Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/3

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

तर्करहस्य

Thông tin
GRETIL — Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

[326]यदान्तरत्वेनाभ्य[327]स्यते तदान्तरमेव स्फुटाभं भवति । यथा यथाभूतमतिः । आन्तरत्वेन चाभ्यस्यन्ते सुखादयस्तथा । यत् संवेद्यते, तत्संवेदनरूपम् । यथा --- नीलम् ।

__________नोतेस्__________

[326] स्ह्: 55. [327] अत्रऽभ्यऽइति अधिकं लिखित्वा छिन्नं मूलपाठे ।

संवेद्यते च सुखादिकम् ।

सा[328]ङ्ख्ये ---

__________नोतेस्__________

[328] ऽशामूलपाठः ।

प्रतिबाधकं हि प्रमाणमदृष्टान्तमपि दृष्टान्तयन्ति (ति?) तच्च---

ऽसवेद्यत्वाच्च चेतना ।

संवेदनं न यद्रूपं नहि तत्तस्य वेदनम्[329]। ।"

__________नोतेस्__________

[329] संवेदनं न... .... .... वेदनम् ॥ (तस्मात् भ्रान्तरा एव संवेद्य-)-प्र- वा- 2/274; -प्र- वा- भा- 324 पृ, 3/275 का ।

इत्यत्रान्तरे विवेचितम् ।

तर्हि---

विज्ञानवादः प्रसक्तः । ऽन किञ्चित् सोपधानमनुपधानं च किञ्चिदिऽत्यत्रान्तरे विवेचितम् ।

सा[330]ङ्ख्यीयबुद्धिस्वभावसुखाद्युत्कर्षापकर्षौ भावनयेत्यपि ---

__________नोतेस्__________

[330] ऽशामूलपाठः ।

ऽमुक्त्त्वाध्यक्षस्मृताका?ं संवित्ति बुद्धिरत्र का[331]? ॥

__________नोतेस्__________

[331] मुक्त्वाध्यक्ष... ...त्र का ॥ -प्र- वा- भा- 325 पृ, 3/276 का ।;

इत्यनेन गतार्थम् ।

संसर्गादिविभागः स्फुटा [प्3अ/9] ऽयोगोलकवह्निवदिऽत्यपि परापेक्षया साध्यविकलं सामग्रीवशादेकमेवायोगोलकं वस्तु वदामः । वातशीतादिसामग्र्यन्तरवशाद्वा प्रभास्बरायोगोलकजन्मजम् ।

[332]भट्टार्चटपादैरप्युक्तम्---

__________नोतेस्__________

[332] स्ह्: 56.

"तन्मूलमन्यदेवेदं गुडनागरसंज्ञितम्[333]।

__________नोतेस्__________

[333] तन्मूलमन्य... ...संज्ञितम् ॥ हे- वि- टी- 103 पृ- ।

एवम्---

पा?कलडु?कात्मकमेकमेवेदं द्रव्यं वेदितव्यम् । उपादानमप्यत्र यदनुवर्त्तते तद् वेदितव्यम् ।

प्रत्यक्षसुखादिस्वरूपात्मकपुरुषभोगपक्षे ऽपि---

"अभिन्नवेदनस्यैक्ये यन्नैवं तद् विभेदवत् ।

सिद्ध्येदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम्[334]। ।[335]

__________नोतेस्__________

[334] अभिन्नवेदन.... .... .... भेदवत् । .... साधनम् ॥ -प्र- वा- भा- 325 पृ-, 279 का- ; -प्र- वा- वृत्तौ 2/27 ॥

[335] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- 325 पृ-, 3/287 का-

भिन्नाभः सितदुःखादिरभिन्नेबुद्धिवेदने ।

अभिन्नाभे विभिन्ने[336]चेद् भेदाभेदौ किमाश्रयौ? ।"

__________नोतेस्__________

[336] ऽन्नेवचेद्ऽमूलपाठः ।

पूर्ववन्निर्विकल्पकमभ्रान्तं च । स्वसंवेदने प्रमाणादिव्यवस्थापि---

"तत्रानुभवरूपत्वात् ते योग्याः स्वात्मसंविदि ।

इति सा योग्यतामानमात्मामेयः फलं स्वविद्[337]। ।"[338]

__________नोतेस्__________

[337] इति सा योग्यता.... .... स्वविद् ॥ प्र- वा- भा- 401 पृ-, 3/666 का- ॥

[338] तत्रानुभव.... .... संबिदि । .... स्ववित् ॥ -प्र- वा- भा- 401 पृ-; 3/366 का-; त- सं- पं- 398 पृ- ।

इत्यनेनावगन्तव्या ।

भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम् । भूतार्थत्वेन प्रमाणवृत्ति । ऽभावनाप्रकर्षे ऽत्यनेन जन्मपरम्परासिद्धिः ।

पर्यन्तगत्वेन निर्विकल्पकत्वाभ्रान्तत्वे । तत्र भूतः सत्यः ।

प्रमाणदृष्टश्च सत्यः । अर्थ्यत इत्यर्थः, हेय उपादेयश्च । हेयो हि हातुमर्थ्यते, उपादेयश्चोपादातुम् । तत्र हेयं दुःखसत्यम्, [प्3ब्/9] समुदयसत्यसहितम् । उपादेयं निरोधसत्यम्, मार्गसत्यान्वितम् ।

चतुर्भिश्च साभ्युदयहेयोपादेयतत्त्वैः साङ्क्लेशिको वैवदानिकश्च सकलः पदार्थः सङ्गृहीतः । तत्र निरवशेषं वस्तु जानातु । मा वा[339]ज्ञासीत् ।

__________नोतेस्__________

[339] स्ह्: 57.

किं तेन दुःखक्षयमाप्तुकामानां तदुपाये प्रवर्त्तितुमच्छताम् ?

"कीटसङ्ख्यापरिज्ञानं तस्य नः क्वोपयुज्यते[340]?"

__________नोतेस्__________

[340] कीटसङ्ख्या.... .... ...युज्यते ॥ -प्र- वा- भा- 2/32 का- ॥

तस्मात् ---

परिमितानामप्यस्मदभिमतानां साभ्युपायहेयोपादेयतत्त्वानाम् ---

ऽज्ञानवान् मृग्यते ऽस्माभिस्तदुक्तप्रतिपत्तये[341] ।"

__________नोतेस्__________

[341] ज्ञानवान् मृग्यते... ... पत्तये ॥ -प्र- वा- भा- 53- पृ-, 2/31 का- ।

सर्वंविषयं ज्ञानमस्य ---

ऽनास्माभिः शक्यते ज्ञातुमिति सन्तोष[342]इप्यते ।"

__________नोतेस्__________

[342] अत्रऽबा इति लिखित्वा छिन्नं मूलपाठे ।

यथा ---

कुम्भेनाम्भसां परिमाणापरिच्छि(च्छे ?)दे ऽपि गङ्गायाः स्वयमुपयोक्तव्यसलिलपरिकल्पनादेव कृतार्थतार्थिनाम् । यथा ---

वस्तुनः कार्त्स्न्येन निखि(+ल) ज्ञस्यापि ज्ञने । तेनैव ऽभूतार्थेत्यत्र न सर्वंपदोपादानम् । अर्थिनामुपयुज्यमानेन ज्ञानेन च सर्वज्ञव्युत्पादनम् । भूतार्थस्य भावना पुनश्चेतस्यारोपः । तस्याः प्रकर्षः स्फुटत्वारम्भः । तस्य परिसमाप्तं गमनम् पर्यन्तः ।

तस्माज्जातं रूपादिस्कन्धपञ्चकानित्यत्वादि विषयम् । द्विविधं हि धर्मधर्मभावनाभेदेन तत्फलम् । तत्र---कामिनीवियुक्तस्य कामावेशवशादुपनततद्भावनस्य स्फुटः कामिन्याकारः प्रत्ययो धर्मिभावनाफलम् [प्4अ/1] ।

ऽयथा विप्लवमावेगप्रतिपत्तिप्रदर्शनात् ।

परोक्षगतिसंज्ञायां तथावृत्तेरदर्शनान् ॥

विस्वरसे प्रियत्वमभ्यस्यतो रसनासङ्गिनि विस्वरसे ऽपि प्रियत्वं स्फुटं स्फुरद्धर्मभावनाफलम् । तदर्थं भूतग्रहणम् ।

[343]अन्यथा ---

__________नोतेस्__________

[343] स्ह्: 58.

प्रत्यक्षप्रमाणप्रभेदप्रस्तावान् न अभूतस्य सम्प्राप्तिः । यां हि दशामभिनिविश्य भाबना बृत्ता, तस्या अतिबृत्तत्वात् । अपरासां च दशानामुत्पादे महीमहीधरावपि योगिज्ञानमप्रमाणम् किमङ्ग! गङ्गातरङ्गादौ प्रतिक्षणभङ्गुरे ?

धर्मभावनापक्षे तु ---

किमपि वस्त्वस्तु । तद्गतमनित्यत्वादि स्फुटं स्फुरति । विस्वरसे ऽपि यत्नवत् । ऽनहि सर्वे विस्वरसाः स्फुटं स्फुरन्ती ऽति तत्र धर्मभावनाफलवर्णनम् । किं तर्हि ? यत् स्फुरति तत् प्रियत्वाश्लिष्टम् ।

तद्वदिहापि यत् किञ्चिद् वस्तुजातं यातं प्रत्यक्षताम्, तत् क्षणक्षय्यत्वेनालिङ्गितम् । न तु यावत् किञ्चिद् वस्त्वस्ति, समस्तमेत[344]दाभाति योगिज्ञाने । दृष्टश्च भावनाप्रकर्षपर्यन्तभाव्यमानस्फुटभावत्वयोः कामशोकभयोन्मादचौरस्वप्नाद्युपप्लवावस्थायां कार्यकारणभावः । कस्यचित् किञ्चित् प्रसिद्धमिति दृष्टान्तभूयस्त्वम् ।

__________नोतेस्__________

[344] अत्रऽस्तऽमू- पा- ।

अयं पुनरत्र परमार्थः ।

भावनातिशयसंस्कृतज्ञानं समनन्तरप्रत्ययं प्राप्य चक्षुर् [प्4ब्/1] र्थौ दुःखं शून्यानात्माकारपरिकरितं स्वविषयविज्ञानं स्फुटं जनयतः । तेन --- परमार्थविषये क्षणिकत्वादौ चक्षुर्ज्ञानमपि सद् योगिज्ञानम् ।

अथवा ---

चक्षुर्ज्ञानं च मानसं सत् योगिज्ञानं चोत्पद्यते --- गृहीतग्राहित्वं हि दोषो न गृह्यमाणग्राहित्वम् ।

यथा ---

[345]कृतस्य करणायोगो न क्रियमाणस्य । क्षणिकत्वे भावनाप्युपपद्यते ।

__________नोतेस्__________

[345] स्ह्: 59.

रागादिक्लेशविश्लेषाय परमपुरुषार्थघिया समुद्धु[346]रस्यापि क्षणिकपरावृत्त्पा क्षणिकत्वमेव पुनः पुन[347]रामृशतः । क्षणिकत्वे ऽप्येकस्मिन् विषये ज्ञानाभ्यासवृत्तिलक्षणाया भावनाया बाधकाभावात् ।

__________नोतेस्__________

[346] अत्रऽद्धऽइति लिखित्वा छिन्नं मूलपाठे । [347] ऽरामृषऽइति लिखित्वा छिन्नं मूलपाठे ।

यावदसन्निहिततया आकारेण क्षणिकत्वादिकमालम्ब्यते तावदियं भावना कल्पनात्मिका । तत्संस्कृतात् समनन्तरप्रत्ययात् सन्निहिततया वेदनेन निर्विकल्पकत्वम् । सन्निहितासन्निहितत्वेन च गृह्यमाणत्वम् स्फुटास्फुटत्वम् ।

अत एव ---

स्वप्नेनापि मनोवेदनवैश[348]द्यनिदानेन नोद्दीपयितुं स्वप्नविकल्पस्य शक्यते स्फुटत्वम् ।

__________नोतेस्__________

[348] ऽषऽमूलपाठः ।

"तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते ।

भावनावलनिष्पत्तौ तत् स्फुटाकल्पधीफलम्[349]। ।"[350]

__________नोतेस्__________

[349] तस्माद् भूत ... ... ... भाव्यते । ... फलम् ॥ --प्र- वा- भा- 327 पृ-, 3/286 का- । [350] भावनाबल.... .... धीफलम् ॥ -(ना परि- पाठक्) प्र- वा- भा- 327 पृ-, 3/286 का- ॥

भूतम् = सत्यम् । अभूतं वा यदेवातिशयेन । तदेव भावनाप्रकर्षे सति स्फुटाया अविकल्पाया [प्4अ/2] धियो हेतुर्भवति । यदसत्यं तत् पूर्वविज्ञानारूढम् । तस्मादव्यतिरिक्तमुत्तरस्य ज्ञानस्य हेतुरुच्यते ।

यत्त्वसत्यं तत् स्फुटं सज् ज्ञानस्य भाव्यमानं हेतुः स्वभावेन, न ज्ञानरूपतया ।

अनेन अभावो ऽपि विवृतः[351]। सो ऽपि ज्ञानारूढतया निःशङ्कगमनागमनं करोति । किं पुनर्ज्ञानम् ?

__________नोतेस्__________

[351] 'ta'mūlapāṭhaḥ | fn 3 der seite o. stellenangabe im text

[352]अनात्मवेदनं ज्ञानं । ऽयतो विषयग्रहणं धर्मो ऽविज्ञानस्ये ऽत्याहाचार्यः ।

__________नोतेस्__________

[352] स्ह्: 60.

तच्च ---

प्रमाणसामग्र्या जातं सत्यार्थग्राहि । दुष्टकारणारब्धं विपरीतपरिच्छेदि । यथास्ति स गृह्यते । सो ऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्वालम्बावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । वाधित्वावाधित्वाभ्यां विकृतिप्रकृतिव्यवस्था । न तु सत्यग्राहित्वं सकलज्ञानप्रकृतिः।

एवं हि ---

ऽविषयग्रहणं धर्मो विज्ञानस्ये ऽति वाक्यमतिरिच्येत --- असत्यार्थं च किञ्चिन्न स्यात् ---

ननु मित्र[353]पादैः ---

__________नोतेस्__________

[353] ऽसिन्तुऽइत्यपि पठितुं शक्यते मूलपाठे ।

"स्वप्रकाशमसामान्यं विज्ञानमिति सम्मतम् । ।"

इत्युक्तम्, न तद् विज्ञानवादे । कथं तहि ?

बहिरर्थ एव ।

वार्त्तिके ---

ऽज्ञानं तत् योग्यदेशकैरज्ञानस्य स्वयं ज्ञानादिऽऽति ।

असत्ख्यात्यर्थं तत् ।

तदेवम् ---

चत्वार्यार्यसत्यानि अनित्यत्वाद्या कारसहितानि सर्वज्ञज्ञानस्यालम्वनम् ।

त्रिकल्पासङ्ख्येयः कालो ऽवधिः । जन्यपरम्परा च तदन्तर्वर्त्तिनी विशेषणम् । कारणं करुणा बोधिसत्त्वानामभ्यासस्य । त [प्4ब्/2]

दन्येषां संसारोद्वेगः । हेयोपादेयतत्त्वप्रापणाच्च प्रमाणं भगवान् मुमुक्षूणामिति ।

[354]अत्र प्रमाणम् ---

__________नोतेस्__________

[354] स्ह्: 61.

यत् सादरनिरन्तरदीर्घकालभावनाभ्यासविषयीकृतम्, तत् स्पष्टऽ

तत्ता[355]योग्यम् । यथा --- कामिन्याकारकामुकस्य हेयोपादेयस्योपायतत्त्वानि च यथोक्ताभ्यासविषयीकृतानि ।

__________नोतेस्__________

[355] ऽतता इति पाठः प्रतिभाति मूलपाठे ।

अ[356]थापि स्यात् ?

__________नोतेस्__________

[356] ऽयालिखित्वा छिन्नं मूलपाठे ।

को ऽयं कापुरुषाकारः ? सर्व[357]वेदी भगवान् सुगतमहषिः ? स किम् कृतिभिरपकर्षितप्रयुक्तसर्वविदिति ?

__________नोतेस्__________

[357] ऽसर्वसर्वऽइति पाठो मूलपाठे ।

"नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ।"

इत्यपयशःपिधानम् ! ब्रूमः ।

परमार्थतस्तु ---

भट्टभर्त्सनाभयेनैव परप्रयुक्तमपि सर्व[358]विदमुज्भ्?इत्त्वा स्वल्प --- विदिति निनौलावादिः (?)।

__________नोतेस्__________

[358] ऽसर्वसर्वऽइति पाठो मूलपाठे ।

तथा हि ---

भट्टभाषितम् ---

ऽभूतार्थभावनेऽति लक्षणम् । प्रमाणेन च भू[359]तार्थत्वम् । न च सर्वविषयमिन्द्रियजमध्यक्षम् । नाप्यनुमानम्, धर्माद्यसिद्धेः ।

__________नोतेस्__________

[359] 'bhi'mūlapāṭhaḥ | korrekt plaziert im text ?

नापि मनोमात्रमेतत् । इन्द्रियानुसारित्वात् । नाप्यागमशेषम्, अप्रमाणत्वात् ।

उक्तं च ---

"प्रामाण्यं च परोक्षार्थज्ञानं तत्साधनस्य च ।

अभावानाभ्यनुष्ठानमिति केचित् प्रचक्षते[360] । ।"[361]

__________नोतेस्__________

[360] अभावान्नास्त्यनुष्ठानं ... .... प्रचक्षते ॥ -प्र- वा- भा- 2/30 का- । [361] प्रामाण्यं च परो.... ....स्य च । .... प्रचक्षते ॥ -प्र- वा- भा- 2/30 का- ।

[362]अत्र समाधि । ---

__________नोतेस्__________

[362] स्ह्: 62.

पूर्वनिरासानुस्मृतिज्ञानबलेन ---

"व्यवस्यन्तीक्षणादेव सर्वाकारान् महाधियः[363] ।

__________नोतेस्__________

[363] व्यवस्यन्तीक्षण.... ....महाधियः ॥ -प्र- वा- भा- 236 पृ- ; 3/107 का- ।

सर्वाकारानुमानं यत् प्रत्यक्षात् तन्न भिद्यते ॥

अतीतानागतं व तु तेनैव प्रतिपाद्यते ।

कर्म तत्फलसम्बन्धबोधस्तेन प्रसिध्यति । ।"

यथा [प्4अ/3] देशादिभेदेन प्रकृतीनां विभिन्नता ।

तथा जातिस्मरत्वेन देवाभ्यागतिनिर्णयः ॥"

एषैव निष्पत्त्यवस्था कथं स्यादिति चेत् ?

अज्ञानमेतत् । युक्तिज्ञेन सर्वं हि वस्तु सर्वैः वस्तुभिः साक्षात् पारम्पर्येण च सम्बद्धं बुध्यते यत्नवता क्रमेण प्रकृष्यमाणम् ।

तथैव स्मर्यते । ---

तथा हि ---

ऽइयं मे माता । ऽ मातृपरम्पराणां पूर्वा कोटिः सम्बद्धा । सर्व दिग्भवैश्च तादात्म्यकैरुपरिष्टाद् भविष्यद्भिश्च उपादेयसहकार्यैर् अन्त्यविवर्जितैः सम्बद्धा । सम्बन्धननिबन्धनमित्यनुमानं सम्भाव्यते ।

"अनेकोपायसद्भावात् कालं वैपुल्ययोगतः ।

अभ्यासात् सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[364]। ।

__________नोतेस्__________

[364] अनेकोपायसद्भावात्.... .... योगतः । युक्तिमत् ॥ -प्र- वा- भा- 329 पृ- ; 3/287/567

कायंकारणभावस्य विशेषेण विनिश्चये ।

अतीनानागतं ज्ञानं तस्य भावि परिस्फुटम्[365] । ।

__________नोतेस्__________

[365] अतीतानागतं ... ... स्फुटम् ॥ -प्र- वा- भा- 326 पृ- 3/287/549 ।

स्थिरमव्याकुलं भावनैरात्म्यादिनिवेदने ॥

अभ्यासात् सर्ववित्त्वस्य प्राप्तिरस्येति युक्तिमत्[366]। ।

__________नोतेस्__________

[366] अभ्यासात् सर्ववित्त्वस्य.... ...युक्तिमत् ॥ -प्र- वा- भा- 326 पृ-; 3/287/568 ॥

कार्वकारणभावस्य विशेषेण विनिश्चये ।

अतीतानुगतं ज्ञानं तस्य भावि परिस्फुटम्[367]। ।

__________नोतेस्__________

[367] कार्यकारण.... .... निश्चये । .... स्फुटम् ॥ -प्र- वा- भा- 329 पृ-; 3/287/549 ।

सर्वभावानुगत्वेन देशना वाक्यसंश्रुतिः ॥

एवम्भूताच्च वचसस्तत्कर्त्तुर्ज्ञानवद् गतिः ॥

[368]परिशुद्धं वचो नास्ति परिशुद्धधियं विना ।

__________नोतेस्__________

[368] स्ह्: 63.

स्वतर्कानुस्मृतेरेष प्रपञ्चो वचसां यदि । ।

भावनाज्ञानमप्यस्ति सदर्थे ऽनादरो न हि । ।"

तदत्र [प्4ब्/3] प्रमाणम् ।

यत् प्रमाणोपपन्नत्रैकालिकसमस्तवस्तुविषयं वाक्यम्, तत् प्रणेतुस्तद्विषयकज्ञानपूर्वकम् । तद् यथा -- यथायथमर्थस्य सर्वस्य वाचकं सर्ववाक्यम् । तथा च --- निःशेषसमस्तवस्तुनैरात्म्यादिनिवेदनाय वाक्यम् तथागतस्य भगवतः कार्यहेतुरयम् ।

तदेवं समास ऽर्थः ।

यः कश्चित् परैः सर्व[369]विदं प्रत्युद्भावितो दोषः, स सर्वः कारणानुपलब्धिलक्षणः । स चादृश्यविषयत्वेन सन्दिग्धासिद्धः ।[370]तेन ---

__________नोतेस्__________

[369] ऽसर्वसर्वऽ- मूलपाठः । [370] ऽद्धामूलपाठः ।

अदोषोद्भावनं निग्रहस्थानं परेषामिति ।

"चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् ।

विज्ञानं दृश्यते रूपं न किलान्तरितं यतः । ।"

तथा ---

मानसे ऽन्धवधिराद्यभावदोषः । स्वसंवेदने स्वात्मनि क्रियाविरोधः ।

सर्वज्ञेऽसम्भवः सामग्र्याः । तदुद्धारेण चतुर्विधमध्यक्षमवस्थापितमिति ॥

[इति] तर्करहस्ये प्रत्यक्षप्रभेदस्वपरन्यायनिर्णयस्तृतीयः ॥

[371]अक्षादक्षाच्च साक्षादुत्पद्यते ज्ञानम् । अथ च ---

__________नोतेस्__________

[371] स्ह्: 64.

ऽप्रत्यक्षमि ऽत्याख्यायते । न प्रतिविषयम् । केन हेतुना?

निर्वि[372]कल्पकत्वं प्रतिगमकत्वागमत्वाभ्याम् । पुरुषान्तरसाधारणत्वाद् विषयस्य ।

__________नोतेस्__________

[372] ऽनिविऽमूलपाठः ।

वैभाषिकापेक्षया च मनोविषयत्वेन व्यभिचारात् । असाधारणेन च व्यपदेशो दृष्टः । यथा ---भेरीशब्दो यथा वा ---यवाङ्कुरः ।

विषयो हि मनोजि (?) विज्ञाना[प्4अ/4] ऽतदाभोगनिवन्धनश्च परत्वापरत्वगुणमन्तरेणापि प्रतिक्षणवलीपलितश्मश्रुजालादिविशिष्टस्वभावोत्पादविषयो युवास्थविरादिव्यपदेशः । न स्थिरैक्स्वभावानां भावानां कादाचित्कस्वभावाभिनिवो?शिनो व्यपदेशाः सम्भवन्ति ।

तदेवम् ---

पारतन्त्र्यं, रूपश्लेषो, नैरन्तर्कं, प्राप्तिः, सङ्गतिरविच्छेदः ।

अपेक्षादिसंयोगसमवायो, नियमो, विरोधादयो न वस्तुभूताः सम्बन्धाः । किम् तर्हि ?

भावानामात्मानमविभागवन्तमधिकृत्य तादात्म्यसम्बन्धः सां[373]वृतः ।

__________नोतेस्__________

[373] ऽसाम्वृतंऽमूलपाठः ।

भावाभावौ नियताववधार्य कार्यकारणभावः सां[374]वृतः । यतो ---

__________नोतेस्__________

[374] ऽसाम्वृतंऽमूलपाठः ।

भिन्नानेव भावान् मिश्रयति कल्पना । सा चाविद्यानुभववासनासम्बन्धाज् जायमाना, विपरीता च वस्तु स्वभावावगाहिनी वेति व्यवहाराङ्गमङ्गीकृता ।

तत्र व्याप्तौ सम्बन्धे विप्रतिपत्तव्यम् ।

अपि च ---

"प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ।

परचित्तानुमानं च न स्यादात्मन्यदर्शनात्[375]। ।[376]"

__________नोतेस्__________

[375] परचित्तानुमानं.... ....दर्शनात् ॥ -प्र- वा- भा- 446 पृ- 3/477 का- । ।, वा- 138 पृ- । [376] प्रत्यक्षां च धियं.... .... दिकम् । .... दर्शनात् । । वा- 138 पृ- 3/474; प्र- वा- भा- 446 पृ-; 3/476 ।

[377]सम्बन्धस्य स्वसंवेदनसिद्ध्या पूर्वोक्तया प्रत्यक्षा (+म?) पीहबुद्धिं दृष्ट्वा कायवाग्व्यवहारानुपलभ्य तत्कार्यतया आत्मसन्ताने, तं च कायव्यापारं व्यवहारं चात्मसमीहानुभवमन्तरेणानुभवन्, पर[378]चित्तसन्ततिकृतं मन्यमानो ऽनुमिनोति सन्तानान्तरम् ।

__________नोतेस्__________

[377] स्ह्: 65. [378] ऽरिऽलिखित्वा इकारमात्रा छिन्ना मूलपाठे ।

चित्तपरोक्षतापक्षे च ---

[प्4ब्/4] चित्तानुमानसमस्तविम्बसन्ताने चित्तानुपलब्धेर्दृष्टान्ताभावात् सम्बन्धसिद्धेः, ऽदृष्टत्वान्यथानुपपत्त्यास्वबुद्धिवेदने सर्वमेतद् भविष्यतीऽ त्यपि न युक्तः समाधिः । बुद्धेः प्राकट्यं ग्राह्याकारापरोक्षतेति पर्यायाः पर्यालोचिताः ।

तच्चार्थप्राक्ट्यं न केवलं ग्राहकाकारशून्यतयानुभूयते ।

यद्यनुभूयेत, तदानेदमनुभूयतऽ इति स्वपरवेदनविभागाभावात् सुतराम् परचित्तानुमानमपास्तम् ---

"मनोबुद्धावर्थलिङ्गाप्रसिद्धितः ।"

यदि ---

बाह्यपदार्थप्राकट्यान्यथानुपपत्त्या स्वचित्तानुमापनम् ? एवं तर्हि, मनोबुद्धेः स्मरणरूपयोः पदार्थप्रकट्यलिङ्गाभावान् नानुमानम् ।

विपरीतख्यात्या सामान्यप्रतिभासनेन वास[379]नानां च, अनुभवानुसारान् नीरूपत्वाच्च सामान्यस्य निरस्तम् ।

__________नोतेस्__________

[379] अत्रऽरालिखित्वा छिन्नं मूलपाठे ।

तदेवम् ---

बाह्ये ऽर्थे स्वसंवेदनेन प्रत्यक्षेण बुद्ध्यनुभवे, यथास्वमिन्द्रियप्रत्यक्षेण चेष्टाभिधादिकं कार्यतया स्वसन्ताने निश्चित्य परचित्तानुमानमुक्तम् ।

[380]तच्चायुक्तम् ।

__________नोतेस्__________

[380] स्ह्: 66.

ईश्वरानुमानसमानत्वात् ।

सर्वथा अनुमातुरसदृशत्वात् परचित्तस्य पल्लवो[381]ल्लासनात् प्रभञ्जनानुमाने वानदृश्यास्ति सिन्धुमारुतस्यान्तर्भावो, नापि धूमाद् धूमध्वजानुमाने जठरजातजातवेदसमन्तर्भाव्य व्याप्तिग्रहः कस्य चित्!

__________नोतेस्__________

[381] एकारमात्रा लिखित्वा छिन्ना मूलपाठे ।

ऽयद् व्याप्तिग्राहकं मानं त [प्4अ/5/5] स्मिन् द्रव्ये समवायाभावात्, विजातीयानामनारम्भादालेख्यादावेकस्य द्रव्यस्याभावे समवायाभावादित्यर्थः ।

"वनं कुसुमितं यथा ।"

तत्र हि ---

वनं बहुत्वसङ्ख्या --- कुसुमं चारम्भद्रव्यम् । एकत्र वृक्षद्रव्ये तयोः समवेतत्वाद् "वनं कुसुमितमि"त्युपचारः । एकया बुद्ध्या अनेकस्य ग्रहणे चित्रव्यवहारः । तस्माद्[382] यथानेकात्मकमालेख्यचित्रमेकया मनीषया गृह्यते तथा सञ्चितो ऽपि । __________नोतेस्__________

[382] अत्रऽद्यऽलिखित्वा छिर्न्न मूलपाठे ।

तत् किमुच्यते ?

"अथैकायतनत्वे ऽपि नानेकं दृश्यते सकृत् ।"

इति ?

ऽको वा विरोधो बहवः सञ्जातातिशयाः सकृत् ।

भवेयुः कारणं बुद्धेर्यदि नामेन्द्रियादिवत्[383]? ॥[384]

__________नोतेस्__________

[383] को वा विरोधो.... .... सकृत् । ....वत् ॥ -(पृथक् पाठयुक्) प्र- वा- 2/223 ॥ (सकृत्-पाठ युक्) प्र- वा- भा- 294 पृ-; 224 का- । [384] भवेयुः कारणं.... .... दिवत् ॥ --प्र- वा- भा- 296 पृ-; 224 का- ।

पूर्वमेकायतनत्वेन बुद्धिरेकेऽ त्युक्तम् । अधुना पुनः ---

[385]"अनेकाकारा बुद्धिरेका । एकप्रकटतान्न्तर्गततया परस्परप्रत्यक्षत्वात् ।

__________नोतेस्__________

[385] स्ह्: 67.

अन्यथा ---

मन्तमसनिमग्नानेकपुरुषसंवेदनवद् व्यतिवेदनाभावः स्यात् ।

एकोपादानत्वाद् भेदे ऽपि न तथेति चेद् ?

अतीतादिवत् स्मरणमेव स्यात्, न स्फुटस्फुरणम् ।

तथा ---

चित्रविज्ञाने ज्ञानादनेकाकारम्, एकाका(+र) वदनेकाकारमित्यपि बोध्यम् ।

सा यद्यनेकाकारा बुद्धि[386]रेका सञ्जातशक्तिभिः परमाणुभिश्चक्षुरादिभिरिव बहुभिः क्रियेत, तथा (दा?) न कश्चिद् विरोधः ।

__________नोतेस्__________

[386] ऽबुद्धिकारा इत्यधिकमत्र मूलपाठे ।

तस्माद् ---

उभयथापि सञ्चितालम्वनत्वे ऽप्यविकल्पत्वमिति स्थितम् ।

तथा ---

"स्व [प्4ब्/5/6] संवेद्यमनिर्देश्यं रूपमिन्द्रियगोचरः[387]।

__________नोतेस्__________

[387] स्वसंवेद्यमनि.... .... गोचरः ॥ --प्र- वा- भा- 298 पृ-; 3/231/431, त- सं- पं- 293 पृ- ॥

स्वेनासाधारणेन रूपेण वेद्यः स्वभावो न धर्मित्वादिना । अत एव न निर्देश्यतयाधिनिबन्धनेन शब्देन न व्यपदेश्यः प्रत्यक्षत्य गोचरो ग्राह्यः । ततो --- निर्विकल्पकमध्यक्षम् ।

तदेवम् ---

प्रत्यक्षज्ञानं प्रमाणफलम् ।

एवम् ---

अनुमानम् इति तदित्यनन्तरनिर्द्विष्टप्रभेदम् । निपातेन प्रवर्त्तकप्रापकयोः फलत्वेन प्रतिक्षेपः ।

[388]ऽप्रत्यक्षमिऽत्यनेन आद्यमसाधारणविषयं कल्पनापोढाभ्रान्तमुक्तम् ।

__________नोतेस्__________

[388] स्ह्: 68.

ऽज्ञानमिऽत्यनेन चक्षुरादिजडप्रमाणानादरः फलप्रस्तावेऽपि दर्शितः ।

अर्थप्रतीतिरूपत्वात् ।

अर्थौ = हेयोपादेयौ, तयोः प्रतीतिः, प्राप्त्यङ्गप्रवृत्तिविषयोपदर्शना परोक्षताख्यारूपं स्वभावो यस्य ग्राह्याकारग्राहकाकारात्मकस्य, तद्भावस्तत्त्वम्, तस्मात् ।

स्वसंवेदनं चाकारयोः साधितमेव । स्वसंवेदने तर्हि कथमर्थप्रतीतिरूपत्वम् ? त्रयाणां तादात्म्ये सुतरामेव अपरमपि तादात्म्यमिति चेत् ?

न । एकेनैव गतत्वात् । व्यपदेशा एते यथाकथञ्चित् प्रयोक्तभिप्रायानुभवाश्चराचरं चञ्चूर्यन्ते, नैतेभ्यो ऽर्थान्तरपरिग्रहः ।

करोत्यर्थादिवत् ।

यथा --- पचति = पाकं करोति । तथा --- करोति = करणमभिनिर्वर्त्तयति ।

"सर्वो हि धात्वर्थः करोत्यर्थेन व्याप्तः ।ऽ करोत्यर्थः केन व्या[प्4अ/6/7]प्यताम् ? तत्रैव सामान्यविशेषकल्पना चेत् ?

इहापि समानम् ।

एवम् --- अनुमाने ऽपि वाच्यम् । यद्यर्थ?तीतिरूपत्वात्तदेव प्रत्यक्षं ज्ञानं प्रमाणफलम् ।

किमिदानीं प्रमाणम् ?

उच्यते ।

ऽप्रमीयते येन तत् प्रमाणमिऽति सामान्येन व्युत्पादितमपि प्रमाणपदम् --- कर्त्तृकर्मक्रियाः समाक्षिप्य स्वसामान्यविशेवलक्षणमाक्षिपति ।

तत्र --- कर्त्रादिकं लेशतः प्रागुक्तम् ।

करणं सामान्यलक्षणमुच्यते । ---

"क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।

विवक्ष्यते यदा तत्र कर [+ ण] त्वं तदा स्मृतम् । ।"

[389]कर्णं हि कर्त्तृपरतन्त्रं स्वव्यापाराविष्टम् प्रधानक्रियायामुपयोगवत् साधकतमम् ।

__________नोतेस्__________

[389] स्ह्: 69.

यथा --- पुरुषाधिष्ठितः परश्चरः स्वव्यापारेणोत्पतननिपतनान्वितः पाटनक्रियायामुपयोगवान् साधकतमश्च ।

विशेषलक्षणं तु ---

"क्रिया साधनमित्येव सर्वं सर्वस्य कर्मणः ।

साधनं नहि तत्तस्य साधनं सा क्रिया यतः[390]। ।[391]

__________नोतेस्__________

[390] क्रियासाधनमित्येव... .... कर्मणः । ... यतः ॥ -प्र- वा- भा- 340 पृ-, 3/302 का- । [391] साधनं न हि तत्तस्य.... .... यतः-(स्याः पाठयुक्) प्र वा- भा- 340 पृ-, 3/302 का- ।

अर्थेन घटयत्येनं नहि मुक्त्त्वार्थरूपतां ।

तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता[392]। ।"[393]

__________नोतेस्__________

[392] अर्थेन घटय .... .... रूपतां । .... रूपता ॥ -प्र- वा- 2/302-7 ॥; प्र- वा- भा- 342 पृ-, 3/306 का-; वा (र्त्तिकालङ्कारे) 2 पृ- । । [393] तस्मात् प्रमेया.... रूपता ॥ -प्र- वा- भा- 342 पृ-; 3/307 का ।

सारूप्यमस्य प्रमाणम् तद्वशादर्थप्रतीतिसिद्धेः । ऽग्राहकाकारस्य साख्प्यमिऽति कर्त्तृपारतन्त्र्यमुक्तम् । ऽतद्वशादिऽति स्वव्यापारावेशः प्रकाशितः । प्रकटतान्तर्गततालक्षणो ग्राह्याकारस्य अर्थप्रतौतिः ।

[प्4ब्/6/8] यथा--- मेषयोः, अन्यतरकर्मजः । यथा ---

स्थाणुश्येनसंयोगः । संयोगजश्च संयोगः । यथा --- सर्वैः समवायिकारणैराकाशः[394] संयुक्तः । तत्संयोगश्चाकाशेन कार्यस्य संयोगः ।

__________नोतेस्__________

[394] ऽकाशं संयुक्तम्ऽमूलपाठः ।

अथापि स्यात् ? न संयोगजननात् संयोगिनौ । किं तर्हि ? स्थापनात् ।

स्थितिरपि प्रतिक्षिप्ताभिन्नाभिन्नविकल्पेन दूषणात् ।

"संयोगाद्याश्रये योग्यमयोग्यं तच्च जायते ।

नित्यं योग्यस्वभावस्य तद्वैकल्यविरोधतः ॥

इति तद्योग्यतावाच्यः स्वभावो ऽस्य निरुच्यताम् ॥

विभागयोग्यगतिभिः कि?अन्यैर्न?नादिभिः ॥

तेषु सत्स्वपि तस्येति सम्बन्धस्य प्रसिद्धितः ।

[395]युक्तः स्वभावभेदो ऽयं तत् प्रतिक्षणजन्मनाम् । ।

__________नोतेस्__________

[395] स्ह्: 70.

यदि संयुक्तासंयुक्तयोः ना संयोगभावाभावाभ्यां विशेषः । यदि च विभक्ताविभक्तयोर्गर्ञ्छदगच्छतोर्वा विभागकर्मभावाभावाभ्याम्, कथममी व्यपदेशा न ऽकुण्डलो देवदत्तः", "छत्री वा देवदत्तः" ? एवं विभक्तादावपि वाच्यम् । तस्मात् --- संयोगविभागक[396]र्माणि संयुक्तादिबुद्धीतां करणानि । __________नोतेस्__________

[396] ऽर्मणिऽमूलपाठः ।

न तुल्यपर्यनुयोगतः । तवापि तुल्यरूपस्य विभक्तादेः किं न संयोगादिसमवायः ? कर्माभावाद्यनुत्तरं कर्मापि जनकं संयोगस्य द्रव्यात् किं न जायते?

तस्माद् --- ऽदण्डकुण्डलादिद्रव्यं विभक्तमयोग्ये प्राक् पश्चादुपसर्पणप्रत्ययसमर्पितात्मभावं संयोगसमवाये योग्यमाजायतेऽ इति त्वया व[प्4अ/6/5] क्तव्यम् । यतः सततं संयोगादियोगयोग्यस्य स्वभावस्य भावस्य तद्वैकल्यं[397]विरुद्ध्यते ।

__________नोतेस्__________

[397] ऽव्यऽमूलपाठः ।

अस्माकमपि ---

तर्हि संयोगादिकमनिच्छतां तुल्यमेतत् । गण्डमण्डलसन्निकृष्टमपरापरप्रत्ययवशात् कुण्डलादिकं संयुक्तबुद्धिनिबन्धनमन्यत्कारणाभावात् तथाभूतं नोत्पन्नमितिऽ न कुण्डलीति निषिध्यते ।

सन्निकृष्टमुत्पन्नं ऽच्छत्रीति वा विधीयते ।

तस्माद् ---

योग्यताख्यः स्वभावः संयोगादिकं प्रति त्वया अभ्युपगम्यमानः केवलो ऽसंयुक्तादिबुद्धिनिबन्धनम् । किमन्यैः संयोगादिभिः ?

[398]यस्मात् सतामपि गमनादीनां स्वाश्रये वास्तवः सम्बन्धो निषिद्धःऽपारतन्त्रयमिऽत्यादिना । कुतः सम्बन्धाभावे तन्निबन्धनो व्यपदेशः ?

__________नोतेस्__________

[398] स्ह्: 71.

यथान्यगतैः कर्मादिभिरसम्बन्धादन्यो न तन्त्रादिकः, तथा तद्गतसम्मतैर् अपि ।

"तेषु सत्स्वपि तस्येति सम्बन्धस्याप्रसिद्धितः ।

युक्तः स्वभावभेदो ऽयं तत्प्रतिक्षणजन्मनां । ।" प्रतिक्षणजन्म कैश्चिदुपसर्पणादिप्रत्ययैर्निरन्तरोत्पादः संयोगशब्दवाच्यः । दन्दशूकफूत्कारश्रुतिसाध्वसादिसामग्र्या प्रतीपापरापरप्रदेशस्थतयोत्पादो वि[399]भागव्यपदेशविषयः । __________नोतेस्__________

[399] ऽगा इति लिखित्वा छिन्नं मूलपाठे ।

एकदिङ्मुखतयां प्रपरापरदेशसंयोगविभागभागितयोत्पादो गमनाख्यः । पूर्वा परत्वेनोत्पन्ने च भावे पूर्वां ऽपरादिसङ्केत [प् 4 ब्/7]

सिद्धिरिति च प्रधानार्थप्रतीतिक्रियाया उपयोगः कथितः ।

अनुमानसिद्धत्वमस्य वेदितव्यम् । तच्चानुमानं मानसे दर्शितम् ।

अनुमानसिद्धत्वेन चेदं निरस्तम् ।

ऽदृष्टयोरेव सारूप्यग्रहो ऽर्थश्च[400]न दृष्टवान् ।

__________नोतेस्__________

[400] ऽञ्चऽमूलपाठः ।

प्राक् कथं दर्शनेनास्य सारूप्यं सो ऽघ्यवस्यति ?"

इत्यादि ।

भट्टस्य पुनः ---

आलोचनाज्ञानं प्रमाणम् । ततः परं जात्यादिविशिष्टवस्तुनिश्चयात्मकं फलम् । ततो ऽपि प्रवर्त्तनम् । ततः प्राप्तिः । ततः[401]सुखम्-इति पूर्वं पूर्वं ज्ञानम् प्रमाणम् । उत्तरोत्तरं फलम् --- बोधप्रमाणतापक्षे ।

__________नोतेस्__________

[401] ऽतऽइति मूलपाठः ।

[402]जडप्रमाणतापक्षे तु ---

__________नोतेस्__________

[402] स्ह्: 72.

"यद्वेन्द्रियं प्रमाणं स्यात्तस्य वार्थेन सङ्गतिः[403] ।

__________नोतेस्__________

[403] यद्वेन्द्रियं प्रमाणं.... .... सङ्गतिः । --श्लो- वा- 4/60; ध (र्मोत्तर)ऽ प्र(दोपे) दुर्वेकमिश्रः 50 पृ-; हेतुबिन्दुटीकालोके च 272-78 पृ- ।

इन्द्रियैर्मनसो योगः प्रमाणं सर्वमेव वा[404]।"

__________नोतेस्__________

[404] इन्द्रियैर्मनसो.... .... ....मेव वा ॥ श्लो- वा- 4/60; घ- प्र- दुर्वेकमिश्रः 57 पृ-, हेतु- वि- टी- आ- 272-74 पृ- ।

नैयायिकादेः पुनः ---

विशेषणज्ञानं प्रमाणम् । विशेष्यज्ञानं फलम् ।

"नागृहीतविशेषणा विशेष्ये बुद्धिः । "

-इति वचनात् ।

जडप्रमाणतायाम् ---

इन्द्रियादि पूर्ववत् । निराकारतया ज्ञानमलब्धविषयविशेषसम्बन्धम् ।

भत्तादिदर्शने ---

वस्तुमात्रग्राहकमालोचनाज्ञानं जात्यादिविशिष्टवस्तुग्राहि च । ततः परं ज्ञानं न सिध्यति ।

तथा ---

ऽविशेषणस्येदं ज्ञानमिदं विशेष्यस्ये ऽति न प्राप्नोति ।

"एकार्थत्वे द्वयं व्यर्थं न चास्ति क्रमभाविता[405] । "

__________नोतेस्__________

[405] एकार्थत्वे द्वयं... ....भाविता ॥ वा- 7 पृ- ।

चक्षुरादि तु सुतरामर्थप्रतीतेर्न नियामकम् । अनाकारतयैव [प्4अ/8] तस्य । साकारत्वे वा किमन्येन ? अर्थसारूप्यमेव प्रमाणमस्तु ---

"यदन्यभेदकं तस्यास्तत् साधकतं मतम् । "

प्रमाणम् करणम् । प्रमाणं प्रमितिः । करणां च साधकतमम् ।

साधकतमं चान्यभेदकम् । समस्त?एतत् सारूप्यस्य सम्भवति, न निकारस्य ज्ञानस्य । नापीन्द्रियादेः ।

तथा हि ---

नीलाकारं यस्माद् वेद्यते ज्ञानं तस्मान् नीलस्य वेदनम् ।

[406]एवम् --- पीताकारतया पीतस्येति भेदके सारूप्यम् । नेन्द्रियादि सर्वसामान्यहेतुत्वात् ।

__________नोतेस्__________

[406] स्ह्: 73.

"क्रियाकारकयोरैक्यविरोध इति चेद् ? असत् --- ।

धर्मभेदाभ्युपगमाद् वस्त्वभिन्न ऽमितीष्यते[407]।[408]

__________नोतेस्__________

[407] क्रियाकारकयो.... .... असद् । .... तीष्यते ॥ -प्र- वा- भा- 348 पृ-, 3/319 का- । [408] धर्मभेदा भ्युप.... .... ष्यते । । -प्र- वा- भा- 348 पृ-, 3/319 का- ।

एवं प्रकारा सर्वैव क्रियाकारकसंस्थितिः ।

भावेष्वभिन्नाभिमतेष्वध्यारोपणवृत्तितः[409] । ।[410]"

__________नोतेस्__________

[409] एवं प्रकारा सर्वैव.... ... स्थितिः । .... वृत्तितः ॥ प्र- वा- भा- 348 पृ-, 3/32- का- ॥ प्र- वा- 2/219 ॥

[410] भावेष्व.... .... वृत्तितः । -प्र- वा- भा- 348 पृ-, 320 का- । प्र- वा- 2/219 ॥

तदेव प्रत्यक्षं ज्ञानं प्रमाणफलमिति परमार्थापेक्षया व्यपदिष्टेनानिष्टं करोत्यर्थप्रतीतिव्यापारो हि प्रकाशमान एव नीलाद्याकारः, परमार्थतः प्रमितिः, परम् --- ग्राहकाकारपारतन्त्र्येण ।

तथा ---

परशोरुत्पतननिपतनव्यापारौ नापरापरदेशसङ्गिस्वरूपोत्पत्तेरपरौ देवदत्तायत्ततया । व्यवहारिकः पुनः क्रियाकारकयोर्भेदो यद्यभिमतः, तदा धर्मस्य व्यावृत्तिलक्षणस्य भिन्नस्याभ्युपगमादस्त्येव । अपारमार्थिकत्वप्रसङ्गो ऽपि न सङ्गतः ।

एवं विधा सर्वैव ऽदेवदत्तः पचति, काष्ठैरोद [प्4ब्/8] नमिऽ त्यादि कापि क्रियाकारकव्यवहृतिः ।

"अन्वयव्यतिरेकाभ्यामेकत्वानैक्यकल्पने ।

क्रियाकारकभेदेन व्यवहारो व्यवस्थितः[411]। ।"[412]

__________नोतेस्__________

[411] अन्वयव्यतिरेकाभ्याम्.... .... कल्पने । .... व्यवस्थितः । । -प्र- वा- भा- 348 पृ-, 3/320/624 । [412] क्रियाकारकभेदेन.... .... व्यवस्थितः ॥ -वा- 7 पृ-; प्र- वा- भा- 348 पृ-, 3/320/ 624 ।

अदेवदत्तपरावृत्त्या देवदत्त एकप्रत्यवमर्शविषयत्वेनैकस्तावद् व्यवस्थाप्यते । तस्य च तुषवुषप्रक्षेपप्रसङ्गप्रचलत्पाणिपल्लवतालक्षणापाकक्रिया कादाचित्की यदि देवदत्तस्वभावः सान् ऽन यज्ञदत्तः पाचको भवेदिऽत्येवानादिवासनावशादन्वयव्यतिरेकाभ्यां भेदे क्रियादिव्यवस्थिति स्यात् । ततो यस्मिन्नाभिन्ने यद् भिद्यते, तत् ततो व्यतिरिच्यते ।

[413]परमार्थस्तु ---

__________नोतेस्__________

[413] स्ह्: 74.

देवदत्त एवापरापरप्रत्यययोगाद् विशिष्टस्वभावो विभाव्यते ।

लोकस्त्वेकत्वा[414]ऽध्यारोपेण वर्त्तत इति तदनुरोधादेव व्यवस्था ।

__________नोतेस्__________

[414] अत्रऽध्या इति लिखित्वा छिन्नं मूलपाठे ।

तथा ---

न नीलाकारः सकलाधिगतिव्यापकः । अधिगतिस्तु --- सकलाकारव्यापिकेति भेदव्यवहारः प्रमितिप्रमाणयोः ।

"दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ।

सव्यापारमिवाभाति व्यापारेण स्वकर्मणि[415]। ।[416]

__________नोतेस्__________

[415] दधानं तच्च.... .... त्मना । .... कर्मणि ॥ -प्र- वा- भा- 343 पृ-, 3/308 का - । (ऽणोःऽ इति पाठयुक्) वा- 3 पृ- । [416] सव्यापारमिवा.... ....स्वकर्मणि ॥ (णोः पाठयुक्) -प्र- वा- भा- 343 पृ-, 3/309 का-; वा- 3 पृ- ।

"तद्[417]वशात् तद्व्यवस्थानादकारकमपि स्वयम्[418]।

__________नोतेस्__________

[417] अत्रऽद्ध्यऽइति लिखित्वा छिन्नं मूलपाठे । [418] तद् वशात्.... .... स्वयम् । सत् ॥ -प्र- वा- भा- 343 पृ-, 3/309 का । पूर्वार्धमात्रम् वा- 3 पृ- अपि ।

सव्यपारप्रतीतत्वात् प्रमाणं फलमेव सत्[419]। ।

__________नोतेस्__________

[419] सव्यापारप्रतीत.... ....सद् ॥ -तथाचोक्तम् सव्या- - वा (र्त्तिकालङ्कारे) 10 पृ-; -प्र- वा- भा- 349 पृ- 3/320 का । टीका ।

इति ।

तदेव सग्राहकाकारपरावृत्त्या ग्राहकाकारः प्रमाता, चित्तमात्मा ग्राह्याकारो ऽनुभूयमानः सारूप्यात्मनानुमितः करणम् । यत्स्वरूपो ग्राहकाकारस्तत्प्रतीति [प्4अ/9] : फलमिति स्थितम् ॥

[इति] तर्कंरहस्ये विषयादिन्यायनिर्णयश्चतुर्थः ॥

[420][421]अनुमानं द्विधा --- स्वार्थं, परार्थं च --- ज्ञानस्याभिधानरूप --- त्वात् स्वपरप्रतिपत्तिनिबन्धनेन ।

__________नोतेस्__________

[420] स्ह्: 75. [421] अत्रऽऽअत्र ग्रन्थःऽऽइति-मूलपाठः ।

ननु ---

यो लिङ्गरूपं वेत्ति स वत्तुम् (र ?) ऽर्थक्रममपि ज्ञास्यति ।

किमर्थम्

परार्थमभिधानरूपमनुमानमुक्तम् ?

सत्यम् । सन्ति हि लिङ्गवस्तुप्रतिपद्यमाना अपि तद्वचने ऽनभिज्ञाः ।[422] __________नोतेस्__________

[422] ऽज्ञा इति- मूलपाठः ।

यथा---प्रतिज्ञाद्यधि (?) च परवादिनः । तद्विप्रतिपत्तिनिरासार्थं परार्थमुक्तम् ।

तत्र ---

स्वार्थं त्रि[423]रूपाल्लिङ्गात् यदनुमेये ज्ञानम् । त्रैरूप्यम्, पुनः ---

__________नोतेस्__________

[423] अत्रऽलिऽलिखित्वा छिन्नं मूलपाठे ।

अनुमेये सत्त्वमेव । सपक्ष एव सत्त्वम् । असपक्षे चा[424]ऽसत्त्वमेव निश्चितम् । अनुमेयो ऽत्र जिज्ञासितविशेषो धर्मी । तत्र सत्त्वमेव ।

__________नोतेस्__________

[424] ऽचऽमूलपाठः ।

अयोगव्यवच्छेदेन विशेषणात् ।

"तथा साध्यस्याप्ययोगव्यवच्छेद[425]विशेषणात् । ।

__________नोतेस्__________

[425] ऽअत्रऽछेदेन वि- मूलपाठः ।

विशेषे ऽ[426]नुगमाभावः सामान्यः सिद्धसाध्यता[427] । ।

__________नोतेस्__________

[426] ऽबे अनु-ऽमूलपाठः । [427] विशेषेऽनुगमा.... ....साध्यता ॥ -प्र- वा- भा- 499 पृ- ।

इति निरस्तम् ।

यतः ---

[428]"सामान्यमेव तत्साध्यं न च सिद्ध प्रसाधनम् ।

__________नोतेस्__________

[428] स्ह्: 76.

विशिष्टधर्मिणा तच्च न निरन्वयदोषभाक्[429] । ।"[430]

__________नोतेस्__________

[429] विशिष्टधर्मिणा.... ....दोषभाक् ॥ -प्र- वा- भा- 499 पृ-, 3/39 का । [430] सामान्यमेव तत्.... .... साधनम् । .... दोषभाक् ॥ - प्र- वा- भा- 499 पृ-, 3/39 का ।

अवह्निपरावृत्तं बह्निरूपं[431]साध्यम् । अधूमपरावृत्तं च धूमरूपं साधनम् । अनयोश्च जिज्ञासितविशेषेण धर्मिणा विशिष्टत्वेन नानन्वयदोषो ऽयोगव्यवच्छेदेन विशेषणात् । अन्ययोगव्यवच्छेदस्य प्रत्यक्षबाधितत्वात् ।

__________नोतेस्__________

[431] ऽप्यंऽ- मूलपाठः ।

"अयोगं योगमपरैरत्यन्तायोगमेव [प्4ब्/9] च ।

व्यवच्छिनत्ति धमंस्य निपातो व्यतिरेकतः[432]। ।[433]

__________नोतेस्__________

[432] अयोगं योग... .... ....च । ....देकतः । । -प्र- वा- भा- 581 पृ-, 4/190 का- । [433] व्यवच्छिनत्ति.... ....रेकतः । ....रेचकः । । प्र- वा- भा- पृ-, 581 पृ-, 4/190 ।

विशेषणविशेषाभ्यां क्रियया च सहोदितः ।

विवक्षातो ऽप्रयोगे ऽपि तस्यार्थो ऽयं प्रतोयते[434]। ।[435]

__________नोतेस्__________

[434] विवक्षातो ऽप्रयोगे ऽपि.... .... प्रतीयते । -प्र- वा- भा- 581 पृ-, 4/191 का- । [435] विशेषणविशेषा.... .... सहोदितः । .... प्रतीयते । -प्र- वा- भा- 581 पृ-, 4/191 का- ।

व्यवच्छेदफलं वाक्यं य तश्चैत्रो धनुर्धरः ।

ऽपार्थो धनुर्धरोऽ ऽनीलं सरोजमिऽति वा यथा[436] । ।"[437]

__________नोतेस्__________

[436] पार्थो धनुर्धरो नीलं.... .... यथा -प्र- वा- भा- 582 पृ-, 4/192 का- । [437] व्यवच्छेदफलं.... .... धनुर्धरः । .... वा यथा ॥ -प्र- वा- भा- 582 पृ-, 4/192 का- ।

अप्रयोगे ऽपि निपातस्य नियमविशेषावधारणं प्रकरणविवक्षाविशेषादित्यर्थः ।

ननु ---

यथा --- ऽपार्थ एव धनुर्धरऽ इति विशे(+ष ?) स्य सन्निधाने ऽवधारणाद् विशेष्यान्तरव्यवच्छेदः, तथा --- विशेषणसन्निधाने विशेषणान्तरस्यापि[438]व्यवच्छेदः स्यात् ?

__________नोतेस्__________

[438] ऽरस्थायि-ऽमू- पठितुं शक्यते ।

न ।

"प्रतियोगिव्यवच्छेदः सर्वत्रार्थेषु गम्यते ।

तथा प्रसिद्धेः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः[439]।"[440]

__________नोतेस्__________

[439] तथा प्रसिद्धेः.... .... ध्वनेः ॥ -प्र- वा- भा- 588 पृ-, 4/193 का- । [440] प्रतियोगिब्यवच्छेदः.... .... गम्यते ॥ .... ध्वनेः ॥ -प्र- वा- भा- 588 पृ-, 4/193 का- ।

चैत्रे धनुर्धरत्वं प्रतियोगि । पार्थो ऽपि प्रतियोगी वा धेयः । तथा विशेषणेन सह् निपातस्य वचने ऽयोगव्यवच्छेदे ऽपि यदि शङ्क्यते ---

"पूर्वं[441]किमन्यो ऽप्यस्य गुणो ऽस्ति ? " तदा, सकलगुणव्यवच्छेदो ऽव्यभिचारिवर्ज्यः (?)।

__________नोतेस्__________

[441] स्ह्: 77.

चैत्रो धनुर्धर एव, न पण्डितादिः । तथा --- पार्थे ऽपि यदि रामादिः कोदण्डपाण्डित्यं परिपिण्डयेत् कच्चित् ? तदा --- तत्रापि तदन्यसकलनिरासः ।

तदेवम् ---

प्रतियोगिव्यवच्छेदऽ--- इति सामान्यलक्षणम् ।

स च प्रतियोगी त्रिविधो ऽयोगादिप्रकारेण । धर्मान्तरक्रियान्तरविशेष्यान्तरयोगव्यवच्छेदादन्ययोगव्यवच्छेदो ऽपि [प्5अ/1] त्रिधा सम्प्रधार्यः ।

प्रस्तुते ऽपि ऽजिज्ञा सितविशेषे धर्मिणि सन्निऽत्यवधार्यम् । न तु तत्रैवेति नोक्तदोषः ।

तथा ---

साध्यस्यापि धर्मिसम्बन्धो[442] ऽयोगव्यवच्छेदेन वेद्यः ।

__________नोतेस्__________

[442] न्यो अयो- - मूलपाठः ।

यत् पुनरुच्यते ---

"पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताभिधा ।

मर्वलोकप्रतीता न पक्षधर्ममपेक्षते ॥"

ऽशिशुरयं ब्राह्मणो[443], मातापित्रोर्ब्राह्मण्यात् ।ऽ तथा --- पल्वले कुमुदप्रकाशेन चन्द्रोदयानुमाने, न लक्ष्यते पक्षसङ्गतिः ।

__________नोतेस्__________

[443] ऽणा- मूलपाठः ।

आतपसद्भावात् परभागे च्छायासम्भवः । तमस्युल्मुकविलोकने दूरे धूमानुमानम् चन्द्रोदयादम्भोधि बृद्ध्यनुमानम्, ताम्बूलबल्ल्याः पत्रसङ्कोचदर्शनाद् दाहानुमानम्, विना पक्षधर्मतया ।

तस्मात् ---

[444]प्रतिवन्धो[445]लिङ्गस्य लक्षणम् । न पक्षधर्मता । सामान्ये न च व्याप्तिग्रहे पक्षधर्मस्यापि प्रविष्टत्वात्। ऽमयूरध्वनिऽरिति चानाक्षिप्तदेश कालाप्रतीतिः पक्षधर्मतानपेक्षणी ।

__________नोतेस्__________

[444] स्ह्: 78. [445] ऽन्धो ऽपिऽइति लिखित्वापिऽछिन्नमिव मूलपाठे ।

किं वा प्रयोजनं पक्षधर्मत्वस्य रूपस्येति ? तदपि सर्वत्र पक्षसम्भवादयुक्तम् ।

तथा हि ---

यस्यैव ब्राह्मण्यं शिशोः साध्यम्, तस्यैव मातापित्रोर्ब्राह्मण्यं[446]

__________नोतेस्__________

[446] ऽण्यऽ- मूलपाठः ।

हेतुः । चन्द्रोदयानुमाने कालविशेषो धर्मी ।

एवम् --- छायासमुद्रवृद्धयोरनुमाने वेदितव्यम् ।

बल्ली पक्षः । सङ्कुचितपत्रत्वं हेतुः । ऽध्वनिः[447]श्रूयमाणो मयूर[448]मनुमापयतीऽत्यत्र मयूरध्वनि [प्5ब्/1] विशेषः पक्षो मयूरपूर्वक इति साध्यम् ।

__________नोतेस्__________

[447] ऽनिऽ- मूलपाठः । [448] अत्रऽमयूर्ऽइति द्विधा लिखितं- मूलपाठे ।

तथा --- भूतपूर्वानुभूतध्वनिसामान्यं हेतुः ।

अनुपलब्धेरपि पक्षधर्मत्वमस्त्येव । अन्यस्य भूतलादेर् उपलम्भजननयोग्यतैवानुपलब्धिः । सा अन्यभूतलादिधर्मः कर्मधर्मानुपलब्धिः ।

यदा तु --- कर्त्तृधर्मो ऽनुपलब्धिस्तदा ---

"स्थित एव भवत्येषा स्थित एव विनश्यति ।"

इति न्यायात् भूतलस्य मध्यावस्थाग्राह्याकारलक्षणा भूतलस्य धर्म एव ।

"नदीपूरो ऽप्यधोदेशे दृष्टः सन् उपरि स्थिताम् ।

नियम्यो गमयत्येव वृत्तां वृष्टिं नियामिकाम् । ।"

[449]तत्र ---

__________नोतेस्__________

[449] स्ह्: 79.

"इष्टं विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् ।

अन्यथा व्यभिचारि स्याद् भस्मेवाशीतसाधने[450] । ।"

__________नोतेस्__________

[450] अन्यथा ब्यभिचारि.... ....साधने ॥ -प्र- वा- 3/6; वा (द) न्या (य) टी (कायाम्) शान्तरक्षितः 15 पृ- ।

इति न्यायात् ।

अधोदेशनदीपूर एव धर्मी । उपरिष्टाद् विशिष्टपूर्वकत्वं साध्यम् । पूरसामान्यं हेतुः । तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः ।

तथा ---

भस्मविशेषो धर्मी । देशान्तरकालान्तरशीताभावसम्पादकबह्निपूर्वकत्वं साध्यम् । भस्मसामान्यं हेतुः ।

तथैव व्याप्तिग्रहणस्थानं दृष्टान्तः ।

"कष्टेन पक्षधर्मत्वे यस्तत्रापि प्रकल्पयेत् ।

न सङ्गच्छेत तस्यैतल् लक्ष्येण सह लक्षणम् ॥"

पक्षधर्मत्वमसङ्गतमपक्षधर्मस्यैव हेतुत्वेन फलितत्वात् ।

"यथा लोकप्रसिद्धं हि लक्षणैरनुगम्यते ।

लक्ष्यं च लक्षणेनैव तदपूर्वं न साध्यते ॥"

अयमपि कष्टकल्पनोपा [प्5अ/2] ऽऽलम्भो निरस्तः ।

यतः पक्षधर्मतामन्तरेण केवलसम्बन्धबोधे प्रत्यासत्तिधी[451]

__________नोतेस्__________

[451] ऽविप्रधीकर्षा-मूलपाठ ।

विप्रकर्षाभावाद् धूमाद् बह्निसम्बन्धात् क्व तदनुमानम् ? यत्रासौ दृश्यते तत्रैव ।

ननु ---

जातविशेषे ऽपि दृश्यते । किम् तत्राप्यनुमानम् ? सिद्धत्वाद् बह्नेः ।

एवं तर्हि ---

बह्निर्यत्र जिज्ञासितो यत्र च दृश्यते "धूमो बह्निसम्बन्ध" इति व्रुवता जिज्ञासितविशेषे धर्मिणि सत्त्वमेवे [+त्य ?] भ्युपेतं त्वया ।

वयमप्येवमेव प्रतिपन्नाः ऽअनुमेये सत्त्वमेवेऽति ब्रुवन्तः ।

[452]पक्षधर्मत्वस्य च महदेव प्रयोजनम् । यद्देशकालनियतं बह्निमुपदर्शयत्यनुमानमतस्तत्प्रापणयोग्यम् । अतश्च प्रमाणम् ।

__________नोतेस्__________

[452] स्ह्: 80.

[453][454] साध्यधर्मसामान्येन समानो[455]ऽर्थः सपक्षः तत्रैव च सत्त्वं द्वितीयं रूपम्.

__________नोतेस्__________

[453] textedition von: yaita, hideomi (1991): tarkarahasya kenyū (v). journal of naritasan institute for buddhist studies no. 14: 145-148.[y v] [454] y v: 145. text für diesen abschnitt nach y v. endnoten nach shastri. [455] ms sāmāno.

ऽऽअनुमेये सत्त्वम् एवेऽऽत्य् उक्तम्. ऽऽसपक्ष एव च सत्त्वम्ऽऽ इत्य् अन्ययोगव्यवच्छेदेन निरस्यते चकारात्, यथानरं च नारायणम् एव चादौ स्वतः सुतौ द्वौ जनयां बभूवेऽऽति.

ननु ---

ऽऽसाध्येनानुगमो[456]हेतोः साध्याभावे[457]च नास्तिता ।

__________नोतेस्__________

[456] म्स् & स्ह् -नुगमा. [457] म्स् साध्यभावे.

ख्याप्यते यत्र दृष्टान्तः स साधर्म्येतरो द्विधा । ।ऽऽ

इति लक्षणम्, तत् किम् उच्यते ऽऽसाध्यधर्मेऽऽ त्यादि. सत्यम्.

ऽऽतत्रैव च[458]सत्त्वम्ऽऽ इत्य् अभिधानात् तावान् एवार्थः सम्पद्यते.

__________नोतेस्__________

[458] स्ह् ओमित्स् च.

सपक्षो यो न भवति सो ऽसपक्षो ऽसमर्थसमासेन, ततो ऽन्यस् तद्विरुद्धस् तदभावश् च. तत्रासत्त्वम् एव निश्चितं[459]तृतीयं रूपम्.

__________नोतेस्__________

[459] य् व्: 146.

निश्चितग्रहणं त्रिष्व् अपि रूपेषु द्रष्टव्यम्. वह्निसम्बद्धत्वेनानुमेये[460]

__________नोतेस्__________

[460] स्ह् --सम्बन्धेनानुमेये.

निश्चीयमानो धूमो वह्निं प्रतिपादयति, नान्यथा.

प्रपद्यमानश् चान्यस् तन् नान्तरीयकम् ईप्सितैः ।

साध्यार्थैर् हेतुना तेन कथम् अप्रतिपादितः[461]। ।[462]

__________नोतेस्__________

[461] प्रपद्यमानश्चा.... .... प्सितैः .... पादितः ॥ -प्र- वा- भा- 504 पृ-, 4/59 का- । [462] साध्यार्थैर्हेतुना.... .... प्रतिपादितः ॥ -प्र- वा- भा- 507 पृ-, 4/56 का- ।

[463]तस्मान् नान्तरीयकतया[464]निश्चीयमानत्वम् एव परोक्षार्थप्रतिपादनव्यापारो[465]लिङ्गस्य.

__________नोतेस्__________

[463] sh: 81. [464] sh nāntarīkatayā. [465] ms parokṣortha-; sh parokṣo 'rtha-. cf. note 13 above.

ज्ञानम् अप्य् आत्तम् एवात्र ज्ञापको ऽधिकृतो यतः ।

अतो[466]निश्चितत्वं न रूपान्तरम्. रूपान्तरं तद् एवेह विवक्षितम्. यत्र विवादस् तत्र पक्षधर्मे दर्शितो विवादः.

__________नोतेस्__________

[466] स्ह् स्वतो.

"कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।

अविनाभावनियमो ऽदर्शनान् न न दर्शनात्[467]। ।[468]"

__________नोतेस्__________

[467] अविनाभाव.... ... .... दर्शनात् ॥ -प्र- वा- 3/30 ॥2/70 ॥

[468] कार्यकारण.... .... नियामकात् । .... दर्शनात् ॥ -प्र- वा- 3/30 ॥2/70; त- स- पं- 430 पृ- ।

इत्य् अन्वयव्यतिरेकयोर् विवादः.

न च लिङ्गं परोक्षप्रतिपत्त्यङ्गम् अथवा निश्चितं सद् इति मतम् अस्ति कस्यचित्.

तस्माद् अन्वयव्यतिरेकयोर् निश्चितव्याप्तिकयोर् एकम् अपि प्रयुक्तम् अर्थापत्त्या द्वितीयम् आक्षिपति रूपम् इति नियमवतोर् अन्वयव्यतिरेकयोर् निश्चितयोर् एक एव प्रयोक्तव्य इति प्रयोगशिक्षणार्थम् अन्वयव्यतिरेकोपादानम्. यस्माद् यतःऽऽसपक्ष एव च[469]सत्त्वम्ऽऽ इत्य् उक्ते ऽऽऽसपक्षे चासत्त्वम्ऽऽ इति गम्यते, किमर्थं कथ्येत्ऽऽआसपक्षे चासत्त्वम् एव निश्चितम्ऽऽ इति.[470]तद् एवं दर्शनादर्शनमात्रेण न सिध्यति सम्बन्धः.

__________नोतेस्__________

[469] स्ह् ओमित्स् च. [470] स्ह्: 82.

[471]किं तर्हि. जन्मतन्मात्रानुबन्धप्रसाधकदर्शनादर्शनविशेषेणेति[472]

__________नोतेस्__________

[471] य् व्: 147. [472] स्ह् जन्य-.

वक्तुन् निश्चितग्रहणं कृतम्.

एतावान् एवार्थः प्रमाणसमुच्चये ऽपि---

अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासति[473]।

__________नोतेस्__________

[473] अनुमेये ऽर्थतः तुल्ये... .... .... ऽसति ॥ -(ऽथ तत्तुऽपा-युक्) हे (तु) वि (न्दु) टी (कायाम्) अर्चटेन उद्धृतम् 222 पृ- ।

साध्यधर्मसामान्येना तुल्य[474]एव सद्भावः. अनेन चावधारणेन लब्धो ऽतत्तुल्ये ऽसद्भावः. ततो ऽनास्तितासतीति नियमार्थम्. सिद्धे सत्य् आरम्भो नियमायेऽऽति न्यायात्.

__________नोतेस्__________

[474] म्स् & स्ह् -न्येनातुल्य एव.

ऽऽअसत्य् एवेऽऽत्यादिग्रन्थ ईश्वरसेनेन प्रक्षिप्तः.

ऽऽअनुमेये ऽथ तत्तुल्ये सद्भावो नास्तितासतीऽऽत्य् एव सूत्रं गमितम् आचार्येण नियमार्थम्. तथापि प्रक्षेपो विभज्यते. असत्य् एव नास्तिता यथा स्यान् नान्यत्र न विरुद्धे, तत्तुल्यत्वेन यः सन् न भवति सो ऽसन् तस्मिन् ऽऽनास्तितैवेऽऽत्य् असमर्थसमासफलम्. तदन्यस्[475], तद्विरुद्धस् तदभावश् चेत्य् उक्तं भवति. तस्माद् आह ऽऽनान्यत्रैव न विरुद्ध एव चेऽऽति.

__________नोतेस्__________

[475] म्स् तदन्यतविरुद्धस्; स्ह् तदन्यः तद्विरुद्धस्.

[476]अपि तु अनुमेयविपरीते[477]सर्वस्मिन् यो नास्त्य् एव स हेतुः, कुतः पुनर् अन्यविरुद्धयोः प्रसक्तिः. उच्यते. ऽऽतत्तुल्य एव यो ऽस्तीऽऽति नियमेनातत्तुल्ये[478]नास्तित्वम् आक्षिप्यते. तत्र्ऽऽआतत्तुल्यऽऽ[479]इत्य् असमर्थसमासासपक्षे[480]ऽन्यविरुद्धवाचिनञ्शब्दसमासे[481]

__________नोतेस्__________

[476] sh: 83. [477] `anumeyaviparīte' not included in ms & sh, but tentatively inserted by the present writer. cf. note 44 above. [478] ms (a)tantul-. [479] ms (a)tantul-. [480] ms samarthasamāsasapakṣe; sh samarthasamāsapakṣe. [481] sh --vāci nañ śabda-.

ऽब्राह्मणवद् ऽअनृतवद्[482]अन्यो विरुद्धो वा नियतो विपक्षो गम्[483]येत.

__________नोतेस्__________

[482] स्ह् अनुभवत्. [483] य् व्: 148.

ऽऽनास्तितासतीऽऽति वचनेन पुनस् तत्तुल्यतया[484][485]यः सन् न भवति सो ऽतुल्यो ग्राह्यः.

__________नोतेस्__________

[484] ms (a)tantul-. [485] sh tattulya upāyaḥ san; ms tantulyate(bhe ?)yāyaḥ. cf. tr 82, 15-16: tattulyatvena yaḥ san na bhavati so 'san...

एवं तर्हि पूर्वेणासिद्धत्वाद् अपूर्वविधानं न नियमार्थं स्यात्. न.

व्याख्यानतो--

ऽऽविशेषप्रतिपत्तिर् न हि सन्देहाद् अलक्षणम् ।ऽऽ

इति न्यायात्. असमर्थसमास एव भविष्यत्य् ऽऽअतत्तुल्यऽऽ इति. तथापि ऽऽनान्यत्र न विरुद्धऽऽ इति वचनम् अघटमानं वा घटमानं किम् असमर्थसमासेन समर्थ एवास्तु समास इति चोद्ये दोषदर्शनार्थत्वाद् इति.

ऽऽअसतो ऽधिकरणादिशक्तिशून्यत्वाद् विपक्षत्वम् अनुपपन्नम्ऽऽ इति परः.

न, स्ववचनविरोधात्. असतो ऽधिकरणशक्तिं प्रतिरुन्धानो येन वाक्येन तां प्रतिरुणद्धि, तेन तस्मिन्न् अधिकरणशक्त्यभावाधिकरणशक्तिं[486]

__________नोतेस्__________

[486] स्ह् --शक्य-.

विधत्ते.

[487]"(अर्था ?) अतद्रूपपरावृत्तमात्रप्रसाधनात् ।

__________नोतेस्__________

[487] स्ह्: 84.

सामान्यविषयं प्रोक्तं लिङ्गभेदाप्रतिष्ठितेः[488] । ।"[489]

__________नोतेस्__________

[488] अतद्रूपपरावृत्त... ... ... नात् । ... ... प्रतिष्ठितेः । । -धर्मकीर्त्तिवचः । -प्र (माण) वा (र्त्तिक) भा (ष्ये) 18 पृ -, त- स- प- 330 पृ- । [489] सामान्यविषयं.... ....प्रतिष्ठितेः । । -प्र- वा- भा- 18 पृ- । दाहपाकादिसमर्थो ह्यर्थो ज्ञातुमिष्टः पाकाद्यसमर्थव्यतिरेकी चानुमानेनार्थो ज्ञाप्यते । अतो बहवो[490]ऽर्थाः सजातीयव्यावृत्तेर् अनिश्चितत्वान्निश्चितत्वाच्च विजातीयव्यावृत्तेः ऽसामान्यमिऽति व्यपदिश्यन्ते । __________नोतेस्__________

[490] ऽबहवो अर्थाःऽ- मूलपाठः ।

भेदाप्रतिष्ठितेरिऽति वचनात् । ऊर्ध्वतासामान्यं सजातीयान्यव्यक्तिव्यावृत्त्या प्रत्यक्षविषयः । ततः "समानानां भावः सामान्यमिऽ

त्यन्यरूपव्यावृत्तमेव, [प्5अ/4] (वि?) परीतादिशङ्का न कार्या ।

ननु---

"विशेषे ऽनुगमाभावः सामान्ये सिद्धसाध्यता ।

अनुमाभङ्गपङ्के ऽस्मिन् निमग्ना वादिदन्तिनः[491] । ।"

__________नोतेस्__________

[491] विशेषे ऽनुगमा.... .... साध्यता । .... दन्तिनः ॥ साध्यता यावदेव प्र- वा- भा- 499 पृ - ।

इति कथं परिहार्यम् ?

अत्र भाष्यम् । ---

सामान्येनान्वये सिद्धे पक्षधर्मत्वयोगतः ।

विशेषनिष्ठता तस्य सम्बन्धग्रहणात् परा[492] । ।"[493]

__________नोतेस्__________

[492] विशेषनिष्ठता.... .... परा । । -प्र- वा- भा- 500 पृ-, 3/39/103 ॥

[493] सामान्येनान्वये.... ....योगतः । ....परा ॥ -प्र- वा- भा- 500 पृ-, 3/39/103 ॥

अयोग[494]व्यवच्छेदेन विशेषणे पक्षायोगव्यवच्छेदं साध्यमपास्यसामान्येनान्वयदर्शने तद्विशिष्टत्वसिद्धिरतद्रूपपरावृत्ततयैकत्वस्य विवक्षितत्वात् पक्षधर्मत्वयोगात् । पक्षधर्मायोगव्यवच्छेदेन सामान्यं[495]

__________नोतेस्__________

[494] ग्य- मूलपाठः । [495] ऽन्यविंऽ- मूलपाठः ।

निशेषीभवति । न विशेषः सामान्यम् ।

[496]यदि हि ---

__________नोतेस्__________

[496] स्ह्: 85.

पक्षायोगव्यवच्छेदपूर्वकमन्वयः प्रदर्श्यते ? भवेद् ---

"विशेषे ऽनुगमाभावः सामान्ये सिद्धसाध्यता[497] ।"

__________नोतेस्__________

[497] विशेषे ऽनुगमा.... .... साध्यता । -प्र- वा- भा- 499 पृ- ।

च (न ?) भवेत् ।

यदि ---

सामान्येनान्वयो विशेषेण पश्चान्न परिणमेत ।

अत एव ---

पक्षधर्मतारूपबलात् सामान्येन धर्मिना सम्बद्धो व्यापको विशेषणघर्मिणा सम्बन्धाद् विशेषणं[498]परिणमति । न तु यः कश्चित् ।

__________नोतेस्__________

[498] ऽण परिऽमूलपाठः ।

एवम् ---

यदापि --- पक्षधर्मतापूर्वकः प्रयोगः तदाप्ययोगव्यवच्छेदेन विशेषणात् धर्मिमात्रसम्बन्ध्येव व्यापकं सामान्यं सत् विशिष्टताप्रतिष्ठं प्रतीयते ---

धूमो ऽत्र --- ऽयत्र धूमस्तत्राग्निर्य [प्5ब्/4] था --- महानसऽ इति साध्यधर्मसामान्येन धर्मिमात्रयोगव्यवच्छेदं स्मरताधूमो ऽत्र वर्त्तमानः साध्यधर्मसामान्यनान्तरीयकऽ इति पक्षयोगव्यवच्छिन्नस्तस्य धर्मसामान्यं प्रतीयते ।

समानस्वविषयविज्ञानजननयोग्यतारूपयोरेकदृष्टिः पर्युदासदृष्ट्यानुपलम्भः ।

यथा ---

यद्यत्रोपलब्धिलक्षणप्राप्तं सत् नोपलभ्यते स तत्रासद्व्यवहारविषयः सिद्धो यथा --- तुरङ्गमोत्तमाङ्गे शृङ्गम् !

नोपलभ्यते चोपलब्धिलक्षणप्राप्तो धटः क्वचित् प्रदेशे ।

[499]तत्र ---

__________नोतेस्__________

[499] स्ह्: 86.

ऽअभावो नाम प्रमाणप्रमेयाभावरूपतया द्विविधोऽ भट्टस्य ।

ऽप्रमेयाभावो ऽभावात् पृथगेव ऽस्ति प्रत्यक्षसाध्यऽ इति न्यायमतम् ।

"नास्ति पदार्थो ऽभावो न म प्रमाणविषय" इति मतम् बौद्धानाम् ।

ननु ---

ऽघटो ऽत्र नास्तीति ऽघटवान् यन्न भवतीऽ त्यादिप्रतिषेधव्यवहारो ऽस्ति । स किंविषयो भवतु?

ऽसघटाद् भूतलादन्यभूतलविषयऽ इति ब्रूमः ।

अपरापरप्रत्यययोगेन जायमानं भूतलं ऽकिञ्चित् सघटं किञ्चित् सधटादन्यदिऽति भावरूपतया तदाकारानु कारिणा प्रत्यक्षेणानुभूतनिश्चितं ससहायतया सघटप्रत्ययनिबन्धनम् । तत्प्रतियोगितया निरूप्यमाणं सघटादन्यद् भूतलं, घटो ऽत्र नास्ति, [प्5अ/5] घटवान् वा न भवतीति प्रत्ययद्वयनिबन्धनं निरूप्यते ।

तत्र ---

अभावतत्त्वावतारणो[500]विमर्शतरः कवलयति (?) कल्पनावीजानुपपत्तेः ।

__________नोतेस्__________

[500] ऽणंऽमूलपाठः ।

तथा हि ऽघटो ऽत्र नास्तीति बुद्धिनिबन्धनतया न कल्पनामर्हति । भूतलबिशेषेण घटादन्यसंज्ञेन तस्याः बुद्धेः कृतत्वात् । नाप्यभावव्यवहारविषयतया । सघटादन्यभूतलविषयः खल्वयमभावव्यवहारऽइति प्रथममेव कीर्त्तितम् ।

नापि भावविशेषणतया, प्रतिनियतभूतलानुभवभावितत्वादन्यव्यवहारस्य । यदि पुनर्विशेषणमन्तरेण नियतरूपं न सिध्यति, न सिध्यत्येव तर्हि नियतं विशेषणं विशेष्यं च रूपमिति किं कस्य विशेषणं विशेष्यं वा ?

[501]तस्मात् ---

__________नोतेस्__________

[501] स्ह्: 87.

स्वहेतोर्नियतरूपमुत्पन्नम् ।

यथा ---

विशेषणं विशेष्यं वा प्रत्यक्षेण च तदाकारानुकारिणा तदन्येन वा प्रत्ययेनाभूतं निश्चतं विशेषणान्तरमन्तरेण ।

तथा ---

सघटादन्यो ऽपि भूप्रदेशः स्वहेतोर्नियतमुत्पन्नः, प्रत्यक्षेण तथैव दृष्ट्वा व्यवस्थापितो ऽस्तु । प्रतियोग्यन्तरापेक्षया विषयः प्रतिषेधव्यवहारस्य ।

ऽइह भूतले कलशो ऽसन्ऽ इति प्रत्ययो न भूतलमात्रप्रभवो, घटवत्यपि प्रसङ्गात् । नापि भूतलविशेषः । ततो भूतलात्तस्य तत्त्वान्यत्वा [प्5ब्/5]

भ्यां यथासङ्ख्यं घटवत्यपि प्रसङ्गस्याभावस्वीकारस्य च दुरतिक्रमत्वात् ।

तस्मादलं भणित्वाभूतलकैवल्यमेवाभावऽ इति परः ।

अयुक्तम् एतत् ।

समानसमञ्जसजातीयत्वात् प्रसङ्गस्य । अभावो ऽपि भूतलमात्रविशेषणं नोपपद्य[502]ते । घटवत्यपि प्रसङ्गात् । तद्विशेषं ऽपि स्वीकृते ऽभावादन्यत्वे तस्य किमभावेन ? घटवत्यपि प्रसङ्गात् ।

__________नोतेस्__________

[502] ऽद्येऽलिखित्वा एऽमात्रा छिन्ना मूलपाठे ।

तस्मात् ---

अपरापरप्रत्यययोगेन सघटाद् भूतलादन्यदेव भूतलं नियतप्रतिभासवशेन व्यवहृतम् ।

यथा --- घटाभावप्रतीतेर्निबन्धनम् । किमभावेन तद् (+ति)रिक्तेन ?

[503]उपलब्धिलक्षणप्राप्तिरुपलम्भप्रत्ययान्तरसाकल्यं, स्वभावविशेषश्च । ऽयः स्वभावः सत्स्वर्थेषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवती ऽत्यादि विस्तरस्तु प्रसिद्ध एव ।

__________नोतेस्__________

[503] स्ह्: 88.

अत्र ---

द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे हि ---

प्रत्यर्थो ऽर्थं गमयति । स च स्वभावप्रतिबन्धः साध्ये ऽर्थे लिङ्गस्य, वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च । अतत्स्वभावस्यातदुत्पत्तेश्च तद्व्यवहारनियमाभावात् । कार्यस्वभावहेतुविधेर्भिन्नाभिन्नस्वभावस्य साध कौ तेनोपेयस्य भेदादुपायो विधिसाधनौ भिन्नौ । तौ तावत् कथ साधयतः ?

उच्यते ।

यस्य यत्रायत्तं स्वरूपं स आपत्तिविषयं साधयति । एत[प्5अ/6] देव प्रतिबद्धस्वभावत्वमुच्यते । तच्चायत्तत्वं कार्ये त्वकारणेन कर्त्तव्यत्वे साध्यस्य च स्वभावत्वे विस्पष्टमुच्यमाने स्फुरति । न संयोगित्वे सति, न वा समवायित्वे सति । तेनोच्यते । ---

"तादात्म्यात्तदुत्पत्तेश्च"

इति ।

स्वभावप्रतिबद्धत्वं हि व्यापकस्य तत्र भाव एव ऽव्याप्यस्य वा तत्रैव भावऽ इत्येवं लक्षणान्वयव्यतिरेकलक्षणो ऽविनाभाव उच्यते । स चाविनाभावस्तादात्म्यतदुत्पत्तिभ्यां व्याप्तः । तयोस्तत्रावश्यम्भावत्वात् । तस्य तयोरेव भावात् । नन्वेतदेव न सहामहे महेश्वरेणाप्यनुशिष्टम् ।

सतो रूपादेरसतो गतिरकार्यकारणत्वे ऽपि । तथा --- तस्यापि हि कार्यमेवाथ च व्यभिचरति बह्निम् ।

तथा ---

कार्यत्वमन्तरेणापि जनसाधारणं[504]गमयति । गमयति च कार्यं कारणात्मानम् । न कारणात्मा कार्यम् । साधारणकार्यकारणभावः सम्बन्धः । तत्रोच्यते । ---

__________नोतेस्__________

[504] ऽणऽमूलपाठः ।

[505]"एकसामग्र्यधीनस्य रूपादेरसतो गतिः ।

__________नोतेस्__________

[505] स्ह्: 89.

हेतुधर्मानुमानेन धूमेन्धनविकारवत्[506]। ।[507]

__________नोतेस्__________

[506] एकसामग्र्यधीनस्य.... ... गतिः । .... विकारवत् ॥ -प्र- वा- 3/8 । त- स- पं- 417 पृ- । [507] हेतुधर्मानुमानेन.... ....वत् ॥ -प्र- वा- 3/8, त- सं- पं- 417 पृ- ।

शक्तिप्रवृत्या न विना रसः सैवान्यकारणम् ।

इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गता ।"

रमो हि रसनेव पूर्वकं गमयति स्वोपादानम् । हेतुधर्मानुमानेन पुनः समानकालं रूपम् । यतो --- येनासौ रसो रसेन जनि [प्5ब्/6] तः स प्रवृत्तशक्तिरूपोपादानरूपसहकारिकारणो रसो रसं जनयति । न केवलः ।

यथोक्तरूपसहकारित्वं च हेतुधर्मो, हेतुविशेषणम् । नचानुमीयमानम् समानकालतया रूपमनुमापकस्य रसस्य कार्यहेतुतां व्याहन्ति ।

यथा ---

स्वभावहेतोः कृतकत्वस्य "हेतुप्रत्ययैरिऽऽति व्यतिरिक्तं विशेषणं न स्वभावतां निराकरोति --- तथेहापि नयो वेदितव्यः ।

तथा --- यदि नाम भस्माङ्गारादिनिरुद्धे ऽपि कारणे ऽनुवर्त्तते । तत् किमे[508] तावता तत्पूर्वकतां व्यभिचरति ? __________नोतेस्__________

[508] ऽवऽलिखित्वा छिन्नं मूलपाठे ।

जलस्य पुनः स्थैर्यमुपार्जितमाधारणातः स्थिरं जलमाधारं गमयति । कार्यतयैव ।

यत् पुनः कारणं कार्यस्य न गमकम्, तत्पुरुषाय बाधते ।

तथा हि---

"कुर्वता बह्निना धूमं कारणत्वमवाप्यते ।

कुर्वता यदि गम्येत गमकत्वं भवेदपि[509]। ।[510]

__________नोतेस्__________

[509] कुर्वता यदि .... ....भवेदपि ॥ -प्र- वा- भा- 605 पृ-, 4/203/488 ॥

[510] कुर्वता वह्निना.... ....विद्यते । ....भवेदपि ॥ -प्र- वा- भा- 605 पृ-, 4/203/488 ॥

यत्त्वशक्यं तथा गन्तुमिति दोषो न तस्य सः ।

तथा तत्कार्यमेव स्याद् धूमाभावादभावतः[511]। ।[512]

__________नोतेस्__________

[511] तथा तत्कार्यमेव... ....भावतः ॥ -प्र- वा- भा- 605 पृ-, 4/203/489 । [512] यत्त्वशक्यं तथा गन्तु.... .... सः । ....भावतः ॥ -प्र- वा- भा- 605 पृ-, 4/203/489 ।

[513]व्यापकं व्यतिरिक्तत्वे कारणं सर्वमेव हि ।

__________नोतेस्__________

[513] स्ह्: 90.

पूर्वत्वे कारणस्येष्टे ह्युपादानं तदर्थिनाम्[514]। ।

__________नोतेस्__________

[514] व्यपकं व्यतिरिक्तत्वे.... .... मेव हि । .... तदर्थिनाम् । -प्र- वा- भा- 605 पृ-, 4/302 का- ।

परत्वे ह्यनुमानं यत् सामर्थ्यात् तद् भविष्यति ।

को हि हस्तगतं द्रव्यं पादगामि करिष्यति[515]? ॥

__________नोतेस्__________

[515] को हि हस्तगतं .... .... करिष्यति ॥ (एतावदेव) प्र- वा- भा- 69 पृ- ।

भाविकारणभावेन परलोकानुमा स्थिरा । ।"

भाविना सार्धमन्वयव्यतिरेकानुविधानमपि प्रत्य[प्5अ/7] क्षानुपलम्भाभ्यामेव सम्भाव्यम् ।

अप्रतिबद्धशक्तिकं हि कारणं येन प्रत्यक्षानुपलम्भेन परिच्छिद्यते, तेन कार्यमस्यावश्यम्भावि । परिच्छिन्दता कार्यस्य भावात् । ऽबाधं न करोति कारणमिऽति परिच्छिन्नं भवति । तेन कारणस्यापि गमकत्वे कार्यत्वमेवे[516]ऽति भेदे सति गमकं नान्यदित्युक्तं भवति ।

__________नोतेस्__________

[516] कार्यमेवेति अधिकं लिखित्वा छिन्नं मूलपाठे ।

यत् पुनरुच्यते । ---

तादात्म्याविशेषे ऽपि शिंशपात्वं गमकं, न वृक्षत्वमपि । तस्माद् अव्यभिचारि गमकं न तदात्मकमिति ! तत्राचार्येणोक्तम् । ---

"यो वात्मा सो ऽविभागवान् स तेनाव्यभिचारी स्यात् ।"

य आत्मा यस्य स गमकस्तस्य । वृक्षः शिंशपामपास्याप्यस्ति पलाशादिः ।

न तु शिंशपा तथेति सैवाविभागवती ।

"तत्रापि शिंशपात्मा स्याद् वृक्षो ऽपि गमको मतः ।

तादात्म्यं सुगमं नेति गमकत्वं न विद्यते[517]। ।[518]

__________नोतेस्__________

[517] तत्रापि शिंशपात्मा.... ....मतः । ....विद्यते ॥ -प्र- वा- भा- 605 पृ-; 4/203/490 । [518] तादात्म्यं सुगमं.... .... विद्यते ॥ -प्र- वा- भा- 605 पृ-; 4/203/490 ।

तथा वा गमकत्वे स्यादविभागत[519]या गतिः ।

__________नोतेस्__________

[519] ऽगबत् या गतिःऽमूलपाठः ।

तस्मात् सर्वा गतिः कार्याविभागत्वेन वस्तुनः[520]। ।[521]

__________नोतेस्__________

[520] तथा वागमकत्वे.... .... गतिः । .... वस्तुनः ॥ -प्र- वा- भा- 604 पृ-, 4/203/491 । [521] तस्मात् सर्वा... ... वस्तुनः । - प्र- वा- भा- 605 पृ-, 4/203/491 ।

[522]अपि च ---

__________नोतेस्__________

[522] स्ह्: 91.

ऽपक्षधर्मऽ इत्यत्र धर्मशब्दो न गुणपर्यायः । किं तर्हि ? आश्रितवाची ।

प्रतितन्त्रसिद्धान्तन्यायात् ।

तेन ---

"देहाश्रितवस्त्रादावप्रसङ्गो धर्मशब्दस्य" इत्यप्रस्तुतमपि ग्राह्यमस्तु ।

तदेवम् ---

अविनाभावो व्याप्तस्तादात्म्यतदुत्पत्तिभ्याम् । ऽते च --- तादात्म्यतदु[प्5ब्/7]

(+त्प) त्ती स्वभावकार्ययोरेवेऽति ताभ्यामेव वस्तुसिद्धिः ।

तत्र प्रयोगः ।

यस्य येन सह तादात्म्यतदुत्पत्ती न स्तः, स न तदविनाभावी । यथा ---

प्रमेयत्वादिरनन्तत्वादिना, न स्तश्च तादात्म्यतदुत्पत्ती कार्यस्वभावव्यतिरेकिणाम् ।

व्यापकानुपलब्धिरेषा ।

स्वभावानुपलब्धिस्तु ---

स्वभावहेतावन्तर्भावित्वात् तत्तादात्म्यलक्षणः प्रतिबन्धव्यापककारणानुपूर्वी च तादात्म्यतदुत्पत्तिबलादेव कार्यव्याप्ययोर्निवृत्तिं साधयतः, प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः ।

अनुपलब्धेस्तावत् तस्या उपलब्धिलक्षणप्राप्तस्य सत्त्वे सम्भवात् ।

नह्यस्ति---सम्भवस्तुल्यस्वज्ञानजननयोग्यतयोः प्रतियोगिनोः सतोरेकरूपनियतायाः प्रतीतेः ।

यस्मिन् वेद्यमाने यस्मिन् (यन् ?) नियमेन वेद्यते, तत्तस्य प्रतियोगि ।

तदेकेन्द्रियज्ञानग्राह्यं वा । यथा---भूतलघटरूपयोः ।

भिन्नेन्द्रियग्राह्यं वा ।

[523]यथा---देवकुलभेरीशव्दयोः । विकल्पज्ञानान्धकारस्य प्रतिषेध्य[524]

__________नोतेस्__________

[523] स्ह्: 92. [524] अत्रऽप्रतऽइति लिखित्वा छिन्नमिव मूलपाठे ।

दीपयोर्वा ।

ऽदेशकालस्वभावविप्रकृष्टेषु मेरुधामपिशा चेषु चानुपलब्धिलक्षणप्राप्तेषु सत्स्वपि प्रत्यक्षनिवृत्तिलक्षणाया अदृश्यानुपलब्धेः सम्भवादनैकान्तिकत्वेन प्रतिषेधव्यवहारासिद्धेर्दृश्यानुपल [प्5अ/8] ब्धेरेव सा भवतीति प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेरिति सिद्धम् ।

यथा ---

एकज्ञानसंसर्गिणि दृश्यमाने दृश्यत्वं प्रतिषेधस्य । तथा--- अतीतकाले ऽतीतकालत्वमदृष्टस्मृतिसंस्कारे ऽदॄष्टस्मृतिसंस्कारत्वम्, वर्त्तमाने वर्त्तमानत्वम् । तेनादृष्टस्मृतिसंस्कारातीतस्य प्रतिपत्तृप्रत्यक्षस्य दृश्यप्रतिषेध्यस्य वर्त्तमानस्य चान्योपलब्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलव्धिलक्षणा प्रत्यक्षनिवृत्तिस्वभावानुपलब्धिरभावव्यवहारे हतुः ।

तेन ---

दृष्टान्तासिद्धिचोदनापि प्रच्याविता ।

ऽगौरयम्, सास्नादिसमुदायात्मकत्वादि ऽत्यादेर्दृष्टान्तत्वात् ।

परिणामेन योग्यताभाजो योगिप्रभावाद्वा स्तम्भितज्ञानशक्तेर्घटस्य घटते कथं भूतले प्रतिषेधः ? सान्धकारे, सालोके वा ?

न ।

तदानीमदृश्यत्वात् । योगिनापि इन्द्रियस्य विषयस्य वा ज्ञानजनन शक्तिस्तम्भसम्भवात् ।

सा चानुपलब्धिः व्यासेन षोडशप्रकारा ।

तस्याश्च सङ्ग्रहश्लोकः ।--

"स्वभावकारणव्यापिकार्याणां स्युः पृथक् पृथक् ।

अदृग्विरोधि दृग्वैरि कार्यादृग्वैरिव्याप्तदृक् ॥"

[525]तत्र--

__________नोतेस्__________

[525] स्ह्: 93.

(1)स्वभावा[526]नुप[527]लब्धिर्यथा--

__________नोतेस्__________

[526] ऽवनुऽमूलपाठः । [527] अत्रऽवऽइति लिखित्वा छिन्नमिव मूलपाठे ।

नात्र धूमः, उपलब्धिलक्षणप्राप्तानुपलब्धेः ।

(2)कारणानुपलब्धिर्यथा --

नात्र धूमो ब[प्7ब्/8] हन्यभावात् ।

(3)व्यापकानुपलब्धिर्यथा --

नात्र[528]शिंशपा, वृक्षाभावात् ।

__________नोतेस्__________

[528] ऽभ्राभ्रऽइति मूलपाठे ।

(4)कार्यानुपलब्धिर्यथा --

नेहाप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभात्रात् ।

(5) स्वभावविरुद्धोपलब्धिर्यथा --

नात्र शीतस्पर्शो बह्नेः ।

(6)कारणविरुद्धोपलब्धिर्यथा --

नास्य रोमहर्षादिविशेषा सन्ति, सन्निहितदहनविशेषत्वात् ।

(7)व्यापकविरुद्धोपलब्धिर्यथा --

नात्र तुषारस्पर्शो बह्नेः ।

(8)कार्यविरुद्धोपलब्धिर्यथा --

नेहाप्रतिबद्धसामर्थ्[529]यानि शीतकारणानि सन्ति, बह्नेः ।

__________नोतेस्__________

[529] अत्रऽसामान्यार्थानिऽइति लिखित्वान्याछिन्नमिव मूलपाठे ।

(9)स्वभावविरुद्धकार्योपलब्धिर्यथा --

नात्र शीतस्पर्शो धूमात् ।

(10) कारणविरुद्धकार्योपलब्धिर्यथा --

न रोमहर्षादिविशेषयुक्तपुरुषवानयं प्रदेशो धूमात् ।

[530](11)व्यापकविरुद्धकार्योपलब्धिर्यथा --

__________नोतेस्__________

[530] स्ह्: 94.

नात्र तुषारस्पर्शो धूमात् ।

(12) कार्यविरुद्धकार्योपलब्धिर्यथा --

नेहाप्रतिबद्धसामर्थ्यानि शीतकरणानि सन्ति, धूमात् ।

(13)स्वभावविरुद्धव्याप्तोपलव्धिर्यथा --

न ध्रुवभावी, भूतस्यापि भावस्य विना हेत्वन्तरापेक्षणात् ।

(14)कारणविरुद्धब्याप्तोपलब्धिर्यथा --

नात्र धूमः, तुषारस्पर्शात् ।

(15) ब्यापकविरुद्धव्याप्तोपलब्धिर्यथा --

नायं नित्यः, कदाचित् कार्यकारित्बात् । नित्यं हि---निरतिशयत्वेन व्याप्तम् ।

तद् विरुद्धं सा [प्6अ 1] ऽतिशयत्बम् । तेन व्याप्तं कादाचित्कार्यकारित्वम् ।

(16)कार्यविरुद्धव्याप्तोपलब्धिर्यथा --

नेहाप्रतिबद्धसामर्ध्यानि बह्निकारणानि सन्ति, तुषारस्पर्शात् ।

तदेवम्---

एषा स्वभावानुपलब्धिः प्रयोगभेदाद् व्यासतः षोडशप्रकारा ।

कार्यकारणब्याप्यव्यापकभावसिद्धिः खलु ---

दृश्यतामन्तरेण न सम्भवति । ततो विरुद्धया उपलव्ध्या कारणाद्यनुपलव्ध्या च येषां प्रतिषेध उक्तस्तेषां दृश्यानामेव स्मृतानां प्रतिषेधसिद्धिः ।

सर्ववित्प्रेत्यभावादयस्तु---

न पूर्वं, न तदा नीं बा दृश्यास्ततो न विषेद्धव्याः ।

भाष्यं पुनः---

[531]"अभावेन हि शीतस्य वह्नेः प्रागुपलब्धिभाक् ।

__________नोतेस्__________

[531] स्ह्: 95.

सम्बन्धस्तेन तत्सिद्धया तदभावः प्रसिध्यति[532]। ।"[533]

__________नोतेस्__________

[532] अभावे न हि शीतस्य... .... लब्धिभाक् । .... प्रसिद्ध्यति ॥ -प्र- वा- भा- 231 पृ-, 3/88/272 ॥

[533] सम्बन्धस्तेन..... .... प्रसिद्ध्यति । -प्र- वा- भा- 231 पृ-, 3/88/272 ।

स चाभावो ऽनुपलब्धिरेव । तेनानुपलब्धिरेवानुमानसिद्धा साधयत्भावव्यवहारम्, यथा प्रत्यक्षसिद्धा । यतो - वक्ष्यति ।

"तस्मादनुपलम्भो ऽयं स्वयं प्रत्यक्षतो गतः[534]।

__________नोतेस्__________

[534] तस्मादनुपलम्भो........ गतः ॥ -प्र- वा- 4/274 का-; प्र- बा- भा 637 पृ-, 233 पृष्टे च ।

इति ।

तथानुमानतो गतऽ इत्यपि वेदितव्यम् ।

यदा तु --

रोमहर्षाभादः साध्यते । तदाग्निना शीतानुपलब्धिः । तया कारणानुपलब्ध्या रोमहर्षाभावः साध्यते । तत्र ---अग्निरूपेण स्पर्शस्योष्णात्मनः एकसामग्र्यधीनतयानुमानम् । स च शीताभावस्वभावः । तस्यानुमानेनोपल प्[6ब्/1] (+ब्धि)रेव शीतानुपलब्धिः । तेन--कार्यहेतुकारणानुपलव्ध्योरेकत्र प्रवृत्तत्वान् न विरोधी नाम पदार्थो लिङ्गान्तरम् ।

तस्यानुपलब्धिरेबानुमानसिद्धाभावं गमयति । तेनानुमितानुमानमेऽतदिति ।

मित्रमतं पुनः ---

ऽअनुपल(+ब्ध)ता स्वभावस्यापरा । स्वभाबानुपलब्धिरेवापरस्यापरा भवतिऽ कारणानुपलब्धिर्व्यापकानुपलब्धिश्चेऽत्यादि प्रकारा ।

तस्माद् ---विधिप्रतिषेधप्रकारप्रयोगे ऽप्यनुपलव्धिरेव गमिका ।

आह च । ---

"अन्यथैकस्य धर्मस्य सद्भावोक्त्त्यापरस्य तत् ।

नास्तित्व केन गम्येत ? विरोधाच्चेदसावपि[535]। ।[536]

__________नोतेस्__________

[535] अन्यथैकस्य धर्मस्य.... ....तत् । । ....सावपि । । -(स्य भावस्य पाठयुक्) प्र- वा- भा- 230 पृ-; 3/87 का । [536] नास्तित्वं केन.... .... वपि ॥ -प्र- वा- भा 230 पृ-, 3/87 का ।

सिद्धकेनासहस्धानादिति चेत् ? तत् कुतो गतम् ? ।

दृश्यस्य दर्शनाभावादिति चेत् ? साप्रमाणता[537] । ।"[538]

__________नोतेस्__________

[537] दृश्यस्य दर्शना... .... प्रमाणता । -प्र- वा- भा- 230 पृ-, 3/88 का- । [538] सिद्धः केनासह.... ....मतम् । ....ऽप्रमाणता ॥ -प्र- वा- भा- 230 पृ-, 3/88 का- ।

[539]प्रतियेध ऽपि द्विविधः --- तादात्म्यस्याधेयस्य च ।

__________नोतेस्__________

[539] स्ह्: 96.

तत्र --ऽतादात्म्ये निषेध्ये विशेषणमप्युपलब्धिलक्षणयाप्तमिऽति न वाच्यम् । सर्वस्यैव दृश्यत्वात् ।

तदेव च निषिध्यते तादात्म्येन, यद् यत्र नियताकारम् ।

यथा ---

"स्तम्भो ऽयमम्भोधरो न भवति । पिशाचो वा शशविषाणं वा न भवतीति ।

यत् पुनरनियताकारम् --- तन्न सिध्यते (ति?) । यथा---

क्षणिकत्वनीले---

"वस्तुसङ्करसिद्धिश्च प्रमाणाभावनाश्रिता ।"

इत्यप्यसत् । यतः क्वचित् प्रमाणं वृत्तं तत् प[प्6अ/2]रिच्छिनत्ति, ततो ऽन्यद् व्यवच्छिनत्ति ।

"तृतीयप्रकाराभावं च सूचयतीऽत्येकप्रमाणं व्यापार एषः ।

विरुद्धोपलब्धौ च द्विविधो विरोधः । सहानवस्थानलक्षणः ।

परस्परपरिहारस्थितलक्षणता च । लक्षणमन्योर्विकलकारणस्य भवतो ऽन्यभावे ऽभावाद् विरोधगतिः, परस्परपरित्यागस्थितस्वरूपत्वं च ।

आद्यस्य --- प्रत्यक्षानुपलम्भैर्ग्रहणम् । अत एवायम् --- दृश्ययोरेव वस्तुनोरेब विरोधः ।

द्वितीयस्तु --- वस्त्ववस्तुनोर्दुश्यादृश्ययोरपि । द्वितीयस्य ग्रहणोपायो नियतोपलम्भः ।

अत एवोच्यते । ---

ऽयस्मिन् परिच्छिद्यमाने यन्नियमेन व्यवच्छिद्यते, तत्ततो ऽन्यदिऽति ।

[540]तदुक्तम् । ---

__________नोतेस्__________

[540] स्ह्: 97.

"अन्योन्यभेदसिद्धेर्वा ध्रुबभावविनाशवत् ।

प्रमाणान्तरबाधाद्वा कदाचित्कानपेक्षवत्[541]। ।"[542]

__________नोतेस्__________

[541] अन्यो ऽन्यभेदसिद्धे.... ....वत् । .... क्षवत् । -प्र- वा- भा- 640, 4/279 का- । [542] प्रमाणान्तर.... .... पेक्षवत् ॥ -(सापेक्षध्रुवभाववत् इति पाठयुक्) प्र- वा- भा- 640 पृ-, 4/279 का- ।

प्रत्यक्षमेव निषेधकमनुपलम्भ उच्यते । ते न ---

कार्यकारणभावसिद्धौ --- ऽप्रत्यक्षानुपलम्भाभ्यामिऽत्यत्र यद्यनुपलम्भो ऽनुमानम्, तदा --- तत्रापि व्यतिरेकग्रहो ऽपरेणानुमानेनेत्यनवस्थिति प्रत्युक्तम् ।

कार्यहेतौ च । ---

"क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः ।

प्रसिद्धकारणाभावे येषां भावस्ततो ऽन्यतः[543]। ।[544]

__________नोतेस्__________

[543] क्षणिकत्वे कथं.... .... वृत्तयः । ऽन्यतः ॥ हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ- । [544] प्रसिद्धकारणाभावे.... ....ऽन्यतः ॥ --हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ- ।

ततश्चानग्नितो ऽधूमाद् यथा धूम[प्6ब्/2] स्य सम्भवः ।

शक्रमूर्ध्नस्तथा तस्य केन वार्येत सम्भवः[545]? ॥

__________नोतेस्__________

[545] ततश्चानग्नितो .... सम्भवा । .... सम्भवः ॥ -(अतश्च- पाठयुक्) हे- वि- टी- अर्चटेनोद्धृतम् 155 पृ-; वा (द) न्याय) टी (का-) शान्तरक्षितः 15 पृ-

चित्रं चित्रकराज्जातं यतस्त्रिष्वपि दृश्यते ।

अयस्काराच्च तीक्षणत्वं वदरीबीजतो ऽपि च ॥

शालूकादपि शालूकं कथं भवति गोमयात् ? ।

जायते च शरः शृङ्गात् जायते च शरादपि । ।

वीजकन्दोद्भवा रम्भाप्यम्भो ऽस्ति मणिसम्भवम् ।

बृश्चित्कान्निश्चितं जातो बृश्चिको गो मयादपि । ।

--- एवमादिषु व्यभिचारदृष्टेरिष्टं कथं कार्यस्य हेतुत्वम् ?

उच्यते ।

अग्नीन्धनसामग्रीजन्यो यादृषो धूमो न तादृश एव धूमाद् भवति ।

कारणभेदेन कुतश्चित् साम्यात् समानरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यनीन्धनादिसामग्रीक्षणान्तरजन्य एवापरः क्षणः ।

[546]त[547]था ---

__________नोतेस्__________

[546] स्ह्: 98. [547] अत्रऽदऽलिखित्वा छिन्नमिव मूलपाठे ।

तदन्य आद्य एषापराग्नीन्धनादिसामग्रीजन्यऽ इति तादृशस्य धूमस्य धूमात् सम्भवाभावात् । न क्वचिदनाश्वासः कार्यः ।

एवम्--- अन्यादृशमेव चित्रं चित्रकरकरपल्लवोल्लसितमन्यादृशमेवमतन्त्रियन्त्रविस्फुरितम् ।

तूणीतोमरादिषु च तीक्ष्णत्वमयस्कारादन्या दृशम् ।

बदरीबीजनिर्जातमन्यादृशमेव कण्टककोटितया प्रत्यकलितम् ।

एवम् ---

शालूकादीनामपि भेदो वाच्यः । प्रत्येति च वनकन्दोद्भवां कदलीमन्यादृशी [प्6अ/3] म् बीजोद्भवायाः कदल्याः ।

उक्तं च ---

"तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ।

तथाकारणमेतत् स्यादिति केचित् प्रचक्षते[548]। ।[549]

__________नोतेस्__________

[548] तथा कारण.... ....प्रचक्षते ॥ -प्र- वा- भा- 133 पृ- 2/181 का । [549] तैक्ष्ण्यादीना.... .... कण्टकादिषु । .... प्रचक्षते ॥ -प्र- वा- भा- 133 पृ- / 2/181 का- ।

सत्येव यस्मिन् यज्जन्म विकारे वापि (+या ?) क्रिया ।

तत्तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ॥"

अन्वयव्यतिरेकानुविधायिनां नापरः कार्यकारणाभावः ।

न च स्पर्शेनानेकान्तः ।

"स्पर्शस्य रूपहेतुत्वाद् दर्शने ऽस्ति निमित्तता[550]।

__________नोतेस्__________

[550] स्पर्शस्वरूपहेतुत्वाद् निमित्तता ॥ -प्र- वा- भा- 134 पृ-, 2/183 का- ।

यदि नामरूपान्वयव्यतिरेकानुविधायि रूपदर्शनं स्पर्शस्यान्वयव्यतिरेकावनुविधत्ते । तथापि स्पर्शः परम्परया हेतुः ।

एकसामग्र्यधीनत्वात् ।

[551]भदृस्यात्र चोद्यम् ---

__________नोतेस्__________

[551] स्ह्: 99.

"यः शुभाशुभकर्मणः कर्त्ता न स फलस्य भोक्ता --- अतः कृतनाशाकृताभ्यागमदोषः ।

"नैरात्म्यवादपक्षे च पूर्वमेवाववुध्यते ।

तद् विनाशात् फलं न स्यान्यसान्या (?) ऽपि वा भवेत्[552]। ।

__________नोतेस्__________

[552] नैरात्म्ययवाद.... .... .... बुध्यते । ....भवेत् । --त- सं- 167 पृ-, 481 का- ।

इति नैव प्रवर्त्तेत प्रेक्षावान् फललिप्स या ।

शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितः[553]। ।[554]

__________नोतेस्__________

[553] इति नैव प्रवर्त्तेत.... .... लिप्सया । .... स्थितः । । त- स- 167 पृ-, 481 का- । [554] शुभाशुभक्रिया.... .... फलं स्थितः ॥ --त- सं- 481; पृ- 167 (स्थितं पाठयुक्) ।

किञ्च ---

क्षणान्नानागतान् नातीतान् न वर्त्तमानतावन्तं कालमनवस्थितेः कार्यजन्म ।

"तस्मात् प्राक् कर्मनिष्पत्तेर्व्यापारो यस्य दृश्यते ।

तदेव कारणं तस्य न त्वानन्तर्यमात्रकम्[555]। ।"[556]

__________नोतेस्__________

[555] तदेव कारणं मात्रकम् ॥ त- स- 169 पृ-, 487 का- । [556] तस्मात् प्राक् कार्य.... ... दृश्यते । ... मात्रकम् । । त- सं- 169 पृ-, 487 का- ।

किञ्च ---

प्रत्यक्षानुपलम्भेन ग्रहणमपि सम्भाव्यते । एकस्यात्मनो ऽभावेन कः सन्दध्यात् क्र[प्6ब्/3]मवद्गतिम् ।

ऽयस्यादृष्टाविदं दृष्टन्नास्य दृष्टौ --- [तु लक्ष्यते] ---ऽ

"सादृश्यात् प्रत्यभिज्ञानं भिन्ने देशादिके भवेत् ।

ज्ञातुरेकस्य सद्भावाद् द्विभेदे तु कथं भवेत्[557]? ॥"

__________नोतेस्__________

[557] ज्ञातुरेकस्य.... .... कथं भवेत् ॥ त- सं- पं- 170 पृ-, 494 का- ।

ऽद्विभेदऽ इति ज्ञातुर्ज्ञेयस्य च भेदे ।

अत्रोच्यते ।--- ऽअविनष्टादेव क्षणात् कार्यमिऽति पक्षः । न च यौग[558]पद्यावद्यमनयोः । __________नोतेस्__________

[558] ऽयौग्यऽमूलपाठः ।

कार्यक्षणे नष्टत्वात् पूर्वक्षणस्य कारणस्य ।

[559]न च --- नष्टादेव तस्मादुत्पत्तिः । कार्यस्य द्वितीयक्षणभावित्वात् । न च कार्यकाले कारणानुवृत्त्या ? किञ्चिन्निष्पन्नत्वात् कार्यस्य ।

__________नोतेस्__________

[559] स्ह्: 100.

तस्मात्--- नियतं प्राग्भावित्वं कार्यापेक्षया कारणत्वम् --- न व्यापारकारित्वम्, अनवस्थाप्रसङ्गात् । व्यापारे ऽपि व्यापारान्तरेण प्रवर्त्तनात् ।

"दीर्घा व्यापारमालेयमेता[560]वत् कस्य जीवितम् ? ॥"

__________नोतेस्__________

[560] मेवावत् मूलपाठः ।

तस्मात् ---

ऽगर्दभानन्तरं घूमऽ इति नियमत्वेन निरस्यते । भावित्वेन शशविषाणादि ।

तच्च नियतत्वं कार्यधूमे वह्नेर्भाव एव । नियतपश्चाद्भावित्वं कार्यस्य कार्यत्वम् । अत्रापि नियतत्वं बह्नावेव सति भावकार्यस्य धूमस्य ।

अत्रापि बह्नयन्तरमुपलभ्यमानस्य गर्दभादेर्नियतपदेनापवादः । कार्यो भावित्वेनाभवतो घटादेः । स च नियमो भावो हेतुभावा भावाभ्यां कार्यभावाभावौ विशिष्टौ ।

कार्यगतभावाभावाभ्यां च कारणगत[प्6अ/4] भावाभावौ विशिष्टौ ऽसर्वत्र देशे काले च सर्वदा वह्निनान्तरीयक एव धूमऽ इत्यवधारणात् ।

तत् किं सर्वज्ञो भूत्वा विज्ञो ऽविजानीयान्नियमम् ?

न च सर्वज्ञो ऽसौ न च न गृह्लाति कार्यकारणयोर् नियमम् ? यदि हि धूमो नाग्निजन्यस्तदा सकृदपि ततो न जायेत ? किमेतत् प्रमाणान्तरम् ?

[561]न ।

__________नोतेस्__________

[561] स्ह्: 101.

तस्यैव प्रत्यक्षानुपलम्भस्यावान्तरव्यापारपरामर्शः ।

यथा ---

यदि नीलो दृश्यमानो ऽयं देशान्तरे कालान्तरे वा न नील इहापि वर्त्तमानो न नीलो दृश्येत । दृश्यते च । --- तथा ---

ऽधूमो ऽयं विवक्षितदेशकालयोः[562]पावकानन्तरं नियतभाबीति भावितो[563]देशान्तरे कालान्तरे च नान्यथा शङ्कनीयः ।

__________नोतेस्__________

[562] अत्रऽपऽलिखित्वा छिन्नम् मूलपाठे । [563] अत्रऽपिऽलिखित्वा छिन्नम् मूलपाठे ।

"यथा नीलस्य दृष्टस्य नाशङ्क्यानीलरूपता ।

तथा दृष्टस्य जन्यस्य नाशङ्क्याजन्यरूपता ॥

अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः ।

अथानग्नि स्वभावो ऽसौ धूमस्तत्र कथं भवेत् ? ॥

धूमहेतुस्वभावो हि बह्निस्तच्छक्तिभेदवान् ।

अधूमहेतोर्धूमस्य भावे सः[564]स्यादहेतुकः ॥

__________नोतेस्__________

[564] अत्र स इति विसर्गरहितः पाठो मूलपाठे ।

नित्यं सत्त्वमसत्त्वं वा हेतो रन्यानपेक्षणात् ।

अपेक्षातो हि भावानां कादाचित्के त्वसभ्भवः[565]। ।"

__________नोतेस्__________

[565] नित्यं सत्त्वमसत्त्बं.... .... क्षणाम् । .... त्वसम्भवः ॥ -(पूर्वार्धमात्रं) प्र- वा- भा- 133 पृ-, 180; 643 पृ- अपि ।

ऽस धूमो यो बह्निजनितः, ऽस बह्नि[566]र्यो धूमजनकऽ इति परस्परस्वभावनियम[प्6ब्/4] उक्तः । स च निष्फलः ।

__________नोतेस्__________

[566] अत्रऽबह्नियामूलपाठः ।

[567]यतः । ---

__________नोतेस्__________

[567] स्ह्: 102.

प्रज्वलत्प्रभाताडम्बरचुम्बिभास्वरत्वादिको ऽप्यपरः पावकस्य स्वभावो ऽस्ति, कण्ठक्वणाम्बु(?)काम्बुप्रक्षरणविकारादिवारित्वं धूमस्य ।

सत्यम् ।

साकारा खलु शक्तिः । कार्यतापि कार्यमेव । भेदान्तरप्रतिक्षेपाभ्यां धर्माधर्मितया व्यपभेदे (?) ऽपि तेन पावकस्य शक्रमूर्ध्नश्च यदि शक्तिरेका धूमजननं प्रति, दुग्धवारिनोरेव क्लेदं प्रति स्वात् । तदा --- ऽदुग्धवारिणोरेव नैव शक्तियोगे ऽपि पावकशक्रमूर्ध्नोरेकरूपता स्यादिऽति निराकृतम् ---

तत्र---

शक्तेः साकारतामभिसन्धाय ---

"अग्निस्वभाव........ "

इत्यादि वार्तिकमुक्तम् ।

एकस्य तु प्रतिसन्धातुरभावे ऽपि भेदे ऽपि बह्न्यादिप्रमेयस्य ---

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.