Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
अभिधर्मकोशभाष्य
- Tác giả
- वसुबन्धु
- Thông tin
- GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[384|07-384|08] तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति /
[384|08] च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते /
[384|08-384|09] "ऋद्धिम् च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा /
[384|09-384|10] इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति /
[384|10] एको भूत्वा बहुधा भवती"ति विस्तरः /
[384|11] कस्मादिन्द्रियाण्येव वलान्युक्तानि / मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् /
[384|12] इन्द्रियाणां किङ्कृतो ऽनुक्रमः / श्रद्दधानो हि फलार्थं वीर्यमारभते /
[384|12-384|13] आरब्धवीर्यस्य स्मृतिरूपतिष्ठते /
[384|13] उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते /
[384|13-384|14] समाहितचित्तो यथाभूतं प्रजानातीति /
[384|15] कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते /
[384|16-384|17] आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः / भावने दर्शने चैव सप्त वर्गा यथाक्रमम् // vakk_6.70 //
[384|18] आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि /
[384|18-384|19] विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि /
[384|19-384|20] अपरिहाणीयकुशलमूलप्रवेशत्वात् मूर्धष्वृद्धिपादाः /
[384|20] अपुनःपरिहाणित आधिपत्यप्राप्तत्वात् क्षान्तिष्विन्द्रियाणि /
[384|21] क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा /
[384|21-384|22] बोध्यासन्नत्वात् भावनामार्गे बोध्यङ्गानि /
[384|22] गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी /
[384|23] तस्याशुगामित्वात् / संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ /
[384|23-384|25] तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः /
[384|25-384|26] अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति /
[384|26-385|02] "आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये"ति सूत्रे वचनात् /
[385|02-385|03] तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि /
[385|03-385|04] ततः समाधिविशोधनादृद्धिपादाः /
[385|04] समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि /
[385|05] तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि / दर्शनमार्गे बोध्यङ्गानि /
[385|06] प्रहमतो धर्मतत्त्वावलोकात् उभयोर्मार्गाङ्गानि /
[385|06-385|07] तथा ह्युक्तम् "आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति /
[385|07-385|08] चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत् सप्त बोध्यङ्गानी"ति /
[385|08-385|10] पुनश्चोक्तं "यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि"ति /
[385|10-385|11] तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः /
[385|11] सिद्धो ऽनुक्रमः /
[385|12] इदं तु वक्तव्यम् /
[385|12-385|13] कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति /
[385|14] अनास्रवाणि बोध्यङ्गमार्गाङ्गानि
[385|15] भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् /
[385|15-385|16] लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति /
[385|16] ते तु नार्यमार्गशब्दं लभन्ते /
[385|17] द्विधेतरे /
[385|18] अन्ये बोधिपक्षाः सास्रवाः / कस्यां भूमौ कति बोधिपक्षाः /
[385|19] सकलाः प्रथमे ध्याने
[385|20] सर्वे सप्तत्रिंशत्प्रथमे ध्याने /
[385|21] अनागम्ये प्रीतिवर्जिताः // vakk_6.71 //
[385|22] कस्मादनागम्ये प्रीत्यभावः /
[385|22-385|23] सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च /
[386|01] द्वितीये ऽन्यत्र संकल्पात्
[386|02] द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव / तत्र वितर्काभावात् /
[386|03] द्वयोस्तद्द्वयवर्जिताः /
[386|04] तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् /
[386|05] ध्यानान्तरे च
[386|06] ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव /
[386|07] शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु // vakk_6.72 //
[386|08] वर्जिता इति वर्तते /
[386|08-386|09] आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् /
[386|10] कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः /
[386|11] द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् /
[386|12] बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः /
[386|13] त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः // vakk_6.73 //
[386|14] लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि /
[386|15-386|16] दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते /
[386|16-386|17] मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघे ऽवेत्यप्रसादं प्रतिलभेते /
[386|17-386|18] यो हि तयोः प्रसादः सो ऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः /
[386|18] अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते /
[386|19] को ऽयमिह धर्मो ऽभिप्रेतः /
[387|01] धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः // vakk_6.74 //
[387|02] मार्गश्च
[387|03] अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः /
[387|03-387|04] त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारो ऽवेत्यप्रसादा उच्यन्ते /
[387|05] द्रव्यतस्तु द्वे श्रद्धा शीलं च
[387|06-387|07] बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः /
[387|07] किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः /
[387|08] निर्मला /
[387|09] अवेत्यप्रसादा इति को ऽर्थः / यथाभूतसत्यान्यवबुध्य संप्रत्ययो ऽवेत्यप्रसादः /
[387|10] यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् /
[387|10-387|11] कथं व्युत्थितः संमुखी करोति /
[387|11-387|12] सम्यक्संबुद्धो वत भगवान् स्वाख्यातो ऽस्य धर्मविनयः सुप्रतिपन्नो ऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् /
[387|12-387|13] चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः /
[387|13] एवं प्रसन्नस्यैषा प्रतिपत्तिरिति /
[387|14] आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा /
[387|14-387|15] सूत्र उक्त"मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतो ऽशैक्ष" इति /
[387|15-387|16] कस्माच्छैक्षस्य सम्यक् विमुक्तिः सम्यग्ज्ञानं च नोक्तम् /
[387|17] नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् /
[387|18] बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति /
[387|18-387|19] कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत /
[387|19] न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते /
[387|19-387|20] बिना च विमुक्तच्या कथं विमुक्तिज्ञानम् व्यवस्थाप्यते /
[387|20-387|21] अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् /
[388|01] केयं विमुक्तिर्नाम /
[388|02] सा पुनर्द्विधा // vakk_6.75 //
[388|03] संस्कृता चासंस्कृता च / तत्र /
[388|04] असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता /
[388|05] क्लेशप्रहाणमसंस्कृता विमुक्तिः / अशैक्षाधिमोक्षः संस्कृता विमुक्तिः /
[388|06] साङ्गः
[388|07] सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता / अङ्गानां संस्कृतत्वात् /
[388|08] सैव विमुक्ती द्वे
[388|09] सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते /
[388|09-388|10] चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च /
[388|10] विमुक्तिस्क्न्धो ऽपि स एव द्रष्ट्टव्यः /
[388|10-388|11] यत्तर्हि सूत्र उक्तं "कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् /
[388|11-388|13] इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि"ति विस्तरः /
[388|14] तस्मानाधिमोक्ष एव विमुक्तिः / किं तर्हि /
[388|14-388|15] तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे /
[388|15] उक्ता विमुक्तिः /
[388|16] सम्यग्ज्ञानं तु सम्यग्दृष्टिः / व्यतिरिक्तं कतमत् /
[388|17] ज्ञानं बोधिर्यथोदिता // vakk_6.76 //
[388|18] यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् /
[388|18-388|19] यदुत क्षयज्ञानमनुत्पादज्ञानं च /
[388|20] कतमत् पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् /
[388|21-438|821] विमुच्यते जायमानसशैक्षं चित्तमावृतेः /
[389|01] "अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य" इति शास्त्रपाठः /
[389|02] किं पुनस्तस्यावरणम् / क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् /
[389|02-389|03] वज्रोपमे हि समाधो स च प्रहीयते /
[389|03] तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते / सा च प्रहीणा भवति /
[389|04] तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च / यत्तर्हि नोत्पद्यमानं लौकिकं च /
[389|04-389|05] तदपि विमुच्यते /
[389|05] यत्तु नियतमुत्पत्तौ तदेवोक्तम् /
[389|05-389|06] लौकिकं कुतो विमुच्यते /
[389|06] तत एवोत्पत्त्यावरणात् /
[389|06-389|07] ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् /
[389|07] कीदृशं तत् / क्लेशप्राप्तिसहितम् /
[389|07-389|08] किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति /
[389|09] निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् // vakk_6.77 //
[389|10] वर्तमान इत्यर्थः /
[389|11-389|12] या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति /
[389|12] क एषां विशेषः /
[389|13] असंस्कृतैव धात्वाख्या
[389|14] सैवासंस्कृता विमुक्तिस्त्रयो धातवः / तत्र पुनः
[389|15] विरागो रागसंक्षयः /
[389|16] रागस्य प्रहाणं विरागधातुः /
[389|17] प्रहाणधातुरन्येषां /
[389|18] संक्षय इति वर्तते / रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः /
[389|19] निरोधाख्यस्तु वस्तुनः // vakk_6.78 //
[389|20] संक्षय इत्येवानुवर्तते / क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः /
[389|21] येन वस्तु निर्विद्यते विरज्यते ऽपि तेन वस्तुना / चतुष्कोटिकम् / कथं कृत्वा /
[390|01] निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः
[390|02] दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः /
[390|03] विरज्यते /
[390|04] सर्वैर्जहाति यैः
[390|05] सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते /
[390|05-390|06] यैः क्लेशान् प्रजहाति /
[390|07] एवं चतुष्कोटिकसंभवः // vakk_6.79 //
[390|08] एवं चतुष्कोतिकं सिध्यति / निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः /
[390|09] क्लेशान् प्रजहत् निर्वेदवस्त्वालम्बनत्वात् /
[390|09-390|10] विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् /
[390|10] प्रामोद्यवस्त्वालम्बनत्वात् /
[390|10-390|11] उभयं पूर्वैः क्लेशान् प्रजहत् /
[390|11] नोभयमुत्तरैः क्लेशानप्रजहदिति /
[390|11-390|12] तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति /
[390|12-390|13] ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति /
=====================================================================
[390|14-390|15] अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति
[390|16] //श्री लामावाकस्य यदत्र पुण्यम् //
सप्तमं कोशस्थानम्
=====================================================================
नमो बुद्धाय
===================================================================== [391|02] क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च /
[391|03] किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः /
[391|04] नामला क्षान्तयो ज्ञानं
[391|05] तत्प्रहेयस्य विचिकित्सा ऽनुशयस्याग्रहीणत्वात् /
[391|05-391|06] दृष्टयस्तु ता सन्तिरणात्मकत्त्वात् यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः
[391|07] क्षयानुत्पादधीर्न दक् /
[391|08] क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् /
[391|09] तद्न्योभयथार्या धीः
[391|10] क्षान्तिक्षयानुत्पादज्ञानेभ्यो ऽन्या ऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च /
[391|11] अन्या ज्ञानं
[391|12] लौकिकी प्रज्ञा सर्वैव ज्ञानम् /
[391|13] दृशश्च षट् // vakk_7.1 //
[391|14] पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः /
[391|14-391|15] एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः /
[391|15] ज्ञानं त्वेषा चान्या च / कियता सर्वज्ञानसंग्रहः / दशभिर्ज्ञानैः /
[591|16]39116] समासेन तु
[391|17] सास्रवानास्रवं ज्ञानं
[391|18] तयोः पुनः
[391|19] आद्यं संवृतिज्ञापकम् /
[392|01] यत्सास्रवं तत्संवृतिज्ञानम् / प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् /
[392|01-392|02] अज्ञानसंवृतत्वात् इत्यपरे /
[392|03] अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च // vakk_7.2 //
[392|04] अनास्र्वं ज्ञानं द्विधा भिद्यते / धर्मज्ञानमन्वयज्ञानं च /
[392|04-392|05] एवगेते द्वे ज्ञाने त्रीणि भवन्ति /
[392|05] संवृतिज्ञानं धर्मज्ञानं च / तत्र
[392|06] सांवृतं सर्वविषयं
[392|07] संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः /
[392|08] कामदुःखदिगोचरम् /
[392|09] धर्मख्यम्
[392|10] धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् /
[392|11] अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् // vakk_7.3 //
[392|12] अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् /
[392|13] ते एव सत्यभेदेन चत्वारि
[392|14] ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति /
[392|14-392|15] दुःखसमुदयनिरोधमार्गज्ञानानि /
[392|15] तदालम्बनत्वात् /
[392|16] एते चतुर्विधे /
[392|17] अनुत्पादक्षयज्ञाने
[392|18-392|19] एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते /
[392|20] ते पुनः प्रथमोदिते // vakk_7.4 //
[393|01] दुःखहेत्वन्वयज्ञाने
[393|02-393|03] प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् /
[393|03] किम् खलु वज्रोपमो ऽपि ताभ्यामेकालम्वनो ऽस्ति / [393|04] यदि दुःखसमुदयालम्वनो भवति / अथ निरोधमार्गालम्बनो नैकालम्बनः /
[393|05] चतुर्भ्यः परचित्तवित् /
[393|06] वेत्तीति वित् ज्ञानम् / परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् /
[393|06-393|07] धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः /
[393|07] तस्य पुनरयं नियमः
[393|08] भूम्यक्षपुद्गलोत्क्रान्तम् नष्टाजातं न वेति तत् // vakk_7.5 //
[393|09] भूम्यतिक्रान्तं न जानातीति /
[393|09-393|10] अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति /
[393|10-393|11] श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति /
[393|11-393|12] अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति /
[393|12-393|13] अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् /
[393|13] किं च भूयः
[393|14] त धर्मान्वयधीपक्ष्यमन्यो ऽन्यं
[393|15] धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति /
[393|15-393|16] अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति /
[393|16] कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः /
[393|16-393|17] दर्शनमार्गे परचित्तज्ञानं नास्ति /
[393|17] तदालम्बनं त्वस्ति /
[393|17-393|18] तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ
[393|19-393|20] दर्शनक्षणौ / श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धो ऽप्रयोगतः // vakk_7.6 //
[393|21] श्रावको दर्शनमार्गात् परचित्तज्ञानेन द्वौ क्षणौ जानाति /
[393|21-393|22] दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च /
[393|22] अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् /
[393|22-394|01] यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति /
[394|01-394|02] प्रत्येकबुद्धस्त्रीन् क्षणान् /
[394|02] प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् /
[394|03] प्रथमद्वितीयपञ्चदशानित्यपरे /
[394|03-394|04] बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति /
[394|05] अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः /
[394|06-394|07] क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः / न परिज्ञेयमित्यादिरनुत्पादमतिर्मता // vakk_7.7 //
[394|08] क्षयज्ञानं कतमत् / दुःखं मे परिज्ञातमिति जानाति /
[394|08-394|09] समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति /
[394|09-394|10] तदुपादाय यत् ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोको ऽभिसमयमिदमुच्यते क्षयज्ञानम् /
[394|10-394|11] अनुत्पादज्ञानं कतमत् /
[394|11-394|12] दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत् मार्गो भावितो न पुनर्भावयितव्य इति /
[394|12] तदुपादाये"ति विस्तरेणोक्तं शास्त्रे /
[394|12-394|13] कथमनास्रवेण ज्ञानेनैवं जानाति /
[394|13] तत्पृष्ठलब्धेन व्युत्थित एवं जानाति /
[394|13-394|14] अतस्तद्विशेषेण तयोर्विशेषः /
[394|14] शास्त्रे ज्ञापिओत इति काश्मीराः /
[394|14-394|15] अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् /
[394|15] ज्प्रत्यक्षवृत्तित्वाद्वा /
[394|15-394|16] अत एवोक्तं "यावत् ज्ञानं दर्शनमपि तदि"ति /
[394|16-394|18] इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च /
[394|18-394|19] तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः /
[394|19] धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः /
[394|19-394|20] दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् /
[394|20] एवमन्वयज्ञानम् /
[394|20-394|21] दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः /
[394|21] धर्मान्वयक्षयानुत्पादज्ञानानाम् / एवं समुदयनिरोधज्ञाने चतुर्णां भागः /
[394|22] मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः / चतुर्णामनन्तरोक्तानां परचित्तस्य च /
[394|23] परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः / धर्मान्वयमार्ग संवृतिज्ञानानाम् /
[394|24] क्षयज्ञानमेकं ज्ञानं षण्णां च भागः / धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् /
[394|25] एवमनुत्पादज्ञानम् /
[394|16-394|26] कस्मात् पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते /
[395|01-395|02] स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् / प्रयोगकृतकृत्यत्वहेतूपचयोतो दश // vakk_7.8 //
[395|03] सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते /
[395|03-395|04] स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् /
[395|04] प्रतिपक्षतो धर्मान्वयज्ञाने / कामथातुर्ध्वधातुप्रतिपक्षत्वात् /
[395|05] आकारतो दुःखसमुदयज्ञाने / आलम्बनाभेदात् /
[395|05-395|06] आकारालम्बनतो निरोधमार्गज्ञाने /
[395|06] आकारालम्बनभेदात् / प्रयोगतः परचित्तज्ञानम् / न हि तेन चैत्ता न ज्ञायते /
[395|07] चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् /
[395|07-395|08] कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः /
[395|08-395|09] प्रथमतः हेतूपचयतो ऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति /
[395|10] सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् /
[395|11] अपि तु
[395|12] धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे /
[395|13] त्रिधातुप्रतिपक्षस्तत्
[395|14] निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः /
[395|15] कामधातोस्तु नान्वयम् // vakk_7.9 //
[395|16] अन्वयज्ञानम् तु सर्वथा नास्ति कामधातुपोरतिपक्षः
[395|17] एषां दशानां ज्ञानानां
[395|18] धर्मज्ञानान्वयज्ञानं षोड्डशाकारम्
[395|19] तान् पुरस्तादुपदेक्ष्यामः /
[395|20] अन्यथा /
[395|21] तथा च सांवृतं
[395|22] संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् /
[395|23] स्वैः स्वैः सत्याकारैश्चतुष्टयम् // vakk_7.10 //
[396|01-396|02] दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति /
[396|03] तथा परमतोज्ञानं निर्मलं
[396|04] अनास्रवं परचित्तज्ञानं तथेव / स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् /
[396|05] समलं पुनः /
[396|06] शेयस्वलक्षणाकारं [396|07] सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत् स्वलक्षणम् तदाकारयति /
[396|08] स्वलक्षणग्राहकत्वात् / लभयमपि तु
[396|09] एकैकद्रव्यगोचरम् // vakk_7.11 //
[396|10-396|11] यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि /
[396|11-396|12] यत्तर्हि भगवतीक्तम् "सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती"त्येवमादि /
[396|12] न तयोर्दुगपद्ग्रहणम् / वस्त्रमलायुगापद्ग्रहणवत् /
[396|12-396|13] सरागं चित्तमिति द्विधा सरागता /
[396|13] संसृष्टसरागता संयोइग सरागता च /
[396|13-396|14] तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततो ऽन्यत्सास्रवं संयोगसरागतया सरागम् /
[396|14-396|15] अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके /
[396|15-396|16] यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् /
[396|16-396|17] एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि /
[396|17-396|18] तस्माद्रागसंप्रयुक्ततया ऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे /
[396|18-396|19] एवं यावत्समोहं विगतमोहं च वेदितव्यम् /
[396|19] संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् /
[396|19-396|20] विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् /
[396|20] संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः /
[396|21] तदेतन्न वर्णयन्ति / तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात् क्लिष्टमिद्धसंप्रयीगात् /
[396|22] शास्त्रविरोधश्च स्यात् / "संक्षिप्तं चित्तं यथाभूतं प्रजानाति /
[396|22-396|23] तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि"ति /
[396|24] लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् / प्रगृहीतं कुशलं वीर्यसंप्रयोगात् /
[396|24-396|25] परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् /
[396|25] महद्गतं कुशलं तद्विपर्ययात् /
[396|25-397|01] मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च /
[397|01-397|02] क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् /
[397|02] कुशलं त्रिभिः कुशलमूलैः / क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् /
[397|03] कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् /
[397|03-397|04] क्लिष्टं तज्जातीयानागतभावना ऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् /
[397|04-397|05] कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् /
[397|05-397|06] अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् /
[397|06] एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते /
[397|07] तस्मादपि क्लिष्टम् परीत्तं कुशलं महद्गतम् / उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् /
[397|08] अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् / एवमब्युपशान्त्ं व्युपशान्तं च /
[397|08-397|09] असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् /
[397|09] समाहितं कुशलं तत्प्रतिपक्षत्वात् /
[397|09-397|10] अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् /
[397|10-397|11] भावितं कुशलं ताभ्यां भावितत्वात् विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् /
[397|12] विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः / एवं तु सूत्रं नानुलोमितं भवति /
[397|13] एषां च पदानां नार्थविशेष उक्तो भवति /
[397|13-397|14] सूत्र उक्तं "कथं चित्तमध्यात्मं संक्षिप्तं भवति /
[397|14-397|15] यच्चित्तम् स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् /
[397|15-397|16] कथं वहिर्विक्षिप्तं भवति /
[397|16] यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि"ति /
[397|16-397|17] ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति /
[397|17-397|18] उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् /
[397|18] ननु चोक्तं शास्त्रविरोधः स्यादिति /
[397|18-397|19] वरं शास्त्रविरोधो न सूत्रविरीधः /
[397|19] कथमेषां पदानां नार्थविशेष उक्तो भवति /
[397|20-397|21] विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात् संक्षिप्तप्रगृहीतादीनां च /
[397|21] न वै नोक्तः पदानामर्थविशेषो भवति /
[397|21-397|22] क्लिष्टसामान्ये ऽपि तद्दोषसंदर्शनात् /
[397|22-397|23] इत्यप्येतत् क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः /
[397|23-397|24] एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति /
[397|24] सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः /
[397|24-397|25] यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यात् इदं नोक्तं स्यात् /
[397|25-397|27] "यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः /
[397|27-397|28] यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया" इति /
[397|28-398|01] किं पुनर्वोध्यङ्गानां व्यग्रा भावना /
[398|01] मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः /
[398|01-398|02] कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् /
[398|02] औद्धत्याधिकं चोद्धतमित्यविरोधः /
[398|02-398|03] तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः /
[398|03] नाभिप्रयिकं वचनं वार्यते /
[398|03-398|04] सूत्रे तु नायमभिप्राय इति ब्रूमः /
[398|04] यत्तूक्तं "सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि"ति /
[398|05] कतमच्चित्तं रागसंप्रयुक्तम् / रागप्राप्तिसहितं चेत् /
[398|05-398|06] असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् /
[398|06] रागालम्बनं चेत् / अर्हतो ऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् /
[398|07] रागालम्बनत्वात् कथं वा तत्सास्रवम् /
[398|07-398|08] सामान्य क्लेशालम्बनत्वादिति चेत् /
[398|08] एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् /
[398|08-398|09] न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् /
[398|09-398|10] तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् /
[398|10] किं तर्हि /
[398|10-398|11] रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते /
[398|11-398|12] यत् तूक्तं "विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे" इति /
[398|13] तत्र तत्प्रप्तिविगमं संधायोक्तम् /
[398|13-398|14] ननु चोक्तम् अन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि"ति /
[398|14] एतेनाभिसंधिना न दोषः /
[398|14-398|15] न तु तद्विगतरागमिति कृत्वा गृह्यते /
[398|15] किं तर्हि / सद्वेषं समोहमित्येवमादि /
[398|15-398|16] अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् /
[398|17] किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति /
[398|17-398|19] न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति /
[398|19-398|20] अन्यथा हि तद्रूपालम्बनमपि स्यात् तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् /
[398|20-398|22] सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते /
[398|22-398|23] शून्यता ऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् /
[398|23] उक्तं परचित्तज्ञानम् /
[399|01] शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते /
[399|02] क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा /
[399|02-399|04] पारमार्थिकयोरपि संवृतिभजनात् शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः /
[399|05] किमनास्रवः स्वलक्षणाकारो ऽस्त्यथ न / काश्मीराणां तावत्
[399|06] नामलः षोडशभ्यो ऽन्य आकारः
[399|07] नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः /
[399|08] अन्ये ऽस्ति शास्त्रतः // vakk_7.12 //
[399|09] श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः / कथं गम्यते / शास्त्रतः इति /
[399|09-399|10] शास्त्रे ह्येवमाह /
[399|10] "स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् /
[399|11] अनित्यतो दुःखतः शून्यतो ऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः /
[399|11-399|12] अस्त्येतस्थानमस्त्येतद्वस्त्विति /
[399|12] योगविहितती विजानोयादि"ति /
[399|12-399|14] नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत् स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् /
[399|14] न/ अन्यत्रावचनात् /
[399|15] एष चेच्छास्त्रार्थो ऽभविष्यत् /
[399|15-399|16] यदिदं पठच्यते "स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति /
[399|16] आह / विजानीयात् /
[399|16-399|18] आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतो ऽक्रियातो ऽपवादतो ऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः /
[399|18-399|19] रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि"ति /
[399|19] अत्राप्येवं पाठो ऽभविष्यत् /
[399|19-399|20] अस्त्येतत् स्थानमस्त्येतद्वस्त्विति /
[399|20] न त्वेवं पठच्यते / तस्मान्नास्यायमर्थः /
[399|21] किं पुनरिमे षोडशाकारा नामत आहोस्वित् द्रव्यतः /
[399|21-399|22] सप्त द्रव्यतो नामतः षोडशेत्येके /
[399|22] दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् /
[399|23] एवं तु वर्णयन्ति /
[400|01] द्रव्यतः षोडशाकाराः
[400|02] तत्प्रत्ययाधीनत्वात् अनित्यम् / षीडात्मकत्वात् दुःखम् /
[400|02-400|03] आत्मीयदृष्टिविपक्षेण शून्यम् /
[400|03] आत्मदृष्टिविपक्षेणानात्मा / हेतुर्वीजधर्मयोगेन /
[400|03-400|04] समुदयः प्रादुर्भावयोइगेन /
[400|04] प्रभवः प्रबन्धयोगेन /
[400|04-400|05] अभिनिष्पादनार्थेन प्रत्ययः /
[400|05-400|06] तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात् घटाभिनिष्पत्तिर्भवति तद्वदिति /
[400|06] अक्न्धोपरमत्वात् निरोधः / अग्निनिर्वाषणात् शान्तः /
[400|06-400|07] निरूपद्रव्त्वात् प्रणीतः /
[400|07] सर्वापक्षालविमुक्तत्वान्निः सरणमिति / गमनार्थेन मार्गः /
[400|07-400|08] योगयुक्तत्वान्न्यायः /
[400|08] सम्यक्प्रतिपादनार्थेन प्रतिपत् / अत्यन्तसमतिक्रमणान्नैर्याणिक इति /
[400|09] अथवा अनात्यन्तिकत्वादनित्यम् / अभिन्यासभूतत्वात् दुःखम् /
[400|09-400|010] अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् /
[400|10] अकामकारित्वादनात्मा /
[400|10-400|010] हेतुरागमनयोगेन /
[400|10-400|11] समुदय उन्मज्जनयोगेन /
[400|11] प्रभवः प्रसरणयोगेन / प्रतिसरणार्घेन प्रत्यय इति /
[400|11-400|12] असंबन्धः संबन्धोपरमत्वान्निरोधः /
[400|12] त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः /
[400|12-400|13] कुशलत्वात् प्रणीतः /
[400|13] परमाश्वासत्वान्निः सरणमिति / कुमार्गविपक्षेण मार्गः /
[400|13-400|14] अन्यायविपक्षेण न्यायः /
[400|14] निर्वाणपुराविरोधनार्थेन प्रतिपत् / सर्वभवप्रतिपक्षत्वान्नैर्याणिकः /
[400|15] इत्येषां व्याख्यानमनेकपर्यायः / यथाभिप्रेतं प्रवक्ष्यामः / उदयव्ययत्वादनित्यम् /
[400|16] प्रतिकूलभावात् / दुःखम् / आत्मरहितत्वाच्छून्यम् / स्वयमनात्मत्वादनात्म /
[400|17] हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् /
[400|17-400|18] "इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा" इति /
[400|18-400|19] प्रभवशब्दः केवलं पश्चात् पठितव्यः शास्त्रे /
[400|19] कः पुनरेषां विशेषः / चतुर्विधो हि च्छन्दः /
[400|20] अस्मीत्यभेदेनात्मभाव्च्छन्दः / स्यामित्यभेदेन पुनर्भवच्छन्दः /
[400|20-400|21] इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः /
[400|21] प्रतिसंधिवन्धच्छन्दश्चतुर्थः / कर्माभिसंस्कारच्छन्दो वा /
[400|22] तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः / फलस्येव वीजम् /
[400|22-400|23] द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः /
[400|23-400|24] तृतीयस्तज्जातीयदुःखप्रत्ययः /
[400|24] फलस्येव क्षोत्रोदकपाश्यादिकम् /
[400|24-400|26] क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात् फलस्येव पुष्पावसानमिति /
[400|26] अथवा /
[400|26-401|01] तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः /
[401|01-401|02] "अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथा ऽस्मीति सदस्मीति असदस्मीति /
[401|02-401|03] भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि /
[401|04-401|05] स्यामित्यस्य भवति इत्थं स्याम् एवं स्याम् अन्यथा स्याम् अपितु स्याम् अपीत्थं स्याम् अप्येवं स्याम् अप्यन्यथा स्यामित्यस्य भवति /
[401|06] प्रवृत्त्युपर्मत्वान्निरोधः / निर्दुःखत्वाच्छन्तः /
[401|06-401|07] "इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि"ति वचनात /
[401|07] निरुत्तरत्वात् प्रणीतः /
[401|07-401|08] अपुनरावृत्तित्वान्निःसरणम् /
[401|08] पथिभूतत्वान्मार्गः / यथाभूतप्रवृत्तत्वान्न्यायः /
[401|08-401|09] प्रतिनियतत्वात् प्रतिपत् /
[401|09] यथोक्तम्
[401|10] "एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय" इति
[401|11] अत्यन्तनिर्याणान्नैर्याणिकः /
[401|11-401|12] अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः /
[401|12-401|13] अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः /
[401|13-401|14] नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः /
[401|14] दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः /
[401|14-401|15] ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः /
[401|15-401|16] पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः /
[401|16-401|17] नास्ति मार्गः कुमार्गो ऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति /
[401|18] आकारो नाम क एष धर्मः /
[401|19] प्रज्ञाकारः
[401|20] एवं तर्हि प्रज्ञा साकारा न भविष्यति / प्रज्ञान्तरासंयोगात् / एवं तु युक्तं स्यात् /
[401|21] सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति /
[401|22] अथ किं प्रज्ञैवाकारयति नेत्याह / किं तर्हि /
[401|23] तया सह /
[401|24] आकारय्न्ति सालम्बाः
[402|01] प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति /
[402|02] सर्वमाकार्यते तु सत् // vakk_7.13 //
[402|03] यत्किञ्चिदस्ति सर्वमाकार्यते /
[402|03-402|04] तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च /
[402|04-402|05] आलम्बना आकार्यन्त एवेति /
[402|06] अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः /
[402|07] त्रिधाद्यं कुशलान्यन्यानि
[402|08] संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् / तत्त्रिविधम् /
[402|08-402|09] कुशलाकुशलाव्याकृतम् /
[402|09] अन्यानि नव ज्ञानानि कुशलान्येव /
[402|10] आद्यं सर्वासु भूमिषु /
[402|11] कामधाती यावद्भवाग्रे /
[402|12] धर्माख्यं षट्सु
[402|13] धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च /
[402|14] नवसु त्वन्वयाख्यं
[402|15] अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च /
[402|16] तथैव षट् // vakk_7.14 //
[402|17] दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन /
[402|18] भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु /
[402|19] ध्यानेष्वन्यमनोज्ञानं
[403|01] परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र /
[403|02] कामरूपाश्रयं च तत् /
[403|03] कामरूपधात्वोश्च तत् परचित्तज्ञानं संमुखीक्रियते /
[403|04] कामाश्रयं तु धर्मारुयम्
[403|05] धर्मज्ञानं तु कामधात्वाश्रयमेव / न रूपारुप्यधात्वोः संमुखीक्रियते /
[403|06] अन्यत्त्रैधातुकाश्रयम् // vakk_7.15 //
[403|07] किं पुनरन्यत् / परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् / कृतो भूम्यश्रयनिर्देशः /
[403|08] स्मृत्युपस्थानसंग्रहो वक्तव्यः / सो ऽयमुच्यते /
[403|09] स्मृत्युपस्थानमेकं धीर्निरोधे
[403|10] धीः प्रज्ञा ज्ञानमिति पर्यायाः / निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् /
[403|11] परचित्तधीः /
[403|12] त्रीणि
[403|13] परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि /
[403|14] चत्वारि शेषाणि
[403|15] निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि
[403|16] कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् /
[403|17] धर्मधीगोचरो नव // vakk_7.16 //
[403|18] धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् /
[404|01] नव मार्गान्वयदियोः
[404|02] अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् /
[404|02-404|03] मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् /
[404|04] दुःखहेतुधियोर्द्वयम् /
[404|05] दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् /
[404|06] चतुर्णां दश
[404|07] संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् /
[404|08] नैकस्य
[404|09] एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् /
[404|10] योज्या धर्माः पुनर्दश // vakk_7.17 //
[404|11] कतमे दश /
[404|12] त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा /
[404|13] संकृता धर्मा अष्टधा क्रियन्ते /
[404|13-404|14] कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् /
[404|14] असंस्कृता द्विधा क्रियन्ते / कुशलाव्याकृतभेदात् /
[404|14-404|15] इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति /
[404|15-404|16] तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् /
[404|16] धर्मज्ञानस्य पञ्च / कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् /
[404|17] अन्वयज्ञानस्य सप्त / रूपारुप्यावचरानास्रवाः षट् कुशलं चासंस्कृतम् /
[404|17-404|18] दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् /
[404|18] निरोधज्ञानस्यैकः /
[404|18-404|19] कुशलमेवासंस्कृतम् /
[404|19] मार्गज्ञानस्य द्वावनास्रवौ / परचित्तज्ञानस्य त्रयः /
[404|19-404|20] कामरूपावचरानास्रवाः संप्रयुक्ताः /
[404|20-404|21] क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा /
[404|22] स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् / न स्यात् / अपि तु
[405|01] सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः // vakk_7.18 //
[405|02-405|03] संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात् सर्वधर्मा अनात्मान इति /
[405|03] ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः /
[405|03-405|04] तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति /
[405|04] संनिकृष्टत्वाच्च /
[405|04-405|05] तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयम् भावनामयम् /
[405|05-405|06] तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् /
[405|06] अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् / गतमेतत् /
[405|07] इदं तु वक्तव्यम् / कः कतिभिर्ज्ञानैः समन्वागत इति /
[405|07-405|08] पृथग्जनस्तावदेकेन समन्वागतः /
[405|08] संवृतिज्ञानेन / वीतरागस्तु परचित्तज्ञानेनापि / आर्यः पुनः /
[405|09] एकज्ञानान्वितो रागीप्रथमे ऽनास्रवक्षणे /
[405|10] कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति /
[405|11] द्वितीये त्रिभिः
[405|12] दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः /
[405|13] ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् // vakk_7.19 //
[405|14] अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या /
[405|14-405|15] दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते /
[405|15-405|16] समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति /
[405|16-405|17] वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः /
[405|18] अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते /
[405|19] यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने /
[405|20] अनागतानि
[406|01-406|02] दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः /
[406|02-406|03] कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् /
[406|04] तत्रैव सांवृतं चान्वयत्रये // vakk_7.20 //
[406|05-406|06] तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु /
[406|06] न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् /
[406|07] अतो ऽभिसमयान्त्याख्यं
[406|08] अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते /
[406|08-406|09] एकैकसत्याभिसमयान्ते भावनात् /
[406|09] कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति /
[406|09-406|10] मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वात् अकृत्स्नाभिसमयाच्च /
[406|10-406|12] कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुम् इत्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते /
[406|12-406|13] समुदयो ऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् /
[406|13] न /
[406|13-406|14] तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति /
[406|14-406|15] मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वात् इत्यस्ति महान्विशेषः /
[406|15] दर्शनमार्गपरिवारत्वादित्यपरे /
[406|15-406|16] तदिदं साध्यत्वादज्ञापकम् /
[406|16] किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते /
[406|16-406|17] न कदाचित् एकान्तेन हि
[406|18] तदानुत्पत्तिधर्मकम् /
[406|19] कथं पुनस्तद्भावितं भवति /
[406|19-406|20] अलब्धलाभात् कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते /
[406|20] प्राप्तितः /
[406|20-406|21] यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः /
[406|21] तस्मान्नैवं भावना सिध्यति /
[406|21-406|22] एवं तु सिध्यति यद् आहुः पूर्वाचार्याः /
[406|22] कथं च पूर्वाचार्या आहुः /
[406|22-406|24] लोकोत्तरमार्ग-सामर्थ्यात् संवृतिज्ञानं भाव्यते यद् व्युत्थितः सत्यालम्बनम् विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति /
[406|24-407|01] एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः /
[407|01] गोत्रे हि लब्धे लब्धं गौत्रिकं भवति / एव तु नेच्छन्ति वैभाषिकाः /
[407|02] कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते / दर्शनमार्गस्य
[407|03] स्वधोभूमि
[407|04] यद्भूमिको दर्शनमार्गो भवति तद्भूमिकम् चावरभूमिकं च संवृतिज्ञानं भाव्यते /
[407|05] आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते / अनागम्यभूमिकं कामावचरं च /
[407|06] एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते /
[407|07] तत्र पुनः कति स्मृत्युपस्थानानि /
[407|08] निरोधे ऽन्त्यं
[407|09] निरोधे ऽभिसमिते यत् संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् /
[407|09-407|10] एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति /
[407|10-407|11] तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं
[407|12] स्वसत्याकारं
[407|13] यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव /
[407|13-407|14] तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति /
[407|14] दर्शनमार्गलभ्यत्वाच्च तत् /
[407|15] यत्निकम् // vakk_7.21 //
[407|16] प्रायोगिकमित्यर्थः /
[407|16-407|17] सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि /
[407|18] षोडशे षट् सरागस्य
[407|19] भाव्यन्त इति वर्तते /
[407|19-407|20] अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने /
[407|20] मार्गज्ञानमार्गान्वयज्ञाने / पुरागतानि षट् भाव्यन्ते /
[407|20-407|21] धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि /
[408|01] वीतरागस्य सप्त तु /
[408|02] वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते /
[408|03] सरागभावना मार्गे तदूर्ध्वं सप्तभावना // vakk_7.22 //
[408|04-408|05] षोडशात् क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत् सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते /
[408|05-408|06] धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि /
[408|06] लौकिकश्चेत् भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् /
[408|07] लोकोत्तरश्चेत् चतुर्णां धर्मज्ञानानामन्यतमत् /
[408|08-408|09] सप्तभूमिजया ऽभिज्ञाकोप्याप्त्याकीर्णभाविते आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टके ऽपि च // vakk_7.23 //
[408|10] सप्तज्ञानानि भाव्यन्ते इति वर्तते /
[408|10-408|11] सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः /
[408|11-408|13] तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव /
[408|13-408|14] लौकिकेश्चेत् भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् /
[408|14-408|15] लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् / [408|15] अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते /
[408|15-408|16] भवाग्राप्रति पक्षत्वात् /
[408|16] तत्र जयज्ञानं सप्तमं वेदितव्यम् /
[408|16-408|17] सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते /
[408|17-408|18] धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि /
[408|18] संवृतिज्ञानं न भाव्यते / भवाग्राप्रतिपक्षत्वात् /
[408|18-408|19] प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् /
[408|20] शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना /
[408|21-408|23] शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य /
[408|23] संवृतिज्ञानस्याप्युभयोरिति केचित् / तत्र मतविकल्पज्ञापनार्थो वाशब्धः /
[408|24] प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना /
[409|01] आनन्तर्यपथ षण्णां
[409|02-409|03] वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् /
[409|03] न संवृतिज्ञानस्य / दर्शनमार्ग सादृश्यात् /
[409|04] न परचित्तज्ञानस्य / सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् / किमर्थ प्रतिपिध्यते /
[409|04-409|05] अप्रतिपक्षत्वात् /
[409|06] भवाग्रविजये तथा // vakk_7.24 //
[409|07] भवाग्रवैराग्ये ऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव /
[409|08] नवानां तु क्षयज्ञाने
[409|09] भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् /
[409|09-409|10] तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् /
[409|11] अकोप्यस्य दश भावना /
[409|12] यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना /
[409|12-409|13] अनुत्पादज्ञानलाभात् /
[409|14] तत्संचरे ऽन्त्यमुक्तौ च
[409|15] यो ऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना /
[409|16] प्रोक्तशेषे ऽष्टभावना // vakk_7.25 //
[409|17] किं पुनः शेषम् /
[409|17-409|19] कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधो ऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः /
[409|19] तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते /
[409|20] अनागतभावनया क्षयानुत्पादज्ञाने हित्वा / शैक्षस्यैवम् /
[409|20-409|21] अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा /
[409|21-409|23] अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते /
[409|23-410|01] पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः /
[410|01] तेषु हि परचित्तज्ञानं न भाव्यते / दर्शनमार्गपरिवारत्वात् /
[410|02] अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते /
[410|03] अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते /
[410|03-410|04] संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते /
[410|04-410|05] अनास्रवं तु न केवलं यद्भूमिको मार्गः /
[410|05] किं तर्हि /
[410|06] यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते /
[410|07-410|09] यद्भूमिवैराग्यायापि हि द्विविधो ऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति /
[410|10] सास्रवाश्च क्षयज्ञाने
[410|11-410|13] क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ4उभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण /
[410|13-410|14] स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् /
[410|15] यत् किचिल्लभ्यते तत्सर्व भाव्यते / यदपूर्व लभ्यते तत् भाव्यते /
[410|16] लब्धपूर्व न भाव्यते // vakk_7.26 //
[410|17] यद्विहीनं पुनर्लभ्यते न त्त् भाव्यते / भावितोत्सृष्टत्वात् /
[410|18] किं खलु प्रतिलम्भ एव भावना नेत्युच्यते / चतुर्विधा हि भावना /
[410|19] प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च / तत्र
[410|20-410|21] प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने / प्रतिपक्षविनिर्धवभावने सास्रवस्य तु // vakk_7.27 //
[411|01] प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे /
[411|02] प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् /
[411|02-411|03] तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति /
[411|03] अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च /
[411|03-411|04] बाह्याभिधर्मिकाणां षट् भाव्नाः /
[411|04] एताश्चतस्रः संवरभावना विभावन च /
[411|04-411|05] इन्द्रियाणां पूर्वी कायस्योत्तरा /
[411|05-411|06] "षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा" इति विस्तरः /
[411|06-411|07] ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः /
[411|07-411|08] सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता /
[411|09] अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः /
[411|10] ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य / कतमे ऽष्टादश /
[411|11] दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च /
[411|11-411|12] असाधारणं ह्यावेणिकमित्युच्यते /
[411|12] तत्र
[411|13] स्थानास्थाने दश ज्ञानानि
[411|14] स्थानास्थानज्ञानबलं दश ज्ञानानि /
[411|15] अष्टौ कर्मफले
[411|16] कमविपाकज्ञानबलमष्टी ज्ञानानि / निरोधमार्गज्ञाने हित्वा /
[411|17] नव // vakk_7.28 //
[411|18] ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च
[411|19] ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि / निरोध ज्ञानं हित्वा /
[411|19-411|20] एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् /
[411|21] प्रतिपत्सु तु /
[412|01] दश वा
[412|02] नव वेति मतविकल्पा ऽर्थो वाशब्दः / यदि सफला प्रतिपत् गृह्यते /
[412|02-412|03] सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि /
[412|03] न चेन्नव / अन्यत्र निरोधज्ञानात् /
[412|04] संवृतिज्ञानं द्वयोः
[412|05] पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् /
[412|06] षट् दश वा क्षये // vakk_7.29 //
[412|07] आस्रवक्षयज्ञानबलं सड् ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिं /
[412|08] यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् /
[412|08-412|09] अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि /
[412|10] उक्तः स्वभावो भूमिरिदानीमुच्यते /
[412|11] प्राङिनविसच्युतोत्पादबलध्यानेषु
[412|12] च्युतिरेव च्युतम् / पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् /
[412|13] शेषितम् /
[412|14] सर्वभूमिषु
[412|15] शेषं बलं सर्वभूमिसंगृहीतम् / ताः पुनरेकादश /
[412|15-412|16] कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च /
[412|16] सर्वाणि / जम्बूद्वीपपुरुषाश्रयाणि / अन्यत्र दुद्धानुत्पादात् /
[412|16-412|17] तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते /
[412|17] बुद्धस्यैव बलमिति /
[412|18] केनास्य बलमव्याहतम् यतः // vakk_7.30 //
[412|19] यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् /
[412|19-412|20] अनेषां तु व्याहन्यते /
[412|20-413|01] ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् /
[413|01-413|02] स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् /
[413|02-413|03] एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् /
[413|04] नारायणबलं काये
[413|05] काये पुनर्बुद्धस्य नारायणं बलं वर्णयति
[413|06] संधिष्वन्ये
[413|07] सन्धौ सन्धौ नारायणबलमित्यपरे /
[413|07-413|08] मानसवत् कायिकमप्यस्यान तं बलमिति भदन्तः /
[413|08] अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति /
[413|08-413|09] नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः /
[413|10] किं पुनर्नारायणस्य बलस्य प्रमाणम् /
[413|11] दशाधिकम् /
[413|12] हस्त्यादिसप्तकबलम्
[413|13] यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः /
[413|13-413|14] एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या /
[413|14-413|15] प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत् द्विगुणं नारायण मित्यपरे /
[413|15-413|16] यथा तु वहुतर तथा युज्यते /
[413|17] स्प्रष्टव्यायतनं च तत् // vakk_7.31 //
[413|18] तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव /
[413|19] उपादायरूपं सप्तभ्यो ऽर्थान्तरमित्यपरे / उक्तानि वलानि /
[413|20] वैशारध्यं चतुर्धा तु
[413|21] यथासूत्रम् / एतानि पुनश्चत्वारि वैशारद्यानि
[414|01] यथाद्यदशमे बले /
[414|02] द्वितीयसप्तमे चैव /
[414|03-414|04] यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् /
[414|04] यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् /
[414|05-414|06] यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् /
[414|06-414|07] यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् /
[414|07-414|08] कथं न ज्ञानमेव वैशार्द्यम् /
[414|08] निर्भयता हि वैशारद्यम् /
[414|08-414|09] एभिश्च निर्भयो भवति /
[414|09] ज्ञानकृतं वैशारद्यं युज्यते / न ज्ञानमेव /
[414|10] त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात् भवन्ति यथासूत्रम् / तत्त्वेतत्
[414|11] स्मृतिप्रज्ञात्मकं त्रयम् // vakk_7.32 //
[414|12] स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि /
[414|12-414|13] यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा /
[414|14] कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते / सवासनप्रहाणात् /
[414|14-414|16] अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथा ऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति /
[414|17] महाकरुणेदानी वक्तव्या / सेयमुच्यते /
[414|18] महाकृपा संवृतिधीः
[414|19] संवृतिज्ञानात्मिका महाकरुणा /
[414|19-414|20] अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत् न च त्रिदुःखताकारा /
[414|20] करुणावत् / कस्मादियं महाकरुणेत्युच्यते /
[414|21] संभाराकारगोचरैः /
[415|01] समत्वादाधिमाव्याच्च
[415|02] सभारेण महापुण्यज्ञानसंभारसमुदागमात् / आकारेण त्रिदुःखताकरणात् /
[415|03] आलम्बनेन त्रिधातुकालम्बनात् / समत्येन सर्वसत्त्वेषु समवृत्तित्वात् /
[415|03-415|04] अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् /
[415|04] अधिमात्रत्वेन ततो ऽधिमात्रतराभावात् /
[415|05] करुणामहाकरुणयोः किं नानाकरणम् /
[415|06] नानाकरणमष्ट्धा // vakk_7.33 //
[415|07] स्वभावतो ऽद्वेषामोहस्वभावत्वात् /
[415|07-415|08] आकारत एकत्रिदुःखताकारत्वात् /
[415|08] आलम्बनत एकत्रिधात्वालम्बनत्वात् /
[415|08-415|09] भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् /
[415|09] संतानतः श्रावकादिबुद्धसंतानजत्वात् /
[415|09-415|10] लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् /
[415|10] अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च /
[415|11] किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति / नेत्याह /
[415|12-415|13] संभारधर्मकायाभ्यां जगतश्चार्थचर्यया / समता सर्वबुद्धानां नायुर्जातिप्रमाणतः // vakk_7.34 //
[415|14] त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् /
[415|14-415|15] सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य /
[415|15] आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति /
[415|16-415|17] चिराल्पतरजीवनात् क्षत्रियव्राह्मणजातिभेदात् काश्यपगौतमादिगोत्रभेदात् अल्पानल्पप्रमाणभेदाच्च यथकालमिति /
[415|17-415|19] एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च /
[415|19] तत्र चतुर्धा हेतुसंपत् /
[415|19-415|20] सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च /
[415|20] चतुर्विधा फलसंपत् /
[415|21] ज्ञानसंपत् प्रहाणसंपत् प्रभावसंपद्रूपकयसंपच्व / चतुर्विधोपकारसंपत् /
[415|21-415|23] अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत् यानत्रयसुगति प्रतिष्ठापनसंपद्वा /
[415|23] ज्ञानसंपत् पुनश्चतुर्विधा /
[415|23-416|01] अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च /
[416|01] चतुर्विधा प्रहाणसंपत् /
[416|01-416|02] सर्वक्लेशप्रहाणम् अत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् /
[416|02-416|04] बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपत् आयुरुत्प्तर्गाधिष्ठानवशित्वसंपत् आवृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत् विविधनिजाश्चर्यधर्मसंपच्च /
[416|04-416|05] चतुर्विधा रूपकायसंपत् /
[416|05] लक्षणसंपत् अनुव्यञ्जनसंपत् बलसंपत् वज्रसारास्थिसंपत् /
[416|06] इत्येतत्सामासिकं बुद्धानां माहात्म्यम् / अनन्तप्रभेदं तु तद्भिद्यमानं जायते /
[416|07-416|08] तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः /
[416|08] एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः /
[416|09-416|10] अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तो ऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् /
[416|10-416|11] पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् /
[416|11-416|13] ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते /
[416|13] अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते /
[416|14] अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् / उक्तं हि भगवता
[416|15-416|16] "ये ऽन्यानपि जिने कारान्करिष्यन्ति विनायके / विचित्रं स्वर्गमागम्य ते लप्स्यन्ते ऽमृतं पदमि"ति /
[416|17] इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते //
[416|18] शिष्यसाधारणा अन्ये धर्माः
[416|19] श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् /
[416|20] केचित् पृथग्जनैः /
[416|21] के पुनस्त इति यथायोगम्
[416|22] अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः // vakk_7.35 //
[417|01-417|02] अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः /
[417|02-417|04] तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथा ऽपि रणं नोत्पादयति /
[417|04-417|05] न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा /
[417|05] नैषा प्रतिपत् कञ्चिदेव रणयतीत्यरणा / सा पुनरेषा
[417|06] संवृतिज्ञानमरणा
[417|07] अयमस्या स्वभावः /
[417|08] ध्याने ऽन्त्ये
[417|09] चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् /
[417|10] अकोप्यधर्मणः /
[341|711-41711] नान्यस्यार्हतः /
[417|11-417|12] अन्यो हि स्वसंतानादपि कदाचित् क्लेशरणं परिहर्तु न शक्नोति /
[417|13] नृजा
[417|14] मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु /
[417|15] अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः // vakk_7.36 //
[417|16-417|17] अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् /
[417|17-417|18] अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् /
[417|18] यथा चारणोक्ता
[417|19] तथैव प्रणिधिज्ञानं
[418|01] तदपि हि संवृतिज्ञानं ध्याने ऽन्त्ये ऽकोप्यधर्मणः मनुष्याश्रयं च
[418|02] सर्वालम्बं तु तत्
[418|03] सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः /
[418|03-418|04] आरुप्यास्तु न साक्षात् प्राणिधिज्ञानेन ज्ञायन्ते /
[418|03] किं तर्हि / निष्पन्नचरितविशेषात् /
[418|04-418|05] कर्षकनिदर्शनं चात्रेति वैभाषिकाः /
[418|05-418|06] प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते /
[418|06] इदं जानीयामिति तद्यथाभूतं जानाति / सर्वस्तत्समाधिविषयः
[418|07-418|08] तथा / धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः // vakk_7.37 //
[418|09] चतस्रो हि प्रतिसंविदः /
[418|09-418|10] धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च /
[418|10-418|11] ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथा ऽरणा /
[418|11] किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् /
[441|811-41812] आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते /
[418|13] तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् /
[418|14-418|15] नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् /
[418|16] चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः // vakk_7.38 //
[418|17] अविवर्त्यं ज्ञानमिति वर्तते /
[418|17-418|18] युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् /
[418|19] वाङ्मार्गालम्बना चासौ
[418|20] वाक्च मार्गश्च तस्याः आल्म्वनम् /
[418|21] नव ज्ञानानि
[419|01] नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् /
[419|02] सर्वभूः /
[419|03] सर्वभूमिका चासौ कामधातौ यावत् भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् /
[419|04] दश षड्वा ऽर्थसंवित्
[419|05] अर्थप्रतिभानसंवित् सर्वधर्माश्च्चेदर्था दश ज्ञानानि /
[419|05-419|06] निर्वाणं चेदर्थः षट् ज्ञानानि /
[419|06] धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि /
[419|07] सा सर्वत्र
[419|08] सा पुनरेषा ऽर्थप्रतिसंवित् सर्वभूमिका /
[419|09] अन्ये तु सांवृतम् // vakk_7.39 //
[419|10-419|11] अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् /
[419|12] कामध्यानेषु धर्मे वित्
[419|13-419|14] धर्मप्रतिसंवित् पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् /
[419|15] वाचि प्रथमकामयोः /
[419|16] वाङ्निरुक्तिर् इत्य् एको ऽर्थः /
[419|16-419|17] निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् /
[419|17] प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः /
[419|17-419|19] "पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद" इत्यत एवासां क्रमसिद्धिः /
[419|19] निर्वचनं निरुक्तिः /
[419|19-419|20] यथा रुप्यते तस्माद्रूपमित्येवमादि /
[419|20] उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे /
[419|20-419|21] आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् /
[419|21-420|01] नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति / [420|01] बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति /
[420|02] यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति /
[420|03] विकलाभिर्न तल्लाभी
[420|04] नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति /
[420|05] ये चैत उपदिष्टा अरणादयो गुणाः /
[420|06] षडेते प्राण्तकोटिकाः // vakk_7.40 //
[420|07] प्रान्तकोटिकध्यानवलेनैषां लाभः /
[420|08] तत्षडिवधं
[420|09] तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् /
[420|09-420|10] अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः /
[420|10] तदेव प्रन्तकोटिकम् /
[420|10-420|11] निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका /
[420|12] किं पुनरिदं प्रान्तकोटिकं नाम /
[420|12-420|13] ध्यानमन्त्यं चतुर्थं ध्यानम् /
[420|14] सर्वभूम्यनुलोमितम् /
[420|15] वृद्धिकाष्टागतं तच्च
[420|16] कथं सर्वभूम्यनुलोमितम् / कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते /
[420|17] ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् /
[420|17-420|18] प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् /
[420|18-420|19] कथम् वृद्धिकाष्टागतम् /
[420|19] तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते /
[420|19-420|20] वृद्धिप्रकर्षो हि वृद्धिकाष्टा /
[420|20] इदमीदृशं प्रान्तकोटिकं प्रगता ऽन्त कोटिरस्येति कृत्वा /
[420|20-420|21] कोटिः पुनरत्र वृद्धिः प्रकारो वा /
[420|21] चतुष्कोटिकवत् /
[420|22] एते पुनः बुद्धतुणाः
[421|01] बुद्धान्यस्य प्रयोगजाः // vakk_7.41 //
[421|02] बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः / बुद्धस्य नास्ति किञ्चित् प्रायोगिकम् /
[421|03] तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः /
[421|03-421|04] इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि /
[421|05] केयमभिज्ञा नाम /
[421|06] ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये /
[421|07] ज्ञातसाक्षीक्रिया ऽभिज्ञा षड्विधा
[421|08] ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा /
[421|08-421|09] दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः /
[421|09] एताः षडभिज्ञा /
[421|09-421|10] आसां पञ्च पृथग्जनैः साधारणाः /
[421|10] सर्वास्त्वेताः
[421|11] मुक्तिमार्गधीः // vakk_7.42 //
[421|12] विमुक्तिमार्गप्रज्ञास्वभावाः / श्रामण्यफलवत् /
[421|13] चतस्रः संवृतिज्ञानं
[421|14] चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा /
[421|15] चेतसि ज्ञानपञ्चकम् /
[421|16] चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि /
[421|17] क्षयाभिज्ञा बलं यद्वत्
[421|18] यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या / षड् दश ज्ञानानीति /
[421|18-421|19] सर्वभूमिका ऽप्येषा तथैव ज्ञात्व्या /
[421|19] शेषास्तु
[422|01] पञ्च ध्यानचतुष्टये // vakk_7.43 //
[422|02] पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः / कस्मादारुप्यभूमिका न सन्ति /
[422|02-422|03] तिस्रस्तावन्न सन्ति /
[422|03] रूपालम्बनत्वात् /
[422|03-422|04] चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् /
[422|04] पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः /
[422|04-422|05] स्थानगोत्राद्यालम्बनत्वाच्च /
[422|05-422|06] परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति /
[422|06-422|07] कीदृशे ऽपि मे काये कीदृशं चित्तम् भवत्य् एवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति /
[422|07] अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति /
[422|07-422|09] पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति /
[422|09-422|10] यावत्संधिचित्तम् /
[422|10] ततो ऽन्तराभवस्यैकक्षणं मरणे ऽपि निष्पन्नो भवति /
[422|10-422|11] एवं परस्यापि स्मरति /
[422|11-422|211] अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् /
[422|11] अनुभूतपूर्वस्यैव स्मरणम् /
[422|12] शुद्धावासानां कथम् स्मरणम् / श्रवणेनानुभूतत्वात् /
[422|12-422|13] आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् /
[422|13] अन्येषां स्वसंतत्यधिष्ठानेन /
[422|13-422|14] ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः /
[422|14] ताः पुनरेताः पञ्चाभिज्ञाः
[422|15] स्वाधोभूविषयाः
[422|16] यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति /
[422|16-422|17] निर्मिणोति वा अधरां नोक्तराम् /
[422|17-422|18] एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् /
[422|18] चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति /
[422|18-422|19] पूर्वनिवासानुस्मृत्या न स्मरति /
[422|19] च्युतोपपादाभिज्ञया न पश्यति /
[422|19-422|20] अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् /
[422|21] कथमेता लभ्यन्ते / अतुचित्ताः प्रयोगतः
[422|22] लभ्या उचितास्तु विरागतः /
[422|23] जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः /
[422|23-422|24] सर्वासां तु प्रयोगेणोत्पादनम् /
[422|25] तृतीया त्रीप्युपस्थानानि
[423|01] चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि /
[423|01-423|02] चित्तचैत्तालम्ल्बनत्वात् /
[423|03] आद्यं श्रोत्रर्द्विवक्षुषि // vakk_7.44 //
[423|04] अभिज्ञेति वर्तते /
[423|04-423|05] ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः /
[423|05] रूपालम्बनत्वात् / ऋद्धिश्चतुर्बाह्यायतनालम्बना ऽन्यत्र शब्दात् /
[423|06] दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने /
[423|06-423|07] कथं तर्हि "च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः" इत्येवमादि /
[423|07-423|08] न तत्तेन जानाति /
[423|08] अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति /
[423|09] अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् /
[423|10] अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः /
[423|11] दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते / ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे /
[423|12] कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः / आश्रयवशेन तद्भूमिनिर्देशात् /
[423|12-423|13] तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके /
[423|13] आनन्तर्यमार्गवशेन वा /
[423|13-423|14] अन्याश्चतस्रः कुशलाः /
[423|14] यत्तर्हि प्रकरणेषूक्तम् "अभिज्ञा कतमा / कुशला प्रज्ञे"ति /
[423|14-423|15] प्रधानिक एष निर्देशो वाहुलिको वा /
[423|15] आसां चाभिज्ञानां
[423|16] तिस्रो विद्याः
[423|17] पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते /
[423|18] कस्मादेता एव नान्याः /
[423|19] अविद्यायाः पूर्वान्तादौ निवर्त्तनात् // vakk_7.45 //
[423|20] एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् / आसां परमार्थेन
[424|01] अशैक्ष्यन्त्या
[424|02] आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या /
[424|03] तदास्ये द्वे तत्संतानसुद्भवात् /
[424|04] अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते / नैव तु ते शैक्ष्यो नाशैक्ष्यौ /
[424|04-424|05] किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते /
[424|05] यतः शैक्ष्यौ विद्ये नोच्येते /
[424|06] इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः // vakk_7.46 //
[424|07] न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते / पुनरप्यविद्याभिभवात् /
[424|08] आसां चाभिज्ञानाम्
[424|09] आद्या तृतीया षष्ठी च प्रातिहार्याणि
[424|10-424|11] ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम् ऋद्धच्यादेशनानुशासनप्रातिहार्याणि /
[424|11-424|12] विनेयमनसामादितो ऽत्यर्थ हरणात् प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् /
[424|12-424|13] प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा /
[424|13] एषां पुनः
[424|14] शासनम् /
[424|15] अग्च्र्यम्
[424|16] अनुशासनं प्रतिहार्यमग्च्य म् /
[424|17] अव्यभिचारित्वाद्धितेष्टफलयोजनात् // vakk_7.47 //
[424|18] ऋद्धच्यादेशने हि विद्यया विकेइयेते /
[424|18-424|19] अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति /
[424|19-425|01] न तु यथाभूतानुशासनम् अन्यथा शक्यं कर्तुमव्य्भिचारित्वात् /
[425|01-425|03] प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यम् ऋद्धिरित्युच्यते /
[425|04] केयमृद्धिः / वैभाषिकन्यायेन
[425|05] ऋद्धिः समाधिः
[425|06] ऋध्यत्यनेनेति कृत्वा योजयितव्यम् / किं तेन समृध्यति /
[425|07] गमनं निर्माणं च
[425|08] ततस्तत्र
[425|09] गतिस्त्रिधा /
[425|10] शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः /
[425|11] शास्तुर्मनोजवा
[425|12] मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य /
[425|12-425|13] सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् /
[425|13] अत ए"वाचिन्त्यो बुद्धानां बुद्धविषय" इत्युक्तं भगवता /
[425|14] इतरे तु गती बुद्धस्यानुक्तसिद्धे /
[425|15] अन्येषां वाहिन्यप्याधिमोक्षिकी // vakk_7.48 //
[425|16] श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः / पक्षिवत्क्रमेण शरीरवाहनात् /
[425|17] आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् / निर्माणं पुनर्द्विविधम् /
[425|18] कामावचरं रूपावचरं च / तत्र तावत्
[425|19] कामाप्तं निर्मितं बाह्यं चतुरायतनं
[425|20] कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् / तत् पुनर्
[426|01] द्विधा /
[426|02] स्वपरशरीरसंबद्धम् /
[426|03] रूपाप्तं द्वे तु
[426|04] रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने / तत्र गन्धरसाभावात् /
[426|04-426|05] तदपि द्विविधं तथैव /
[426|05-426|06] कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातौ-इत्यष्टविधं समासतो निर्माणम् /
[426|06-426|07] कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति /
[426|07] वस्त्राभरणवन्न समन्वागमः /
[426|07-426|08] द्वच्यायातनं निर्मिणोतीत्यपरे /
[426|08] किं खल्वभिज्ञयैव निर्माणं निर्मीयते / नेत्युच्यते / किं तर्हि /
[426|09] अभिज्ञाफलैः /
[426|10] निर्माणचित्तैस्तानि चतुर्दश // vakk_7.49 //
[426|11] तानि पुनश्चतुर्दश निर्माणचित्तानि
[426|12] यथाक्रमं ध्यानफलं द्वे यावत् पञ्च /
[426|13] प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते /
[426|13-426|14] द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि /
[426|14-426|15] एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि /
[426|15] स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् /
[426|16] नोर्ध्वजम् /
[426|17] नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति /
[426|17-426|18] द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते /
[426|19] तल्लभो ध्यानवत्
[426|20] तेषां च निर्माणचित्तानां ध्यानवल्लाभः / [426|20-426|21] कि खलु निर्माणचित्तादेव स्यात् व्युत्थानम् /
[426|21] नास्त्येतत् / यस्मादुत्पद्यते /
[427|01] शुद्धात्तत्स्वतश्च
[427|02] शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः /
[427|03] ततो ऽपि ते // vakk_7.50 //
[427|04] निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् /
[427|04-427|05] न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात् व्युत्थानमस्ति /
[427|05-427|06] सर्वस्य च निर्मितस्य
[427|07] स्वभूमिकेन निर्माणं
[427|08] नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते /
[427|09] भाषणं त्वधरेण च /
[427|10] स्वभूमिकेन चेति च-शब्दः /
[427|10-427|11] कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते /
[427|11] ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन /
[427|11-427|12] ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् /
[427|12] वहूनां निर्मितानां भाषणं
[427|13] निर्मात्रैव सहाशास्तुः
[427|14] बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते /
[427|14-427|15] यदा च वहवो निर्मिता भवन्ति तदा युगपत् भाषन्ते /
[427|16] एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः /
[427|17] एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त" इति गाथा /
[427|18] बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते /
[427|18-427|19] यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति /
[427|20] अधिष्ठायान्यवर्त्तनात् // vakk_7.51 //
[428|01] निर्माणमधिष्ठायावस्थानकामतया ऽन्येन मनसा वाचं प्रवर्तयन्ति /
[428|01-428|02] किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि /
[428|03] मृतस्याप्यस्त्यधिष्ठानं
[428|04] आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् / तत्तु
[428|05] नास्थिरस्य
[428|06] अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् / आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् /
[428|07] अपरे तु न /
[428|08] अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् /
[428|08-428|09] अस्थिशङ्कलावस्थानं तु देवतानुभावादिति /
[428|09] किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति /
[428|10] आदावेकमनेकेन जितायां तु विपर्ययात् // vakk_7.52 //
[428|11] आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति /
[428|11-428|12] जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति /
[428|12-428|13] अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति /
[428|14] अव्याकृतं भावनाजं
[428|15] यद्भावनाफलं तदवश्यमव्याकृतं भवति /
[428|16] त्रिविधं तूपपतीजम् /
[428|17-428|18] उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् /
[428|18-428|19] तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् /
[428|19] न त्विन्द्रियं निर्मीयते /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
