Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
तर्करहस्य
- Thông tin
- GRETIL — Paramanandan Shastri, Patna 1979 (Tibetan Sanskrit Work Series, 20).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तर्करहस्य
[1]ओम् नमो बुद्धाय ।
__________नोतेस्__________
[1] स्ह्: 1.
यः श्रीमानवदातधीः परपरामर्शाचलस्याशनिः सद्ग्रन्थप्रथमानपौरुषतया प्रामाणिकग्रामणीः ।
... ... ... ... ... धर्मता तस्यैतत् प्रतिरच्यते तनुधियो रत्यै रहस्यं मया ॥
तर्करहस्ये विमृशति संशयशरणानि शास्त्रवचनानि ।
... ... ... ... ॥
अर्थानर्थप्राप्तिपरित्यागयोरवश्यं प्रमाणपूर्वकत्वात् तदविदुषां च व्युत्पादनार्थमिदमारभ्यते । ... ... ... विषयास्तत्प्रतिषेधेन प्रमाणं प्रतिपाद्यते ।
प्रमाणमविसं[2]वादि ज्ञानमर्थक्रियास्थितिः ।
__________नोतेस्__________
[2] सम्बा- मू- पा- ।
यत् पुनर्विसं[3]वादि न तत् प्रमाणम् । करणसाधितेन प्रमाणशब्देन कर्त्तृत्वं कर्मक्रियाक्षेपपूर्वकं साधकतमम् ... ... ... यः प्राधान्येन । तत्सहचरः शरीरेन्द्रियगणस्तत् [साधकतममित्यु]च्यते । कर्मचार्थक्रिया ... ... यापि प्रमितिः । सापिऽसंज्ञाप्रायाः कुतो भवन्तीतिन्यायात् प्रवृत्तिविषयनियमार्थक्रियासमर्थ --- [प्रापणशक्तिकत्वं, नत्वर्थप्रापणमेव । तस्य] [प्/अ/इ]
__________नोतेस्__________
[3] सम्बा- मू- पा- ।
प्रवृत्त्यप्रदर्शितमर्थं प्राप्तुकामान् व्यवहर्त्तॄन् प्रति निरर्थकत्वात् ।
किम् हि तेषां यदि प्रमाणेनार्थः प्रतीतः ?
सा चेत् प्रतीतिस्तेषां वाञ्छाभाजि तस्मिन्नर्थे प्रवृत्ति-प्राप्त्योरङ्गम् ।
एवं तर्हि---
[4]यथैव तेषां तदुपयुज्यते तथैव ... ... ... ... तथैव तर्ह्यव्यापृताम् (?) तेषां च व्यवहर्त्तॄणामुपयुज्यते पर्येषणामात्रं च प्रमाणम् । परिच्छेदे ऽपि प्रवृत्तिप्राप्त्यङ्गतयैव ।
__________नोतेस्__________
[4] स्ह्: 2. न च परदर्शने तथा व्युत्पादितम् । व्युत्पादितं चाचार्येण तथा---अविसंवादी[5]ति । __________नोतेस्__________
[5] सम्बा- मू- पा- ।
अर्थक्रियास्थितिरविसं[6]वादनम् । अर्थो दाहादिरेषणीयत्वात् । तस्य या क्रियानिष्पत्तिः कर्मस्था तस्याः स्थितिरविचलनम् । स्वप्ननिरासार्थम् ।
__________नोतेस्__________
[6] सम्बा- मू- पा- ।
स्वप्ने प्रातः[7]प्रबुद्धस्य भटित्यम्लानभासनम् ।
__________नोतेस्__________
[7] त इति विसर्गरहितः पा- मू- पु- ।
तद्योगे परिसं[8]वादीति मत्वर्थीयेनऽअविसं[9]वादिशब्दः पुरुषस्य हेयोपादेययोः[10]प्रवृत्त्यपाकारयोरर्थक्रियातत्साधनरूपयोः प्रसिद्धऽइति भाष्यमतम् ।
__________नोतेस्__________
[8] सम्वा- मू- पा- । [9] सम्वा- मू- पा- । [10] यो इति विसर्गरहितः पा- मू- पु- ।
धर्मोत्तरमते तु---
ऽयत्राविसं[11]वादिपदं नास्ति तत्र रूपाप्रदर्शितार्थप्रापके प्रसिद्धो यथास्माकमयमविसं[12]वादकः पुरुषः प्रमाणमिति वदन्ति व्यवहर्त्तारः ।
__________नोतेस्__________
[11] सम्वा- मू- पा- । [12] सम्वा- मू- पा- ।
यद्यपि ---
प्रापकत्वं प्रमाणशब्दात् प्राप्तं संज्ञाप्रायत्वेन कृतम् ।
यत्राविसं[13]वादिपदं नास्ति तत्राप्यविसं[14]वादिपदेनाप्युपात्तं वार्त्तिके---
__________नोतेस्__________
[13] सम्वा- मू- पा- । [14] सम्वा- मू- पा- ।
प्रमाणशब्दप्रवृत्ति---[प्/ब् 2] निमित्तख्यात्यर्थम् ।
भाष्यमते तु---
अविसं[15]वादिपदं लक्षणस्य लौकिकार्थत्वम् ।
__________नोतेस्__________
[15] सम्वा- मू- पा- ।
अर्थक्रियार्थी हि---सर्वः प्रमाणमप्रमाणं[16]वा अन्वेष्यते । प्रेक्षावान् न व्यसनितया ।
__________नोतेस्__________
[16] णम्वा मू- पा- ।
[17]तस्मात् न अर्थप्रतीतिमात्रं प्रमितिः ।
__________नोतेस्__________
[17] स्ह्: 3.
किं तर्हि ?
परोक्ता विशिष्टैव । तस्याश्च---साधकतमं नेन्द्रियादिकम् वक्ष्यमाणयुक्त्या ।
किन्तर्हि ?
ज्ञानगतमर्थसारूप्यम् । अतस्तदात्मकतया ज्ञानमेव प्रमाणम् ।
नेन्द्रियादिकम् । प्रत्यक्षानुमान -- प्रथमक्षण -- भाविज्ञानमाकारविशेषनियमेनात्मशक्त्त्युत्पादित-स्वव्या( पा )र-व्यवहर्तृ-व्यवसायवशेनातद्रूपपरावृत्तार्थक्रियासमर्थं परिच्छिन्दत् स्ववृत्तेः कारणं भवत् स्वाप्तेरभ्युपायतां स्पृशति ।
न हि---उपदर्शक-व्यापारात् प्रवर्त्तकत्वमन्यदस्य । प्रवर्त्तकत्वाच्च नापरं प्रापकत्वम् । न हि हस्ते गृहीत्वा ज्ञानं प्रवर्त्तयति । न वा पुरुषदेशमनुमानमर्थयद् वान्धो न पुरुषमनुदेशमर्थं प्रापयति । किं तु---
समर्थम् अर्थक्रियायां दर्शयदेव प्रवर्त्तयति---प्रवृत्ति (विषयमर्थमुपदिशत्) प्रापयति ।
सर्वेषामेव च ज्ञानानामेकमेवेयं विधा, यदुतार्थोपदर्शनं नाम ।
ततस्तदन्यदशेषमधिगतार्थाधिगन्तृत्वेनाप्रमाणम् ।
ननु च---
अर्थोपदर्शनाद् यदि नापरं प्रवर्त्तकत्वादि । तदेवम्-पुनरुक्तम् आवर्त्तेत ?
प्रदर्शयेत् प्रवर्त्तयति प्रवृत्ति-विष[प् अ/2]यमुपदर्शयत् प्रापयतीति च ।
यत एवं वाक्यार्थः `स्यादुपदर्शयेदुपदर्शयतीति न समीचीनमालोचितं परेण ।
प्रवृत्तिर्नाम---
वक्ष्यमाणलक्षणाभिन्नैवोपदर्शनादन्यत्रैव च प्राप्तिर्हस्तादि-स्पर्शरूपा ।
परमेतावदुच्यते ।
[18]ज्ञानमुपदर्शयदेव तस्याः प्रवृत्तेः प्राप्तेश्च निबन्धनम्, न व्यापारान्त्रेण ।
__________नोतेस्__________
[18] स्ह्: 4.
यथा---
द्वाःस्थ-बध्यघातकपृथ्वीनाथेषु बहुषु मारकेषु कस्यचित्कथञ्चिदुपयोगा[19]द्राज्ञो मारकत्वमा[20]ज्ञादानमेवेत्युक्तौ किमाज्ञादानमाज्ञादानमित्येवाहुः ।
__________नोतेस्__________
[19] गो- मू- पा- । [20] मावज्ञा इति लिखित्वा व छिन्नमिव मू- पु- ।
किं वा मरणन्नाम बध्यस्य भिन्नमेवास्ते । तद्धेतुत्वेन बध्यमानमाज्ञादानं व्यापारान्तरतिरष्कारे चरितार्थश्चान्यदेवेति । तथेहापि वेदितव्यम् ।
बहुषु प्रापकेषु ज्ञानमात्रार्थप्रभृतिषु ज्ञानं कथं प्रापयति ? --इति प्रश्ने-----
प्रतिवचनम्---`उपदर्शयदेवेऽति न पौनरुक्त्यम् ।
ननु--
बहुषु स्थानेषु यदेतदुक्तम्--
`अर्थक्रियासमर्थस्य प्रापणायोग्यम्ऽ इति । तत् कथमवधार्यम् ?
किमर्थस्योपादेयस्य दाहादेः क्रियानिष्पत्तिस्तत्र समर्थस्येति ?
तथार्थत्वे---
हेयार्थक्रियासमर्थस्यासङ्ग्रहान् न्यूनता ।
अर्थक्रियाविषयस्य च ज्ञानस्य[21]प्रमाण्यमनुपात्तं स्यात् ।
__________नोतेस्__________
[21] अत्र म लिखित्वा छिन्नमिव मू- पु- ।
न हि `प्रदर्शितार्थक्रियासमर्थप्रापणयोग्यं ज्ञानं प्रमाणम्ऽ इति वदता अर्थक्रियाप्रापकमपि प्रमाणमा [प्/ब्/3] त्रं भवति ।
अथार्थ्यत इ[22]त्यर्थो हातुमुपादातुश्चार्थ्यमानो दाहादिरेवोच्यते ।
__________नोतेस्__________
[22] अत्र ति लिखित्वा छिन्नमिव मू- पु- ।
`अर्थक्रिया चार्थक्रियासमर्थश्चे`ति विरूपैकशेषो विवक्षितः ।
[23]तथाप्येकवचनानुपपत्तिश्च ।
__________नोतेस्__________
[23] स्ह्: 5.
कथं च---
`प्रापणयोग्यं प्रमाणम्`---
इत्युक्तौ साक्षादर्थक्रियाप्रापकम् सङ्गृह्येत?
सत्यम् ।
अयमेवार्थो हृदिस्थः ।
`अर्थक्रियासमर्थस्येऽत्युपलक्षणार्थमुक्तम् ।
तेन---
अर्थक्रियाया अप्रापकमपि प्रमाणयोग्यं वेदितव्यम् ।
`अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पने ऽत्यत्र यथा
अभिलापसंसृष्टमसंसृष्टम् अपि सम्पुष्टं योग्यं `योग्य` शब्देन सङ्गृह्यते, तथेहापि व्यवस्थाप्यम् ।
यत् प्रापणयोग्यं यच्च साक्षात् प्रापकम्, तदुभयं योग्यशब्देन विषयीकर्त्तव्यम् ।
स्वसं[24]वेदनप्रत्यक्षस्य चात्मानं मेयं प्रति प्रापकत्वं सातिशयमस्तीति सामान्यलक्षणमक्षीणम् अस्मिन्निति वेदितव्यम् ।
__________नोतेस्__________
[24] सम्व- मू- पा- ।
विषयसारूप्यमपि तस्य तादात्म्ये सति सूपपादम् ।
उत्तरप्राप्तिहेतुत्वात् पूर्वस्य यदि मानता ।
तथैव प्रतिरूपत्वादुत्तरस्य कथं न सा ? ॥
तेन---
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गृह्यताम् ।
नहि स्वतो ऽसती शक्तिः कर्त्तुमन्येन पार्यते[25]। ।[26]
__________नोतेस्__________
[25] न हि स्वतो ऽसती... ... पार्यते --त- सं- पं- 745, 813 पृ- । [26] स्वतः सर्वप्रमाणानां.... गृह्यताम् । .... पार्यते ॥ -(पूर्वार्धमात्रं) त- सं- पं- 745 पृ-, 2812 का- । उत्तरार्धश् तत्रैव 2811 व्याख्यायाम् ।
चत्वारो हि पक्षाः ।
कदाचित् प्रामाण्यमप्रामाण्यञ्च स्वतः ।
[27]किं वा स्वतो ऽप्रामाण्यं परतः प्रामाण्यम् ?
__________नोतेस्__________
[27] स्ह्: 6.
अथवा इयम् अपि परतः [प्/अ/3] किं वा स्वतः प्रामाण्यमप्रामाण्यम् ?
तथापि प्रामाण्यं[28]परतः ।
__________नोतेस्__________
[28] ण्य- मू- पा- ।
तत्र---
परस्परविरुद्धद्वयप्रसङ्गान् नाद्यः ।
अनुपलम्भेन प्रामाण्यप्रतिषेधस्य सम्भाव्यत्वान् न द्वितीयः ।
स्वतो ऽनुपलम्भेन यद्यप्यप्रामाण्यम्, तथापि प्रांआण्यमपि सं[29]वाद[30]गुणविज्ञानार्थादि परतः ।
__________नोतेस्__________
[29] सम्वा- मू- पा- । [30] सम्वा- मू- पा- ।
तदा---
सं[31]वादगुणविज्ञाने केन नाभ्यधिके मते?
__________नोतेस्__________
[31] सम्वा- मू- पा- ।
सापेक्षत्वे प्रमाणत्वं न व्यवस्थाप्यते क्वचित्[32] । ।[33]
__________नोतेस्__________
[32] संवादगुणविज्ञाने.... .... मते .... क्वचित् ॥ (पूर्वार्धमात्रं) त- सं- पं- 787 पृ- । [33] सापेक्षत्वे प्रमाणत्वं.... क्वचित् ॥ -त- सं- पं- 746 पृ-, 2813 का- ।
इति न्यायान् न तृतीयः ।
तस्मात् ---
स्वतः प्रमाणत्वप्रसङ्गेन[34]व्यवस्थितं बाधकारणदुष्टत्वम् ।
__________नोतेस्__________
[34] ण- मू- पा- ।
`ज्ञानाभ्यां तदयोग्यतः`---इति न्यायात् स्वतः प्रामाण्यम् । `अप्रामाण्यमन्यत` इति न्याय्यमि`त्यपास्तम् ।
सापेक्षम् एब प्रामाण्यं, नचावस्थाकारणज्ञाने हि तदुत्पत्तिसम्बन्धेना`विसं[35]वादित्वम्` साक्षात् प्रापके तादात्म्येन ।
__________नोतेस्__________
[35] सम्वा- मू- पा- ।
ततो व्यवतिष्ठत एव प्रांआण्यम् ।
तेन---
`सं[36]वादेनैव सं[37]वादः पुनर्मृग्यस्तथैव[38]... ...` इत्यनवस्था प्रत्याख्याता ।
__________नोतेस्__________
[36] सम्वा- मू- पा- । [37] सम्वा- मू- पा- । [38] संवादेनापि.... .... तथैव (हि) । त- सं- पं- 757 पृ-, 2854 का (न- युक्तः पाठः) तं- सं- पं- 781 पृ-, 2962 का- ।
[39]ननु---
__________नोतेस्__________
[39] स्ह्: 7.
सं[40]वादो नामोत्तरो ऽर्थज्ञानज्ञेयरूपः । स किं [स]जातीयो विजातीयो वा?
__________नोतेस्__________
[40] सम्वा- मू- पा- ।
यद्याद्यः ?
तदा---वेदज्ञानम् वेदज्ञानान्तरसं[41]वादात् प्रमाणं स्यात् ।
__________नोतेस्__________
[41] सम्वा- मू- पा- ।
अथ द्वितीयः ।
तदपि---
"शब्दधीश्चाप्रमाणं स्यादितराभिरसड्गतेः" ।
इति प्राप्तम् ।
"घटज्ञानं घटज्ञानात् प्रमाणं किन्न कीर्त्त्यते?"
इति च स्यात् ।
न ।
"सम्बद्धार्थपरिप्राप्त्या प्रमाणं सर्वमुच्यते ।
न सजातिविजातीये विज्ञानोत्पत्तिमात्रतः ॥
मत्वर्थीयेन निष्पन्नमवि[प्/ब्/4]सं[42]वादिवेद्यताम् ।
__________नोतेस्__________
[42] सम्वा- मू- पा- ।
तदुत्पत्तेश्च तादात्म्यसम्बन्धात्तस्य सम्भवः ॥
[निवेदनं] तेन शाब्दे ऽप्यमिप्रायनिवेदनात् ।"
शब्दो विपञ्चीपञ्चमादिध्वनिः । तस्येदं ज्ञानम् शाब्दम् ।
तस्मिन् । अपि शब्दात् पावकादिज्ञाने ।
अर्थक्रियास्थितिरविसं[43]वादनमिति प्रकृतेन सम्बन्धः ।
__________नोतेस्__________
[43] सम्वा- मू- पा- ।
कथम् ?
अभिप्रायनिवेदनात् ।
इष्टत्वानिष्टत्वाभ्यां पुरुषस्यार्थपरिच्छेदो ऽभिप्रायः ।
तेन निष्ठितं वेदनम्, निवेदनम् । इदं वेद्यमानम् । अर्थक्रियायाः ।
[44]तथा हि---
__________नोतेस्__________
[44] स्ह्: 8.
अर्थक्रियासमर्थमिति ज्ञाने ऽर्थक्रियानिवेदनम् । अर्थक्रियानुभवे तु सुतरामभिप्रायनि वेदनम् ।
गे (ज्ञे?)यस्वरूपसं[45]वित्तिरेव तत्र क्रिया मता ।
__________नोतेस्__________
[45] सम्वा- मू- पा- ।
चित्रे ऽपि दृष्टिमात्रेण फलं परिसमाप्तिमत्[46]। ।[47]
__________नोतेस्__________
[46] चित्रेऽपि दृष्टि... ....समाप्तिमत् ॥ --प्र- वा- भा- 5 पृ- । [47] ज्ञेयस्वरूप... .... ... मता । ... मत् प्र- वा- भा- 5 पृ- ।
ऐरावती[48]चन्द्रसूर्य[49]ग्रहराश्यादिवेदने ।
__________नोतेस्__________
[48] ऽरऽलिखित्वा छिन्नम् । [49] ऽयोऽओकार मात्रा छिन्ना ।
अभिप्रायाविसं[50]वादात् प्रमाणं न्यायविज्जगौ ॥
__________नोतेस्__________
[50] सम्बा- मू- पा- ।
वेदसम्बन्धवैधुर्यात् सजातीयो (-न्व[51]?) ये ऽपि न ।
__________नोतेस्__________
[51] अत्र त्रु टिः मू- पु- ।
प्रामार्ण्य गृह्यतां सभ्याः ! शक्तिवादो ह्यनादृतः ॥
यत् पुनः---
नार्थक्रियान्वयि, तत् समर्थद्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषं यथासमयमाख्यातम् । तज्ज्ञानं तद्विषयतयापूर्वार्थमपि न प्रमाणम् ।
व्यवहर्त्तॄन् प्रति निरर्थकत्वात् ।
अर्थक्रियासमर्थस्य विचारैः किं तदर्थिनाम् ।
ष्[52]अण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्ष्या[53]?[54]
__________नोतेस्__________
[52] श मू- पा- । [53] अर्थक्रिया .... .... .... र्थिना । .... परीक्षया ॥ -हे- वि- टी- अर्चटेनोद्धृतम् 59 पृ-; प्र- वा- 3/209-11॥; त- स- टी- पञ्जिकायाम् 152 पृ- ॥
[54] षण्ढस्य रूपवैरूप्ये.... ....परीक्षया ॥ - प्र- वा- 3/209-11; हे- वि- टीकायाम् - अर्चटेनाप्युद् धृतम् 59 पृ-; -त- स- पं- 152 पृ- ॥
---इति न्यायात् ।
स्वलक्षणमर्थक्रियासमर्थमादृत्यासमर्थ [प्/अ/4] मपि सामान्य---
लक्षणमध्यवसेयार्थतया समर्थमिति तदविषयं ज्ञानं प्रमाणम् ।
तच्च---
नियतमुपदर्शितं प्रापयितुं शक्यं विद्यमानं च ।
न च संशयः ।
क्रमभावि क्रमोत्तरभावि वा ज्ञानं सन्नियतमर्थमादर्शयितुं दृष्टसामर्थ्यम् । प्रतिभासनियमबलेन नियममध्यक्षं दर्शयति । दर्शयति चानुमानं लिङ्गबलेन नियतमर्थम् ।
[55]अत एव---
__________नोतेस्__________
[55] स्ह्: 9.
विकल्पेष्वनुमानविकल्प एव प्रमाणम् ।
सर्वेण वा लिङ्गेन विकल्पेन नियामकमदृष्ट्वा प्रवृत्तेन भावाभावयोरनियत एवार्थो दर्शयितव्यः ।
न च ---अनियतः शक्यप्रापणः ।
विपर्यासज्ञानेन च यद्यपि नियत एव दर्श्यते, तथापि न विद्यमानो दर्श्यत इति न शक्यप्रापणः ।
तत्र---
कश्चिद् विपर्यासो निर्विकल्पो ऽस्ति ।
यथा ---निशोथिनीनाथद्वैविध्यबोधः ।
कश्चिद् विकल्पात्मा ।
यथा---मरुमरीचिनिचये विरोधमाने नीरारोपी । स हि---
मरीचेर्नियतप्रतिभासं नियामकमाश्रित्य जायमानो यौक्तसंशयात्मा ।
किन्तर्हि ?
विपर्यास एव ।
यतः---
प्रतिभासमाने वस्तुनि प्रतिभासबलोत्पन्नो विकल्पो निश्चयो वा स्याद् विपर्यासो वा ।
संशयस्तु---
समुच्चरद्रूपद्वयालम्ब्येव विकल्पः ।
परोक्षे तु विषये समुच्चरद्रूपद्वयो यौक्तश्च संशयो विकल्पः ।
यथा---
ऽश्वो मे त्रातागमिष्यतीति विकल्पः [प्/ब्/5] संशयो यौक्तस्तथा वेदोत्थो ऽपि ।
तेन---
अप्रमाण्यं त्रिधा भिन्नं मिथ्यात्वज्ञानसंशयैः ।
न तावद् वेदे संशयलक्षणमप्रामाण्यमिति पराहतम् ।
[56]ननु---
__________नोतेस्__________
[56] स्ह्: 10.
यदुक्तम् चार्वाकादिभिः ---
प्रमाणेन तावदर्थः सिध्यति । प्रमाणं पुनः केन सिद्धम् ?
न स्वसं[57]वेदनेन ।
__________नोतेस्__________
[57] सम्बे- मू- पा- ।
तस्य ज्ञानस्वरूपमात्रस्य साक्षात् कृतावधिकारात् ।
नाप्यनेन प्रमाणेन ।
सं[58]वादगुणविज्ञानादिनानवस्थाप्रसङ्गात् ।
__________नोतेस्__________
[58] सम्बा-मू- पा- ।
नाप्यप्रमाणेन ।
प्रमेयस्याप्यप्रमाणतः सिद्धिप्रसङ्गात् किं प्रमाणव्युत्पत्त्या?
नापि व्यवहारेण ।
तस्यापि प्रमाणेतरत्वेनप्रस्तुतदोषानतिपातात् ।
किञ्च---
तज् ज्ञानम् आत्मगुणो वा?
तत् परिणामो वा ?
स्वतन्त्रं वा साकारम्?
निराकारमेकमनेकं वा ?
सर्वत्र च वादिनां विवादसम्भवात् ।
तत् न तत्त्वनिष्ठा (?)।
तस्मात् ---
तत्त्वोपप्लव[59]स्वारम्भो न दम्भादपरो विधिः ।
__________नोतेस्__________
[59] प्लवेशं- मू- पा- ।
इति । न । यत् एव विवादो बहुमुखस्तत एव शास्त्रमवतारितम् ।
[60]यतः---
__________नोतेस्__________
[60] स्ह्: 11.
"शास्त्रं मोहनिवर्त्तनम् ।
पूर्वापरस्यास्मरणं शास्त्रेणानेन वार्यते[61]।"
__________नोतेस्__________
[61] पूर्वापरस्यास्मरणं.... .... वार्यते ॥ प्र- वा- भा- 28 पृ- ॥ (व्यवहारपरामर्शोच्छामं मोहनिवर्त्तनमिति पृवार्धिस्तत्र ।)
तथा -पि ।
"यो ऽपि तापादितो ऽभ्येति चन्दनं न हुताशनम् । वक्तुः[62]किञ्चिदनाश्रित्य प्रमाणं तु न वर्त्तते ॥"
__________नोतेस्__________
[62] क्तु- मू- पा- ।
आस्तां तावत् ।
यथायथमर्थ-सार्थमर्थयमानानां ग्राह्यग्राहकाकारापरोक्षताकारस्य ज्ञानस्यासं[63]वेदने यज्जायेतान्धतमसमशेषम् ।
__________नोतेस्__________
[63] सम्बे- मू- पा- ।
`विप्लवः समस्तो ऽयम्ऽ इत्यपि विप्लवस्वरूपावे [प्/अ/5] दने तपोधनसमर्थज्ञानानवरोधे प्रतिपाद्यानवधारणेन चिन्तयितुमशक्यं प्रागेव प्रकाशयितुम् । अतः समस्येव प्रमाणादिस्वप्रत्ययव्यवस्थापितम् ।
ऽकेवलव्यवहारेऽपि विमतिरेव व्यवहारिणामिति व्यामोहापोहायारब्धव्यमेव शास्त्रम् ।
"नीलादिस्फुटताप्रायं प्रमेयं ग्राहकात्मनः ।
कर्त्तृत्वमान्तरत्वेन स्फुटत्वे स्फुटता क्रिया ॥
वक्तब्या नात उपरि वक्तव्यान्तरमस्ति वः ।
महोपप्लववादे ऽपि प्रमाणादिकसम्मतः ॥
परावरोधतः सर्वमेवञ्चेत् स्वात्मनो न किम्?
ग्राहकादि प्रकाशे हि समे सर्वं समं मतम् ॥
प्रकाशश्चेदसन् सर्वो वादायास्तो जलाञ्जलिः ॥"
तस्मात् ---
प्रकटतान्तर्गतसमस्तसत्त्वसन्तान---सम्भविग्राहकाकारादि ---
[64]ष्वाभवेनाभवं (?) भव्येतरप्राणिनां हानेतरव्यवहारो विवादमूलाधारो वान्ध्यमुद्धूयावधार्यताम् !
__________नोतेस्__________
[64] स्ह्: 12.
ननु ---
ग्राहकाकारादिवेदनमन्तरेण न काचिच् चित्तवृत्तिः । ततः कथमिदम् ? ---
प्रमाणमप्रमाणञ्चेदं प्रापकेतरत्वेनापि प्रथमतः प्रभृति सम्प्रधार्यम् ? इति चेत् ?
उच्यते ।
तद् दृष्टावेव दृष्टत्वात् पाकपावकयोर्द्वयोः ।
सम्बन्धं सम्प्रधार्यैव तादात्म्योत्पत्तिलक्षणम् ॥
पुनः[65]पावक सं[66]वित्ति--- सामर्थ्योत्पन्नसंस्मृतिः ।
__________नोतेस्__________
[65] पुनपाव- मू- पा- । [66] सम्बे- मू- पा- ।
अभिलाषाच्च लोकानां व्यवहारः[67]प्रवर्त्तते ॥
__________नोतेस्__________
[67] रोपायोन इति लिखित्वा खण्डितमिव मू- पु- ।
स्वाभिप्रायेण विचेष्टतां नमेष्टपरिपुष्टये धार्ष्ट्यादित्यविशिष्टः (?) शिष्टो लोकः ।
सार्वलौकिकः पुनरयमेव व्यवहारोपा[प्/ब्/6] यो ऽनुभवपद्धति---
प्रसिद्धः ।
यदुत व्युत्पत्तिकाले परिकलय्य पावकप्रतिबद्धं पाकपरितोत्सारणवीक्षणक्षतिप्रभृति कार्यम् । तदूर्ध्वं च --- पावकसं[68]वित्त्या पूर्वदर्शनसंस्कारः प्रबोधनकृतात् सम्यक् स्मरणात् । पाकादिकं प्रतिपावकसामर्थ्यविषयात् ।
__________नोतेस्__________
[68] सम्बि- मू- पा- ।
अभिमताभिमतत्वेन च पावकादेर् हातुम् उपादातुं चाभिलाषाद् व्यवहारो हानो पा(दा)नलक्षणः प्रवर्त्तते । तदेतावत्येव सामग्री व्यवहारप्रवर्त्तने निश्चिता । नात उत्तरा । नातो वा भूयसी ।
[69]यतो हि ---
__________नोतेस्__________
[69] स्ह्: 13.
उत्पत्तिवेलायां द्विष्ठसम्बन्धसं[70]वित्तिर्जाता । सम्बन्धिद्वयदर्शनात् ।
__________नोतेस्__________
[70] सम्बि- मू- पा- ।
सम्बन्ध-निबन्धनश्चाब्यभिचारः । अव्यभिचार --- निबन्धनं च प्रापणयोग्यत्वं ज्ञानस्य ।
`पश्चादर्थक्रियासामर्थ्यस्मरणात् पावकस्याभिलाषाच्च पुंसां[71] प्रवृत्तिर्ऽ इति समाप्तं सर्वमीहितम् ।
__________नोतेस्__________
[71] सा- मू- पा- ।
न समाप्तम् ।
यदि ---हातुमभिलाषात् हानलक्षणो व्यापारः । तर्हि हापकतयोपयुज्यमानं न ज्ञानं प्रापकतया प्रमाणं वक्तव्यम् ।
वक्तव्यंम् ।
यस्मात्तदहिविषकण्टकाव्यभिचारनिबन्धनेन प्रापकत्वेन युक्तम् ।
तस्मात् ---
परिहार्यं सं[72]वृत्तम् ।
__________नोतेस्__________
[72] सम्वृ- मू- पा- ।
अपरथा ।
यद्याशीविषादिना ज्ञानं न श्लेषयितुं शक्नुयात्? किमर्थम् परिजिहीर्षेत पुरुषः?
तस्मात् ---
प्रापकमेव प्रमाणम् ।
न हापकत्वेन प्रमानं वक्तव्यम् ।
ननु---
[प्/ब्/6] व्युत्पत्तिवेलायामेव यदि भूताभूतत्वादिसंशयः ।
तदा व्युत्पत्तिरपि न स्यात् ? पाककार्यदर्शने सन्देहाभावात् ।
[73]उपरिष्टात् केवलपावकदर्शने संशयः स्यात्?
__________नोतेस्__________
[73] स्ह्: 14.
स च न प्रमाणव्यापारपरिपन्थी ।
विपर्यासो हि---
विपरीतं रूपं परिच्छिन्दन् प्रतिभासमानत्वभावासंस्पर्षी प्रमाणव्यापारमुपरुन्ध्यात् !
उक्तं हि---
"नो चेद् भ्रान्तनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥"
इति ।
न तु---
ऽसंशयनिमित्तेनेऽ त्युक्तम् ।
ननु---
व्युत्पन्नार्थक्रियासामर्थ्यादिस्तदुपरिष्टाद् विपर्यस्यमानः सन्दिहानो वा पुनः पाकादिविलोकनेन निवृत्तः ।
तत् किम्?
सन्देह-विपर्यासयोः प्रत्यक्षव्यापार-प्रातिकूल्याप्रातिकूल्यविचारणे?
सत्यम् ।
ऽप्रतिभासमानरूपानुरूपः संशयः ।
स्मरणं तत् प्रतिसन्धायकत्वेन ।
न विपर्यासः ।
स्वप्नविपरीतत्वादिऽति प्रदर्शनार्थमुक्तम् ।
पुनः प्रयोजनं चास्य पुरस्ताद् वक्ष्यते ।
अध्यव[74]सेयविषयापेक्षे च प्रापकत्वे प्रमाणस्य विषयस्वरूपग्रहणं ग्राह्यविषयस्यानुपयुक्तम् । तस्याप्राप्यत्वात् ।
__________नोतेस्__________
[74] ध्ययसे- मू- पा- ।
[75]वस्तु गृह्णातु, मा वा ग्रहीत ।
__________नोतेस्__________ [75] स्ह्: 15.
ऽअध्यव[76]सेयं वस्तु प्रापयेदिऽति प्रमाणम् । तत् प्रापकमविकल्पकं विकल्प (कं)[77]वास्तु । सर्वथा क्षणादूर्ध्वं निबद्धे तस्मिन् [प्/ब्/7]
__________नोतेस्__________
[76] ध्ययसे-यू- पा- । [77] ल्पम्वा- मू- पा- ।
तदात्मके च विकल्पकत्वे तद्व्यापारानुकारिणा स्मरणेन प्रयोजनम् ।
तच्च स्मरणम्---
ऽविकल्पकाविकल्पकयोः समानमिऽति नार्थो विकल्पत्वेन प्रत्यक्षस्य ।
ततः पुनः चरमकालभावीनि यावन्ति ज्ञानानि व्याहारव्यवहारकाणि तावन्ति प्रायावधीनि गृहीतग्रहणादप्रमाणानि ।
तथा---
धारावाहीन्यपि निर्विकल्पानि ज्ञानान्यप्रमाणानि । पूर्बेण (!) सहोत्तरेषामभिन्नयोगक्षेमत्वात् ।
ऽपरिच्छिन्नश्चार्थः प्रवृत्तिविषयः प्रापणीयः प्रमाणस्येऽति वचनेन श[78]ङ्खे पीतज्ञानं मणिप्रभायां मणिज्ञानम् । अन्यदपि चैवंम् प्रकारं ज्ञानमप्रमाणमुक्तम् । न हि तस्मिन्नवसितेऽन्यदवसितं नाम । अतिप्रसङ्गात् ।
__________नोतेस्__________
[78] संख- मू- पा- ।
भिन्नैर् देशकालाकारैर् विरुद्धैरध्यासितं शुक्लादि (क) मन्यदेव।
अर्थप्राप्तिस्तु-प्रवर्त्तकान्तरात् ।
प्रवर्त्तकज्ञानोपदर्शितं ह्यर्थं प्राप्तुकामा कायवाग्व्यापारसहाया बुद्धिः प्रवृत्तिः । सा तस्मिन्नेवावसिते वस्तुनि सत्यसति वा समाप्यत इति न पीताकारज्ञानपूर्विका प्रवृत्तिः शुक्लाकारवस्तु प्राप्तिनिमित्तम् । ज्ञानान्तरादेव पुनः पर्यन्ततः स्पर्शग्राहिणो ऽपि तत्प्राप्तिः।
[79]एवम्---
__________नोतेस्__________
[79] स्ह्: 16.
परिच्छिन्नप्रवृत्तिविषयप्रापणं सम्यग्ज्ञानत्वं प्रत्यक्षानुमानयोरविशिष्टं शक्यप्राप्तिविषयञ्च सु[प्/अ/7]दर्शश्च प्रमाणव्यापारः ।
तच्च प्रापणशक्तत्वम् । न तु प्रापणमेव । प्रापणस्योत्तरज्ञानरूपत्वात् ।
तच्च प्रापणशक्तत्वम् प्राप्यादर्थादात्मलाभनिमित्तम् ।
शक्तत्वनिश्चयस्तु ---
अनुमानस्य स्वत एवार्थक्रियानिर्भासस्य च प्रत्यक्षस्य ।
प्रवर्त्तकाध्यक्षस्य तु कस्यचित् स्वत एव यन्निद्राद्यनुपद्रुतमासन्नदेशमाशङ्कितव्यञ्जकदोषं वस्तु गृह्णाति, तद् रूपसं[80]वेदनादेव सत्यार्थमवसीयते । व्यवहारव्युत्पत्तेः प्रभृतिर् हि तथाभूतस्य सततमभिनिश्चिताव्यभिचारित्वात् ।
__________नोतेस्__________
[80] सम्वे- मू- पा- ।
कस्यचित् पुनरर्थाविनाभावः परतो निश्चीयते यदविनाभावसंशयानुवर्त्तितव्यापारम् ।
यथा ---
किमेतत् प्रतिभासमानं सत्यम् ? उत न ? इति ।
यच्च ---
सामान्यसिद्धौ विशेषे संशयसन्दूषितव्यापारम् ।
यथा ---
वृक्षमात्रसिद्धौ -
किमयं धवः ? किं वा पलाशः ? इति ।
पूर्वस्मिन् सर्वात्मनि परतः प्रामाण्यम् ।
परस्मिन् पुनः सामान्येनार्थक्रियाकारि-ग्राहिणी सामान्यस्य विशेषात्मनार्थक्रियाकरणाद् विशेषनिष्ठं प्रामाण्यम् परतस्तु निश्चेतव्यम् ।
किञ्चित् पुनर्विशेषग्राहिप्रतिभासवशान् निश्चितसामान्येऽपि विशेषेऽपि प्रमाणम् ।
[81]यथा---
__________नोतेस्__________
[81] स्ह्: 17.
शिंशपाग्राहिवृक्षत्वे ।
तथा च ---
न क्षणिकत्वं विशेषो न विशेषप्रति [प्/ब्/8] भासान् निश्चितम् ।
अतस्तादृशे प्रमाणान्तरमेव प्रवर्त्तकम् ।
तथा ---
भिन्ने सहचारिणि स्पर्शादौ द्रष्टव्यम् ।
न च ---
अर्थक्रियाज्ञानादेव निश्चयः । अपितु यतः कुतश्चित् । नान्तरी(य)कदर्शनात्
। यो ऽयं सर्वात्मनि संशयः, यश्च विशेषालम्बनः । सर्वो ऽसौ प्रतिभासमानस्यात्मनो ऽध्यवसायं प्रति जनकत्वात् परः ।
तदवसायासामर्थ्ये तद्विषयविमर्शयोगात् ।
प्रतिभासनेन हि स्वविकल्पजननसमर्थेन प्रत्यक्षस्य ग्रहणमुक्तम् ।
निश्चयस्य तु निश्चयनेन व्यापारेण ।
तदेवम् ---
प्रतिभासमानो ग्राह्याकारो बाह्यो ऽर्थग्रहणव्यापारात्मकः, विमर्शेण(न?) जन्यमानेन निश्चेष्यमाणः । अभ्यासावस्थावत् समाप्तः । केवलं संशयः[82]परतो ध्वंसते । न च परं प्रत्यक्षं सत् पूर्वस्य प्रामाण्यं गृह्णाति । न वा तस्मिन्नर्थे लिङ्गम् । तन्मात्रात् संशयध्वंसनेऽन्वयाद्यनुसरणाभावात् ।
__________नोतेस्__________
[82] य- मू- पा- ।
तस्मान् न प्रत्यक्षं व्यापारो धीसंशयः ।
कथं न तद्व्यापारो ऽपरो वा ? यावता शक्यप्रापणविषयोपदर्शनं प्रमाणव्यापारः । शक्य[83]प्रापणश्च विषयः स एव यो नियतः । न च [84]नियमो नाम संशयस्य विषयः । संशयो हि जलने द्वयोः । न च चलयन्नेव नियमयति ।
__________नोतेस्__________
[83] क्यं- मू- पा- । [84] स्ह्: 18.
किं वा ---
संशयः प्रतिभासमानार्थावसाय इत्यस्य प्रयासस्य फलम् ---
[प्/अ/8] सत्यम् ।
त्रयो हि योगा विकल्पानां सम्भाव्यते(न्ते ?) । --- समुच्चयो, विकल्पो विरोधश्चेति ।
तत्रैकत्र युगपदभिसम्बध्यमानस्यानियतस्यानेकस्य स्वरूपेण भेदावधारणं स मुच्चयः । यथा ---
नीलञ्च तदुत्पलञ्चेति ---
अनेकत्रानियतैकसमुदायिभेदावधारणं विकल्पः । यथा --- भयो वा जातिर्वा । शुभं[85]वेति ब्राह्मणशब्दवाच्यम् । __________नोतेस्__________
[85] म्वे- मू- पा- ।
बाध्यवा धकभावो विरोधः । यथा ---
सर्पो रज्जुरिति तत्रायं संशयो न समुच्चयस्पर्शी । समुच्चये हि --अयमर्थः स्यात् ।
प्रतिभासमानो ऽर्थः सत्यश्चासत्यश्चेति । न वा विरोधेन प्रवृत्तः ।
न खलु सत्यत्वमपोह्यासत्यत्वं[86]विधत्ते । पारिशेष्यात् पुनर्विकल्पपक्षमाश्रयेत्-ऽस्थाणुर्वा, पुरुषो वेऽ त्यादिवत् ।
__________नोतेस्__________
[86] म्वि मू- पा- ।
तथा चा ---
प्रवर्त्तमानः सशयः पर्यायेण नियतमर्थमवस्य न शक्यप्रापणमेवावस्यति ।
तस्मात्---
न प्रमाणव्यापारोपरोधी ।
[87]जानाति च लोको यथा-ऽअयं प्रतिभासमानो ऽर्थः, कदाचित्, सत्य-एव, कदाचिदसत्य एवेऽ ति ।
__________नोतेस्__________
[87] स्ह्: 19.
अभ्यासार्थमेवं व्युत्पाद्यते । ज्ञाते ह्यर्थाविनाभावित्वनिमित्तप्रापणयोग्योपदर्शनलक्षणे प्रामाण्ये अध्यासेन भवितव्यम् ।
अध्यासात् परतो निरस्तविभ्रमाशङ्कं स्वतः प्रमाणम् ।
अन्येन ज्ञात्वा तदध्यासः ?
इति चेत् ?
न ।
प्रत्य [प्/ब्/9] क्षानुमानाभ्यामुत्तराभ्यां पूर्वज्ञानस्वभावभूतप्रामाण्यपरिच्छेदायोगात् ।
तदेवम्---
शक्यप्रापणप्रवृत्तिविषयोपदर्शनं प्रत्यक्षानुमानयोः सामान्यप्रामाण्यलक्षणम् ।
सामान्यं च व्यक्तिनिष्ठम् ।
प्रत्यक्षं चानुमानं च व्यक्तिभेदः सावधारणः, न शब्दोपमानादिः ।
तथा हि --- शब्दज्ञानादसन्निकृष्टेऽर्थे ज्ञानं शाब्दम् । शब्दस्य लक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तत् ऽशब्दादागतमिऽति कृत्वा शाब्दं प्रमाणम्, तच् च द्विविधम्, अपौरुषेयशब्दजनितं[88]ऽ प्रत्ययितपुरुषवाक्य[89]जञ्च । __________नोतेस्__________
[88] त मू- पा- । [89] ह्य इव मूलपाठे ।
आह च ---
ऽशब्दादुदेति यज् ज्ञानमप्रत्यक्षेऽर्थवस्तुनि ।
[90]यद[91]कर्त्तृकतो वाक्याद् यद् वा प्रत्ययितोदितात् ॥
__________नोतेस्__________
[90] स्ह्: 20. [91] तच्चा ... ... रत्नकीर्त्तिनिवन्घे पाठः ।
न ज्ञानमिदमध्यक्षं परोक्षविषयत्वतः[92]।
__________नोतेस्__________
[92] न ज्ञानमिद.... ....त्वतः ॥ --तं- सं- पं- 433 पृ-, 1590 का- ।
न (+आ) नुमानं च घटते त्रैरूप्येण विशेषतः[93]। ।
__________नोतेस्__________
[93] नऽनुमानं च.... वियोगतः । --त- सं- पं- 433 पृ-, 1490 का- ।
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत् स निश्चितम् ।
न तावदनुमानं च यावत्तद् विषयं न तत्[94]। ।[95]
__________नोतेस्__________
[94] धर्मी धर्म.... .... निश्चितम् । न तद् ॥ --त- सं- पं- 434 पृ-, 1491 का- । [95] न तावदनुमानं.... .... तद् ॥ --त- सं- पं- 434 पृ-, 1491 का- ।
इति ।
ऽयश्चात्र कल्प्यते धर्मी प्रमेयो ऽस्य स एव हि ।
न चानवधृते तस्मिन् तद्धर्मस्यावधारणा[96]। ।[97]
__________नोतेस्__________
[96] न चानवधृते.... .... धारणा ॥ --तं- सं- पं- 434 पृ-, 1492 का- । [97] यश्चात्र कल्प्यते.... ...एव हि । ... वघारणा ॥ --त- सं- पं- 434 पृ-, 1492 का- ।
प्राक् स चेत् पक्षधर्मत्वाद् गृहीतं किं ततः परम्[98]। ।
__________नोतेस्__________
[98] प्राक् स चेत् पक्ष.... .... ततः परम् ॥ --त- सं- पं- 434 पृ-, 493 का- ।
पक्षे धर्मादिभिर्ज्ञातैर् येन स्यादनुमानता[99]।
__________नोतेस्__________
[99] पक्षे धर्मादिभि.... .... मानता ॥ --त- सं- पं- 434 पृ-,1493 का- ।
अन्वयो न च शब्दस्य प्रमेयेण निरूप्यते ।
व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते[100]। ।[101]
__________नोतेस्__________ [100] अन्वयो न च शब्दस्य.... .... निरूप्यते । .... प्रतीयते ॥ --त- स- पं- 434 पृ-, 1494 का- । [101] व्यापारेण हि... .... प्रतीयते ॥ --त- सं- पं- 434 पृ-, 1494 का- ।
यत्र धूमो ऽस्ति तत्रा[प्2अ/9]ग्नेरस्तित्वेनान्वयः स्फुटः[102]।
__________नोतेस्__________
[102] यत्र भूयो ऽस्ति.... ....नान्वयः स्फुटः ॥ -(म्- पाठयुक्) त- सं- पं- 435 पृ-, 1495 का- ।
नत्वेव यत्र शब्दो ऽस्ति तत्रार्थो ऽस्तीति निश्चयः[103]। ।
__________नोतेस्__________
[103] नत्वेन यत्र.... .... निश्चयः ॥ -(वं निश्चितं पाठयुक्) त- सं- पं- 345 पृ-, 1495 का- ।
न तावत् तत्र देशे ऽसौ न तत्काले च गम्यते[104]।
__________नोतेस्__________
[104] न तावत्तत्र.... .... .... गम्यते ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
तस्माच्छब्द (+स्य?) लिङ्गस्य प्रमेयेणानुमागतिः[105]।
__________नोतेस्__________
[105] तस्माच्छब्द.... .... गतिः ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
भवेन्नित्यविभुत्वाच्चेत् सर्वशव्देषु तत् समम्[106]।
__________नोतेस्__________
[106] भवेन्नित्यविभुत्वा.... .... समम् ॥ --त- सं- पं- 435 पृ-, 1496 का- ।
तेन सर्वत्र दृष्टत्वाद् व्यतिरेकस्य चागतिः[107]। ।
__________नोतेस्__________
[107] तेन सर्वत्र.... ....चागतिः--त- सं- पं- 43 पृ-, 1497 का- ।
सर्वशव्दैर् अशेषार्थप्रतिपत्तिः प्रसज्ज्य[108]ते[109]।
__________नोतेस्__________
[108] hya- iva mūlapāṭhe | fn 2 dieser seite ohne angabe im text ! [109] sarvaśabdairaśeṣā.... .... prasajjyate || --ta- saṃ- paṃ- 435 pṛ-, 1497 kā- |
तस्मादननुमानत्वं शाव्दे प्रत्यक्षवद् भवेत्[110]। ।
__________नोतेस्__________
[110] तस्मादननुमान.... ... भवेत् ॥ त- सं- पं- 435 पृ-, 1497 का- ।
त्रैरूप्यावहितत्वेन तादृग्विषयवर्जनात् ।
अग्निहोत्रादिवचनादकस्मज् ज्ञानजन्मनः[111]। ।[112]
__________नोतेस्__________
[111] अग्निहोत्रादि... ... जन्मनः ॥ -(तः) त- स- पं- 436 पृ-, 1499 का- । [112] त्रैरूप्यावहित.... .... वर्जनात् । .... जन्मनः ॥ --त- सं- पं- 435 पृ-, 1497 का- ।
तत्प्रमाणत्वमप्यस्य निराकर्त्तुं न पार्यते[113]। ।
__________नोतेस्__________
[113] तत्प्रमाणत्व.... .... पार्यते ॥ त- सं- पं- 436 पृ-, 1499 का- ।
इति ।
[114]परोक्षार्थसादृश्यपरिच्छेदस्तूपमानम् । तच्च द्विविधमेव ।
__________नोतेस्__________
[114] स्ह्: 21.
सादृश्यात्मकम् ज्ञानात्मकञ्च । तदत्र परिदृश्यमानगवयगतसादृश्यं वस्तुभूतम् ।
सादृश्यस्य च[115]वस्तुत्वं न शक्यमपवादितुम् ।
__________नोतेस्__________
[115] न इव मूलपाठे ।
भूयो ऽवयवसामान्ययोगो जात्यन्तरस्य तत् ।
तस्माद् यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् ।
प्रमेयमुपमानस्य साद्रश्यं वा तदाश्रितम्[116]।[117]
__________नोतेस्__________
[116] तस्माद् यत् स्मर्यते... ... विशेषितम् । ... श्रितम् ॥ --त- सं- पं- 819 पृ-, श्लो- व- षा- 444 (तदन्वितम् पाठयुक्) [117] प्रमेयमुपमानस्य.... ...श्रितम् ॥ -श्लो- वा- प- 444; त- सं- पं- 819 पृ-, 849 पृ-, (तदन्वितम् पाठयुक्)
गां दृष्ट्वायमरण्यान्यां गवयं वीक्षते यदा ।
भूयो ऽवयवसामान्यभाजं वर्त्तुलकण्ठ[118]कम्[119]। ।[120]
__________नोतेस्__________
[118] ण्ट- इव मूलपाठे । [119] गां दृष्ट्वाय ... ....यदा । ... कण्टकम् ॥ -त- सं- पृ- 444 पृ-, 152 का- । [120] भूयो ऽवयव.... .... कण्ठकम् ॥ -त- सं- पं- 444 पृ-, 1528 का- ।
तदास्य गवये ज्ञातरूपमात्राववोधकम् ।
प्रत्यक्षमेव यच्चापि विशेषणविकल्पकम्[121] । ।[122]
__________नोतेस्__________
[121] तदास्य गवयेऽज्ञान... .... बोधकम् । .... कल्पकम् ॥ -त- स- पं- 444 पृ-, 1529 का- । [122] प्रत्यक्षमेव पञ्चापि.... विकल्पकम् ॥ --त- सं- पं- 444 पृ-, 1529 पृ- ।
गवा सदृशरूपो ऽयं पशुरित्येतदी [प्2ब्/1/9] दृशम्[123]।
__________नोतेस्__________
[123] गवा सदृश .... .... दीदृशम् ॥ --त- सं- प- 444 पृ-, 1530 का- ।
अक्षव्यापारसद्भावे जातिः प्रत्यक्षमिष्यते[124]।
__________नोतेस्__________
[124] अक्षव्यापारसद्भावे... ... मिष्यते । त (त्त्व) स (ङ्ग्रह) प (ञ्जिका) 4445 पृ-, 1529 का- ।
तत्र यद्यपि गां स्मृत्वा तज्ज्ञानमुपजायते ।
सन्निधेर्गवयस्थत्वाद् भवेदिन्द्रियगोचरः[125]।[126]
__________नोतेस्__________
[125] तत्र यद्यपि गां... .... जायते । ... गोचरः ॥ त- सं- पं- 444 पृ-, 1541 का- । [126] सन्निधे.... .... .... गोचरः ॥ --त- सं- पं- 444 पृ-, 1531 का- ।
सामान्यं च द्विसम्बद्धं प्रत्येकं च समाप्यते ।
प्रतियोगिन्यदृष्टेऽपि यस्मात्तदुपलभ्यते[127]। ।[128]
__________नोतेस्__________
[127] प्रतियोगिन्य.... .... लम्यते ॥ --त- सं- पं- 445 पृ-, 1532 का- । [128] सामान्यं च द्विसम्बद्ध.... समाप्यते । .... लभ्यते ॥ -(ऽन्यवद्धि सादृश्यंऽपाठयुक्) त- सं- पं- 445 पृ-, 1532 का- ।
प्रत्यक्षेणावबुद्धेऽपि सादृश्ये ग[129]वि च स्मृते ।
__________नोतेस्__________
[129] व इव मूलपाठे ।
विशिष्टस्यान्यतो ऽसिद्धेरुपमायाः प्रमाणता[130] । ।[131]
__________नोतेस्__________
[130] प्रत्यक्षेणावबुद्धे.... .... स्मृते । .... प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1526 का- । [131] विशिष्टस्यान्यतो... ... प्रमाणता । --त- सं- पं- 446 पृ-, 1536 का- ।
प्रत्यक्षेऽपि यथा देशे स्मर्यमाणे च पावके ।
विशिष्टविषयत्वेन नानुमानाप्रमाणता[132]।[133]
__________नोतेस्__________
[132] प्रत्यक्षेऽपि यथा.... .... पावके । .... प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1537 का- । [133] विशिष्टविषयत्वेन.... ....प्रमाणता ॥ --त- सं- पं- 446 पृ-, 1537 का- ।
[134]नहि प्रत्यक्षताप्यस्य विदूरस्योपपद्यते ।
__________नोतेस्__________
[134] स्ह्: 22.
इन्द्रियार्थाभिसम्बन्धव्यापारविरहात् तथा[135]।[136]
__________नोतेस्__________
[135] इन्द्रियार्थाभि.... .... .... तथा ॥ त- स- पं- 446 पृ-, 1538 का- । [136] न हि प्रत्यक्षता.... .... .... पद्यते । .... तथा ॥ --त- सं- पं- 446 पृ-, 1538 का- ।
त्रैरूप्यानुपपत्तेश्च न तस्याप्यनुमानता ।
पक्षधर्मादिनैवात्र कथञ्चिदपि युज्यते[137]। ।[138]
__________नोतेस्__________
[137] त्रैरूप्यानुप.... ....प्रमाणता । .... युज्यते ॥ --त- सं- पं- 436 पृ-, 1539 का- । [138] पक्षधर्मादि.... .... युज्यते । --त- सं- पं- 446 पृ-, 1539 का- ।
प्राक् प्रमेयस्य सादृश्यं तद्धर्मत्वेन गृह्यते ।
गवये गृह्यमाणं च न गवामनुमापकम्[139]। ।[140]
__________नोतेस्__________
[139] गबये गृह्य.... .... मापकम् ॥ --त- सं- पं- 443 पृ-,1540 का- । [140] प्राक् प्रमेयस्य.... .... गृह्यते । .... मापकम् ॥ --त- सं- पं- 446 पृ-, 1540 का- ।
प्रतिज्ञार्थैकदेशत्वात् गोगतस्य न मानता[141]।
__________नोतेस्__________
[141] प्रतिज्ञार्थैकदेश.... ....लिङ्गता । --त- सं- पं- 447 पृ-, 1541 का- ।
गव (यश्चाप्यसम्बन्धान्न गोलिङ्गत्वमृच्छति[142]। ।
__________नोतेस्__________
[142] गवय.... .... .... मृच्छति ॥ -त- सं- पं- 447 पृ-, 1541 का- ।
[नचा[143]]) प्रमाणं तज्ज्ञानमज्ञानार्थप्रकाशनात्[144]। ।
__________नोतेस्__________
[143] ना- मू- पा- । [144] न चाप्र.... .... .... नात् ॥ -तं- सं- पं- 447 पृ-, 1542 का- ।
गवयालोकनात् पूर्वं तत्सादृश्यानवग्रहात्[145]। ।
__________नोतेस्__________
[145] गवयालोक... .... .... ग्रहाद् ॥ -त- सं- पं- 447 पृ-, 1542 का- ।
इति ।
(प्रसिद्धसाधर्म्य (-आत् ?) संज्ञासंज्ञिसम्बन्धस्य साधन)[146]मुपमानमिति प्रसिद्धेन गवा साधर्म्यं सादृश्यलक्षणं यस्य स प्रसिद्धसाधर्म्यो गवयः ।
__________नोतेस्__________
[146] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
तस्मा [प्2अ/2/8] (दिति)[147]ल्यब्लोपे पञ्चमी । तमेव हेतुं कृत्य (त्वा?) साध्यो यः संज्ञासंज्ञिसम्बन्धः । तस्य साधनं सिद्धिर्या प्रतिपत्तिः सोपमानमिति । अनेनैतदुक्तं भवतिः ---
__________नोतेस्__________
[147] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
"गौरिव गवयऽ इ[148](ति वृद्धस्या[149]) ऽऽदेशवाक्यश्रवणात् अनेन गवा सदृशे प्राणिनि परोक्षेऽविशेषतो गवयसम्बन्धो येन प्रथमं प्रतिपन्नः स्यात् ।
__________नोतेस्__________
[148] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् । [149] मूलेऽपाठ्यमपि यथाकथञ्चित् पठितम् ।
पश्चादरण्यं गत्वा गवयदर्शना (द् वृद्धाति)[150]देशवाक्यं स्मृत्वा च एवं प्रतिपद्यतेः ---
__________नोतेस्__________
[150] इदमप्यपाठ्यं कथञ्चित् पठितम् ।
ऽअयमेव स प्राणी गवयशब्दवाच्यः यो मया पूर्वमविशेषतो गवयसंज्ञकः प्रतिपन्नऽ इति ।
[151]पूर्वं ह्यविशेषतः संज्ञासम्बन्धप्रतिपत्तिरा[152]सीत् । इदानीं तया व्यक्तिविशेषविषयनिष्ठा संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः[153]प्रजायते ।
__________नोतेस्__________
[151] स्ह्: 23. [152] शो- - मू- पा- । [153] पत्तित---मू- पा- ।
सोपमानं प्रमाणान्तरम् ।
अन्ये पुनरमुमेवार्थमाहुः ---
आगमाहितसंस्कारस्मृत्यपेक्षात् साधर्म्यज्ञानात् समाख्यासम्बन्धप्रतिपत्तिरुपमानम् । ऽगौरिव गवयऽ इत्यतिदेशवाक्यमागमः । तेनाहितो ज्ञानजो ज्ञानहेतुश्चेत्येवंलक्षणो यः संस्काराख्यो गुणः, ततो यातिदेशवाक्यात् स्मृतिरुपजायते, अरण्ये गवयदर्शनात्, तामपेक्षते यत्, साधर्म्यज्ञानं तत्, तथोक्तम् । समाख्या = संज्ञाशब्द इतियावत् । तस्याः[154]सहार्थन यः सम्बन्ध[155]स्तस्य प्रतिपत्तिरुपमानम् ।
__________नोतेस्__________
[154] स्या - - मू- पा- । [155] ऽधःस्त---मू- पा- ।
आह च ---
श्रुता[प्2ब्/2/8]तिदेशवाक्यस्य समानार्थोपलम्भने ।
संज्ञासम्बन्ध (+योः?) ज्ञानमुपमा कैश्चिद् इष्यते[156]। ।[157]
__________नोतेस्__________
[156] श्रुतातिदेश... .... .... लभ्यते । ....इष्यते ॥ -त- सं- पं- 451 पृ-, 1563 का- । [157] संज्ञा... ... ....इष्यते -त- सं- पं- 451 पृ-, 1563 का- ।
इति ।
दृष्टो श्रुतो वार्थो ऽन्यथा नोपपद्यतऽ इत्यदृष्टकल्पनार्थापत्तिः ।
प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् ।
अदृष्टं कल्पयेदन्यं सार्थापत्तिरुदाहृता[158]। ।[159]
__________नोतेस्__________
[158] अदृष्टं कल्पयेदन्यं... .... रुदाहृता ॥ त- स- पं- 456 पृ-, 1587 का- । [159] प्रमाणषट्कवि.... .... भवन् । .... हृता । । -त- सं- पं- 456 पृ-, 1587 का- ।
तत्र प्रत्यक्षतो ज्ञाताद् दाहाद् दहनशक्तता ।
वह्नेरनुमिता [त्सूर्ये मानात्] तच्छक्तियोगिता[160]। ।[161]
__________नोतेस्__________
[160] तत्र प्रत्यक्षतो.... .... शक्तता । योगिता ॥ --त- सं- पं- 457 पृ-, 1588 का- । [161] बह्वेरनुमिता (त्सूर्ये).... .... योगिता ॥ --त- सं- पं- 457 पृ-, 1588 का- ।
शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः ॥
अपूर्वास्ताश्च गम्यन्ते सम्बन्धग्रहणाद् ऋते[162]। ।[163]
__________नोतेस्__________
[162] अपूर्वास्ताश्च गम्यन्ते... .... दृते ॥ --त- स- पं- 457 पृ-, 1589 का- । [163] शक्तयः सर्वभावानां.... ....साधनाः ॥ .... दृते ॥ --त- सं- पं- 457 पृ-, 1589 का- । 620 पृष्ठे च । (पूर्वार्धमात्रम्) 751 पृ-, 2840 का- ॥ 813 पृष्ठेऽपि ।
[164]नचासां पूर्वसम्बन्धो न चान्यो गृह्यतेऽधुना।
__________नोतेस्__________
[164] स्ह्: 24.
कार्यैः सह यतः स्यातां पक्षधर्मान्वयाविह[165]। ।[166]
__________नोतेस्__________
[165] कार्यैः सह यतः.... ....विह ॥ --त- स- पं- 457 पृ-, 1560 का- । [166] न चासां पूर्व.... ....ऽधुना । ....विह ॥ --तं- सं- पं- 457 पृ-, 1590 का- ।
श्रोत्रादिशक्तिपक्षे वा यावान् हेतुः[167]प्रयुज्यते ।
__________नोतेस्__________
[167] ऽस्या इति लिखित्वा छिन्नम् मूलपाठे । सर्वो ऽसावाश्रयासिद्धो धर्मासिद्धः प्रयुज्यते ॥[168][169] __________नोतेस्__________
[168] श्रोत्रादिशक्तिपक्षे... .... युज्यते । ....प्रयुज्यते । --त- सं- पं- 457 पृ-, 1561 का- । [169] सर्वो ऽसावाश्रया.... .... प्रयुज्यते --त- सं- पं- 457 पृ-, 1591 का- ।
ऽपीनो दिवा न भुङ्क्ते चेत्येवमादिवचःश्रुतौ ॥
रात्रिभोजनविज्ञानं श्रुतार्थापत्तिरुच्यते[170] । ।[171]
__________नोतेस्__________
[170] पीनो दिवा न.... .... श्रुतौ । .... रुच्यते ॥ --त- सं- पं- 457 पृ-, 1495 का- । [171] रात्रिभोजनविज्ञानं.... ....रुच्यते --त- सं- पं- 457 पृ-, 1592 का- ।
न रात्र्यादिपदार्थश्च दिवावाक्येऽवगम्यते ।
न दिवादिप[172]दार्थानां संसर्गो रात्रिभोजनम्[173]। ।[174]
__________नोतेस्__________
[172] ऽष्ठऽइति लिखित्वा छिन्नमस्ति मूलपाठे । [173] न दिवादि.... .... भोजनम् ॥ --त- सं- पं- 458 पृ-, 1593 का- । [174] न रात्र्यादि.... .... .... गम्यते । ....भोजनम् ॥ --त- सं- पं- 458 पृ-, 1593 का- ।
न भेदो येन तद्वाह्यं तस्य स्यात् प्रतिपादकम् ।
अन्यार्थव्यापृ[175]तत्वाच्च न द्वितीयार्थकल्पना[176]। ।[177]
__________नोतेस्__________
[175] ऽदिऽमू- पा- । [176] अन्यार्थव्यापृतत्वा... .... कल्पना ॥ --त- स- पं- 458 पृ-, 1594 का- । [177] न भेदो येन.... .... पादिकम् । .... कल्पना ॥ --त- सं- पं- 458 पृ-, 1594 का- ।
तस्माद् वाक्यान्तरेणायं बुद्धिस्थेन प्रतीयते ।
तेनानागमिकत्वेऽपि यत्तद् वाक्यं प्रतीयते[178]। ।[179]
__________नोतेस्__________
[178] तस्माद् वाक्या.... ....प्रतीयते । ....प्रतीयते ॥ --त- सं- पं- 458 पृ-, 1595 का- । [179] तेनानागमिक.... .... प्रतीयते । ....त- सं- पं- 458 पृ-, 1595 का- ।
प्रमाणं तस्य वक्तव्यं प्रत्यक्षादिषु यद् भवेत्[180]।
__________नोतेस्__________
[180] प्रमाणं तस्य.... ...यद् भवेद् ॥ --त- सं- पं- 158 पृ-, 1596 का- ।
नत्वन्नुचारि [प्2अ/3/7] ते वाक्ये प्रत्यक्षं तावदिष्यते[181]। ।
__________नोतेस्__________
[181] न त्वनुच्चारिते.... ....दिष्यते ॥ --त- सं- पं-, 458 पृ-, 1596 का- ।
नानुमानं नहीदं हि दृष्टं तेन सह क्वचित्[182] ।
__________नोतेस्__________
[182] नानुमानं न हीदं.... .... क्वचित् । --त- सं- पं- 458 पृ-, 1597 का- ।
यदि त्वनुपलब्धेऽपि सम्बन्धे लिङ्गमिष्यते ॥
तदुच्चारणमात्रेण सर्ववाक्यमतिर्भवेत्[183]।[184]
__________नोतेस्__________
[183] तदुच्चारण.... .... भवेत् ॥ --त- सं- पं- 438 पृ-, 1598 का- । [184] यदित्वनुपलव्धे .... मिष्यते । र्भवेत् ॥ --त- सं- पं- 458 पृ-, 1597 का- ।
सम्बन्धरहित्वेन नान्यतस्तद् विशिष्यते ।
गवयोपमिता या गौस्तज्ज्ञानग्राह्यशक्तता[185]। ।[186]
__________नोतेस्__________
[185] गबयो .... ... .... शक्ता ॥ --त- सं- पं- 459 पृ-, 1699 का- । [186] सम्वन्धरहितत्वेन.... .... शिष्यते । .... शक्ता --त- सं- पं- 458 पृ-, 1598 का- ।
उपमावलसम्भूतसामर्थ्ये न प्रतीयते ।
अभिधा नान्यथा सिद्ध्येदिति वाचकशक्तताम्[187]।[188]
__________नोतेस्__________
[187] अभिधानान्यथा.... ....शक्तताम्। । --त- स- पं- 459 पृ-, 1600 का- । [188] उपमाबल.... .... .... प्रतीयते । ... शक्तताम् ॥ त- स- पं- 459 पृ-, 1599 का- ।
अर्थापत्त्यावगम्यैव तदनन्यगतेः पुनः। ।
[189]अर्थापत्त्यन्तरेणैव शब्दनित्यत्वनिश्चयः[190][191]।
__________नोतेस्__________
[189] स्ह्: 25. [190] अर्थापत्त्यावगम्यैव.... .... पुनः । .... निश्चयः ॥ -त- सं- पं- 459 पृ-, 1600 का- । [191] अर्थापत्त्यन्तरेणैव ........ निश्चयः। । --त- सं- प- 459 पृ-, 1601 का- ।
अनित्यो हि न सङ्केतव्यवहारानुवृत्तिभाग्[192]। ।
__________नोतेस्__________
[192] अनित्यो हि न... ... भाग् ॥ -त- स- पं- 459 पृ-, 1601 का- ।
इति ।
"प्रमाणाभावनिर्णीतचैत्राभावविशेषितात् ।
गेहाच्चैत्रबहिर्भावसिद्धिर्या त्विह वर्णिता[193]। ।[194]
__________नोतेस्__________
[193] गेहाच्चैत्र.... ... बर्णिता। -त- सं- पं-, 460 पृ-, 1602 का- । [194] प्रमाणाभाव.... ....विशेषितात् । .... वर्णिता। । -त- सं- पं- 460 पृ-; 1602 का- ।
तामभावोत्थितामन्यामर्थापत्तिमुदाहरेत् ।
पक्षधर्माद्यनङ्गत्वाद् भिन्नैषाप्यनुमानतः[195]। ।[196]
__________नोतेस्__________
[195] तामभावो.... .... ....हरेत् । .... नुमानतः। । -त- सं- पं- 460 पृ-, 1603 का- । [196] पक्षधर्माद्य.... ....नुमानतः । -त- सं- पं- 460 पृ-, 1303 का-
बहिर्देशविशिष्टेऽर्थे देशे वा तद् विशेषिते !
प्रमेये यो गृहाभावः पक्षधर्मस्त्वसौ कथम्[197]? ॥[198]
__________नोतेस्__________
[197] प्रमेये यो गृहाभावः.... .... कथम्। । -त- सं- पं- 460 पृ-, 1604 का- । [198] बहिर्देशविशि.... ....ते । ....किम्। । -त- सं- पं- 460 पृ-, 1604 का- ।
जीवतश्च गृहाभावः पक्षधर्मो न[199]कल्प्यते ।
__________नोतेस्__________
[199] ऽन विक-ऽमू- पा- ।
तत्संवित्तिबहिर्भावं न चाबुद्ध्वोप[200]जायते[201]।[202]
__________नोतेस्__________
[200] ऽजायऽइति द्विवारं लिखितं मूलपाठे । [201] जीवतश्च गृहाभाब.... कल्प्यते । .... जायते। । -त- सं- पं- 460 पृ-, 1605 का- । [202] तत्संवित्ति.... .... जायते ॥ -त- सं- पं- 460 पृ-, 1605 का- ।
गेहाभावस्तु यः शुद्धो विद्यमानत्ववर्जितः ।
स मृतेष्वपि दृष्टत्वाद् बहिर्वित्तेर्न साधकः[203]। ।[204]
__________नोतेस्__________
[203] गेहाभावस्तु .... ...वर्णितः- । ... साघकः ॥ त- सं- पं- 460 पृ-, 1606 का- । श्लो- वा- । [204] स मृतेष्वपि........ साधकः । -त- सं- पं- 460 पृ-, 1606 का- ।
यत्र चतसृभिः शक्तिरेव प्रमीयते । एकया शब्दनित्यत्वम्, अपरया बहि (---:?) स्थितं द्रव्यमेवेति पिण्डार्थः ।
प्रमाण [प्2ब्/3/7] पञ्चकं यत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता[205] । ।[206]
__________नोतेस्__________
[205] प्रमाणपञ्चकं.... .... जायते । .... प्रमाणता । । --श्लो- वा- अभाव, 1, 2, 11; हे- वि- टी- अर्चटेनोद्धृतम् 200 पृ-, ।; त- सं- पं- 470 पृ-, 1648 का- ॥
[206] वस्तुसत्ताव.... ....प्रमाणता ॥ -श्लो- वा- अभाव, 1,2,11 । । -त- सं- पं- 470 पृ-, 1648 का- ।
इह सर्वमेव वस्तु सदसद्रूपेण द्व्यात्मकमिति ।
"प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव इष्यते ।
सात्मनः परिणामो वा विज्ञानं वान्यवस्तुनि[207] । ।[208]
__________नोतेस्__________
[207] प्रत्यक्षादेरनु.... .... इष्यते । ....वस्तुनि ॥ --श्लो- वा- अभाव- 1, 2, 11; हे- वि- टी- अर्चटेन उद्धृतम् 190 पृ- ॥ त- सं- पं- 471 पृ-, 1649 का- । [208] सात्मनः परि.... ....वस्तुनि । । -श्लो- वा- अभाव-, 1, 2, 11, अर्चटेन ऽपि 190 पृ-, उद्धृतम्, त- सं- पं- 471 पृ-, 1649 का- /473 पृ- अपि ।
प्रमाभावात्तु वस्तूनामभावः सम्प्रतीयते ।
चतुर्धा च विभिन्नो ऽसौ प्राग[209]भावादिभेदतः[210] । ।[211]
__________नोतेस्__________
[209] प्राग्भा- मू- पा- । [210] चतुर्द्धा च विभिन्नो ऽसौ भेदतः । -त- सं- पं- 401 पृ-, 1650 का- । [211] प्रमाभावात्तु.... .... तीयते । .... भेदतः । । -त- सं- पं- 481 पृ-, 1650 का- ।
[212]क्शीरे दध्यादि यन्नास्ति प्रागभावः स कथ्यते ।
__________नोतेस्__________
[212] स्ह्: 26.
नास्तिता पयसो दघ्नि प्रघ्वंसाभाव लक्षणम्[213] । ।
__________नोतेस्__________
[213] क्षीरे दध्यादि.... .... कथ्यते । .... लक्षणम् ॥ -श्लो- वा- 473 । -त- स- पं- 292 पृ- । त- सं- पं- 471 पृ-, 16451 का- ।
गवि यो ऽश्वाद्यभावस्तु सो ऽन्यो ऽन्याभाव उच्यते ।
पररूपं न तस्यास्ति नास्ति ते नात्मना ततः[214] । ।[215]
__________नोतेस्__________
[214] गवि यो ऽश्वा ........ उच्यते । .... ततः ॥ त- सं- पं- 292 पृ- । त- सं- पं- 471 पृ-, 1652 का- । श्लो- वा- पं- 473 । [215] पररूपं न.... .... ....ततः ॥ -त- सं- पं- 471 पृ-, 1652 का- ।
शिरसो ऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ।
शशशृङ्गादिरूपेण सो ऽत्यन्ताभाव उच्यते[216]। ।[217]
__________नोतेस्__________
[216] शशशृङ्गादिरूपेण.... .... उच्यते ॥ -त- सं- पं- 292 पृ- ।, -त- सं- पं- 481 पृ-, 1653 का- । [217] शिरसो ऽवयवा.... ....वर्जिताः । ....उच्यते -त- सं- पं- 392 पृ-; -त- सं- पं- 472 पृ-, 1652 का- ।
न च स्याद् व्यवहारो ऽयं कारणादिविभागतः ।
प्रागाभावादिभेदेन नाभावो विद्यते यदि[218] । ।[219]
__________नोतेस्__________
[218] न च स्याद्.... .... भागतः । .... यदि ॥ --त- सं- पं-, 482 पृ-, 1654 का- । [219] प्रागभावादि.... ....यदि ॥ --त- सं- पं-, 472 पृ-, 1654 का- ।
न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ।
कार्यादीनामभावः को भावो यः कारणादि नः[220]। ।[221]
__________नोतेस्__________
[220] न चावस्तुन.... .... .... वस्तुता । ....तः । । श्लो- वा अभाव, 18; त- सं- पं- 292 पृ-, हे- वि- टी- अर्चटेनोद्धृतम् 188 पृ-, त- सं- पं- 472 पृ-, 1655 का- । [221] कार्यादीनामभावः.... .... नः ॥ -त- सं- पं- 472 पृ-, 1655 का- ।
यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो (?) यतस्त्वयम् ।
तस्माद् गवादिवद् वस्तु प्रमेयत्वाच्च गम्यताम्[222]। ।
__________नोतेस्__________
[222] तस्माद् भावादि... ...गम्यताम् ॥ -त- सं- पं- 472 पृ-, 1656 का- ।
एतदयुक्तम् । भिन्नविषयत्वात् । लक्षण[223]भेदाद्धि भवन्तः प्रमाणानां नानात्वं प्रतिपन्नाः । वयं पुनर् द्वैविध्यात् प्रमेयस्य प्रमाणद्वैविध्यमवबुद्ध्यामहे ।
__________नोतेस्__________
[223] ऽणेऽलिखित्वा एऽमात्रा छिन्ना मूलपाठ ।
तद् यदि लक्षणभेदान् नानात्वम् । षोढा न स्यात् प्रौढानाम् अपि प्रमाणाभ्यां [प्2अ/4 6] व्यवस्था । आद्यमध्यान्ततया सम्मतस्वभावेषु भावेषु प्रथमं दृष्ट्बा द्वितीयदर्शनादाद्यम्; प्रथमान्तयोर् विलोकनान् मध्यम् ; प्रथमम् अध्ययोरवधारणादनन्तरं तृतीयदर्शनाद् अन्त्यव्यवस्था । एष्वपि च यत ज्ञानमुत्पद्यते, तत्राप्येवमभिधातुंशक्यतेः---
"तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्त्तितम् ।
अदृष्टं कारणारब्धं प्रमाणं लोकसम्मतं[224] । ।[225]
__________नोतेस्__________
[224] अदृष्टं कारणारब्धं... ... संमतम् ॥ प्र- वा- भा- 21 पृ- । [225] तत्रापूर्वार्थ.... .... वर्त्तितम् । .. सम्मतम् ॥ -प्र- वा- भा- 21 पृ- ।
उक्तञ्च--- युक्तिमता ।---
[226]"दृश्यात् परोक्षे सादृश्य-धीः प्रमाणान्तरं यदि ।
__________नोतेस्__________
[226] स्ह्: 27.
वैधर्म्यमतिरप्येवं प्रमाणं किं न सप्तमम्?"
तस्मा ... ... लक्षणभेदग्रहः । प्रमेयभेदे तात्पर्ये ... ... ... ...।
अर्थक्रियार्थिनां हि व्यवहर्तृणाम् उपयुज्यमाने न मानेन प्रवृत्तिविषयःशक्यप्रापणो नियतो ऽर्थक्रियासमर्थः प्रत्यक्षो ऽप्रत्यक्षश्च प्रमातव्यो विषयः । ततश्च प्रत्ययितप्रदिष्टात् कर्तृविधुरिताच्च वाक्यात् त्रिप्रमाणकशक्तिलक्षणसम्बन्धाद् बृद्धान्तरेण सामान्यात्मना ।
प्रतिपद्यमानः परोक्षो ऽर्थः त्रिरूपलिङ्गप्रत्यक्षो विषये स[227]त्यमन्तर्भवति ।
__________नोतेस्__________
[227] स + त्यमध्येऽप्रऽलिखित्वा छिन्नमिव मूलपाठे ।
परम्, कर्त्तुराप्तत्वमकर्तृकत्वं त्रिप्रमाणकशक्तिलक्षणसम्बन्धश्च तीर्थसार्थप्रार्थनासहस्राणामप्यविषयः ।
तथा हि ---
आप्त (प्2ब् 4/6) त्वं दुर्वधानम् । नावधानार्हञ्चाकर्त्तृकत्वम् ।
सकर्त्तृकत्वसाधनसम्भवात् । ऽशक्तिवादमयो ... ... ... च कार्यमर्जयितुम् ऊर्जस्वी यः कश्चिद्भावऽ इति प्रतिपादयिष्यते । इत्येवम् आप्तत्वादिविशेषणगणो गुणिभिरवगणिते यथायथमर्थैर् अनान्तरीयकशब्दराशिरवशिष्यते ।
तस्मात् -- तदुत्थः प्रत्ययः प्रतिभाज्ञानवद्यौक्तप्रत्यवमर्शस्वभावन्न भ्रश्यति । तद् उपदर्शितो ऽप्यर्थो भावाभावयोरनिय-(+त?) त्वादशक्यप्रापणो न प्रीणाति व्यवहर्त्तॄन् ।
उपमानस्यापि विषयः परोक्षस्य गोः सादृश्यम्, तदुपाधिर्वा गौः । उभयथापि पूर्वप्रत्यक्षदृष्टस्य गोः सादृश्यं विशेष्यं, विशेषणं वा नार्थक्रियासमर्थो विषयः, सामान्यस्य दूषयिष्यमाणत्वात् । कामिन्याः[228] __________नोतेस्__________
[228] ऽण्याःऽ- मू- पा- । षण्ढरूपवैरूप्यवत् ।[229]पाकाद्य[230]र्थक्रियार्थिनां न प्रार्थनीयः । __________नोतेस्__________
[229] अत्रऽक्तऽलिखित्वा छिन्नम् । [230] अत्रऽर्थऽलिखित्वा छिन्नम् ।
ततश्च सो ऽपि न प्रवृत्तिविषयभेदः सन् प्रमाणमेदमुपकल्प्यति वैलक्षण्या[231]दिज्ञानवत् ।
__________नोतेस्__________
[231] ऽणा- मू- पा- ।
[232]नैयायिकोपमानं तु ---
__________नोतेस्__________
[232] स्ह्: 28.
स्वभावहेतावन्तर्याति । तथा हि -- ऽयः शब्दो यत्र वृद्धैः प्रयुज्यते सो ऽसति वृत्त्य[233]न्तरे तस्य वाचकः । यथा-गोशब्दो गोरर्थस्य । [प्2अ 5/5]
__________नोतेस्__________
[233] वृत्यान्तर- मू- पा- ।
प्रयुज्यते चै[234]ष गवयशब्दो गोसदृशे प्राणिनीति तस्यैव वाचक इति ज्ञानमनुमानमेव ।
__________नोतेस्__________
[234] ऽवैषऽ- मू- पा- ।
षट्प्रकाराप्यर्थापत्तिः सम्बन्धमनादृत्य प्रतिपाद्यानुबन्ध[235]नीति वर्णितम् । कथं चासम्बद्धो ऽर्थो ऽर्थापत्त्या बोद्धव्य इति लब्धवर्णैरैवसुचिरं चिन्तनीयम् ।
__________नोतेस्__________
[235] ऽधऽ- मू- पा- ।
पीनो देवदत्तो ऽकृतरसायनो दिवा न भुङ्क्ते --इति वाक्यं विवक्षायां[236]
__________नोतेस्__________
[236] ऽया- मू- पा- ।
जायते, सा च क्षपाभक्षणविवक्षासध्रीचीना सती पीनादिवाक्यं प्रकल्पयति करणगणप्रेरणया ।
अन्यथा --- ऽपीनो ऽकृतरसायनो दिवेति पदद्वयमनादेयं स्वात् । स्वसन्ताने चैष विवर्त्तो व्युत्पत्तिसमये सम्प्रधारितः । --- अतः, शब्दाद् विवक्षाविशेषानुमितौ ऽनक्तं ऽभुङ्क्तऽ इति वाक्यान्तरे स्थिरमेव विकल्पबुद्धिस्थमर्थान्तरं प्रथयदास्ते ।
प्रयोगदर्शनाभ्यासात् स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवतीति न्यायात् ।
एतेन --- अन्वयवाक्याद् व्यतिरेकवर्णनं व्याख्यातम् ।
तेन ---
"सामर्थ्यमिच्छतः कीत्तेर्नष्टं द्वित्वावधारणम् ।"
इत्यनवधारणाद् गलितम् ।
एवम् ---
[237]जीवन् गृहऽ--- इति पदद्वयोपादानात् ऽजीवन् देवदत्तो गृहे नास्तीऽ ति विवृतम् ।
__________नोतेस्__________
[237] स्ह्: 29.
शेषाप्रशक्त्त्यादौ विवादः ।
अभावः पुनारनुपलबधिः । तद्भावभावानुपल [प्2ब् 5/5]
ब्धीप्रभवाभाव (?) साधनेनानुमानमनन्वयादित्यादिनापि युक्तानुपलब्धीतरकर्चचिते व्यवहारसाधनादनुमानम् इति ।
तदेवम् ---
समर्थनियतशक्यप्रापणप्रमेय --- प्रतिबन्धमात्रेण प्रामाण्यमात्रमत्रव्याप्तम् । तद्भेदेन च तद्भेदः । ततो यः प्रत्ययः समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धो न भवति, न स प्रमाणम् ।
तद् यथा । --- शरदिन्दुकुन्दकमनीयकान्तौ कम्बुबिम्बे जाम्बूनदद्रवदिग्धद्रव्यप्रतिस्पर्द्धी पीतप्रतिभासप्रत्ययः । न भवन्ति च विवादाध्यासिताः[238] __________नोतेस्__________
[238] ऽतःऽ- मू- पा- ।
समर्थनियतशक्यप्रापणप्रमेयप्रतिबद्धाः शब्दोपमाना[239]
__________नोतेस्__________
[239] ऽनो ऽर्था- मू- पा- ।
ऽर्थापत्तिप्रत्ययाः ।
न चायं व्यापकानुपलव्धो (!) हेतुः ।
पूर्वप्रतिबन्धप्रति[240]पादितप्रमाणवृत्त्यासिद्धाध्यासितः । नापि प्रचण्डनक्तञ्चरचक्र-चक्रने (?)वानैकान्तिकत्वेनाक्रान्तपौरुषः ।
__________नोतेस्__________
[240] ऽप्रदिऽ- मू- पा- ।
प्रामाण्यस्य प्रमेयसम्बद्धत्वं व्यापकमन्वयव्यतिरेकाभ्यां निर्णीतम् । अतस् तदधीनं तद्द्वयात्मकत्वं शङ्क्येत ? नापि विरुद्धतया सार्धमयमर्हरूपो (?) वस्तुम् । सपक्षे वीक्षणात् ।
ननु भवानर्हति द्रव्यदेशी यो विद्यावैदग्घ्यप्रसादः !
ऽशाब्दोपमानादि न प्रमाणमिऽति चार्वाकचर्वितमेवार्चिष्मता चर्वितम् !
इदं तु निरोधबोधसर्वस्वम् । स्वप्रत्यक्षो ऽर्थः सम्बन्धाद [प्2अ/4 6]
न्यस्यात्मस्वस्वानुबन्धिना स्वभावेन प्रमेयतामलमात्मसात कर्त्तुम् ।
[241]सकलकालकलाकलापव्यापिना च स्वभावेन सम्बन्धावबोधः कार्त्स्न्यं[242]च देशानामधिगम्य प्रसञ्जमानो मनोरथानामप्यविषयः ।
__________नोतेस्__________
[241] स्ह्: 30. [242] ऽत्स्न्यं, - मू- पा- ।
"अवस्थादेशकालानां भेदाद् भिन्नसु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्ल्लभा[243] । ।[244]
__________नोतेस्__________
[243] अवस्थादेश .... .... .... शक्तिसु । । .... दुर्लभा ॥ --वा (क्य) प(दीये) 1/32; हे- वि- टी- अर्चटेनोद्धृतम् 154 पृ-, त- स- 146- का- । [244] भावानामनु.... ....दुर्लभा ॥ हे- वि- टी- अर्चटेनोद्धृतम् 154 पृ-; वा- प- 1/32; त- सं- पं- 426 पृ-, 1460 का- ।
निर्ज्ञातशक्तेरर्थस्य तां तामर्थक्रियां प्रति ।
विशिष्टद्रव्यसम्बन्धे सा शक्तिः प्रतिबध्यते[245] । ।[246]
__________नोतेस्__________
[245] निर्ज्ञातशक्ते.... ..... ..... प्रति । .... प्रतिबध्यते ॥ (विज्ञातऽ पाठयुक्) त- सं- प 426 पृ, 1461 का- । वा- प 1/32 । [246] विशिष्टद्रब्य.... ....प्रतिबध्यते । --त- सं- पं- 426 पृ, 1461 का- , वा- प 1/63 ।
यत्नेनानुमितो ऽप्यर्थः कुशलैरनुमातृभिः[247] ।
__________नोतेस्__________
[247] यत्नेनानु.... ....मातृभिः ॥ वा- प 136; त- सं- पं 426 पृ, 1462 का- ।
अभियुक्तरैरन्यैरन्यथैवो पपाद्यते[248]। ।
__________नोतेस्__________
[248] अमियुक्तरै.... .... .... पाद्यते । - वा- प- 1/34, त- स- पं 426 पृ-, 1462 का- ।
हस्तस्पर्शादिवार्थेन विषमे पथि धायता ।
अनुमानप्रमाणेन विनिपातो न दुर्ल्लभः ॥
अहो ! विद्यप्रसादं ददता त्वया दानातिरा गादात्मवत्ति-विडम्बो ऽपि न संवृतः ?
तथा हि ---
ऽप्रत्यक्षमेवैकं प्रमाणमिऽति ब्रुवता कस्याञ्चिद् ज्ञानव्यक्तौ संवादमुपलभ्य सर्वैव तादृग्विधा प्रमाणमिति परिच्छिन्नापरिच्छिन्न संवादबुद्धिसामान्यविषयो ऽयमुपदेशः कृतः । न चानुमेयतां ताद्रूप्येण नातिक्रमति !
अपि च । ---
ऽयस्मै प्रसादो देयः सो ऽनुमेयः । ततो ऽपि न प्रत्यक्षमेवैकमिऽति नियमः । तथा हि ---
ऽविसंवादा न प्रमाणमिऽति प्रतिषेधनभिदधानो ऽनुपलम्भमेव सम्भावयसि ! प्रामाण्येन त [प्2ब्/4 6] देवम् ---
[249]"प्रमाणेतरसामान्यस्थितेरन्यधियो मतेः ।
__________नोतेस्__________
[249] स्ह्: 31.
प्रमाणान्तरसद्भावप्रतिषेधाच्च कस्यचित् ।"
इति सुभाषितम् ।
यत् पुनरुक्तम् । ---
ऽनिर्ज्ञातशक्तेरिऽत्यादि । तत् किम् असति विधुरप्रत्ययोपनिपात इति विशेषणं सुभगश्रवण ! नाश्रौषीः ? तस्माज् जन्मतन्मात्रानुबन्धाभ्यां स्वभावप्रतिबद्धत्वात् बोधे ऽनाश्वासः परिहार्यः ।
इदं तु बोधसर्वस्वं स्वीकुरु!
ऽअर्थस्यासम्भवे ऽभावात् प्रत्यक्षे ऽपि प्रमाणता ।
प्रतिबद्धस्वभावस्य तद्धेतुत्वं समं द्वयम्[250] । ।[251]"
__________नोतेस्__________
[250] अर्थस्यासम्भवे.... .... प्रमाणता । ....द्वयम् ॥ -प्र- वा- भा- 537 पृ-, 4/417/ 204 ॥ त- सं- पं- 775-6 पृ- । [251] प्रतिबद्धस्वभाव.... .... द्वयम् ॥ -प्र- वा- भा- 537 पृ-, 4/417/ 204 ॥
इति ।
तत्र --- प्रत्यक्षादनुमानस्य भिन्नप्रमाणत्वे प्रयोगः ।
ऽयत् प्रत्यक्षविषयविलक्षणविषयम् न तत् प्रत्यक्षम् ।
यथा --- उत्सूत्रच्छात्रवाञ्छाविकल्पः । प्रत्यक्षविषयविलक्षणविषयं चानुमानम् ।
नेदं साध्यसाधनसौधशिरः शेख[252]रीकृतं कृतास्पदमसिद्धिपद्धत्या । स्वतः स्वविषयविज्ञानजननाशक्तेः परतो गमकानुगसामान्यरूपेण निरूपणात् ।
__________नोतेस्__________
[252] ऽषऽ- मू- पा- ।
[253]अनैकान्तिकत्वेनापि नान्तिकम् उपसर्पता सर्वेणेव निर्दलितदर्पमुक्तलक्षणप्रमेयसम्बन्धमात्रेण प्रमाणत्वसामान्यो व्याप्तिव(म ?)त् । तद्भेदसम्बन्धेन तद्भेदव्याप्तेः ।
__________नोतेस्__________
[253] स्ह्: 32.
विरोधो ऽपि नेदमध्यवस्यत्यवगाहितुम् । सपक्षे वीक्षणादिति ।
[इति] तर्करहस्ये स्वपरप्रमाणसंख्यान्यायनि [प्2अ/3 7][254]र्णयः[प्रथमः] ।
__________नोतेस्__________
[254] ऽस्थवऽ- मू- पा- ।
________________ _________ प्रत्यक्षलक्ष... ________________
[255]तच्चतुर्विधम इन्द्रियज्ञानम् । तदुक्तमनन्तरम् ।
__________नोतेस्__________
[255] स्ह्: 45.
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानम् ।
"इदमित्यादि यज् ज्ञानमभ्यासात् पुरतः स्थिते ।
साक्षत्करणतो भाय्वे प्रत्यक्षं मानसं मतम्[256] । ।[257]
__________नोतेस्__________
[256] इदमित्यादि.... .... .... स्थिते । .... मतम्। । प्र- वा- भा- 305 पृ-, 3/244/443 का- । [257] साक्षात्करणतो.... .... मतम् ॥ - (णतस्तत्तु पाठयुक्) --प्र- वा- भा- 505 पृ-, - 3/244/443 ।
सुखात्मीयो विषयो मनसः । तस्यानन्तरो निरन्तरो विषयो मनस एव । अनेन पुनः पुनराबर्त्तनम् । विषयस्याभ्यास उक्तः ।
तत्सहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेनेति पुरतः स्थितत्वमुक्तं ततो यदुच्यते ---
अभ्यासात् परितो निरस्तविभ्रमातङ्कमनङ्कितमाशङ्काकालुष्येणार्थाविनाभावित्वमध्यक्ष[258]स्य । तन् मानसप्रत्यक्षस्य फलम् ।
__________नोतेस्__________
[258] यत्रऽयालिखित्वा छिन्नं मूलपाठे ।
अन्यदपि षरत्वादि यदुन्मिषति, तदपि मानसस्य गम्यम् ।
सव्यापारे ऽपि चक्षुणि समुत्पद्यमानमपि नेन्द्रियप्रत्यक्षान्तर्भूतम् ।
स्वसंवेदनवत् । स्वसंवेदनवदेन अभ्यासान्वयव्यतिरेकानुकारि नियतस[259]त्वाकारसंसृष्टरूपाकारम्[प्3अ/4] अपि चक्षुर्विज्ञानं प्रत्यक्षान्तरमेव ।
__________नोतेस्__________
[259] ऽशऽलिखित्वा दन्त्यीकरणसङ्केतो मूलपाठे ।
ऽइन्द्रियज्ञानादुत्पद्यतऽ इत्यन्धवधिराद्यभावप्रसङ्गासङ्गतिः ।
स्वविषयान्तरविषयसहकारित्वेनापूर्वार्थग्रहणम् । परस्परोपकारित्वे न च सहकारित्वम् ।
ऽयो हि ज्ञानप्रतिभासात्मनो ऽन्वयव्यतिरेकानुकारयति स प्रत्यक्षऽ इति न्यायात् ।
ज्ञानाकारहेतुरर्थो ग्राह्यः ।
[260]"यस्मिन् स्थिते यदुत्पन्नं स्थित एव विनश्यति ।
__________नोतेस्__________
[260] स्ह्: 46.
तस्मात् तदन्यदेवास्तु भेदलक्षणसम्भवात्[261] । ।[262]
__________नोतेस्__________
[261] तस्मात्तदन्य... ....सम्भवात् ॥ -प्र- वा- भा- 306 पृ-, 3/248/445 । [262] यस्मिन् स्थिते यदु.... ....नश्यति । .... सम्भवात् ॥ -प्र- वा- भा- 306 पृ-, 3/248/445 ॥
वदनप्रतिविम्बं हि वदने सति सम्भवत् ।
पश्चाद् वदन्तो भिन्नं प्रतिभासस्तथात्मनः[263]। ।[264]
__________नोतेस्__________ [263] पश्चाद बद?तो.... .... ....नः ॥ -प्र- वा- भा- 306 पृ-, 3/248/446 । [264] वदनप्रतिबिम्वं.... .... सम्भवत् । .... नः ॥ -प्र- वा- भा- 306 पृ-, 3/248/446 ॥
भिन्नदेशत्वतो भिन्नं प्रतिबिम्बं भवेद् यदि ।
प्रमाणप्रतिपन्नश्च स भेदो मुखबिम्बयोः[265] । ।[266]
__________नोतेस्__________
[265] प्रमाणप्रतिपन्नश्च.... ....बिम्बयोः ॥ -प्र- वा- भा- 306 पृ-, 3/248/447 ॥
[266] भिन्नदेशत्वतो.... .... यदि । .... बिम्बयोः । । -प्र- वा- भा- 306 पृ-, 3/248/447 ॥
प्रतिभासस्य भेदस्य नार्थात् साधनमीक्ष्यते[267]।
__________नोतेस्__________
[267] प्रतिभासस्य.... ....मीक्ष्यते ॥ -प्र- वा- भा- 307 पृ-, 3/248/450
तेनैकतार्थतः सिद्धा नीलादि प्रतिभास[268]योः[269]। ।[270]
__________नोतेस्__________
[268] ऽषऽमू- पा- । [269] तेनैकतार्थतः.... ....ययोः। । -प्र- वा- भा- 306 पृ-, 3/248/448 । [270] प्रतिभासस्य भेदस्य.... ....मीक्ष्यते । ....भासयोः। । -प्र- वा- भा- 307 पृ-, 3/248/448 ॥
यथैव चक्षुरादिभ्य इदानीं प्रतिभासभूः ॥
नीलादेरपि तद्वत् स्याद् योगक्षेमसमत्वतः[271]। ।[272]
__________नोतेस्__________
[271] नीलादेरपि.... ....त्वतः ॥ -प्र- वा- भा- 207 पृ-, 3/248/446 । [272] यथैव चक्षुरादि..... .... भूः । .... मत्वतः ॥ -प्र- वा- भा- 307 पृ-, 3/248/449 ।
यथैव चक्षुरादिभ्यो ऽर्थस्य प्रागेव सम्भवः । प्रति भासस्य तद्वत् स्यादिति नैबेदमीक्षते" ॥[273] __________नोतेस्__________
[273] यथैव चक्षुरादि..... .... सम्भवः । .... मीक्षते ॥ -प्र- वा- भा- 307 पृ-, 3/248/450 ।
तस्माद् यदीष्यते भिन्नो नीलादिः प्रतिभासतः ।
प्राक् सत्त्वं तस्य नीलादेः प्रतिभासादितीष्यताम्[274]। ।[275]
__________नोतेस्__________
[274] तस्माद् यदीष्यते... .... सतः । .... तीष्यताम् ॥ -प्र- वा- भा- 307 पृ-, 3/248/451 । [275] प्राक् सत्त्वं तस्य.... ....तीष्यताम् ॥ -प्र- बा- भा- 307 पृ-, 3/248/451 ।
तदनन्तरमुत्पन्ननीलादि प्रतिभासवत् ।
विज्ञानं ग्राहकं तस्यामित्ररूपग्रहो यथा[276] । ।[277]
__________नोतेस्__________
[276] तदनन्तरमुत्प... ....वत् । ...यथा ॥ -प्र- वा- भा- 307 पृ-, 3/248/452 । [277] विज्ञानं ग्राहकं.... .... ... यथा । -प्र- वा- भा- 307 पृ-, 3/248/453 । (किञ्चित् पाठान्तरेण)
निष्पादितक्रिये किञ्चिद् विशेषमसमादधत् । ?
कार्यानीन्द्रियमन्यद्वा न साधनम् ... ... ... ।
इति साधनन्यायमतिप[प्3ब्/4]तति ॥
सर्वचितचैत्तानामात्मसंवेदनमपि प्रत्यक्षम् । चित्तमर्थमात्रग्राहि ।
चैत्ताः तद्विशेषावस्थाग्राहिणः सुखादयः । सर्वशव्देन विकल्पो ऽपि सङ्गृह्यते ।
शब्दार्थग्राहि यद् यत्रज्ञानं तत् तत्र कल्पना ।
स्वरूपं च न शब्दार्थस्तत्रा...(?)क्षम...(?)ओ ऽखिलम्[278] । ।[279]
__________नोतेस्__________
[278] स्वरूपं च न.... .... ....खिलम् ॥ -(श्च पाठयुक्)- प्र- वा- भा- 331 पृ-, 3/288 का- ॥
[279] शब्दार्थग्राहि यद्... ... कल्पना । .... खिलम् ॥ -प्र- वा- भा- 321 पृ-, 3/288 का- ।
[280]एषामात्मा ग्राह्यग्राहकाकाररूपः संवेद्यते येन । अपरोक्षता कुतो भवति ? येन रूपेण तत्संवेदनमाम्नातम् । तच्च रूपं ग्राह्यग्राहकाकारपरोक्षतानामैक्यम् । यथा च सुखम् । यथा च नीलाद्याकारः । यथा चापरोक्षता । समसमयसम्भवितया नियमेनानुभवानुसारिणां प्रत्यवमर्शेन व्यवद्रियते । तथैक्यमप्येषा ।
__________नोतेस्__________
[280] स्ह्: 47.
तथा च ---
"भि[281]न्नसंवेदनस्यैक्ये यन्नैवं तद् विभेदवत्[282] ।
__________नोतेस्__________
[281] अभिन्न मूलपाठे । [282] भिन्नसंवेदन.... .... विभेदवत् । -प्र- वा- भा- 325 पृ-, 3/587 का- ।
सिध्वेदसाधनत्वे ऽस्य न सिद्धं भेदसाधनम्[283]। ।
__________नोतेस्__________
[283] सिद्ध्येदसाधनत्वे.... ....साधनम् ॥ -प्र- वा- भा- 325 पृ-, 3/287 का- ।
भासमानै स्वरूपेण पीडा दुःखं स्वयं यदा ।
न तदालम्बनं ज्ञानं[284]न तदेवं प्रसज्यते[285]। ।[286]"
__________नोतेस्__________
[284] यत्रऽतऽलिखित्वा छिन्नं मूलपाठे । [285] न तदालम्बनं.... .... प्रयुज्यते ॥ -प्र- वा- भा- 441 पृ-, 3/459 का- । [286] भासमानं स्व.... .... यदा । .... प्रयुज्यते ॥ --वा- 130 पृ-; प्र- वा- वृ- 2/459; प्र- वा- भा- 441 पृ-, 3] 459 का- ।
इति ग्रन्थो विवृतः ।
तदेव च योग्यत्वमुच्यते । यतश्चक्षुरात्लोकालम्बनसमनन्तरप्रत्ययाज् ज्ञायमानमेव सुखमपरोक्षं जायते । यथा जायनान एवालोको ऽनन्धकारः ।
उक्तं च ---
"प्रकाशमानस्तादात्म्यात् स्षरूपस्थ प्रकाशकः ।
यथा प्रकाशो ऽभिमतस्तथा धीरात्मवेदिनी[287] । ।"[288]
__________नोतेस्__________
[287] प्रकाशमानस्तादा.... .... प्रकाशकः । .... वेदिनी ॥ -प्र- वा- भा- 353 पृ-, 3/33- का- । [288] यथा प्रकाशो ऽभिमतः .... रात्मभेदिनी । -प्र- वा- भा- 353 पृ-, 3, 330 का- ।
मित्रपादाश्च ---
ऽपरव्यापारवारणमिऽत्याहुः ।
"विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते[289]।
__________नोतेस्__________
[289] विज्ञानं जडरूपेभ्यो.... .... जायते । --त- सं- 2000 का- ।
इयमेवात्मसंवित्तिरस्य याजड[प्3अ/5] रू(+प)ता ॥
कियाकारकभावेन न स्दसंवित्तिरस्य तु ।
एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः[290]। ।
__________नोतेस्__________
[290] एकस्यानंशरूपस्य... ...पत्तितः ॥ त- सं- 200/1 का- ।
इति चाचार्याः स्वात्म?इ ?इ?आविरोधं परिहृतवन्तः । स्थितमेतत् तत सुखादिस्वसंवेदनं न स्थितम् । नैव सुखादयः संवेदनरूपाः ।
[291]"एकार्थसमवायिना तु ज्ञानेन संवेद्यन्त" ---इति नैयायिकाः ।
__________नोतेस्__________
[291] स्ह्: 48.
न ।
इह नीलादौ दृश्यमाने समानकालमान्तरः सुखाद्याकारो ऽनुभूयते निश्चीयते चेति कथमुपपद्यताम् ? एकार्थाश्रयिणा विज्ञानेन वेद्यत्वे सतीति चेत् ? तत् किम् एकार्थाश्रयि ज्ञानमक्षजम् ? तथा चेत्? तदा यस्य हि ललितललनालावण्यादिरर्थस्योपनिपातेन सुखादयो धीश्च जाताः तं मुक्त्वा सुखादीनेव सा कथं प्रतिपद्येत?
तदाह ---
"यस्यार्थस्य निपातेन ते जाता धीसुखादयः ।
मुक्त्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम्[292]? ॥[293]
__________नोतेस्__________
[292] मुक्त्वा तं प्रतिपद्येत.... .... कथम् । - (तं मुक्त्वा पाठयुक्) प्र- वा- भा- 314 पृ-, 3/256 का- ॥
[293] यस्यार्थस्य निपातेन.... .... सुखादयः । .... सा कथम् ? ॥ -प्र- वा- भा- 314 पृ-; 3/256 ॥
अथ ---
सुखमात्मनो योगमात्रं ज्ञेन ज्ञानेनानुभूयते ऽक्षजेनार्थः ।
अत्रापि ---
"युगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इति वचनात् । क्रमेण चेत् ?
"अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे ।
तल्लाघवाच्चेत् ? तत्तुल्यमित्यसंवेदनेन किम्[294]? ॥[295]
__________नोतेस्__________
[294] अविच्छिन्ना न.... .... .... क्रमग्रहे । ....किम् ॥ -प्र- वा- भा- 315 पृ-, 3/257 का- ॥
[295] तल्लाघवाच्चेत्.... ....किम् ॥ -प्र- वा- भा- 415 पृ-, 3/257 का- ।
तुल्यं खलु ! लाघवं विषयवेदने सुखवेदने चऽ इत्यसंवेदनं न (नेन ?) किम् ? पर्यायेणार्थसुखयोरन्यतरस्य परस्परानुपलम्भत्वेनाभावरूपत्वात् । सन्तानसुखवेद [प्3ब्/5]नमेव विषयसन्ततावेदनम् ।
एवं --- विषयसन्ततवेदनमेव सुखसन्ततावेदनम् । अथापि स्यात् ।
अक्षजया ---
ऽयुगपज् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।ऽ इत्येकया द्वयज्ञानम् ।
न ।
चक्षुरादीन्द्रियजं विषयप्रतिनियतं कथं सुखादीन् न गृह्वीयात् ?
सुखमन्तरेणार्थाच्च जातेर्धियस्तस्य सुखस्या शक्तिसिद्धिरतो ऽपि कारण[296]त्वाभावान् न सुखं ग्राह्यम् । अथापि स्यात् । यथा--नीलं पीतं च पृथगपि शक्तम्, संहतावपि । तथादिर्विषयश्च पृथक् संहतावपि स्वज्ञानजनने शक्तः स्यात् !
__________नोतेस्__________
[296] स्ह्: 49.
ऽयद्येवं केवलमपि सुखं गृह्येत नीलवत् ।ऽ
न च सुखहेतुविषयं ग्राह्यमन्तरेण सुखवेदनं युक्तम् ।
अथापि---
सरससरसीरुहधीभ्रमभ्राजमानसुहृदवदनेनेवार्थेन सह ग्रहः ।
तथापि न सामर्थ्यं सुखस्य स्यात् । अन्वयव्यतिरेकाभावात् । न च परस्य सुखसामर्थ्याभ्युपगम इन्द्रियधियं प्रति ।
अथ ---
विनार्थेन चक्षुरादिभिः सुखं गृह्यते । तदानुकूलत्वादिनास्त्यादिभेदो न गृह्येताक्ष्ना । अन्तरङ्गत्वात् सुखादावेवाक्षमतिः स्यात् ।
अथापि--
युगपदेव बुद्धिरुदयति, तत्तद्विषयसम्भवात् । तदा ---
सुखदुःखविदौ सदा स्याताम् --- हेमन्ते शीतमारुताशनस्पर्श(+आ)भ्यामिव । रणरसासक्तचेतसः स्वामिसम्माननिष्क्र(ष्क्र ?)यं चिकीर्षतः निशितनिस्विशनिष्पेषमप्यनुभवतो भवेतां सुखदुःखविदौ । न चैवम् [प्3अ/6] ।
तस्मादलीककल्पनाभिरलम् ।
सरलेनैव क्रमेण ---
ऽसार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि ।
दृष्टं जन्मसुखादीनां तत्तुल्यं मन्सामपि[297]। ।[298]
__________नोतेस्__________
[297] दृष्टं जन्म सुखादी.... .... मपि । । -प्र- वा- भा- 310 पृ-; 3/253 का- । [298] सार्थे सतीन्द्रिये.... ....चेतसि । .... मनसामपि ॥ -प्र- वा- भा- 310 पृ-, 3/253/ का- ॥
असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् ।
दृष्टं सुखादेर्बुद्धेर्वा तत्ततो नान्यतश्च ते[299]। ।[300]
__________नोतेस्__________
[299] असत्सु सत्सु... ... .... क्व चित् । .... ते । । -प्र- वा- भा- 31- पृ- 3/254 का- ॥
[300] दृष्टं सुखादे.... .... श्च ते । .... प्र- वा- भा- 310 पृ-, 3/254 का- ।
सुखदुःखादिभेदश्च तेषामेव विशेषतः ।
तस्या एव यथा बुद्धेर्मान्द्यपाटवसंशयाः[301]। ।[302]
__________नोतेस्__________
[301] तस्या एव यथा... ...संषयाः ॥ -प्र- वा- भा- 310 पृ- 3/355 का- । [302] सुखदुःखादिभेद.... .... विशेवतः । .... संशयाः ॥ -प्र- वा- भा- 310 पृ-, 3/255 का- ।
[303]इत्यक्ष(+मु) पगम्यताम् ।
__________नोतेस्__________
[303] स्ह्: 50.
ऽतस्मात् सुखादयो ऽर्थानां स्वसङ्क्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैवमर्थेभ्यो जन्म केवलम्[304]। ।[305]"
__________नोतेस्__________
[304] तस्मात् सुखादयो... .... भासिनाम् । .... केवलम् । । -प्र- वा- भा- 319 पृ-, 3/267 का- ॥ 321 पृ- 3/267 का- । [305] वेदकाः स्वात्मनश्चैषां.... जन्म केबलम् ॥ -प्र- वा- भा- 319 पृ-, 3/267 का- ।
अमी सुखादयः स्वसङ्क्रान्तार्थावभासवेदनाद्वारेणार्थस्य वेदकाः । स्वात्मनश्च जडव्यावृत्ततया । कुतस्तर्हि उत्पद्यन्ताम् ?
उक्तमेव ---
"चक्षुरादीन्द्रियालोकालम्बनसमनन्तरप्रत्ययेभ्यः ।"
तस्मात् --- सधूक्तम् ---
"इह नीलादौ दृश्यमाने समानकालमान्तरः मुखादिर्नियमेनानुभूतनिश्चितस्तथैव व्यवहत्तव्यः ।
सामग्रीभेदादपि न भेदो ऽस्य ।
ऽतदतद्रूपिणो भावास्तदतद्रूपहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्[306]? ॥[307]
__________नोतेस्__________
[306] तत्सुखादि .... ....हेतुजम् ॥ -प्र- वा- भा- 309 पृ-, 3/252 का । [307] तदतद्रूपिणो.... .... हेतुजाः । हेतुजम् । । -प्र- वा- 2/251; प्र- वा- भा- 309 पृ, 3/252 का ।
न कार्यभेदादपि भेदः । एकतो ऽप्यनेककार्यदर्शनात् ।
सुखदुःखादिभेदो ऽपि सामग्रया एवावान्तरविशेषात् ।
बुद्धेर्मान्द्यपाटवसंशयादिवत् ।
एतेन ---
सुखादेर्ज्ञानान्तरग्राह्यत्वम्, ज्ञानविलक्षणसामग्रीजन्यत्वं च ।
सत्त्वरजस्तम [प्3ब्/6] सां साम्यावस्था प्रकृतिः, प्रधानम् । ततो बुद्धिर् अतो ऽहङ्कारः । ततः पञ्चतन्मात्राणि शब्दादीनि । ततः पञ्चबुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षुर्घ्राणजिह्वाख्यानि । पञ्च कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाख्यानि । मनश्च । पञ्चतन्मात्रेभ्यः पञ्च महाभूतानि व्योमवातज्वलनजलभेदिनी[308]नामानि । एतानि जडानि ।
__________नोतेस्__________
[308] मेदनी - मू- पा- ।
पुमांश्चेतनः । चैतन्यं निजमस्य रूपम् । बुद्धिः पुनरेका सर्वव्यापिनी, निरवयवा, स्वच्छा, दर्पणप्राया, सर्वप्रतिबिम्बवतो । तत्र रूपादयः प्रधानपरिणा[309]मतया सुखाद्यात्मकाः बुद्धिदर्पणबिम्बिताः । पुंसो ऽपि तत्रैव बिम्बनात्, तेन गृह्यन्ते । बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयत इति चोच्यते भोक्त्तृत्वमस्य । एतावदेव ।
__________नोतेस्__________
[309] स्ह्: 51.
अस्यां प्रक्रियायामयमपरो विशेषो ऽवगन्तव्यः । शब्दादयो भूतात्मना परिणताः, भूताद्यपि कुम्भाम्भोधरधरादिप्रभेदेन ।
उक्तं च ---
"आकारो गौरवं रौक्ष्यं धरणं स्थैर्यमेव च ।
स्थितिर्भेदः क्षमा कार्ष्ण्यं छायायाः सर्वभोग्यता ॥
इत्येते पार्थिवा धर्मास्तद्विशिष्टास्तथापरे ।
जलाग्निपवनाकाशव्याप्तास्तां (+स्ता) न्निबोधत ॥
इति ।
अत्र ऽछायाया इति कार्ष्ण्यापेक्षया षष्ठी "कृष्णाच्छायेऽत्यर्थः ।
तदेवम् --- पुरुषप्रतिबिम्बेन श्रोत्रादिवृत्त्या शब्दादिप्रतिबिम्बो बुद्धौ स्वच्छायां प्रधानपरिणामत्वेन च शव्दा[प्3अ/7] दीनामात्मभूतः सुखादिप्रतिविम्बमानो वेद्यते । तस्मात् न आन्तराः । नापि चैतन्यात्मानः सुखादयःऽ इति सा[310]ङ्ख्यः प्रत्यवतिष्ठते ।
__________नोतेस्__________
[310] शा मू- पा- ।
इदं स्वाभिप्रायेण सा[311]ङ्ख्यस्य प्रक्रियाज्ञानमस्तु । सन्तस्तु प्रमाणसहं सहन्ते । सुखादीनामान्तरत्वमनुभवात्मत्वमवश्यं श्यामाद्याकारेण सह स्फुरत्वम् संबादवेदनाद् व्यवस्थापितं कथमन्यथा कर्त्तुं शक्यते ।
__________नोतेस्__________
[311] शा मू- पा- ।
शक्यते बुद्धावहङ्कारः । अहङ्कारास्पदे अन्तरे भवत्वादान्तरत्वम् ।
तत्रैव च नित्यचैतन्यप्रतिबिम्बनाद् भ्रान्त्तया अनुभवात्मत्वम् । नीलाद्यात्मत्वात् सुखादीनां सह स्फुरत्वमिति चेत्?
[312]न ।
__________नोतेस्__________
[312] स्ह्: 52.
वेदनादन्यस्या बुद्धेरभावात् ।
ऽमुक्त्त्वाध्यक्षस्मृताकारां संवित्ति बुद्धिरत्र का[313]?ऽ नित्यचेतनच्छाययाच्छुरितत्वं पुनः छद्भैव ।
__________नोतेस्__________
[313] मुक्त्वाध्यक्ष.... ....त्र का । -प्र- वा- भा- 325 पृ, 3/276 का ।
ऽ... ... ... ... ... ... संवेद्यत्वाच्च चेतनाः ।
संवेदनं न यद्रूपं नहि तत् तस्य वेदनम्[314]।"
__________नोतेस्__________
[314] संवेदनं न... .... .... वेदनम् ॥ (तस्मात् भ्रान्तरा एव संवेद्य-)-प्र- वा- 2/274; -प्र- वा- भा- 324 पृ, 3/275 का ।
ऽइदमस्य वेदनमिऽति सम्बन्धस्य निबन्धनमभिधानीयम् । न चैतन्यमात्रं तन्निबन्धनम् । चक्षुरादावपि प्रसङ्गात् ।
तस्माद् ---
वेद्येनार्थेन वेदनस्य सारूप्यं तन्निबन्धनम् सा[315]ङ्ख्यप्रत्ययिदृष्टान्तो ऽस्ति । यथा --- नीलस्वरूपं वेदनं नीलस्य वेदकम् । तथा--- सुखस्यापि वेदनेन सुखस्वरूपेण वेदितव्यम् ।
__________नोतेस्__________
[315] ऽशामू- पा- ।
उपधायकं तर्हि नीलवत् सुखमन्यदपि स्यात्?
न ।
त्वत्पक्षे ऽपि सुखरूपमेव हि संवेदनं सुखमवैति, नान्यदि[प्3ब्/7]ति साकारं ज्ञानमस्तीति साधितमस्माभिः ।
तच्च स्वरूपवेदनं क्वचित् सोपधानम्, क्वचिच्च निरुपधानम् । इदमेव च नः सुखं यत् सात्तं (?) संवेदनं नाम । न सात्तसंवेदनादन्यार्थक्रियात्र यद्वशादुपधायककल्पनं हि नीलस्य । नीलसंवेदनमेव फलम्[316]। किन्तु, रञ्जनादिकमपि । तद्वशात्तत्र परिकल्पना ।
__________नोतेस्__________
[316] ऽलऽमू- पा- ।
अत्र पुनः, संवेदनमेवैकमान्तरं प्रीतिपरितापरूपं पश्यामः ।
ऽएकमिऽत्यनेन न वाह्यारोपितत्वविशेष उच्यते ।
[317]तथा हि ---
__________नोतेस्__________
[317] स्ह्: 53.
नान्यत् र्सवेदनं ग्राहकम् । अन्यश्च[318]सुखाद्याकारो ग्राह्यरूपः प्रत्यवभासते । येन ग्राहकाकाराद् विच्छिन्नस्य सुखादेर्बहीरूपतया वा[319]क्ष (ह्य ?)कृतत्वं विद्भः । नहि य आकारो वहीरूपेण ग्राह्याकारतया नावभासते स स[320]र्वाक्ष(स बाह्य ?) कृतः । तद्यथा --- चेतनाया आकारः ।
__________नोतेस्__________
[318] ऽन्याश्चऽमूलपाठः । [319] ऽतावाक्षऽ-मूलपाठः । [320] ऽते सर्वामूलपाठः ।
तथा च स्वर्गाद्याकारः ।
एतदेवोक्तम् ।---
ऽआन्तरमान्तरे ऽहङ्कारास्पदे ऽङ्गुष्ठात्मर्धा (न्मूर्धा ?) ऽवधियदन्तः प्रष्टव्यवेदना ऽकारे ग्राहके सुखादिरूपम् संवेदनं सन्निविष्टं, न बाह्येग्राह्याकारे ।ऽ
नहि सुरभिकर्कशाद्यनुभवतः तदेव बाह्यं वस्तु सुखितं, दुःखितं हृष्टं, द्विष्टं वा प्रत्यवभासते । किन्तु, ततो विच्छिन्नमहङ्कारास्पदमान्तरं ग्राहकमेवंरूपं हृष्टं द्विष्टं वा प्रतिभाति ।
तदेवम्---
ऽग्राहकरूपसन्निविष्टस्य सुखादेर्बाह्यार्थाध्य[321]वसाया--[प्3अ/8]
__________नोतेस्__________
[321] अत्रऽयऽलिखित्वा छिन्नं मूलपाठे ।
भावान्न वाह्यारोपितत्वम् । अतो ऽस्माकं न वाह्याः सुखादयः प्राप्नुवन्तीति ।
अत एव---
योगिनाम् परसन्तानवर्त्तिनः सुखादिरागादीनामालम्बमानानां बाह्येन स्तम्भादिकरूपेणा[322]ऽनहङ्कारास्पदेन ग्राह्याकारेण सुखिते न रक्ते न द्विष्टे न वा दुःखितत्वरक्तत्वादिप्रसङ्गः ।
__________नोतेस्__________
[322] ऽनामूलपाठः ।
आन्तरत्वेनैव[323]वेदनान्न नीलाद्यात्मकत्वेन नीलादिना सह स्फुरत्वम् ।
__________नोतेस्__________
[323] स्ह्: 54.
अत्रार्थे युक्तिरप्युच्यते ---
ऽये बाह्यातिशयनिरपेक्षभावनातिशयभावाभा (+ वा) ऽनुवन्धिनस्त आन्तराः । यथा ---प्रज्ञा । आल[324]म्व्यमानशब्दाद्यतिशयनिरपेक्षभावनातिशयभावाभावानुवन्धिनश्च सुखादयः । ऽयो भावनयेष्टाद्याभासः सर्वात्मना विनिवर्त्तते, विपरीतश्च प्रवर्त्तते, न स बाह्यविशेषभावाभावानुविधायीऽ इतीदृशो ऽत्राभिप्रायो ऽभिप्रेतः । इहाप्येकस्मिन् एव लवणद्रव्ये ऽव्यग्र ... ... ... ... सौख्यमुष्ट्राणां कष्टं चान्तरमन्येषां संवेदनमुत्प ( +द्य) ते यथा, तथैकस्मिन्नेव शब्दादानुपकारापकारौदासीन्यभाजि भाव्यमाना साभासा तयोरन्यथात्वापत्ति[325]रुत्कर्षश्च । भावनाजातत्वेनान्तरः । ऽयदहङ्कारास्पदत्वेनाभ्यस्यते तत्तथैव भावनाप्रकर्षे निष्पद्यतऽ इति यावत् ।
__________नोतेस्__________
[324] ऽलव्यऽमूलपाठः । [325] अत्रऽकऽलिखित्वा छिन्नं मूलपाठे ।
बाह्मातिशयनिरपेक्षभावनातिशयभावाभावानुबन्धित्वमात्रानुबन्धित्वेना [प्3ब्/1] नान्तरत्वस्य स्वभावहेतुरयं नासिद्धिदोषावकाशमाश्रयति । श्रियमपि हि हितत्वेनासकृद् भावयन् अनुकूलधीर्धीरहृदयः । प्रागेष पुत्रकलत्रादिकम् ।
अनैकान्तिकत्वमपि कीर्त्तितमकीर्त्तिकरमेव । अनान्तरत्वं हि बाह्यत्वम् ।
तच्च बाह्यभावाभावानुविधायित्वेन व्याप्तम् । यथा नीलस्य विज्ञाने नीलभावाभावानुविधायि न पीतस्य । तथेहापि बाह्यातिशयनिरपेक्षभावातिशयभावाभावानुविधायि सुखं भाव्यमानमान्तरमेव भवति ।
अत एव ।---
विरोधो ऽपि ययोर्विरोधनिपतितः । सपक्षे विक्षणात् ।
समासस्त्वयम् ---
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
