Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
तर्करहस्य
- Thông tin
- GRETIL — Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
"वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् ।
भेदे ऽपि यत्र तज्ज्ञानं तंस्तथा प्रतिपद्यते[568]। ।[569]
__________नोतेस्__________
[568] भेदे ऽपि यत्र.... .... प्रतिपद्यते ॥ -प्र- वा- भा- 260 पृ, 3/161 का- । [569] बस्तुधर्मतयैवार्थाः.... ... कारणम् । .... प्रतिपद्यते । । -प्र- वा- भा- 260 पृ, 3/161 का- ।
ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने ।
इत्येतत् कार्यविश्लेषस्यान्वयो नैव वस्तुतः[570]। ।[571]
__________नोतेस्__________
[570] इत्येतत् कार्य... .... .... वस्तुनः ॥ -प्र- वा- भा- 260 पृ, 3/162 का- । [571] ज्ञानान्यपि तधा.... ...शने । .... वस्तुनः ॥ -प्र- वा- का- 260 पृ-, 3/162 का- ।
वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः[572]। ।"
__________नोतेस्__________
[572] वस्तूनां विद्यते.... .... श्रुति वा- भा- 361 पृ-, 3/163 का- ।
प्रत्येति भेदप्रमाणम् । सा यतः कुतश्चिदेकत्वशून्याच्छक्तादुत्पद्यतां एवम्---
[573]ग्राहकप्रत्यभिज्ञापि । यादृश्येव प्रत्यभिज्ञा घटे छिन्नोद्भिन्नक[574]दलीकाण्डे ऽपि तादृगेव । ऽलक्षणायुक्तेर् वाधासम्भवे तल्लक्षणमेव दू[प्6अ/5] षितं स्यादिऽति सर्वत्रानाश्वासः ।
__________नोतेस्__________
[573] स्ह्: 103. [574] ऽकालिखित्वा आकारमात्रा छिन्ना मूलपाठे ।
उट्टोक (दुर्व्वेक ?) स्त्वाह ---
ऽन भिन्नलक्षणत्वाद् या प्रत्यभिज्ञा विरुद्धधर्माध्यासशून्यविषया सा प्रमाणम् । इतरा त्वप्रमाणामिऽति । तत्र विरुद्धधर्माध्या सशून्यविषयत्वं प्रत्यभिज्ञायाः केन सिद्धम् ? किम् प्रमाणान्तरेण ? प्रत्यभिज्ञयैव वा ? अन्येन सिद्धौ किं प्रत्यभिज्ञया ? तया सिद्धावन्यो ऽन्याश्रयणम् ।
तस्मात् ---
एकावसायसमनन्तरजातमन्यविज्ञानमर्थपरामर्शमुपदधाति ।
एवम्---
तदेक[575]विरहानुभवोद्भवान्यव्यावृत्तिधीः प्रथयति व्यतिरेकबुद्धिम् ।
__________नोतेस्__________
[575] तदेवक इति मूलपाठः ।
ऽअनेनैव कृतं कर्म को ऽन्यः प्रत्यनुभविष्यति[576]ऽइत्यपि वचनम्, प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोकं लोकं प्रति कीत्तिंतं मुनिभिः ।
__________नोतेस्__________
[576] अनेनैव कृतं कर्म .... ....भबिष्यति ॥ --त- स- पं- 166 पृ- ।
महितत्वान्यद्व्यासज्ज्यादिविचारमवधूय विशिष्टहेतुफलाभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसीय स एवाहं करोमी ऽति व्यवहरति युक्तमेव प्रवर्त्तते । तदभिमानानुरोधेनेदम् उदीरितम् ।
तत्त्वदृष्ट्या तु---
ऽदर्शितो राजदृष्टान्तस्तदेतन्नासमञ्जसम् ।
यथा प्रजाहितो राजा स्वसन्तानाय यत्नवान् ॥
[577]भेदेऽपि वर्तत्ते तद्वत् सत्त्वा र्थं तत्त्वदृष्टिमान् ॥ऽ
__________नोतेस्__________
[577] स्ह्: 104.
यत् पुनरुच्यते --
ऽनित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात्[578]।ऽ
__________नोतेस्__________
[578] नित्यं सत्त्वम्.... ....क्षणात् ॥ -प्र- वा- भा- 293 पृ-, प्र- वा- 3/34 ॥
इत्यत्र न वौद्धस्य नित्यं सत्त्वम् [प्6ब्/5] सिद्धम् । तत्रैवं वेदितव्यम् ।
आकादाचित्कत्वं सत्त्वं नित्यमुक्तम्, न तु सदकारणवन्नित्यम् ।
"यथा यथा हि हेतूनामभावो नित्यता तथा ।
तैमिरज्ञानकेशादेर्विषयेण विनोदयात्[579]। ।[580]
__________नोतेस्__________
[579] तैमिरज्ञान.... ....त्रिनोदयात् ॥ -(तिमिर पाठयुक्) -प्र- वा- भा- 133 पृ-, 2180/729 । [580] यथा यथा हि.... .... तथा । .... विनोदयात् ॥ -प्र- वा- भा- 133 पृ-, 2/180/729 ॥
यतो यतो ऽक्षिविक्षेपः केशदृष्टिस्ततस्ततः । एवं कथमनेकस्माद् क्लेदवद् दुग्धवारिणः ॥
द्रवशक्तेर्यतः क्लेदः सा त्वेकैव द्वयोरपि[581]।[582]
__________नोतेस्__________
[581] एवं कथमनेके.... .... ....बारिणः । .... द्वयोरपि ॥ -प्र- वा- भा- 627 पृ-, 4/253 । [582] द्रवशक्ते.... .... द्वयोरपि । । -प्र- वा- भा- 627 पृ-, 4/253 का- ।
भिन्नाभिन्नः किमस्यात्मा ? न भिन्नो द्रवता कथम् ? ॥
अभिन्नेहयुच्यते बुद्धेस्तद्रूपाया अभेदतः[583]।"[584]
__________नोतेस्__________
[583] अभिन्नेत्युच्यते.... .... अभेदतः । -प्र- बा- भा- 627 पृ-, 4/254 का- । [584] भिन्नाभिन्नः.... .... कथम् । .... भेदतः । । -प्र- वा- भा- 627 पृ-, 4/254 का- ॥
---इत्यपि धर्मो व्याप्रियते क्वचिद् । क्वचिद् धर्म्येव ।
एवम्---
कार्ये ऽपि क्वचिद् धर्म उत्पद्यते । यथा --- कुड्यादेरक्तता ।
क्वचिद् धर्म्येव । यथा--- घटादिः ।
ननु---
स च किं सदुत्पद्यते ? अथासद् ?
सतः किमुत्पादेन ? असतो ऽपि शशविषाणादेः किमुत्पादेन ?
[585]"शशो ऽप्यस्ति विषाणमप्यस्तीति वाक्यमसम्बद्धम् ।
__________नोतेस्__________
[585] स्ह्: 105.
ऽशशसम्बन्धि विषाणं नास्ती ऽति व्रुवाणं प्रति---
ऽअशक्तं सर्वमिति चेद् ? वीजादेरङ्कुरादिषु ।
दृष्टा शक्तिर्मता सा चेत् सं[586]वृत्यास्तु यथा तथा[587]। ।[588]
__________नोतेस्__________
[586] सम्वृ- मूलपाठः । [587] अशक्तं सर्वंमिति.... .... .... दिषु । ....तथा । -प्र- वा- भा- 182 पृ-, 3/4 का- ॥
[588] दृष्टा शक्ति.... .... तथा । । -प्र- वा- भा- 182 पृ-, 3/4 का- ।
सास्ति सर्वत्र चेद् बुद्धेर् नान्वयव्यतिरेकयोः ।
सामान्यलक्षणे ऽऽदृष्टेश्चक्षूरूपादिबुद्धिवत्[589]।ऽ[590]
__________नोतेस्__________
[589] सास्ति सर्वत्र.... .... रेकयोः । .... बुद्धिवत् ॥ -प्र- वा- भा- 186 पृ-, 3/5 का- । [590] सामान्यलक्षणे ऽदृष्टे.... ....बुद्धिवत् ॥ -प्र- वा- भा- 186 पृ-, 3/5 का- । ऽयथा तथेऽत्यधिवचनम् नानादरे शराच्छरोत्पादे । तादृशामादिकारणं तादृशं सर्वथा दृष्टं कारणं न व्यभिचरति कार्यात्मा [प्6अ]6] न तु यज्जातीयं कार्यं तज्जातीयमेव कारणमपि । न च ।
आकारभेद एव कारणानां तत्त्वातत्त्वनिबन्धनम्, अपि तु स्वभावान्तरमपि । कृत्रिमाकृत्रिमाणामिव मणिमुक्ताप्रबालादीनाम् ।
तथा हि ।--
क्वचित् स्वस्यैव भेदे, नीलेतरकुसुमयोरिव सूर्ययोः ।
क्वचित् फले, वन्येतरयोरिव कर्कंटयोः ।
क्वचिद् रसे, वन्येतरयोरिव भद्रत्रपुषयोः ।
क्वचिद् स्वभावे, स्पर्शोपयोगश्रयिण्योरिव हरीतक्योः ।
तस्मात्---सुविवेचितं कार्यं न कारणं व्यभिचरति । अनुवर्त्तकः कार्यस्य स्वभावो ऽनुवर्त्तनीयो यः स कारणस्वभावः ।
"अन्वयव्यतिरेकाद् यो यस्य दृष्टो ऽनुवत्तंकः ।
स्वभावस्तस्य तद्धेतोरतो भिन्नार्थसम्भवः ॥"
[591]कथं तर्हि ?
__________नोतेस्__________
[591] स्ह्: 106.
नीलवहलो ऽर्थंसदसदम्बुददर्शनादिष्टं वृप्टेरनुमानम् ?
न दृ(वृ ?)ष्टेरपि तु योग्यतायाः ।
"हेतुना यः समग्रेण कार्योत्पादो ऽनुमीयते ।
अर्था[592]न्तरानपेक्षत्वात् स स्वभावो ऽर्थवर्णितः ॥
__________नोतेस्__________
[592] अर्थन्त- मूलपाठः ।
सामग्रीफलशक्तीनां परिणाम ऽनुवन्धिनि ।
अनैकान्तिकता कार्ये प्रतिवन्धादिसम्भवात्[593]। ।"[594]
__________नोतेस्__________
[593] अनैकान्तिकता.... ....सम्भवात् ॥ - त- स- पं- 3 पृ- । [594] सामग्रीफलशक्तीनां.... .... वन्धिनि । .....सम्भबात् ॥ - त- सं- पं- 3 पृ- ।
कार्यमुत्पद्यते यस्मात् स कार्योत्पादो योग्यतायाः स्वभावः । यावन्तो भावा[595]मिलितास्तावद्भ्यो ऽन्यानपेक्षणात् कार्यो [प्6ब्/6] त्पादनयोग्यत्वस्य साध्यस्य सामग्रीसाधनधर्मसत्तामात्रभाबित्बेन समग्रस्य हेतोः साधनतया सम्मतस्य स्वभावहेतुत्वमुक्तम् ।
__________नोतेस्__________
[595] वो इति लिखित्वा ओकारमात्रा छिन्नेव मूलपाठे ।
अत्र च प्रक्रिया ।--
उपसर्पणप्रत्ययात् समग्राः क्षितिवीजादयः प्रथमक्षणम् । तेभ्यो द्वितीये क्षणे अङ्कुरजननयोग्याः क्षित्यादयः । तत्राद्यातिशय व्यपदेशः ।
तदूर्ध्वम् ---भारतस्यानुबन्धिनो धरणि-धामादयः कार्योत्पादात् पूर्वं सहकारिव्यपदेशभाजः परस्परोपकारित्वेन एककार्यकारित्वेन च ।
परस्परोपकारित्वं सहकारित्वे शव्दार्थः कथम्?
इति चेत् ?
उच्यते ।
सहैव कुर्वन्ति । परस्परापेक्षां कुर्वन्ति । अपेक्षता च कार्यता ।
कार्यतातिशयाधानमतो गम्यते । सहैव कुर्वन्तः । परस्परमुपकुर्वन्तः ।
[596]परस्परमुपकुर्वन्तः कुर्वन्ति कार्यम् । किमनया कष्टसृष्ट्या ? कार्यमेव किं नानुमीयते ?
__________नोतेस्__________
[596] स्ह्: 107.
न वयं कार्यानुमानायाभ्यसूयामहे ।
न सहामहे पुनः, कारनैः कार्यस्य व्यभिचारात् ।
आद्यातिशयक्रमेण सामग्रीफलभूताः याः शक्तयः, तासां परिणामस्तावत् । तस्य मतान्तरे च प्रतिबन्धवैकल्ययोः सम्भवेन कार्ये कारणानां व्यभिचारः ।
"हेतृना तु समग्रेण यत् कार्यमनुमीयते ।
शेषवत्तदसा प्6अ/7] मर्थ्याद् देहाद् रागानुमानवत् ॥"
देहेन्द्रियबुद्धिभ्यो रागाद्यनुमानं व्यभिचारि । योग्यतायामपि आत्मीयाभिनिवेशपूर्वका रागादयो न देहेन्द्रियबुद्धिमात्रा भवितुमर्हति ।
आद्यातिशयलक्षणयोग्यता प्रथमोपनिपतितात् समग्राद् भवति । असमग्रात् कारणानुपलव्ध्या नास्ति ।
तस्माद्---
देहादीनां हेतुत्वे ऽपि न केवलानां सामर्थ्यमस्तीति विपक्षवृत्तेरदृष्टावपि शेषवदनुमानात् संशयः ।
"यस्यादर्शनमात्रेण व्यतिरेकः[597]प्रदर्श्यते ।
__________नोतेस्__________
[597] ऽकप्रऽमूलपाठः ।
तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम्[598]। ।"[599]
__________नोतेस्__________
[598] तस्य संशय... ....तदुदाहृतम् ॥ -प्र- वा- 3/13 । [599] यस्यादर्शनमात्रेण.... .... प्रदर्श्यते । .... तदुदाहृतम् ॥ -प्र- वा- 3/13 ॥
नान्तरीयकमेव कार्यं कारणमनुमापयेत् । तत् प्रतिवन्धान्नान्यद् विपक्षे ऽदर्शने ऽपि ।
"विपक्षे दृष्टमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानं प्र[600]माणाभं वचनाद् रागितादिवत्[601]। ।"[602]
__________नोतेस्__________
[600] प्रणामा-इति लिखित्वाणाछिन्नमिव । [601] विपक्षे ऽदृष्टिमात्रेण.... .... दर्शनात् । .... दिबत् ॥ -प्र- वा- 3/11 का- । [602] हेतुज्ञानप्रमाणाभं.... ....वत् ॥ -प्र- वा- 3/77 ।
[603]अत्र---
__________नोतेस्__________
[603] स्ह्: 108.
वचनं परम्परया वक्तुकामताकार्यम् । साक्षादोप्ठपुटस्पन्दादिकार्यम् । कदाचिद् द्वेषस्यापि स्निग्धं रूर्क्ष च वचनं कार्यम् ।
अतः, कार्यमात्राद् वचनमात्राद् रागस्य विशिष्टस्य कारणस्यानुमानं प्रमाणाभासम् रागमन्तरेणापि वचनस्य सम्भवात् ।
तथा---
पक्वान्येतानि फलानि मधुररसानि वा समानरूपत्वादेकशाखाप्रभावाद् वा उपयुक्तफलवत् ।
तथा ---
बहुलं पाकद[प्6ब्/7]र्शने ऽपि न स्थाल्यन्तर्गमनमात्रेण पाकः सिध्यति---
"न चादर्शनमात्रेण विपक्षे ऽव्यभिचारिता ।
सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत्[604]। ।"
__________नोतेस्__________
[604] सम्भाव्यव्यभिचारित्वात्.... ....पाकवत् ॥ -प्र- वा- 3/12 ॥
असमग्रात् कारणात् कार्यज्ञानस्य व्यभिचारात् ।
तथा--- अर्यविशेषंसमीहाप्रेरितावागत इदमिति विदुषः मुनित्वानाबभासिनमर्थं सूचयर्ता(तो ?) बुद्धिरूपवाग्वि[जि ?]ज्ञास्यो जन्यजनकभावः सम्वन्धः । ततः शब्दात् प्रतीतिरविनाभावात् । तदाख्यानां समयः । ततः प्रत्यायकसम्बन्धसिद्धेः ।
तेन---
सङ्केतसम्बन्धापेक्षं दूषणमधिक्षिप्तम् ।
[605]"सङ्केतः प्रतिसम्वन्धात् प्रत्युच्चारणमेव वा ।
__________नोतेस्__________
[605] स्ह्: 109.
क्रियेत जगदादौ वा कर्त्रैवैकेन केनचित् ॥"
इत्यादि ।
तथा--- सर्व एव वस्तुसम्बन्धा जनकस्येव प्रयोगविशेषवशात् प्रविभागेन कार्यकारणभावाद् व्यवस्थाप्यन्ते । तेनाधाराधेयभावव्यञ्[606]जकतोपकार्योपकारकभावादयः कार्यकारणभाव एवान्तर्भाव्याः सम्बन्धाः । __________नोतेस्__________
[606] अत्रऽव्यजऽइति द्विधा लिखितं मूलपाठे ।
स्वभावहेतौ प्रतिज्ञार्थैकदेषेन परिहार्या उपोहवादेन ।
तथा हि ।
नीलादिशब्दात् नीलाद्याकारबुद्धिरहो ! प्रमाणादनुभूयते । सा च नीलार्थमन्तरेण । ततो न नीलस्वलक्षणं प्रत्येति । न सामान्याक्ष (श्र?) याविरुद्धं तत्सम्बद्धमृ [प्6अ/8] न । यो ह्यन्यो ऽन्यासम्भवीविशेपः तत्र कारणभेदाद् भेदः । यः पुनरविशेषेण सर्वस्य तस्य कारणमात्रादेव भावो, यथा-वस्तुत्वस्य ।
न खलु वस्तुत्वं जायमानस्य सत्ताहेतोरन्यदपेक्षते । यथा तदनपेक्षेतत् स्वहेतोरेव भवति । तथा ---भावानां नश्वरः स्वभावः ।
दृष्टनिवृत्तीनां वा भावानं यथा नाशो हेत्वन्तरानपेक्षो जन्मानन्तरं व्यवह्त्रियते । तद्विकलद्वितीयक्षणविलोकनात्मकानुपलम्भेन तथादृष्टनाशानामपि महीम्हीधरादीनां कृतकमपि किञ्चिदविनश्वरं स्यात् ?
इति चेत्?
न ।
रूपवेदनासंज्ञासंस्कारविज्ञानानां प्रकाराणां विनाशदर्शनेन तेषु च [607]देशकालान्तरितेषु यदि कृतकेषु शङ्का स्याद् दृष्टस्तेषां स्बभावेन विनाशो विरुध्येत ।
__________नोतेस्__________
[607] स्ह्: 110.
रूपादिस्कन्धसम्बन्धित्वेन कृतकत्वं विशेषनीयम् । तदन्येषां कृतकत्वेन नश्बरत्वं न साध्यते ।
यथा--
प्रयत्नान्तरीयकत्वेन विध्युद्वनकुसुमादीनाम् । यदि नाम कालो नाम महाभूतादिव्यतिरिक्तो नास्ति तथापि तैरेव व्यवहारो भविष्यति ।
चिरक्षिप्रादिप्रत्ययो ऽपि तत्कृतः ।
ऽग्रीष्मादयः पदार्था हि विषया एव के[608]चन ।
__________नोतेस्__________
[608] केन इति लिखित्वानऽछिन्नमिव मूलपाठे ।
क्षणादिको ऽपि निखिलः कालभेदस्तथाविधः ॥
सूर्यचन्द्रप्रभावादि कालभेदनिवन्धनम् ।
अ[प्6ब्/8]न्यथा तीर्थिकस्यापि नानात्वं तस्य नेप्यते ।"
तस्मादियमनपेक्षा बिनाशं प्रति । कृतकत्वस्य विपर्यये बाधकं प्रमाणम् ।
यतो रूपादीनां यदि देशकालावस्थासु कासु[609]चिदेव विनाशः स्यात्, तदा तत्सापेक्षो विनाशो निरपेक्षतया प्रतीतो न स्यात् । प्रतीतश्चानपेक्षः ।
__________नोतेस्__________
[609] कृक इति लिखित्वाकऽछिन्नमिव मूलपाठे ।
तस्मात् --- सर्वत्रैव कृतकत्त्वमात्रानुबन्धी व्याप्तिसिद्धिमाक्षिपति ---
"एको भावस्तत्वतो येन दृष्टः[610]
__________नोतेस्__________
[610] ष्ठ मूलपाठे ।
[611]सर्वे भावास्तत्वतस्तेन दृष्टाः ।[612]
__________नोतेस्__________
[611] स्ह्: 111. [612] ष्टः मूलपाठे ।
एको भावो[613]यत्स्वभावः प्रकृत्या ।
__________नोतेस्__________
[613] व मूलपाठे ।
सर्वे भावात्स्तत्स्वभावाः प्रकृट्या ॥"
इति हि ब्याप्तिसिद्धि[614]न्यायः ।
__________नोतेस्__________
[614] द्ध मूलपाठे ।
ननु ---
व्याप्तिर्नाम सम्बन्धः" । स क्रिं स्वभाबो ऽस्तु युष्माकम्? यस्माद् बौद्धैरवधृतो द्रव्यादिपदार्थगणः । कथम् ? तदन्तर्गतः सम्बन्धो ऽवशिष्यताम् ।
अत्रोच्यते ---
ऽपारतन्त्र्यं हि सम्बन्धः सिद्धे का[615]परतन्त्रता ?
__________नोतेस्__________
[615] कापप इति लिखित्वा प्रथमपकारः छिन्नैव ।
तस्मात् सर्वस्य भावस्य सम्बन्धो नास्ति भावतः ।"
सां[616]वृतं तु न वार्यते ।
__________नोतेस्__________
[616] साम्वृतमिति मूलपाठे ।
"रूपश्लेषो हि सम्बन्धो द्वित्वे सति कथं भवेत् ?
तस्मात् प्रकृतिभिन्नानां सम्वन्धो नास्ति भावतः ॥"
यदि स्वभावसंश्लेषो नहि सम्वन्धिनो द्वित्वम् । अर्थसम्बन्धिनो भिन्नस्वभावौ भावौ स्तः, तर्हि रूपसंश्लेषायास्ता जलाञ्जलिरिति विरोधादसम्भवी सम्बन्धो ऽवास्तवः ।
परापेक्षापि सम्बन्धः सो ऽसन् कथमपेक्षते ?
यश्च सर्वनिराशंसो... ... ...
[इतः प्रं मूलपुस्तकं नोपलभ्यते ।]
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
