Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
सुवर्णवर्णावदान
- Thông tin
- GRETIL — Sitaram Roy: Suvarṇavarṇāvadāna [Decipherment and historical study of a palm-leaf Sanskrit manuscripts-an unknown Mahāyāna(avadāna) text from Tibet.], Patna : K.P. Jayaswal Research Institute 1971 (Historical Research Series, vol. VII); compared with: Rajapatirana, Tissa (1974), Suvarṇavarṇāvadāna, translated and edited together with its Tibetan translation and the Lakṣacaityasamutpatti, A thesis submitted for the Degree of Doctor of Philosophy in the Australian National University, Canberra. pdf part 1, pdf part 2. Also consulted: Dharmaśrībhadra and Rin chen bzaṅ po, "gSer mdog gi r
राज्यलाभाद् इव पुरा न सा प्रीतिर् अभून् मम मुक्तं त्वां सङ्कटाद् अस्माद् दृष्ट्वा या वर्द्धते ऽधुना ।1। पूर्णचन्द्रद्युतिहरन् नीलोत्पलदलेक्षणं । मुखाबुजम् इदं पुत्र दिष्ट्या पश्यामि ते ऽधुना ।2। उत्तप्तवर्णलावण्यगुणसम्पद्विभूषितं । सर्वावयवसम्पन्नं दिष्ट्वा पश्यामि ते वपुः ।3। दौरात्म्यं ख्यापितं केन निर्घृणेन दुरात्मना । वधायासि परित्यक्तो येन त्वं वल्लभो नृणां ।4। चरितं विनयोपेतं श्रोत्रानन्दकरम् वचः । रूपम् अत्यद्भुतञ् चेदं वद कस्य न वल्लभं ।5। गुणेषु कस्य प्रद्वेषः को दोषानुगुणः सदा । वज्रसारसमङ् कस्य हृदयं को विशेषवित् ।6। ध्रुवञ् चाश्ममयं तस्य चेतनारहितं कृतं । व्याहृतं हृदयं तस्य त्वं पुत्रक न वल्लभः ।7। प्रदीप्तम् वज्रम् आरब्धं प्रक्षेप्तुम् मम मस्तके । कण्ठे वा निशितं शस्त्रं शक्तिं वक्ष्यसि वा धृढां ।8। प्रपातयितुम् आरब्धः केन मे ह्य् अयशो ऽशनिः ॥ वधो येनाभ्यनुज्ञातस् तव सर्वजनप्रिय ।9। हा केन दारुणञ् वाचा कर्मेदं तव कारितं । को मे वैरानुबद्धः स्यात् कस्याहं न प्रियो भवेत ।10। मृत्युनालिङ्गितः को ऽसौ प्राणाः कस्य न वल्लभाः । येन ते वध आज्ञप्तः शीघ्रम् आख्यातुम् अर्हसीति ।11।
स्व रोय् 156,5 - 158,159 [62] अथ सुवर्णवर्णः कुमारश् चिन्तयितुं प्रवृत्तः । स चेद् अस्य राज्ञ एवं कथयामि प्रचण्डेनामात्येन ममेदं कर्म कारितम् इति । चण्डोयं राजा स्थानम् एतद् विद्यते । यतः सांप्रतम् एव प्रचण्डम् अमात्यं प्रघातयति । तत् कथम् अत्र प्रतिपत्तव्यं ॥ अथ वाक्कर्मस्वकतावलम्बयितव्या । ध्रुवञ् च मया पूर्व्वेषु जन्मान्तरेषु पापकम् अकुशलं कर्म कृतं यस्यायं विपाको न च पूर्वकर्मविपाकं मुक्त्वा एवम् अनागसो वधाय परित्यज्यत इति निश्चयम् उपगम्य राजानम् उवाच ।
मयैवं तत् कृतं कर्म पापकं पूर्वजन्मसु । यस्यायम् ईदृशो देव विपाकः समुपस्थितः ।1। तद् अनिष्टञ् च नामाद्य स्वकानाम् एव कर्मणां । विपाकं परिभुञ्जानो प्य् आदेक्ष्यामि कम् न्व् अहं ।2।
इत्य् उक्त्वा स्थविरानन्दसमीपम् उपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर् निपतितः । स्थविरानन्देन चोक्तो वत्स एषा काशिसुन्दरी दारिका विषवेगेनावष्टब्धा तद् उत्तिष्ठैनां सत्याधिष्ठानेन स्वस्थी कुरु महाजनकायश् च प्रत्याय्य इति ।
स्व रोय् 159,1 - 162,3 [63] अथ सुवर्णवर्णः कुमारः स्थविरानन्दस्य प्रतिश्रुत्य सर्वसत्त्वाध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुम् आरब्धः । येन मे सत्येन सत्यवचनेनास्याः काशिसुन्दर्या दारिकाया अन्तिके मन सूक्ष्मो ऽपि क्लेशो नोत्पन्नो रागो वा द्वेषो वा मोहो वा विहिंसा वान्यतम् अन्यतमो वा चैतसिक उपक्लेशो ऽनेन सत्येन सत्यवचनेन चास्याः शरीरविषम्विलयम् उपगच्छत्व् इत्य् अथैतस्मिन् सत्याधिष्ठानसमनन्तरम् एव काशिसुन्दरीदारिकायाः शरीराद् विषं विलयम् उपगतं स्वस्थीभूतशरीरा च सुप्तप्रबुद्धा इवोत्थिता । तां स्वस्थीभूतशरीराम् उत्थिताम् आलोक्य तेन महाजनकायेनानेकैश् च देवताशतसहस्त्रैर् एकरवेनोच्चैर् नादो मुक्तः । अहो आश्चर्यम् अहो कुमारस्याशयविशुद्धता । महर्द्धिको ऽयं कुमारो महानुभावो यत्रेदानीं सत्याधिष्ठानबलाद् इयम् अनेन काशिसुन्दरी दारिका समुत्थापिता प्रियेण जीवितेनाच्छादितेति । ततः काशिसुन्दरी दारिका समन्तान् निरीक्षितुम् आरब्धा यावत् पश्यति महाश्मशाने स्थविरानन्दं महता भिक्षुसङ्घेन सार्द्धम् अर्द्धचन्द्राकारोपगूढं । नानारत्नप्रद्योतिते दिव्ये महति सिंहासने निषण्णं राजामं अजातशत्रुम् अनेकप्राणिशतसहस्रपरिवारम् आत्मानञ् च नीलपीतलोहितावदातायां शिविकायाम् आरोपितं दृष्ट्वा च पुनः सम्भ्रान्ता चिन्तयितुं प्रवृत्ता । किम् अयं स्वप्नम् आहो स्विच् चित्तविभ्रमः । अथ वा केनचिद् एतन् मायाकर्मविदर्शितं भवतीति । यावत् तस्या ज्ञातिभिर् एतद् विस्तरेण समाख्यातं । उक्ता च सर्वथा यद् एतत् तव जीवितं तत् सर्वं स्थविरानन्दम् आगम्येति
स्व रोय् 162,3 - 167,5 [64] तच् छ्रुत्वा काशिसुन्दरी दारिका स्थविरानन्दे समुपजातबहुमाना परं प्रसादं प्रवेदयितुम् आरब्धा । अथ काशिसुन्दरी दारिका उद्यानं समनुस्मृत्य प्रचण्डञ् चामात्यं उद्विग्नमनसा मरणभयविषादविह्वलेक्षणावस्थान् ताम् एव परां प्रवेदयन्ती स्त्रीभावम् अनुशोचितुम् आरब्धा । अहो स्त्रीत्वं नामातिजघन्यतरं सर्वदुष्खास्पदभूतं । यद् आगम्य् आहम् इमाम् अवस्थाम् अनुप्राप्तेति सम्विग्नमानसा त्वरितम् उत्थायैकञ् च वस्त्रम् आदाय स्थविरानन्दसमीपम् उपगम्य तद् एकं वस्त्रं स्थविरानन्दाय निर्यात्य पादयोर् निपत्य तीव्रेन प्रसादवेगेन स्थविरानन्दगुणानुस्मरणपूर्व्वकं सत्याधिष्ठानं कर्तुम् आरब्धा ॥ येन सत्येन सत्यवचनेन त्वं विदेहमुने । सर्वेषां बुद्धशिष्याणाम् अग्रप्राप्तो ऽतिश्रेष्ठो विशिष्टः प्रवर उत्तरो ऽनुत्तरः श्रावकनागः । श्रावकसिंहः । श्रावकऋषभः । श्रावकजानेयः । श्रावकपद्मः । श्रावककुमदः । श्रावकपुण्डरीकं । श्रावकसारथिः । श्रावकसार्थवाहः । श्रावकचन्द्रः । श्रावकभास्करः । श्रावकरत्नं । श्रावकचूडामणिः । शासनकर्णधारः । शासनधूर्द्धरः । अर्हन् क्षीणास्त्रवः । कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तो महर्द्धिको महानुभावो महादक्षिणीयो ऽनेन सत्येन सत्यवचनेनाद्यैव मे स्त्रीन्द्रियम् अन्तर्द्धातु पुरुषेन्द्रियं प्रादुर्भवतु । अथैतत् सत्याधिष्ठानसमनन्तरम् एव तस्याः स्त्रीन्द्रियम् अन्तर्हितं पुरुषेन्द्रियं प्रादुर्भूतं । पुरुषो बभूव अतिरुपो दर्शनीयः प्रासादिको विचित्रवस्त्रालङ्कृतशरीरो गगनतलाच् चास्या दिव्यन्विचित्रं मनोरमं
वस्त्रवर्यम् पतितुम् आरब्धं । अपीदानीं वस्त्रवर्येण पतता तथा गगनमण्डलं संच्छन्नं यदा तस्मिन् मुहुर्ते तस्मिन् महाश्मशाने सूर्यरश्मयो न प्रज्ञायन्ते स्म । ततस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं स्थविरानन्दस्यगुणमाहात्म्यं दृष्ट्वा गगनतलगतैर् अनेकैर् देवताकोटिनियुतशतसहस्त्रैर् हाहाकारो मुक्तः । अहो आश्चर्यम् अहो ऽत्यद्भुतं । अहो स्थविरानन्दस्य गुणमाहात्म्यं । अहो उदारता । अहो सुविशुद्धं दक्षिणीयं क्षेत्रं यत्र हि नामैकवस्त्रप्रदानमात्रेण प्रणिधानसमनन्तरम् एव काशिसुन्दरीदारिकायाः स्त्रीन्द्रियम् अन्तर्हितं । पुरुषेन्द्रियं प्रादुर्भूतमियञ् चेदृशी विभूतिर् इति । ततस् ताभिर् देवताभिः प्रसन्नमनस्काभिर् दिव्यं पुष्पवर्षं पातितं । दिव्यानि न वाद्यानि च पराहतानि ॥
स्व रोय् 167,5 - 170,3 [65] ततः काशिसुन्दरः पुरुषः स्थविरानन्दगुणमाहात्म्यसामर्थ्याद् अभिमनोहरम् आत्मनो यथाभिलषितं सद्यो विपाकफलम् उद्वीक्ष्य परमविस्मयावर्जितचित्तसन्ततिः परमप्रीतिप्रामोद्यजातप्रहर्षरोमाञ् चकर्कसीकृतमूर्त्तिर् उत्थायजानुमण्डलद्वयम् उपनिक्षिप्य भूमौ कृतकरपुटः स्थविरानन्दम् अभिष्टोतुम् आरब्धः ।
नमस् ते दुर्लभाचिन्त्य सुविशुद्धगुणैश् चित । येनाद्यैवम् अनाथुस्य दत्तम् ये जीवितं त्वया ।1। यदि त्वन् न भवेस् त्राता विशुद्धज्ञानलोचनः । कथं प्राणवशिष्टं स्यां त्वम् मे प्राणप्रदो मुने ।2। अहो ते गुणमाहात्म्यमहो सत्त्वहितैषिता । यद् एवं सङ्कटाद् घोरात् परित्रातस् त्वया जनः ।3। अहो ते दक्षिणीयत्वं सुविशुद्धं सुदुर्लभं । यत्रैकवस्त्रत्यागो ऽपि प्रयात्य् एवम् महार्घतां ।4। तथैकवस्त्रम् आदाय मया त्वयि महामुने । यथाभिलषितं प्राप्तम् अद्य फलम् इदं शुभं ।5। आधारम् इव यन् मन्ये दोषाणाम् महताम् अपि । तत् स्त्रीत्वं त्यक्तम् अद्यैव पुंस्त्वं चाधिगतं मया ।6। तच् चैष दिव्यसदृशो दिव्यालङ्कारभूषितः । गगनाद् वस्त्रवर्यञ् च पतत्य् अतिमनोहरं ।7। एवं गुणिनि सुक्षेत्रे ये वै कारान् न कुर्वते । अधन्या वञ्चितास् ते मोहाद्यैः क्लेशशत्रुभिर् इति ।8।
स्व रोय् 170,3 - 171,3 [66] स एव स्थविरानन्दम् अभिष्टुत्य कर्मफलप्रत्यक्षदर्शी चिन्तयाम् आस । न मम प्रतिरूपं स्याद् यद् अहम् इष्टानिष्टकर्मफलप्रत्यक्षदर्शी पुनर् अप्य् आगारम् अध्यावसेयम् इति ॥ स स्थविरानन्दस्य पादयोर् निपत्योवाच ॥ लभेयाहम् आर्य स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्थविरस्यान्तिके ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च समनुशिष्टो यथा यावत् सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं ।
स्व रोय् 171,3 - 176,3 [67]अथास्मिन्न् अन्तरे दिवाकरः सार्थवाहः सपत्नीको ऽपि पुत्रवियोगशोकदुःखाभ्याहतो राजगृहस्य नगरस्य मध्ये शृङ्गाटकस्य पृथिव्याम् उत्थायोत्थायात्मानं पातयति । पुनः पुनः पृथिव्याम् आवर्तनपरिवर्तनं करोति । उभाभ्यां पाणीभ्याम् आत्मानं ताडयति । हा पुत्र हा पुत्रेति चार्त्तस्वरं विरौति स्म । अश्रौषीद् दिवाकरः सार्थवाहः स्थविरानन्देन गगनतलेनागत्य सुवर्णवर्णः कुमारः परित्रातो महाश्मशाने आश्चर्या भूतानि वर्तन्त इति । श्रुत्वा च पुनः सपत्निको ऽप्य् अमृता चाभिषेकाभिसिक्त इव परमानन्दितमनाश् चक्रवर्त्तिराज्याभिषेकाभिषिक्त इव परमप्रीतिप्रामोद्यजातः सहसैवोत्थाय त्वरितगतिप्रचारया राजगृहान् नगरान् निर्ग्गत्य महाश्मशानम् अनुप्राप्तो यावत् पश्यति सुवर्णवर्णं कुमारं राहुग्रस्तविनिर्मुक्तं शरतकालपूर्णचन्द्रं स्थविरानन्दसमीपे निषण्णं ताञ् च स्थविरानन्दगुणसामर्थ्यजनितां विभूतिं ततस् तस्य तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा स्थविरानन्दे समुपजातबहुमानः परमप्रसादवेगावर्जितचित्तसन्तानः सर्वशरीरेण स्थविरानन्दस्य पादयोः पतितः । उत्थाय चोभे जानुमण्डले पृथिव्याम् उपनिक्षिप्य हर्षाद् अश्रूर्मिभिर् आपूर्यमाणवदनकमलः । कृताञ्जलिपुटः स्थविरानन्दमभिष्टोतुम् आरब्धः ।
अहो त्वया महाभाग माहात्म्यं सम्प्रकाशितं । यन् महासङ्कटाद् घोरात् परित्रातस् त्वया जनः ।1। अहो ऽनुकम्पामाहात्म्यम् अहो ज्ञानस्य सम्पदः । सर्वज्ञेनैव भवता विशुद्धा सम्प्रकाशिताः ।2। तथायं पुत्रको ऽस्माकं महतो व्यसनार्णवात् । दयाज्ञानप्रभावाभ्यां सम्यग् उत्तारितस् त्वया ।3। यदि वायं त्वयाद्यैव न समन्वाहृतो भवेत् । निमग्नो दुःखजम्बाले सपत्नीको ह्य् अहञ् चिरं ।4। त्वाम् आगम्याहम् अद्याग्रं महाकारुणिकात्मजं । पुत्रशोकार्णवोत्तीर्णः शोकाटव्याश् च निःसृतः ।5। मुक्तः शोकमयैः पाशैर् निर्गतः शोकचारकात् । शोकायसभयाद् भ्रष्टो विमुक्तः शोकपञ्जरात् ।6। न लग्नः शोकपङ्के ऽद्य न क्षतः शोककण्टकैः । न दष्टः शोकसर्पेण न विद्धः शोकसायकैः ।7। न च्छिनः शोकनिस्त्रिङ्शैर् न प्राप्तः शोकशत्रुभिः । न ग्रस्तः शोकमकरैर् न दग्धः शोकवह्निना ।8। त्वयैवं कुर्वता चाद्य भासितो ऽयम् महाजनः । उन्मीलितानि नेत्राणि प्रीणितानि मनांसि च ।9। आनन्द इति नामेदम् अहो स्वन्वर्थताङ् गतं । येनैवं कुर्वता त्राणं परमानन्दिता वयम् इति ।10।
स्व रोय् 176,3 - 177,4 [68] अथ दिवाकरः सार्थवाहः स्थविरानन्दम् अभिष्टुत्योत्थाय च सुवर्णवर्णस्य कुमारस्य समीपम् उपगम्य सपत्नीको ऽपि सहगाढं कण्ठे परिष्वज्य मुहुर्मुहुः परिष्वजते स्म । प्रहर्षजातो ऽश्रुपर्याकुलेक्षणश् च सुवर्णवर्णं कुमारं अनिमिषेन समवलोकयन्न् उवाच ।
शरत्पूर्णेन्दुबिम्बश्रीकान्तिद्युतिहरम्ब्वपुः । मनोरथशतैर् लब्धं दिष्ट्या पश्यामि ते पुनः ।1। स्निग्धनीलायताताम्रपर्यन्तेक्षणशालिनं । स्थविरानन्दम् आगम्य पुनः पश्यामि ते मुखम् इति ।2।
स्व रोय् 177,4 - 181,4 [69] अथ सुवर्णवर्णः कुमारः संसारदोषोद्विग्नचेता मातापितराव् अनुज्ञाप्य स्थविरानन्दस्य पादयोर् निपत्योवाच । स्थविर लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्वाख्यातधर्मविनये ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च समनुशिष्टो यथानेन तस्मिन्न् एव मुहूर्ते सर्वक्लेशप्रहाणाद् अर्हत्त्वं प्राप्तं । सो ऽर्हत्त्वप्राप्तः पूर्वैकां जन्मपरम्पराम् अवलोकितुम् आरब्धो यावत् पश्यत्य् आत्मानम् अतीव पुण्यमहेशाख्यं तस्यैतद् अभवत् । क्षुणो ऽहं स चेन् मया विज्ञातुम् अभविष्यद् इत्य् अहम् एव पुण्यमहेशाख्य इति । मया यावद् आप्तं दानानि दत्तानि पुण्यानि कृतान्य् अभविष्यन् । तद् इदानीम् अपि सत्त्वानां पुण्येषु गौरवोत्पादनार्थं स्वं पुण्यमहात्म्यं प्रकाशयेयम् इति । ततस् तेन तानि वस्त्राणि स्वशरीराद् अवतारितानि तत्समनन्तरम् एव चापराणि तादृशान्य् एव प्रादुर्भूतानि । पुनः पुनर् अवतारयितुम् आरब्धस् तथैव चास्य पुनः पुनः प्रादुर्भवन्ति । तेनावतार्यावतार्य स्थविरानन्दस्य पुरस्तान् महान् वस्त्रराशिः कृतः । तञ् च तेषाम् अपि महार्हाणाम् वस्त्राणां राशिम् अभिनवोदितदिवाकरकिरण्विच्छुरितम् इव जाम्बुनदसुवर्णराशिं कनकायमानम् उद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिर् उवाच । अहो आश्चर्यम् अहो ऽद्भुतम् अहो पुण्यानां माहात्म्यम् अहो सुकृतानि पुण्यानि अनेन महात्मना । यत्र हि नामैवम् अव्यवच्छिन्नम् अवतारयतो ऽपि चैषाम् अतिमहार्हाणां पर्यन्तम् अपि नाधिगम्यत इति । ततस् तेन मातापित्रोस् तानि वस्त्राणि निर्यातितानि ताभ्याम् अपि स्थविरानन्दप्रमुखं भिक्षुसंघम् आदिं कृत्वा यावान् असौ जनकायो महाश्मशानं सन्निपतितः । तत्र च एकैकः प्राणीवस्त्रयुगलेनाच्छादितः । सुवर्णवर्णस्य तु भिक्षोः पुण्यानुभावेनासौ वस्त्रराशिर् नैव क्षीयते ।
स्व रोय् 181,4 - 184,185 [70] ततः सुवर्णवर्णो भिक्षुर् उपरि विहायसम् अभ्युद्गम्य ऋद्ध्या राजगृहन् नगरं गत्वा मध्ये शृङ्गाटकस्य सुवर्णवर्णानां वस्त्राणां स्वशरीराद् अव(6)तार्यावतार्य महाप्रमाणं राशिं कृत्वा स्वरेण राजगृहन् नगरम् आपूरयन्न् उवाच । भवन्तो मयैतानि वस्त्राणि परित्यक्तानि यस्य वो यावद्भिः प्रयोजनं स तावन्ति प्रतिगृह्णात्व् इति । श्रुत्वा तत्क्षणाद् एवानेकानि प्राणिशतसहस्त्राणि सन्निपातितानि । यावत् पश्यन्ति नगरमध्ये शृङ्गाटकस्य तेषां सुवर्णपीतानां वस्त्राणां अतिमहाप्रमाणं राशिं अरुण्किरणपरामृष्टम् इव जाम्बूनदसुवर्णराशिम् इव मिलिमिलायमानम् आयुष्मान्तं च सुवर्णवर्णम् उत्तप्तकाञ्चनगिरिशृङ्गम् इव परमया श्रिया ज्वलन्तं गगनतलगतम् उद्वीक्ष्य स महाजनकायः परमविस्मयावर्जितचित्तसन्ततिः परमप्रहर्षोर्मितरङ्गापूर्यमाणवदनकमलश् चिन्तयाम् आस अहो आश्चर्यम् अहो ऽद्भुतं तत् किं पुनर् अनेन महात्मना कृतं भवेद् येनायम् एवं महर्द्धिको महानुभावो यदि च वयं जानीमो वयम् अपि तत् कुर्यामहे येन वयम् अप्य् एवं महर्द्धिकां स्याम इति । समुत्पन्नाभिलाषाः सन्देहदोलारुढाश् च परस्परं संजल्पं कर्तुम् आरब्धाः । तेषाम् एतद् अभवद् एष एव महात्मा महर्द्धिको महानुभावः सिद्धव्रतो दिव्यज्ञानसमन्वागतश् च एतम् एव परिपृच्छाम इति । ततो ऽसौ जनकायः परमविस्मयोत्फुल्ललोचनः कृतकरपुटो गगनतलासक्तदृष्टिर् आयुष्मन्तं सुवर्णवर्णम् एकरवेण प्रणम्योवाच ।
उपेतस् त्वं महाभाग दिव्येन ज्ञानचक्षुषा । येनैवं त्वं महेशाख्यस् त्वं समाख्यातुम् अर्हसि ।1। येन प्राप्नोति सम्पत्तिम् इह लोके परत्र च । भोगानाञ् च गुणानाञ् च तान् स्वयं ख्यातुम् अर्हसी ति ।2।
स्व रोय् 185,2 - 196,3 [71] ततस् तान् स महासत्त्वः करुणाक्षिप्तमानसः । ह्लादयन् महता वाचा स्वरेणापूरयन् दिश ।1। अमुम् एवार्थम् उद्दिश्य मयेदं दर्शितं हि वः । अनुपूर्वेण वक्ष्यामि शृणुतेदं वचो मम ।2। पुण्यैर् आप्नोति सम्पत्तिम् इह लोके परत्र च । भोगानाञ् च गुणानाञ् च पुण्यैश् चाहम् महर्द्धिकः ।3। यदि वो न प्रियं दुःखं प्रियाश् च सुखसम्पदः । क्षिप्रं कुरुध्वं पुण्यानि सुखं पुण्यस्य सञ्चयः ।4। या काचित् सुखसम्पत्तिर् इह लोके परत्र च । प्राप्यते निवृत्तिश् चापि पुण्यानाम् एव तत् फलं ।5। धनिनः श्रेष्ठिनो विप्राः सार्थवाहादयश् च यान् । भुञ्जते विपुलान् भोगान् पुण्यानाम् एव तत् फलं ।6। मनोऽभिरामा स्त्रीभृत्यपुत्रमित्रादिसम्पदः । यद् भवन्ति मनुष्याणां पुण्यानाम् एव तत् फलं ।7। रूपलावण्यसम्पत्तिर्मनोनयनहाररिणीं । लब्ध्वा यद् राजन्ते मर्त्याः पुण्यानाम् एव तत् फलं ।8। अभेद्यं परिवारत्वम् अक्षयां दानसम्पदः । लभन्ते खलु यन् मर्त्याः पुण्यानाम् एव तत् फलं ।9। जातिस्मरत्वं सौभाग्यं श्रुतम् आदेयवाक्यतां । प्राप्नुवन्ति मनुष्या यत् पुण्यानाम् एव तत् फलं ।10। विस्तीर्णा भोगसम्पत्ति ज्ञातिभिः सहिताः सदाः यन् मर्त्या मुञ्जते हृष्टाः पुण्यानाम् एव तत् फलं ।11। यद्भवन्ति मनुष्याणाम् असंख्या धनसम्पदः । निःसपत्नाः स्थिराश् चैव पुण्यानाम् एव तत् फलं ।12। यद् उत्तरकुरौ द्वीपे ह्य् अममा अपरिग्रहाः मनुष्या नियतायुष्काः पुण्यानाम् एव एव तत् फलं ।13। यत् तण्डुलफलं शालिम् अकृष्टोप्तम् महार्हं । मनुष्या भुञ्जते तत्र पुण्यानाम् एव तत् फलं ।14। कल्पदूष्याणि चित्राणि यत् तत्राभरणानि च । आच्छादयन्ति मनुजाः पुण्यानाम् एव तत्
फलं ।15। यत् तद् उत्तरकुरौ द्वीपे मनुष्यास् तद् अनन्तरं । च्युता देवा भविष्यन्ति पुण्यानाम् एव तत् फलं ।16। सुधाभक्तादिसम्पति यन् नागा देवपुत्रवत् । पाताले भुञ्जते दिव्याः पुण्यानाम् एव तत् फलं ।17। यत् प्रभावादिराजश्रीसम्पदं प्राप्य देववत् । मनुजेन्द्रा विराजन्ते पुण्यानाम् एव तत् फलं ।18। बलेन चक्रवर्त्तित्वं यद् अवाप्य महीभुजाः । देवेन्द्रवद्विराजन्ते पुण्यानाम् एव तत् फलं ।19। अशेषमनुजां कृत्सां सप्तरत्नादिसम्पदम् । बुङ्क्ते यच् चक्रवर्ती च पुण्यानाम् एव तत् फलं ।20। त्रिदशेन्द्र समां लक्ष्मीं प्राप्य यत् परिभुङ्क्ते । वेमचित्रादयो दैत्याः पुण्यानाम् एव तत् फलं ।21। चत्वारो लोकपाला यां विभूतिं धनदादयः । भुञ्जते मुदिताश् चित्रां पुण्यानाम् एव तत् फलं ।22। नन्दनादिवनोद्यानविभूतिं भुञ्जते सुराः । यत् सार्द्धं देवकन्याभिः पुण्यानाम् एव तत् फलं ।23। विचित्रां देवराज्यादिसम्पदं त्रिदशाधिपः । यत् सदा मुदितो भुङ्क्ते पुण्यानाम् एव तत्फलम् ।24। यथाभिलषितान् दिव्यान् भोगान् यत् परिभुञ्जते । विमानवासिनो देवाः पुण्यानाम् एव तत् फलं ।25। यत् केचिद् दशभिः स्थानैर् आयुर्वर्णबलादिभिः । देवेभ्यो ऽप्य् अधिका देवा पुण्यानाम् एव तत् फलं ।26। कामधातूत्तमाञ् चित्रां यद् दिव्यां भोगसम्पदः । कामधात्वीश्वरो भुङ्क्ते पुण्यानाम् एव तत् फलं ।27। यथाभिलषितान् कामान् देवेषु मनुजेषु च । लभन्ते यद् अयत्नेन पुण्यानाम् एव तत् फलं ।28। यद् ब्रह्मादयो देवा ध्यायिनो ध्यानभूमिषु । प्राप्नुवन्त्य् उत्तमं सौख्यं पुण्यानाम् एव तत् फलं ।29। ध्यायिनो ध्यानजं यच् च तृष्णाक्षयसुखञ् च यत् । प्राप्नुवन्ति सुखं शान्तिं पुण्यानाम् एव तत्
फलं ।30। सम्बुद्धश्रावका ये च भवन्त्य् उग्रगुणान्विताः । महर्द्धिका महात्मानः पुण्यानाम् एव तत् फलं ।31। प्राप्नुवन्ति महात्मानो ये ऽपि कल्पशतात्ययात् । बोधिं प्रत्येकसम्बुद्धाः पुण्यानाम् एव तत् फलं ।32। अप्रमेयैर् निरुपमैर् गुणैर् यत् समलङ्कृताः । भवन्ति सम्यक्सम्बुद्धाः पुण्यानाम् एव तत् फलं ।33। रूपयौवनशालिन्यः पुंभिः कुलविभूषणाः । स्त्रियः पुण्यैर् अवाप्यन्ते पुण्यानाम् एव तत् फलं ।34। पुण्यैर् अवाप्यते स्वर्गः पुण्यस्य अप्सरसः फलं । प्राप्यन्ते ऽभिमताः पुण्यैः सर्वकामसमृद्धयः ।35। पुण्यैर् अवाप्यते तीक्ष्णा तथा च विमला मतिः । पुण्यैर् आयतनैः श्रद्धाः पुण्यैः पटुतरा स्मृतिः ।36। पुण्यैः प्रियत्वं वक्तृत्वं सुस्वरत्वं यशस्वता । सर्वाः पुण्यैर् अवाप्यन्ते शुभा गुणविभूतयः ।37। न तद् अस्ति सुखं लोके यत् पुण्यैर् नाधिगम्यते । तस्मात् सुखार्थिभिर् नित्यं कर्त्तव्यः पुण्यसंचयः ।38। स्वल्पं पुण्यं मया कृत्वा विपश्यिनि तथागते । यथाभिलाषितं प्राप्तम् अत्यन्तविपुलं फलं ।39। षट्सु देवनिकायेषु राज्यैश्वर्याधिपत्यतां । जातिकोटिसहस्त्राणि सुखं संभुक्तवान् अहं ।40। अमितान्य् असपत्नानि मनुष्येषूत्तमास् तथा । चक्रवर्त्त्यादिभूतेन भुक्ता मे भोगसम्पदः ।41। तस्य पुण्यस्य माहात्म्याद् यत्र यत्रोपपन्नवान् । तत्र तत्र बभूवाहं महेशाख्यः सुखान्वितः ।42। रूपवान् गुणसम्पन्नो मुखेनोत्पलगन्धिना । प्रियश् चादेयवाक्यश् च सुमनोज्ञाः सुरान्वितः ।43। इदानीम् अपि तस्यैव पुण्यस्याभिमताम् इमां । रूपादिगुणसम्पत्तिं पश्यतेमां मनोरमां ।44। महाधने महाभोगे जातो ऽस्मि विपुले कुले । वस्त्रैर् जाम्बूनदाकारैर् अवगुण्ठित
विग्रहः ।45। कायाद् वहति सर्वस्माद् गन्धाश् चन्दनसन्निभः । गन्धो नीलोत्पलस्यैव तथा वाति मुखाच् च मे ।46। यत् किञ्चिद् अभिकाङ्क्षामि वस्त्ररत्नादिसम्पदां । तच् च संङ्कल्पमात्रेण मम सर्वं समृध्यति ।47। प्रव्रज्या च मया लब्धा साक्यसिंहस्य शासने । अर्हत्वञ् च मया प्राप्तं शीतीभूतो ऽस्मि निर्वृतः ।48। इयम् मे पश्चिमा जातिर् म्मम नास्ति पुनर्भवः । पुनर् नाभ्यागामिष्यामि निवास्यामि निराश्रयं ।49। यस् तेन कर्मणा क्षिप्तो विपाकफलविस्तरः । तस्य नावैमि पर्यन्तम् अद्याप्य् एवंविधो ऽपि सन् ।50।
स्व रोय् 196,3 - 197,3 [72] तदत्यद्भुतम् अपरिमितम् अचिन्त्यं च तस्य सकाशात् पुण्यमाहात्म्यं श्रुत्वानेकैः प्राणिकोटिनियुतशतसहस्त्रैः परमप्रसादवेगावर्जितचित्तसन्ततिभिर् भगवच्छासनसत्कारपराङ्मिखैर् अपि यथेच्छं दानानि दत्त्वा पुण्यानि कृत्वा प्रणिधानानि कृतानि । अथायुष्मान् सुवर्णवर्णास्य महाजनकायस्यैवम् अनेक प्रकारं पुण्येषु गौरवोत्पादनार्थञ् च पुण्यमाहात्म्यं प्रकाश्य
स्व रोय् 197,3 - 199,5 [73] तत एवोपरि विहायसा सद्यो महाश्मशानम् आगत्य स्थविरानन्दप्रमुखम् भिक्षुसंघम् अनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः । राज्ञा चाजातशत्रुणा श्रुतं यथा किल प्रचण्डेनामात्येनेर्ष्याप्रकृतेनोद्याने काशिसुन्दर्या दारिकाया अयञ् चायञ् चानर्थः कृतः । सुवर्णवर्णस्याभ्याख्यानं दत्त्वा निरपराध एव वधाय परित्यक्त इति । श्रुत्वा च पुनस् तीव्रक्रोधपर्याकुलेक्षणो भृत्यान् आमन्त्रयते भवन्तः । कथन् नामानेन दुरात्मनैवं व्यवहर्त्तव्यं सवर्था परित्यक्तो मे प्रचण्डो ऽमात्य इति । प्रचण्डश् चामात्यस् तत्रैव सन्निपतितो ऽभूत् । अथ प्रचण्डो ऽमात्य एतद् राज्ञो वचनम् उपश्रुत्य मरणभयविषादविहवलेक्षणः प्रवेपमानः सर्वाङ्गावयवः सहसैवोत्थाय निष्पलायितुम् आरब्धो महाजनप्रद्विष्टो ऽसौ तस्योपर्य् अनेकानि प्रणिशतसहस्राणि प्रधावितानि समन्ताच् च परिवार्य महाजनकायेन गृहीतो गृहीत्वा च खरचपेटपार्ष्णिप्रहारादिभिस् तं ताडयितुम् आरब्धाः । स ताड्यमानः प्रगाढदुःखवेदनाभ्याहतो विक्रोष्टुम् आरब्धः आर्यानन्द परित्रास्यस्व माम् अनाथम् अत्राणम् अशरणम् अपरायणं निरालोकं प्रियेण जीवितेनाच्छादयेति ॥
स्व रोय् 200,1 - 203,204 [74] स्थविरानन्देन चासौ महाजनकायो ऽभिहितो भवन्तो मैनं प्रघातयताहं राजानम् अजातशत्रुम् अनुसंज्ञापयिष्यामीति । ततस् तेन महाजनकायेनासौ स्थविरानन्दवचनम् उपश्रुत्य प्रतिमुक्तः स्थविरानन्दश् च राजानं निरीक्षितुम् आरब्धः । राजोवाच । किम् आज्ञापयसीति । स्थविरानन्देनोक्तं । महाराज मुञ्चैनम् इति 200,5-201,1 राजोवाच । समयतो मुञ्चामि यदि स्वाख्याते धर्मविनये प्रव्रज्य स्थविरानन्दस्यं यावज्जीवम् उपस्थानं करोतीति । स्थविरानन्देनोक्तम् एवम् अस्त्व् इति । स च तेन जनकायेन निर्दयं ताडितः । प्रगाढदुःखवेदनाभ्याहतो मुर्च्छितस् तिष्ठति । स्थविरानन्देन चायुष्मान् सुवर्णवर्णो ऽभिहितः सत्याधिष्ठानेन प्रचण्डस्यामात्यस्य शरीराद् दुःखवेदनां प्रस्तम्भयेति । अथायुष्मान् सुवर्णवर्णः सर्वसत्त्वहिताध्याशयप्रवृत्तेन चेतसा सत्याधिष्ठानं कर्तुम् आरब्धः । येन सत्येन सत्यवचनेनास्य प्रचण्डस्यामात्यस्यैवम् अत्यन्तापकारिणो ऽप्य् अन्तिके मम सूक्ष्मो ऽप्य् आघातो नोत्पन्नः । तेन सत्येन सत्यवचनेनास्य शरीराद् दुःखवेदना प्रतिप्रश्रभ्यताम् इति । सत्याधिष्ठानसमनन्तरम् एव प्रचण्डस्यामात्यस्य शरीराद् दुःखवेदना प्रविगता स्वस्थीभूतशरीरश् च समुत्थाय भगवच्छासने समुपजातबहुमानः स्थविरानन्दसमीपम् उपगम्य पादयोर् निपत्योवाच । लभेयाहं स्थविरानन्द स्वाख्याते धर्मविनये प्रव्रज्याम् उपसम्पदं भिक्षुभावञ् चरेयम् अहं स्थविरानन्दस्यान्तिके ब्रह्मचर्यम् इति । स स्थविरानन्देन प्रव्राजितस् तथा च स्वम् अनुशिष्टो यथा तेन तस्मिन्न् एव मुहूर्ते सर्वक्लेशप्रहाणाद् अर्हत्वं प्राप्तं । सो ऽर्हत्वप्राप्तो गगनतलम् अभ्युद्गम्य विचित्रैः प्रातिहार्यम् महाजनमनान्सि प्रह्लादयन् गगनतलाद् अवतीर्य स्थविरानन्दप्रमुखं भिक्षुसंघं अनुपरिपाटिकया वन्दित्वैकान्ते निषण्णः ।
स्व रोय् 204,1 - 205,5 [75] ततस् तद् अत्यद्भुतं स्थविरानन्दस्य महात्म्यं दृष्ट्वा सा परत् स्थविरानन्दे ऽत्यर्थम् अभिप्रसन्ना । ततस् तां पर्षदं तथाभिप्रसन्न्मनस्काम् आलोक्य स्थविरानन्देन तथा विधा धर्मदेशना कृता यां श्रुत्वानेकैः प्राणिशतसहस्रैस् महान् विशेषो ऽधिगतः । कैश्चित् स्रोतआपत्तिफलं प्राप्तं । यावद् अर्हत्त्वं साक्षात्कृतं । कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि । कैश्चिद् यावद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भरा व्यवस्थिता दिवाकरेण च सार्थवाहेन सपत्नीकेन सत्यानि दृष्टानि । अनेकैश् च देवताशतसहस्त्रैस् ततस् ताभिर् देवताभिः प्रसन्नमनस्मभिः दिव्यं वस्त्रवर्यं पातितं । दिव्यानि च वाद्यानि पराहतानि दिव्यैश् चोत्पलपद्मकुमुदपुण्डरीकमान्दारकाद्यैर् जानुमात्रेणोच्छ्रेन सर्वं महाश्मशानं विचित्रैः पुष्पैर् अवकीर्णं ।
स्व रोय् 205,5 - 208,5 [76] अथ राजा ऽजातशत्रुस् तद् अत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा परमप्रसादावर्जितचित्तसन्तान उदानम् उदानयाम् आस । अहो आश्चर्यम् अहो ऽत्यद्भुतं अहो आर्यानन्देन स्वगुणमाहात्म्यं प्रकाशितं अहो तथागतशासनमाहात्म्यम् उद्भावितं अहो यत् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्सम्बुद्धेन स्थविरमहाकाश्यपेन चास्य शासनं विनयस् तं तत् सफलीकृतं ॥ अहो तथागतादित्य ऽस्तङ्गते आर्यानन्दभास्करेण स्वगुणकिरणजालैर् उद्योतिता दिशः । अहो तथागतशशिन्य् अनित्यतासुरेन्द्रराहुणा ग्रस्ते आर्यानन्दचन्द्रेण स्वम् अतिमयूखविसरैर् वैनेयकुमुदवनानि प्रबोधितानि । अहो तथागतवियोगतीक्ष्णदुःखार्ककिरणसन्तपितः स्थविरानन्द_महामेघेन स्ववचनामृतवर्येण प्रह्लादितो लोकः । अहो तथागतस्य मनोरथाः सम्यक्परिपूरिताः । अहो तथागतशासनकर्णधारत्वं प्रकाशितं । अहो तथागतशसनधूर्द्धरत्वं प्रकाटीकृतं । अहो अग्रः श्रावकः शब्दः सफलीकृतः । अनेनैवात्यद्भुतेन स्वगुणमाहात्म्यं सामर्थ्याद् अन्तसत्त्वहितसम्पादनेन सर्वज्ञगुणमाहात्म्यं प्रतिविवृतं । अहो दर्शितानेन महात्मना तस्य भगवतो महाकारुणिकस्य प्रत्युपकारबुद्धिर् इत्य् ॥
स्व रोय् 208,5 - 211,5 [77] अथ राजा स्थविरानन्देन प्रशादवेगावर्जितचित्तसन्ततिः । स्थविरानन्दसमीपम् उपगम्य सर्वशरीरेण स्थविरानन्दस्य पादयोर् निपतितः । उत्थाय उभे जानुमण्डले पृथिव्याम् उपनिक्षिप्य प्रसादरोमाञ्चकर्कशीकृतमूर्तिः कृतकरपुटः स्थविरानन्दम् अभिष्टोतुम् आरब्धाः ।
नमस् ते पुरुषश्रेष्ठ नमस् ते श्रुतशागराः । नमस् ते ऽत्यद्भुताचिन्त्य जिनशासनधूर्द्धर ।1। बुद्धशासनमाहात्मयम् अहो सम्यक् प्रकाशितं । अचिन्त्यम् अद्भुतं ते ऽद्य कुर्वता जगते हितं ।2। यत् तद् भगवता चार्यकाश्यपेन च धीमता । शासनं त्वयि विन्यस्तं तद् अद्य सफलीकृतं ।3। इदम् अत्यद्भुताचिन्त्यं सत्त्वार्थं कुर्वता महत् । सर्वज्ञगुणमाहात्म्यं अद्य ते प्रतिबिम्बितं ।4। किञ् चित्रं यदि सम्बुद्धः सर्वार्थं कृतवांस् तथा । सर्वज्ञः सर्वदर्शी च महाकरुणिको ह्य् असौ ।5। इदञ् चित्रतरं मन्ये श्रावकेण सता त्वया । महाकारुणिकेनैव यत् सत्त्वार्थं महत् कृतं ।6। अहो सुलब्धलाभो ऽहं मागधश् च जनो ह्य् अयं । येषाम् एवं प्रमत्तानां त्वं हितावहितः सदा ।7। स्थाने तथागतेनेदं त्वयि शासनम् अर्पितं । येनाद्य सुगतेनेव कृतम् अत्यद्भुतं महत् ।8। ततो ऽसौ स्थविरानन्द गुणमाहात्म्यविस्मितः सम्बुद्धं समनुस्मृत्य नमस्कारं सदाकरोत् ।9। नमो ऽस्तु ते महावीर सम्बुद्ध द्विपदोत्तम । यस्य ते श्रावको ऽप्य् एवं सदा सत्त्वहितोद्यतः ।10। तथागतेन माहात्म्यम् उच्चैः सम्यक् प्रकाशितं । अशून्यम् इव मन्यामस् त्वयैनां जनतां यथेति ।11।
स्व रोय् 211,5 - 213,214 [78] ततो राजा स्थविरानन्दं पप्रच्छ स्थविर किं दिवाकरेण सार्थवाहेन सपत्नीकेन कर्म कृतं । यस्य कर्मणो विपाकेनाढ्यो महाधनो महाभोगः ससंवृत्तः । भगवच्छासने च सत्यदर्शनः कृतः । काशिसुन्दरेण प्रचण्डेन च भिक्षुणा किं कर्म कृतं येनाढ्यो महाधने महाभोगे कुले जातो भगवच्छासने च प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं । सुवर्णवर्णेन च भिक्षुणा किं कर्म कृतं । यस्य कर्मणो विपाके नाद्य महाधने महाभोगे कुले जातः । एवमभिरुपो दर्शनीयः । प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेत उत्तप्तसुवर्णवर्णया वर्णपुष्कलतया समन्वागतः । सर्वजनमनोनयनहरः सुवर्णवर्णैर् वस्त्रैर् अवगुण्ठितविग्रहः । कायाच् चास्य चन्दनगन्धो वाति । मुखाच् च नीलोत्पलगन्धो जन्मनि चास्य वस्त्रवर्यं कर्णिकारकुसुमवर्यं च पतितं । तानि च वस्त्राणि सुवर्णवर्णानि एवम् अत्यार्थ महर्द्धिको महानुभावो भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति ।
स्व रोय् 214,1-3 [79] स्थविरानन्दः कथयति । महाराजा एभिर् एव पूर्वम् अन्यासु जातिषु । कर्माणि कृतानि यावत् फलन्ति खलु देहिनां ॥
स्व रोय् 214,3 - 215 [80] भूतपूर्वं महाराज इत एकनवते कल्पे भगवां विपश्यी नाम तथागतो लोक उदपादि विद्याचरणसमम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् । स बन्धुमतीं राजधानीम् उपनिःसृत्य विहरति बन्धुमतीयके दावे ।
स्व रोय् 215,1 - 216,1 [81] तेन खलु समयेन बन्धुमत्यां राजधान्यां कर्णो नाम सार्थवाहः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्द्धी बन्धुमत्यां राजधान्यां अग्रकुलिकस् तेन सदृशात् कुलात् कलत्रम् आनीतं । स तया सार्द्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा सम्वृता यावत् कर्णः सार्थवाहः पञ्चवणिकशतपरिवारो महासमुद्रम् अवतीर्णः ॥
स्व रोय् 216,1 - 218,2 [82] स च गर्भो यथा वृद्धिसु गच्छति । तथा कर्णस्य सार्थवाहस्य यद् आवारीगतं क्षेत्रगतं देशान्तरगतं वार्थजातं तत्र किञ्चिद् अग्निना दग्धं किञ्चिच् चौरैर् अपहृतं किञ्चित् पौरुषेया गृहीत्वा निःपलानाः । यावत् सार्थवाहपत्नी परिपूर्णे काले प्रसूता दारको जातः कृष्णच्छविर् अत्यन्तविरूपो ऽष्टादशभिर् अवलक्षणैर् दूषितगात्रस् तस्य कायान् मुखाच् च तादृशो ऽत्यन्तविरसो गन्धः प्रवातुम् आरब्धो यं घ्रात्वा तद्गृहस्थाः परिजनाः परं वैमुख्यम् उपगताः । तस्य दारकस्य जातमात्रस्य तस्मिन् गृहे ऽग्निः प्रादुर्भूतो येन तद् गृहं निरवशेषञ् च स्वापतेयं दग्धं । सार्थवाहपत्नी कथञ्चिद् दारकम् आदाय तस्माद् गृहान् निर्गता । यदा च सो ऽग्निस् तद् गृहं निरवशेषञ् च स्वापतेयं दग्ध्वा स्वयम् एव निर्वाणः । तदा सार्थवाहपत्नी तत्रार्द्धभग्ने खण्डाववरके प्रविश्य पटार्द्धं पृथिव्यां प्रसार्य दारकं शायित्वा दीर्घम् उष्णञ् च निःश्वस्य कर्णं सार्थवाहम् अनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टम् ईदृशो मे विपर्ययः समुपस्थित इति ।
स्व रोय् 218,2 - 219,4 [83] कर्णस्य सार्थवाहस्य ये दासीदासकर्मकरपौरुषेयास् ते तां विपत्तिं दृष्ट्वा यामो मा वयम् अपि विनङ्क्ष्याम इति भीताः कर्णस्य सार्थवाहस्य पत्नीम् अपहाय निःपलानाः । तत्रैका प्रेष्यदारिका संलक्षयति । मया कर्णस्य सार्थवाहस्य गृहे नैकप्रकारा सम्पद् अनुभूता । न मम प्रतिरूपं स्याद् यद् अहम् अस्याम् अवस्थायां सार्थवाहपत्नीम् अनाथम् एकाकिनीं च्छोरयित्वा निःपलायेयम् इति । सैवैका सार्थवाहपत्न्याः पार्श्वे ऽवस्थिता । तस्याश् च सार्थवाहपत्न्याः सर्वन् तत् स्वापतेयम् अग्निना दग्धम् एकदैवसिकम् अपि भोक्तव्यन् नास्ति ।
स्व रोय् 219,4 - 221,3 [84] ततः सा प्रेष्यदारिका ककर्णस्य सार्थवाहस्य ये सुहृत्सम्बन्धिबान्धवास् तेषां सकाशङ् गत्वा कथयति भवन्तः । कर्णस्य सार्थवाहस्य पत्न्या इदृश्य् अवस्था वर्त्तते । योगोद्वहनं कुरुतेति । यत एव ते तस्या योगोद्वहनं कर्तुम् आरब्धास् तत एवैतेषाम् अपि कुलेष्व् अनर्थशतानि प्रादुर्भूतानि । तैर् उपलक्षितम् अयङ् कर्णस्य सार्थवाहस्य पुत्रो ऽत्यन्तं न मङ्गलो ऽस्यापुण्यसामर्थ्यात् कर्णस्य सार्थवाहस्य सर्वो गृहविभवादिविस्तरो विनाशङ् गतस् तद् यदि वयम् अप्य् अस्य योगोद्वहनं करिष्यामो ऽस्माकम् अपि गृहेषु न चिराद् एवेयम् ईदृश्य् अवस्था भविष्यति । तद्यथा कर्णस्य सार्थवाहस्य । सर्वथा न तस्य युक्तं नामापि ग्रहीतुम् अपि तु तैः सा प्रेष्यदारिकाभिहिता न भूयस् त्वयास्मन्निवेशनान्य् उपसंक्रमितव्यानीति ॥
स्व रोय् 221,3 - 222,4 [85] सा तैर् निर्भत्सिता चिन्तयाम् आस । इदानीं सार्थवाहपत्नी सर्वेण सर्वनिशक्रन्दा जाता । कथम् अत्र प्रतिपत्तव्यम् । अथवा गृहीतो ऽयं मया भारः सुतराम् एवाधुना सार्थवाहस्य पत्नी परिपालयितव्येति । ततः परगृहाणि गत्वा भृतकया कर्म कर्तुम् आरब्धा । तत्र च यन् मूल्यं लभते तेन सार्थवाहपत्नीम् आत्मानञ् च दारकञ् च पोषयितुम् आरब्धा । तस्य च दारकस्य परमविरूपत्वाद् विरूप इति नाम व्यवस्थापितं । दैवात् सा प्रेष्यदारिका प्रतिदिवसम् अपचीयमानं मूल्यं प्रतिलभते । ततस् ते त्रयः प्राणिनो ऽति कृच्छ्रेण यापयितुम् आरब्धाः ॥
स्व रोय् 222,4 - 224,5 [86] सार्थवाहपत्नी संलक्षयति । अहं हि सर्वैर् दासीदासकर्मकरपौरुषेयैः सुहृत्सम्बन्धिबान्धवैश् च परित्यक्ता यत किञ्चिन् मम जीवितं सर्वं तदेनां प्रेष्यदारिकाम् आगम्य । एषा हि मे मातृकल्पा स्नेहेन । तत् कियन्तं कालम् एकाकिनी कर्म कुर्वाणा सा परिखेदं गमिष्यति । यावच् च मूल्यं लभते । तावता न शक्यते यापयितुं । तद् अहम् अपि स्वकर्मापराधम् अनुभवाम्य् अहम् अपि भृतिकया कर्म करोमीति विचिन्त्य तया प्रेष्यदारिकया सह परगृहाणि गत्वा भृतिकया कर्म कर्तुम् आरब्धा सा परमसुकुमारा क्षुद्दुःखादिपरिपीडिता च कर्म कुर्वाणा मुहुर् मुहुर् मोहम् उपगच्छति । ततश् च परिखिन्ना दीर्घम् उष्णञ् च निःश्वस्य कर्णं सार्थवाहम् अनुस्मृत्य रोदितुं प्रवृत्ता । हा कष्टम् ईदृशो मे विपर्ययः समुपस्थितो यन् नाम सकलनगरोत्कृष्टा श्रीसम्पदम् अनुभूयेदानीम् इहैव जन्मनि सकलनगर-उत्तमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद् दुःखदौर्मनस्यं प्रत्यनुभवामीति ।
स्व रोय् 224,5 - 227,228 [87] ताञ् च तथा दुःखपरिपीडितां रुदन्तीम् आलोक्य सा प्रेष्यदारिका रोदितुं प्रदत्ता । हा कष्टम् इहैव जन्मनि सार्थवाहपत्नी काशिशूक्ष्मातिविचित्राम् वरधारणी विविधसुरभिगन्धकुसुममालाविभूषितगात्री । नैकसुगन्धद्रव्ययोजितमुखवासकावासितकपोला अप्सरस इव नन्दनवनोद्यानगता । अन्नपानवस्त्रालङ्कारादिभिर् दासीदासकर्मकरपौरुषेयसुहृत्सम्बन्धिबान्धवादीन् यथार्हं सम्विभज्य_ इदानीम् इहैव जन्मनि उद्धृतशिरस्का मलपटलदिग्धगात्री क्षुद्दुःखादिदुःखेन परिशुष्कसर्वगात्रावयवा सटितसाटकात्यन्तमलिनेन खण्डचोटकेन यूकाशतनिकेतभूतेन प्रच्छादितकटिप्रदेशा सकलनगराधमा भूत्वा परगृहेषु भृतिकया कर्म कुर्वाणा महद् दुःखदौर्मनस्यं प्रत्यनुभवत्य् अहो भाग्यविपर्ययः । अहो चञ्चला भोगसम्पदः । अहो कर्मणां वैचित्र्यम् इत्य् आह च ।
पटंशुकादीन् प्रावृत्य सर्वालङ्कारभूषिता । अप्सरा इव या पूर्वम् इदं रथ्यामुखङ् गता ।1। तद् एवं साम्प्रतं याता सैव भाग्यविपर्ययात् । निवास्य मलदग्धाङ्गी सटितं खण्डचोटकं ।2। देवकन्येव या पूर्वं पुंसां नेत्रामृतं ह्य् अभूत् । प्रेतीं वा सांप्रतं दृष्ट्वा ताम् एवोद्विजते मनः ।3। या पूर्वन् धनसम्पत्त्या नगरस्योत्तमाभवत् । कृपणानाम् अपि गता सैवाद्यात्यन्तहीनतां ।4। परिभुक्तवती हृष्टा या महासम्पदं पुरा । इमाम् अद्य दशां प्राप्य सैव शोचति दुःखिनी ।5। अहो संसारदौरात्म्यम् अहो सम्पदनित्यता । यद् एवं सुखिता भूत्वा दुःखभाजनताङ् गतेति ।6।
स्व रोय् 228,1 - 231,5 [88] ततः सार्थवाहपत्नी तया प्रेष्यदारिकाया सह अनयानुपूर्व्या परगृहेषु भृतिकया कर्म कर्तुम् आरब्धा । विरूपस्य च कुमारस्यापुण्याधिपत्येन प्रातिदिवसम् अपचीयामानं मूल्यं लभते । यावद् अपरेण समयेना सूर्यास्तं दिवसं कर्म कारयित्वा न किञ्चिल् लभ्यते । यावत् कर्म ऽपि न कश्चित् कारयति । यावत् सार्थवाहपत्नी तत्या प्रेष्यदारिकया सह सञ्जल्पं कर्तुम् आरब्धा । अपीदानीं कर्मापि न कश्चित् कारयति । सर्वथा भिक्षाम् अटाम इति । ते मल्लकम् आदाय भिक्षाम् अटितुम् आरब्धा । यदा च विरूपः कुमारः पर्यटितुं समर्थो जातः तदा तस्य मात्राभिहितं पुत्र त्वम् इदानीं स्वयम् एव भिक्षाम् अटित्वा भुङ्क्ष्वेति । तया तस्य मल्लको दत्तः । स तं मल्लकम् आदाय वीथीम् अवतीर्णः । तञ् चातिकृष्णं विरसच्छविम् अत्यन्तविरूपम् अष्टादशभिर् अवलक्षणैर् विदूषितगात्रम् अवलोक्य लोको ऽत्यन्तविमुखो जातो ऽधोमुखः प्रक्रामति । स येषां गृहद्वारं गच्छति ते तस्य तद् अतिविरसं कायाद् गन्धम् आघ्राय सहसैव नाशापुटद्वयं पिधाय काष्ठपाषाणशर्करादिभिस् ताडयित्वा निष्काशयन्ति शीघ्रम् अस्माद् गच्छेति । स जङ्गम इव नगरविस्तारजम्बाले यत्र यत्र गच्छति तत्र तत्र काष्ठपाषाणशर्करादिभिस् ताडयित्वा निष्काश्यते । सैकभिषाम् अप्य् अलब्ध्वा काष्ठपाषाणशर्करादिभिस् ताडितस् तेन मल्लकेन भग्नेन क्रन्दमानो मातुर् अन्तिकम् आगत्य भृशतरमन्युमान् भूत्वा विक्रोष्टुम् आरब्धः । ततः सा तं दृष्ट्वोद्विग्ना उरसि प्रहारं दत्त्वा कथयति ।
हा कष्टं कस्य ते पुत्र अपराद्धन् तु किम् भवेत् । कृपाम् अपास्य येनैवं प्रहृतं त्वयि दुःखिते ।1।
ततो विरूपः कुमारः सस्वरः प्ररुदन्न् उवाच ।
येषां येषां गृहद्वारम् अहं गच्छामि याचितुं । ते ते कठल्लपाषाणैः काष्ठाद्यैस् ताडयन्ति माम् इति ।2।
स्व रोय् 231,5 - 234,235 [89] तच् छ्रुत्वा सार्थवाहपत्नी विरूपं कुमारं कण्ठे परिष्वज्य सस्वरं प्ररुदन्ती प्रोवाच ।
नूनं कृतं त्वया घोरं पापं पुत्रान्यजन्मषु । भृशन् निराधो ऽपि येनैवं ताड्यसे परैः ।1।
धिक् कष्टं भोः ।
इमम् अत्यन्तविरसं सौख्यविवर्जितं । दीनं याचन्तम् आलोक्य कृपोत्पन्ना न चेतसि ।2। हा हतास्मि विनष्टाहं केन ते पुत्र मल्लकः । भग्नो भग्नशरीरेण भिक्षामात्रोपजीविनः ।3। पित्रा मात्रा विमुक्तस्य मुक्तस्य च गृहाश्रमात् । केन पुत्र दयां हित्वा तव भग्नो ऽद्य मल्लकः ।4। उत्सन्नसर्वतन्त्रस्य वर्जितस्य सुहृज्जनैः । मित्रन् नाथो गुरुश् चैव भग्नस् ते केन मल्लकः ।5। हा पुत्र केन वा वीर्यं त्वयि दर्शितम् आतुरे । दीने च हा हतो ऽसि पुत्रक हतः पूर्वकर्मणा स्वेन ।6। हा पुत्र मृदु शूरः कः कस्य कृपा नावगाहतेहृदयं । पाषाणोपलक्ठिनं हृदयं कस्य कथय मे ऽद्य ।7। हा कथं त्वां पराहन्तुं दीनं मुखशतैर् हतं । भिक्षाम् अटन्तं दुःखार्तं लोकस्योत्सहते मनः ।8। क्षुत्पिपासापरिक्लान्तं सर्वसम्पद्विंवर्जितं । रोगदुःखाभितप्तं हा हतं को हन्तुम् उद्यतः ।9। कृपणं दीनवदनं रुदन्तं क्षुतप्रपीडितं । संशुष्ककण्ठं दृष्ट्वाद्य कृपा केन कृता न ते ।10। ताडितो ऽसि कथं पुत्र जातिगर्वमदाकुलैः । रुजाभिभूते केनाद्य कृपा त्यक्तातिदुःखिते ।11। हा त्वया यत् क्षुधार्तेन भिक्षया समुपार्जितं । स्तोकम् अन्नं तद् अप्य् अद्य श्वभिः काकैश् च भक्षितं ।12। हा पुत्र मन्दभाग्याहम् अधुना किं करोमि ते । कृतपूर्वेण पापेन विधात्रानिष्टकर्मणेति ।13।
स्व रोय् 235,1 - 244,2 [90] एवं सा ऽनेकप्रकारम् आत्मननम् अनुशोचन्ती तस्यैव खण्डाववरकस्याग्रतस् तं पुत्रं विरूपं रुधिरधारावशिक्ताङ्गं परिष्वज्यातिबहुसङ्कारशर्करामेध्यस्थाणुकण्टकान्वितायां भूमौ निषाद्य शनैः शनैः पाणिना मदयितुम् आरब्धाः । यावत् सा वीथीमध्येन गच्छतः पश्यत्य् अनेकान् श्रेष्ठिपुत्रान् सार्थवाहपुत्रांश् चान्यांश् चोत्सदान् ब्राह्मणगृहपतीन् काशिकदुकूलकोटम्बककौशेयसूक्ष्मातिमहार्हविचित्रवस्त्रहर्षकटककेयूराङ्गदकुण्डलहारार्द्धहारविचित्रालङ्कारसमलङ्कृतशरीरान् विविधविकचसुरभिकुसुमकलापविभूषितविग्रहांस् तांश् चात्मीयम् अनतिकष्टाम् अवस्थाम् आलोक्य तञ् च विरूपं पुत्रं तथातिदीनवदनं दीर्घम् उष्णञ् चाभिनिश्वस्य साश्रेक्षणातिदीनैर् वचोभिर् उच्चैं प्रोवाच ।
सम्पन्नैकसताकीर्णे रत्नैः सागरसन्निभैः । कुले सुविप्रुले भूत्वाप्य् अनुभूय सुखं परं ।1। विपत्तिभागिनौ जातौ सङ्कारोदरवासिनौ । सुकृच्छ्रेणापि याव् आवां नाप्नुवो ऽन्नं बुभुक्षितौ ।2। शोकार्णवं दुःखजालोर्मिभीमं सन्तापनक्रोग्रशताभिकीर्णं । हा हा हता वेति विमुक्तनादं दारिद्रतोयौघनिधिं प्रविष्टौ ।3। विपत्तनानक्रसहस्त्रसंकुलं विपत्तिभीमोर्मितरङ्गचञ्चलां । महारुजाविद्धभयप्रचण्डां नदीं हि दारिद्रमयीं प्रपन्नौ ।4। दुःखोपलव्याधिखरावकीर्णं सन्तापसिंहध्वनिपूर्णकुञ्जं । शोकाण्डजावासशताभिकीर्णं दारिद्रदुःखालयम् अभ्युपेतौ ।5। नूनं पुरा साधुजने न दत्तं दानं प्रमादस्खलिताशयाभ्यां । दीनाव् इदानीम् इह मन्दभाग्यौ पश्याव यद् दृप्तमुखानि नित्यं ।6। प्रायेण याचनकायाचनकं न दत्तं क्लीबेसु भाग्यरहितेषु विमोहिताभ्यां । आवासमात्रविकलाव् अपि येन जातौ क्लीबौ यतो व्यसनम् उग्रतरं प्रपन्नौ ।7। नूनं पृथिव्यां गुरुसम्मतान् यान् संप्राप्य सत्कृत्य विमानितास् ते । येनाधुनावान् तु विमाननीयौ जातौ जनास्याद्य विपत्तिभाजौ ।8। ताडिता बहवो नूनं पूर्वजन्मसु संयता । येनावान् ताडयत्य् एष जनः पाषाणलोष्टकैः ।9। परिभाषापथं नीतो नूनं गुरुजनः पुरा । यदेवं परिभवः कष्टमनुजातो सुदारुपः ।11। अतिथिभ्यो न दत्तानि आवाभ्यां पूर्वजन्मनि । वस्त्राणि येन वासांसि न भवन्त्य् अधुनावयोः ।12। रोदनानादबहुला बहवः कारिता जनाः । येन बन्धुविहीनौ हि चिरं रोदिव दुःखितौ ।13। चित्रसंव्यानसंवीतं न दत्तं शयनं पुरा । शर्करोपलसंकीर्णे स्वपिवो येन भूतले ।14। आसनानि विचित्राणि न च दत्तानि साधुषु । आसनं
पृथिवी येन बहुकण्टसङ्कटा ।15। पूर्वं नोपानहौ दत्तौ न च यानं सुखावहं । येन वा कण्टकाकीर्णे विचरावो महीतले ।16। आवासमत्स्रतया खलु नैव दत्तं प्रायेण चार्थिनि जने गृहवासमात्रं । उग्रांशुपङ्क्तिपरिराजितमध्यभागं संकारकूटम् इह येन वयं प्रपन्नाः ।17। संशुष्ककण्ठपरिशुष्ककपोलवक्त्रान् पानाभिलाषमनसः समुपदीक्ष्य पूर्वं । नूनन् न दत्ताम् इति तेषु जालं सुशीतं येनाधुना वयम् अतीव विशुष्कवक्त्राः ।18। नैव्á_अन्नम् अथिर्नि जने कृपणे प्रदत्तन्ं न ज्ञातयो न च सुहृन् न च बन्धुवर्गाः । सत्कृत्य वान्नविधिना परिभोजिताश् च तेनेह भक्ष्यरहितौ विपरिभ्रामवः ।19। आरोषिताः परहितप्रतिपत्तिदक्षा नूनं भवान्तरगतैः सुबहुप्रकारं । येनेह साम्प्रतम् अपि तु इतरे ऽपि लोके आक्रोशभाजनपरत्वम् उपागताः स्मः ।20। आवाभ्यां बहवो नूनं जातिगर्वमदाश्रयात् । ताडिता गुणवन्तो ऽपि जाता येनाधुना खराः ।21। संसारसागरे चेतः सर्वव्याधिभयापहं । भैषज्यं न पुरा दत्तं येन रोगाभि पीडितौ ।22। न स्नापिता पितृवयस्यजना न माता आप्यपिता न गुरवो न च दीनलोकः । आस्नानपानरहितौ विधिना प्रजातौ येनेह दुःखशतभाग्यहताव् अनाथौ ।23। क्षुतपिपासपरिक्लान्तौ भक्ताच्छादनवर्जितौ। रोगदुःखाभिसन्तप्तौ को न्व् आवां पालयिष्यति ।24। कस्य दासौ भवावो ऽद्य कस्य वा परिचारकौ । यो नो ऽद्य जीवितं दद्याद् अस्मिन् लोके सुदुर्लभं ।25। अहो दुःखं हि दारिद्रयम् अहो ऽप्य् अकृतपुण्यता । एवं स्फीते ऽपि नगरे नाथो नास्ति यथावयोर् इति ।26।
एवम् अन्यथा च सा सार्थवाहपत्नी क्षुधापरिगतहृदयात्मानम् अनुशोचन्ती तिष्ठति ॥
स्व रोय् 244,3 - 246,4 [91] कर्णश् च सार्थवाहो महासमुद्राद् भग्नयानपात्रः कथञ्चित् फलकम् आसाद्य दारकसहायो जलात् स्थलम् उत्तीर्यायातः । महता कृच्छ्रेण भिक्षाम् अटन् बन्धुमतीं राजधानीम् आगतः । स तत्र बहिः क्षेत्रके रात्रिम् वासम् उपगतः । तत्र चान्यतमो भृतकपुरुषः क्षेत्रपालकस् तेनासौ प्रत्यभिज्ञातः । तस्यैतद् अभवद् एष सार्थवाहो ऽतिक्षामशरीरो विपन्नसर्वस्वन् द्रविणसञ्चयो दारकसहायो ऽभ्यागतः । तत् कथम् अस्य गृहप्रवृत्तिम् आरोचयिष्याम्य् अपि तु स्वयम् एव ज्ञास्यतीति विदित्वा तेन तस्य हस्तप्रक्षालनोदकं दत्वा माषपूपवद्वयम् अनुप्रदत्तं । ततः कर्णेन सार्थवाहेन एकं माषपूपकं स्थापितं । मा रिक्तहस्तको गृहं प्रवेक्ष्यामीति विदित्वा दारकस्य हस्ते स्थापितं । एवं त्व् अर्द्धार्द्धिकं कृत्वानाहारशरीरेण तेन दारकेन सार्द्धं भक्षितम् । अथापरस्मिन् दिवसे कर्णः सार्थवाहस् तं माषपूपकम् आदायातिपरमरुक्षक्षामशरीरो ऽतिमलिनैकशाटकमात्रसारो बन्धुमतीं राजधानीं प्रविश्य गृहं संप्रस्थितः ॥
स्व रोय् 246,4 - 247,2 [92] विरूपो ऽपि प्रभातकाल एव क्षुत्तृष्णापरिक्षामवदनः किम् मया मन्दभाग्येनात्र तिष्ठता जीवता वा प्रयोजनं । गच्छाम्य् आत्मानं प्रघातयामीति ताम् मातरम् उवाच । अम्ब गच्छामि पैतृकम् उद्यानम् इत्य् उक्त्वा तद् उद्यानं संप्रस्थितः ।
स्व रोय् 247,1 - 251,5 [93] कर्णो ऽपि सार्थवाहः स्वगृहसमीपङ् गतो यावत् पश्यति चिराद् धवस्तं शान्तालयवर्णं मृत्तिकापुञ्जशेषं दृष्ट्वा च पुनः किम् इदम् इति विचिन्त्य तं खण्डाववरकं प्रवृष्टो यावत् पश्यति तां भार्यां तस्मिन् खण्डाववरके दास्या सार्द्धम् अवस्थिताम् अतिक्षाम दीनवदनां मलिनखण्डचोटकावच्छादितकटिप्रदेशां मलपटलदग्धाङ्गीं दृष्ट्वा च पुनः हा किम् इदम् इत्य् उक्त्वा मूर्च्छितः पृथिव्यां निपतितः शीतेन वायुना संस्पृष्टश् चिराच् च चेतनां लब्ध्वा तत्या भार्यया सार्द्धं किम् इदम् इत्य् उच्चैर् विक्रोष्टुम् आरब्धः । ततो भार्यासकाशाद् उपलब्धवृत्तान्तो दीर्घम् उष्णञ् चाभिनिश्वस्य कथयति । नूनम् मया दक्षिणीयक्षेत्रे न काराः कृता येन मे ईदृशी विपत्तिस् । तत् किम् इदानीम् अहाम् अधुना करिष्यामि कं शरणम् अनुव्रजामि । कस्य मुखावलोकको भविष्यामि । को लोके हीनदीनानुकम्पकः । कम् आगम्याहम् इदं दारिद्रमहासमुद्रम् उत्तरिष्यामि कम् आगम्य विपत्तिपङ्कं प्रक्षालयिष्यामि कम् आगम्येमाम् अनन्तां शोकनदीम् उत्तरिष्यामि । कम् आगम्येमम् दारिद्रशत्रु पराजेष्ये कम् आगम्येमां सर्वदुःखमातृकां दारिद्रलताम् उत्पाटयिष्यामि कम् आगम्येमम् दारिद्रवृक्षम् उन्मूलयिष्यामि । कम् आगम्येमम् क्षुदुःखदंष्ट्राकरालवदनं हाहाकारभैरवमहारावं दारिद्रमहाराक्षसं निर्वासयिष्यामि । कम् अहम् आगम्येमं दारिद्रमहामल्लं पराजिष्ये । कम् आगम्येमं क्षुत्तृष्णादिप्रदीप्तज्वालं दारिद्रवर्द्धनं निर्वापयिष्यामि । कम् अहम् आगम्येमं विषदावलिप्तदारिद्रमहाहस्तिनं दमयिष्यामि । कम् अहम् आगम्येमं अनेकदुःखविषमविषस्वासं दारिद्रमहाप्रन्नगं निर्विषीं करिष्यामि । कम् आगम्याहम् इमं सर्वस्यापहारिणं दारिद्रमहावीरं निवारयिष्यामि । कम् आगम्याहम् इमं सर्वदुःखदुःस्वभावं दारिद्रनिगडं भेत्स्यामि । कम् अहम् आगम्येमं दारिद्रचारकम् अतिक्रमिष्यामि । कम् अहम् आगम्येमं दारिद्रकपाटं पाटयिष्यामि । कम् अहम् आगम्येमं दारिद्रान्तकं निरासीकरिष्यामि । कम् अहम् आगम्येमं विषादौघं प्रतरिष्यामि । कम् अहम् आगम्येमं दारिद्रमहाकान्तरं निष्तरिष्यामीत्य् एवम् अनेकप्रकारकरुणदीनविलम्बितैर् अक्षरैर् विक्रोशति स्म ।
स्व रोय् 251,5 - 259,2 [94] अत्र चान्तरे नास्ति किञ्चिद् बुद्धानाम् भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं । धर्मतां खलु बुद्धानाम् भगवतां शरदरुणकरनिकरविसरपरिखचितपरिकपिलमणिगुणतरुणदिवसकरसकलामलकिशलयकलापकुवलयमरकतेन्दुकोमलायुधविमलसौदामिनीवलयघृतधाराभिषेकसुसमृद्धधारानलज्वालाकलापमङ्गलयूखकिरणबहलामिततिमिरनिकरविजर्जरीकृतजरामरणभवपञ्जराणाम् अनेककुशलशतसमाधानबलभूतकुमुदशङ्खकुदामलतारहारतुषारमृणालामलकरिदशनसंकलितजाम्बूनदाचविकटकोटकोटिस्थितदशशतनयनरुचिरचापवक्रीकृतविसृतविमलकरभासुरानन्तगगनैकशतनयनशशाङ्कधवलमृदुस्निग्धप्रदक्षिणव्यामप्रभामणिनिबिडभ्रुवद्वयोद्गीर्णोर्णानां विराजितप्रबुद्धनवजलजसदृशवदनानां । त्रिभिः कल्पासंख्येयैः करचरणनयनवदनौत्तमाङ्गस्वमांसरुधिरबालाब्जसदृशवदनैकपुत्रदारगजतुरगरथालङ्कारवस्त्रान्नासनशयनमणिकनकरजतसर्वस्वराज्यादिपरित्यागसंवर्धितानुत्तरबोधिसंभाराणां निसङ्गानाम् अनङ्गबलप्रमथनाद् अमलशरत्कालेन्दुमण्डलावदातस्फुट्यशोनिकरसहस्रमालिनाम् उदयाचलेन्द्रोद्गीर्नचन्द्रमरीचिलताजटिलमण्डलतरुणदिवसकरगभस्तिसंघातजलदविनिःसृततडिद्गुणसहस्रसुरपतिद्विरददन्तकुन्ताघातभिन्नकनकगिरि- रुचकक्षुभितपातालक्षीरोदतरलाविरलपल्लवेन्दुकार्मुकशिखिशिखाखरमकरतमणिदलेन्दुसकलकमलदलफणीन्द्रोदरवैदूर्यशिलोत्कृष्टचम्पकोत्करामलतलप्रभामण्डलावगुण्ठितविग्रहाणां स्वयम् अधिगतज्ञानानलभस्मीकृताशयगहनानां
प्रणिपतितसुरसहस्रचरणोन्मौलिविलग्नमणिकनकमुञ्जरीप्रसेकान्तरञ्जितचरणारविन्दानां तरुणगजतालुसान्द्रालक्तकपद्मसरसन्ध्याभ्रपुञ्जशोककुसुमभस्तस्तबकताम्रचरणानां । तनुताम्रनखचन्द्रिकाहासविमलपादपद्मानां । उत्पाटिततृष्णालतानां विध्वस्ताशेषमोहान्धकाराणां । सकलजगद्बन्धुभूतानां । निष्कारणपरमवत्सलस्वभावानां । अचिन्त्यज्ञानगोचराणां । उद्गृहीतमहारागोरगविषाणं दुष्करशतसहस्रोपात्तोत्तमगुणसमूहसम्भराणां । पुण्यसम्भारोपार्जितप्रज्ञाबलोद्धृताशेषक्लेशतरुमूलानां । ब्रह्मेन्द्रोपेन्द्रानलनिलयमवरुणकुबेरशानाद्भिर् देवैर् अभिष्टुतशासनानां । महाकारुणिकानां । लोकानुग्रहप्रवृत्तानां । एकारक्षाणाम् अद्वितीयानां । अद्वयवादिनां । शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां । चतुरोघोत्तीर्णानां । चतुऋद्धिपादचरणतलसुप्रतिष्ठितानां । चतुर्षु सङ्ग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां । षडङ्गसमन्वागतानां । षट्पारमितापरिपूर्णानां । सप्तबोध्यङ्गकुसुमआढ्यानां । अष्टाङ्गमार्गदेशिकानां । नवानुपूर्वविहारसमापत्तिकुशलानां । दशबलबलिनां । दशदिक्समापूर्णयशसां । दशशतवशवर्तिप्रतिविशिष्टानां । त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोकयन्ति ।
स्व रोय् 259,2 - 261,3 [95] को हीयते । को वर्द्धते । कः कृच्छ्रप्राप्तः कः शङ्कटप्राप्तः । कः सम्बाधप्राप्तः । कः कृच्छ्रशङ्कटसम्बाधप्राप्तः । को ऽपायनिम्नः । को ऽपायप्रवणः । को ऽपायप्राप्तः । को ऽपायप्राग्भारः । के ऽद्य मया संसारमहासमुद्राद् उद्धर्त्तव्यः । को ऽद्य मया क्लेशमहारक्षसावलुप्यमानो मोचितव्यः । को ऽद्य मया दारिद्रपन्नगैर् उपद्रूयमाणः परित्रातव्यः । को ऽद्य मया द्वेषानलसन्तप्यमानमूर्तिः सद्धर्मवत्षेणाभिषिक्तव्यः । को ऽद्य मया महामोहान्धकारान्तरप्रविष्टसन्तानो तिमिरतरालोकम् अनुत्तरं समाधिवरशिखरम् आरोपयितव्यः । कस्याद्य मया सर्वदुःखक्षयकरं सन्मार्गाष्टाङ्गभैषज्यम् उपदेष्टव्यं । कस्याद्य मया दारिद्रकपाटपुटानन्तपाटनं वक्तव्यं । कस्याद्य मया ज्ञानतिमिरावष्टब्धनयनस्य ज्ञानाञ्जनम् अनुप्रदेयं । को ऽद्य महानिगडबबन्धनान् मोचयितव्य इत्य् आह च ॥
अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् इत्य् ।1।
स्व रोय् 261,3 - 262,5 [96] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः सकलम् इमं लोकम् अवलोकयति स्म । अद्राक्षीद् भगवां कर्णं सार्थवाहम् अतिदरिद्रव्यसनपङ्के निमग्नम् अतीवात्मानम् अनुशोचन्तं दृष्ट्वा च पुनर् महाकरुणासञ्चोद्यमानहृदयः पात्रचीवरम् आदाय बन्धुमतीयकाद् दावान् निष्क्रमय बन्धुमतीं संप्रस्थितः । बन्धुमत्यां राजधान्याम् विपश्यिनं सम्यक्सम्बुद्धं पिण्डाय प्रविशन्तम् अवलोक्य राजामात्यश्रेष्ठिब्राह्मणगृहपतिपौरजनपदसार्थवाहाः । अयं भगवान् विपश्यी सम्यक्सम्बुद्धः पिण्डाय प्रविशतीत्य् अहम् एवेदं भगवतः पात्रं पूरयिष्यामीत्य् अनेकानि प्राणिशतसहस्राणि खादनीयभोजनीयं गृहीत्वावस्थितानि ।
स्व रोय् 262,5 - 265,2 [97] अथ भगवान् विपश्यी सम्यक्सम्बुद्धः कर्णस्य सार्थवाहहस्यानुकम्पया वीथीमध्येन प्रशान्तमतिर् अभिनवोदितदिवसकराधिकतररुचिरदीप्ततनुः सन्ध्याभ्ररेखावगुण्ठित इव शकलशरचन्द्रमाः कल्पद्रुम इव सुरपुरोपवनाद् अमृतविद्रुमलतालङ्कृत इव सुवर्णयूपः काञ्चनस्थालोपनिहित इव तैलप्रद्योतः । समुद्गतानेकविविधरत्नाङ्कुरखचित इव रत्नपर्वतः कनकमलरेणुधूसारित इव राजहंसः । ऐरावत इव मन्दाकिनीकम(6)लरेणुविभूषितः सिंह इव मनःशिलाधातुदिग्धः सकलभुवनलक्ष्मीपुञ्ज इव देदीप्यमानमूर्तिर् इव पादाभ्याम् अतिपरमसुहृतरथचरणसुरुचिररचिततलाभ्यां प्रतिनवविकचकमलसुकुमारकोमलतलाभ्यां श्रीवत्सस्वस्तिकनन्द्यावर्त्तवर्धमानमीनविभूषिततलाभ्यां तरुणशशाङ्कबिम्बताम्रसुपरिगतार्चिसुरुचिरनखाभ्यां । सुनिर्मलैकप्रकाशसुनिविष्टदर्शनीयुतुङ्गनखाभ्यां नखतिलकपङ्क्तिखचित्ताप्रतिमसुजातदीर्घवृत्तायतां गुलिभ्यां मृदुसुकुमारतूलसंस्पर्शपार्ष्णिभ्यां श्रिया देदीप्यमानो गगनतल इव भास्करः सकलम् इदं दिग्मण्डलम् अवभासयन् कर्णस्य सार्थवाहस्य तं खण्डाववरकम् अनुप्राप्तः ।
स्व रोय् 265,2 - 268,2 [98] ततो विपश्यिना सम्यक्सम्बुद्धेन प्रतप्ततरकनकरसरागप्रचुरा । घृताहुतिवर्षासेकादीपिताननप्रफुल्लकिंशुक्_अआशोकरक्तोत्पलकुरण्टकरवीरसन्ध्याभ्रचम्पककुसुम्भमण्डगजतालुपद्मरागारुणतडित्सहस्रातिरेका प्रभा समुत्सृष्टा । यया सहसैव खण्डाववरकं सान्तर्ब हिर् विलीनकनकावभासं संवृत्तं । तद् आलोच्य कर्णः सार्थवाहः किम् इदम् इति समुत्थितः । पश्यति भगवन्तं विपश्यिनं सम्यक्सम्बुद्धं द्वात्रिङ्शम्महापुरुषलक्षणालङ्कृतमूर्तिं मूर्तिमन्तम् इव धर्मं हव्यावसिक्तम् इव हुतवहं । तप्तकनकरसरागकर्णिकारकुङ्कुमकुसुम्भहरितालमनःशिलारक्तोत्पलशरत्सन्ध्यानुरञ्जितजलदशिखिवलाहमेचककाञ्चनराजपट्ठिङ्गुलकातिमुक्तकुरण्टकप्रभामण्डलावगुण्ठितविग्रहं दृष्ट्वा च पुनः कर्णस्य सार्थवाहस्यातिमहाप्रसादो जातः ॥ किम् अहम् भगवते ऽनुप्रदास्यामीत्य् एवम् आत्मानो विभवम् अवलोकयन् पश्यति माषपूपकम् एकं स तं गृहीत्वा पत्न्याः कथयति भद्रे मया माषपूपको ऽयं मा खल्व् अहं रिक्तहस्तो गृहं प्रवेक्ष्यामीत्य् आनीतः । अयञ् च भगवान् विपश्यी सम्यक्सम्बुद्धः परमदक्षिणीयो हीनदीनानुकम्पको ऽत्र च स्वल्पम् अपि दानबीजम् उप्तं दारिद्रव्यसनोन्मूलकं भवति । तद् अहम् इमं माषपूपकं भगवते ऽनुप्रयच्छामीति । सा कथयत्य् आर्यपुत्र शोभनम् एवं क्रियतां । एतद् अपि तावत् कुशलमूलं संसारसुखहेतुभूतं भवतीत्य्
स्व रोय् 268,2 - 270,5 [99] एवम् उक्ते कर्णः सार्थवाहः संलक्षयति । परीत्तम् इमं माषपूपकं कथम् अहं तादृशो ऽस्मिन्न् एव पुरे भूत्वा अधुना ईदृशं यदि परीत्तं पश्याताम् एव राजामात्यब्राह्मणगृहपतिपौरजनपदसार्थवाहानां भगवते ऽनुप्रदास्याम्य् अपि तु पत्रे बध्वा दास्याम् एवम् अनभिलक्ष्यो भविष्यामीति विदित्वा तं खण्डाववरकं प्रविश्य पत्त्रं गवेष्टुम् आरब्धो न किञ्चित् पत्त्रम् आरागितवान् । अथ सः सार्थवाहः सुतरां सम्विग्नमानसः हा कष्टम् ईदृशो ऽहम् मन्दभाग्य इति दीर्घमुष्णञ् चाभिनिश्वस्य सहसैव तस्मात् खण्डाववरकान् निष्क्रम्य महता प्रमादवेगेन तं माषपूपकं विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपादितवान् । प्रतिपाद्य च पादयोः प्रणिपत्य प्रणिधानं कर्तुम् आरब्धो ऽनेन अहं भगवन् कुशलमूलेन देयधर्मपरित्यागेन इत एव जन्म प्रभृति मा कदाचिद् एकदिवसम् अपि दरिद्रः स्यां । आढ्यतरः स्यां । परिपूर्णजीवितोपकरणः । समनन्तरम् एव कर्णस्य सार्थवाहस्य सहसैव विपश्यिनः सम्यक्सम्बुद्धस्य पादयो निपतत मात्रस्यैव या ऽतिपरमविरूपा क्षामता सान्तर्हिता सैव पूर्वका वर्णनिभाभिनिवृत्ता ।
स्व रोय् 270,5 - 272,273 [100] अथ कर्णः सार्थवाहः प्राणिधानं कृत्वोत्थितो विपश्यी सम्यक्सम्बुद्धस् तत एव प्रतिनिवृत्य बन्धुमतीयं दावं गतो ऽथ कर्णः सार्थवाहस् तैर् बन्धुमतीयकैः श्रेष्ठिभिः सार्थवाहैश् च प्रत्यभिज्ञातस् तत्रैकः सार्थवाहस् तान् पौरिकान् इदम् अवोचत् । न वयं भवन्तः कर्णं सार्थवाहम् अवसीदन्तम् अप्य् उपेक्षामहे पटञ् च प्रसार्याह ॥ भवन्तः शक्यं बहुभिर् एकः समुद्धतुं न त्व् एकेन बहवस् तद् येन वात्र यत् परित्यक्तव्यं तद् अस्मिन् पटे ऽनुप्रदीयताम् इत्य् उक्ते हर्षकटककेयूराङ्गदकुण्डलहारार्द्धहाराङ्गुलीयकान्य् अनेकालङ्कारशतसहस्राण्य् अनुप्रदत्तानि । अनेकानि च काशिदुकूलकोटाम्बकौशेयापरान्तकशूक्ष्मातिमहार्हविचित्रवस्त्रयुगलशतान्य् अनेकानि तस्य तस्मिन्न् एव क्षणे वस्त्राणाम् अलङ्काराणाञ् चातिमहान् राशिः सम्वृत्तः । ततः कर्णः सार्थवाहस् तां विभूतिम् अवलोक्य पत्न्याः कथयति । भद्रे पश्य सुक्षेत्रेदानवीजस्याङ्कुरः प्रादुर्भूत इति । सापि प्रीतिप्रामोद्यजाता विपश्यिनं सम्यक्सम्बुद्धं नमस्यन्ती तानि वस्त्राणि अलङ्काराणि चाववरकं प्रवेशयितुम् आरब्धा ।
स्व रोय् 273,1 - 274,2 [101] विरूपो ऽपि दारकस् तत् पैतृकम् उद्यानं प्रविश्य क्षुस्द्दुःखोपतप्तमानसस् ताम् आत्मीयां परमविरूपताम् एव पुनः पुनः संशोचयन् संलक्षयति । किम् मया पापकर्मकारिणा परमदुःखभागिना ऽतिविरूपेणाधन्यदर्शनेन जीविता प्रयोजनं सर्वथा प्रघातयाम्य् आत्मानम् इत्य् उद्विग्नमनः सहसैव पाटलावृक्षस्याग्रशाखाम् आरुढो वृक्षशाखा च भग्ना सहसैव सार्द्धं वृक्षशाखया पतितो वेदनार्त्तश् चावतिष्ठते ।
स्व रोय् 274,2 - 278,3 [102] अत्र चान्तरे नास्ति किञ्चिद्बुद्धानां भगवताम् अज्ञातम् अदृष्टम् । अविदितम् अवज्ञातम् अद्राक्षीद् विपश्यी सम्यक्सम्बुद्धो दिव्येन बुद्धचक्षुषा विशुद्धेनातिक्रान्ता मानुष्यकेन विरूपदारकं तथा दुःखितं दृष्ट्वा च पुनर् महाकरनीयो सञ्चोद्यमानो ऋद्धया तत् स्थानं गत्वा स्वशरीरप्रभाम् उत्सृष्टवान् । कल्पशतसम्भृताश् च भगवतो मैत्र्यांशव उत्सृष्टाः ॥ यैः स्पृष्टमात्रस्यैव विरूपस्य या शरीरे दुःखवेदना सा प्रतिविगता तच् च क्षुत्तृषदुःखं प्रतिप्रस्रब्धं । सहसैवोत्थितः पश्यति विपश्यिनं सम्यक्सम्बुद्धं कल्पकोटिनियुतशतसहस्रदुर्लभदर्शनम् उत्तप्तम् द्वात्रिङ्शन्महापुरुषलक्षणद्योतितविग्रहं सह दर्शनाच् चास्य भगवतो विपश्यिनः सम्यक्सम्बुद्धस्योपरि प्रसादो जातः । तेन च हरिद्रारक्तकं हस्तमात्रं वस्त्रखण्डं प्रावृतम् आसीत् तेन तत्प्रसादाविष्टेन शरीराद् अवतार्य महता प्रसादवेगेन सहसैव विपश्यिनः शास्तुर् उपरि निक्षिप्तम् एकञ् च कर्णिकारकुसुमन् तच् च भगवता विपश्यिना तथागतेनार्हता सम्यक्सम्बुद्धेन तथाधिष्ठितं यथा तद् वस्त्रखण्डकं तथागतस्य कायप्रमाणिकं भूत्वा कायं प्रतिच्छादितवान् । कर्णिकारकुसुमञ् चोपविशकटचक्रमात्रं भूत्वा च्छत्त्रवद् अवस्थितं । तच् च दृष्ट्वा विरूपस्य दारकस्यातिमहान् प्रसादो जातः । स महता प्रशादवेगेन विपश्यिनः सम्यक्सम्बुद्धस्य पादयोर् निपत्य महता स्वरेण प्रणिधानं कर्तुम् आरब्धः ।
अनेन द्विपदां श्रेष्ठ दानेनेह विरूपतां । अद्य प्रभृति संत्यज्य लभेयाहं सुरूपतां ।1। सुवर्णवर्णवासो ऽति हैमवर्णैर् विगुण्ठितः । चन्दनोत्पलगन्धश् च कायाद् वक्त्राच् च मे भवेत् ।2। सुवर्णवर्णसंकालः सर्वलोकमनोहरः । सर्वामयवि निर्मुक्तः सर्वशास्त्रार्थपारगः ।3। सर्ववाचाथसंयुक्तः सर्वानर्थविवर्जितः । सर्वोत्तमः सर्वदर्शी सर्वाकारविभूषितः ।4। सर्वार्थसिद्धः सम्बुद्धो भवेयं सत्त्ववत्सलः । सर्वामलगुणः श्रीमान् सर्वद्रव्यान्वितः सुखी ।5।
स्व रोय् 278,3 - 280,2 [103] अथैतत् प्राणिधानकरणसमकालम् एव विरूपस्य दारकस्य सहसैव सा विरूपतान्तर्हिता सुरूपः सम्वृत्तो दर्शनीयः प्रासादिकः सुवर्णवर्णगात्रच्छविः सहसैव चास्याकस्माद् आ काशाद् आगत्य सुवर्णवर्णैर् वस्त्रैः शरीराम् आच्छादितं । महार्हैश् चाङ्गदकुण्डलादिभिर् अलङ्कारविशेषैर् । देवताभिश् च कर्णिकारोत्पलचम्पकपद्मकुमुदमान्दारकादिकम् महत् कुसुमवर्षं पातितं । दिव्यञ् चन्दनागुरुकुङ्कुमतमालपत्रचूर्णवर्षं प्रमुक्तम् एवञ् चोद्घुष्टम् अहो तथागतावरोपितस्य दानबीजस्य्_इष्ठो विशिष्ठश् चाङ्कुरः समुत्पन्न इति । तेन च दिव्येन पुष्पचूर्णवर्षेण सर्वन् तद् उद्यानं जानुमात्रेणौघेनावस्थितम् अथ भगवान् विपश्यी सम्यक्सम्बुद्धस् तस्माद् उद्यानान् निष्क्रम्य बन्धुमतीयकं दावङ् गतः ।
स्व रोय् 280,2 - 283,2 [104] कर्णो ऽपि सार्थवाहो भार्याम् उवाच । भद्रे सो ऽस्माकं पुत्रः क्व गतो यम् आगम्यास्माकम् ईदृशी विपत्तिर् अभूद् इति । सा कथयत्य् उद्यानं गच्छामीति तेन समाख्यातं । तद् गच्छ शीघ्रं मा स तत्रोद्विग्नमना आत्मानं प्रघातयिष्यतीति । कर्णः सार्थवाहः कथयति । किन् नामासाव् अस्माकं पुत्रः कीदृशो वेति । सा कथयत्य् आर्यपुत्र परमविरूपदर्शनो विरूपाख्यश् चेति ॥ ततः सार्थवाहस् त्वरितगतिप्रचारतया तद् उद्यानं गतः पश्यति च विरूपकुमारं सुवर्णवर्णकायम् अतिमहार्हसूक्ष्मसुवर्णपीतवस्त्राच्छादितशरीरं सर्वालङ्कारविभूषितम् अतिमनोहरं दर्शनदेवकुमारम् इव परमयाश्रिया देदीप्यमानं दृष्ट्वा च पुनर् अहो धन्यः सः पुरुषो यस्यायं पुत्रः इत्य् एवम् उक्त्वा तं कुमारम् उवाच ॥ दारक कस्य त्वं पुत्र इति । स कथयति कर्णो नाम सार्थवाहस्तस्याहं पुत्र इति । कर्णः सार्थवाहः संलक्षयति । विहेठितो ऽहम् अनेन कुमारेएति विचिन्त्य समभिवृद्धकुतूहलो ऽनिमिषम् अभिवीक्ष्यमाणः पुनस् तं कुमारम् उवाच । भोः कुमारः सत्यं कथय कस्य त्वं पुत्र इति विरूपः कथयति किम् अत्र विचार्यते । सत्यम् एवाहं कर्णस्य सार्थवाहस्य पुत्र इति । स कथयत्य् अहो ऽहम् अनेन कुमारेण सुविडम्बितः कृत इति । मत्वा कथयति । कुमार श्रुतम् मयातिविरूप स इति त्वं चाभिरूपः । तत केनोपायेनाभिरूपता तवाभिनिवृत्तेति ॥
स्व रोय् 283,2 - 287,3 [105] विरूपः कुमारः प्रीतिविकसिताक्षो महता स्वरेणोवाच ।
अद्य दारिद्रदुःखाग्निपरितापितचेतसा । वृक्षशाखाम् आरुह्य मया ह्य् आत्मा निपातितः ।1। पतितश् चाङ्गभङ्गार्तो मूर्छाम् अहम् उपागतः । निश्चेष्टो ऽहं निरुच्छ्वासः क्षणमात्रम् अवस्थितः ।2। ततो विपश्यी सम्यक्सम्बुद्धः सत्वानां ह्य् अनुकम्पकः । ममानुकम्पया नाथ उद्यानम् इदम् आगतः ।3। द्वात्रिंशल्लक्षणधरः सूत्तप्तकनकच्छविः । विलीनकनकाभाभिः पूरयन् दिशो दशा ।4। प्रभया तस्य गात्रम् मे स्पृष्टमात्रं सुशीतया । प्रह्लादितम् इदं सर्वमतुलामृतधारया ।5। क्षुत्तृष्णापातदुःखञ् च निःशेषम् अशिवम् मम । तत्क्षणं प्रशमं यातं चेतनाञ् चाप्तवान् अहं ।6। किम् एतद् इति सोत्साहम् उत्थितो ऽहं मुनिन् तदा । पश्यामि कान्तम् अत्यन्तं जनलक्ष्मीनिकेतन ।7। दृष्ट्वा द्रष्टव्यरत्नम् मे तन् नाथं परया श्रिया विद्योतन्तं दिशः कृत्स्नाः प्रसादो ह्य् अभवत् पूरा ।8। ततः प्रहृष्टचित्तेन वस्त्रखण्डलकम् मया हारिद्रारक्तकं क्षिप्तं तस्यैव परया मुदा ।9। कर्णिकारस्य मे पुष्पम् कं तस्यैव सद्यतेः । क्षिप्तं तच् चोपरि मुनेः छत्त्रवत् समवस्थितं ।10। तत्रापि हृष्टचित्तेन प्रणिपत्य च पादयोः । मया प्रसादजातेन प्रणिधानम् इदं कृतं ।11। अनेन नाथ दानेन अद्यैवाहम् विरूपतां । परित्यज्य सुरूपश् च भवेयं हि भवार्णवे ।12। सुवर्णवर्णैर् वस्त्रैश् च हेमपीतैर् विगुण्ठितः । चन्दनोत्पलगन्धश् च कायाद् वक्त्राच् च मे भवेत् ।13। इत्य् एतत् प्रणिधानञ् च मया कृतम् इदञ् च मे । रूपम् एवम्विधं वर्णं प्रादुर्भूतन् मनोरमं ।14। महार्हाणि च वस्त्राणि पीतान्य् अतिमृदूनि च । सहसैवाद्य काये मे प्रादुर्भूतानि तत्क्षणात् ।15। देवताभिर् इदं मुक्तं पुष्पवर्षन् नभस्तलात् । चन्दनागुरुचूर्णञ् च तमालतगरादिकं ।16। हाहाकारो महांश् चैव दुन्धुभिश् च मनोहरः । नमस् ते भगवन् बुद्ध इति घोष उदीरितः ।17। एतत् कृत्वाद्य कुशलं ममेदं रूपम् ईदृशं । प्रादुर्भूतम् मनापञ् च वर्णं काञ्चनसन्निभं ।18। इत्य्
स्व रोय् 287,3 - 288,3 [106] अथैतद् उपश्रुत्य कर्णः सार्थवाहः सहसैव सहस्रैः प्रसादकण्टकितसर्वरोमकूपः कृताञ्जलिर् विपश्यिनं तथागतं मुहुर् मुहुर् नमस्यमानः परमप्रीतिसौमनस्य जातः सुरूपं पुत्रम् अनिमिषम् अभिवीक्ष्य प्राह । पुत्र आगच्छ गच्छाव इत्य् अथ सुरूपः कुमारः पितायं ममेत्य् उत्पन्नबहुमानः पितुः पादाभिवन्दनं कृत्वा स्वागतं तातेत्य् उक्त्वा पित्रा सार्द्धं गन्तुं संप्रस्थितः ।
स्व रोय् 288,3 - 290,291 [107] शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते । तस्यैतद् अभवत् अयं कर्णः सार्थवाहो भगवति बुद्धे कृताधिकारः तन् नायम् अर्हति तृणागारे वस्तुम् इति विदित्वा विश्वकर्माणं देवपुत्रम् आमन्त्रयते । गच्छ विश्वकर्मन् कर्णस्य सार्थवाहस्य चतूरत्नमयञ् चतुर्द्वारम् अर्धाष्टमतलकं गृहम् अभिनिर्मिमीष्वेति । ततो विश्वकर्मणा शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य तत्क्षणाद् एव बन्धुमतीराजधानीम् आगत्य चतूरत्नमयेष्टकस्तम्भसञ्चितम् उत्तुङ्गरुचिराट्टालकं गवाक्षनिर्यूहकपोतमालासुविन्यस्ताङ्गाफलकनागदन्तकम् अत्युच्चार्द्धाष्टमतलकम् अतिरमणीयतोरणोपशोभितद्वारं शरजलधराभ्रकूटहिमनिकरराशिशिकरमृणालावदातोच्छ्रितच्छत्रध्वजपताकम् आमुक्तपटुदामकलापं सकलपुरवरोपशोभानिकेतभूतम् अतिरुचिरकनकमयाभिनवविनिःसृतताम्रचूतपल्लवोपशोभितमुखम् अष्टाङ्गशीतलाम्बुपरिपूर्णकुम्भोपशोभितद्वारम् अपरिमितरजतवैदूर्यस्फटिकमुसारगल्वेन्द्रनीलमहानीलादिरत्नपरिपूर्णानेकनिधिसहस्रापूर्यमाणं शेषानर्धद्रव्योपकरणपरिपूर्णं गृहवरम् अभिनिर्मितं ॥
स्व रोय् 291,1 - 298,2 [108] अथ कर्णः सार्थवाहो गृहम् आगतो भार्यया चास्य हृष्टतुष्टप्रमुदितया सौवर्णेन भृङ्गारेणार्घम् अनुप्रदत्तं । उक्तश् चार्यपुत्र त्वत्पुण्यानुभावाद् ईदृशः केनापि भवनवरम् अभिनिर्मितम् इत्य् अथ कर्णः सार्थवाहस् तं भवनवरम् अभिवीक्ष्य परमप्रीतिसौमनस्य जातः सुतरां बुद्धे भगवति उत्पन्नप्रसादोपजनितरोमाञ्चः शिरसि कृतकरपुटाञ्जलिर् नमस् तस्मै भगवते तथागतायार्हते सम्यक्सम्बुद्धायाचिन्त्याचिन्तामणये ऽनुत्तराय पुण्यक्षेत्रायेत्य् उक्त्वा प्रहर्षपूर्णवदनकमलः प्राह ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितं । यत्र न्यस्तं मया बीजमद्यैव फलदायकं ।1। क्व तत् परीत्तं दानं मे सर्वसंस्काववर्जितं । क्व चेदं रम्यम् उत्तुङ्गं हेमरत्नमयं गृहं ।2। क्व तत् कुड्यावशेषन् मे गृहं शोकविवर्धनं । क्व चेदम् अभ्रनिर्मुक्तशशाङ्करपाण्डुरं ।3। क्व च तन् मूषिकाकीटच्छिद्रवातायनं गृहं ॥ क्व चेदं प्रवरानेकरत्नवातायनं गृहं ।4। क्व तत् क्रुद्धैः श्वभिर् व्याप्तं कण्टकामेध्यसंकुलं । गृहम् एतत् पुरा चित्रं क्व चेदं रत्नसञ्चितं ।5। क्व तद् भुजङ्गनिर्मोकप्रलम्बाम्बरसंकुलं । क्व चेदं सूक्षवस्त्रश्रीचित्रचामरलम्बितं ।6। क्व तच् छ्वभिर् उपनीतं सितास्थिप्रकरं गृहं ॥ क्वेदं सुरभिसत्पुष्पामुक्तप्रकरशोभितं ।7। क्व तच् छोकाश्रुधाराभिः सदासिक्ततलं गृहं । क्वेदं मृगमदामोदवारिसंसिक्तचन्दनं ।8। क्व तद् वह्निअशिखाप्लुष्टवायसाशुचितोरणं । क्व चेदं हेमसद्रत्नामुक्ताहारोपशोभितं ।9। क्व तद् भग्नैककटकद्वारावरणकं गृहं । क्व चेदं स्फटिकोत्कीर्णं कपाटपुटसंयुतं ।10। क्व तन् मम चिराध्वस्तं खण्डाववरकं गृहं । क्वेदं मणिमयस्तम्भनिर्यूहप्रतिमण्डितं ।11। क्व तद् आक्रन्दशब्देन समापूरितचत्वरं । क्व चेदं तूर्यनिघोषवीणास्वरसमन्वितं ।12। क्व तत् कपालसंकारराशिपूर्णं गृहं पुरा । क्व चेदं रुचिरानेकरत्नराशिचितान्तरं ।13। क्व तत् पातितनिःशेषनागदन्तकबन्धनं । क्व चेदम् इन्द्रनीलान्तप्रविष्टस्फटिकम् महत् ।14। क्व तद् आसननिर्मुक्तम् इष्टकैकपरायणं । क्व चेदं चित्रपट्टान्तमसूरकशान्वितं ।15। क्व तच् छर्कराकीर्णे भूतले शयनं पुरा । क्व चेदं पट्टविपुलं
श्रीपयङ्कं मनोरमं ।16। क्व तत् तृणाशृतं भूमौ शयनं मे ऽतिकर्कशं । क्व चेदं तूलिकास्तीर्णम् अद्यातीव मनोरमं ।17। क्व तच् छ्वासुविसंकीर्णन् दुर्गन्धान्तर्गृहं गृहं । क्वेदं सुरभिसङ्गन्धवासित_न्तःपुरं पुरं ।18। क्व तच् चीरावचीरञ् च गृहम् अन्तर्बहिः पुरा । क्वेदं विविधसद्रत्नभक्तिचित्रमनोहरं ।19। क्व तत् काक_शुचिश्वेतरेखाशतविलम्बितं । क्व चेदं विपुलानेकमुक्ताहारोपशोभितं ।20। क्व च दुःखविलापोक्तसमुच्छ्रितभुजं गृहं । क्व चेदम् अमलचत्त्रपताकोच्छायभूषितं ।21। नमो ऽस्तु तस्मै नाथाय पुण्यक्षेत्राय तायिने । यम् आगम्याहम् अद्यैव तीर्णो दारिद्रसागरं ।22। नमो ऽस्तु लोकनाथाय सर्वज्ञाय विपश्यिने । यम् आगम्य मया ऽद्यैव प्राप्ता सम्पत्तिर् ईदृशी ।23। वैजयन्तम् इवाचिन्त्यम् अनेकगुणभूषितं । यम् आगम्य मया ऽद्यैव प्राप्तं भवनम् उत्तमं ।24। तं समासाद्य शास्तारं कैलाशशिखरोच्छ्रितं । भवनं प्राप्यम् उत्तुङ्गं शरत्कालेन्दुपाण्डुरं ।25। अद्यैवास्मिन् पुरे ऽणाथो भूत्वा दारिद्रदुःख्वान् । अद्यैव सर्वश्रेष्ठत्वं महाधनवताङ् गतः ।26। उप्तमात्रं यद् अद्यैव बीजं मे फलदायकं । लोकश्रेष्ठं विभुं कस् तं प्रजयितुम् अर्हति इत्य् ।27।
स्व रोय् 298,2 - 299 [109] अथ कर्णः सार्थवाहस् तीव्रप्रसादवेगावर्जितचित्तसन्ततिः संलक्षयति । भगवन्तम् आगम्य मयैवं विभूतिर् आसादिता यन् न्व् अहं प्रथमतो भगवन्तं विपश्यिनं तथागतम् अस्मिन् गृहे प्रवेश्य सश्रावकगणं भोजयेयम् इति विदित्वा महता सत्कारेण विपश्यिनं तथागतं सश्रावकसंघम् अन्तर्गृहे उपनिमन्त्र्य शतरसेनाहारेण सप्ताहं भोजयित्वा पादयोः प्रणिपत्य यावज्जीवं सर्वोपकरणैः प्रवारितवान् ।
स्व रोय् 299,2 - 307,4 [110] अथापरस्मिन् दिवसे स क्षेत्रपालको भृतकपुरुषः प्रत्युषसि स्वामिनानुरूपदत्तां भक्तपुटिकाम् आदय क्षेत्रं संप्रस्थितो ऽश्रौषीद् अन्तर्मार्गे स भृतकपुरुषो ऽन्यतरस्योपासकस्यान्तिकाद् यथा कर्णेन सार्थवाहेन माषपूपकम् एकं बुद्धे भगवत्य् अनुप्रदायैवम्विधा श्री प्राप्तेति श्रुत्वा च पुनः स पुरुषस् तम् उपासकम् उवाच । भोः साधो के तस्य भगवतो गुणा इति । स उपासकः कथयति । भद्रमुख का मे शक्तिस् तस्य भगवतो विशेषविहितान् गुणान् वक्तुं । एक ही संक्षेपतः श्रूयतां । स हि भगवान् सम्यक्सम्बुद्ध प्रवरपुरुषलक्षणालङ्कृतः काञ्चनाद्रिप्रकाशः शशाङ्कार्कतुल्यातिरेकप्रभः सूरतः सुव्रतः शान्तचित्तः सुवाक्यः सुवेष्टः सुगात्रः सुवक्त्रः सुनेत्रः सुकर्मा सुधर्मा क्षमावान् प्रतिभावान् । विनेता सुनेता नयज्ञो दमज्ञः कृतज्ञः सुचक्षः प्रशान्तेन्द्रियः सुइनीतेन्द्रियाश्वो महाधर्मराजो महासत्त्वसारो महालोकनाथो महाज्ञानकेतुस् महावादिशूरो महापुण्यकोशो महाधर्महेतुस् महासार्थवाहो धर्मदाता महाकर्णधारो महादक्षिणीयः तृषाच्छेदको महामोहविनासकः क्रोधनिर्वापको मोक्षसंस्थापकः कापथाच् च्यावकः सत्पथोद्देशकः शंसयच्छेदकः सत्यसंदर्शकः क्लेशनिर्वापको मारविध्वंसको लोकनिस्तारको ब्रह्मणाभ्यर्च्चितः शक्रसंपूजितः सर्वलोकाधिकः सर्वलोकार्थकृत् सत्त्वोत्तमः सर्वदुःखान्तकृत सर्ववित् । अनयविनयविशारदो ऽतीतसर्वास्रवो वादिमुख्यैर् नाधिष्ठितः सर्वदोषैर् असंभ्रामितः सर्वार्थम् अभ्युद्यतः रूपवान् शीलवान् ध्यायवान् वीर्यवान् ज्ञानयुक्तस् तथा निःस्पृहो निर्ज्वरो निष्प्रपञ्चो निरायासवृत्तिः
प्रवृत्तिक्षयोपायसंदर्शकः सर्वसत्वेषु मैत्रासयो पापमुक्तो ऽधिमोक्षान्वितो ऽनुत्तरो नायको दैशिकः क्लेशरोगार्दितानां महावैद्यभूतः स्वयम्भूः विभुः संयतात्माप्रमेयप्रभावो ऽल्पकृतः सुसन्तोषवान् कालवान् अर्थवान् ज्ञानवान् निर्जितक्लेशशत्रुः प्रशान्ताग्निर् अक्षोभ्यधर्मो महादक्षिणीयः परं दुःखितं लोकम् अज्ञानपङ्के निमग्नं समवलोक्य तस्मात् स्वयञ् चापि शक्तः समुद्धर्तुम् आत्माप्रभावानुरूपात्मनः सर्वसत्त्वानुकम्पार्थम् एवं प्रकारोत्तमा बुद्धि तस्माच् चैवम् उत्तारेयं जगद् दुःखितं मोचयेयं कथं भीतानाम् आश्वासयेयं कथं संसारमग्नम् अभ्युद्धरेयं कथं दह्यमानम् आह्लादयेयं दृढं चित्तम् एवं समुत्पाद्य वीर्यञ् च कृत्वा परं जन्मकोटीसहस्रेषु पूर्ववच् चान्नपानाश्रयोपानहोभोजनछत्रयानासनादीन् रम्याणि हस्त्यश्वदारात्मजान् दासदासी शिरोलोचनान्य् आत्ममांसानि चोत्कृत्य सेष्माणिसद्वज्रेणे स्येनरूपाय वुद्धात्मना सर्वसत्वेषु सर्वैर् उपायैर् हितं चिन्तयन् सर्वकालञ् च जीर्णातुरसन्नसंऊढसंभ्रान्तसंक्षुभ्यमानान् अवस्थितान् अवेक्ष्य सर्वात्मान् आश्वास्य सन्तो ऽप्य् असन्तो यथाचार्य संशेविना दानशीलक्षमासत्त्वसप्रज्ञाध्यानाद्यैर् गुणैर् जन्मकोटीसहस्रैर् अनेकैर् शिवां बोधिम् अग्र्याम् अनुप्राप्तवान् अपि च । कस् तस्य सर्वाग्रसत्त्वस्य सम्यक्सम्बुद्धस्य विख्यातकीर्तेः कृपाख्यातविश्वासधर्मस्य विज्ञानपूर्णस्य विस्तीर्णवीर्यस्य निस्तीर्णसर्वप्रतिज्ञस्य निर्मुक्तदोषस्य निर्वान्तमोहस्य शान्तस्य दान्तस्य सर्वेन्द्रियार्थेष्व् अशक्तस्य विश्वेश्वरस्यान्तिकं देहम् आसादित तस्याप्रमेयप्रभावप्रभालङ्कृतज्ञानकोशस्य सम्पूर्णचन्द्रप्रकाशातिरेकाननस्य
सुरेन्द्रासुरेन्द्रोरगैश् च भक्त्या प्रसादेन नित्यवन्द्यस्य प्रदीप्तौजसा पुण्यकीर्तेर् महर्षिप्रसूतस्य निष्क्रान्तहेमप्रकाशस्य धर्मेश्वस्याग्रधर्मेषु पारङ्गतस्याग्रसत्त्वस्य नाथस्य नागस्य मुक्तस्य धीरस्य वीरस्य देवातिदेवस्य सम्यक्सम्बुद्धस्य कस् तस्य शक्नोत्य् अशेषान् गुणान् वक्तुम् ॥
स्व रोय् 307,4 - 308,309 [111] अपि च सर्वसद्रूपलावण्यसम्पद्भिः समलङ्कृतं । वपुर् बुद्धाद् ऋते नास्ति अन्यस्येदृशम् उत्तमं ।1। नास्ति बुद्धसमो वक्ता नास्ति बुद्धसमः सुधीः । नास्ति बुद्धसमो बोद्धो नास्ति बुद्धसमो सुधीः ।2। नास्ति बुद्धसमं पात्रं नास्ति बुद्धसमः सुखी । नास्ति बुद्धसमो दान्तो नास्ति बुद्धसमः प्रभुः ।3। नास्ति बुद्धसमः शास्ता नास्ति बुद्धसमः पिता । नास्ति बुद्धसमो बन्धुर् नास्ति बुद्धसमः सुहृत् ।4। निर्ममो निर्मदो निर्भी निरायासो निरङ्गणः । निस्तीर्ण भवकान्तारो निःसपत्नो निरामयः ।5। कान्तः शान्तः शुचिर् दान्तः स्मृतिमान् बलवान् वशी । हृतकृतसर्वसत्त्वानां नास्ति बुद्धसमो परः ।6। समासतो गुणैः सद्भिर् विशेषैर् विधिवद् यतः । त्रैलोक्ये ऽपि न बुद्धेन सदृशो ऽस्तीति गृह्यतां ।7।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
