Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 13/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[428|19-428|20] किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च /

[428|20] एषा च द्विविधा

[429|01] ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा // vakk_7.53 //

[429|02] समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति /

[429|02-429|03] भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च /

[429|03] यथा मान्धातुरन्तराभविकानां च /

[429|04] यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च /

[429|04-429|05] किमेते दिव्ये एव आहोस्वित् दिव्ये एव दिव्ये /

[429|05] यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् /

[429|06] दिव्यश्रोत्राक्षिणी

[429|07] यस्मात्ते

[429|08] रूपप्रसादौ ध्यानभूमिकौ /

[429|09-429|11] ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे /

[429|11] ते च पुनः

[429|12] सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे // vakk_7.54 //

[429|13-429|14] नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात् नापि विकलं काणविब्रान्ताभावात् /

[429|14] रूपावचरसत्त्ववत् /

[429|14-429|15] दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः /

[429|15] आह चात्र

[429|16-429|17] दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति / मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते //

[429|18] कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति / यस्य यादृशं चक्षुर्भवति /

[429|18-429|20] श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति /

[429|20] अभिसंस्कारेण तु

[430|01] द्वित्रिसाहस्रकासंख्यदृशो ऽर्हत्खङ्गवैशिकाः /

[430|02] सर्वाभ्हिसंस्कारेण सह श्रावको ऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति /

[430|03] त्रिसाहस्रं खङ्गविषाणकल्पः /

[430|03-430|04] बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति /

[430|05] किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि /

[430|06] अन्यदप्युपपत्त्याप्तं

[430|07] दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति /

[430|07-430|08] न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते /

[430|08] यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः

[430|09] तद्दृश्यो नान्तरीभवः // vakk_7.55 //

[430|10] अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते / नोपपत्तिप्रतिलब्धेन /

[430|11] चेतोज्ञानं तु तत्त्रेधा

[430|12] उपपत्त्याप्तमिति वर्तते /

[430|12-430|13] परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् /

[430|14] तर्कविद्याकृतं च यत् /

[430|15-430|16] यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् /

[430|16] न यथा भावनाफलं कुशलमेव /

[430|16-430|17] उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां

[430|18] जानते नारका आदौ

[430|19] यावन्न दुःखवेदनाभ्याहता भवन्ति / अन्यगतिस्था नित्यं जानते /

[430|20] नृणां नोत्पत्तिलाभिकम् // vakk_7.56 //

[431|01] मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् /

[431|01-431|02] यत्तर्हि प्रकृतिजातिस्मरा भवन्ति /

[431|02] कर्मविशेषजा ऽसौ तेषाम् /

[431|02-431|03] त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति //

=====================================================================

[431|04] * //// अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम्* ////

[431|05] स्थविरश्रीलामावाकस्य यदत्र पुण्यम् /

अष्टमं कोशस्थानम्

=====================================================================

ओं नमो बुद्धाय

=====================================================================

[432|02-432|03] ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः /

[432|03-432|04] अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् /

[432|05] द्विधा ध्यानानि

[432|06] समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् / तानि पुनः

[432|07] चत्वारि

[432|08] प्रथमं ध्यानं यावच्चतुर्थम् / तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः /

[432|08-432|09] लोकनिर्देशकोशस्थाने हि

[432|10] प्रोक्तास्तदुपपत्तयः /

[432|11] कथं प्रोक्ताः /

[432|12] "पृथक् पृथक् /

[432|13] ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि"ति /

[432|14] समापत्तिध्यानं तु वक्तव्यम् / अत उच्यते

[432|15] समापत्तिः शुभैकाग्य्रं

[432|16] अभेदेन कुशलचित्तैकाग्रता ध्यानम् / समाधिस्वभावत्वात् /

[432|17] पञ्चस्कन्धास्तु सानुगम् // vakk_8.1 //

[432|18] सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् / केयमेकाग्रता नाम / एकालम्बनता /

[432|19] एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति /

[433|01] न चित्तान्येव समाधिः / येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः /

[433|01-433|02] सैव चित्तैकाग्रता /

[433|02-433|03] ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् /

[433|03] संप्रयुक्ते समाधिवैयर्थ्यम् /

[433|03-433|04] यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते /

[433|04-433|05] महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः /

[433|05] न दुर्बलत्वात्समाधेः / चित्तान्येवैकाग्राणि समाधिः /

[433|06-433|07] तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे /

[433|08] ध्यानमिति कोऽर्थः / ध्यायन्त्यनेनेति / प्रजानन्तीत्यर्थः /

[433|08-433|09] समाहितचित्तस्य यथाभूतप्रज्ञानात् /

[433|09] चिन्तनार्थो ह्येष धातुः / चिन्तनं च प्रज्ञेति सिद्धान्तः /

[433|09-433|10] एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः /

[433|10] न / प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् /

[433|10-433|11] कश्च प्रकर्षयुक्तः /

[433|11] यो ऽङ्गसमायुक्तः समाधिः /

[433|11-433|12] स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति /

[433|12] सुतरां तेन ध्यायन्ति /

[433|13] क्लिष्टस्य कथं ध्यानत्वम् / मिथ्योपनिध्यानात् / अतिप्रसङ्गः /

[433|13-433|14] न / तत्प्रतिरूप एव तत्संज्ञाविनेवेशात् पूतिबीजवत् /

[433|14] उक्तानि चाकुशलानि ध्यानान्यपि भगवता /

[433|15] कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् /

[433|15-433|16] प्रथमं तावत्

[433|17] विचारप्रीतिसुखवत्

[433|18] विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत् प्रथमं ध्यानम् /

[433|18-433|19] विचारवचनाद्वितर्को ऽप्युक्तो भवति /

[433|19] साहचर्याद्धूमाग्निवत् /

[433|19-433|20] न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति /

[433|20] शेषं पुन्र्ध्यानत्रयं

[433|21] पूर्वपूर्वाङ्गवर्जितम् /

[433|22] शुभैकाग्र्यम् इति वर्तते /

[433|22-433|23] विचारविवर्जितं प्रीतिसुखवत् द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति /

[433|23-433|24] यथा ध्यानानि

[433|25] तथारूप्याः

[434|01] केन प्रकारेण / एते ऽपि हि द्विधा उपपत्तिसमापत्तितः /

[434|01-434|02] चत्वारश्च एषामपि चोपपत्तय उक्ताः /

[434|02-434|03] समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः

[434|04] चतुस्कन्धाः

[434|05] अनुपरिवर्तिरूपाभावात्

[434|06] अधोभूमिविवेकजाः // vakk_8.2 //

[434|07] चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् /

[434|07-434|08] तद्विवेकजं विज्ञानानन्त्यायतनम् /

[434|08] तद्विवेकजमाकिञ्चन्यायतनम् /

[434|08-434|09] तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः /

[434|09] को ऽयं विवेको नाम / येन मार्गेणाधस्ताद्विमुच्यते /

[434|09-434|10] वैराग्यगमनात् /

[434|10] त एव चारुप्याः

[434|11] विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः /

[434|12] आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते /

[434|13] न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः /

[434|13-434|14] यदुक्तं "चतुस्कन्धा" इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति /

[434|14] यदि हि स्यात्कथमारुप्या उच्येरन् /

[434|14-434|15] ईषद्रूपत्वा दापिङ्गलवत् /

[434|15] कीदृशं तावदीषद्रूपं तत्रेष्यते /

[434|15-434|16] यदि कायवाक् संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः /

[434|16] न चासति भूते भौतिकं युज्यते /

[434|17] अनास्रवसंवरवच्चेत् / सास्रवभूतसद्भावात् / स्मापत्तावपि तत्प्रतिषेध उक्तः /

[434|18] अथ कायो ऽप्यस्तीन्द्रियाण्यपि रूपीणि / कथं तदीषद्रूपा इष्यन्ते /

[434|18-434|19] परिमाणाल्पत्वाच्चेत् /

[434|19] उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः / अच्छत्वाच्चेत् /

[434|19-434|20] अन्तराभवरूपावचरेष्वपि प्रसङ्गः /

[434|20] यतो नाच्छतरं चेत् / भवाग्रमेवारुप्यं स्यात् /

[434|20-434|21] समापत्तिवत्तदुपपत्तिविशेषात् /

[434|21-434|22] ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात् कस्तत्र विशेषः /

[434|22] द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् / का ऽत्र युक्तिः /

[434|22-434|25] आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना "द्विज्ञानप्रत्ययं नामरूपमि"ति वचनात् अन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् /

[434|25] न /

[434|25-434|26] संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् /

[434|26] किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति /

[434|26-435|01] यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति /

[435|01-435|02] यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति /

[435|03] यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः /

[435|03-435|04] किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वित् एकेनापीति /

[435|04] अविशेषवचनान्न संप्रधार्यमिति चेत् /

[435|04-435|05] अतिप्रसङ्गः /

[435|05] बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति /

[435|05-435|06] बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् /

[435|06-435|07] चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः /

[435|07-435|08] "अतिक्रम्य देवान् कवडीकारा हारभक्षानि"ति वचनात् प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् /

[435|08-435|09] आरुप्येष्वपि रूपस्याप्रसङ्गः /

[435|09] "रूपाणां निःसरणमारुप्याः" /

[435|09-435|10] "ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः" /

[435|10-435|11] "अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि"ति वचनात् /

[435|11] सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति /

[435|11-435|12] औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् /

[435|12] कवडीकारे ऽपि तुल्यम् /

[435|12-435|13] ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः /

[435|13] वेदनादिनिःसरणं च किं नोक्ताः /

[435|14] अधोभूमिकवेदनानिःसरणात् / रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् /

[435|15] अतो रूपाणां निःसरणमुक्ताः /

[435|15-435|16] भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च /

[435|16-435|17] ध्यानेसु चोक्तं भगवता "यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति /

[435|17-435|18] आरुप्येषु तूक्तं "यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे"ति /

[435|18-435|19] सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् /

[435|19] तस्मात्

[435|20] नारुप्ये रूपसद्भावः

[435|21] कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात् पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् /

[435|22] रुपोत्पत्तिस्तु चित्ततः // vakk_8.3 //

[435|23] रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः /

[435|23-435|24] कथमनाश्रित्य रूपं चित्तं वर्तते /

[435|24] कस्मान्न वर्तितव्यम् / इहैवमदर्शनात् /

[435|24-435|25] कवडीकारान्तरेणा ऽपि विना रूपधातौ न वर्तितव्यम् /

[435|25] किं कारणम् / इहैवमदर्शनात् /

[435|25-435|26] उक्तं च पूर्वं यथा वर्तते /

[435|26] गतमेतदिदं वक्तव्यम् /

[436|01-436|02] किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते /

[436|02] न हि / कथं तर्हि / त्रयस्तावत् /

[436|03] आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः /

[436|04] तथाप्रयोगात्

[436|05-436|06] अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् /

[436|06] अत एषामेताः संज्ञा इति /

[436|07] मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः // vakk_8.4 //

[436|08] मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् /

[436|08-436|09] न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति /

[436|09-436|10] "यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति /

[436|11] कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते / मृदुत्वात्संज्ञामित्येतदेवोक्तम् /

[436|12] इति मौलं समापत्तिद्रव्यमष्टविधं

[436|13-436|14] इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति /

[436|14] तेषां पुनः

[436|15] त्रिधा /

[436|16] सप्त

[436|17] भवाग्रादन्यानि सप्त त्रिविधानि /

[436|18] आस्वादनावच्छूद्धानास्रवाणि

[436|19] आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च /

[437|01] अष्टमं द्विधा // vakk_8.5 //

[437|02] भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च / अनास्रव नास्ति / तत्र पुनः

[437|03] आस्वादनासंप्रयुक्तं सतृष्णं

[437|04] तृष्णा ह्यास्वादना /

[437|05] लौकिकं शुभम् /

[437|06] शुद्धकं

[437|07-437|08] लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयते ऽलोभादि शुद्धधर्मयोगात् /

[437|08] किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते /

[437|09] तत्तदास्वाद्यं

[437|10] तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् /

[437|10-437|11] यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः /

[437|12] लोकत्तरमनास्रवम् // vakk_8.6 //

[437|13] यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् /

[437|13-437|14] एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः /

[437|14] तत्र

[437|15] पञ्चाद्ये

[437|16] प्रथमे भागे पञ्चाङ्गानि /

[437|17] तर्कचारौ च प्रीतिसौख्यसमाधयः /

[437|18-437|19] वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च /

[437|19] शेषाण्यङ्गानीति /

[437|19-437|20] यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् /

[438|01] प्रीत्यादयः प्रसादश्च द्वितीये ऽङ्गचतुष्टयम् // vakk_8.7 //

[438|02] द्वितीये ध्याने चत्वार्यङ्गानि /

[438|02-438|03] अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च /

[438|04] तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः /

[438|05] तृतीये तु ध्याने पञ्चाङ्गानि / उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च /

[438|06] समाधिपर्यायो हि स्थितिः / "सम्यक्समाधिः कतमः /

[438|06-438|07] या चित्तस्य स्थिति"रिति सूत्रे वचनात् /

[438|08] चत्वार्यन्ते ऽसुखादुःखोपेक्षास्मृतिसमाधयः // vakk_8.8 //

[438|09] चतुर्थं ध्यानमन्त्यम् / तत्र चत्वार्यङ्गानि /

[438|09-438|10] अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च /

[438|10-438|11] तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति /

[438|11] प्रथमतृतीययोः पञ्चाङ्गत्वात् / द्वितीयचतुर्थयोश्चतुरङ्गत्वात् /

[438|12] नामत एवम् /

[438|13] द्रव्यतो दश चैकं च

[438|14] द्रव्यत एतान्येकादश भवन्ति / प्राथमध्यानिकानि पञ्च /

[438|14-438|15] द्वितीये ऽध्यात्मसंप्रसादो वर्धते /

[438|15] तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि / चतुर्थे ऽदुःखासुखा वेदनेति /

[438|16] अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीये ऽपि तानीति चतुष्कोटिकम् /

[438|16-438|917] प्रथमा कोटिर्वितर्कविचारौ /

[438|17] द्वितीया अध्यात्मसंप्रसादः /

[438|17-438|18] तृतीया प्रीतिः सुखं चित्तैकाग्रता च /

[438|18] चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति /

[438|18-438|19] एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि /

[438|19] कस्मात् / तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते /

[438|19-438|20] यस्मात्तद्वेदनासुखं ध्यानयोस्तु

[438|21] प्रस्रब्धिसुखमाद्ययोः /

[438|22] प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् /

[438|22-438|23] इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् /

[438|23] द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् /

[438|24] न हि तत्तयोः कायिकं युज्यते / समापन्नस्य विज्ञानकायाभावात् /

[438|24-438|25] नापि चैतसिकं प्रीतिवचनात् /

[438|25] प्रीतिर्हि सौमनस्यम् /

[438|25-438|26] न च सुखसौमनस्ययोर्यौगपद्यमस्ति /

[438|26] न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति /

[439|01] अपरे पुनराहुः /

[439|01-439|02] नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु /

[439|02] कायिकमेव सुखमङ्गं व्यवस्थापितमिति /

[439|02-439|03] यत्तर्हि सुत्र उक्तं "सुखेन्द्रियं कतमत् /

[439|03-439|04] यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि"ति /

[439|04] अध्यारोपित एष पाठः /

[439|05] केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् /

[439|05-439|06] "सुखं च कायेन प्रतिसंवेदयत" इति स्वशब्देन वचनाच्च /

[439|06] मनस्कायेनेतिचेत् / एवमुक्त्वा को गुणः /

[439|06-439|07] चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वे ऽपि सुखावचनाच्च /

[439|07-439|08] सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् /

[439|08] तृतीये प्रस्रब्धिसुखावचनं कस्मात् / उपेक्षोपहतत्वादिति चेत् /

[439|08-439|09] न उपेक्षयैव तद्वृद्धिः /

[439|09] पूर्विकाभ्यस्ताद्विशेषात् /

[439|09-439|11] "यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती"त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् /

[439|11] समापन्नस्य कथम् कायविज्ञानमिति चेत् /

[439|12] समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् /

[439|12-439|13] बहिर्विक्षेपास्समाधिब्रंश इति चेत् /

[439|13] न /

[439|13-439|14] समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् /

[439|14-439|15] कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् /

[439|15] न / अत एव /

[439|15-439|16] कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् /

[439|16] न / प्रस्रब्धिविज्ञानस्योत्पत्तेः /

[439|16-439|17] अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् /

[439|17] मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् /

[439|18] कायिकप्रस्रब्धिवोध्यङ्ग वचनात् / इष्टे बोध्यङ्गानुकूलत्वादिति चेत् /

[439|19] अनास्रवत्वमप्येवम् / "सास्रवा धर्माः कतमे /

[439|19-439|20] चक्षुर्यावदेव स्प्रष्टव्यमि"त्यस्य सूत्रस्य विरोधादिति चेत् /

[439|20] न / अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् /

[439|21] न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् /

[439|21-439|22] अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् /

[439|22-439|23] न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् /

[439|23] साध्यमिति चेत् /

[439|23-439|24] सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात् दोषावचनाच्च /

[439|24-439|25] तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् /

[439|25-440|01] अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् /

[440|01] तदपकर्षेणोत्तरध्यानव्यवस्थापनात् / न तु संज्ञादीनामङ्गत्वमुक्तम् /

[440|02] किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् / उपकारकत्वादिति चेत् / न /

[440|02-440|03] वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् /

[440|03] अस्त्येष एकेषां वादः /

[440|03-440|04] नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् /

[440|04] तस्माद्विचार्यमेतत् /

[440|04-440|05] अध्यात्मसंप्रसादो नाम क एष धर्मः /

[440|05-440|06] वितर्क-विचार-क्षोभ-विरहात् प्रशान्तवाहिता संततेर् अध्यात्मसंप्रसादः /

[440|06-440|07] सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिर् अप्रसन्ना वर्तते इति /

[440|07-440|08] न तर्हि स द्रव्यान्तरम् इति कथं द्रव्यत एकादशाङ्गानि भवन्ति /

[440|08] तस्मात्तर्हि

[440|09] श्रद्धा प्रसादः

[440|10] तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यते/

[440|10-440|11] सो ऽत्रध्यात्मसंप्रसाद इति /

[440|11] नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपरे/

[440|11-440|12] कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति /

[440|12] अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति /

[440|13] नत्वेष शस्त्रसिद्धान्तः / यदुक्तं "प्रीतिर्हि सौमनस्यम्" इति /

[440|13-440|14] कथमिदं गम्यते / किमन्यत् भवतु /

[440|14] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः

[440|14-440|15] सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति /

[440|15]

[440|14-440|15] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति /

[440|15-440|16] न वै सुखं ध्यानेषु सौमनस्यं युज्यते /

[440|17] प्रीतिस्तु सौमनस्यं द्विधागमात् // vakk_8.9 //

[440|18-440|19] उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा "अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति /

[440|19-440|20] चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत" इत्युक्तम् /

[440|20-440|21] पुनश्चोक्तं "सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि"त्यतो ऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति /

[440|22] तस्मात् प्रीतिरेव सौमन्स्यं न सुखम् /

[441|01-441|02] किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति /

[441|02] न हि किं तेषु न विद्यते /

[441|03] क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः /

[441|04] उपेक्षास्मृतिशुद्धिश्च

[441|05] प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति / क्लेशाविविक्तत्वात् /

[441|05-441|06] द्वितीये ध्याने ऽध्यात्मसंप्रसादो नास्ति /

[441|06] क्लेशाविलत्वात् / तृतीये स्मृतिसंप्रजन्यं नास्ति /

[441|07] क्लिष्टसुखसंब्र्हमितत्वात् / च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति / क्लेशमलिनत्वात् /

[441|08] एवं तावत् केचिदाहुः /

[441|09] केचित् प्रस्रब्ध्युपेक्षणे // vakk_8.10 //

[441|10] केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति /

[441|10-441|11] तृतीयचतुर्थयोरुपेक्षा नास्ति /

[441|11] कुशलल्महाभूमिकत्वादनयोरिति /

[441|11-441|12] त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता /

[441|12] सापक्षालत्वात् /

[441|13] अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् /

[441|14] के पुनस्ते ऽपक्षालाः /

[441|15] वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् // vakk_8.11 //

[441|16] वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च /

[441|16-441|17] एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् /

[441|17-441|18] वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे /

[441|19] द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् / तृतीये सुखं चतुर्थे उपेक्षा /

[441|20] तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु /

[441|21] नेत्याह / किं तर्हि /

[442|01-442|02] सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते / सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु // vakk_8.12 //

[442|03] प्रथमध्यानोत्पत्तो तिस्रो वेदनाः /

[442|03-442|04] सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् /

[442|04] उपेक्षा चतुर्विज्ञानकायिकी /

[442|04-442|05] द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके /

[442|05] सुखं नास्त्यस्य विज्ञानकायाभावात् /

[442|05-442|06] तृतीयध्यानोपपत्ती द्वे वेदने /

[442|06] सुखोपेक्षे मनोभूमिके / चतुर्थध्यानोपपत्तावुपेक्षैव /

[442|07-442|08] यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथम् ते पश्यन्ति यावत्स्पृशन्ति कथम् चाविज्ञप्ति समुत्थापयन्ति /

[442|08-442|09] न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति /

[442|09] न तु स्वभूमिकाः / किं तर्हि /

[442|10] कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् /

[442|11] द्वितीयादौ तदाद्याप्तं

[442|12-442|13] प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति /

[442|13-442|14] निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति /

[442|15] अक्लिष्टाव्याकृतं च तत् // vakk_8.13 //

[442|16-442|17] अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति /

[442|17] न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति /

[442|18] अवसितं ध्यानकार्यम् /

[442|19] अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः /

[442|20] अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः /

[442|21] असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते / अधोभूमिवैराग्याद्वा /

[442|22] अधोभूम्युपपत्तितो वा / अन्यत्र भवाग्रात् / न हि तस्योपपत्तितो लाभः /

[442|23] अतद्वानिति किमर्थ समन्वागतः /

[442|23-442|24] शुद्धकेन प्रयोगतो ऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् /

[442|24-443|01] अत एवोच्यते "स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् /

[443|01] एवं परिहाण्या चोपपत्त्या च /

[443|02] स्याद्धानभागीयं प्रथमं धयानम् / तद्धि कामवैराग्येण लभ्यते /

[443|02-443|03] ब्रह्मलोकवैराग्येण त्यज्यते /

[443|03] ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते / कामवैराग्यप्रहाण्या त्यज्यते /

[443|04] उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते /

[443|04-443|05] तस्मात् पुनः कामधातावुपपपद्यमानो विजहातीति /

[443|06] अनास्रवं तु वैराग्यात्

[443|07] अतद्वान् लभते इति वर्तते /

[443|07-443|08] तद्वांस्तु क्षयज्ञानतो ऽप्यशैक्षं लभते इन्द्रियसंचारतो ऽपि शैक्षशैक्षम् /

[443|08] ननु च नियामा वक्रान्तितो ऽप्यनास्रवं प्रथमतो लभते /

[443|09] नावश्यमानुपूर्विकेणालाभात् / यथा त्ववश्यं लभते तथोक्तम् /

[443|10] क्लिष्टं हान्युपपत्तितः // vakk_8.14 //

[443|11] अतद्वान् लभत इत्येवानुवर्तते /

[443|11-443|12] परिहाणितो यदि तद्वैराग्यात्परिहीयते /

[443|12] उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते /

[443|13] कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते /

[443|13-443|14] अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते /

[443|14] स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च /

[443|14-443|15] आकिञ्चन्यायतनानन्तरं सप्त /

[443|15-443|16] स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च /

[443|16] भवाग्रं शुद्धकमेवानास्रवाभावात् / द्वितीयध्यानान्तरमष्टौ /

[443|16-443|17] स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च /

[443|17] विज्ञानानन्त्यायतनानन्तरं नव /

[443|18-443|19] स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति /

[443|19] एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि /

[443|20] एष तु संक्षेपः /

[443|21] तृतीयाद्यावदूर्ध्वाधो ऽनास्रवानन्तरं शुभम् /

[443|22] उत्पद्यते

[444|01-444|02] शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् अनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते /

[444|02] ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् /

[444|03] व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं नोत्सहन्ते /

[444|03-444|04] अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् /

[444|04-444|05] तस्याधराश्रयालम्बनत्वादिति /

[444|05] यथा चानास्रवादनन्तरमुक्तम् वेदितव्यम् /

[444|06] तथा शुद्धात् क्लिटं चापि स्वभूमिकम् // vakk_8.15 //

[444|07] स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते / शेषं यथैवानास्रवात् /

[444|07-444|08] अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति /

[444|09] क्लिष्टात् स्वं शुद्धकं क्लिष्टं

[444|10] क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते /

[444|11] एवं चाधरशुद्धकम् /

[444|12] क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते /

[444|12-444|13] यदि क्लिष्टं परिच्छिद्याधः संचरति /

[444|13] कुशलात्संचरितो भवति न क्लिष्टात् / अथापरिच्छिद्य कथं संचरति /

[444|14-444|15] पूर्वावेधात् पूर्वं हि स एवङ्कामो भवति वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति /

[444|15] पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् /

[444|15-444|16] प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् /

[444|16] अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते /

[444|16-444|17] समापत्तिकालं प्रत्येतदुक्तम् /

[444|17-444|18] शुद्धकात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति /

[444|19] च्युतौ तु शुद्धकात् क्लिष्टं सर्वं

[444|20] च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते /

[444|21] क्लिष्टात्तु नोत्तरम् // vakk_8.16 //

[445|01] क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते /

[445|01-445|02] नोर्ध्वभूमिकम् /

[445|02-445|03] न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते /

[445|03] किं तर्हि /

[445|04] चतुर्धा शुद्धकं हानभागीयादि

[445|05] हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् /

[445|06] भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् / किमस्य लक्षणम् /

[445|07-445|08] यथाक्रमम् / क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् // vakk_8.17 //

[445|09-445|10] क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् /

[445|10] तस्मादनास्रवमुत्पद्यते /

[445|11] अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते /

[445|12] द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् /

[445|13] हानभागीयं हानभाक् / तस्मादनन्तरं द्वे उत्पद्येते / हानिस्थितिभागीये /

[445|13-445|14] स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् /

[445|14-445|15] विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात् निर्वेधभागीयादनन्तरं तदेवैकमिति /

[445|16] कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते /

[445|17] गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः // vakk_8.18 //

[445|18] व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा /

[445|19] गत्वेत्यनुलोमं समापद्य / आगम्येति प्रतिलोमं समापद्य /

[445|19-446|01] द्विधेति सास्रवानास्रवा भूमीः /

[446|01] अष्टाविति ध्यानारुप्यसमापत्तीः / श्लिष्टा इत्यनुक्रमेण /

[446|01-446|02] एकलङ्घिता इत्येकामेकामुत्क्रम्य /

[446|02-446|03] सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त /

[446|03-446|04] पश्चात्सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते /

[446|04] तस्मादाकाशानन्त्यायतनं तस्मादाक्ंइचन्यावतनम् /

[446|04-446|05] एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते /

[446|06] अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः /

[446|06-446|07] यदा तु प्रथमात्सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् /

[446|08] एवं पुनः प्रतिलोमम् / तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति /

[446|08-446|09] अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते /

[446|09-446|10] तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति /

[446|10] निःक्लेशत्वात्समाधिवशित्वाच्च /

[446|10-446|11] दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात् समाधौ वशित्वं न तु निष्क्लेशः /

[446|11-446|12] समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति /

[446|13] केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते /

[446|14] स्वाधोभूम्याश्रया एव

[446|15] ध्यानाश्रया एव

[446|16] ध्यानारूप्याः

[446|17] भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ /

[446|17-446|18] शेषाणि स्वस्यां भूमावधश्चेति /

[446|18-446|19] किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति /

[446|19] तस्मात्तस्य

[446|20] वृथाऽधरम् // vakk_8.19 //

[446|21] नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित् प्रयोजनं विधीयते / [445|21-446|21] निहीनत्वात् /

[446|22] उत्सर्ग कृत्वा ऽपवादं करोति

[446|23] आर्याकिञ्चन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः /

[446|24] भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति /

[446|24-446|25] कथं तत्रोपपन्नस्य तत्संमुखीभावः /

[446|25] स्वस्याभावात्तस्य चाभ्यासात् /

[447|01] अथैषां ध्यानारूप्याणां किमालम्बनम् /

[447|02] सतृष्णाः स्वभवालम्बाः

[447|03] आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते / भवग्रहणेन सास्रवं वस्तु गृह्यते /

[447|04] नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात् भूमीनाम् /

[447|04-447|05] नानास्रवं कुशलत्वप्रसङ्गादिति /

[447|06] ध्यानं सद्विषयं शुभम् // vakk_8.20 //

[447|07] कुशलं ध्यानं शुभकमनास्रवं च / तत् सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा /

[447|08] न मौलाः कुशलारूप्याः सास्रवाधरगोचराः /

[447|09-447|10] मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् /

[447|10] अनास्रवं त्वालम्बनम् /

[447|10-447|11] सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः /

[447|11] सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् /

[447|11-447|12] एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्

[447|13] अनास्रवेण हीयन्ते क्लेशाः

[447|14] न शुद्धकेन / कुत एव क्लिष्टेन / वीतरागत्वान्नाधः /

[447|14-447|15] तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ /

[447|15] विशिष्टतरत्वान्नोर्ध्वमिति /

[447|16] समन्तकेन च // vakk_8.21 //

[447|17] ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि / अधोभूमिप्रतिपक्षत्वात् /

[447|18] कति पुनः सामन्तकानि /

[447|19] अष्टौ सामन्तकान्येषां

[447|20] एकैकस्यैकैकं येन तत्प्रवेशः / किं तान्यपि त्रिविधानि तथैव च तेषु वेदना /

[447|21] नेत्युच्यते /

[447|22] शुद्धादुःखासुखानि हि /

[448|01-448|02] शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात् वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि /

[448|03] आर्यं चाद्यं

[448|04-448|05] आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति /

[448|05] समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते /

[448|06] त्रिधा केचित्

[448|07] केचित्पुनरिच्छन्ति /

[448|07-448|08] आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च /

[448|08] किमिदमेकार्थमाहोस्विन्नानार्थम् / सामन्तकं हि वैराग्यमार्गः /

[448|09] अतर्क ध्यानमन्तरम् // vakk_8.22 //

[448|10] ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् /

[448|10-448|11] अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति /

[448|11] तत्पुनर्ध्यानान्तरं

[448|12] त्रिधा

[448|13] आस्वादनासंप्रयुक्तम् शुद्धकमनास्रवं च /

[448|14] अदुःखासुखं तच्च

[448|15] नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः /

[448|15-448|16] न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् /

[448|16] अत एव दुःखा प्रतिपत् /

[448|16-448|17] तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः /

[448|17] तद्धि

[448|18] महाब्रह्मफलं च तत् /

[448|19] तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति /

[448|19-448|20] पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे /

[448|20] सवितर्कः सविचारः समाधिः / अवितर्को विचारमात्रः /

[449|01] अवितर्को ऽविचार इति /

[449|01-449|02] तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् /

[449|02] वितर्कमात्रप्रतिषेधात् / ततः

[449|03] सवितर्कविचारोऽधःसमाधिः

[449|04] तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः / प्रथमं ध्यानमनागम्यं च /

[449|05] परतो ऽद्वयः // vakk_8.23 //

[449|06] नात्र द्वयमस्तीत्यद्वयः / परेण तु ध्यानान्तरात्समाधिरवितर्को ऽविचारः /

[449|06-449|07] द्वितीयध्यानसामन्तकाद्यावत् भवाग्रम् /

[449|07] पुनस्त्रयः उक्ताः /

[449|07-449|08] शून्यतासमाधिरप्रणिहित आनिमित्तश्च /

[449|08] तत्र

[449|09] आनिमित्तः समाकारैः

[449|10] निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः /

[449|10-449|11] निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् /

[449|11] तदालम्बनः समाधिरानिमित्तः /

[449|11-449|12] पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश /

[449|13] शून्यतानात्मशुन्यतः /

[449|14] प्रवर्तते

[449|15] अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः /

[449|16] अप्रणिहितः सत्याकारैरतः परैः // vakk_8.24 //

[449|17] परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः /

[449|17-449|18] अनित्यदुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतया ऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः /

[450|01] तदतिक्रमाभिमुखत्वात् शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् /

[450|01-450|02] त एते त्रयः समाधयो द्विविधाः /

[450|03] शुद्धामलाः

[450|04] शुद्धकाश्चानास्रवाश्च / लौकिकलोकोत्तरत्वात् / लौकिका एकादशसु भूमिषु /

[450|05] लोकोत्तरा यत्र मार्गः /

[450|06] निर्मलास्तु ते विमोक्षमुखत्रयम् /

[450|07] अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते /

[450|07-450|08] शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति /

[450|08] मोक्षद्वारत्वात् / पुनश्चोच्यन्ते /

[450|09] शून्यताशून्यताद्याख्यास्त्रयो ऽपरसमाधयः // vakk_8.25 //

[450|10] शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च /

[450|10-450|11] शून्यताद्यालम्बनत्वात्तन्नाम /

[450|11] तेषां पुनः

[450|12] आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः /

[450|13] अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते /

[450|13-450|14] शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण /

[450|14-450|15] अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितमनित्याकारेण /

[450|15-450|16] न दुःखतो न हेत्वादितो ऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् /

[450|17] आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् // vakk_8.26 //

[450|18-450|19] आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते /

[450|19] शान्ताकारेण / अनास्रवस्य प्रतिसंखयानिरोधाभावात् /

[450|19-450|20] न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा दविसंयोगाच्च /

[450|20-450|21] एकान्तेन चैते परसमाधयः

[450|22] सास्रवाः

[451|01] आर्यमार्गद्वेषित्वात् नह्येवमनास्रवा इति / कुत्रोत्पद्यन्ते /

[451|02] नृषु

[451|03] मनुष्येष्वेव न देवेषु / कस्योत्पद्यन्ते /

[451|04] अकोप्यस्य

[451|05] नान्यस्यार्हतः / कतिभूमिकाः /

[451|06] सप्तसामन्तवर्जिताः /

[451|07] सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु /

[451|07-451|08] कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु /

[451|08] पुनश्चतस्रः समाधिभावना उच्यन्ते /

[451|08-451|09] अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः /

[451|09] तत्र

[451|10] समाधिभावना ध्यानं शुभमाद्यं सुखाय हि // vakk_8.27 //

[451|11] कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना /

[451|11-451|12] तदादिकत्वादन्यान्यपि ज्ञेयानि /

[451|12-451|13] नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् /

[451|14] दर्शनायाक्ष्यभिज्ञेष्टा

[451|15] दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना /

[451|16] धीभेदाय प्रयोगजाः /

[451|17] प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना /

[451|18] वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना // vakk_8.28 //

[452|01] यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना /

[452|01-452|02] आत्मोपनायिकी किलैषा भगवतो धर्मदेशना /

[452|02] अतश्चतुर्भ्य एवाह /

[452|02-452|03] कृतः समाधीनां कालगतो निर्देशः /

[452|04] इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते

[452|05] अप्रमाणानि चत्वारि

[452|06] मैत्री करुणा मुदितोपेक्षा च / अप्रमाणसत्त्वालम्बनत्वात् / किमर्थं चत्वार्येव /

[452|07] व्यापादादिविपक्षतः /

[452|08] व्यापादविंहिसा ऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् /

[452|09] अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः /

[452|09-452|10] वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः /

[452|10] एवं तु युज्यते /

[452|10-452|11] मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति /

[452|11] तत्र

[452|12] मैत्र्यद्वेषः

[452|13] अद्वेषस्वभावा मैत्री

[452|14] अपि करुणा

[452|15] करुणाप्येवम् /

[452|16] मुदिता सुमनस्कता // vakk_8.29 //

[452|17] सौमनस्यस्वभावा मुदिता /

[452|18] उपेक्षा ऽलोभः

[452|19] अलोभात्मिकोपेक्षा / कथं व्यापादप्रतिपक्षः / तस्य लोभाकृष्टत्वात् /

[452|19-452|20] उभयस्वभावा त्वसौ युज्यते /

[452|20] एषां तु मैत्र्यादीनां

[453|01] आकारः सुखिता दुःखिता वत /

[453|02] मोदन्तामिति सत्त्वाश्च

[453|03] सुखिता वत सत्त्वा इति मनसिकुर्वन् मैत्रीं समापद्यते /

[453|03-453|05] दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते /

[453|05] माध्यस्थ्यात् / अतद्वतां सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति /

[453|06] सन्त्वित्यभिप्रायात् / आशयस्याविपरीतत्वाद्वा ऽधिमुक्तिसंज्ञानात् /

[453|06-453|07] अथवा क एवं विपरीतत्वे दोषः /

[453|07] अकुशलत्वमिति चेत् /

[453|07-453|08] न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च /

[453|08] उक्त एषामाकारः /

[453|09] कामसत्त्वास्तु गोचरः // vakk_8.30 //

[453|10] कामावचराः सत्त्वा एषामालम्बनम् / तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् /

[453|11] यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् /

[453|11-453|12] कतिभूमिकान्येतानि /

[453|13] ध्यानयोर्मुदिता

[453|14] प्रथमद्वितीयध्यानयोर्मुदिता / सौमनस्यत्वात् /

[453|15] अन्यानि षट्सु

[453|16] अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु /

[453|16-453|17] अनागम्ये ध्यानान्तरेध्यानेषु च /

[453|17] सप्रयोगमौलग्रहणात् /

[453|18] केचित्तु पञ्चसु /

[453|19] केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति / दशस्वित्यपरे /

[453|19-453|20] कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् /

[453|20-453|21] यदुक्तं "व्यापादादिविपक्षत" इति किमप्रमाणैरपि क्लेशग्रहणं भवति /

[453|22] न तैः प्रहाणं

[454|01] मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च /

[454|01-454|02] तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् /

[454|02] प्रहाण दूरीकरणाच्च /

[454|02-454|03] कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते /

[454|03-454|04] तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति /

[454|04] ततो वीतरागावस्थायां मौलाप्रमाणलाभात् /

[454|04-454|05] बलवत्प्रत्ययलाभे ऽपि तैरनाधृष्यो भवति /

[454|05] कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते /

[454|05-454|07] यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति /

[454|07-454|08] न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात् स मित्रपक्षं त्रिधा भित्त्वा ऽधिमात्रे तत्सुखमधिमुच्यते /

[454|08-454|09] ततो मध्ये मृदौ च /

[454|09] तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे /

[454|09-454|10] ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत् सुखमधिमुच्यते /

[454|10] ततो मध्ये ऽधिमात्रे च /

[454|10-454|11] ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते /

[454|11-454|12] ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति /

[454|12-454|13] यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति /

[454|13-454|14] शक्यं हि समुच्छिन्न कुशलमूले ऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् /

[454|14-454|16] एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरन् अप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते /

[454|16-454|17] एतानि चाप्रमाणानि

[454|18] नृष्वेव जन्यन्ते

[454|19] मनुष्येषूत्पाद्यन्ते / नान्यत्र /

[454|20] किं पुनर्य एकेनाप्रमाणेन समन्वागतः सो ऽवश्यं सर्वैः / किन्तु

[454|21] त्र्यन्वितो ध्रुवम् // vakk_8.31 //

[454|22] तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति /

[454|22-454|23] त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति /

[454|24] अष्टौ विमोक्षाः

[455|01] रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः /

[455|01-455|02] अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः /

[455|02-455|03] शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः /

[455|03] चत्वार आरुप्याः / संज्ञावेदितनिरोधश्चाष्टमः / तेषां

[455|04] प्रथमावशुभा

[455|05] प्रथमौ द्वौ विमोक्षावशुभास्वभावौ /

[455|05-455|06] विनीलकाद्याकारत्वात् /

[455|06] अत एतयोरशुभावन्नयो वेदितव्यः / एतौ च

[455|07] ध्यानयोर्द्वयोः /

[455|08] प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ /

[455|08-455|09] कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् /

[455|10] तृतीयो ऽन्त्ये

[455|11] शुभो विमोक्षश्चतुर्थध्याने /

[455|12] स चालोभः

[455|13] सो ऽप्यलोभस्वभावो नत्वशूभास्वभावः / शुभाकारत्वात् /

[455|13-455|14] सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः /

[455|14] आरुप्यविमोक्षास्तु

[455|15] शुभारुप्याः समाहिताः // vakk_8.32 //

[455|16-455|17] कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे /

[455|17] अन्यदाप्यसमाहिताः सन्तीत्यपरे /

[455|17-455|18] सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते /

[455|18] नानन्तर्यमार्गा अधरालम्बनत्वात् /

[455|18-455|19] वैमुख्यार्थो हि विमोक्षार्थ इति /

[455|20] निरोधस्तु समापत्तिः

[456|01] संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः / सा च पूर्व निर्दिष्टा /

[456|02] संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा / समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे /

[456|03] तां तु समापद्यन्ते /

[456|04] सूक्ष्मसूक्ष्मादनन्तरम् /

[456|05] भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते / समापन्नानां तु

[456|06] स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः // vakk_8.33 //

[456|07-456|08] भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण /

[456|08-456|09] तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति /

[456|09] एषां च विमोक्षाणां

[456|10] कामाप्तदृश्यविषयाः प्रथमाः

[456|11] कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् /

[456|12-456|13] ये त्वरूपिणः / ते ऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः // vakk_8.34 //

[456|14-456|15] आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः /

[456|15] अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति /

[456|16] कस्मान्न तृतीये ध्याने विमोक्षः /

[456|16-456|17] द्वितीयध्यानभूमिकवर्णरागाभावात् सुखमण्डेञ्जितत्वाच्च /

[456|17] तस्माच्छुभं विमोक्षमुत्पादयति /

[456|17-456|18] अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा /

[456|18] कच्चिदशुभाविमोक्षौ निष्पन्नाविति /

[456|18-456|19] एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतो ऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति /

[456|20] द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति /

[456|20-456|21] क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च /

[456|21] अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः /

[456|21-456|22] सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते /

[456|22-456|23] कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् /

[456|23-456|24] प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च /

[457|01] अभिभ्वायतनान्यष्टौ

[457|02-457|03] अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् /

[457|04] एवमधिमात्राणि / अध्यात्ममरूपसंज्ञ्येवमेव / इत्येतानि चत्वारि /

[457|04-457|05] अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति /

[457|05] तेषां

[457|06] द्वयमाद्यविमोक्षवत् /

[457|07] यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये /

[457|08] द्वे द्वितीयवत्

[457|09] यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे /

[457|10] अन्यानि पुनः शुभविमोक्षवत् // vakk_8.35 //

[457|11] यथा शुभो विमोक्ष एवमन्यानि चत्वारि / अयं तु विशेषः तैर्वैमुख्यमात्रम् /

[457|12] एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात् क्लेशानुत्पादाच्च /

[457|13] दश कृत्स्नानि

[457|14] दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् /

[457|14-457|15] पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि /

[457|15] आकाशविज्ञानानन्त्यायतनकृत्स्ने च / तेषाम्

[457|16] अलोभाष्टौ

[457|17] प्रथमान्यष्टावलोभस्वभावानि

[457|18] ध्याने ऽन्त्ये

[457|19] चतुर्थ एव ध्याने /

[458|01] गोचरः पुनः /

[458|02] कामाः

[458|03] कामावचररूपायतनमेषा मालम्बनम् / वायोः स्प्रष्टव्यायतन मित्येके /

[458|04] द्वे शुद्धकारुप्ये

[458|05] द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे /

[458|06] स्वचतुःस्कन्धगोचरे // vakk_8.36 //

[458|07] स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् /

[458|07-458|08] विमोक्षप्रावेशिकान्यभिभ्वायतनानि /

[458|08] अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि / उत्तरोत्तरविशिष्टत्वात् /

[458|09-458|10] सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् /

[458|11] निरोध उक्तः

[458|12] निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः /

[458|13] वैराग्यप्रयोगाप्तं तु शेषितम् /

[458|14] निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च /

[458|14-458|15] उचितानुचितत्वात् /

[458|16] त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् // vakk_8.37 //

[458|17] आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव /

[458|18] उपदेशसामर्थ्येनोत्पादनात् / कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् /

[458|19] त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः / तत्र

[458|20] हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः /

[459|01] द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् /

[459|01-459|03] हेतुबलादासन्नाभीक्ष्णाभ्यासात् कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् /

[459|03] नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति /

[459|04] ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च // vakk_8.38 //

[459|05-459|06] रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले /

[459|06] तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति /

[459|06-459|07] कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् /

[459|07] कियच्चिरं पुनरयं सद्धर्मः स्थास्यति /

[459|07-459|08] यत्रेमे ईदृशानाम् धर्माणां प्रकाराः प्रज्ञायन्ते /

[459|09] सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः /

[459|10] तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः /

[459|11] धातारस्तस्य वक्तारः प्रतिपत्तार एव च // vakk_8.39 //

[459|12] आगमस्य हि धारयितारो वक्तारः / अधिगमस्य प्रतिपत्तारः /

[459|12-459|13] अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् /

[459|13] तेषां तु वर्षसहस्र मवस्थानमाहुः /

[459|14] अधिगमस्यैवम् / आगमस्य तु भूयांसं कालमित्यपरे /

[459|15] यो ऽयमिह शास्त्रे ऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः /

[459|16-459|19] काश्मीरवैभाषिकनीतिसिद्धः प्रायो मया ऽयं कथितो ऽभिधर्मः / यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम् // vakk_8.40 //

[460|01-460|02] प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषो ऽस्माभिरबिधर्म आख्यातः /

[460|02] यदत्रास्माभिर्दुर्गृहीतं सो ऽस्माकमपराधः /

[460|02-460|03] सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च /

[460|04-460|07] निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा / अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् // vakk_8.41 //

[460|07-460|11] गते ऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च / जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते // vakk_8.42 //

[460|12-460|13] इति कण्ठगतप्राणं विदित्वा शासनं मुनेः / बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः // vakk_8.43 //

=====================================================================

[460|14] // अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति //

नवमं कोशस्थानम्

=====================================================================

नमो बुद्धाय

=====================================================================

[461|02] किं खल्वतो ऽन्यत्र मोक्षो नास्ति / नास्ति /

[461|02-461|03] किं कारणम् /

[461|03] वितथात्मदृष्टिनिविष्टत्वात् /

[461|03-461|04] नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति /

[461|04] किं तर्हि /

[461|04-461|05] द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति /

[461|05-461|06] कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति /

[461|06] प्रत्यक्षानुमानाभावात् /

[461|06-461|07] ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये /

[461|07] तद्यथा षण्णां विषयाणां मनसश्च / अनुमानं च /

[461|08] तद्यथा पञ्चानामिन्द्रियाणाम् / तत्रेदमनुमानम् /

[461|08-461|09] सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य /

[461|09-461|11] सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावो ऽन्धवधिरादीनामनन्धावधिरादीनां च /

[461|11-461|12] अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते /

[461|12] यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् /

[461|12-461|13] न चैवमात्मनो ऽस्तीति नास्त्यात्मा /

[461|14] यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति / विचार्यं तावदेतत् /

[461|14-461|15] किं ते द्रव्यत इच्छन्त्याहोस्वित् प्रज्ञप्तितः /

[461|15] किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः /

[461|16] रूपादिवत् भावान्तरं चेत् द्रव्यतः /

[461|16-461|17] क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः /

[461|17] किं चातः / यदि तावत् द्रव्यतः /

[461|17-461|18] संभिन्न स्वभावत्वात् स्कन्धेभ्यो ऽन्यो वक्तव्य इतरेतरस्कन्धवत् /

[461|18] कारणं चास्य वक्तव्यम् / असंस्कृतो वा /

[461|19] अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च / अथ प्रज्ञप्तितः / वयमप्येवं त्रूमः /

[461|20] नैव हि द्रव्यतो ऽस्ति नापि प्रज्ञप्तितः / किं तर्हि /

[461|20-461|21] आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते /

[461|21-461|22] तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे /

[461|22] किमिदमुपादायेति /

[461|22-461|23] यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति /

[461|23] यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः /

[461|23-461|24] अथायमर्थः स्कन्धान् प्रतीयेति /

[461|24] स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् / स एव दोषः /

[प्46।124-46125] न स एवं प्रज्ञप्यते /

[461|25] कथं तर्हि यथेन्धनमुपादायाग्निः /

[461|25-462|01] कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते /

[462|01-462|02] न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः /

[462|02] यदि हान्यः स्यादनुष्णमिन्धनं स्यात् /

[462|02-462|03] अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् /

[462|03] एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते /

[462|03-462|04] न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् /

[462|04] नाप्यनन्य उच्छेदप्रसङ्गदिति /

[462|05] अङ्ग तावद्ब्रूहि किगिन्धनं को ऽन्निरिति /

[462|05-462|06] ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति /

[462|06-462|07] किमत्र वक्तव्यं दाह्यमिन्धनं दाहको ऽग्निः /

[462|07] एतदेवात्र वक्तव्यं किं दाह्यं कोक् दाहक इति /

[462|07-462|08] लोके हि तावदप्रदीप्तं काष्ट्ःआदिकमिन्धनमुच्यते दाह्यं च /

[462|08] प्रदीप्तमग्निर्दाहकश्च /

[462|08-462|09] यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च /

[462|09] संततिविकारापादानात् /

[462|09-462|10] तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते /

[462|10-462|11] यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् /

[462|11] तस्माधिग्धनमुपादायेत्युच्यते / अन्यश्च स तस्माद्भिन्नकालत्वात् /

[462|11-462|12] यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्यो ऽन्यश्चानित्यश्च प्राप्नोति /

[462|12-462|14] अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते /

[462|14] तयोरपि सिद्धमन्यत्वं लक्षणभेदात् /

[462|15] उपादायार्थस्तु वक्तव्यः / कथं तदिन्धनमुपादाय सो ऽग्निः प्रज्ञप्यत इति /

[462|16] न हि तत्तस्य कारणं नापि तत् प्रज्ञप्तेः / अग्निरेव हि तत्प्रज्ञप्तेः कारणम् /

[462|17] यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा /

[462|17-462|18] स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते /

[462|18-462|19] तदभावे च पुद्गलाभावः प्राप्नोति /

[462|19] इन्धनभाव इवाग्न्यभावः /

[462|20] यत्तु तदुक्तं यदीन्धनादन्यो ऽग्निः स्यादनुष्णमिन्धनं स्यादिति /

[462|20-462|21] किमिदमुष्णं नाम /

[462|21-462|22] यदि तावादीष्ण्यम् अनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् /

[462|22] अथ यदौष्ण्यवत् /

[462|22-462|23] अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति /

[462|23] नास्त्यन्यत्वे दोषः /

[462|23-462|24] अथ पुनः सर्वमेव तत् प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते /

[462|25] तदुपादायार्थश्च वक्तव्यः / स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति /

[462|26] तस्मान्न सिध्यत्येतत् /

[462|26-463|01] यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति /

[463|01-463|02] यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः "पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि"ति न वक्तव्यं प्राप्नोति /

[463|02-463|03] नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् /

[463|03-463|04] यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित् पुद्गलम् /

[463|04-463|05] यदि तावत् स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति /

[463|05] पुद्गलस्यानुपलम्भात् /

[463|05-463|06] अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति /

[463|06] पुद्गल एव हि तस्या उपादानं प्राप्नोति /

[463|06-463|07] अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति /

[463|07-463|08] तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात् तानुपादाय प्रज्ञप्तिर्बक्तव्या /

[463|08-463|09] रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् /

[463|10] इदं तावद्वक्तव्यम् /

[463|10-463|11] षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः /

[463|11] षड्भिरपीत्युच्यते / कथं कृत्वा /

[463|11-463|13] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा /

[463|13-463|14] एवं यावत् मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा /

[463|14-463|15] एवं तर्हि क्षीरादिभिः समानः प्राप्नोति /

[463|15-463|17] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा /

[463|17] एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा /

[463|18] माभूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति /

[463|18-463|19] अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् /

[463|20] यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति /

[463|21] को ऽस्य वाक्यस्यार्थः /

[463|21-463|22] किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति /

[463|22-463|23] यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः /

[463|23-463|24] एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्यो ऽन्यन्न वक्तव्यम् /

[463|24-463|25] तेषां तदुपलब्धिकारणत्वात् /

[463|25] अथ रूपाण्युपलभमानः पुद्गलमुपलभते /

[463|25-463|26] किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया /

[463|26] यदि तयैव /

[463|26-463|27] रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः /

[463|27] इदं च रूपमयं पुद्गलः कथमिदं गम्यते / अथैवं न परिच्छिद्यते /

[464|01] कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलो ऽप्यस्तीति /

[464|01-464|02] उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते /

[464|02] एवं यावद्धर्मेभ्यो वक्तव्यम् /

[464|02-464|03] अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति /

[464|03] नीलादिय पीतं क्षणादिव च क्षणान्तरम् /

[464|03-464|04] एवं यावद्धर्मेभ्यो वक्तव्यम् /

[464|04] अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् /

[464|05] तेन तर्हि संस्कृते ऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः /

[464|05-464|06] यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा /

[464|06-464|07] किं तर्हि भगवतोक्तं "रूपमनात्मा यावद्विज्ञानमनात्मे"ति /

[464|08] येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते /

[464|08-464|09] किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित् पुद्गलमुभयं वा /

[464|09] यदि रूपाणि प्रतीत्योत्पद्यते /

[464|09-464|10] नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् /

[464|10-464|11] यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः /

[464|11-464|12] अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा /

[464|12] इदमुत्सूत्रम् /

[464|12-464|13] सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति /

[464|13] "तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय /

[464|13-464|14] तत्कस्य हेतोः /

[464|14] यत्किञ्चित् भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति /

[464|15] अनित्यश्च पुद्गल एवं प्राप्नोति /

[464|15-464|16] "ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या" इति सूत्रे वचनात् /

[464|16-464|17] अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः /

[464|18] यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते /

[464|18-464|19] स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् /

[464|19-464|20] चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् /

[464|20] एवमन्येभ्यो ऽपि योज्यम् / इदं च सूत्रपदं वाधितं भवति /

[464|20-464|22] "यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति /

[464|22] नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति /

[464|22-464|23] तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् /

[464|23-464|24] मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि"ति /

[464|24] न वा पुद्गलो विषयः /

[464|24-464|25] न चेद्विषयो न तर्हि विज्ञेयः /

[464|25-464|26] यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति /

[464|26-464|27] षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे /

[464|27] न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् /

[464|27-465|01] पञ्चानां दर्शनाद्या काङ्क्षणासंभवात् तद्विज्ञानानां च /

[465|01-465|02] अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् /

[465|02-465|03] यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः /

[465|03-465|06] उक्तं च भगवता "सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी"त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत् मनःसंस्पर्शप्रत्ययम् /

[465|06-465|07] अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति /

[465|07] अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः /

[465|07-465|08] तस्माद्विज्ञेयो ऽप्यसौ न भवति /

[465|08] प्रज्ञाविज्ञानयोः समानविषयत्वात् /

[465|08-465|09] चक्षुष च पुद्गलं पश्याम् इति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति /

[465|10] सूत्रे च भगवता नीतमेतत् / "स्कन्धेष्वेव पुद्गलाध्ये"ति मानुष्यकसूत्रम् /

[465|11-465|13] "चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते /

[465|13-465|14] अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति /

[465|14-465|15] अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति /

[465|15-465|16] अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति /

[465|16-465|17] इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् /

[465|17-465|18] सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति /

[465|18] नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता /

[465|19] तस्मान्न पुनः परीक्ष्यते /

[465|19-465|20] तथा चोक्तं "सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी"ति /

[465|20] यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् /

[465|20-465|21] अथायतनं न तर्ह्यवक्तव्यः /

[465|21-465|22] तेषामपि चैवं पश्यतो "यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे"ति /

[465|22-465|25] बिम्बिसारसूत्रे चोक्तम् "आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते" इति विस्तरः /

[465|25] शैलयाप्यर्हन्त्या मारमारभ्योक्तं /

[466|01-466|04] "मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते / शून्यः संस्कारपुञ्जो ऽयं नहि सत्त्व्जोत्र विद्यते //

यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता / एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते" // इति /

[466|05] क्षद्रके ऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं

[466|06-466|07] शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् / यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति //

[466|08-466|09] आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते / नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः //

[466|10-466|11] द्वादशैव भवाङ्गानि स्कन्धायतनधातवः / विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते //

[466|12-466|13] शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् / न लभ्यते सो ऽपि कश्चिद्यो भावयति शून्यतामि"ति /

[466|14] तथोक्तं "पञ्चादीनवा आत्मोपलम्भे / आत्मदृष्टिर्भवति सत्त्वदृष्टिः /

[466|15] निर्विशेषो भवति तीर्थिकैः सार्धम् / उन्मार्गप्रतिपन्नो भवति /

[466|15-466|16] शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते /

[466|16-466|17] आर्यधर्मा अस्य न व्यवदायन्त" इति /

[466|17] न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति / किं कारणम् /

[466|17-466|18] नास्माकमयं निकाये पठच्यत इति /

[466|18-466|19] किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् /

[466|19] यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता /

[466|19-466|20] न च ते शाक्यपुत्रीया भवन्ति /

[466|20] अथ बुद्धवचनं प्रमाणम् / अयं ग्रन्थः कस्मान्न प्रमाणम् /

[466|21] नहि किलैतत् बुद्धवचनमिति / किं कारणम् / नास्माकं निकाये पठच्यत इति /

[466|22] अयमन्यायो वर्तते / को ऽत्रान्यायः /

[466|22-466|24] यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सो ऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् /

[466|24] किं चेदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनातान" इति /

[467|01] स्यात् मतम् / नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति /

[467|01-467|02] एवं तर्हि न मनोविज्ञेयः सिध्यति /

[467|02] द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् /

[467|02-467|03] इह चैवं विकल्प्यते "अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास" इति /

[467|04] अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः /

[467|04-467|05] "नात्मा स्कन्धायतनधातवः" यत्तावदुक्तं प्राक् "नो तु वक्तव्यं रूपाणि वा नो वे"ति तत्तावदशोचम् /

[467|05-467|07] उक्तं च सूत्रान्तरे "ये केचित् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि"ति /

[467|08] तस्मात्सर्व एवानात्मन्यात्मग्राहः /

[467|08-467|10] तथोक्तं "ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि"ति /

[467|10-467|11] यद्येवमिदं कस्मादाह "रूपवानहमभूवमतीते अध्वनी"ति /

[467|11] एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति /

[467|11-467|12] यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् /

[467|12] अपाठ एव त्वन्न शरणं स्यात् /

[467|12-467|13] तस्मात् प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् /

[467|14] यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति /

[467|14-467|15] न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् /

[467|15] क्षणिकत्वात् / पुद्गलस्तु जानीयात् /

[467|15-467|16] एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं भवति /

[467|16-467|17] नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे /

[467|17] किं तर्हि / सामर्थ्यात्

[467|17-467|19] या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् /

[467|19] आह चात्र /

[467|20-467|21] संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः तथा सर्वविदेष्टव्यो ऽसकृत्सर्वस्य वेदनात् /

[467|22] कथमिदं गम्यते / अतीतादिवचनात् /

[467|23-467|24] "ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः / यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन" इति /

[468|01] स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः /

[468|01-468|02] यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह /

[468|02-468|03] "भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे"ति /

[468|03] कस्मादिदं न वक्तव्यं स्यात् /

[468|03-468|04] न हि भार एव भारहारो युक्तः /

[468|04] किं कारणम् / नह्येवं दृश्यत इति / अवक्तव्यो ऽपि न युक्तः /

[468|05] किं कारणम् / न ह्येवं दृश्यते / भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च /

[468|06] इत्यर्थमेव भारहारं निर्दिदेश भगवान् /

[468|06-468|07] "यो ऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः" स एष यथा विज्ञायेत /

[468|07-468|08] मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति /

[468|08-468|09] स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः /

[468|09] उपघातार्थो हि भार इति /

[468|10] अस्त्य् एव पुद्गलो यस्माद् उक्तं "नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः" /

[468|11] कश्चैवम् आह नास्ति सत्त्व उपपादुक इति /

[468|11-468|12] सत्त्वस्तु यथा ऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे /

[468|12-468|13] तस्माद् यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर् नास्ति सत्त्व उपपादुक इति /

[468|14] स्कन्धानाम् उपपादुकत्वात् /

[468|14-468|15] अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् /

[468|15] नह्येषा दर्शनभावनाप्रहातव्या युज्यते / पुद्गलस्य सत्त्वेष्वन्तर्भावात् /

[468|16] "एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात् न स्कन्धा इति चेत् /

[468|17] न / समुदाये ऽप्येकोपचारादेकतिलैकतण्डुलवत् एकराश्येकवचनवच्च /

[468|18] संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् /

[468|18-468|19] न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् /

[468|19] किं तर्हि / स्कन्धान्तरोपादानात् /

[468|19-468|20] यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् /

[468|20-468|21] भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् /

[468|21] बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति /

[468|22] न प्रतिक्षेपात् सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् /

[468|22-468|23] "इति हिभिक्षवो ऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते /

[468|23-468|24] य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति /

[468|24-468|25] फल्गुसूत्रे चोक्तम् "उपादत्त इति फल्गु न वदामीति /

[468|25-468|26] तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता /

[468|26-469|01] कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते /

[469|01] दृष्टातं करोति पुद्गलं यदि / सो ऽसिद्धः / अथ चित्तचैत्ताः / न /

[469|02] तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव / अथ शरीरम् / तस्यापि तथा /

[469|02-469|03] शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते /

[469|03] जीर्ण शरीरान्तरमेव ज्याधितं च /

[469|03-469|04] प्रतिषिद्धो हि सांख्यीयः परिणामवादः /

[469|04] तस्माददृष्टान्ता एते /

[469|05-469|06] यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सो ऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति /

[469|06] पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते /

[469|07] कथं तावत् भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्यो ऽन्यद्रूपम् / पाक्षिक एष दोषः /

[469|08] कतमस्मिन्पक्ष / भूतमात्रिकपक्षे /

[469|08-469|09] तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति /

[469|09-469|10] यदि स्कन्धमात्रं पुद्गलः कस्मात् भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् /

[469|10] प्रष्टुराशयापेक्षया /

[469|10-469|11] स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् /

[469|11-469|12] स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् /

[469|12] कौर्मस्येव रोम्णो ऽन्तःखरता मृदुता वा /

[469|13] एष च ग्रन्थः पूर्वकैरेव निर्मोचितः /

[469|13-469|14] स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः /

[469|14-469|15] "पृच्छेयमहं भदन्तम् बहुवोल्लकाश्च श्रवणा भवन्ति /

[469|15] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति / पृच्छेत्युक्तः पृष्टवान् /

[469|15-469|16] किं नु स जीवस्तच्छरीरमन्यिओ जीवो ऽन्यच्छरीरमिति /

[469|16] अव्याकृतमेतदित्यवोचत् स्थविरः /

[469|17] स आह / ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो ना ऽन्यद्वच्याकर्तव्यमिति /

[469|17-469|18] किमिदमन्यदेवोक्तमव्याकृतमेतदिति /

[469|18] स्थविर आह /

[469|18-469|19] अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति /

[469|19] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति /

[469|19-469|20] पृच्छेत्युक्तः पृष्टवान् /

[469|20-469|21] यस्ते ऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित् मधुराणीति /

[469|21] नैव ममान्तःपुरे कश्चिदाभ्रवृक्षो ऽस्तीत्याह /

[469|21-469|22] ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति /

[469|22] किमिदमन्यदेवोक्तमाभ्र एव नास्तीति /

[469|23] स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति /

[469|23-469|24] एवमेव महाराज स एव जीवो नास्ति कुतो ऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति /

[469|25] कस्मात् भगवता ऽपि नोक्तं नास्त्येवेति / प्रष्टुराशयापेक्षया /

[469|25-469|27] स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् /

[469|27] प्रतोत्य समुत्पादस्याज्ञानात् /

[469|27-470|01] स चतद्देशनाया अक्षमः /

[470|01] इतश्चैतदेवं निश्चीयते /

[470|01-470|03] यत् भगवतोक्तम् "अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति /

[470|03-470|05] नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत् मे आत्मास मे एतर्हि नास्तीति /

[470|05-470|06] अस्त्यात्मेत्यानन्द शाश्वताय परेति /

[470|06] नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः / आह चान्न

[470|07-470|08] दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् / देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् //

[470|09-470|10] आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि"ति /

[470|11-470|12] पुनराह असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् / नास्तीत्यपि च नावोचन्माभूत् प्राज्ञप्तिकोप्यसन् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.