग्दृष्टच्या समन्वागत" इति विस्तरः /
[361|12-361|13] अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् /
[361|13-361|14] पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् प्रायेणाकुशलप्रहाणाच्च /
[361|14] येषां तु निष्पर्यायेण तेषामिहाध्हिकारः /
[361|15] किं पुनः परिवृत्तजन्मनो ऽप्यनागामिन एष भेदो ऽस्ति / यस्मात्
[361|16] न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः /
[361|17] कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति /
[361|17-361|18] अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् /
[361|18-361|19] रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति /
[361|19] य ऊर्ध्वंस्रोता भवाग्रपरमः /
[361|19-361|20] यत्तर्हि शक्रेणोक्तं "ये ते देवा अकनिष्ठा इति विश्रुताः /
[361|20] अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति" /
[361|20-361|21] अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः /
[361|21] भवता "प्यनिवारणं संहर्षणीयत्वा" दिति /
[362|01] स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् // vakk_6.41 //
[362|02-362|03] स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित् परिहीयते /
[362|03-362|04] किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते /
[362|04] यस्मान्न सन्ति / कस्मान्न सन्ति /
[362|04-362|05] जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च /
[362|06] अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति /
[362|06-362|08] मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात् दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः /
[362|08] बहु ह्यनेन कर्तव्यं भवति /
[362|08-362|09] अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च /
[362|09] तच्चान्तराभवस्थो न शक्तः कर्तुमिति /
[362|10] यदुक्तं "स ध्याने व्यवकीर्णे ऽकनिष्ठग" इति /
[362|10-362|11] अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते /
[362|12] आकीर्यते चतुर्थं प्राक्
[362|13] स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् /
[362|13-362|14] एवं च पुनः व्यवकीर्यते /
[362|14] अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते /
[362|15] तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् /
[362|15-362|17] एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः /
[362|18] निष्पत्ति क्षणमिश्रणात् /
[362|19] यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् /
[362|20-362|21] एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः /
[362|21-362|22] द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति /
[362|22] एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते /
[362|22-362|23] कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते /
[362|23] पश्चात् परिहीणेन रूपधातौ /
[362|23-362|24] अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् /
[362|24-362|25] अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः /
[362|26] किमर्थं पोउनर्ध्यानं व्यवकीर्यते /
[363|01] उपपत्तिविहारार्थं क्लेशभीरुतया ऽपि च // vakk_6.42 //
[363|02] त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति /
[363|02-362|03] तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च /
[363|03-363|04] मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् /
[363|04] अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् /
[363|05] मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् /
[363|06] अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः /
[363|06-363|07] यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम्
[363|08] तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः /
[363|09] सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् /
[363|09-363|10] प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते /
[363|10] अनास्रवं सास्रवमनास्रवं च / द्वितीयायां षट् /
[363|11] तृतीयायां नव / चतुर्थ्यां द्वादश / पञ्चम्यां पञ्चदश /
[363|11-363|12] तासां यथासंख्यं पञ्च शुद्धावासाः फलम् /
[363|12] यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः /
[363|12-363|13] श्रद्धादीन्द्रियाधिक्यात् पञ्चेत्यपरे /
[363|14] निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः // vakk_6.43 //
[363|15] निरोधलाभो ऽस्यास्तीति निरोधलाभी /
[363|15-363|16] यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते /
[363|16-363|17] निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् /
[363|17] कथं पुनः कायेन साक्षात्करोति / चित्ताभावात् कायाश्रयोत्पत्तेः /
[363|18] एवं तु भवितव्यम् /
[363|18-363|19] स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते /
[363|19-363|20] यतो ऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति /
[363|20] एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति /
[363|21] प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया /
[363|21-363|22] अष्टादश शैक्षा" इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः /
[363|22] कारणाभावात् / कि पुनः कारणम् /
[363|23] अनास्रवास्तिस्रः शैक्षास्तत्फां च / तद्विशेषेण हि शैक्षाणां व्यवस्थानम् /
[363|23-363|24] निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् /
[363|24] अतो न तद्योगाच्धैक्षविशेष उक्तः /
[363|24-363|25] एष तावदनागामिनां यथास्थूलं भेदः /
[363|25] सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते /
[363|26] अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् / भूमिभेदाच्चत्वारः /
[364|01] परिहाणधर्मादिगोत्रभेदात् षट् /
[364|01-364|02] स्थानान्तरभेदात् षोडश भूमिवैराग्यभेदात् षट्त्रिंशत् /
[364|02-364|03] रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः /
[364|03] स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि /
[364|04] कथं कृत्वा / एकस्मिन् स्थाने षट् गोत्राणि /
[364|04-364|06] गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात् षण्ण्णवकानि चतुष्पञ्चाशत् षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि /
[364|06-364|07] इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं कृत्वा यो ऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः /
[364|07-364|08] समगणनार्थम् /
[364|08-364|09] यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति /
[364|10] आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः /
[364|11] अनागामीत्यधिकृतम् /
[364|11-364|12] स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रबृति यावत् भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति /
[364|13] नवमस्याप्यानन्तर्यपथे
[364|14-364|15] नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सो ऽर्हत्त्वप्रतिपन्नक एव /
[364|16] वज्रोपमश्च सः // vakk_6.44 //
[364|17] स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत /
[364|18] सर्वानुशयभेदित्वात् / भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति /
[364|18-364|19] सर्वास्तु भेत्तुं समर्थः /
[364|19] सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् /
[364|19-364|20] वज्रोपमानां तु बहुभेदं वर्णयन्ति /
[364|20-364|21] अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ /
[364|21] निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ /
[364|22] निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः /
[364|22-364|23] एवं यावत् भवाग्रनिरोधालम्बनाश्चत्वारः /
[364|23] मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः /
[365|01] कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् /
[365|01-365|02] त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति /
[365|02] यथा ऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः /
[365|03-365|04] आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति /
[365|04-365|05] तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् /
[365|05] अधोभूमिप्रतिपक्षालम्बनं तु भवति / तस्यान्यो ऽन्यहेतुत्वादिति /
[365|05-365|07] येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति /
[365|07-365|08] एवं यावच्चतुर्थध्यान संगृहीताः /
[365|08-365|09] आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच्चतुर्विशतिश्च भवन्ति /
[365|09] पुनर्गोत्रेन्द्रियभेदात् भूयांसो भवन्ति /
[365|10] यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं
[365|11] तत्क्षयाप्त्या क्षयज्ञानं
[365|12] तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते /
[365|12-365|13] वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः /
[365|13-365|14] अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः /
[365|15] अशैक्षो ऽर्हन्नसौ तदा /
[365|16-365|17] उत्पन्ने च पुनः क्षयज्ञाने सो ऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः /
[365|17] फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः /
[365|17-365|19] अत एव स परमार्तं करणार्थत्वात् सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति /
[365|19] केन ते शैक्षाः /
[365|19-365|20] आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च /
[365|20] ताः पुनः शीलसमाधिप्रज्ञास्वभावाः /
[365|21] पृथग्जनो ऽपि शैक्षः प्राप्नोति / न / यथाभूतं सत्याप्रज्ञानात् पुनश्चापशिक्षणात् /
[365|22-365|23] अत एव द्विरभिधानं सूत्रे "शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत" इति /
[365|23-365|24] यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत /
[365|24] प्रकृतिस्थ आर्यः कथं शिक्षणशीलः /
[365|25] आशयतः / स्थिताध्वगवत् प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य /
[365|25-365|26] अथ शैक्षा धर्माः कतमे /
[365|26] शैक्षस्यानास्रवाः / अशैक्षाः कतमे / अशैक्षस्यानास्रवाः /
[365|26-365|27] निर्वाणं कस्मान्न शैक्षम् /
[365|27] अशैक्षपृथग्जनयोरपि तद्योगात् / कस्मान्नाशैक्षम् /
[365|27-366|01] शैक्षपृथग्जनयोरपि तद्योगात् /
[366|01] त एते सर्व एवाष्टावार्यपुद्गला भवन्ति /
[366|01-366|02] प्रतिपन्नकाश्चत्वारश्च फले स्थिताः /
[366|02] तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः /
[366|03] एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नको ऽर्हन्निति / नामत एते ऽष्टौ भवन्ति /
[366|04] द्रव्यतस्तु पञ्च / प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः /
[366|04-366|05] शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् /
[366|05] अनुपूर्वाधिगमं प्रत्येवमुच्यते /
[366|05-366|07] भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति /
[366|08] द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति /
[366|08-366|09] केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति /
[366|10] लोकोत्तरेण वैराग्यं भवाग्रात्
[366|11] न लौकिकेन / कि कारणम् /
[366|11-366|12] तत ऊर्ध्व लौकिकाभावात् स्वभूमिकस्य वा प्रतिपक्षत्वात् /
[366|12] कस्मान्न प्रतिपक्षः /
[366|12-366|13] तत्क्लेशानुशयितत्वात् /
[366|13-366|14] यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशो ऽनुशेते इति /
[366|15] अन्यतो द्विधा // vakk_6.45 //
[366|16] भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि / तत्र पुनः
[366|17] लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा /
[366|18-366|19] लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च /
[366|20] लोकोत्तरेण चेत्येके
[366|21] लोकोत्तरेणाप्येवमित्यपरे / किं कारणम् /
[366|22] त्यवते क्लेशासमन्वयात् // vakk_6.46 //
[367|01-367|03] यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् /
[367|04] त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति /
[367|05] भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः /
[367|06-367|07] असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् /
[367|07-367|09] तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति /
[367|09-367|10] यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् /
[367|11] कतपया पुनर्भूम्या कुतो वैराग्यं भवति /
[367|12] अनास्रवेण वैराग्यमनागाम्येन सर्वतः // vakk_6.47 //
[367|13] आभवाग्रात् /
[367|13-367|14] अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति /
[367|14] नेत्याह / किं तर्हि /
[367|15] ध्यानात्सामन्तकाद्वा ऽन्त्यो मुक्ति मार्गस्त्रिभूजये /
[367|16] नव ह्यपपत्तिभूमयः / सर्वकामधातुरष्टौ च ध्यानारुप्याः /
[367|16-367|17] तत्र यावत् द्वितीयध्यानवैराग्यं त्रिभूमिजयः /
[367|17-367|18] तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् /
[367|19] नोर्ध्वं सामन्तकात्
[367|20] त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् /
[367|20-367|21] त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात् कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् /
[368|01] इन्द्रियसंचारस्य दुष्करत्वात् /
[368|01-368|02] अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति /
[368|03] "अनास्रवेण वैराग्यमनागम्येन सर्वत" इत्युक्तमन्यैस्तु नोक्तम् / अत उच्यते
[368|04] आर्यैरष्टाभिः स्वोर्ध्वभूजयः // vakk_6.48 //
[368|05-368|06] अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् /
[368|06-368|07] तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् /
[368|08] विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् /
[368|09] शान्ताद्युदाराद्याकाराः
[368|10] विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः /
[368|10-368|11] ते पुनर्यथाक्रमम्
[368|12] उक्तराधरगोचराः // vakk_6.49 //
[368|13] विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः /
[368|14] आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च /
[368|14-368|15] अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् /
[368|15-368|16] अप्रणीतत्वात् दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् /
[368|16-368|17] स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात् भित्त्यनिःसरणवत् /
[368|17] एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः / गत मानुषङ्गिकम् /
[368|18] इदं तु वक्तव्यम् /
[368|19] अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते
[368|20] यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः
[368|21] अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते /
[368|22] न चेत् /
[369|01] क्षयज्ञानमशैक्षी वा दृष्टिः
[369|02-369|03] न चेदकोप्यधर्मा भवति क्षयज्ञानात् क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः /
[369|03] न त्वनुत्पादज्ञानं परिहाणिसंभवात् /
[369|03-369|04] किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते /
[369|05] सर्वस्य सा ऽर्हतः // vakk_6.50 //
[369|06-369|07] अकोप्यधर्मणो ऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः /
[369|08] यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि / श्रमण्यफलानि /
[369|09] किमिदं श्रामण्यं नाम /
[369|10] श्रावण्यममलो मार्गंः
[369|11] अनास्रवो मार्गः श्रमण्यम् / तेन ह्हि श्रमणो भवति / क्लेशसंशमनात् /
[369|12-369|13] "शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत" इति सूत्रे वचनात् /
[369|13-369|14] अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः /
[369|14] तस्य पुनः श्रामण्यस्य /
[369|15] संस्कृतासंस्कृतं फलम् /
[369|16] संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे / अपि तु
[369|17] एकान्ननवतिस्तानि
[369|18] कानि पुनस्तानि
[369|19] मुक्तिमार्गाः सह क्षयैः // vakk_6.51 //
[369|20-369|22] दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च /
[369|22-370|01] तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि /
[370|01] तन्निष्यन्दपुरुषकारफलत्वात् /
[370|01-370|02] तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि /
[370|02] एवमेकान्ननवतिर्भवन्ति /
[370|02-370|03] एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते /
[370|03] न कर्तव्यम् / यद्यपि भूयांसि फलानि
[370|04] चतुष्फलव्यवस्था तु पञकारणसंभवात् /
[370|05-370|06] यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् /
[370|06] कतमानि पञ्च /
[370|07] पूर्वत्यागो ऽन्यमार्गाप्तिः क्षयसंकलनं फले // vakk_6.52 //
[370|08] ज्ञानाष्टकस्य लाभो ऽथ षोडशाकारभावना /
[370|09] पूर्वमार्गत्यागो ऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् /
[370|09-370|10] प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् /
[370|10] युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् /
[370|11] षोडशाकारभावना अनित्याद्याकाराणाम् /
[370|11-370|12] इमानि हि पञ्च कारणानि फले फले भवन्ति /
[370|13-370|14] यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते /
[370|15] लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म् // vakk_6.53 //
[370|16-370|17] न हि तत्र लौकिकमार्गफलमेव् प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा /
[370|17] किं तर्हि /
[370|17-370|18] दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते /
[370|18] सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् /
[370|18-370|19] अत एव हि सूत्र उक्तं "सकृदागामिफलं कतमत् /
[370|19-370|20] यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति /
[370|20] अनागामिफलं कतमत् /
[370|20-370|21] यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि"ति /
[370|21] अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते /
[370|21-370|22] तद्वलेन परिहीणामरणात् /
[370|22] अतो ऽप्यस्य मरणं युक्तं श्रामण्यफलम् /
[370|22-370|23] यदेव चैतच्छ्रामण्ययुक्तं /
[370|24] ब्राह्मण्यं ब्रह्मचक्रं च तदेव
[370|25] क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु
[371|01] ब्रह्मावर्तनात् /
[371|02] अनुत्तरब्रह्मण्ययोगात् भगवान्ब्रह्मा /
[371|02-371|03] "एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी"ति सूत्रात् /
[371|03] तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् /
[371|04] धर्मचक्रं तु दृङ्मार्गः
[371|05] चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् / कथमस्य साधर्म्यम् /
[371|06] आशुगत्वाद्यरादिभिः // vakk_6.54 //
[371|07] आशुगत्वात्त्यजनक्रमणात् अजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च /
[371|07-371|08] एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः /
[371|08-371|09] सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः /
[371|09-371|10] सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति /
[371|10-371|11] कुत एतत् आर्यकौण्डिन्यस्य तदुत्पत्तौ "प्रवर्त्तितं धर्मचक्रमि"ति वचनात् /
[371|11-371|12] कथं तत्त्रिपरिवर्तं द्वादशाकारं च /
[371|12] इदं दुःखमार्यसत्यम् /
[371|12-371|13] तत् खलु परिज्ञेयं तत् खलु परिज्ञातमित्येते त्रयः परिवर्ताः /
[371|13-371|14] एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः /
[371|14] प्रतिसत्येमेवं भवन्ति /
[371|14-371|15] त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् /
[371|15] द्वयसप्तस्थानकौशलादेशनावत् /
[371|15-371|16] एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः /
[371|16-371|17] यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते /
[371|17-371|18] तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते /
[371|18] कथं च पुनस्त्रिपरिवर्तम् /
[371|19] सत्यानां त्रिः परिवर्त्तनात् / कथं द्वादशाकारम् / चतुर्णां सत्यानां त्रिधाकरणात् /
[371|20] दुःखं समुदयो निरोधो मार्ग इति /
[371|20-371|21] परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति /
[371|21] परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति /
[371|21-371|22] तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् /
[371|22] अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् /
[371|23-371|24] तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते /
[372|01] अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते /
[372|02] कामे त्रयाप्तिः
[372|03] कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र /
[372|04] अन्त्यस्य त्रिषु
[372|05] अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः /
[372|05-372|06] फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता /
[372|06] तृतीयस्य तु कस्मादप्राप्तिः /
[372|07] नोर्ध्वं हि दृक्पथः /
[372|08] ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति /
[372|08-372|09] न च तेन विना ऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत् कारणम् /
[372|09] किं पुनः कारणं तत्र दर्शनमार्गो नास्ति /
[372|10] आरुप्येषु तावत् श्रवणाभावादधोधात्वनालम्बनाच्च / रूपधातौ तु
[372|11] असंवेगादिह विधा तत्र निष्ठेति चागमात् // vakk_6.55 //
[372|12] रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते /
[372|12-372|13] न च विना संगेनार्यमार्गः शक्तो लब्धुम् /
[372|13] इयं तावद्युक्तिः /
[372|13-372|14] आगमो ऽप्ययं "पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस" इति /
[372|15] विधा हि मार्गरम्भो निर्वाणोपायत्वात् /
[372|16] इदमुक्तं "यद्यकोप्यः क्षयज्ञानादनुत्पादमति" रिति /
[372|16-372|17] तत्र किमर्हतमप्यस्ति भेदः /
[372|17] अस्तीत्युच्यते /
[372|18] षडर्हन्तो मताः
[372|19-372|20] सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्यो ऽकोप्यधर्मा चेति /
[372|21] तेषां पञ्च श्रद्धाध्हिमुक्तिजाः /
[373|01] अकोक्प्यधर्माणं वर्जयित्वा ऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः /
[373|02] विमुक्तिः सामयिक्येषाम् /
[373|03] एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या /
[373|03-373|04] नित्यानुरक्ष्यत्वात् /
[373|04] अत एवैते समयविमुक्ता उच्यन्ते /
[373|04-373|05] समयापेक्षाश्चैते ऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात् धृतघटवत् /
[373|05-373|06] एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् /
[373|07] अकोप्याकोप्यधर्मणः // vakk_6.56 //
[373|08] अकोप्यधर्मणस्त्वकोप्या विमुक्तिः / कोपयितुमशक्यत्वादपरिहाणितः /
[373|09] अतो ऽसमयमुक्तो ऽसौ
[373|10] अत एवासमयविमुक्ति उच्यते / स ह्यसमयापेक्षाविमुक्तिश्च /
[373|10-373|11] इच्छातः समाधिसंमुखीभावात् /
[373|11-373|12] कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः /
[373|13] दृष्टिप्रप्तान्वयश्च सः /
[373|14] स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः /
[373|15] किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् /
[373|16] तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः // vakk_6.57 //
[373|17] कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति /
[373|17-373|18] कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः /
[373|18-373|19] एवं यावदकोओप्यधर्मतां गतो वेदितव्यः /
[373|19-373|20] तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा /
[373|20] चेतनाधर्मा यश्चेतयितुं भव्यः / अनुरक्षणाधर्मा यो ऽनुरक्षितुं भव्यः /
[373|21-374|01] स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन /
[374|01] प्रतिवेधनाभव्यो यो ऽकोप्यः प्रतिवेद्धं भव्यः /
[374|02] अकोप्यधर्मा यो नैव परिहातुं भव्यः /
[374|02-374|03] प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ /
[374|03] तृतीयः सातत्यप्रयोगी / चतुर्थः सत्कृत्यप्रयोगी /
[374|03-374|04] पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु /
[374|04] षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च /
[374|04-374|05] नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत् प्रतिवेधनाभव्यः प्रतिविध्यति /
[374|05-374|06] संभवं तु प्रत्येवमुच्यते /
[374|06] एवं कृत्वा धातुत्रये ऽपिषडर्हन्तो युज्यन्ते /
[374|06-374|08] येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति तेषां कामधातौ षट् रूपारुप्यधात्वोः स्थिताकम्प्यो ऽकोप्यधर्मा च /
[374|08] तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् /
[374|09] कः पुनरेषां कुतः परिहीयते / फलात् गोत्राद्वा /
[374|10] गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः
[374|11] चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः /
[374|11-374|12] न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयते /
[374|12-374|13] परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः /
[374|13] तेषामपि तु
[374|14] न पूर्वकात् /
[374|15] यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते / शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् /
[374|16] शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् /
[374|16-374|17] यत्तु पश्चात् प्रतिलब्धमुत्तापनया तस्मात् परिहीयते /
[374|17-374|18] यस्य च यत् प्रथमं फलं स तस्माना परिहीयते /
[374|18] शेषात् परिहीयते /
[374|18-374|19] अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः /
[374|19] एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति /
[374|19-374|20] तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः /
[374|20] परिहाय वा शैक्षत्वम् / चेतनाधर्मणश्चत्वारः /
[374|20-374|21] एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च /
[374|21-374|22] एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट् सप्त प्रकारा वेदितव्याः /
[374|22-374|23] यस्य च यत् प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् /
[374|23-374|24] अन्यथा हि तद्गोत्रविशेष लभाद् वृद्धिरेवास्य स्यान्न परिहाणिः /
[374|25] किं पुनः कारणं प्रथमानाम् नास्ति परिहाणिः / दर्शनहेयानामवस्तुकत्वात् /
[374|26] आत्माधिष्ठानप्रवृत्ता ह्येते / सत्कायदृष्टिमूलकत्वात् /
[375|01] स चात्मा नास्तीति / असदालम्बनास्तर्हि प्राप्नुवन्ति / नासदालम्बनाः /
[375|01-375|02] सत्यालम्बनत्वात् /
[375|02] वितथालम्बनास्तु / कतमश्च क्लेशो नैवमस्ति विशेषः /
[375|02-375|04] आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते /
[375|04-375|06] भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते /
[375|06-375|07] अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशो ऽपि /
[375|07-375|08] तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् /
[375|08-375|09] तस्मादप्यवस्तुकाउच्यन्ते /
[375|09-375|10] अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात् क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा /
[375|10-375|12] न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः /
[375|12] अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः /
[375|12-375|13] एष एव चन्यायः /
[375|13] कथमिदं गम्यते / आगमाद्युक्तितश्च / कथमागमात् /
[375|13-375|14] "तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि"त्युक्तम् /
[375|14-375|15] आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञया ऽधिगमः / [375|15-375|16] "शैक्षस्य चाप्रमादकरणिये ऽप्रमादकरणीयं वदामी" त्युक्तं ना ऽर्हतः /
[375|16-375|17] "अर्हतो ऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी"त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता /
[375|17-375|18] "या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता /
[375|18] ततो ऽहं न केनचित् पर्यायेण परिहाणं वदामी"ति चोक्तम् /
[375|19] सामयिक्या अस्तीति चेत् / वयमप्येवं ब्रूमः / सा तु विचार्या /
[375|19-375|20] किमर्हत्त्वमाहोस्विद्धच्यानानीति /
[375|20-375|21] मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते /
[375|21] दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते /
[375|22] आस्वादनीयत्वादित्यपरे /
[375|22-375|23] अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते /सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति /
[375|23-375|24] यदि चार्हत्त्वात् परिहणिसंभवो ऽभविष्यत् किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् /
[375|24-375|25] अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु /
[375|25-375|26] कश्चित् लाभसत्कारव्याक्षेपदीषात् परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः /
[375|27] कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः / तत्र यः परिहीयते स परिहाणधर्मा /
[375|27-375|28] यो न परिहीयते सो ऽपरिहाणधर्मा /
[375|28] एवं चेतनाधर्मादयो ऽपि योज्याः /
[375|28-376|01] अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः /
[376|01] अपरिहाणधर्मा ऽनुत्तापनागतः /
[376|02] अकोप्यधर्मा तूत्तापनागतः /
[376|02-376|03] तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते /
[376|03-376|04] स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति /
[376|04] उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते /
[376|05-376|07] आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च /
[376|07] तस्मात्सो ऽपि नार्हत्त्वात् परिहीणः /
[376|07-376|08] दशोत्तरे चोक्तम् /
[376|08] "एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः /
[376|08-376|09] एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि"ति /
[376|09-376|10] यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत् किमर्थं तत्रैव दशके ऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् /
[376|10-376|11] न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् /
[376|11] किं तर्हि /
[376|11-376|12] साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति /
[376|12] किमनेन ज्ञापितं भवति /
[376|12-376|13] यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् /
[376|13] अथोत्पादनमर्हतीति /
[376|13-376|14] अन्यत्सुतरामर्हति /
[376|14] तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् /
[376|14-376|15] कथं तर्हि समयविमुक्तो ऽर्हन्नुच्यते /
[376|15] यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः /
[376|15-376|16] विपर्ययादसमयविमुक्तः /
[376|16] अभिधर्मे ऽपि चोक्तं "त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति /
[376|17-376|18] कामरागानुशयिओ ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार" इति /
[376|18] परिपूर्णोत्पत्तिरेवमिति चेत् /
[376|19] कस्य वा परिपूर्णकारणस्योत्पत्तिः / एवं तावदागमात् / कथं युक्तितः /
[376|19-376|21] यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते /
[376|21] अथ नोत्पन्नः / कथं क्षीणास्रवो भवति /
[376|21-376|22] अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः /
[376|22-376|23] अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् /
[376|23-376|25] यत्रेदमुक्तं "तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित् स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का" इति /
[376|25] स हि तत्रार्हन्नेव ज्ञापितः /
[376|25-377|01] "दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि"ति वचनात् /
[377|01-377|02] अर्हतो ह्येतद्बलमन्यत्रोक्तम् /
[377|02-377|03] "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि"ति चाभिधानात् अस्त्येतदेवम् /
[377|03-377|04] यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतो ऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः /
[377|05] प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः /
[377|05-377|06] अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः /
[377|07] किं पुनरिमे ऽर्हन्त एव षड्गोत्रा भवन्ति अथान्ये ऽपि षड्गोत्रा भवन्ति /
[377|08] शैक्षानार्याश्च षड्गोत्राः
[377|09] शैक्षपृथग्जना अप्येवं षड्गोत्राः / तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि / अपि तु
[377|10] संचारो नास्ति दर्शने // vakk_6.58 //
[377|11] दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति / प्रयोगासंभवान्न दर्शनमार्गे /
[377|11-377|12] कश्चित् पृथग्जनावस्थायामिन्द्रियाणि संचरति /
[377|12] कश्चिच्छद्धाधिमुक्तावस्थायाम् /
[377|13-377|16] यदिदं सूत्र उक्तं "ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततो ऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततो ऽहं न केनचित् पर्यायेण परिहाणिं वदामी"ति /
[377|16-377|17] कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः /
[377|18] परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः /
[377|19] प्राप्तपरिहाणिर्यदि प्रतिलब्धात् गुणात् परिहीयते /
[377|19-377|20] अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति /
[377|20] उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति /
[377|20-377|21] आसां पुनः परिहाणीनाम्
[377|22] अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा // vakk_6.59 //
[378|01] बुद्धस्योपभोगपरिहाणिरेव नान्या / अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च /
[378|02] पुद्गलविशेषधर्माप्रापणात् / अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति /
[378|02-378|03] अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः /
[378|03] सर्वस्यानास्रवा विमुक्तिरकोप्या /
[378|04] अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् / अत एतद्चोद्यमित्यपरिहाणिवादी /
[378|05] अथ योइ ऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते / नास्त्येतत् / यस्मात्
[378|06] म्रियते न फलभ्रष्टः
[378|07] नैव हि कश्चित्फलात् परिहीणः कालं करोति /
[378|07-378|09] "धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् /
[378|09] अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् /
[378|09-378|10] यतश्च फलात् परिहीयते तत्फलस्थेन यदकार्यं
[378|11] तादकार्यं करोति न /
[378|12] परिहीणो ऽपि संस्तत्फलविरुद्धां क्रियां न करोति / शूरप्रस्खलनापतनवत् /
[378|13] अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति / [378|14] विमुक्त्यानन्तर्यपथा नवोकोप्ये
[378|15-378|16] अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति /
[378|16] यथार्हत्त्वं प्राप्नुवतः / किं कारणम् /
[378|17] अतिसेवनात् // vakk_6.60 //
[378|18] तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते /
[378|18-378|19] शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् /
[378|20] दृष्टच्याप्ततायामेकैकः
[379|01-379|02] दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः /
[379|02] प्रयोगमार्गस्तु सर्वत्रैक एव / ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
[379|03] अनास्रवाः
[379|04] न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः / क्व पुनरिन्द्रियाणि वर्धन्ते /
[379|05] नृषु वर्धनम् /
[379|06] मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र / परिहाण्यसंभवात् /
[379|07] कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति /
[379|08] अशैक्षो नव निश्रित्य भूमीः
[379|09] अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि /
[379|10] शैक्षस्तु षट्
[379|11] आरुप्यवर्ज्यः / किं कारणम् /
[379|12] यतः // vakk_6.61 //
[379|13] सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् /
[379|14-379|15] इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते /
[379|15-379|16] न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत् कारणम् /
[379|17] त एते षडेवार्हन्तो नव भवन्ति / इन्द्रियभेदात् / कथं कृत्वा /
[379|18] द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः // vakk_6.62 //
[380|01] कतमे सप्त श्रावकाः / परिहाणधर्मादयः पञ्च /
[380|01-380|02] अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव /
[380|02] द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च /
[380|03] इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति /
[380|04] सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति /
[380|04-380|05] श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च /
[380|05] एते पुनः
[380|06] प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः /
[380|07] पुद्गलाः सप्त
[380|08] प्रयोगतः श्रद्धाधर्मानुसारिणौ / पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् /
[380|09] इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ /
[380|09-380|10] मृदुतीक्ष्णेन्द्रियत्वात् श्रद्धाधिमोक्षप्रज्ञाधिक्यतः /
[380|10-380|11] समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् /
[380|11] विमुक्तितः प्रज्ञाविमुक्तः / समापत्तिविमुक्तितः उभयतोभागविमुक्तः /
[380|12] नामत एते सप्त पुद्गलाः /
[380|13] षट् त्वेते /
[380|14] द्रव्यतस्त्वेते षट् भवन्ति /
[380|15] द्वौ द्वौ मार्गत्रये यतः // vakk_6.63 //
[380|16] दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ / तावेव भावनामार्गे द्वौ भवतः /
[380|17] श्रद्धाधिमुक्तदृष्टिप्राप्तौ / तौ पुनरशैक्षमार्गे द्वौ भवतः / समयासमयविमुक्ताविति /
[380|18] तत्रेन्द्रियतस्त्रयः / श्रद्धानुसारिणः गोत्रतः पञ्च / मार्गतः पञ्चदश /
[380|18-380|19] अष्ट क्षान्तिसप्तज्ञानस्थाः /
[380|19] वैराग्यतस्त्रिसप्ततिः / सकलबन्धनः / कामवैराग्यान्नव /
[380|20] एवं यावदाकिञ्चन्यायतनवैराग्यात् / आश्रयतो नव / त्रिद्वीपषाड्देवनिकायजाः /
[380|21-380|22] इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च /
[380|22] एवमन्ये ऽपि पुद्गलाः संभवतः संख्येयाः /
[381|01] कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः /
[381|02] निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः /
[381|03] यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः /
[381|03-381|04] प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् /
[381|04] इतरः प्रज्ञाविमुक्तः /
[381|04-381|05] प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् /
[381|06-381|07] यदुक्तं भगवता "क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष" इति /
[381|07] कियता परिपूर्णः शैक्षो भवति /
[381|08] समापत्तिन्द्रियफलैः पूर्णः शैक्षो ऽभिधीयते // vakk_6.64 //
[381|09] त्रिविधा शैक्षस्य परीपूरिः / फलतः इन्द्रियतः समापत्तितश्च /
[381|09-381|10] फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणो ऽनागामिनः /
[381|10-381|11] इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य /
[381|11] फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणो ऽनागामिनः /
[381|11-381|12] फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः /
[381|12] फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः /
[381|13] समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन /
[381|14] अशैक्षपरिपूर्णत्वं द्वाभ्याम्
[381|15] इन्द्रियतः समापत्तिश्च /
[381|15-381|16] फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते /
[381|16-381|17] इन्द्रियत् एवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य /
[381|17] समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य /
[381|17-381|18] इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य /
[381|19-381|20] वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावना ऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति /
[381|20] कतिविध एष समासतो मार्ग इति /
[381|21] मार्गः समासतः /
[381|22] विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः // vakk_6.65 //
[382|01] प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः /
[382|01-382|02] आनन्तर्यमार्गो येनावरणं प्रजहाति /
[382|02] विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत् प्रथमत उत्पद्यते /
[382|03] विशेषमार्गो य एभ्यो ऽन्यो मार्गः / कस्मात् मार्ग इत्युच्यते /
[382|03-382|04] एष हि निर्वाणस्य पन्था एतेन तद्गमनात् /
[382|04] निर्वाणं मार्गयन्त्यनेनेति वा / [382|04-382|05] विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् /
[382|05-382|06] तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात् निरूपधिशेषप्रवेशाद्वा /
[382|07] मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् / चतस्रः प्रतिपदः /
[382|08] अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा / अस्ति दुःखा क्षिप्राभिज्ञा /
[382|08-382|09] एवं सुखा ऽपि द्विधा /
[382|09] तत्र
[382|10] ध्यानेषु मार्गः प्रतिपत्सुखा
[382|11-382|12] चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् /
[382|13] दुःखा ऽन्यभूमिषु /
[382|14-382|16] अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति /
[382|16] सा पुनर्द्विविधा ऽपि प्रतिपत्
[382|17] धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु // vakk_6.66 //
[382|18-382|19] मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि /
[382|19] सेयं धन्धाभिज्ञा /
[382|19-382|20] एवं क्षिप्राभिज्ञा /
[382|20] धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा /
[382|20-382|21] पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते /
[382|21] सप्तत्रिंशद्वोधिपक्षा धर्माः / चत्वारि स्मृत्युपस्थानानि /
[382|22] चत्वारि सम्यक् प्रहाणानि / चत्वार ऋद्धिपादाः / पञ्चेन्द्रियाणि /
[382|22-382|23] पञ्च बलानि /
[382|23] सप्त बोध्यङ्गानि / आर्याष्टाङ्गो मार्गः इति / तत्र
[382|24] अनुत्पादक्षयज्ञाने बोधिः
[383|01] क्षयज्ञानमनुत्पादज्ञानं च / पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते /
[383|01-383|02] श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति /
[383|02] अशेषाविद्याप्रहाणात् /
[383|02-383|03] ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च /
[383|04] तादनुलोम्यतः /
[383|05] सप्तत्रिंशत्तु तत्पक्ष्याः
[383|06] बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते /
[383|07] नामतो द्रव्यतो दश // vakk_6.67 //
[383|08] दश द्रव्याणि सर्वे बोधिपक्ष्याः / कतमानि दश /
[383|09] श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे /
[383|10] प्रश्रब्धिशीलसंकल्पाः
[383|11] इत्येतानि दश द्रव्याणि / कथं कृत्वा /
[383|12] प्रज्ञा हि स्मृत्युपस्थितिः // vakk_6.68 //
[383|13] वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः /
[383|14-383|17] प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव /
[383|17] सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव /
[383|17-383|18] ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक् समाधिश्च समाधिरेव /
[383|18-383|19] स्मृतिसंबोध्यङ्गं सम्यक् स्मृतिश्च स्मृतिरेव /
[383|19] किमवशिष्यते /
[383|19-383|20] प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च /
[383|20-383|21] तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति /
[383|21] वैभषिकाणा मेकादश /
[383|21-384|01] कायवाक्कर्मणोरसंभिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये इति /
[384|01-384|02] यत्त्वेतदुक्तं "प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय" इति /
[384|02] अत्र वेदितव्यम् /
[384|03] प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते // vakk_6.69 //
[384|04] प्रधानग्रहणेनैवमुक्तम् /
[384|04-384|05] सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः /
[384|05] कस्माद्वीर्य सम्यक्प्रधानमुक्तम् /
[384|05-384|06] तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते /
[384|06] समाधिः कस्माद् ऋद्धिपाद उक्तः / तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः /
[384|07] ये त्वाहुः "समाधिरेवर्द्धिः पादाश्छन्दादय" इति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
