Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
तर्कभाषा
- Thông tin
- GRETIL — Losang Norbu Shastri: Tarkabhāṣā. Sarnath : Central Institute of Higher Tibetan Studies, 2004, 1-76.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सामान्यस्य निषेधाय प्रयोगः पुनरेवं कर्तव्यः - यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र असद्व्यवहारविषयः,यथा तुरङ्गमोत्तमांगे शृङ्गं, नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं परिदृश्यमानासु व्यक्तिष्विति स्वभावानुपलब्धिः / न चासिद्धसम्भावना / वर्णसंस्थानलक्षणं व्यक्तिस्वरूपमपहाय द्वितीयस्यानुयायिनो रूपस्य निपुणमपि निरूप्यमाणस्य सर्वथा दर्शनाभावात्, नापि ज्ञानवद्दर्शनाभावे ऽपि प्रत्यक्षसिद्धत्वमस्याभिधातुमुचितम् / ज्ञानं हि स्वसंवेदनप्रमाणसिद्धम्, न तु चक्षुर्विज्ञानग्राह्यम् / इदं [तु सामान्यं] चक्षुर्विज्ञानग्राह्यमर्थधर्मत्वात् / प्रत्यक्षं च परैरिष्टमिति / तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात्, अतद्रूपपरावृत्तवस्तुमात्रमेव सामान्यमुक्तम् / तस्मात् सर्वं संस्कृतं वस्तु परपरिकल्पितसामान्येन शून्यमिति स्थितम् //
ईश्वरसाधननिरसनम्
नापि केनचिद्बुद्धिमतोपरचित्तमित्यपि विज्ञेयम् / तथा हि - अस्य जगतः कर्त्ता भवन् नित्यो वा भवेदनित्यो वा / तत्र न तावन्नित्यो युक्तः, नित्ये कर्त्तरि समर्थे सति सर्गस्थितिप्रलयानां नियमेन यौगपद्यप्रसङ्गात् / येन हि स्वरूपेण स्थितिप्रलययोः स कर्त्ता तदस्य स्वरूपं सर्गकाले ऽपि सन्निहितमिति तदैव स्थितिप्रलयौ कुर्यात् / सहकारिविरहान्न करोतीति चेत्, तदसत् / न हि नित्येन सहकारिणा कदाचिदप्ययं विरहितः सदा सन्निहितत्वात् / नाप्यनित्येन सहकारिणा विरहितः, अनित्यसहकारिणो ऽपि तदायत्तजन्मत्वात् / तत एकदा सर्वकरणादिप्रसङ्गः //
ननु बुद्धिमत्त्वादीश्वरस्य नैष दोषः / बुद्धिशून्यो हि स्वसत्तामात्रजन्यं कार्यमक्रमेणैव कुर्यात् / बुद्धिमांस्तु कर्त्तुमीशानो ऽपि अनिच्छन्न करोतीति कस्तस्योपालम्भः? उच्यते - ता अपीच्छाः स्वसत्तामात्रनिबन्धनाः किं न करोतीति स एवास्योपालम्भः / अथ स्वरूपेण सामर्थ्ये सत्यपि एष एव तस्य स्वभावः, यत्सहकारिलक्षणयागन्तुकशक्त्या विना न करोतीति चेत्, तर्हि मातापि सति वन्ध्या सा प्रकृत्यैवैतदपि वक्तव्यं भवेद्भवतामिति यत्किञ्चिदेतत् //
नन्वेष एव कार्यस्वभावः, केवलात् समर्थादपि नोदेति, सहकारिणमपेक्ष्यैव पश्चाद्भवति [नास्योपालम्भ इति] तन्न युक्तम् / समर्थो हि सहकार्यपेक्षामनादृत्य बलादेव कार्यं कुर्यात् / अन्यथा [ह्यस्य] असमर्थत्वप्रसङ्गात् / नित्यस्य क्रमकारित्वनिषेधनम् नापि नित्यः क्रमेण कार्यकारीति युक्तम्, निरपेक्षत्वात् / यदाह दिङ्मण्डलविख्यातकीर्तिर्धर्मकीर्तिः -
नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्न युज्यते / क्रियायामक्रियायां च कालयोः सदृशात्मनः // इति //
एतेन आत्मादीनामक्षणिकानां घटादीनां क्षणिकानां च क्रमेण कार्यकरणं प्रत्युक्तम् / न चात्र प्रत्यक्षविरोधः, प्रत्यक्षेणाक्षणिकस्य ग्रहणायोगात् / न हि क्षणिकं प्रत्यक्षमक्षणिकमीक्षितुं क्षमते / अनिकक्षणव्यापारो ह्यक्षणिकः / स कथमेकक्षणभाविनाध्यक्षेण ग्रहीतुं शक्यः / न हि प्रागूर्ध्वं चावस्थानमधुना प्रकाशते / तस्याप्यधुनातनताप्रसङ्गात् / जन्मविनाशावधिप्रतिभासप्रसङ्गादिति नेदं प्रत्यक्षं पूर्वापरकालव्याप्तमर्थं कञ्चिदपि ग्रहीतुमलम् /
प्रत्यभिज्ञानस्य प्रत्यक्षत्वं निरसनम्
एतेन प्रत्यभिज्ञानस्याप्रत्यक्षत्वमाख्यातम् / साक्षात्कारि हि ज्ञानं प्रत्यक्षम् / न च प्रागवस्थमधुना साक्षात्कर्तव्यम्, अपि तु स्मर्तव्यम् / न च स्मरणस्वरूपम् प्रत्यक्षम् / अथ मतं भवेदिदं स्मरणं यदिदानीन्तनमवस्थानं न साक्षात्कुर्यात्, तत्साक्षात्करणप्रवणं कथमिदं स्मरणं नाम? यदाह भट्टः -
`पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः / स एवायमितीयं तु प्रत्यभिज्ञातिरेकिणिऽ // इति //
स्मरणग्रहणस्वरूपं तर्हि प्रत्यभिज्ञानं स्यात्, न तु ग्रहणस्वरूपमेव / स्मर्यमाणे ग्रहणायोगात्, गृह्यमाणे च स्मरणायोगात् / न चैकस्य स्मरणग्रहणे सम्भवतः, परस्परविरोधात् / येन हि स्वरूपेण स्मरणं न तेन स्वरूपेण ग्रहणमित्यनुन्मत्तेन शक्यते वक्तुम् / रूपान्तरेण चैकस्य स्मरणग्रहणे न स्याताम् / भावे ऽपि प्रत्यक्षाप्रत्यक्षे स्याताम् / न तु स्मर्यमाणे प्रत्यक्षमेव, प्रत्यक्षायोगात् / तस्मात् प्रत्यभिज्ञाप्रत्ययो भ्रान्त एव, निर्विषयत्वात् / प्रयोगश्चैवम् - यः प्रत्यभिज्ञाप्रत्ययः स तत्त्वतो नैकालम्बनः, यथा लूनपुनर्जाततृणादिषु / प्रत्यभिज्ञा प्रत्ययश्चायं तदेवेदं नीलादीति प्रत्यय इति विरुद्धव्याप्तोपलब्धिः / एकत्वानेकत्वयोः परस्परविरोधात् तद्विषयकसंवेदनयोरपि विरोधः तेनैकालम्बनत्वेन अनेकालम्बनत्वविरुद्धेन अनेकालम्बनत्वेन पूर्वोक्त्या नीत्या प्रत्यभिज्ञाप्रत्ययो व्याप्त इति न प्रत्यभिज्ञानं क्षणिकानुमानबाधकम् / न च केशादिष्वपि सामान्यालम्बनतया एकालम्बनत्वम् केशादिव्यक्तेरेव प्रत्यभिज्ञायमानत्वात् / सामान्ये प्रत्यभिज्ञायमाने तदेवेदं केशादीति स्यात्, न तदेवेदं केशादीति / अत एवैकालम्बनत्वे प्रत्यभिज्ञाप्रत्ययस्य क्रमेतराभ्यामुत्पत्तिविरोधात्, विरुद्धानैकान्तिकत्वे नाशङ्कनीये / न च प्रत्यभिज्ञानमेव तदवस्थापकम्, यस्यैव विचार्यमाणत्वात् / तस्मात् स्थितमेतत् नित्यः कर्ता नास्तीति / यदि नित्यः कर्ता जगतो न कारणं, किमस्य तर्हि कारणम्?
सत्त्वानां शुभकर्मणः जगतः कारणत्वसमर्थनम्
सत्त्वानां शुभाशुभाख्यं कर्म / यथोक्तम् -
सत्त्वलोकमथ भाजनलोकं चित्तमेव रचयत्यतिचित्रम् / कर्मजं हि जगदुक्तमशेषं कर्म चित्तमवधूय न चास्ति // इति //
वैभाषिकमाश्रित्य पुनर्भगवता सर्वज्ञेन चोक्तम् -
`आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् / संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम्ऽ // इति //
सर्वज्ञसमर्थनम् भवपरम्परासमर्थनं च
ननु सर्वज्ञसिद्धौ हि तद्वचनं निदर्शनीकर्तुमुचितम् / सर्वज्ञसिद्धये किं प्रमाणमिति चेत्? उच्यते / यो यः सादरनिरन्तरदीर्घकालाभ्यासकलितचेतोगुणः स सर्वः स्फुटीभावयोग्यः, यथा युवत्याकारः कामिनः पुरुषस्य / यथोक्ताभ्यासकलितचेतोगुणाश्चामी चतुरार्यसत्यविषयाकारा इति स्वभावहेतुः /
न तावदाश्रयद्वारेण हेतुद्वारेण वासिद्धसम्भावना / सङ्कल्परुढानां चतुरार्यसत्यविषयाकाराणां धर्मिणां चेतोगुणमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात् / न चैष विरुद्धः, सपक्षे कामिन्याकारे सम्भवात् / न चानैकान्तिकः, अभ्यासेन सहितचेतोगुणस्फुटप्रतिभासयोः कारणकार्ययोः कुम्भकारघटयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारणभावसिद्धौ अभ्याससहितचेतोगुणत्वस्य साधनस्य स्फुटप्रतिभासकारणयोग्यतया व्याप्तिसिद्धेः / तथा हि - व्याप्त्यधिकरणे कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणात् पूर्वमनुपलब्धिः स्फुटाभत्वस्य पश्चादभ्याससंवेदनं,स्फुटाभसंवेदनमिति त्रिविधप्रत्यक्षानुपलम्भसाध्यः कार्यकारणभावः स्फुटप्रतिभासाभ्यास सहितचित्ताकारयोरित्युपपन्ना सर्वोपसंहारवती व्याप्तिः / अतो ऽनैकान्तिकत्वाभावात् अनवद्यो हेतुः //
नन्वनेन साधनेन चतुरार्यसत्याकाराणां साक्षात्करणात् चतुरार्यसत्याकारसाक्षत्कारी विवक्षितस्सर्वज्ञः सिध्यति, न त्वविशेषेण सर्वधर्मसाक्षत्कारी, ततस्तत्सिद्धये साधनान्तरमभिधेयम् / उच्यते - यत्प्रमाणसंवादि निश्चितार्थं वचनं, तत् साक्षात् पारम्पर्येण वा तदर्थसाक्षत्कारिज्ञानपूर्वकं, यथा दहनो दाहक इति वचनम्, प्रमाणसंवादि निश्चितार्थ चेदं वचनं, क्षणिकाः सर्वसंस्कारा इति अर्थतः कार्यहेतुः / नास्यासिद्धिः, सर्वधर्मक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थत्वात् / नापि विरुद्धः, सपेक्षे भावात् / न चानैकान्तिकता, वचनमात्रस्य संशयविपर्यासपूर्वकत्वे ऽपि प्रमाण संवादि] निश्चितार्थस्य [वचनस्य] साक्षात् पारम्पर्येण वा तदर्थसाक्षात्कारिज्ञानपूर्वकत्वेन प्रत्यक्षानुपलम्भाभ्यामुपलम्भात् / अन्यथा धूमादावपि हेतुत्यागप्रसङ्गादशेषकार्यहेतूच्छेदप्रसङ्गः //
भवपरम्परानिरूपणम्
स्यादेतत् / अनेकभवपरम्परालक्षणेन दीर्घकालेन भाव्यस्य सङ्कल्पारुढस्य स्फुटाभत्वं सम्भाव्यते / भवपरम्परासिद्धये तु किं प्रमाणम्? उच्यते / यच्चित्तं तत् चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तम् / चित्तं च मरणकालभावीति स्वभावहेतुः / न चार्हच्चरमचित्तेन व्यभिचारः / तस्यागममात्रप्रतीतत्वात् निः क्लेशचित्तान्तरजननाद्वा / हेतोः क्लेशे सति / विशेषापेक्षणादि त्यनागतभवसिद्धिः / इह पूर्वजन्माभ्यासात् तपोदानाध्ययनादौ सर्वसत्त्वानामभ्यासे प्रवृत्तिरिति प्रवादः / ततस्तत्सिद्धये प्रमाणमुच्यते - यच्चित्तं तत् चित्तान्तरपूर्वकं यथेदानीन्तनं चित्तम् / चित्तं च जन्मसमयभावीत्यर्थतः कार्यहेतुः //वैभाषिकमतनिरूपणम्
ननु तत्त्वसाक्षात्कारणान्मुक्तिः / तत्त्वं चैकमेव, यथोक्तम् -
`मुक्तिस्तु शून्यतादृष्टिस्तदर्थाशेषभावनाऽ इति /
तत्कथं सर्वज्ञद्वैतं, बौद्धप्रभेदश्चेति? नैष दोषः / यस्मात्सर्वमेतद् भूतार्थे सत्त्वानवतारयितुं भगवता प्रतिपादितम् / तथा हि वैभाषिकाणां मतम् -
`आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम् / संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम् // ऽइति //
सौत्रान्तिकानां मतम्
ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभासते, न बाह्यो ऽर्थः, जडस्य प्रकाशायोगात् / यथोक्तम् -
`स्वकारज्ञानजनका दृश्या नेन्द्रियगोचाराःऽ // इति //
अलङ्कारेणाप्युक्तम् -
यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते / न चेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते //
ननु यदि प्रकाशमानं ज्ञानमेवदं, तदास्ति बाह्यो ऽर्थ इति कुतः? बाह्यार्थसिद्धिस्तु स्याद्वयतिरेकतः / न हि सर्वत्र सर्वदा नीलादय आकाराः प्रकाशन्ते /
न चैतत् स्वोपादानमात्रबलभावित्वे सति युज्यते / नियतविषये प्रवृत्त्ययोगात् / तस्मादस्ति किञ्चिदेषां समनन्तरप्रत्ययव्यतिरिक्तं यद्बलेन क्वचित् कदाचित् भवन्तीति शक्यमवसातुम् / स एव बाह्यो ऽर्थ इति, न पुनरसौ बाह्यो ऽर्थः अवयवी, गुणादयो धर्माः द्रव्याश्रयिणः पराभिमताः, नवविधं द्रव्यं परमाणावो वेति / तत्र न तावत् गुणादयः, द्रव्यनिषेधेनैव तेषां निषेधात् / न चासति समवायिनि द्रव्ये समवाय इति तद्दुषणमत्र नाद्रियते / द्रव्यं च पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति नवविधम् /
आत्माकाशकालदिङ्मनसां निरसनम्
तत्रात्मनिषेधायेदमपि साधनम् - यत्कादाचित्कं ज्ञानं तत्कादाचित्ककारणपूर्वकम्, यथा सौदामिनीज्ञानम् / कादाचित्कं चेदमहंकारज्ञानमित्यर्थतः कार्यहेतुः / नायमसिद्धः अहंकारे धर्मिणि ज्ञानत्वस्य प्रत्यक्षसिद्धत्वात् / नापि कादाचित्कविशेषणमसिद्धम्, सर्वदाहमिति ज्ञानाभावात् / नापि विरुद्धः, सपक्षे दर्शनात् / न चानैकान्तिकः, धूमपावकयोरिव कादाचित्कज्ञानकादाचित्ककारणयोः प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिद्धेः / कादाचित्कज्ञानस्य चाकादाचित्ककारणादुत्पत्तौ कादाचित्ककारणादनुत्पत्तिप्रसङ्गः / अनियतहेतुकतायां चाहेतुकताप्रसङ्गः, तथाप्यनैकान्तिकत्वे प्रसिद्धधूमादिहेतुरप्यनैकान्तिकः स्यात्, विशेषाभावात् / अपि चाहंकारस्य अकादाचित्ककारणपूर्वकत्वे सदैवोदयप्रसङ्गः / कारणस्य कुर्वद्रूपत्वात्, अकुर्वतश्चोपचारतः कारणत्वात्, कुर्वदकुर्वतोरैक्याभावात् / भावे वा कुर्वतो ऽप्यकुर्वद्रूपतापत्तिः, तत्स्वभावत्वात् / किञ्चाहंकारस्य अकादाचित्क कारणादुत्पादे युगपदेवोत्पादप्रसङ्गः, अव्यग्रसामग्रीकत्वात् / नन्वहंकारस्यालम्बनमात्मा न कारणमिति चेन्न / अकारणस्यालम्बनत्वायोगादतिप्रसङ्गादिति //
अथ किमाकाशं नाम किञ्चिद्वस्तुभूतमस्ति? उत नास्ति वा? नास्त्येवैतत् / यत्र हि सप्रतिघं द्रव्यमस्ति न तत्राकाशमवकाशं वा ददाति / यत्र नास्ति तत्र तदभावादेवावकाशः सिद्ध इति क्व वाकाशमवकाशं दद्यात्? [यस्मादवकाशप्रदमाकाशं भण्यते] तस्मात् सत्यस्मिन् सर्वदा सर्वथा सर्वत्रावकाशः स्यात् / न चैतदस्ति / तस्मान्नास्त्येवाकाशमिति प्रतीमः / एतच्च वैभाषीकमतपेक्ष्य दूषणमुक्तम् / परैस्त्वाकाशं शब्दगुणकमिष्यते / तच्चैकमिति चेत् समानदेशत्वात् सर्वशब्दानां विभागेन श्रवणं न स्यात् / ततस्सन्निहितदेश इव दूरदेशाभिमतो ऽपि शब्दः श्रूयेत / न वान्यो ऽपीत्येकान्तः / दिक्कालयोश्चैकत्वात् पूर्वापरादिप्रत्ययानुपपत्तिः / एतेन नित्यस्यापि मनसो ऽसम्भव एव / तथा हि - युगपज्ज्ञानानुत्पत्त्या मनो ऽनुमीयते तद्वादिभिः / अनुभूयन्त एव युगपद्बहूनि ज्ञानानि नर्त्तकीदर्शनादौ / यदि पुनर्मनो [नित्यं] स्यात्तदानीमेतानि ज्ञानानि न युज्यन्ते / तस्मान्नास्त्येव मनो ऽपि //
अवयविनिरसनपूर्वकं परमाणुमात्रसमर्थनम्
पृथिव्यादयो ऽवशिष्यन्ते / ते चावयविपरमाणुभेदेन द्विधा इष्यन्ते / तत्र यो ऽवयवी घटादिः परमाणुभिद्वर्यणुकादि क्रमेणारब्धः प्रसिद्धः, तस्य उपलब्धि लक्षणप्राप्तस्यानुपलम्भो बाधक इत्युक्तम् / यद्यवयवी नास्ति कथं तर्ह्ययमेकत्वेन प्रतिभासत इति चेत् -
भागा एव भासन्ते सन्निविष्टास्तथा तथा / तद्वान्नैव पुनः कश्चिन्निर्भागः सम्प्रतीयते //
इत्युक्तम् / ननु को ऽयं भागप्रतिभासो नाम? नानादिग्देशावष्ष्टम्भेन सञ्चितः परमाणुप्रतिभास एव / यद्येवं कथं ऽप्रतिभासधर्मः स्थौल्यम्ऽ इत्युक्तं धर्मोत्तरेण,तत्राप्ययमेवार्थः अर्थस्य स्वरूपेण नास्ति वेदनम्, ऽभाक्तं स्यादर्थवेदनम्ऽ इति वचनात् / तस्माद्यो ऽयं नीलादिप्रभासो नानादेशव्यापित्वेनानुभूयते स एव स्थूलप्रतिभास इत्यदोषः ये ऽपि तदारम्भकाः परमाणवो वैशेषिकाणां, साक्षादध्यक्ष्यगोचरा वैभाषिकाणां दर्शने, स्वस्वाकारसमर्पणप्रवणाः सौत्रान्तिकानां मते, ते ऽपि योगाचाराणां दर्शने न सम्भवन्ति / न खल्वेकः परमाणुः प्रसिद्धिमध्यास्ते / तस्याधरोत्तरचतुर्दिक्षु परमाणुमध्यासीनस्य नियमेन षडंशतापत्तेः / यो ह्यस्य स्वभावः पूर्वपरमाणुप्रत्यासन्नः न स एवापरपरमाणुप्रत्यासन्नो घटते / तयोरेकदेशताप्राप्तेः / एवं च स पूर्वपरमाणुसन्निहितस्वभावो ऽपरपरमाणुं प्रत्यासीदेद्यदि सो ऽपि तत्र स्यात् / असत्यामपि प्रत्यासत्तावाभिमुख्यमात्रे ऽप्ययमेव वृत्तान्तः / ततश्च परमाणुमात्रं पिण्डः प्रसक्तः //
योगाचारस्य मतम्
अथवायं विचारः, यदेतत्प्रतिभासमानं तदेकं तावन्न युक्तम्, अनन्तरोक्तविचारात् / नाप्यनेकं, परमाणुशः परमाणोरयोगात् / तथा हि - यद्यसौ सांशः कथं परमाणुः? अथ निरंशः तदा संयुक्ताः परमाणावः सर्वात्मना संयोगात् परस्परमभिन्नदेशाः स्युरिति सर्वः पिण्डः परमाणुमात्रं स्यात्, पर्वतो ऽपि क्षितिरपीति / तस्मादवश्यं तयोः स्वभावयोर्भेदो ऽभ्युपेतव्यः / यथा चानयोस्तथा
`धरोत्तरदक्षिणोत्तरपरमाणुप्रत्यासन्नानां स्वभाबानां च भेद इति षडंशतैव परमाणोर्न्यायबलादापतति / यदाह -
षट्केन युगपद्योगात् परमाणोः षडांशता / षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः //
इति /
न चैकासिद्धौ अनेकस्यापि सिद्धिरिति न सन्ति परमाणवः / यदि बाह्यो ऽर्थो नास्ति किं विषयस्तर्ह्ययं प्रतिभासः? प्रतिभासः खल्वेषो ऽनादिवितथवासनातः प्रवर्तमानो निरालम्बन एव लक्ष्यते / तथा हि - सति विषये सालम्बनता स्यात् / तेन चावयविना भवितव्यम्, परमाणुप्रचयेन वा / स चायमुभयो ऽप्यनन्तरोक्त बाधकप्रमाण [ग्राह] ग्रस्तविग्रहो न व्योमतामरसमतिशेते यथोक्तम् -
[न सन्नावयवी नाम न सन्ति परमाणवः /] प्रतिभासो निरालम्भः स्वप्नानुभवसन्निभः // इति //
निरालम्बनवादः
स्वप्नज्ञानं निरालम्बनं विदितमेव / न च स्वप्रजाग्रदनुभवयोर्भेदः कश्चिदप्यस्ति / सर्वप्रकारसाधर्म्यदर्शनात् / न चानालम्बनादनवाप्तरूपविशेषं विज्ञानं सालम्बनसम्बन्धमनुभवितुमुत्सहते / यदनालम्बनादविशिष्टं तदनालम्बनम्, यथैकस्मादाकाशकेशदर्शनात् द्वितीयम् [ज्ञानं] अनालम्बनाच्च स्वप्नज्ञानादविशिष्टं विवादास्पदीभूतं जाग्रद्विज्ञानमिति स्वभावहेतुः //
विज्ञानस्यस्य साकारत्वनिराकारत्वपक्षभेदः
यदि बाह्यो ऽर्थो नास्ति किं तर्हि परमार्थसत्? ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चविज्ञानमात्रं परमार्थसत् / यथोक्तम् -
`ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत्ऽ इति /
पुनश्चोक्तम् -
`नान्यो ऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः / ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते //
`उक्तं चैतद्भगवता -
`बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते / वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते // ऽइति //
साकारवादिनां मतम्
तत्र केचिदेवमाहुः - विज्ञानमेवेदं सर्व सर्वशरीरविषयभावेन प्रसिद्धम्, तच्च स्वसंवेदनमिति न कस्यचित् ग्राह्यं ग्राहकं वा / कल्पनया तु ग्राह्यग्राहकभाव इति व्यवस्थाप्यते / ततः परिकल्पितग्राह्यग्राहकभावरहितं विज्ञानं [साकारं] सत्यमिति /
निराकारवादिनां मतम्
अन्ये तु सकलाकारकलङ्कानङ्कितं शुद्धस्फटिकसंकाशं वास्तवं विज्ञानम् / आकारास्त्वमी वितथा एवाविद्यया दर्शिताः प्रकाशन्ते / तस्मात् ग्राह्यं नाम नास्त्येव ग्राह्याभावात् तदपेक्षया यद्ग्राहकत्वं विज्ञानस्य तदपि नास्तीति / माध्यमिकानां तु दर्शने तदपि विज्ञानं न परमार्थसत्, विचारासहत्वात् / स्वभावेन हि युक्तं पारमार्थिक मुच्यते लोके / न चास्य विचारतः कश्चित्स्वभावो घटते, एको वानेको वा, पूर्वविचारासहत्वात् / यथोक्तम् - ऽनेष्टं तदपि धीराणा विज्ञानं पारमार्थिकम् / एकानेकस्वभावेन वियोगाद्गनाब्जवत्ऽ // इति //
कीर्तिपादैरप्युक्तम् -
`भावा येन निरुप्यन्ते तद्रूपं नास्ति तत्त्वतः / यस्मादेकमनेकं वा रूपं तेषु न विद्यतेऽ // इति //
तथालङ्कारकारेणाप्युक्तम् -
`यदा तु न विकल्पस्य न चान्यस्य प्रमाणता / तदा विशीर्यमाणे ऽपि सर्वस्मिन् को ऽपराध्यतु //
`बद्धमुक्तादि भेदो ऽपि नैवास्ति परमार्थतः / भेदो हि नावभात्येव सर्वत्र समदर्शिनाम्ऽ //इति //
प्रयोगः पुनरेवम् - यदेकानेकस्वभावं न भवति न तत्परमार्थसत्, यथा व्योमकमलम्,एकानेकस्वभावं च न भवति विज्ञानमिति व्यापकानुपलब्धिः / न तावदयमसिद्धो हेतुः / साकारे ज्ञाने बहिरर्थ इव एकानेस्वभावायोग्यत्वस्य परिस्फुटत्वात् / यत्र हि लोकस्य बाह्यार्थव्यवहारस्तदेव साकारवादिनो ज्ञानम्, ततो यत्तस्य बहिर्भावे बाधकं तदेवान्तर्भावे ऽपि बाधकम् / न हि स्थूलमेकमनेकं च परमाणुरूपमपीष्यते / विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो यति वानेकः परमाणुशो भिन्नः, उभयथापि बाह्यार्थपक्षभावि दूषणमशक्यमुर्द्धतुम् / न हि तद्विज्ञाने बहिर्भावनिबन्धनं दूषणम्! येन तद्भावेन भवेत् / मूर्तिनिमित्तं बाधकम्,
नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम् / साकारतायां विज्ञानस्यापि मूर्तत्वात् / अयमेव हि देशावितानवा [नाकारो] मूर्तिरिति // श्रीमन्महाजगद्दलविहारीय महापण्डित भिक्षुमोक्षाकरगुप्तविरचितायां तर्कभाषायं परार्थानुमानपरिच्छेदः तृतीयः समाप्तः //
ग्रन्थाग्रं श्लोकमानं 840
तर्कभाषामिमां कृत्वा पुण्यमासादि यन्मया / तेन युण्येन लोको ऽयं बुद्धत्वमधिगच्छतु //
* यादृशं पुस्तके दृष्टं तादृशं लिखितं मया / यदि शुद्धमशुद्धं वा मम दोषो न दीयते //
उदकानलचौरेभ्यः मूर्खकेभ्यस्तथैव च / कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत्* //
तर्कभाषा समाप्ता
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
