Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 14/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

अभिधर्मकोशभाष्य

Tác giả
वसुबन्धु
Thông tin
GRETIL — s of (1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[470|13-470|14] यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता / जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात् //

[470|15-470|16] प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् / अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः //

[470|17-470|18] तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् / आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् //

[470|19] शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया /

[470|19-470|20] यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् /

[470|20-471|01] अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् /

[471|01] शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् / शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् /

[471|02] अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् /

[471|02-471|03] उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयात् एकेषां न /

[471|03] अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् /

[471|04-471|05] अतो मार्गधीनत्वात् परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ4रावकचटकवत् /

[471|05] अत एवान्तवान् लोक इति चतुष्काव्याकरणम् / तुल्यार्थो ह्येष चतुष्कः /

[471|06-471|07] तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोको ऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये"ति /

[471|07-471|09] स्थविर आनन्द आह "यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे"ति सर्वम् /

[471|09-471|10] भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः /

[471|10] स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् /

[471|11-471|12] पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति /

[471|12] शाश्वत दोषप्रसङ्गः /

[471|13-471|14] इदं तर्हि कस्माद्वच्याकरोति "भविष्यसि त्वं मैत्रेयानागते ऽध्वनि तथागतो ऽर्हन् संयक्संबुद्ध" इति /

[471|14-471|15] कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुको ऽमुत्रोपपन्न इति /

[471|15] एवमपि हि शाश्वतत्वप्रसङ्गः /

[471|15-471|17] यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सो ऽस्तीत्यभ्युपगन्तव्यम् /

[471|17-471|18] अथ पश्यत्यनुच्यमानो ऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति /

[471|18] अर्थतदपि न वक्तव्यं पश्यति वा नवेति /

[471|18-471|19] एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति /

[471|19-471|20] अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् /

[471|20-471|21] अस्तीत्यपि दृष्टिस्थानमुक्तम् /

[471|21] तस्मादज्ञापकमेतत् /

[471|21-471|22] उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः /

[471|22] तथैव च युक्तम् /

[471|22-471|23] "अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती"ति वात्स्यसूत्रे वचनात् /

[471|24] यदि तर्हि पुद्गलो नास्ति क एष संसरति /

[471|24-471|25] नहि संसार एष संसरतीति युक्तम् /

[471|25-472|01] उक्तं च भगवता "अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि"ति /

[472|01] अथ पुद्गलः कथं संसरति /

[472|01-472|02] स्कन्धान्तरत्यागोपादानात् /

[472|02] उक्तोत्तर एष पक्षः /

[472|02-472|03] यथातु क्षणिको ऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते /

[472|03-472|05] यदि स्कन्धामात्रमिदं कस्मादाह भगवान् "ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ता ऽभूवमि"ति /

[472|05] कस्मान्न वक्तव्यं स्यात् / अन्यत्वात् स्कन्धानाम् /

[472|05-472|06] अथ किं पुद्गलः /

[472|06] स एवासौ / शाश्वतो हि स्यात् /

[472|06-472|07] तस्मादहमेव स इत्येकसंतानतां दर्शयति /

[472|07] यथा स एवाग्निर्दहन्नागत इति /

[472|07-472|08] यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः /

[472|08] पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च /

[472|08-472|09] "आत्मनि च सत्यात्मीयं भवती"ति सूत्रे वचनादात्मग्राहो ऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत /

[472|09-472|10] सैषा स्यात्सत्कायदृष्टि /

[472|10] आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः /

[472|10-472|11] एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् /

[472|11-472|12] अथ मतं नैवात्मनि प्रवर्तते स्नेह इति /

[472|12-472|13] तत् क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात् स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते /

[472|13-472|14] तस्मात् दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः /

[472|14-472|15] ये ऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः /

[472|16-472|17] यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा /

[472|17-472|18] स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् /

[472|18] कीदृशाच्चित्तविशेषात् यतो ऽनन्तरं स्मृतिर्भवति /

[472|18-472|19] तदाभोगसदृशसम्वन्धिसंज्ञादिमतो ऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः /

[472|20-472|21] तादृशो ऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयो ऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् /

[472|21-472|22] लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् /

[472|22] कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति /

[472|22-472|23] एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् /

[472|23] नासम्बन्धात् /

[472|23-472|24] न हि तयोः संबन्धो ऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः /

[472|24-472|25] न च ब्रूमो ऽन्येन चेतसा दृष्टमन्यत्स्मरतीति /

[472|25] अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते /

[472|25-472|26] संततिपरिणत्या यथोक्तमिति क एवं सति दोषः /

[472|26] स्मरणादेव च प्रत्यभिज्ञानं भवति /

[472|27] असत्यात्मनिक एष स्मरति / स्मरतीति को ऽर्थः / स्मृत्या विषयं गृह्लाति /

[472|28] किं तद्ग्रहणमन्यत्स्मरणात् / स्मृतिं तर्हि कः करोति /

[472|28-473|01] उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः /

[473|01] यत्तर्हि चैत्रः स्मरतीत्युच्यते /

[473|01-473|02] ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति /

[473|02-473|03] असत्यात्मनि कस्येवं स्मृतिः /

[473|03] किंअर्थैषा षष्ठी / स्वाम्यर्था / यथा कस्य कः स्वामी / यथा गोश्चैत्रः /

[473|04] कथमसौ तस्याः स्वामी / तदाधीनो हि तस्या वाहदोहादिषु विनियोगः /

[473|04-473|05] क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते /

[473|05] स्मर्तव्ये ऽर्थे /

[473|05-473|06] किमर्थ विनियोक्तव्या /

[473|06] स्मरणार्थम् / अहो सूक्तानि सुखैधितानाम् /

[473|06-473|07] सैव हि नाम तदर्थं विनियोक्तव्येति /

[473|07] कथं च विनियोक्तव्या / उत्पादनत अहोस्वित्संप्रेषणतः /

[473|08] स्मृतिगत्ययोगादुत्पादनतः / हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् /

[473|09] यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति /

[473|09-473|10] यो ह्येव हेतुः स्मृतेस्तस्यैवासौ /

[473|10-473|12] यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः /

[473|12-473|13] तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः /

[473|13] एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् /

[473|14] तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः /

[473|15] यो ऽप्याह भावस्य भवित्रपेक्षत्वात् सर्वो हि भावो भवितारमपेक्षते /

[473|15-473|16] यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते /

[473|16] तथा विज्ञानं भावः /

[473|17] तस्माद्यो विजानाति तेन भवितव्यमिति / स वक्तव्यः /

[473|18] को ऽयं देवदत्त इति / यद्यात्मा स एव साध्यः / अथ व्यवहारपुरुषः /

[473|18-473|19] सो ऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः /

[473|19-473|20] तत्र यथा देवदत्तो गच्छति यथा विजानाति /

[473|20] कथं च देवदत्तो गच्छति /

[473|20-473|22] क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति /

[473|22] सा च देशान्तरोपत्तिर्गतिरित /

[473|22-473|23] ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् /

[473|23-473|24] त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति /

[473|24] आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् /

[473|25] यत्तर्हि "विज्ञानं विजानाती"ति सूत्र उक्तं किं तत्र विज्ञानं करोति /

[473|25-473|26] न किञ्चित्करोति /

[473|26] यथा तु कार्यं कारणमनुविधीयत इत्युच्यते /

[473|26-473|27] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् /

[473|27] एवं विज्ञानमपि विजानातीत्युच्यते /

[473|27-474|01] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् /

[474|01] किं पुनरस्य सादृश्यम् / तदाकारता /

[474|01-474|02] अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् /

[474|02-474|03] अथवा तथा ऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् /

[474|04] घण्टा रौतीति यद्वत् /

[474|04-474|05] अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति /

[474|05] कथं च प्रदीपो गच्छति /

[474|05-474|06] प्रदीप इत्यर्चिषां संतान उपचर्यते /

[474|06] स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते /

[474|06-474|07] एवं विज्ञानमपि चित्तानां संतान उपचर्यते /

[474|07] तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते /

[474|08-474|09] यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् /

[474|09-474|10] यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् /

[474|10] स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् /

[474|11] एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति /

[474|11-474|13] अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम् /

[474|13] क्रमो ऽपि हि चित्तानां नियत एव /

[474|13-474|14] यतो नूत्पत्तव्यं तत एव तस्योत्पादात् /

[474|14] तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति /

[474|14-474|15] गोत्रविशेषात् /

[474|15-474|17] यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत् समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा /

[474|17] तद्गोत्रत्वात् /

[474|18] अन्यथा न समर्थम् /

[474|18-474|19] अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते /

[474|19] तद्भावनाया वलीयस्त्वात् /

[474|20] अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् /

[474|20-474|21] सैव बलीयसी भावना कस्मान्नित्यं न फलति /

[474|21-474|22] स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् /

[474|22] एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् /

[474|22-474|23] निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् //

[474|23] एवं ह्याहुः /

[474|24-474|25] सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि / नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि"ति //

[474|26] प्रागेवारुपिणां चित्तभेदानाम् /

[475|01-475|03] य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति /

[475|03] मनःसंयोगविशेषापेक्षत्वादिति चेत् / न / अन्यसंयोगासिद्धेः /

[475|04-475|05] संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः /

[475|05-475|06] ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा /

[475|06] प्रदेशसंयोग इति चेत् / न / तस्यैव तत्प्रदेशत्वायोगात् /

[475|06-475|08] अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः /

[475|08] बुद्धिविशेषापेक्ष इति चेत् /

[475|08-475|09] स एव परिचोद्यते कथं बुद्धिविशेष इति /

[475|09] संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् /

[475|09-475|10] चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् / [475|10-475|11] नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् /

[475|11] सत्यात्मनि तयोः संयोग इति चेत् /

[475|12] वाङ्मात्रम् / आश्रयः स इति चेत् / यथा कः कस्याश्रयः /

[475|12-475|13] न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः /

[475|13-475|14] प्रतिघातियुतदोषात् नैव स एवमाश्रयः /

[475|14] कथं तर्हि / यथा गन्धादीनां पृथिवीति चेत् /

[475|14-475|15] अतिपरितोषिताः स्मः /

[475|15] इदमेव हि नः प्रत्यायकं नास्त्यात्मेति /

[475|15-475|16] यथा न गन्धादिभ्यो ऽन्या पृथिवीति /

[475|16] को हि स गन्धादिभ्यो ऽन्यां पृथिवीं निर्धारयति /

[475|16-475|17] व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् /

[475|17-475|18] ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति /

[475|18] काष्ठप्रतिमायां शरीरव्यपदेशवत् /

[475|18-475|19] सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः /

[475|19] यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः /

[475|20] स एव वलिष्ठः कस्मान्नित्यं न फलति / यो ऽस्य न्यायः सो ऽस्तु भावनायाः /

[475|21] आत्मा तु निरर्थकः कल्प्यते /

[475|22] अवश्यमात्माभ्युपगन्तव्यः /

[475|22-475|23] स्मृत्यादीनां गुणपदार्थत्वात् तस्य चार्थादवश्यं द्रव्याश्रितत्वात् तेषां चान्याश्रयायोगादिति चेत् /

[476|01] न / न ह्येषां गुणपदार्थत्वं सिद्धम् / सर्वमेव नो विद्यमानं द्रव्य /

[476|01-476|02] "षट् द्रव्याणि श्रामण्यफलानी"ति वचनात् /

[476|02] नाप्येषां द्रव्याश्रितत्वं सिद्धम् /

[476|02-476|03] परीक्षितो ह्याश्रयार्थः /

[476|03] तस्माद्यत्किञ्चिदेव तत् /

[476|04] आत्मन्यसति किमर्थः कर्मारम्भः /

[476|04-476|05] अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः /

[476|05] को ऽसावहं नाम यद्विषयिओ ऽयमहङ्कारः / स्कन्धविषयः / कथं ज्ञायते /

[476|06] तेषु स्नेहात् / गौरादिबुद्धिभिः सामानाधिकरण्यात्तु /

[476|06-476|08] गौरो ऽहमहं श्यामः स्थूलो ऽहमहं कृशः जीर्णो ऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणो ऽयमहङ्कारो दृश्यते /

[476|08] न चात्मन एते प्रकारा दृश्यन्ते / तस्मादपि स्कन्धेष्वयमिति गम्यते /

[476|09-476|10] आत्मन उपकारके ऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारके ऽपि आत्मोपचारो नत्वहङ्कारः /

[476|10-476|11] सति शरीरालम्बनत्वे परशरीरालम्वनो ऽपि कस्मान्न भवति /

[476|11] असंवन्धात् /

[476|11-476|12] येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र /

[476|12-476|13] अनादौ संसार्र एवमभ्यासात् /

[476|13] कश्च संबन्धः / कार्यकारणभावः /

[476|13-476|14] यद्यात्मा नास्ति कस्यायमहङ्कारः /

[476|14] इदं पुनस्तदेआयातं "किमर्थैषा षष्ठीति /

[476|14-476|15] यावद्य एवास्य हेतुस्तस्यैवायमि"ति /

[476|15] कश्चान्यो हेतुः /

[476|15-476|16] पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् /

[476|16] असत्यात्मनि क एष सुखितो दुःखितो वा /

[476|16-476|17] यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा /

[476|17] यथा पुष्पितो वृक्षः फलितं वनमिति /

[476|17-476|18] कः पुनरनयोराश्रयः /

[476|18] षडायतनम् / यथा कृत्वा तथोक्तम् /

[476|19] असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति /

[476|19-476|20] कर्तेति क एष वाह्यर्थः /

[476|20] करोतीति कर्ता / भुङ्क्त इति भोक्ता / पर्याय उच्यते नार्थः /

[476|21] "स्वतन्त्रः कर्ते"ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः /

[476|21-476|22] अस्ति पुनः क्वचिदेव कार्ये कस्यचित् स्वातन्त्र्यम् /

[476|22] लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ /

[476|22-476|23] कः पुनर्भवान् देवदत्तमुदाहरति /

[476|23] यद्यात्मानं स एव साध्यः / अथ पञ्चस्कन्धकं स एव् कर्ता /

[476|24] त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म /

[476|24-476|25] तत्र कायकर्मणि तावत् कायस्य चित्तपरतन्त्रा वृत्तिः /

[476|25-476|26] चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित् स्वातन्त्र्यम् /

[476|26] प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते /

[476|26-476|27] आत्मनो ऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति /

[476|28] तस्मान्नैवंलक्षणम् उपलभ्यते कश्चित्कर्ता /

[476|28-477|01] यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते /

[477|01] न च आत्मनः क्वचिदपि कारणत्वं दृश्यते /

[477|01-477|02] तस्मात्स एवमपि न कर्ता युज्यते /

[477|02-477|03] स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते /

[477|03-477|04] फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते /

[477|04] उपलभिरिति चेत् / नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् /

[477|05] असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति /

[477|05-477|06] वेदनाद्यनाश्रयत्वात् तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् /

[477|07] कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः /

[477|07-477|08] आत्मन्यपि सति कथं विनष्टात् कर्मण आयत्यां फलोत्पत्तिः /

[477|08] तदाश्रिताद्धर्माधर्मात् /

[477|08-477|09] यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः /

[477|09] तस्मादनाश्रितादेव धर्माधर्मात् भवतु /

[477|09-477|10] नैव तु वयं विनष्टात् कर्मण आयत्यां फलोत्पत्तिं ब्रूमः /

[477|10] किं तर्हि /

[477|10-477|11] तत्संततिपरिणामविशेषाद्वीजफलवत् /

[477|11] यथा वीजात्फलमुत्पद्यत इत्युच्यते /

[477|11-477|12] न च तद्विनष्टाद्वीजादुत्पद्यते /

[477|12] नाप्यनन्तरमेव / किं तर्हि /

[477|12-477|13] तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात् पुष्पावसानात् /

[477|13-477|14] तत् पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते /

[477|14] तदाहितं हि तत् परयापुष्पे सामर्थ्यम् /

[477|14-477|15] यदि हि तत्पूर्विकान्नभविष्यत् तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् /

[477|15-477|16] एवं कर्मणः फलमुत्पद्यत इत्युच्यते /

[477|16] न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव /

[477|17] किं तर्हि / तत्संततिपरिणामविशेषात् /

[477|17-477|18] का पुनः संततिः कः परिणामः को विशेषः /

[477|18-477|19] यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः /

[477|19-477|20] स पुनर्थो ऽन्तरं फलोत्पादनसमर्थः सो ऽन्तपरिणामविशिष्टत्वात् परिणमविशेषः /

[477|20] तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य /

[477|20-477|21] त्रिविधकर्मपूर्वकत्वे ऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य /

[477|22] आह च

[477|23-477|24] "यत् गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् / पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे" //

[477|25] तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते /

[477|25-477|26] सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते /

[477|27] अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति /

[478|01] अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् /

[478|01-478|02] न तावत् दृष्टान्तेन सर्वं समानं भवति /

[478|02] तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते /

[478|02-478|03] किं तर्हि /

[478|03] विक्लित्तिविशेषजाद्विकारविशेषात् /

[478|03-478|04] यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः /

[478|04-478|05] भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वको ऽपि संतानो बीजमित्याख्यायते /

[478|05-478|07] एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवो ऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् /

[478|07] अथवा पुनरेतदेवं विज्ञातव्यम् /

[478|07-478|09] यथा लाक्षारसरञ्जितात् मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात् पुनरन्यः एवं कर्मजाद्विपाकात् न पुनर्विपाकान्तरमिति /

[478|09-478|10] यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् /

[478|10-478|11] नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः /

[478|11] आह खल्वपि

[478|12-478|13] "कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् / नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा //

[478|14-478|17] इत्येतां सुविहितहेतुमार्गशुद्धां बुद्धानां प्रवचनधर्मतां निशम्य / अन्धानां विविधकुदृष्टिचेष्टितानां तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः //

[478|18-478|21] इमं हि निर्वाणपुरैकवर्तिनीं तथागतादित्यवचों ऽशुभास्वतीम् / निरात्मतामार्यसहस्रवाहितां न मन्दचक्षुर्विवृतामपीक्षते //

[478|22-478|23] इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् / ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति /

[479|01-479|02] पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति / कृतिरियमाचार्यवसुबन्धुपादानामिति //

[479|03-479|04] ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् / तेषां च यो निरोध एवंवादी महाश्रमणः //

=====================================================================

[479|05-479|06] देवधर्मो ऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि /

[479|07] // शुभमस्तु //

=====================================================================

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.