Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
स्तूपलक्षणकारिकाविवेचन
- Thông tin
- GRETIL — ed. G. Roth, "Edition of the Stūpa-lakṣaṇa-kārikā-vivecanaṃ, Including the prakīrṇaka-caitya-lakṣaṇaṃ, Dharmadūta. Mélanges offerts au Vénérable Thích Huyên-Vi à l'occasion de son soixante-dixième anniversaire, ed. Bhikkhu T. Dhammaratana, Bhikkhu Pāsādika, Paris 1997, pp. 205-231. Cf. 2nd ed. (repr.?) in: Stupa: Cult and Symbolism, Contributions by G. Roth, F.K. Ehrhard, K. Tanaka, Lokesh Chandra, New Delhi 2009 (Śata-piṭaka Series, 624), pp. 34-59.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
स्तूपलक्षणकारिकाविवेचन
स्तूप-लक्षण-कारिका-विवेचनं इन्च्लुदिन्ग् प्रकीर्णक-चैत्य-लक्षणं
आर्य-लोकोत्तरवादिनो यत् कृतिर् आचार्य-भद्रव्यूहस्य
स्ल्क्व् प्. 208 सिद्धं नमो बुद्धाय ॥
स्ल्क्व् §1 प्रकीर्णकविनये प्रोक्तं यल् लोकोत्तरवादिनां । यच् चान्येषां निकायानां सूत्रादौ स्तूपलक्षणं ॥ 1 ॥
दर्शितं लोकनाथेन स्तोकं स्तोकं क्वचित् क्वचित् । स्ल्क्व् प्. 209 सर्वन् तन् सेतुम् इवेह भद्रव्यूहेन कथ्यते ॥ 2 ॥
अभिगम्ये भुवो भागे वास्तुशुद्धे ऽप्रतिष्ठिते । न खबद्धौन्नते स्निग्धे स्थाने शुचिनि कारयेत् ॥ 3 ॥
योजनोच्छ्रेक्ऽ; एक निर्दिष्टं परिक्षेपो ऽर्धयोजनः । क्रोशविस्तारा वेदिका प्रकीर्णविनयोदितं ॥ 4 ॥
परिणाहेन कुम्भस्य स्तूपम् उच्चे प्रकीर्तितं । तद् अंशेन तु नेम्य् आदि यावद् यष्टिशिरं क्रमात् ॥ 5 ॥
चतुरस्रा भवेन् नेमिर् अधस्तातः तद् अर्धेन । प्रमाणेन करण्डस्य अनुबन्धेन चापि का ॥ 6 ॥
करण्डस्याष्टभागेन अधो नेमिनिमर्जनं । उदकोद्गमने यावद् आ शुद्धेर् च्चो भुवः स्मृताः ॥ 7 ॥
अष्टभागोन्नतं - - कार्येण नेमि मात्रतः । मण्डलं चतुरस्रं वा अन्यथानुकारयेत् ॥ 8 ॥
तद् ऊर्ध्वं वेदिकाः कार्याः चतुस्त्रिद्व्ऽएक संख्यया । चतुष्कोणाष्टकोणा वा अथवा परिमण्डला ॥ 9 ॥
सार्च्चा गृह्ऽ; एकसंयुक्तां ऊर्ध्वां वेदिं प्रकल्पयेत् । करण्डस्य समन्तेन नानाविद्याविभूषितां ॥ 10 ॥
अतश् चतुकोणभागे मध्यकोष्ठप्रमाणतः । तिस्रस् तेषां तु कर्तव्या चतुर्थं बिंब ब ॥ 11 ॥
here the text breaks off, as folio 2a,b is missing. from the commentary, i am quoting the fragmentary pieces of the stanzas which were included in the text portion of folio 2a,b.
स्ल्क्व् §2 अधश् चतुर्थके भागे ... [12] (§16.6अ.2). बाह्यकोष्ठ षड् आयामेत्य् आदि ... [13] (§17.6अ.4-5). तद् अन्यानुक्रमक्षीणाम् इति ... [14] (§17.6अ.7). अधो वेद्या विस्तारस् तद् वेदिकाया ह्रस्वे कृतम् । ... [15] (§18.6ब्.7). उन्नामेन तथा कुर्याद् इत्य् आदि । [16] (§19.7अ.ल्). तिस्रो वेद्यः जंघावेदिकाद्याः इत्य् आध्याहार्यं । [17] (§19.7अ.2). न निर्गच्छेत् यथाबिंबम् इत्य् आदि । [18] (§19.7अ2-3). करण्डके ह्य् उद्गतेत्य् आदि । [19] (§20.7अ.4). स्ल्क्व् प्. 210 करण्डश् च ततस् तूरिकाम् इति । [20] (§21.7अ.7).अण्डकं वटयितव्यम् इति । [21] (§22.7ब्.ल्).तस्याधो बाह्यकोष्ठस्येति । [22] (§23.7ब्.2).तत्पात्राकारं शान्तिकाम् इति । [22अ] (§23.7ब्.3).सर्वान् मनासमं सोम्यम् इत्य् आदि । [23] (§23.7ब्.5).तद् ऊर्ध्वं बाह्यकोष्ठस्येत्य् आदि । [24] (§25.8अ.ल्).पञ्चविंशतिकोष्ठकम् इत्य् आदि । [25] (§27.8अ.45). श् चत्वारं पुद्गला मताः । अर्हन्त चक्रवर्तिस् तु प्रत्येकश् च जिनो जिनः ॥ 26 ॥
शैक्षाणां अर्हतश् चैव गणखड्ग जिनस्य च । एकाधिकं तु कर्तव्यं च्छत्रावल्यां विभूषितं ॥ 27 ॥
शरीरे धातुभिर् युक्तं धर्मधातुविवर्जितं । उष्णीषचन्द्रसूर्यश् च स्तम्भा घण्टद्वयेन च ॥ 28 ॥
स्वभावं कल्पवेदादीं स्तूपस्यास्य तु कथ्ययेत् । अधरा भूमि पादाय यावद् ऊर्ध्वं क्रमेण तु ॥ 29 ॥
स्ल्क्व् §3 1. दानं पृथिवी 2. शीलन् नेमि 3. चत्वार्य् आर्यवंशा अङ्गणां 4. चत्वार्य् आर्यसत्यानि सोपानानि 5. वैशारद्यानि स्तम्भाः 6. स्मृत्युपस्थानानि अधरा वेदी 7. सम्यक्प्रहाणानि द्वितीया वेदी स्ल्क्व् प्. 211 8. ऋद्धिपादास् तृतीया वेदी 9. श्रद्धादीनि पंचेन्द्रियानि चतुर्थी जंघावेदी 10. श्रद्धादीनि पञ्चबलानि कण्ठकं 11. अनित्यादीनि धर्ममुखानि चतस्रः पुष्पग्रहण्याः 12. अनास्रवाः प्रथमध्यानभूमिजा प्रस्रब्धिसंबोध्यङ्गं कण्ठकं 13. द्वितीयतृतीयध्यानभूमिजा प्रीतिप्रीति संबोध्यङ्गं कण्ठकवलयं वलितकं 14. अनागम्यचतुर्थध्यानादिभूमिजा उपेक्षावेदना-उपेक्षासंबोध्यङ्गं हर्मिका 15. स्मृतिधर्मप्रविचयवीर्यसमाधिसंबोध्यङ्गानि चत्वारो लोकपालाः स्ल्क्व् प्. 212
16. आर्याष्टाङ्गो मार्गो यष्टिः 17. क्षीणास्रवबलानि त्रीणि चावेनिकानि स्मृत्युपस्थानानि त्रयोदश च्छत्रवल्याः 18. उष्णीषो महाकरुणाविशुद्धिः (ब्éनिस्ति: तद् उपरि अनुत्तरमहाकरुणाविशुद्ध्या उष्णीषं ॥)
19. विमला निर्वाणधातुः सितातपत्रा स्ल्क्व् प्. 213 20. संवृत्तिसत्यं परमार्थसत्यं चन्द्रसूर्यौ 21. आर्यरत्नम् इदं गाथाद्वयम् सत्वविषयात्मगतं घण्टाद्वयं 22. सर्वाकारज्ञाताज्ञानं च्छत्रं 23. अलोभात्मिकचेतोविमुक्ति ध्वजं इत्य् अपि स भगवान् इत्य् आदि 24. यशस् पताकाः
प्रकीर्णकचैत्यलक्षनं समाप्तम् ॥
॥ आर्यलोकोत्तरवादिनो यत् कृतिर् आचार्य भद्रव्यूहस्य ।
स्ल्क्व् प्. 214
स्ल्क्व् §4 निर्जिताशेषदोषगं गुणोत्वाकपरागताः । जयन्ति जितजन्मानो भगवन्तस् तथागताः ॥ 1 ॥
स्तूपं कृत्वोपदेशेन येन्ऽ; अर्थो जगतः कृतः । तम् अहं शिरसा वन्दे भद्रव्यूहाह्वयं यतिं ॥ 2 ॥
सन्दिग्धाज्ञविपर्यस्तधियं संप्रतिपत्तये । स्तूपलक्षणशास्त्रस्य विवेचनम् इहोच्यते ॥ 3 ॥
स्ल्क्व् §5 प्रकीर्णम् इत्य् आदि । इष्टदेवताया नमस्कारः सदाचारानुवृत्तये । किम् अर्थम् आचार्येण प्रणामारम्भेन कृतः । कृतो ह्य् आचार्येण प्रकीर्णविनयसंग्रहकारिकादौ नमस्कारः । यस्य वाचो मनो देहाखतुल्याः सर्वथा मुनेः ॥ तं प्रनस्यत सातत्वं वक्ष्ये विनयकारिकाम् इति ॥ तद् एकदेश भूतं चैदम् इत्य् अनेन नात्राभिहितं । अत एव प्रकीर्णविनय इत्य् आदिना तयवताम् अस्य सूचयति शास्त्रकार इत्य् अतो न दोषः ।
स्ल्क्व् §6 प्रकीर्णके हि यद् विंशतिसहस्रायुषिप्रजायां भगवतः काश्यपस्य कृकिन राज्ञा स्तूपः कृतः योजनम् उच्चत्वेन योजनं परिणाहेन अर्धयोजन प्रतिसरेण क्रोशमात्रिकया वेदिकया । ताम्रलोहरैतिकाय हस्तचारणाय तम् उपदर्शयित्वोक्तं । स्थले प्रदेशे स्तूपं कर्तव्यं कारयता प्राचीरन् त्य् एवं कर्तव्यं.
स्ल्क्व् §7 अथाङ्गन (म्स्: अथाङ्गण) वेदी जंघा पुष्पग्रहणीयं । आ यका अण्डकं कण्ठकं कण्ठिका हर्मिका च्छत्रावली च्छत्रं घण्टा ध्वजः पताका स्तूपगृह आगम पुष्किरिणी प्राकार चोक्तं । पुन प्रकीर्णसंबन्धे नेदम् उक्तं । चक्रवर्तिभूतेन मया योजनम् उच्चं योजनाभिवेषञ् च स्तूपं कृतम् स्ल्क्व् प्. 215 इति । तद् अन्येषां निकायानाम् इति सर्वास्तिवादिनां स्तूपकल्पनासूत्रे क्षुद्रके चोक्तं ।
स्ल्क्व् §8 सगृहस्तूपः स्तम्भश् चतस्रः परिषण्णाः स्तम्भ सोपान लोकपाला स्था सचन्द्रसिताम्बरः पताका मकरध्वजादयः चोक्ताः ।
स्ल्क्व् §9 कूटागारसूत्रे चोक्तं । सर्षपफलमात्र धातोर् अर्थाय आमलकमात्रं स्तूपं कारयेत् । तस्मिं स्तूपे सूचीमात्रं यष्टिम् आरोपयेत् । बदरीपत्रमात्रं च्छत्रम् आरोपयेत् ।
स्ल्क्व् §10 अभिगम्य इति । अभिगम्ये प्रशस्ते बहुजनोपसंक्रमणीये न वा । वास्तुशुद्धे वास्तुविद्याप्रणीतलक्षणान्विते । अप्रतिष्ठिते अन्यचैत्यरहिते । न खादि वर्जितोन्नते मध्योन्नते स्निग्धे अरूक्षे शुचिनि अमेध्यरहिते ॥ इत्य् एवं स्तूपोद्गमप्रदेशविशेषं निर्धाय लक्षणं समुपदर्शयन्न् आह । परिनहेन कुम्भस्येत्य् आदि । परिहणं परिनाहः परिणाह । मध्यभागपरिक्षेपः परिबन्ध यथारोह परिणाहसंपन्नपुरुष इति ॥ तत्र च आरोहशब्देनोच्चत्वं कथ्यते । न परिणाहशब्देनोच्चत्वं । परिणाहशब्देनाभिधानात् ॥
स्ल्क्व् §11 एवम् इहापि परिणाहशब्देन मण्डलनाभेश् चतुर्दिशं । चक्रारन्यायेन मध्यसूत्रपरिक्षेपः परिबन्धो ऽभिप्रोक्तः । चतुर्थी पि कलशादिस्थसंस्थानेषु तन् मात्रं पृथुत्वस्याव्यभिचारात् । किं संबन्धिना परिणाहेन कुम्भस्य कुम्भुः करण्डक तस्य परिणाहेन स्तूप दैर्घेणेष्टम् इत्य् अर्थः । उक्तं हि प्रकीर्णविनये योजनम् उच्चत्वेन योजनं परिणाहेनेति । चतुरस्रा भवेन् नेमिर् इत्य् आदि । चतुरस्रा चतुष्कोणभूम्यां कुम्भः करण्डः मण्डलानुरूप्येन नेमिविस्तारो भवतीत्य् अर्थः ।
स्ल्क्व् §12 अत्र प्रकीर्णे चोक्तं । एष कश्चित् स्तूपं कारयता प्राचीरान्तात् तावत् कारयितव्येति तद् अनुक्रमार्थं चात्र चतुरस्रके मण्डलसूत्रपाताद् बाह्याबाह्यतो मध्यकोष्ठपरिक्षेपो ऽभ्यन्तरतश् च । एकासीतिकोष्ठकन्याये स विज्ञेयां । स्ल्क्व् प्. 216 ततो ऽभ्यन्तरे च नेमिभित्तिविस्तारार्धेन द्रष्टव्यम् इति । करण्डकस्याष्टभागेनेत्य् अदि कुम्भपरिणाहाष्टमांसेनाधस्तान् नेम्या निमर्जनं । उदकोद्भेदं वा यावद् आशुद्धेर् वा भुवः पृथिव्याः स्मृतम् इत्य् अर्थः । अष्टभागोन्नतम् इत्य् आदि नेमिमानाद् अष्टमांसम् आदाय तेनाजितम् उन्नतं कार्यम् इत्य् अर्थः ।
स्ल्क्व् §13 यतः प्रकीर्णके ह्ऽ; उक्तं । अंगन न खस्थल कार्यम् इति । विस्तारतस् त्व् अया वेदिकाद् बहिः कुम्भपरिणाहपादेनैष्टं । चतुर् अस्रिका मेधी वेदी जंघापुटावेदी कर्तव्येति ।
स्ल्क्व् §14 सर्वास्तिवादकानाम् आगमेषूक्तं । चतस्र परिषण्णाः कर्तव्या इति चतुस् त्रि द्व्ऽ; एक संख्यायेत्य् अनेनेन वेदिकाभिसंबन्धः क्रियते । चतस्रः परिसण्णा कर्तव्याः । चत्वारि स्मृत्युपस्थानानि प्रथमा वेदी ॥ यावत् पंचेन्द्रियाणि चतुर्थी वेदी । अनेनेव विनये तत्व उक्ता वेदिकानां ।
स्ल्क्व् §15 कतमः संस्थानाभिसंबन्धः क्रियते । तद् आह च चतुष्कोनाष्टकोणा वा अथवा परिमण्डलेति । सर्वा गृह्ऽ; एकसंयुक्तान् इत्य् आदिना । आयकपुष्पग्रहाण्य् आपेक्षतां । चतुर्थी जंघावेदिकात् कुर्याद् इत्य् अर्थ । यतः प्रकीर्णके उक्तं । चतुर्दिक्षु आयकाः कर्तव्याः । अयम् एषु बुद्धविग्रहाः स्थापयितव्या । पुष्पग्रहणी कर्तव्येति । तत्रायकशब्देन प्रतिपालकम् उच्यते । पुष्पग्रहणीशब्देन न च वेदिकाबाह्यत समन्ततो वाप्य पंक्त्याकारेण नानासंस्थानगृहद्वारमात्रे पूर्वजातकप्रतिमाणां रचनेति ॥
स्ल्क्व् §16 अधश् चतुस्कोणके भागेत्य् आदि । हर्मिकाम् उपादाय यो ऽधश् चतुर्थको स्ल्क्व् प्. 217 बाह्यकोष्ठांशस् तत्र धान्यराशिकृतः । सर्वेणैव चतुर्थकेन । त्रिभि पादैः पात्राकृति । द्वाभ्यां पादाभ्यां खगण्डाकृतेः । पादैकेन कलशाकारस्येति । मध्यकोष्ठप्रमाणम् इति मध्यकोष्ठप्रमाणाद्य प्रमाणगतेनेत्य् आदि । एतद् उक्तं भवति । तत्रापि भागविभागेन धान्यराश्य् आकृतेः ॥ मध्यकोष्ठप्रमाणेन तिस्रो वेद्यः कार्याः परिशिष्टानां तु यथा प्रत्यनुसारेनेति । चतुर्थी बिंबपश्यगेति कुम्भपरिग्रहानुरोधेनेत्य् अर्थः । एतद् उक्तं भवति । अधश् चतुर्थके भागे कृतानां तिस्राणां वेदीनां यावन्ताम् अप्रमाणं । चतुर्थी जंघावेदी चतुष्कोष्ठापि कुम्भसंस्थानेष्व् इत्य् अर्थः । यथः प्रकीर्णके उक्तं । जंघापुटवेदी कुक्षितव्येति । जंघायाः पुटवेदी जंघापुटवेदीति । जंघासंबन्धिनी वा पुटावेदी कुम्भस्य पद्मवलितम् इत्य् अर्थः ।
स्ल्क्व् §17 बाह्यकोष्ठषडायामेत्य् आदि । षण्णां बाह्यकोष्ठानां यो विस्तारस् तद् आयामानां तद् दैर्घ्याम् अधोवेदी कुर्यात् । अथ बाह्यकोष्ठेन वेदिका उक्तेति षट्संख्यपरिच्छिन्न-आयामो यस्या वेद्यः साबाह्यकोष्ठ षडायाममात्राम् अधोवेदीं कल्पयेत् । यतः प्रकीर्णके योजनम् उच्चस्य क्रोशमात्रावेदीम् उक्तेति । तद् अन्यानुक्रमक्षीणाम् इति । अधोवेद्यायामाद् उपरि वर्तिन्यः तिस्रो वेद्यः । तान्य् अनुक्रमेण मध्यकोष्ठप्रमाणेन कुर्यात् । अथवा चतस्रः परिषण्णाः कर्तव्या इति वचनात् ॥ मेरुपरिषण्डवत् । अर्धर्धोन्नति स्ल्क्व् प्. 218 क्षीणञ् च कल्पयेत् । एवं तावद् भूङ् गत स्तूपम् आख्यायाधुना भूमिमर्जने स्तूपं कृतं । भुवस् तु कल्पनाचलाद् एवेत्य् अर्थः । स्थैर्यपुष्टिकरं किल भवतीति । अतो भूम्या निमर्जनेन कारणायायन् दर्शयन्न् आह । वेत्स्यादिशु समं । इदन् तु निमर्जने निमर्जनार्थं भूमौ स्तूपस्य भवतु उन्मानतो क्षयो वेदिकानां विस्तारस् तु किम् अर्थं । स्तूपस्योच्चत्वेन समीकरणार्थं । यत स्तूपायामतुल्यो ह्य् अधो वेद्या विस्तार इष्यते ।
स्ल्क्व् §18 यथा ह्य् उक्तं महावस्तुनि चक्रवर्तिभूतेन मया स्तूपो कृतो योजनोच्चत्वेन योजनम् अभिनिवेशेनेति । यत्र हि यथा धान्यराश्याकृतेः कुम्भस्य योजनानि निवेश्य योजनाभिनिवेशो गम्यते । तथा वेदिकाया अपि तु कुम्भपरिणाह प्रमाणेन स्तूप उच्चाभिप्रेतः । अधोवेद्या विस्तारस् तद् वेदिकाया ह्रस्वे कृतं । कथं प्रमाणातिक्रमः । भूवस्तुकल्पनाबलान् नेम्याङ्गणप्रमाणस्य प्रमाणे ऽन्तःकरणाद् अनतिक्रमः कलशाकृतेः । वेद्युन्नामस्याल्पत्वात् निमर्जनंम् नाक्ष्यं ।
स्ल्क्व् §19 उन्नामेन तथा कुर्याद् इत्य् आदि । तद् उक्तं भवति । हर्मिकाम् उपादाय यो ऽधश् चतुर्थबाह्यकोष्ठांशस् तस्य यो विभागः प्राक्कृतस् तेनैव विभागेनैकोन तिस्रो वेद्यः जंघावेदिकाद्या इत्य् आव्याहार्यं । न निर्गच्छेत् यथा बिंबम् इत्य् आदि ।
स्ल्क्व् §20 उदकोगमनेन कृतायां नेम्यां । अल्पयां वाथ वसत्यां नेमितः । करण्डं यथा नाधः प्रतिसेत् तथोर्ध्वां वेदीम् उन्नतां कुर्यात् । यतो ऽधः प्रविष्टो नाधाय कल्पते ॥ करण्डकेह्य् उद्गतेत्य् आदि । प्राध्यान्येन ऊर्ध्ववर्तिन्याश् चतुर्थ्या जंघावेद्या ह्रासोन्नामकरणेनैव कुम्भस्योद्गमम् अधोमर्जनञ् च संपद्यते ।
स्ल्क्व् प्. 219 स्ल्क्व् §21 वेदीत्रयस्य चोन्नामह्रासो यतः तस्मान् नाम्ऽ; अधोंगणे च कुम्भे ह्रस्वात् ततो कुर्याद् इत्य् अर्थः । यस् तु पश्चाद् वक्षति । कुम्भस्योद्गमनं तत् कुम्भस्य दृश्यभागमात्रम् अपेक्षति । यतस् तत्र परमार्थतो वेद्या ह्रस्योन्नाममात्रोपलभ्यते । न कुम्भस्योद्गमनम् अधो निमर्जनं वेति । करण्डश् च ततस् तूरिकाम् इति जंघापुटावेद्या उपरि धान्यराश्य् आदि संस्थाने न कुम्भं वर्तुलं कुर्यात् ॥ यतः प्रकीर्णे उक्तं ।
स्ल्क्व् §22 अण्डकं वटयितव्यम् इति । नवधा विभजितेत्य् आदि कोष्ठविभागकारिकाद्वयं सुगमं । बाह्यकोष्ठद्वयोन्मानवेद्यासनाद् उद्गतो वर्तुलार्धपौष्टिको धान्यराशिसंस्थानो न तु त्रिभागोच्छ्रितः । शिवस्थलत्वाद् इति ॥
स्ल्क्व् §23 तस्याधो बाह्यकोष्ठस्येत्य् आदि । तस्य वर्तुलार्धांश्यो यो बाह्यकोष्ठो ऽर्धमानेन । अर्धबाह्यकोष्ठोन्मानवेद्यासनाद् यन् समुत्थितः । तत्पात्राकारं शान्तिकाम् इति । ततो पी दि । तस्माद् अपि पात्रसंस्थानात् । तेनैवान्तरोक्तप्रमाणेन बाह्यकोष्ठकोन्मानवेद्यासनाद् यन् समुत्थितं । तद् उन्नतिकरं खग्ऽ; अण्डासंस्थानम् इति । सर्वोन्मानसमं सोम्यम् इत्य् आदि । अभिनिवेशमात्रं अपास्य यः सत्वभावेन ईषन् समाधिकबाह्यकोष्ठकोर्ध्वोन्मानावेद्यासनान् समुत्थितं । तदा पुष्पकरण्डेषु न कर्तव्येत्यादि ।
स्ल्क्व् §24 न केवलं बोधिसत्वानां प्रतिमा कुम्भेन कार्या कांचनेति बुद्धप्रतिमा अपि । यतः प्रकीर्णके उक्तं । लक्षम् इति प्रतिमालंकारैर् हि स्तूपम् अलंकर्तुम् इति । यत्र हि प्रतिमालंकारस्यापि प्रतिषेधस् तत्र कथं प्रतिमाया स्यात् । स्वयं भगवता स्तूपप्रदक्षिणी करुणाद् इति ॥
स्ल्क्व् §25 तद् ऊर्ध्वं बाह्यकोष्ठस्येत्य् आदि बाह्यकोष्ठस्य भागत्यागोन्नामतश् चतुर्थार्धपरित्यागः परिग्रहः शेषपादत्रयस्य च्छ् (?) इद् उन्नामस् स्ल्क्व् प्. 220 तस्य षट् कृत्वा अर्धांशं कुम्भान्तः प्रविष्टम् आंशद्वयं कण्ठकं ।
स्ल्क्व् §26 एकम् आंशकं कण्ठिकावलितकां हर्मिका यथाक्रमं । एकादशभागवृध्या अर्धांशविस्तारतो वा । बाह्यकोष्ठविस्तारा हर्मिका तस्याधः स्वोन्मानेन समन्ततः कण्ठकं ॥ क्षीणां कुर्यात् । यथा शोभानुरूपतो वा अन्यथा कल्पयेद् इति । से साकारिका सुगमा ।
स्ल्क्व् §27 पञ्चविंशतिकोष्ठम् इत्य् आदि । पञ्चविंशतिकोष्ठविभागेन यष्टेर् मूलमध्यशिरसा परिग्रहं सुगमो हर्मिकाया ऊर्ध्वं चतुष्ठ पि कुम्भसंस्थानेषु बाह्यकोष्ठद्वयोन्मानो ऽधस् व यावत् । हृदयकोष्ठप्रवेशो स्तूपः । कलशादिसंस्थानेषु यथाक्रमेण हृदयकोष्ठोद्गमात् । यथा यष्टेर् आयामक्षयां वा परिणाहक्षयो वाप्य् अवगन्तव्यम् इत्य् एवं यावत् ।
स्ल्क्व् §28 स्तूपलक्षणं प्रमाणं संस्थानतस् सुनिर्दिष्टम् । यथा शोभत अथोक्तलक्षणप्रमाणानतिक्रमेण संस्थानतः प्रस्ताकुम्भाक्रान्त्या ॥ रजतमणिकनकशिलादारुमूर्तिकृद् इति । सुरभिप्रदेशे प्रशस्तामनोहरे । स्वहस्तेन वा कर्महस्तेन वा । तथा स्वबुद्ध्या विकल्प कार्यं । यतः प्रोक्तं यथा स्या शोभनो भवेत् । तथा कुर्याद् इति । आगमेस्मिन् इति । स्तूपलक्षणशास्त्रस्य वस्तुमात्रोपदर्शनात् । यन् मयोपर्जितं पुण्यं तेनास्तु स्तूपस् तु सुगतो जन इति ॥
स्तूपलक्षणकारिकायां विवेचनं समाप्तं ॥ ॥
after this follows the newārī note of a nepalese librarian.
स्ल्क्व् §29 श्री स्यंगुयायित सिया जेतनकु 35 अंगु लिडा 5 यवन्हस 7 सअंकनघाव ॥ घातसकु 9 कु 5 घलसकु 3 उमडे थंथु उचकु 18 अं 5 यवन्हन प्रमानेति मध्यमादि क्रमेन ॥
on the top drawsheet, there are the following lines: 1 x x x x x pralase tīsijya pu manasīyā tachosathu se kho thu teya u(?)paritā na nesaṃ 2 ālayana || etad dharma x x x chela x x x x x || tad anantara draṃma (dharmma) likya buna āleyana ||
स्तुपलक्षणकारिकायां विवेचनं वुद्ज (?) 2 संवत्
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
