Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
सुभाषितरत्नकरण्डकथा
- Thông tin
- GRETIL — M. Hahn: Die Subhāṣitaratnakaraṇḍakathā, Ein spätbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सुभाषितरत्नकरण्डकथा
i. पुण्यप्रोत्साहनकथा मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि / पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते // srkk_1 //
मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलम् / भवक्षये मतिः कार्या भवोपकरणेषु वा // srkk_2 //
मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलम् / पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम् // srkk_3 //
यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् / पुण्यं तद् वर्ध्यस्वेह यस्माद् धेतुः सुखस्य ते // srkk_4 //
मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः / तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम् // srkk_5 //
लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् / तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः // srkk_6 //
विरमत पापतः कुरुत पुण्यम् उदारतरं दमयत दुर्दमं विषयलोलमनस्तुरगम् / भवत मुनीन्द्रवत् परहिताभिरताः सततं दशति न यावद् एव मरणाहिर् असह्यविषः // srkk_7 //
// इति पुण्यप्रोत्साहनकथा //
ii. धर्मश्रवणप्रोत्साहनकथा जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत् क्षणम् अनवाप्यम् अद्भुतम् इमं समवेत्य चलम् / प्रशमपुरैकवर्त्म विनिपातभयापहरं शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम् // srkk_8 //
यद् दुर्लभम् कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् / तत् सांप्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः // srkk_9 //
पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे / यो न चिन्तयति कर्मसत्पथम् तस्य जन्म भवतीह निष्फलम् // srkk_10 //
न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर् अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः / मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतम् // srkk_11 //
तस्मात् कुकार्यम् व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् / श्रोतव्य एव प्रयतेन धर्मो यस्माद् अतः सर्वगुणा भवन्ति // srkk_12 //
मौनीन्द्रं वाक्यरत्नम् जनयति सुधियाम् एतद् आदौ प्रमोदं श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति / चिन्ताध्यानावसाने स्फुटयति सकलम् जन्मचक्रप्रबन्धं निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम् // srkk_13 //
हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् / तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः // srkk_14 //
// इति धर्मश्रवनप्रोत्साहनकथा //
iii. दुर्लभमनुष्यकथ यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् / चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफली करोति // srkk_15 //
यो मनुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर् मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति / सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः // srkk_16 //
नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः / अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम् // srkk_17 //
नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् / यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु // srkk_18 //
एकक्षणकृतात् पापाद् अवीचौ कल्पम् आस्यते / नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा // srkk_19 //
अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् / महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमम् // srkk_20 //
// इति दुर्लभमानुष्यकथा //
iv. दानकथा अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि / कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेसम् // srkk_21 //
आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः / वाक्सौभाग्यं कान्तिर् आरोग्यम् आयुस् तत् तद् दानाद् इष्टम् इष्टं फलं च // srkk_22 //
अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः / भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य // srkk_23 //
यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश् चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः / दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास् तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम् // srkk_24 //
अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर् नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः / भृत्यैः साभरणैः कृताञ्जलिपुटैर् अभ्यर्च्यमानाः सदा तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् // srkk_25 //
हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा / मध्ये ऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस् तद् दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितम् // srkk_26 //
प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते / यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् // srkk_27 //
दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बःउभिः समुपेत्य सद्भिः / कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ // srkk_28 //
भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु / उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् // srkk_29 //
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः / संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् // srkk_30 //
श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः / यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस् तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः // srkk_31 //
पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु / कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः // srkk_32 //
इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् / त्रिभवोग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः // srkk_33 //
// इति दानकथा //
v. पुण्यकथा यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा / तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यम् // srkk_34 //
अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर् नागाश्वपत्तिरथसंक्षुभितैर् बलौघैः / उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति // srkk_35 //
कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः / यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा // srkk_36 //
आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति / धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकाः // srkk_37 //
यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम् // srkk_38 //
विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा / यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः // srkk_39 //
यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च / संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम् // srkk_40 //
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः / परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः // srkk_41 //
पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् / पुण्यम् अन्यैर् अहार्यत्वाद् धनानां प्रवरं धनम् // srkk_42 //
ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश / ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः // srkk_43 //
संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा/ पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा // srkk_44 //
प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः / क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते // srkk_45 //
// इति पुण्यकथा //
vi. बिम्बकथा आढ्यो निर्नष्टशोकः क्षतसकलकलिर् लोचनानन्दपात्रं सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी/ तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो व्यक्तो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय // srkk_46 //
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि / रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम् अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम् // srkk_47 //
द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती / भवेज् जिनो ऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते // srkk_48 //
इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता / जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता // srkk_49 //
जातिः श्रुतिः स्मृतिर् धैर्यम् अभिवाञ्छितसंपदः / स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना // srkk_50 //
संबोधिर् इति जायन्ते विशेषाः साधुसंमताः / विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा // srkk_51 //
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म / न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति // srkk_52 //
// इति बिम्बकथा //
vii. स्नानकथा नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर् यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः / मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु- व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो याति मोक्षम् // srkk_53 //
दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् / मन्दाकिन्यां सुरौघाः प्रतिदिनम् उदकक्रीडया यद् रमन्ते नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य // srkk_54 //
मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं सुरभिमनोरमासितसितारुणपीतरुचि / स्नपनम् इदं य एव विदधाति मुनेर् मनुजः स भवति वीतमानसमलो जगुर् अस्तमलाः // srkk_55 //
// इति स्नानकथा //
viii. कुङ्कुमादिकथा मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते / कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात् तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम् // srkk_56 //
यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् / गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस् तत् त्यागात् कुङ्कुमादेर् गुणमणिनिधये बुद्धभट्टारकाय // srkk_57 //
मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानाम् / शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टम् // srkk_58 //
// इति कुङ्कुमादिकथा //
ix. छत्त्रकथा गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती / शशधरपरिवेषच्छत्त्ररुद्दार्कपादस् तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम् // srkk_59 //
वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतम् / छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवम् // srkk_60 //
हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप- स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः / चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम् // srkk_61 //
// इति छत्त्रकथा //
x. धात्वारोपणकथा पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः / समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते // srkk_62 //
शाक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः / अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य // srkk_63 //
दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः / पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या // srkk_64 //
// इति धात्वारोपणकथा //
xi. मण्डलकथा भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः / धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति // srkk_65 //
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर् विमुक्ताः / बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि // srkk_66 //
दानं गोमयम् अम्बुना च सहितं शीलं च संमार्जनं क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनम् / ध्यानं तत्क्षणम् एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला एताः पारमिताः षड् एव लभते कृत्वा मुनेर् मण्डलम् // srkk_67 //
दिव्यैः सुखैः सकलभोगवरैश् च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः / पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर् गणस्य विविधैर् वसुधां विचित्र्य // srkk_68 //
// इति मण्डलकथा //
xii. भोजनकथा कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां स्वाडुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः / भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम् // srkk_69 //
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् / स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात् // srkk_70 //
संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् / आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात् // srkk_71 //
निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः / स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् धि सदा तद् एतत् // srkk_72 //
// इति भोजनकथा //
xiii. पानकथा प्रेङ्खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु / किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम् // srkk_73 //
यद् वैडूर्येन्द्रनीलप्रवरमणिचितैर् भाजनैः शातकौम्भैर् देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः / पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम् // srkk_74 //
यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णम् / ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद् दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यम् आप्नोति पानम् // srkk_75 //
मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः / दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम् // srkk_76 //
श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले / संसारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम् // srkk_77 //
// इति पानकथा //
xiv. वस्त्रकथा ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालाम् / यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि // srkk_78 //
यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति / स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम् // srkk_79 //
दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमालाः / दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः // srkk_80 //
// इति वस्त्रकथा //
xv. पुष्पादिकथा शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः / शत्रून् विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजाम् // srkk_81 //
नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः / रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम् // srkk_82 //
वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः / नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात् // srkk_83 //
रोगादिभिः प्रबलदुःखकरैर् विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः / राज्यं हि ये विगतकण्टकम् आप्नुवन्ति भैषज्यदानविधिना तद् उशन्ति संघे // srkk_84 //
// इति पुष्पादिकथा //
xvi. प्रणामकथा यच् चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः / भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः // srkk_85 //
ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् / हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम् // srkk_86 //
प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपाहते / सुगतिनियतां लोके नॄणां करोति च संततिं फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया // srkk_87 //
चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः / संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम् // srkk_88 //
एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् / बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत् // srkk_89 //
कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः / कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः // srkk_90 //
// इति प्रणामकथा //
xvii. उज्ज्वालिकादानकथा नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः / यत् क्रीडन्ति क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास् तत् स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः // srkk_91 //
ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् / उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके // srkk_92 //
गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिर् आलिङ्गिताः / स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास् तद् दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया // srkk_93 //
जित्वा रिपून् ये गजवाजियुक्तान् पृथ्वीं समन्ताद् अनुशासयन्ति / दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम् // srkk_94 //
// इत्य् उज्ज्वालिकादानकथा //
xviii. प्रदीपकथा धराधरतिरस्कृतं परमदूरदेशस्थितं सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् / कराग्र इव संस्थितं यद् अनिरुद्धभिक्षुर् दृशा ददर्श सुगतस्य दीपपरिबोधनात् तत् फलम् // srkk_95 //
बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन् ननु नगरावलम्बिकायाः / को दद्याद् भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य // srkk_96 //
दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः / जिनप्रदीपमालायास् तत् फलं मुनयो जगुः // srkk_97 //
दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या / राजा यच् चक्रवर्ती मणिकिरणशतैर् भासयन् गां प्रयाति तत् सर्वं दीपदानाद् भवति तनुभृतां शाक्यसिंहाय भक्त्या // srkk_98 //
लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः / यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने दत्त्वा तद् दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणाम् // srkk_99 //
// इति प्रदीपकथा //
xix. विहारकथा सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते / शुद्धान्तवारवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात् // srkk_100 //
बुद्धप्रचोदनवचो ऽपि मुनेर् अशेषम् आरोच्य सार्ययतिसंघविहारहेतोः / यज् जाग्रतो ऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिर् उपरिप्रभवाप्रमाणा // srkk_101 //
प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात् संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति / प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव // srkk_102 //
श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानम् / दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम् // srkk_103 //
// इति विहारकथा //
xx. शयनासनदानकथा पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः / संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय // srkk_104 //
दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम् शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्याम् / कान्ताबाहूपधानश् चिरं अमरपुरे निर्भयस् तत्र शेते यत् तच् छय्यासनानां फलम् इदम् उदितं भिक्षुसंघाय दानात् // srkk_105 //
कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः / नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस् तत् // srkk_106 //
// इति शयनासनदानकथा //
xxi. क्षेत्रकथा यद् द्वीपांश् चतुरो विजित्य रभसाद् यातो मघोनः पुरं मान्धाता त्रिदशाधिपाच् च मुदितो लेभे यद् अर्धासनम् / सप्ताहं च हिरण्यवृष्टिर् अतुलायातास्य यन् मन्दिरे तत् पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलम् // srkk_107 //
तच् च पात्रं चतुर्धा तु गतिदुःखादिभेदतः / पृथक् पृथक् फलं तस्माद् विशिष्टं जायते नृणाम् // srkk_108 //
वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः / दानान् मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि // srkk_109 //
ग्लानेषु यन् नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये / लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः // srkk_110 //
चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः / राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात् // srkk_111 //
यद् गच्छन्ति क्षितीशा हयरथकरिभिर् वन्द्यमाना जनौघैश् छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः / राजा यच् छक्रवर्ती वरनृपतिशतैर् याति सार्धं पृथिव्यां क्षेत्रे सम्यक् तद् एतत् प्रवरगुणफलं शोधिते दानबीजात् // srkk_112 //
मान्धाता मुद्गदानात् क्षितिपतिर् अभवत् पांशुदानाद् अशोको राजा वै कप्फिणाख्यस् त्रिदशपतिर् अभूत् पञ्चसारप्रदानात् / चित्राख्यः क्षीरदानान् मधु पनसयुतं क्षीणदोषाय दत्त्वा प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यम् // srkk_113 //
दत्तं बह्व् अपि नैव तद् बहुफलं सत्पात्रहीनं धनं क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् / रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते दानं स्वल्पम् अपि प्रयाति बहुतां न्यग्रोधबीजं यथा // srkk_114 //
// इति क्षेत्रकथा //
xxii. विचित्रकथा यो धर्मरत्नं लिखतीह नित्यं शृणोति तच् चिन्तयते सदैव / संभावनां वा यदि चात्र कुर्याज् जातिस्मरत्वं लभते स नित्यम् // srkk_115 //
यद् देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति / देवोत्तमानां सुखहेतुभूतास् तत् गोप्रदानस्य फलं विशालम् // srkk_116 //
यद् गर्भे परिपुष्टिम् एति शुचिभिः प्रोन्नीयमानो रसैर् बाल्ये यन् मधुसर्पिषी च पिबति क्षीरं च काले पुनः / भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद् यौवने वृद्धत्वे च यथेप्सितं वररसं तद् गोप्रदानोद्भवम् // srkk_117 //
सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत् खलु यः स दाता / सिंहासनानि लभते प्रवराण्य् अभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यम् // srkk_118 //
सौवर्णपात्रे सततं नरेन्द्रा यत् क्षीरम् अश्नन्ति रसादियुक्तम् / लक्ष्मीसमृद्धाश् च नरीर् लभन्ते पद्माननास् तन् महिषीप्रदानात् // srkk_119 //
यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव / संमाननां वै कुरुते गुरूणाम् ऋद्धिं समाप्नोति नरस् तु तेन // srkk_120 //
अश्वैर् विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर् नरेन्द्राः / ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात् तु तद् एव मर्त्याः // srkk_121 //
हारार्धहारैः कटकैर् उपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः / सार्धं हि यत् तत् त्रिदशाधिपेन निःसङ्गदानात् प्रवदन्ति सन्तः // srkk_122 //
भीतान् समाश्वासयते सदैव धीमान् नरो वाक्प्रतिपादनेन / सर्वैर् न मारैः परिभूयते ऽसौ वाक्यं च नित्यं मधुरं शृणोति // srkk_123 //
यद् अर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर् भुवि धर्मधातुम् / संसारसौख्यं त्व् अनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते // srkk_124 //
प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानाम् / ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते // srkk_125 //
ये रोपयन्तीह सुकाननानि वृक्षांश् च पुष्पाणि च गन्धवन्ति / च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः // srkk_126 //
कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्ये ऽपि च ये मनुष्याः / स्वर्गं सदा भोगसमन्वितं हि यान्त्य् उत्तमं ते वरहेमगात्राः // srkk_127 //
वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गम् अवाप्नुवन्ति / इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि // srkk_128 //
कूपान् मठान् सत्त्वसमाश्रयांश् च वातातपत्राणनिमित्तभूतान् / ये कारयन्ति प्रवरान् मनुष्यास् ते देवभूताः सुखिनो भवन्ति // srkk_129 //
छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु / छत्त्रोपगास् ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः // srkk_130 //
पादाश्रयं चित्रम् उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या / यानोत्तमैस् ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः // srkk_131 //
शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश् च सर्वान् / संमाननां गुरुकुलात् समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च // srkk_132 //
मृदङ्गवीणापटहादिभिर् ये कुर्वन्ति पूजां सुगतोत्तमानाम् / मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान् सुमनोज्ञरूपान् // srkk_133 //
यष्टिं समारोपयति प्रहृष्टश् छत्त्रं च घण्टां सुगतस्य चैत्ये / छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालाम् // srkk_134 //
मनुष्यभूतो भुवि यः समन्ताद् ईशत्वम् आप्नोति बलेन युक्तः / केयूरमुक्ताभरणैर् उपेतो भूमिप्रदानात् तद् उशन्ति सन्तः // srkk_135 //
बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैर् उपेतम् / धातुं समारोपयतीह यश् च स्वर्गं समाप्नोति नरस् तु तेन // srkk_136 //
ये बुद्धम् उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि / पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते // srkk_137 //
दीपान् उदारान् विविधांश् च गन्धान् पुष्पाणि धूपं गुडपानकं वा / दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः // srkk_138 //
स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः / निर्माल्यम् एभ्यश् च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति // srkk_139 //
उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रम् अथापि गेहम् / पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति // srkk_140 //
दीर्घायुर् एव भुवि सर्वरुजा विमुक्तः प्राप्नोति सौक्ःयम् अतुलं सततं प्रहृष्टः / देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस् तु विद्वान् // srkk_141 //
दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थम् / प्राप्नोत्य् असौ द्रविणसंपदम् अप्रमेयां सर्वैस् तु तस्करनृपादिशतैर् अहार्याम् // srkk_142 //
दारान् परस्य परिवर्जयतीह यो ऽसौ दारान् असौ लभत एव मनोज्ञरूपान् / शत्रूद्भवो न हि जनस्य कदा चिद् एव लोकस्य वै भवति विश्वसनीय एव // srkk_143 //
नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति / तद्वन् मनुष्यस्य हि वाति गन्धो मुखाद् असत्यं तु न वक्ति यश् च // srkk_144 //
सन्मित्रसम्धिं नृपतेश् च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यम् / भोगान् उदारान् सुखम् अप्रमेयं प्राप्नोति नित्यं पिशुनाद् विमुक्तः // srkk_145 //
आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि / देवेषु मर्त्येषु च जायते ऽसौ पारुष्यवाक्याद् विरतो नरो यः // srkk_146 //
धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यम् / संपूजनां स लभते बहुरत्नजातैर् यायाच् च्युतो विबुधलोकम् अनन्तसौख्यम् // srkk_147 //
स तीव्ररागो भवतीह नैव भोगैर् उदारैः सततं च युक्तः / आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै // srkk_148 //
प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके / ब्रह्मत्वम् आसादयतीह सम्यङ् मैत्रस्य चित्तस्य वशान् मनुष्यः // srkk_149 //
स्वर्गापवर्गं समवाप्तुकामैर् नरैस् तु नित्यं समुपार्जनीया / अस्तित्वदृष्टिः परमा हि यस्मात् सर्वस्य सा वै कुशलस्य मूलम् // srkk_150 //
श्रद्धानिराकृतमतेर् न विरोहतीह पुण्यं ह्य् उदारभुवनत्रयसौख्यकारि / तस्मान् नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता // srkk_151 //
श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्या / श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः // srkk_152 //
भ्रष्टो यथाधिपत्याद् ऐश्वर्यफलानि न ह्य् अवाप्नोति / श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्य् अवाप्नोति // srkk_153 //
तस्मान् नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु / निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम् // srkk_154 //
दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः / दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम् // srkk_155 //
दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः / दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनम् दत्तं न कस्मै चन // srkk_156 //
सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः / प्रेताः सदा सलिललालसया यद् आर्तास् तत् पानदानविकलस्य फलं वदन्ति // srkk_157 //
दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् / तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः // srkk_158 //
// इति विचित्रकथा //
संग्रहश्लोकाः पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः / बिम्बं स्नानं तथा गन्धश् छत्त्रं धातोश् च रोपणम् // 1 //
मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् / प्रणामोज्ज्वालिकादीपविहारशयनासनम् // 2 //
क्षेत्रं विचित्रं चैवान्त इत्य् एता बहुधा भृशम् / कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने // 3 //
xxiii. शीलकथा यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश् च सकण्टको द्रुमः / श्रुतेन वित्तेन कुलेन चान्वितस् तथाविधः शीलपराङ्मुखो जनः // srkk_159 //
वरं दरिद्रो ऽपि सुशीलवान् भवेन् न चार्थवान् अप्य् अनलंकृतो गुणैः / दरिद्रभावे ऽपि हि सज्जनः स्तुतो रसो गुणानाम् अमृताद् विशिष्यते // srkk_160 //
संमानयन्ति गुरवो गुणवन्तम् आर्यं तेजस्विनो ऽपि धनिनो ऽपि मनस्विनो ऽपि / तस्मान् नरो नरपतेर् अपि यः सकाशात् संमानम् इच्छति स रक्षतु शीलम् एव // srkk_161 //
लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखम् उत्तमं तु / तस्मान् नरः सुखम् उदारम् अहार्यम् आर्यं यः प्राप्तुम् इच्छति स रक्षतु शीलम् एव // srkk_162 //
यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सो ऽस्ति / तस्मात् प्रहृष्टविनयः परलोकम् अन्ते यो गन्तुम् इच्छति स रक्षतु शीलम् एव // srkk_163 //
शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर् विमार्गैः / तस्माद् ऋते ऽपि वनवासम् ऋते ऽपि लिङ्गं यः स्वर्गम् इच्छति स रक्षतु शीलम् एव // srkk_164 //
शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमम् आर्यम् अहार्यम् अन्यैः / शीलं स्थिरं व्युपशमे ऽप्य् अनुगामि मित्रं शीलं विभूषणम् ऋते ऽपि विभूषणेभ्यः // srkk_165 //
न ह्य् अस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमो ऽस्ति बन्धुः / माता पिता च तनयाय विधातुम् इच्छेद् यः शीलम् ऊर्जितफलं हितम् आदधातु // srkk_166 //
// इति शीलकथा //
xxiv. क्षान्तिकथा सर्वम् एतत् सुचरितं दानं सुगतपूजनम् / कृतं कल्पसहस्रैर् यत् प्रतिघः प्रतिहन्ति तत् // srkk_167 //
न च द्वेषसमं पापं न च क्षान्तिसमं तपः / तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः // srkk_168 //
मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते / न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते // srkk_169 //
न द्विषन्तः क्षयं यान्ति यावज्जीवम् अपि घ्नतः / क्रोधम् एकं तु यो हन्यात् तेन सर्वद्विषो हताः // srkk_170 //
विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा / दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा // srkk_171 //
जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि/ वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् // srkk_172 //
मत्कर्मचोदिता ह्य् एते जाता मय्य् अपकारिणः / येन यास्यन्ति नरकान् मयैवैते हता ननु // srkk_173 //
एतान् आश्रित्य मे पापं क्षीयते क्षमतो बहु / माम् आश्रित्य तु यान्त्य् एते नरकान् दीर्घवेदनान् // srkk_174 //
अहम् एवापकार्य् एषां ममैते चोपकारिणः / कस्माद् विपर्ययं कृत्वा खलचेतः प्रकुप्यसि // srkk_175 //
मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि / द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् // srkk_176 //
// इति क्षान्तिकथा //
xxv. वीर्यकथा वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस् तरति वीर्यमहाप्लवेन / नैवास्ति तज् जगति वस्तु विचिन्त्यमानं नावाप्नुयाद् यद् इह वीर्यरथाधिरूढः // srkk_177 //
युद्धेषु यत् करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु / हत्वा रिपूञ् जयम् अनुत्तमम् आप्नुवन्ति विस्फूर्जितं तद् इह वीर्यमहाभटस्य // srkk_178 //
अम्भोनिधीन् मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् / वीर्येण गोष्पदम् इव प्रविलङ्घ्य शूराः कुर्वन्त्य् अनर्घगुणरत्नधनार्जनानि // srkk_179 //
रागादीन् उरगान् इवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं सम्यक् समादापयन् / मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश् चिरम् // srkk_180 //
यद् देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् / अत्यन्तं विपुलफलप्रसूतिहेतोर् वीर्यस्य स्थिरविहितस्य सा विभूतिः // srkk_181 //
// इति वीर्यकथा //
xxvi. ध्यानकथा क्लेशारिवर्गं त्व् अभिभूय धीराः संबोधिलक्ष्मीपदम् आप्नुवन्ति / बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् // srkk_182 //
जन्मप्रबन्धकरणैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् / आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद् भवन्ति मनुजा गुणहेतुभूताः // srkk_183 //
जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभाम् अन्यभूतैः / सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन् नरेन्द्रा ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुर् आर्या गुणौघाः // srkk_184 //
मोहान्धकारं प्रविदार्य शश्वज् ज्ञानावभासं कुरुते समन्तात् / संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः // srkk_185 //
// इति ध्यानकथा //
xxvii. प्रज्ञाकथा प्रज्ञाधनेन विकलं तु नरस्य रूपम् आलेख्यरूपम् इव सारविहीनम् अन्तः / बुद्ध्यान्वितस्य फलम् इष्टम् उदेति वीर्याद् वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः // srkk_186 //
यो ऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत् कुलनामगोत्रैः / मध्यान्तविद्यो ऽपि जनः प्रवेत्ति प्रज्ञाबलं तत् कथयन्ति तज्ज्ञाः // srkk_187 //
यद् बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् / आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुम् उत्कीर्तयन्ति // srkk_188 //
कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः / प्रज्ञावशात् ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता // srkk_189 //
तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव / [मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने जित्वा क्लेशगणाञ् छुभार्थनिरताः क्रीडन्तु धर्मार्थिनः //] 190 //
// इति प्रज्ञाकथा //
स्वर्गापवर्गगुणरत्ननिधानभूता एताः षड् एव भुवि पारमिता नराणाम् / ज्ञात्वा नरः स्वहितसाधनतत्परः सन् कुर्यान् न कः सततम् आसु दृढं प्रयत्नम् // srkk_191 //
// इति पारमितापरिकथा सुभाषितरत्नकरण्डके समाप्ता //
कृतिर् आचार्यशूरस्य //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
