Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
सुमागधावदान
- Thông tin
- GRETIL — Yutaka Iwamoto: Sumagadhavadana. Kyoto: Hozokan Verlag 1968 (Studien zur buddhistischen Erzählungsliteratur, 2).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सुमागधावदान
नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैर् गन्धर्वैः किन्नरैर् महोरगैर् इति देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे.(SumAv_1)
तेन खलु पुनः समयेन श्रावस्त्याम् अनाथपिण्डदो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी.(SumAv_2)
तेन सदृशात् कुलात् कलत्रम् आनीतम्. स तया सार्धं क्रीडति रमते परिचारयति. तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता. साष्टानां नवानां वा मासानाम् अत्ययात् प्रसूता.(SumAv_3)
दारिका जाता, अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता सा उन्नीता वर्धिता महती संवृत्ता, ज्ञातिभिर् अस्याः सुमागधेति नाम व्यवस्थापितम्.(SumAv_4)
पुण्ड्रवर्धने ऽपि च नगरे मूषिलो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी.(SumAv_5)
तस्य पुत्रो वृषभदत्तो नाम, सो ऽप्य् अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः, स चान्यतीर्थ्यसंसर्गान् निर्ग्रन्थेष्व् अभिप्रसन्नो ऽभूत्.(SumAv_6)
यदा भगवतानुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं तदा सर्वे ऽन्यतीर्थ्या भग्नाः पराजिताः प्रत्यन्तं समाश्रिताः, केचित् गौडिकं ग्रामं, केचित् पुण्ड्रवर्धनं नगरं, केचित् भद्रिकं नगरम्.(SumAv_7)
स च गृहपतिपुत्रो दैन्येनावतिष्ठते, स च निर्ग्रन्थैर् उच्यते: किम् अर्थं त्वं नो विवाहयसीति. स प्रोवाच: पत्नी मे सदृशी न विद्यते. त ऊचुर्: अनाथपिण्डदस्य दुहिता सुमागधा नामास्ति, सापि अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणीसदृशी, तां प्रार्थयेति.(SumAv_8)
ततो ऽसौ सहश्रवणाद् एव तस्यां संरक्तचित्तो बभूव. यावद् अन्यतीर्थिकवेशं कृत्वानुपूर्वेण श्रावस्तीम् अनुप्राप्तः, पिण्डपात्रम् अनुविचरन्न् अनाथपिण्डदस्य गृहं प्रविष्टः. सुमागधा भिक्षां गृहीत्वा निर्गता. सा तेन दृष्टा. सहदर्शनाद् एवातीव संरक्तचित्तो बभूव. स भ्रान्तेन खोरकेन शक्तुं प्रतिगृह्नाति, मथितं च सिक्कायां.(SumAv_9)
ततः सुमागधा तम् असंवृतेन्द्रियं दृष्ट्वा प्रहसिता, आह च: असंप्रजाना इमे ऽन्यतीर्थ्या भिक्षां प्रतिगृह्णन्तीति. ततः सो ऽपि तया सह प्रहसितो भिक्षां गृहीत्वा प्रक्रान्तः.(SumAv_10)
ततः पुण्ड्रवर्धनं गत्वा पितुर् निवेदितवान्. तेन सा दारिका श्रावस्तीं गत्वा याचिता.(SumAv_11)
अनाथपिण्डदेन गृहपतिना भगवान् पृस्टः. भगवान् आह: गृहपते, प्रव्रजिताम् इदम् अकरणीयम्. अपि तु यदि सुमागधा पुण्ड्रवर्धनं यास्यति, तत्रापि बुद्धकार्यं करिष्यतीति.(SumAv_12)
ततो ऽनाथपिण्डदेन गृहपतिना सुमागधा महता श्रिसमुदयेन वृषभदत्ताय दत्ता, तेनापि स्वगृहं नीता.(SumAv_13)
यावद् अपरेण समयेन तस्मिन् गृहे निर्ग्रन्था भुञ्जते, सा श्वश्रुणोच्यते: दारिके, आगच्छ दक्षिणीयान् पश्येति.(SumAv_14)
तस्या बुद्धिर् अभवत्: नूनं स्थविरार्यशारद्वतीपुत्रमहामौद्गल्यायनार्यानन्दप्रभृतयो महाश्रावका उपनिमन्त्रिता इति. सा हृष्टतुष्टा निर्गता.(SumAv_15)
तया ते निर्ग्रन्थाः काकपक्षमलिना मलपटलवस्त्रा दुर्गन्धशरीरा नग्नाः प्रेतसदृशा दृष्ट्वा च पुनर् दुर्मनाः संवृत्ता.(SumAv_16)
सा श्वश्रुणोच्यते: दारिके, किमर्थं परिखिन्नासीति. सा प्रोवाच: आर्ये, यद्य् एवंविधा दक्षिनीयाः. पापकारिनः पुनः कीदृशा भवन्तीति.(SumAv_17)
सा कथयति: दारिके, ऽस्ति कश्चिद् एभ्यो ऽन्यः प्रतिविशिष्टतरः शास्ता लोके.(SumAv_18)
सा कथयति: अस्ति श्रावस्त्यां पितुर् मे विहारे स भगवान् उपेतो मातृतः पितृतः संशुद्धः, क्षत्रियो जात्या, राजकुलात् प्रव्रजितश् चक्रवर्तिवंशात्; उच्चात् कुलात् प्रव्रजितो ऽनूनात्. पुनर् अपरं, स भगवान् आढ्यात् कुलात् प्रव्रजितो ऽदीनात्. पुनर् अपरं, स भगवान् दहरस् तरुणः प्रत्यग्रयौवनसमन्वागतः.(SumAv_19)
यस्मिन् समये क्रीडाहर्षमण्डनविभूषणस्थानयोगम् अनुयुक्तेन विहर्तव्यम्, तस्मिन् समये ऽकामकानां ज्ञातीनाम् साश्रुकण्ठानां रुदन्मुखानां केशश्मश्रूण्य् अवतार्य काशायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः.(SumAv_20)
पुनर् अपरं, भगवान् द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो ऽसीत्यनुव्यञ्जनैर् विराजितगात्रो व्यामप्रभालंकृतः, सूर्यसहस्रातिरेकप्रभः, जङ्गम इव रत्नपर्वतः समन्ततो भद्रको ऽभिरूपको दर्शनीयः प्रासादिकः.(SumAv_21)
ज्ञात्वा स भगवान् दृष्ट्वा, सनिदानं श्रावकानां धर्मं देशयति नानिदानं, सनिःसरणं नानिःसरणं, सपरिक्रमं नापरिक्रमं, सप्रतिसरणं नाप्रतिसरणं, सपराक्रमं नापराक्रमं, सप्रातिहार्यं नाप्रातिहार्यम्.(SumAv_22)
प्रज्ञावन् स भगवान् महाप्राज्ञः, अलम् उत्पन्नानां परवादिनां सह धर्मेण निर्गृहीता, अलं स्वकस्य वादस्य प्रतिष्ठापयिता, कर्मवादी स भगवान् क्रियावादी.(SumAv_23)
पूर्वाभिलापी स भगवान् प्रियभाषी, उत्तानमुखवर्णो विगतभृकुटिः स्मितपूर्वंगमः. एहीति स्वागतवादी, कल्याणवाक्यः स भगवान् बाह्यकरणोपेतश्, चित्रकथः स भगवान् मधुरकथः, कल्याणप्रणिधानो बहुहितानुकम्पी बह्वनेकजनताविनीत.(SumAv_24)
आर्यधर्मतया न्यायधर्मतया विरजधर्मतया अतुलधर्मतया लब्धसहायः स भगवान्, बहवो ऽस्य सहायकाः शीलसंपन्नाः समाधिसंपन्नाः प्रज्ञासंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्नाः.(SumAv_25)
पुनर् अपरं; स भगवान् यं ग्रामक्षेत्रम् उपनिश्रित्य विहरति, न तत्र मनुष्या अमनुष्या वा विहेठयन्ति, कालेन कालं दिव्यानि रूपाणि दृश्यन्ते, दिव्याः शब्दाः श्रूयन्ते, उदाराश् चावभासाः प्रज्ञायन्ते, देवः कालेन कालं सम्यग् वारिधाराम् अनुप्रयच्छतीति.(SumAv_26)
तस्याः सहश्रवणाद् एव भगवतो ऽन्तिके चित्तम् अभिप्रसन्नं, सा प्रसन्नचित्ता कथयति: दारिके, शक्यसि त्वं तं भगवन्तम् अस्माकम् उपदर्शयितुम्.(SumAv_27)
सा कथयति: आर्ये, तेन हि त्वं भक्तं सज्जीकुरु, श्वो ऽहं भगवन्तम् आनयिस्यामीति. मूषिलपत्नी कथयति: साधु, सर्वं सज्जितम् इति.(SumAv_28)
ततः सुमागधा भवनपृष्ठम् अभिरुह्य मण्डलकम् उपलिप्य पुष्पाण्य् अवकीर्य भगवन्तम् अभिनमस्य यस्यां दिशि प्रतिवसति तस्यां दिशि पुष्पाणि क्षिपति, धूपं च ददाति, भृङ्गारोदकं च भगवतो निमन्त्रणकं प्रेषयति. एवम् आह:(SumAv_29)
सर्वज्ञ कारुणिक भो खलु सांप्रतं मे संदर्शनं स्वयम् इहागमनं कुरुस्व / संघेन सागरसमेन समं जितारे आगामिनीं प्रतिवसस्व निशाम् अतुल्यम् // अनुग्रहार्थं भगवन् ममाद्य कर्तुं नराणां मनसः प्रसादं / रूपस्य ते दर्शनमात्रकेन लोकैकनाथ क्रियतां प्रसादः // (SumAv_30)
ततस् तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन हंसपङ्क्तिर् इवाकाशे जेतवनाभिमुखानि संप्रस्थितानि, धूपो ऽभ्रकूटवद् वैडूर्यशलाकोवेदकं भगवतो ऽग्रतः स्थितम्.(SumAv_31)
तं दृष्ट्वायुष्मान् आनन्दो भगवन्तं पप्रछ: कुतो भगवन्न् इदं निमन्त्रणकम् आयातम्.(SumAv_32)
पुण्ड्रवर्धनाद्, आनन्द, षष्ट्युत्तराद् योजनशतात्. गच्छानन्द, भिक्षूणाम् आरोचय: श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तिर्थ्यावष्टब्धं तं नगरम् ऋद्धिविकुर्वणं कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारायेति.(SumAv_33)
एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य गण्डीम् आकोट्य भिक्षुसंघं संनिपात्य वृद्धान्ते स्थित्वा शलाकां चारयन्न् एवम् आह: शृण्वन्तु भदन्ताह्, संघं भगवान् आज्ञापयति.(SumAv_34)
श्वो युष्माभिः पुण्ड्रवर्धनं नगरं गन्तव्यं, तीर्थ्यावष्टब्धं तं नगरम्, ऋद्धिविकुर्वणम् कर्तव्यम्, अप्रसन्नानां प्रसादाय, प्रसन्नानां भूयोभावाय, दुर्मङ्कूनां निर्ग्रहाय, लज्जिनां स्पर्शविहारयेति.(SumAv_35)
ततः स्थविरस्थविराः शलाकां ग्रहीतुम् आरब्धाः. तत्र पूर्णो नाम सुकुण्डोपधानीयः स्थविरः, सो ऽपि शलाकां ग्रहीतुम् आरब्धः. आयुष्मतानन्देनोच्यते: स्थविर, नेदम् अनाथपिण्डदस्य गृहं गन्तव्यम्, अपि तु पुण्ड्रवर्धनं नगरं गन्तव्यं षष्ट्युत्तरयोजनशतं यावद् ऋद्धिविकुर्वणं कर्तव्यम्.(SumAv_36)
ततः ससंभ्रमं स्थविरः शलाकां छोरयित्वा, यावद् द्वितीयस्य भिक्षोः शलाका न दीयते, तावत् षडभिज्ञाम् उत्पाद्य गजभुजसदृशं दक्षिणं बाहुम् अभिप्रसार्य शलाकां गृहीत्वा कथयति: न हि रूपगुणैर् न हि सौष्ठवैर् न बलात्कारगुणैर् न गौरवात् / जरया हि निपीडितयौवनाः षडभिज्ञास् तु भवन्ति मद्विधाः // (SumAv_37)
ततः प्रभतायाम् रजन्यां स्थविरस्थविराः स्वकस्वकेन ऋद्ध्यनुभावेन संप्रस्थिताः.(SumAv_38)
अथ मूषिलपत्नी भगवतो ऽर्थे शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीयासनकानि प्रज्ञप्य, उदकमणिं प्रतिष्ठाप्य, भवनपृष्ठम् अभिरुह्य, सुमागधापि स्वामिना सार्धं श्वशुरेण बहिः स्थिता चिन्तयति.(SumAv_39)
किं भगवान् आगमिष्यति. अथ नागमिस्यतीति. अथवान्यत्रोपनिमन्त्रितो भविष्यति.(SumAv_40)
ततो भगवन्तं नमस्कृत्य यस्यां दिशि प्रतिवसति ताम् दिशं प्रेक्षितुम् आरब्धा.(SumAv_41)
अत्रान्तरेणायुष्मान् आज्ञातकौण्डिन्य उरगरथम् अभिनिर्माय शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मेघध्वनिनिर्नादेन तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_42)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता, यो ऽयम् उरगरथोपविष्टः शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युदुद्द्योतं दर्शयमानो मेघध्वनिनिर्नादेन ऋद्ध्याकाशेनागच्छति.(SumAv_43)
सा प्रोवाच: नायम् आर्यो ऽज्ञातकौण्डिन्यः संघस्थविरः, अनेन भगवता बाराणस्यां धर्मे देश्यमाने तत्प्रथमतो वैराग्यम् अधिगतम् अयं भगवता निर्वाणाधिगमप्राप्तानाम् अग्रो निर्दिष्टह्, स एषागच्छति. (1)(SumAv_44)
अत्रान्तरेणायुष्माञ् छारिपुत्रः सिंहरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा र्द्ध्याकाशेनागच्छति.(SumAv_45)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं सिंहरथेनागच्छति.(SumAv_46)
सा कथयति: नायम् आर्यः शारिपुत्रो, यो ऽयं भगवता प्रज्ञावताम् अग्रो निर्दिष्टः.(SumAv_47)
अस्य च गर्भस्थस्य मात्रा जम्बूद्वीपे सर्ववादिनो निर्गृहीताः.(SumAv_48)
जनन्याश् चानेन दौहदम् उत्पादितम्: अप्य् एवाहं सुमेरुमूर्धारुह्य चतुर्णाम् अपि रत्नाकराणां पयः पिबेयम् इति.(SumAv_49)
अथ तिष्येन द्विजप्रवरेणेन्द्रजालपारमिप्राप्तं हरिम् इन्द्रजालाचार्यम् आहूय नरसुरासुरगरुडकिन्नरमहोरगगन्धर्वयक्षसमवाये देव्या दौहदं विनीतम्.(SumAv_50)
अस्य च मातुः कुक्षिनिष्क्रान्तस्य पित्रा सर्वनैमित्तिकाः समाहूयोक्ताः: पश्यन्तु भवन्तः, कुमारस्य किं प्रभावो भविष्यतीति.(SumAv_51)
ते चावलोकयितुम् आरब्धाः. कुमारस्य लक्षणोदारतां रूपोदारतां च दृष्ट्वा परं विस्मयम् आपन्ना, न शक्नुवन्ति व्याकर्तुं कुमारस्येदं प्रभावम् इति.(SumAv_52)
अथाम्बरगतेन महाब्राह्मणा तेषाम् संशयम् अपनयनार्थं ब्राह्मणस्वरेणावघोषितम्.(SumAv_53)
एष कुमारः शाक्यमुनेः सम्यक्संबुद्धस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् करिष्यति, सर्वश्रावकानां चाग्रो भविष्यति, धर्मचक्रानुवर्तयिता.(SumAv_54)
इदानीं वादिनश् चास्य मुखं निरीक्ष्य चिरकालाभिलषितां वाचम् अपि न निश्चारयन्ति, कः पुनर् वादो. वादकरणे अयं भगवता एवम् उक्तः.(SumAv_55)
महासमुद्रप्रमाणं पूर्णमसिभाजनस्य, सुमेरुप्रमाणम् भूर्जपत्रभारस्य, चतुर्द्वीपेषु सर्वसत्त्वधातुप्रमाणं लेखकानाम्, अस्याः पृथिव्यास् तृणकास्ठशाखापर्णसदप्रमाणं कलमानां परिक्षयं पर्यायेन गच्छेत्, न त्व् एवास्य शारिपुत्रस्य प्रज्ञायाः क्षयं वदामि. अतो महाप्रज्ञ इत्य् आख्यातः महासार्थवाहवत्.(SumAv_56)
यावत् सर्वसत्त्वेषु प्रज्ञा ऽस्य सर्वोत्कृष्टा यावत् त्रिभुववासिसकलनरामरसुरस्य सर्वलोकस्य या प्रज्ञा स्थापयित्वा तथागतम् / शारिपुत्रस्य प्रज्ञायाः कलां नार्हति षोडशाम् // (SumAv_57)
अन्यम् अप्य् उक्तम्: चतुरार्यसत्यसंक्षेपविस्तरविभागविधिकथावसरे नास्त्य् उत्पत्तिष्व् अस्य समो जगति प्रत्येकबुद्धो ऽपि, स एषागच्छति. (2)(SumAv_58)
अत्रान्तरेणायुष्मान् महाकाश्यपः सौवर्णं पर्वतम् अभिनिर्माय नानामृगगणोपेतं नानाप्रस्रवाकुलं नानापक्षिगणाकीर्णं नानावृक्षोपशोभितं तत्रोपविष्टः स उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_59)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता यो ऽयं सुवर्णम् पर्वतम् अभिरुह्यागच्छति.(SumAv_60)
सा कथयति: नायम् आर्यो महाकाश्यपो, ऽयं भगवता अल्पेच्छानां संतुष्टानां धूतगुणधराणाम् अग्रो निर्दिष्टः.(SumAv_61)
अनेनैकोनं लाङ्गलसहस्रं लक्षाहतानां, षष्टिहिरण्यकोट्यः सौवर्णानां, यवानाम् अशीतिभिः खार्यं, षोडश दासग्रामम्, अष्टादश महाभाक्तग्रामाः, अनेकशतसहस्राणि वस्तून्य् उपकरणं समुत्सृज्य प्रव्रजितः.(SumAv_62)
पुनर् अपरं: सर्वश्रावकानां समक्षम् अयं भगवतार्धासनेनोपनिमन्त्रितः. एकप्रस्थोदनं श्रेयः, एकशय्या सुखावहा / एकदूष्ययुगं वार्यं, गेयो मोहपरिग्रहः // इति कृत्वा, प्रतिगृहीताशेषा या अपरिग्रह इति न गृहीतः. यश् च भागिनेयाम् अभिरूपां दर्शनीयां जनपदकल्याणीसदृशीं ताम् अपहाय प्रव्रजितः, स एषागच्छति. (3) (SumAv_63)
अत्रान्तरेणायुष्मान् महामौद्गल्यायन ऐरावणगजवरविलासगामिनं परमस्वभावलक्षणव्यञ्जनोपेतपुण्यदर्शनं हस्तिनम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_64)
तं दृष्ट्वा सुमागधायाः स्वामी पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं नागेन्द्ररथेनागच्छति.(SumAv_65)
सा कथयति: नायम् आर्यो महामौद्गल्यायनो, ऽयं भगवता ऋद्धिमताम् अग्रो निर्दिष्टः.(SumAv_66)
अनेन शक्रस्य देवानाम् इन्द्रस्य वैजयन्तः प्रासादः, योजनसहस्रं समन्तात्, परिक्षेपेण चतुरशीतिभिः स्तम्भसहस्रैः सुप्रतिष्ठितः, अर्धपञ्चेमानि योजनानि देवपुराद् अत्युद्गतः पादाङ्गुष्थेनाभिकम्पितः.(SumAv_67)
नन्दोपनन्दौ नाम नागराजानौ सुमेरुभृगुणपरिवेष्टितं कृत्वावस्थितौ च विनीतौ.(SumAv_68)
पुनर् अप्य् अनेन भगवान् एवम् उक्तः: एवं हि भदन्त वैजयन्ते दुर्भिक्षं कृच्छ्रं कान्तारं, दुर्लभः पिण्डको याचनकेन, भिक्षवो ऽपि लूहभोजनेन परिक्लाम्यन्ते.(SumAv_69)
संमुखं मे भदन्त भगवतो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम्: अस्यां महापृथिव्यां पार्थिवः प्रणीतो रसधातुः: सो ऽधस्ताद् अवस्थित इति.(SumAv_70)
तद् इच्छाम्य् अस्या महापृथिव्याः पार्थिवः प्रणीतो रसधातुः तम् ऊर्ध्वं कर्तुं, यम् ऊर्ध्वं तम् अधः कर्तुम्.(SumAv_71)
भगवान् आह: कस्मिन् स्थाने स्थित्वा महापृथिवीं परिवर्तयसीति.(SumAv_72)
एष एवम् आह: चक्रवाडमहाचक्रवाडाभ्यां स्ताने महापृथिविं परिवर्तयिष्यामि.(SumAv_73)
भगवान् आह: ये पृथिवीसंनिश्रिताः प्राणिनस् तान् कथं करिष्यसीति. एष एवम् आह: ये पृथिवीसंनिश्रिताः प्राणिनस् तान् वामेन पाणिनोद्धृत्य धारयिष्यामि, दक्षिणेन प्राणिना महापृथिवीं परिवर्तयिष्यामि. भगवान् आह: का तव संज्ना भविष्यति.(SumAv_74)
तद्यथा, भदन्त, बलवान् पुरुषः कदलीपत्रं परिवर्तयन् परमलघुसंज्ञी भवति, एवम् एवाहं भदन्त, महापृथिवीं परिवर्तयन् परमलघुसंज्ञी भविष्यामीति.(SumAv_75)
साधु साधु, मौद्गल्यायन, शक्यसि त्वम् अनया ऋद्ध्यानेनोपायेन महापृथिवीं परिवर्तयितुम् इति. स एषागच्छति. (4)(SumAv_76)
अत्रान्तरेणायुष्मान् महाकात्यायनः स्फटिकमयं कूटागारम् अभिनिर्माय मरकतेनाच्छादितं नानारत्नस्तम्भोपनिबद्धं प्रवालवेदिकोपशोभितं, तत्र पर्यण्कः प्रज्ञप्तः पटिकास्तृतो गोणिकास्तृतश् चित्रिकास्तृतश् तूलिकास्तृतः, यावल् लोहितोपधानस्, तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_77)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं स्फटिकमयं कूटागारम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_78)
सा कथयति: नायम् आर्यो महाकात्यायनः, अयं भगवता सूत्रान्तवैभङ्गकानां पुण्यमहेशाख्यानाम् अग्रो निर्दिष्टः, स एषागच्छति. (5)(SumAv_79)
अत्रान्तरेणायुष्मान् महाकौस्ठिलो व्र्षभरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_80)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं वृसभरथेनागच्छति.(SumAv_81)
सा कथयति: नायम् आर्यो महाकौष्ठिलो, ऽयं भगवताल्पेच्छानाम् अग्रो निर्दिष्टः.(SumAv_82)
अयं भिक्षून् एवम् आह: सातिरेकाणि मे, आयुष्मन्तो, ऽशीतिवर्षानि प्रव्रजितस्य, नाभिजानामि सब्रह्मचारिणाम् अन्तिकात् परिकर्म स्वीकर्तुम् अन्तशः पृष्ठोद्घर्षणमात्रम् अपि, स एषागच्छति. (6)(SumAv_83)
अत्रान्तरेणायुष्मान् उपाली हैमं तालवनम् अभिनिर्माय सुवर्णपुष्पफलोपेतं विविधमनोज्ञस्वरसंयुक्तं, तत्रासज्जमानशरीर ऋद्ध्याकाशेनागच्छति.(SumAv_84)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयम् ते स शास्ता यो ऽयं हैमं तालवनम् आश्रित्य ऋद्ध्याकाशेनागच्छति.(SumAv_85)
सा कथयति: नायम् आर्य उपाली, अयं भगवता विनयधराणाम् अग्रो निर्दिष्टः.(SumAv_86)
अस्य च पञ्चमात्रात्रैः शाक्यकुमारशतैर् नानालंकारविभूषितैः प्रव्रज्यमानैः पुरस्ताद् वस्त्राणाम् आभरणानां च महान् राशिः कृतः.(SumAv_87)
अयम् आर्यः संलक्षयति: इमे तावत् कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि स्फीताणि च कोशकोष्ठागाराण्य् अपास्य प्रव्रजितुम् आरब्धाः, अहम् अस्मिम् अलंकारमात्रेण सक्तो.(SumAv_88)
ऽनेन व्यसनम् आपत्स्यते इति तां विभूतिं खेटपिण्डम् इवापहाय प्रव्रज्य तत्प्रथमतरम् अर्हत्त्वम् अधिगतं, स एषागच्छति. (7)(SumAv_89)
अत्रान्तरेणायुष्मान् अश्वजिच् छान्तेनेर्यापथेन मत्तहस्तिनं दमयति, पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_90)
तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं शान्तेनेर्यापथेन पात्रकरव्यग्रहस्त उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_91)
सा प्राह: नायम् आर्यो ऽश्वजिच्, छान्तेनेर्यापथेन मत्तहस्तिनं दमयति. अस्य सकाशाद् अनया गाथया: कर्मक्लेशहेतुकारणवती लोकस्य निवृत्तिर् यथा कर्मक्लेशनिवृत्तिकारणम् अपि प्रोवाच तन् नायकः / यस्मिन् जन्मजराविपत्तिनियतं दुःखं न संतिष्ठते तत् मोक्षप्रवरं स चादिवृषभो ज्ञात्वा स्वयं भाषते // श्रुत्वा पूर्वं तीर्थिकस्यार्येण शारिपुत्रेण श्रोतआपत्तिफलम् अधिगतम् अयं भगवता स्मृतिमताम् अग्रो निर्दिष्टः, स एसागच्छति. (8) (SumAv_92)
अत्रान्तरेणायुष्मान् पूर्णो मैत्रायणीपुत्रः सौवर्णं पद्मम् अभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_93)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, अयं ते स शास्ता यो ऽयं सौवर्नं पद्मम् अभिनिर्माय सहस्रपत्रं शकटचक्रमात्रं वैडूर्यदण्डं वज्राङ्कुरकेशरं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_94)
सा कथयति: नयाम् आर्यो पूर्णो मैत्रायणीपुत्रः, अयं भगवता मैत्राणिकानाम् अग्रो निर्दिष्टः, स एषागच्छति. (9)(SumAv_95)
अत्रान्तरेणायुष्मान् द्रव्यो मल्लपुत्रश् चतूरत्नमयम् पर्वतशिखरम् अभिनिर्माय नानाघण्टारवाकीर्णं नानाध्वजपताकोपशोहितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_96)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां: पप्रच्छ सुमागधे, ऽयं ते स शास्ता यो ऽयं चतूरत्नमयं पर्वतशिखरम् अभिनिर्माय नानाघण्टारावकीर्णं नानाध्वजपताकोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_97)
सा कथयति: नायम् आर्यो द्रव्यो मल्लपुत्रो, ऽयं भगवता प्रतिलयकानाम् अग्रो निर्दिष्टः, यो ऽयं संलयान् भिक्षून् तथा प्रतिसंलयनेषु नियोजयति, स एषागच्छति. (10)(SumAv_98)
अत्रान्तरेणायुष्मान् अनिरुद्धः सर्वसौवर्णं प्रासादम् अभिनिर्माय वैडूर्यप्रवालस्तम्भोपशोभितं नानारत्नविचित्रं वितानमालाविरचितं शतपताकोपशोभितं तन्मध्ये, तत्र चाभ्यन्तरे निषण्ण, उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_99)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं सौवर्णं प्रासादम् अभिनिर्माय, तत्र चाभ्यन्तरे सिंहासने निषण्ण उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_100)
सा कथयति: नायम् आर्यो ऽनिरुद्धो, ऽयं भगवता दिव्यचक्षुषाम् अग्रो निर्दिष्टः.(SumAv_101)
अनेन बाराणस्याम् उपविष्टस्य प्रत्येकबुद्धस्यैकपिण्डप्रतिपादनेन सप्तकृत्वश् चक्रवर्तिराज्यानि कारितानि, सप्तकृत्वो देवेषु त्रयस्त्रिंशेषु देवानां राज्यं कारितम्.(SumAv_102)
तेनैव कर्मावशेषेणाढ्ये शाक्यकुले जातः, अनेकानि च शतसहस्रानि लक्षाहतस्य हिरण्यसुवर्णस्य रूप्यस्य चापहाय प्रव्रजितः, प्रव्रजितो ऽपि चायं लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्.(SumAv_103)
पुनर् अस्य माहात्म्यं शृणु: माहानाम मात्राभिहितः. पुत्र, राज्ञा घण्टावघोषनं कारितं, शाक्यैः कुलैकया प्रव्रजितव्यम् इति, स त्वं प्रव्रज.(SumAv_104)
स कथयति: नाहं प्रव्रजामि. यस् ते प्रियः पुत्रः सुखासने उपरि प्रासादतले तिष्ठति, तं प्रव्राजयस्वेति.(SumAv_105)
माता प्राह: पुत्र, पुण्यमहेशाख्यो ऽसौ, मा तेन सह स्पर्धां कुरु.(SumAv_106)
अम्बे, त्वं तस्याभिप्रसन्ना येनासौ पुण्यमहेशाख्यः. अद्य तस्य मा किंचित् प्रेषयाज्ञास्यामि पुण्यमहेशाख्यो न वेति.(SumAv_107)
पुत्र, एवं प्रत्यक्षीकुरु.(SumAv_108)
तया रिक्तपिठरिकाभिः पिटकं पूरयित्वा शुक्लेन वस्त्रेणाच्छाद्य मुद्राभिलक्षितं कृत्वा प्रेष्यदारिकाहस्ते प्रेषितम्, संदिष्टं च: दारिके, यदि त्वां पृच्छेत् किम् अत्रेति, वक्तव्य्ं न किंचिद् इति. सा तम् आदाय संप्रस्थिता.(SumAv_109)
शक्रस्य च देवानाम् इन्द्रस्याधस्तात् ज्ञानदर्शनं प्रवर्तते. स संलक्षयति: येन नाम उपरि प्रत्येकबुद्धः पिण्डकेन प्रतिपादितः, तस्याद्य कथं भोजनेन विघातो भविष्यति. भोजनोपसंहारो ऽस्य कर्तव्य इति. तेनासौ पिटको नानासूपिकरभोजनोपेतस्याहारस्य पूरितः.(SumAv_110)
यावद् असौ दारिका तम् आदायानिरुद्धसकाशं गता, तेनोक्ता: दारिके, किम् अत्रेति. सा कथयति: कुमार, न किंचिद् इति. अनिरुद्धः संलक्षयति: प्रियो ऽहं मातुः, किम् असौ रिक्तं प्रेषयिष्यति. नूनम् अत्र किं नाम भोज्यभोजनं प्रक्षिप्तम् पश्यामस् तावद् इति. (SumAv_111)
यावद् उद्घाटितं सर्वं तद् उद्यानम् अनेकोपकरणसुरभिगन्धसंपूर्णं व्यवस्थितम्. यं घ्रात्वानिरुद्धः परं विस्मयम् उपगतः: मातृभक्तो ऽयम्, अनेन मातुर् अग्रपिण्डः प्रेषितः. संदिष्टं चाम्ब, प्रतिदिनम् ईदृशं भोजनं प्रेषितुम् अर्हसीति.(SumAv_112)
सा दृष्ट्वा परमविस्मयम् उपगता. तया महानामोपदर्शितः: पुत्र, दृष्टं ते. अम्ब, दृष्टम्. ननु त्वं मया पूर्वम् एवोक्तः: पुन्यमहेशाख्यः सत्त्वो मनुष्य सुभगो, मा तेन सह स्पर्धां कुर्ष्वेति. स एषागच्छति.(SumAv_113)
आह च: सौवर्णे सुविमानमालरचिते रत्नप्रभालंकृते ध्यायी ध्यानरतो निषद्य विरजोभद्रासने संयतः / आयात्य् एष चलध्वजोपरचितो आर्यानिरुद्धो मुनिः मुक्तो मोचयिता निमग्नम् अवशं लोकं भवाम्भो निधौ // (11) (SumAv_114)
अत्रान्तरेणायुष्मान् श्रोणः कोटीकर्णः पुष्पमण्डपम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_115)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं पुष्पमण्डपम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_116)
सा कथयति: नायम् आर्यः श्रोणः कोटीकर्णो, ऽयं भगवता अल्परजस्कजातीयानाम् अग्रो निर्दिष्टः.(SumAv_117)
अयं रत्नप्रयुक्तिकया कर्णिकया कर्णे आमुक्तिकया जातः. मातापितरौ परं विस्मयम् आपन्नौ.(SumAv_118)
अस्य पित्रा बलसेनेन सर्वरत्नपरिक्षकान् आहूयोक्तः: रत्नानां मूल्यम् कुरुत इति. ते रत्नानां मूल्यं कर्तुम् आरब्धा, न शक्नुवन्ति रत्नानां मूल्यं कर्तुम्.(SumAv_119)
धर्मता खलु यस्य रत्नस्य न शक्यते मूल्यं कर्तुं, तस्य कोटिमूल्यं क्रियते. ते कथयति: गृहपते, एकैकस्य रत्नस्य कोटिमूल्यम् इति.(SumAv_120)
ज्ञातयः कथयन्ति: किं भवतु दारकस्य नामेति. अयम् दारकः कोटिमूल्यकरत्निकया कर्णिकया कर्णे आमुक्तिकया जातह्, श्रवणे नक्षत्रे जातस्, तस्माद् भवतु दारकस्य श्रोणः कोटीकर्ण इति नाम. स एषागच्छति. (12)(SumAv_121)
अत्रान्तरेणायुष्मान् श्रोनः कोटिविंशः नानापुष्पफलसंपन्नवनगहनम् अभिनिर्माय रजोध्वस्तायाम् पृथिव्याम् आकाशचङ्क्रमे चङ्क्रम्यमान उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_122)
तं द्षृट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयम् ते स शास्ता यो ऽयं नानापुष्पफलोपेतम् वनगहनम् संश्रित्याकाशचङ्क्रमे चङ्क्रम्यमाणो ऽभ्यागच्छति.(SumAv_123)
सा कथयति: नायं शास्ता, आर्यो ऽयं श्रोणः कोटीविंशह्. अस्य जातमात्रस्य पित्रा विंशतिहिरण्यकोट्यः अवलेहिकामूल्ये ऽनुप्रदत्ता, अस्य दिने दिने पञ्चकार्षापणशतानि स्थालीपाकार्थे व्ययम् उपगच्छति.(SumAv_124)
आयुष्मता महामौद्गल्यायनेन चास्य सकाशात् पिण्डपात्रम् आदाय भगवते दत्तम्. यस्य गन्धेन सर्वं राजगृहं नगरम् आपूरितं पात्रावशेषं च राज्ञ बिम्बिसारेणास्वादितम्, आस्वाद्य च परं विस्मयम् आपन्नः कथयत्य्:(SumAv_125)
अहं भदन्त राजकुले जातः, राजा संवृत्तो, नाभिजानामि कदाचिद् एवंविधम् अन्नम् आस्वादितं पूर्वम्.(SumAv_126)
अस्य पादतले चतुरङ्गुलमात्राणि सुवर्णानि रोमानि जातानि.(SumAv_127)
अयं भगवतः सकाशं गन्तुकामः पृच्छति: किं भगवान् यानेन गच्छत्य् आहोस्वित् पद्भ्याम् इति. अपरे कथयन्ति: पद्भ्याम् इति. स एष कथयति: अहम् अपि पद्भ्यां गच्छामीति.(SumAv_128)
तस्य पौरुषेयैर् वस्त्राणि पृथिव्याम् आस्तीर्णानि. एष पृच्छति: किं भगवान् आस्तीर्णेन गच्छत्य् आहोस्विद् अनास्तीर्णेनेति. ते कथयति: नास्तीर्णेनेति. एष कथयति: अपनयत वस्त्राणि, अहम् अप्य् अनास्तीर्णेन गच्छामीति. तैर् अपनीतानि.(SumAv_129)
पुनर् अपराणि दूष्यवस्त्राणि पृथिव्याम् आस्तीर्णानि. एष पृच्छति: किं भगवान् दूष्यास्तीर्णेन गच्छत्य् आहोस्विद् अनास्तीर्णेन. ते प्राहुः: नास्तीर्णेनेति. एष आह: अपनयत दूष्याणि. तैर् अपनीतानि.(SumAv_130)
कुमार, पुण्यमहेशाख्यः. ततो ऽपराण्य् अमनुष्यानि दिव्यवस्त्राणि प्रादुर्भूतानि. एष दृष्ट्वाह: अपनयन्तु अमनुष्यवस्त्राणीति. तैर् अपनीतानी. अनेन पृथिव्यां पादो न्यस्तः. षड्विकारः पृथिवीकम्पो जातः.(SumAv_131)
भगवान् आह: इतो, भिक्षव, एकनवतिं कल्पम् उपादाय न कदाचिच् छ्रोणेण कोटीविंशेनानस्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः. एतर्हि न्यस्तो धर्मगौरवात्, न तु पुण्यक्षयात्.(SumAv_132)
येनायं षड्विकारः पृथिवीकम्पो जातः. अयं भगवता आरब्धवीर्याणाम् अग्रो निर्दिष्टः. स एषागच्छति. (13)(SumAv_133)
अत्रान्तरेणायुष्मान् पिलिन्दवत्सो हंसरथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_134)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे ऽयं ते स शास्ता यो ऽयं हंसरथेनागच्छति.(SumAv_135)
सा कथयति: नायम् आर्यो पिलिन्दवत्सो, ऽयं भगवता करुणाविहाराणाम् अग्रो निर्दिष्टः.(SumAv_136)
अनेन गङ्गाभिहिता: कुशलीतिष्ठेत्य्. अस्य वचनसमनन्तरम् एव गङ्गा स्थिता, अङ्कुशसंताडितेव द्विरदवधूर् न प्रहसति. सो ऽयम् आगच्छति. (14)(SumAv_137)
अत्रान्तरेणायुष्मान् उदायी अश्वरथम् अभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट, उपरि विहयसा ऋद्ध्याकाशेनागच्छति.(SumAv_138)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयम् अश्वरथम् अभिनिर्माय चतूरत्नोपशोभितं तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_139)
सा कथायति: नायम् आर्य उदायी अयं भगवता कुलप्रसादकानाम् अग्रो निर्दिष्टः.(SumAv_140)
अनेन राजा शुद्धोदनः शुक्लोदनो द्रोणोदनो ऽमृतोदनो धौतोदनश् च, गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राणि बोधिसत्त्वविरहाच् छोकसागरनिमग्नास् ताभिस् ताभिः श्रुतिभिश् चित्तप्रह्लादनीभिर् विविधाभिर् वाग्भिः शोकं परित्याजितानि. सो ऽयम् आगच्छति. (15)(SumAv_141)
अत्रान्तरेणायुष्मान् ज्योतिःपालो मयूररथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्य्काशेनागच्छति.(SumAv_142)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं मयूररथम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_143)
सा कथयति: नायम् आर्यो ज्योतिःपालो, ऽयं भगवता दिव्यमानुषीश्रियं त्याजयित्वा प्रव्राजितः.(SumAv_144)
अस्य स्नानशाटको ऽभ्यवकाशे शोषितो वायुनोह्यमानो राज्ञो बिम्बिसारस्योपरि पतितः. राजा कथयति: भवन्तो, राजार्हम् इदं वस्त्रं, कुत्र एतत्. ते कथयन्ति: देव, श्रूयते राज्ञो मान्धातस्य सप्ताहं हिरण्यवर्षः पतित इति, देवस्यापि वस्त्रवर्षः पतितुम् आरब्धो, नचिराद् हिरण्यवर्षः पतिष्यतीति.(SumAv_145)
राजा कथयति: भवन्तो ज्योतिष्को गृहपतिर् भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यतीति, इदं च दिव्यं वस्त्रम् आकाशात् पतितम्, स्थापयत, तस्यैवागतस्य दास्याम इति.(SumAv_146)
ते चैवम् आलापं कुर्वन्ति, अयं च राज्ञः सकाशम् आगतह्.(SumAv_147)
राजा कथयति: कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीश्रियं प्रत्यनुभविष्यसीति, इदं च दिव्यं आकाशात् पतितम्, गृहाणेति.(SumAv_148)
तेन हस्तः प्रसारितः. देवानय पश्यामीति. स निरीक्षितुम् आरब्धो यावत् पश्यत्य् आत्मीयं स्नानशाटकम्.(SumAv_149)
स विपुष्प्य कथयति: देव, मदीयः स्नानशाटको ऽयं वायुनोपक्षिप्येहानीत इति.(SumAv_150)
राजा कथयति: कुमार, किं तव दिव्यमानुषी श्रीः प्रादुर्भूता. देव, प्रादुर्भूता. कुमार, यद्य् एवं किमर्थं मां न निमन्त्रयसे. देव, निमन्त्रितो भव. गच्छ, भक्तं सज्जीकुरु. देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम्. ननु सज्जीकृतम् एवागच्छेति.(SumAv_151)
स ज्योतिष्कस्य गृहं गत्वा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्य् उत्क्षिपति. ज्योतिष्कः कथयति: देव, किमर्थम् इन्द्रियाण्य् उत्क्षिपसीति. स कथयति: कुमार, वधूजनो ऽयम् इति कृत्वा. नायं वधूजनो, बाह्यो ऽयं परिजनः. स परं विस्मयम् आपन्नः.(SumAv_152)
पुनर् मध्यमं परिजनं दृष्ट्वा इन्द्रियाण्य् उत्क्षेप्तुम् आरब्धः. ज्योतिष्कः कथयति: देव, किमर्थम् इन्द्रियाण्य् उत्क्षिपसीति. राजा कथयति: कुमार, वधूजनो ऽयम् इति कृत्वा. देव, नायम् अपि वधूजनः, किंतु मध्यमो ऽयं परिजनह्. स भूयस्या मात्रया परं विस्मयम् आपन्नह्.(SumAv_153)
तत्र मध्यमायाम् द्वारशालायां मणिभिर् उपचिता भूमिः. तस्यां मत्स्या उदकपूर्णायाम् इव यन्त्रप्रयोगेनोपरिभ्रमन्तो दृश्यन्ते. राजा प्रवेष्टुकमो जलम् इति कृत्वा उपानहौ मोक्तुम् आरब्धः.(SumAv_154)
ज्योतिष्कः कथयति: देव, कस्यार्थे उपानहाव् अपनयसीति. कुमार, पानीयम् उत्तरितव्यम्. देव, नेदं पानीयम्, अपि तु मणिभूमिर् एषा. कुमार, इमे मत्स्या उपरिभ्रमन्तो दृश्यन्ते. देव, यन्त्रप्रयोगेनैते परिभ्रमन्ति. राजा न श्रद्दधाते तेनाङ्गुलिमुद्रा क्षिप्ता सा रणरणाशब्देन भूमौ पतिता. ततो राजा विस्मयम् आपन्नः.(SumAv_155)
प्रविश्य सिंहासने निषण्णः. ततो वधूजनः पादाभिवन्दक उपसंक्रान्तः. तासाम् अश्रुपातो जातः. राजा कथयति: कुमार, कस्माद् अयं वधूजनो रोदिति. देव, नायं रोदिति, किंतु देवस्य काष्ठधूपेन वस्त्राणि धूपितानि, तेनासाम् अश्रुपातो जात इति.(SumAv_156)
राजा तत्र तया दिव्यमानुषिकया श्रिया उपचर्यमाणो न निष्क्रामति; राजकृत्यानि राजकरणीयानि परिहातुम् आरब्धानि.(SumAv_157)
अमात्यैर् अजातशत्रुः कुमारो ऽभिहितः: कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः, गच्छ, निवेदयेति.(SumAv_158)
तेन गत्वा उक्तो: देव, किं त्वम् अत्र परिविश्यावस्थितो, राजकृत्यानि राजकरणीयानि परिहीयन्त इति.(SumAv_159)
राजा कथयति: कुमार, न शक्तो ऽसि त्वम् एकं दिवसं राज्यं कारयितुम्. देवो जानीते, ममैको दिवसः प्रविष्टस्यति. अद्य देवस्य सप्तमो दिवसो वर्तते.(SumAv_160)
राजा ज्योतिष्कस्य मुखम् निरीक्ष्य कथयति: कुमार, सत्यम्. देव, सत्यम्. सप्तमो दिवसो वर्तते.(SumAv_161)
कुमार, कथं रात्रिः प्रज्ञायते दिवसो वा. देव, पुष्पाणां संविकोचविकासान्, मणीनां ज्वलनाज्वलनात्, शकुनीनां कूजनाकूजनात्; सन्ति तानि कुसुमानि यानि रात्रौ विकसन्ति न दिवा, सन्ति यानि दिवा विकसन्ति न रात्रौ; सन्ति ते मणयो ये रात्रौ ज्वलन्ति न दिवा, सन्ति ये दिवा ज्वलन्ति न रात्रौ; सन्ति ते शकुनयो ये रात्रौ कूजन्ति न दिवा, सन्ति ये दिवा कूजन्ति न रात्रौ. राजा परं विस्मयम् आपन्नः कथयति:(SumAv_162)
कुमार, अवितथवादी भगवान्, यथा त्वं भगवता व्याकृतः तथैव नान्यथेत्य् उक्त्वा ज्योतिष्कस्य गृहान् निष्क्रान्तः.(SumAv_163)
अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिर् अपहृत्य दारकस्य हस्ते दत्तः. तेन यत एव गृहीतस् तत्रैव गत्वावस्थितः.(SumAv_164)
अजातशत्रुः कथयति: दारकानय तं मणिम्, पश्यामीति. स मुष्टिं विघाट्य कथयति: कुमार, कुत्र, न जाने कुत्र गत इति.(SumAv_165)
स ताडयितुम् आरब्धः. ज्योतिष्कः कथयति: कुमार, किमर्थम् एनं ताडयसि. गृहपते, ऽहं चौर, एष महाचौरो, मया त्वदीयो मणिर् अपहृतः, सो ऽप्य् अनेनापहृत इति.(SumAv_166)
स आह: कुमार, न त्वयापहृतो, नाप्य् अनेनापि तु यत एव त्वया गृहीतस् तत्रैव गत्वावस्थितो; ऽपि तु, कुमार, स्वकं ते गृहं यावद्भिर् मणिभिर् अन्येन वा प्रयोजनम् तावद् गृहाण यथासुखम् इति.(SumAv_167)
स प्रतिभिन्नकः संलक्षयते: यदा पितुर् अत्ययाद् राजा भविष्यामि, तदा ग्रहीष्यामीति.(SumAv_168)
यदाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयम् एव च पट्टं बद्ध्वा राज्ये प्रतिष्ठितः, तदा तेन ज्योतिष्को ऽभिहितो: गृहपते, त्वं मम भ्राता भवति, गृहं भाजयाम इति.(SumAv_169)
एष सम्लक्षयति: येन पिता धार्मिको धर्मराजः प्रघातितः, स माम् मर्षयतीति. कुत एतन्. नूनम् अयं मद्गृहम् आगच्छतु, कामं प्रयच्छामीति विदित्वा कथयति: देव, बिभक्तम् एव. किम् अत्र विभक्तव्यम्. मदीयं गृहम् आगच्छ. अहं त्वदीयं गृहम् आगच्छामीति.(SumAv_170)
अजातशत्रुः कथयति: शोभनम्, एवम् कुरु. स तस्य गृहं गतः. एषो ऽपि अजातशत्रोर् गृहं गतह्. सा श्रीस् तस्माद् गृहाद् अन्तर्हिता यत्रैष ज्योतिष्कस् तत्रैव गता. एवं यावत् सप्त वारान् अन्तर्हिता प्रादुर्भूता च.(SumAv_171)
अजातशत्रुः संलक्षयते: एवम् अपि मया न शकितं ज्योतिष्कस्य मणीन् अपहर्तुम्, अन्यद् उपायं करोमि.(SumAv_172)
तेन धूर्तपुरुषाः प्रयुक्ता: गच्छत, ज्योतिष्कस्य गृहान् मणीन् अपहरतेति.(SumAv_173)
ते हि शिटाकर्कटकप्रयोगेनाभिरोढुम् आरब्धाः. ते ऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः, तया धूर्तधूर्तका इति नादो मुक्तः.(SumAv_174)
अनेन ज्योतिष्केन श्रुतम्, अनेनाशयतो वाग् निश्चरित: तिष्ठन्तु धूर्तका इति. तेषां यो यत्राभिरूढः, स तत्रैवास्थितः, यावत् प्रभाता रजनी संवृत्ता.(SumAv_175)
महाजनकायेन दृष्टास्, ते कथयन्ति: भवन्तो ऽनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपित, इदानीम् गृहाण्य् अपि मोषयति, तत् किं न मे मुषिष्यत इति. पुरक्षोभो जातः.(SumAv_176)
अजातशत्रुणास्य ज्योतिष्कस्य दूतो ऽनुप्रेषितो: मुञ्चत, ममायं खलीकार इति.(SumAv_177)
अनेन ज्योतिष्केनाशयतो वाग् निश्चारिता: गच्छन्तु धूर्तका इति. ते गताः.(SumAv_178)
अथैष ज्योतिस्कः संलक्षयते: येन नाम पिता जीविताद् व्यपरोपितः, स मां न प्रघातयिस्यतीति. कुत एतत्. सर्वथाहं भगवता व्याकृतो: मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् करिष्यतीति. गच्छामि, प्रव्रजामीति.(SumAv_179)
अनेन सर्वं धनजातं दीनानथकृपणेभ्यो दत्तम्, अधनाः सधना व्यवस्थापिताः. स एषागच्छति. (16)(SumAv_180)
अत्रान्तरेणायुष्मान् कप्फिणो विचित्ररत्नाचलम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_181)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं विचित्ररत्नाचलम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_182)
सा कथयति: नायम् आर्यः कप्फिणो, यो ऽयं भगवता विगतमददर्पाणाम् अग्रो निर्दिष्टः.(SumAv_183)
यो ऽयं राजा महाकप्फिण एकस्मिन् समये अष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः.(SumAv_184)
पुरस्तात् पृष्ठतश् च सर्वबलौघम् अवलोक्यामात्यान् आमन्त्रयते: अस्ति, भवन्तः, कस्यचिद् एवंरूपो बलौघस् तद्यथा ममैतर्हीति. ते कथयन्ति: देव, नान्यस्य कस्यचित्.(SumAv_185)
यावद् अनेन महाकप्फिणेन राज्ञा श्रावस्त्यादिषु षट्सु महानगरेषु दूतं प्रेषितम्: यद् व्युत्थिता भवथ नोपवेष्टव्यं, शीघ्रम् आगन्तव्यम्; अन्यथा चेद् उत्तमेन दण्डेन समनुशासिष्यामीति.(SumAv_186)
एतद् वचनम् उपश्रुत्य षण्महानगरवासिनो राजानो भीतास् त्रस्ताः संविग्नाः समागम्य श्रावस्तीं गत्वा भगवते एतद् वृत्तान्तं निवेदयन्ति.(SumAv_187)
भगवता ते समाश्वासिता, उक्ताश् च: स दूतो मत्सकाशम् आनेतव्य इति. तैर् दूतस्य निवेदितम्: अस्त्य् अस्माकम् राजाधिराजस्, तं तावत् पश्येति.(SumAv_188)
भगवता जेतवनम् चतूरत्नमयं निर्मितं देवानाम् इव सुदर्शनं नगरं चत्वारो महाराजा दौवारिकाः स्थापिताः, ऐरावतसदृशा हस्तिनो, बालाहकसदृशा, नन्दीघोषसदृशा रथा, व्याडयक्षसदृशा मनुष्याः, स्वयं च भगवांश् चक्रवर्तिवेशम् आत्मानम् अभिनिर्माय सप्ततालोद्गते महारत्नसिंहासने निषण्नाः.(SumAv_189)
दूतस् तथाविधां शोभां दृष्ट्वा परं विस्मयम् आपन्नः.(SumAv_190)
भगवता लेखं लिखयित्वाभिहितः: कप्फिणो मद्वचनाद् वक्तव्यो लेखवाचसमकलम् एव: यत् व्युत्थितो भवसि नोपवेष्टव्यं, शीघ्रम् आगन्तव्यम्, अथ नागच्छसि, अहम् एव महता बलौघेन सार्धम् आगमिष्यमीति.(SumAv_191)
दूतेन महाकप्फिणस्य तत् सर्वं संदिष्टं निवेदितम्.(SumAv_192)
अयं कप्फिणो राजाष्टादशामात्यसहस्रपरिवृतः श्रावस्तीम् अनुप्रवेश्य जेतवनं प्रविष्टः, सहदर्शनाद् अस्य यो रूपे रूपमद ऐश्वर्ये ऐश्वर्यमदः स प्रतिविगतः, बलदर्पो ऽद्यापि वध्यत एव.(SumAv_193)
ततो भगवता लौकिकं चित्तम् उत्पादितम्: अहो बत, शक्रो देवानाम् इन्द्र ऐन्द्रं धनुर् आदायागच्छेद् इति.(SumAv_194)
सहचित्तोत्पादाद् भगवतः शक्रो देवानाम् इन्द्रः सारथिवेशेनैन्द्रं धनुर् उपनामितवान्. ततो भगवता तद् धनुर् उपनामितम्. तद् उत्क्षेप्तुम् अपि न शक्नोति, कुतः पुनर् आरोपयितुम्.(SumAv_195)
ततो भगवता सप्तायोमय्यो भेर्यो निर्मिताः, स्वयम् एव तद् धनुर् अर्धचन्द्राकारेणारोप्य शरः क्षिप्तो येन सप्तायोमय्यो भेर्यश् छिद्रीकृतास्, ततः शब्दो निर्गतः.(SumAv_196)
आरभध्वम्, निष्क्रामत, युज्यध्वं बुद्धशासने / धूनीत मृत्युनः सैन्यं नडागारं इव कुञ्जरः // (SumAv_197)
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति / प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यतीति // (SumAv_198)
स च शब्दो यावद् अकनिष्ठान् देवान् गतः, ततो ऽस्य यो ऽभूद् बलदर्पः स प्रतिविगतः.(SumAv_199)
ततो भगवतास्य चित्तम् आज्ञाय राजवेशम् अन्तर्धाप्य धर्मो देशितह्. येनाष्टादशामात्यसहस्रपरिवारेण यावच् छ्रोतआपत्तिफलं साक्षात् कृतवान्, ततो दृष्टसत्यश् च भगवतः शासने प्रव्रजितः. सो ऽयम् आगच्चति. (17)(SumAv_200)
अत्रान्तरेणायुष्मान् आनन्दः हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितम् आरामम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_201)
तं दृष्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता यो ऽयं हंसक्रौञ्चमयूरशुकसारिकाकोकिलजीवंजीवकनादोपकूजितम् आरामम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_202)
सा कथयति: नायम् आर्य आनन्दः, अयं च भगवता इन्द्रियगुप्तद्वाराणाम् अग्रो निर्दिष्टः.(SumAv_203)
अयं च भगवतश् चतुर्भिर् अङ्गुलैर् ऊनः सुवर्णवर्णो द्वात्रिंशन्महापुरुषलक्षणैः समलंकृतः.(SumAv_204)
अनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे मध्यमं छत्त्रम् आरोपितम्. तस्य कर्मणो विपाकेनार्धतृतीयानि चक्रवर्तिराज्यसहस्राणि; यद्य् एतर्हि न प्रव्रजितो ऽभविष्यद् एतर्हि अप्य् अनेन बलचक्रवर्तिराज्यम् अकरिष्यत्.(SumAv_205)
अयं च भगवता बलात् प्रव्रजितः. अयं च भगवतो मातृस्वसापुत्रो भ्राता भवति. स एषागच्छति. (18)(SumAv_206)
अत्रान्तरेनायुष्मान् राहुलश् चक्रवर्तिवेशम् अभिनिर्माय सप्तरत्नसमन्वागतश् चतुरशीत्या भटबलाग्रकोटिभिः समनुगम्यमानश् चतुरशीत्या नागसहस्रैर् उपोषधनागराजप्रमुखैश् चतुरशीत्याश्वसहस्रैर् बालाहकाश्वराजप्रमुखैर् चतुरशीत्या रथसहस्रैर् नन्दीघोषरथप्रमुखैर् अनेकैश् च पौरजानपदसहस्रैर् नानापटहशङ्खभेरीनिनादैर् उच्छ्रितध्वजपताकोपशोभितम् अभिनिर्माय तत्रोपविष्ट उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_207)
तं दृस्ट्वा सुमागधायाः स्वामी सुमागधां पप्रच्छ: सुमागधे, ऽयं ते स शास्ता, यो ऽयं चक्रवर्तिवेशेनागच्छति.(SumAv_208)
सा कथयति: नायम् आर्यो राहुलो, ऽयं भगवता शिक्षकामानाम् अग्रो निर्दिष्टः.(SumAv_209)
भगवतः पुत्रो ऽयं पितुर् उज्झितां श्रियम् उद्द्योतमानः, सर्वचक्रवर्तिप्रतिविशिष्टतराम् ऋद्धिम् उपदर्शयन्न् उपरि विहायसा ऋद्ध्याकाशेनागच्छति.(SumAv_210)
आह च: लक्ष्मीं लक्षणमालिनीं सुरुचिरां शक्रर्द्धिविस्पर्धनीं नागानीकबलान्वितां सुमहतीं रत्नैर् वृतां सप्तभिः / कृत्वा बुद्धसुतो ऽभ्युपैति नभसा वेशं च राज्ञाम् अयं नाम्ना राहुल इत्य् अवेति सुमहते सम्पूज्यमानः सुरैः // (SumAv_211)
भित्त्वोर्वीं जलवत् प्रयान्ति मुनयः केचित् सृजन्तो ऽनलं रम्यतोयधरा इवाशु जगति स्पष्टं क्षरन्तो जलम् / शक्रब्रह्मकुबेरविग्रहधराश् चन्द्रार्कदैत्यत्विषो लोकस्योदयकाङ्क्षिणो हि नभसा संप्रस्थिताः सूरताः // स एषागच्छति. (19) (SumAv_212)
संप्रस्थितेसु भिक्षुसंघेसु अत्रान्तरेण तथागतप्रवेशः. भगवांस् तथारूपं समाधिं समापन्नो, यथासमाहिते चित्ते भगवतः कायाद् रश्मयो निश्चरन्ति, तद्यथा नीलपीतलोहितावदातमञ्जिष्ठस्फटिकवर्णः, यैर् अयं लोके उदारेणावभासेनावभासितो यावच् च श्रावस्तीं यावच् च पुण्ड्रवर्धनं नगरम्.(SumAv_213)
अत्रान्तरेण सर्वे लोका भगवन्तम् अभिनिष्क्रमन्तं पश्यन्ति, महांश् च पृथिवीचालो बभूव.(SumAv_214)
अथ ब्रह्मा सहांपतिर् भगवतश् चेतसा चित्तम् आज्ञाय सार्धं रूपावचरैर् देवैर् आगत्य भगवतो दक्षिणे पार्श्वे व्यवस्थितः.(SumAv_215)
शक्रो ऽपि देवानाम् इन्द्रः सार्धं कामावचरैर् देवैर् आगत्य वामे पार्श्वे व्यवस्थितः.(SumAv_216)
तुम्बुरुसुप्रियप्रमुखानि पञ्चमात्राणि गन्धर्वशतान्य् आगत्य भगवतो ऽग्रतो विविधैर् वाद्यगीतनृत्तविशेषैर् उपस्थानं कुर्वन्तो गच्छन्ति.(SumAv_217)
अनेकानि च देवताशतसहस्राणि पृष्ठतः पृष्ठतः समनुगच्छन्ति.(SumAv_218)
उपरिष्टाच् च भगवतो ऽप्सरसो दिव्यान्य् उत्पलपद्मकुमुदपुण्डरीकमान्दारवाणि पुष्पाणि, दिव्यान्य् अगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्त्रचूर्णनि, दिव्यानि च वाद्यानि संप्रवादयन्ति, चैलविक्षेपांश् चाकार्षुह्.(SumAv_219)
तेन खलु पुनः समयेनान्यतरस्मिन् अरण्यायतने सप्त ऋषिसहस्राणि प्रतिवसन्ति.(SumAv_220)
अद्राक्षुस् ते ऋषयो बुद्धं भगवन्तं द्वात्रिम्शता महापुरुषलक्षणैः समलंकृतम्, अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं, सूर्यप्रभातिरेकप्रभं, जङ्गमम् इव रत्नपर्वतम्, समन्ततो भद्रकं, हव्यावसिक्तम् इव हुतवहम्, काञ्चनभाजनस्थम् इव प्रदीपं, सुवर्णयूपम् इव श्रिया ज्वलन्तम्.(SumAv_221)
न तथा द्वादशवर्षाभ्यस्तः शमथचित्तस्य कल्यतां जनयति, राज्याभिनन्दिनो वा तत्प्रथमतो राज्याभिषेकः, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनं, यथावारोपितं कुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्.(SumAv_222)
अथ ते ऋषयो येन भगवांस् तेनोपसंक्रान्ता, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः.(SumAv_223)
ततो भगवता तेषाम् ऋषीणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिका धर्मदेशना कृता, यां श्रुत्वा तैर् ऋषिभिर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतआपत्तिफलं साक्षात् कृतम्.(SumAv_224)
अथ ते ऋषयो बुद्धं भगवन्तं परिचार्य संप्रस्थिताः.(SumAv_225)
तेन खलु समयेन पुण्ड्रवर्धने नगरे ऽष्टादश द्वाराण्य् अबभूवन्.(SumAv_226)
अथ भगवत एतद् अभवत्: यद् अहं पश्चिमेन द्वारेण प्रवेक्ष्यामि, अन्यद्वारनिवासिनां नागराणाम् अन्यथात्वं भविष्यति, यन् न्व् अहम् अष्टादश बुद्धान् अभिनिर्माय स्वयं पश्चिमेन द्वारेण प्रवेशयम् इति.(SumAv_227)
अथ भगवान् अष्टादश बुद्धान् अभिनिर्माया स्वयं पश्चिमेन द्वारेण प्रविष्टः.(SumAv_228)
भगवतः पुरप्रवेशे एवंरूपाण्य् आश्चर्याण्य् अत्यद्भुतानि भवन्त्य् अन्यानि च: तद्यथोन्नतोन्नताः पृथिवीप्रदेशाः अवनमन्त्य् अवनताश् चोन्नमन्ति, अपगतपाषानशर्करकठल्या भवन्ति, नीचानि द्वाराण्य् उच्चीभवन्ति, संक्षिप्तानि विशालीभवन्ति, हस्तिनः कूजन्ति, अश्वा हेषन्ते, उष्ट्राः क्रोशन्ते, गावो रम्भन्ते, वृषभा नन्दन्ते, मयूराः केकायन्ते, गृहगतानि च विविधानि वाद्यभाण्डानि स्वयं नदन्ति, अन्धाश् चक्षूंसि प्रतिलभन्ते, बधिराः शृण्वन्ति, मूकाः प्रव्याहारसमर्था भवन्ति, परिभ्रष्टेन्द्रियविकला इन्द्रियाणि परिपूर्नाणि प्रतिलभन्ते, मद्यमदनाक्षिप्ता विमदी भवन्ति, विषपीता निर्विषा भवन्ति, अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते, गर्भिण्यः स्वस्तिना प्रसूयन्ते, बन्धनबद्धाः प्रमुच्यन्ते, अधना धनानि प्रतिलभन्ते.(SumAv_229)
एवंविधया विभूत्या प्रविश्य येन सुमागधाया निवेशनं तेनोपसंक्रान्तः.(SumAv_230)
अथ सुमागधा स्वयम् एव गोशीर्षचन्दनोदकेन भृङ्गारं पूरयित्वा भगवतः पादोदकम् अनुप्रयच्छति भिक्षुसंघस्य च.(SumAv_231)
ततः सुमागधा भगवतः पादयोर् निपत्यैवम् आह: धन्यास् ते परवादिवादमथनं पश्यन्ति ये ते मुखं विस्तीर्णे सदसि स्थितस्य वचनं शृण्वन्ति ये वा मुदा / लाभस् तस्य महान् भविष्यति च यः पादौ तव श्रीनिधेर् मूर्ध्ना चैव करद्वयेन विनयात् संपीड्य वन्दिष्यते // (SumAv_232)
अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः, सुखोपविष्टं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति.(SumAv_233)
अथ पुण्ड्रवर्धननिवासी जनकायो भगवन्तम् अपश्यंस् तद्गृहं भेत्तुम् आरब्धः. ततो भगवता तद्गृहं स्फटिकमयम् अभिनिर्मितं, यतः सर्वो महाजनकाय आदर्शनगतम् इव भगवन्तं भुञ्जमानं पश्यति भिक्षुसंघं च.(SumAv_234)
आह च. स्फटिकमयम् अभूत् तद् एव रम्यं मणिकनकाक्षरत्नभक्तिचित्रं / स्थितम् इव पुरतो मुनीन्द्रचन्द्रं नगरजनो ऽपि निरीक्षते समग्रः // (SumAv_235)
प्रसादारोमाञ्चितसर्वगात्राः कृताञ्जलिं मूर्ध्नि निपात्य हस्तम् / नरा नमन्ति स्म मुनीन्द्रचन्द्रं सुरा इवेन्द्रं भवनोदरस्थम् // (SumAv_236)
अथ भगवान् कृतभक्तकृत्यः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः.(SumAv_237)
ततः सुमागधाप्रमुखो ऽन्तर्जनकायस् ते च नागरास् ते च ऋषयस् ते च देवासुरगरुडयक्षगन्धर्वकिन्नरमहोरगा भगवन्तं परिवार्यावस्थिताः.(SumAv_238)
ततो भगवता तेषां च तादृशी चतुरार्यसत्यसंप्रवेधिकी धर्मदेशना कृता, यां श्रुत्वा कैश्चिच् छ्रोतआपत्तिफलं साक्षात् कृतं, कैश्चित् सकृदागामिफलं, कैश्चिद् अनागामिफलम्, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात् कृतं, कैश्चिद् ऊष्मगतानि कुशलमूलानि उत्पादितानि, कैश्चिन् मूर्धानः, कैश्चिन् मृदुमध्याधिमात्रक्षान्तयः, कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि, कैश्चित् प्रत्येकायां बोधौ, कैश्चिद् अनुत्तरायां सम्यक्संबोधौ, कैश्चिच् छरणगमनानि गृहीतानि, कैश्चिच् छिक्षापदानि गृहीतानि.(SumAv_239)
यद् भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता.(SumAv_240)
यदा भगवतैतत् सूत्रं भाषितं, तदा भिक्षवो भगवन्तम् एवम् आहुः: आश्चर्यं भगवन्न्, आश्चर्यं सुगत, यत् सुमागधया भगवन्तं कल्याणमित्रम् आगम्य बुद्धकार्यं कृतम् इति.(SumAv_241)
भगवान् आह: न भिक्षव एतर्ह्य् एव यथातीते ऽप्य् अध्वनि बुद्धं भगवन्तं कल्याणमित्रम् आगम्य काञ्चनमालया यद् बुद्धकार्यं कृतं, तच् छृणुत, साधु च सुष्ठु च मनसि कुरुते, भाषिष्ये.(SumAv_242)
भूतपूर्वं, भिक्षवो, ऽतीते ऽध्वनि विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, स बाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे.(SumAv_243)
तेन खलु पुनः समयेन कृकी नाम राजा बभूव.(SumAv_244)
तस्य दुहिता काञ्चनमालया शिरसि बद्धया जाता, तस्या मातापितृभ्यां काञ्चनमालेति नाम कृतम्.(SumAv_245)
सा उन्नीता वर्धिता महती संवृत्ता, राज्ञः कृकिन इष्टा कान्ता प्रिया मनापा संवृत्ता.(SumAv_246)
सा पञ्चशतपरिवारा भगवतो दर्शनायोपसंक्रान्ता, तस्या भगवता धर्मो देशितः.(SumAv_247)
तया तं धर्मं श्रुत्वा भगवतो ऽनितिके महान् चित्तप्रसाद उत्पन्नो, भगवांश् च तया यावज्जीवं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारः प्रचारितह्.(SumAv_248)
तेन खलु पुनः समयेन राज्ञा कृकिना दश स्वप्ना दृष्टाः: (1) वातायनेन हस्ती निर्गतस्, पुच्छो लग्नः. (2) तृषितय पृष्ठतः कूपो धावति. (3) मुक्ताप्रस्थं शक्तुप्रस्थेन विक्रीयमाणं. (4) चन्दनं काष्ठार्घेण समीक्रियमाणं. (5) गन्धहस्तिनं कलभैर् वित्रास्यमानं. (6) आरमं पुष्पफलसंपन्नम् अदत्तदायिभिर् अपह्रियमाणम्. (7) अशुचिना म्रक्षितो मर्कटः परान् उपलिंप्यमानः. (8) मर्कटस्य राज्याभिषेकः. (9) पटो ऽष्टादशभिर् जनैर् आकृष्यते, न शीर्यते. (10) महाजनकायश् चैकत्र संनिपत्य कलहभण्डनविग्रहविवादे नातिनामयति.(SumAv_249)
तं दृष्ट्वा च पुनर् भीतश् त्रस्तश् चिन्तयति: मा मे इतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य चान्तराय इति.(SumAv_250)
ततो राज्ञा स्वप्नाध्यायविदो ब्राह्मणान् आहूय स्वप्नान् निवेदितवान्.(SumAv_251)
ते काञ्चनमालां दृष्ट्वा कथयन्ति: राजन्, या ते सर्वजनप्रिया तस्या रुधिरेण यज्ञो यष्टव्यः, अन्त्रैर् नगरं वेष्टव्यम्, एवं देवस्य श्रेयो भविष्यति, स्वप्नान् दारुणान् दृष्ट्वा राज्यजीवितहारिणो ऽनेनोपायेन स्वस्तिर् देवस्य भविष्यति.(SumAv_252)
राजा संलक्षयति: सर्वजनप्रिया मे काञ्चनमाला, तां व्यापादयितुकामा ब्राह्मणा एवम् आहुः. वरं ममैव मरणं, न तु काञ्चनमालां व्यापादयिष्यामीति.(SumAv_253)
करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः, काञ्चनमालया दृष्टः. सा कथयति: किम् एवं चिन्तापरो, देव, इति. तेन स वृत्तान्तो विस्तरेण निवेदितः. सा कथयति: एष भगवान् काश्यपः सम्यक्संबुद्धो बाराणसीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे, तं भगवन्तं गत्वा पृच्छथ. यथा ते भगवान् व्याकरोति तथैवं धारय.(SumAv_254)
ततो राजा महता श्रीसमुदायेन काञ्चनमालया सार्धं बराणस्या निर्गत्य येन भगवांस् तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः, काञ्चनमालापि, अन्यानि च ब्राह्मणगृहपतिशतसहस्राणि.(SumAv_255)
अथ भगवान् कृकिनं राजानं धर्मया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति. अनेकपर्यायेण धर्मया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीं बभूव.(SumAv_256)
अथ कृकी राजा दश स्वप्नान् निवेद्यैवम् आह: मा मे, भगवंस्, ततोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य चान्तराय इति.(SumAv_257)
भगवान् आह: मा भैषीस् त्वं, महारज, न तवेतोनिदानं राज्याच् च्युतिर् भविष्यतीति जीवितस्य चान्तरायः. (1) यत् त्वं, महाराज, स्वप्नम् अद्राक्षीर्, वातायनेन हस्ती निर्गच्छन् पुच्छो लग्न इति, भविष्यत्य् अनागते ऽध्वनि वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धः, स सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् अनुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति. तस्य परिनिर्वृतस्य पश्चिमे काले अश्राद्धा ब्राह्मणगृहपतयस्, ते रुदन्तो ऽश्रुमुखान् बन्धून् उत्सृज्य प्रव्रज्य विहारेषु गृहसंज्ञाम् उत्पादयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (2) यत् त्वं पुनः स्वप्नम् अद्राक्षीस्, तृषितस्य पृष्ठतः कूपो धावति, तस्यैव श्रवका धर्मं देशयिष्यन्ति श्रद्धानां गृहपतीनां, ते सतृष्णा एव प्रक्रमिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (3) यत् त्वं स्वप्नम् अद्राक्षीर्, मुक्ताप्रस्थेन शक्तुप्रस्थं क्रीयमाणम् इति, तस्यैव श्रावकाः शक्तुप्रस्थस्य हेतोर् इन्द्रियबलबोध्यङ्गानि संप्रकाशयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (4) यत् त्वं स्वप्नम् अद्राक्षीश्, चन्दनं काष्ठार्घेण समीक्रियमाणं, तस्यैव श्रावकास् तं तीर्थिकवाक्यम् अनुगृह्य सद्धर्मेण समीकरिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (5) यत् त्वं स्वप्नम् अद्राक्षीर्, गन्धहस्ती कलभैर् वित्रास्यत इति, तस्यैव श्रावका असंयतास् ते शीलवन्तो भिक्षून् निष्काशयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (6) यत् त्वं स्वप्नम् अद्राक्षीर्, आरामां पुष्पफलसंपन्नं अदत्तादायिभिर् अपह्रियमाणं, तस्यैव श्रावका आर्यसंघस्य प्रतिपादितम् आरामं संघम् आलंबीकृत्य केचिद् अभावितकाया अभावितचित्ता अभावितप्रज्ञाः संघाद् आच्छिद्य
पुष्पफलं स्वजनेभ्यो दास्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (7) यत् त्वं स्वप्नम् अद्राक्षीर्, अशुचिम्रक्षितो मर्कटः परान् उपलिंप्यतीति, तस्यैव श्रावका अभावितकाया अभावितचित्ता अभावितप्रज्ञा आत्मनापत्तिम् आपन्नाः श्राद्धानाम् अपि भिक्षूणाम् आपत्तिं व्यवस्थापयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (8) यत् त्वं स्वप्नम् अद्राक्षीर्, मर्कटस्य राज्याभिषेकः, तस्मिन् समये विकलेन्द्रिया अपि राजानो भविष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. (9) यत् त्वं स्वप्नम् अद्राक्षीः, पटो ऽष्टादशभिर् जनैर् आकृष्यते न च शीर्यत इति, तस्य परिनिर्वृतस्य शासनम् अष्टादशभेदभिन्नं भविष्यति, न च शक्यति विमुक्तिपटं पाटयितुं, तस्यैतत् पूर्वनिमित्तम्. (10) यत् त्वं स्वप्नम् अद्राक्षीर्, महाजनकायश् चैकत्र संनिपत्य कलहभण्डेन विवादविग्रहेनातिनामयन्ति, तस्य शासने असंयता भिक्षवः कलहभण्डनविग्रहविवादेनान्तर्धापयिष्यन्ति, तस्यैतत् पूर्वनिमित्तम्. मा भैषीस् त्वं, महाराज, न तवेतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितान्तरायो वा.(SumAv_258)
ततो भगवता तस्य राज्ञस् तस्य च महाजनकायस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चतुरशीत्या प्राणिशतसहस्रैः सत्यदर्शनं कृतम्.(SumAv_259)
काञ्चनमालया भगवन्तं कल्याणमित्रम् आगम्य बुद्धकार्यं कृतम्.(SumAv_260)
किं मन्यध्वे, भिक्षवः यासौ काञ्चनमाला इयम् एव सा सुमागधेति.(SumAv_261)
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त, काञ्चनमालया कर्म कृतं येनाढ्ये कुले प्रत्यजाता येन काञ्चनमालया शिरसि बद्धया जाता इति.(SumAv_262)
भगवान् आह: काञ्चनमालयैव, भिक्षवः, पूर्वम् अन्यासु जातिषु कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि. काञ्चनमालयैव, भिक्षवः, कर्माणि कृतानि उपचितानि. को ऽन्यः प्रत्यनुभविष्यति. न, भिक्षवः, कर्माणि कृतान्य् उपचितानि बाह्यपृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधाताव्, अपि तूपात्तेषु एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च.(SumAv_263)
न प्रनश्यन्ति कर्माणि कल्पकोटिशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् // (SumAv_264)
भूतपूर्वम्, भिक्षवो, ऽतीते ऽध्वनि बाराणस्यां महानगर्याम् अन्यतमा दरिद्रा स्त्री, तया प्रत्येकबुद्धस्य चैत्ये नानाविचित्रां पलालमालां ग्रन्थयित्वा समारोप्य प्रसन्नचित्तया प्रणिधानं कृतम्.(SumAv_265)
अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्रयत्रोपपद्ये ऽहं तत्रतत्र काञ्चनमालया शिरसि बद्धया जायेयम् इति. किं मन्यध्वे, भिक्षवः. यासौ दरिद्रा स्त्री, इयम् असौ काञ्चनमाला. यद् अनया प्रसन्नचित्तया प्रणिधानं कृतं, तेन पञ्चजन्मशतानि काञ्चनमालया शिरसि बद्धया जाता.(SumAv_266)
पणद्वयं च तया पटान्तावबद्धं विमुच्यार्यसंघाय दत्तं; तेनाढ्येसु कुलेसु जाता प्रणिधानवशाच् चेति.(SumAv_267)
अथ भगवान् सुमागधाप्रमुखं पुण्ड्रवर्धननिवासिनं महाजनकायम् अभिप्रसाद्य प्रक्रान्तः, तथैव र्द्ध्या सार्धं भिक्षुसंघेन श्रावस्तीम् आगतः.(SumAv_268)
इति हि, भिक्षव, एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लो, व्यतिमिश्राणां व्यतिमिश्रः. तस्मात् तर्हि, भिक्षव, एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीय इति. तस्मात् तर्हि, भिक्षव, एवं शिक्षितव्यम्, यच् छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्याम इत्य् एवं वो, भिक्षवः, शिक्षितव्यम्.(SumAv_269)
इदम् अवोचद् भगवान् आत्तमनास्, ते च भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति. सुमागधावदानं समाप्तम्.(SumAv_270)
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
