Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
रत्नमालावदान
- Thông tin
- GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
रत्नमालावदान
इ कौशीद्यवीर्योत्साहनावदान
++ ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ++
यः श्रीमाञ् छ्रीघनो लोके सद्धर्मं समुपादिशत् / शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा // rm_1.1{1} //
अथाशोको महाराजः कृताञ्जलिः प्रमोदितः / उपगुप्तं यतिं नत्वा पुनर् एवम् अभाषत // rm_1.2{2} //
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद् यथा गुरुणादिष्टं तथा देष्टुं च मे ऽर्हति // rm_1.3{3} //
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः / उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् // rm_1.4{3अ} //
साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय // rm_1.5{4} //
पुरासौ भगवान् बुद्धः शाक्यसिंहो दयानिधिः / धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः // rm_1.6{5} //
सर्वविद्याकलाभिज्ञः षडभिज्ञो मुनीश्वरः / मारजिल् लोकविन् नाथो विनायकस् तथागतः // rm_1.7{6} //
श्रवस्त्यां जेतकारण्ये महोद्याने मनोरमे / अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः // rm_1.8{7} //
नानावृक्षैः समापन्ने नानापुष्पप्रशोभितैः / नानाफलभरानम्रैः कल्पपादपसन्निभैः // rm_1.9{8} //
अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पलादिभिः / पुष्पैश् च परिपूर्णाभिः पुष्करिणीभिर् आश्रिते // rm_1.10{9} //
नानाजन्तुगणैश् चापि मिथस्नेहनिवन्धितैः / नानापक्षिगणैश् चापि संरावैर् उपसेविते // rm_1.11{10} //
तस्मिन् दिव्यमनोरम्य आरामे परिशोभिते / पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते // rm_1.12{11} //
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि / सर्वसत्वहितार्थेन तस्थौ धर्मं प्रकाशितुं // rm_1.13{12} //
एवं तत्र समासीनं संबुद्धं धर्मदेशिनं / दृष्ट्वा धर्मोत्तमं श्रोतुं सर्वे लोकाः समाययुः // rm_1.14{13} //
देवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः / ग्रहा विद्याधराश् चापि नागाश् च गरुडा अपि // rm_1.15{14} //
सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः / ब्राह्मणाः क्षत्रियाश् चापि वैश्याश् च मंत्रिणो जनाः // rm_1.16{15} //
अमात्याः साधवः शूद्राः सार्थवाहा महाजनाः / धनिनो वणिजश् चापि गृहस्थाः पौरिका अपि // rm_1.17{16} //
तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि / एवम् अन्ये ऽपि सत्वाश् च सद्धर्मश्रवणार्थिनः // rm_1.18{17} //
पूजापंचोपहाराणि गृहीत्वा भक्तिसंयुताः / सद्धर्मं सौगतं श्रोतुम् अनुमोद्य समाययुः // rm_1.19{18} //
सर्वे तत्र प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं / विस्मितानंदिताः पूजां कृत्वा नत्वा यथाक्रमं // rm_1.20{19} //
सर्वे तत्र समासीनाः परिवृताः पुरस्कृताः / तं दृष्ट्वा सद्गुरुं धर्मं श्रोतुं तस्थुः समाहिताः // rm_1.21{20} //
अथासौ भगवान् दृष्ट्वा लोकान् सर्वान् समाहितान् / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_1.22{21} //
एवं नित्यम् असौ नाथः सर्वसत्वहितार्थिकः / धर्मं प्रकाशयन् लोके तस्थौ भानुर् इवोदितः // rm_1.23{22} //
तस्मिंश् च समये तत्र श्रावस्त्यां सन्महाजनः / आढ्यः श्रेष्ठी महाभोगो विस्तीर्णसुपरिग्रहः // rm_1.24{23} //
श्राद्धो भद्राशयो धीमान् सर्वबन्धुसुहृत्प्रियः / तीर्थिकश्रावको मानी बभूव धनगर्वितः // rm_1.25{24} //
तदासौ सुन्दरीं भार्य्यां कुलधर्मसमानिकां / नीत्वा कामगुणासक्तो रेमे नित्यं तया सह // rm_1.26{25} //
तस्यैवं रमतस् तस्यां भार्यायां सुचिराद् अपि / पुत्रो न दुहिता वापि नोद्बभूव कथं चन // rm_1.27{26} //
तद् अपुत्रो गृहस्थो ऽसौ पुत्राभिदर्शनोत्सुकः / कपोलं स्वकरे धृत्वा व्यचिन्तयद् रहो गतः // rm_1.28{27} //
अहो दैवान् न मे पुत्रः पुत्री वाद्यापि नास्ति यत् / तन् मे स्युः संपदो व्यर्थायासां भोक्ता न विद्यते // rm_1.29{29!} //
किं ममैतैर् धनै रत्नैः केवलं दुह्खसाधनैः / येषां भोक्ता न विद्येत व्यर्थं मया ह्य् उपार्जितं // rm_1.30{30} //
ह्य् अपुत्रस्य जगच् छून्यं संसारे निःसुखं मम / यतो न वर्द्धते धर्मस् तज् जन्मापि च निस्फलं // rm_1.31{31} //
किम् उपायं करिष्यामि यतो भाग्यं न विद्यते / दैवो हि वलवांल् लोके किम् उपायैर् गुणैर् वलैः // rm_1.32{32} //
कुत्रात्र शरणं यास्ये ह्य् अपुत्रो ऽहं कुलान्तकः / तन् मे स्यात् को ऽत्र सन्मित्रं संकटे यः समुद्धरेत् // rm_1.33{33} //
नूनं मे पितरः सर्वे पिण्डविछेददर्शिनः / मत्परं दुर्लभं मत्वा भविष्यन्ति निराशिताः // rm_1.34{34} //
सर्वथाहं विनष्टो ऽस्मि कुलधर्मविनाशकः / किं परत्र प्रभोक्ष्यामि को मे पिण्डं प्रदास्यति // rm_1.35{35} //
इति चिन्ताविषण्णं तं दृष्ट्वा सर्वे च बान्धवाः / समुपेत्य समामंत्र्य दुह्खहेतुम् अपृछन् // rm_1.36{36} //
किं दुःस्थितो ऽसि साधो ऽत्र किं चापि दुःखचिन्तया / वक्तव्यं चेत् तद् अस्माकं सर्वथा वक्तुम् अर्हसि // rm_1.37{37} //
इति पृष्टे गृहस्थो ऽसौ दीर्घनिश्वासम् उत्सृजन् / सर्वांस् तान् बान्धवान् दृष्ट्वा दुःखहेतुम् उदहरत् // rm_1.38{38} //
भवन्तः श्रूयतां सर्वैर् मम दुःखस्य कारणं / यद् अद्यापि न मे पुत्रः पुत्री वापि न विद्यते // rm_1.39{39} //
संपदो मे गृहे सन्ति सर्वरत्नसमन्विताः / सर्वद्रव्यसमृद्धाश् च तासां भोक्ता न विद्यते // rm_1.40{40} //
तत् सर्वं नक्ष्यते व्यर्थं मया यात्नैर् उपार्जितं / अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्य्ति // rm_1.41{[41]} //
अपुत्रो ऽहं ह्य् अपुण्यात्मा गन्तव्यं मरणं ध्रुवं / प्रेतीभूतस्य मे को ऽन्यः पिण्डदानं प्रदास्यति // rm_1.42{[42]} //
मया न प्रकृतं पुण्यं संपदर्थप्रसंगिना / तन् मे सर्वं निरर्थं स्यात् को मां पापात् समुद्धरेत् // rm_1.43{43} //
इह भोग्यं प्रभुक्त्वापि किं मे सारम् अवस्थितं / केवलं धनसक्तस्य परत्र सद्गतिः कथं // rm_1.44{44} //
इति चिन्ता हृदि स्थित्वा चित्तं मे तुदते ऽनिशं / एवं चित्तव्यथाक्रान्तः शल्यविद्ध इवास्म्य् अहं // rm_1.45{45} //
तद् व्यथाहरणोपायं दातव्यं मम तद्धितं / अन्यथा चेद् इहामुत्र विनष्टः स्यां निराशितः // rm_1.46{46} //
इति तेनोदितं श्रुत्वा सर्वे ते बान्धवा जनाः / करुणाविष्टचित्तास् तं बोधयन्तः समब्रुवन् // rm_1.47{47} //
मा मा भैष्ठा महाभाग त्यज चिन्तां वचः शृणु / तदुपायं वयं ब्रूमस् तत् कुरुष्व समाहितः // rm_1.48{48} //
देवताराधनां कृत्वा कुरुष्व वंशयाचनां / नूनं वंशं प्रदास्यन्ति देवतास् ते प्रसादिताः // rm_1.49{49} //
एष लोके प्रवादो ऽस्ति यद् आयाचनहेतुतः / पुत्रा दुहितरो वापि जाता देवप्रसादतः // rm_1.50{50} //
तथा नैव प्रमाणं स्याच् छास्त्रे कर्मप्रमाणतः / तत् तु देवप्रसादेन कर्मश् शीघ्रं प्रसिद्ध्यते // rm_1.51{51} //
तद् एव देववैरुद्धे कर्म विघ्नैर् निहन्यते / तस्माद् दैवप्रसिद्ध्यर्थं श्रद्धाभक्तिसमाहितः // rm_1.52{52} //
देवताराधनां कृत्वा सर्वकार्य्यं प्रसाधयेत् / इति मत्वा भवांश् चापि सत्पुत्रप्रतिपत्तये // rm_1.53{53} //
भार्य्यया सह भक्त्या च देवतायाचनां कुरु / ततो रक्तैः प्रियां भार्याम् ऋतुस्नातां प्रकामतः // rm_1.54{54} //
गाढम् आलिंग्य संरक्तो धर्मवीजं प्ररोपय / ततो देवप्रभावेन सुनिष्पन्नः प्रसिद्धितः // rm_1.55{55} //
त्वत्पुत्रः संप्रजायेत सत्यम् एवं प्रमाणय / इति तेषां वचः श्रुत्वा गृहस्थो ऽसौ विनोदितः // rm_1.56{56} //
तथेति च प्रतिश्रुत्य भार्य्यया सह मोदितः / शिवब्रह्मादिदेवेशान् इंद्रादिदिगधीश्वरान् // rm_1.57{57} //
जलाश्रयवनारामचत्वरमण्डपालयान् / सूर्य्यादींश् च ग्रहान् सर्वा भैरवाद्याश् च मातृकाः // rm_1.58{58} //
स्वकुलाधिपतीं देवान् अन्यांश् च त्रिभवस्थितान् / सर्वान् एवं समाराध्य पूजयित्वा विधानतः // rm_1.59{59} //
संतानं प्रार्थयित्वासौ पत्न्या सह तथारमत् / तदा कश्चिन् महासत्वः स्वर्गाच् च्युत्वा भुवं गतः // rm_1.60{60} //
तस्य गृहपतेः पत्न्या गर्भे स समुपाविशत् / ततः सा श्रेष्ठिनो भार्य्यापन्नसत्वाशु गुर्विणी // rm_1.61{61} //
गर्भे सत्वं समुत्पन्नं मत्वा भर्त्तारम् अब्रवीत् / स्वामिन् प्रसीद मा भूस् त्वं विषण्नो ऽत्र सुखी भव // rm_1.62{62} //
तव भाग्याद् धि मे गर्भे नूनं सत्वः प्रवर्त्तते / यद् गर्भे दक्षिणे भागे स्थितः संपरिवर्त्तते // rm_1.63{63} //
तन् नूनं दारको ऽयं स्यात् सत्यम् एव न संशयः / इति भार्यावचः श्रुत्वा गृहस्थो ऽसौ प्रमोदितः // rm_1.64{64} // भार्याया गर्भम् आलोक्य सत्यम् इत्य् अन्वमन्यत // rm_1.65{56!} // ततो ऽसौ सहसा वन्धुसुहृन्मित्रसहायकान् / प्राहूय पुरतस् तेषां मुदैवं समुदानयत् // rm_1.66{66} //
अहो भाग्यान् ममोत्पन्नं यद् अभिवांछितं मया / धन्यो ऽस्मि नावगीतः स्याद् देवतानुप्रसादतः // rm_1.67{67} //
चिराभिलषितं पुत्रमुखं पश्येय सांप्रतं / कृत्या मे प्रतिकुर्वीत भृतश् च प्रतिविभृयात् // rm_1.68{68} //
दायाद्यं प्रतिपद्येत वंशो मे स्थितिको भवेत् / सुहृदो मे प्रसन्नाः स्युर् द्विषन्तश् च विषादिताः // rm_1.69{69} //
मया यावन्ति दानानि पुण्यानि प्रकृतानि च / एतत्पुण्यफलैर् नित्यं मंगलं भवतु द्वयोः // rm_1.70{70} //
एतत्पुण्यानुभावेन भूयान् माता निरातुरा / सुखं सुनोतु सत्पुत्रं मा पापं समुदागमत् // rm_1.71{71} //
इति तेनोदितं श्रुत्वा सर्वे बन्धुसुहृत्सखाः / तथास्त्व् इत्य् अनुमोदन्तः स्वस्वालयं समाययुः // rm_1.72{72} //
ततो ऽसौ गर्भिणी कान्ता क्रमाद् गर्भप्रवर्द्धिता / वैद्योपदिष्टम् आहारं भुक्त्वाचरद् यथा सुखं // rm_1.73{73} //
ततश् च समये ऽसूत पुत्रं कान्तं मनोहरं / सर्वलक्षणसंपन्नं भद्रांशं मंगलान्वितं // rm_1.74{74} //
तच् छ्रुत्वैव गृहस्थो ऽसौ सुप्रसन्नः प्रमोदितः / दृष्ट्वा तं दारकं सौम्यं नैव तृप्तिं समाययौ // rm_1.75{75} //
ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा / पुत्रनामाभिसंस्कर्तुं भूय एतान् समब्रवीत् // rm_1.76{76} //
भवन्तो दृश्यतां सिद्धं ममभिलषितं चिरात् / तन् नामास्य यथायोग्यं प्रसिद्धं क्रियतां शुभं // rm_1.77{76!} //
इति तस्य वचः श्रुत्वा सर्वे ते ज्ञातयो मुदा / दारकं तं समालोक्य नंदिताः समभाषत // rm_1.78{78} //
यस्मिन् दिने ह्य् अयं जातस् तदा सर्वे ऽपि पौरिकाः / नन्दितास् तद् भवत्व् अयं नाम्ना नन्द इति श्रुतः // rm_1.79{79} //
अथासौ दारको नन्दः सम्यग् देहोपचारणे / पित्राष्टासु च धात्रीषु परितोष्य समर्पितः // rm_1.80{80} //
ततो ऽसौ क्रमशस् तासां धात्रिणाम् उपचारतः / दिने दिने प्रवृद्धो ऽभूद् ध्रदस्थं पंकजं यथा // rm_1.81{81} //
एवं प्रवर्द्धमानो ऽसौ षड्वर्षिको यदाभवत् / तदा कुशीदसंवृत्तो बभूव विरतोत्सवः // rm_1.82{82} //
सदा शय्यासनस्थस् तत् समुत्थातुं न चैछत / शय्यासनस्थितश् चैव भुक्त्वा नैवाचरत् क्वचित् // rm_1.83{83} //
सदा स्वान्तर्गृहस्थो ऽपि सुतीक्ष्णबुद्धिमान् सुधीः / अधीत्य सर्वशास्त्राणि सत्यधर्मरतो ऽभवत् // rm_1.84{84} //
अथ श्रेष्ठी पिता दृष्ट्वा पुत्रम् एवं कुशीदितं / सर्वविद्यागुणाधारं दृष्ट्वा चैवं व्यचिन्तयत् // rm_1.85{85} //
कथं चिद् यो मया प्राप्तो देवतासंप्रसादतः / सो ऽपि पुत्रो ममाभाग्याद् भवत्य् एवं कुशीदितः // rm_1.86{86} //
सर्वविद्यागुणाधारं सर्वशास्त्रविचक्षणः / किं ममानेन पुत्रेण दुस्थितेनेव रोगिना / यतः स्वस्थशरीरो ऽपि भुक्त्वैवं पशुवत् स्थितः // rm_1.87{87} //
किम् अत्राहं करिष्यामि यत् पुत्रो ऽयं नि रुद्यमः / किम् ईद्रिग्जन्तुना कार्य्यं कुलधर्मोपहारिणा // rm_1.88{68!} //
धिग् मे दैवं प्रयत्नं च सर्वं तत् स्यान् निरर्थकं / किम् उपायं करिष्यामि सर्वथाहं विभग्नितः // rm_1.89{78} //
एवं चिन्तापरीतो ऽसौ गृहस्थश् च व्यचिन्तयत् / पूरणो मे ऽस्ति शास्ता यः पृछेयं तद् उपायकं // rm_1.90{79} //
इति मत्वा गृहस्थो ऽसौ तद् आश्रमं समागतः / पूरणं तं गुरुं नत्वा पप्रच्छ तदुपायतां // rm_1.91{80} //
भगवन् भो महाभिज्ञ शास्तासि मे प्रसीद तत् / यन् मया पृछ्यते कार्य्यं तत् समादेष्टुम् अर्हसि // rm_1.92{81} //
इति तेनार्थितं श्रुत्वा तीर्थिको मानगर्वितः / आशु सिद्धं करिष्यामो यत् कार्य्यं ते ऽत्र तद् वद // rm_1.93{82} //
इति प्रोक्त्वैवम् आश्वास्य पूरणो ऽत्यभिमानिकः / प्रवदंस् तं गृहस्थं वै सर्वथैवम् अबोधयत् // rm_1.94{83} //
इति तेन समादिष्टं श्रुत्वा गृहपतिर् मुदा / कृताञ्जलिपुटो नत्वा तं गुरुं समभाषत // rm_1.95{84} //
भगवन् भो विजानीया यो मे पुत्रः प्रजायते / स प्रवृद्धो निरुत्साही कुशीदो वर्त्तते ऽधुना // rm_1.96{85} //
सदा शय्यास्थितो भुङ्क्ते भुक्त्वा शेते निरुद्यमः / नोत्सहति क्वचिद् गंतुं पशुवत् तिष्ठते गृहे // rm_1.97{86} //
न शयनात् समुत्थाय श्रोतुं द्रष्टुं समिच्छति / गृहे शय्यासनारूढो रोगीव वसते सदा // rm_1.98{87} //
तदुपायं कथं कुर्य्यां येनायं शयनोत्थितः / श्रोतुं द्रष्टुं च गंतुं च कर्त्तुं कार्य्यं यथोत्सहेत् // rm_1.99{88} //
तथा मे भगवन् पुत्रं कुलधर्मे नियोजय / भवान् एव हि मे शास्ता तद् धितं कर्तुम् अर्हसि // rm_1.100{89} //
इत्य् एवं प्रार्थितं तेन श्रुत्वासौ पूरणो यतिः / तस्य गृहपतेश् चित्तं प्रहर्षयन् समब्रवीत् // rm_1.101{90} //
अरे मा गा विषादं त्वं चिन्तया किं प्रतप्यसे / अस्मासु विद्यमानेषु षट्सु विज्ञेषु शास्तृषु // rm_1.102{91} //
तद् अहं ते महाभाग सार्द्धं सर्वैश् च तीर्थिकैः / ऋद्ध्या गत्वा करिष्यामि दारकं विस्तयोत्थितं // rm_1.103{92} //
यदासौ दारको ह्य् अस्मान् सर्वान् दृष्ट्वा समुत्थितः / कृत्वा प्रणामम् अस्माकं धर्म्मं श्रोतुं समुत्सहेत् // rm_1.104{93} //
श्रुत्वा धर्मसमुत्साहात् कुशलानि समाचरेत् / तत्कुशलैः समापन्नो वीर्यवान् स भवेत् सुधीः // rm_1.105{94} //
ततस् ते सर्वकार्याणि साधयेत् स समुद्यतः / स्वकुलधर्मकर्माणि कुशली संचरिष्यते // rm_1.106{95} //
एवं मे वचनं सत्यं दृष्ट्वा सम्यक् प्रमाणय / तद् विषादं परित्यज्य कर्त्तव्यं हि तथा कुरु // rm_1.107{96} //
इति तेन समादिष्टं श्रुत्वा स गृहभृन् मुदा / सहसा स्वगृहं गत्वा तद् भोज्यं समसाधयत् // rm_1.108{97} //
अथासौ पूरणो ऽन्यैश् च तीर्थिकैः सार्द्धम् आगतः / गृहे गत्वा पुरस् तस्य पर्य्यङ्के समुपाश्रयत् // rm_1.109{98} //
तथासौ तान् समागत्वा क्रमश आसने स्थितान् / दृष्ट्वा संहर्षितः श्रेष्ठी सहसा पुत्रम् अब्रवीत् // rm_1.110{99} //
पुत्र पश्य गृहे ऽस्माकं शास्तारः समुपस्थिताः / तत् समुत्थाय नत्वैताञ् छास्तॄन् भोज्यैः प्रवारय // rm_1.111{100} //
इत्य् उक्त्वा जनकेनासौ दारको न समुत्थितः / द्रष्टुम् अपि न चोत्सेहे किं नमेच् च प्रवारयेत् // rm_1.112{1} //
बहुशः प्रेर्य्यमाणो ऽपि पित्रा स बन्धुभिः सह / दारकस् तान् समासीनान् द्रष्टुम् अपि न चैछत // rm_1.113{2} //
किं पुनर् उत्थितो नत्वा भोजणैः संप्रवारयेत् / तथा शय्यासनारूढ एवं तस्थौ निरुत्सवः // rm_1.114{3} //
ततस् ते तीर्थिकाः सर्वे दृष्ट्वैवं निरुत्सवं / नानाविधिप्रयत्नैस् तम् उत्थापयितुम् आरभन् // rm_1.115{4} //
तथापि नैव शय्याया उदतिष्ठत् स दारकः / स्वधर्मदेशकांश् चापि तान् द्रष्टुम् अपि नैहत // rm_1.116{5} //
एवं चानुत्थितं दृष्ट्वा तं ते सर्वे च तीर्थिकाः / हठाच् चैनं समुत्थाप्य वशीकर्त्तुं पराक्रमन् // rm_1.117{6} //
तथैतांस् तीर्थिकान् सर्वान् एव गर्वाभिवादितान् / दृष्ट्वाभिसंमुखायातान् भीतो ऽरौत्सीत् स दारकः // rm_1.118{7} //
तथा तं रुदितं दृष्ट्वा सर्वे ते लज्जया भिया / प्रतिजग्मुर् विभिन्नास्याः स्वस्वालयानि भेदिताः // rm_1.119{8} //
तथा गृहपतिर् दृष्ट्वा सर्वान् एतान् परायितान् / प्रतिभिन्नविषण्नात्मा तस्थौ चिन्ताविमोहितः // rm_1.120{9} //
अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः / पश्यन् सत्वान् समुद्धर्तुं ददर्श तं कुशीदितं // rm_1.121{10} //
दृष्ट्वा तस्य कुशीदस्य कर्मवृत्तिपरंपरां / तत् कुशीदं समुद्धर्तुम् अर्यानंदं समब्रवीत् // rm_1.122{11} //
पश्यानंद गृहस्थस्य श्रावस्तीपुरवासिनः / पुत्रो नंद इति ख्यातः साम्प्रतं संकुशीदिकः // rm_1.123{12} //
असौ मे दर्शनाद् एव नूनं वीर्य्यं समारभन् / सहसोत्थाय स नत्वा धर्मं प्रशृणुयान् मुदा // rm_1.124{13} //
ततो मे शासने धर्मं प्रचरेत् स सुधीः सदा / क्रमाद् बोधिचरीं पूर्य्य संबोधिं चापि लप्स्यति // rm_1.125{14} //
तस्मात् तस्य गृहे गत्वा तीर्थिकदर्प्पछित्तये / सद्धर्मे संप्रतिष्ठाप्य सर्वान् बोधौ नियोजये // rm_1.126{15} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानन्दः स हर्षितः / कर्त्तव्यं भगवन्न् एवम् इत्य् अनुमोदितो ऽभवत् // rm_1.127{16} //
ततो भगवता तेन सुवर्णाभा मरीचयः / उत्सृष्टास् तैश् च तद् गेहम् अवभास्य व्यशोधयत् // rm_1.128{17} //
यदा तैर् दारकः स्पृष्टो बुद्धमैत्रीमरीचिभिः / तदा प्रह्लादितश् चासाव् इत्य् एवं समचिन्तयत् // rm_1.129{18} //
अहो कस्य प्रभावो ऽयं येनैवम् अवभासितं / प्रह्लादितश् च मे कायस् तन् न जाने कुतः कथं // rm_1.130{19} //
इति चिन्तां समालम्ब्य कौतुकाक्रान्तमानसः / समन्ततो निरीक्ष्यैवं तस्थौ गेहे सुविस्मितः // rm_1.131{20} //
तथा तं विस्मितं दृष्ट्वा भगवान् भिक्षुभिः सह / सहसा तद्गृहं गत्वा प्रादुर् आसीत् प्रभासयन् // rm_1.132{21} //
तत्र स दारको ऽपश्यद् भगवन्तं तम् आस्थितं / कान्तं दिव्यातिरिक्ताभं समन्तभद्ररूपिणं // rm_1.133{22} //
दृष्ट्वैव सहसोत्थाय नत्वा पादौ प्रमोदितः / स्वयम् एवासनं तस्मै प्रज्ञप्यैवम् अभाषत // rm_1.134{23} //
स्वागतं भगवन् नाथ विजयस्व मुनीश्वर / प्रसीदानुग्रहार्थेन निषीदात्र शुभासने // rm_1.135{24} //
इति तेनोदिते तत्र भगवान् भिक्षुभिः सह / तत् प्रज्ञप्तासने स्थित्वा धर्मं देष्टुं समारभत् // rm_1.136{25} //
तद् दृष्ट्वा दारकस्यैवं धर्मोत्साहं समुत्थितं / पितरौ ज्ञातिवर्गाश् च सर्वे ऽप्य् आसन् सुविस्मिताः // rm_1.137{26} //
तत्रासौ दारको हर्षाद् उत्फुल्लनयनो मुदा / नत्वा पादौ मुनेश् चाग्रे धर्मं श्रोतुम् उपाश्रयत् // rm_1.138{27} //
अथासौ भगवांस् तस्य ज्ञात्वाशयविशुद्धतां / आदिमध्यान्तकल्याणं धर्मं देष्टुं तम् अब्रवीत् // rm_1.139{27} //
शृणु वत्स महाभाग पापपुण्यार्थसाधने / हेतुं वक्ष्ये शुभार्थे ते तद् अत्र त्वं समाचर // rm_1.140{29} //
मानुष्यं दुर्लभं प्राप्य विद्युत्तरंगचंचलं / पापक्षये मतिः कार्या पुण्यार्थसाधनेषु च // rm_1.141{30} //
पापेन दुर्गतिं यायात् पुण्येन सद्गतिं व्रजेत् / पापमित्रानुरागेण मतिः पापे प्रवर्त्तते // rm_1.142{31} //
ततः पापरतः कुर्यात् पापानि दारुणान्य् अपि / ततो दुष्टः सुपापिष्ठः सद्धर्माणि विनिन्दयेत् // rm_1.143{32} //
ततो धर्मविरुद्धत्वात् कुशक्तिः कुत्सितो भवेत् / ततः स कुत्सितात्मा हि सर्वसत्वैर् विनिन्द्यते // rm_1.144{33} //
परिभूतो विषादेन भवेत् मूढो निरुत्सहः / उत्साहवर्जिते चित्ते आलस्यं समुपाश्रयेत् // rm_1.145{34} //
आलस्वी साधयेन् नैव किंचिद् धर्मं गुणानि वा / धर्मकर्मविरक्तात्मा निर्गुणी किं करिष्यति / भोग्य एव सदासक्तः पशोर् अप्य् अधमो नरः / किं तेन पुरुषेणापि निर्गुणेन सुखाशिना / यस्य पुण्ये गुणे वापि कदापि नोत्सहेन् मनः / पुण्योत्साहविपन्नात्मा दुष्टक्लेशैर् विहन्यते / क्लेशितो मारसंघैश् च वशीकृत्य निवद्ध्यते // rm_1.146{36} //
मारस्य वशगः स्त्रीणां दासत्वं समुपाश्रयेत् / स दासनिरतो भुक्त्वा पशुवत् तिष्ठते गृहे // rm_1.147{36} //
नैव धर्मं क्वचिच् छ्रोतुं द्रष्टुं वापि न चोत्सहेत् / धर्मं विना व्रजेन् नैव सद्गतिं हि कदा चन // rm_1.148{37} //
तस्माद् धर्मे समाचर्तुं पुण्योत्साहं प्रवर्द्धयन् / त्रिमण्डलविशुद्धेन दानं दद्याच् छुभाप्तये // rm_1.149{39} //
दानेन सिद्ध्यते धर्मं धर्माच् चित्तं विशुद्ध्यते / शुद्धचित्तश् चरेच् छीले शीलवान् हि भवेत् सुधीः // rm_1.150{40} //
सुधीरो भावयेत् क्षांतिं क्षान्तिमान् दुष्टजित् कृती / कुशली प्रारभेद् वीर्य्यं वीर्य्यवान् पुरुषोत्तमः // rm_1.151{41} //
महासत्वो लभेद् ध्यानं ध्याता ब्रह्मविहारिकः / संस्मृतः साधयेत् प्रज्ञां प्रज्ञावान् हि गुणालयः // rm_1.152{42} //
गुणज्ञः समुपायैश् च सत्वान् धर्मे नियोजयेत् / एतत् पुण्यानुभावेन बोधौ प्रणिधिम् आचरेत् // rm_1.153{43} //
बोधिप्रणिधिचित्तेन बलानि साधयेद् दश / तद् बलैश् च महाघोरां मारसंघान् पराजयेत् // rm_1.154{44} //
जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्नुयात् / ततः सर्वत्र लोकेषु धर्मचक्रं प्रवर्त्तयेत् // rm_1.155{45} //
एवं प्रवर्त्तयन् धर्मं शास्ता लोकाधिपो भवेत् / सर्वलोकहितं कुर्वन् महत्पुण्यैः समृद्धितः // rm_1.156{46} //
सदैवं सद्गतौ स्थित्वा संबुद्धपदम् आप्नुयात् / एवं मत्वा त्वया वत्स चरितव्यं तथा शुभे // rm_1.157{47} //
इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा स दारको मुदा / कृतांजलिः पुनर् नत्वा भगवन्तम् अभाषत // rm_1.158{48} //
अद्यारभ्य सदा शास्तर् भवतः शरणं व्रजे / तद्यथा भवताज्ञप्तं तथा सत्यं चराम्य् अहं // rm_1.159{49} //
कृपादृष्टिम् उपस्थाप्य समन्वाहर मां सदा / भवान् एव हि सर्वज्ञस् त्रैधातुकविनायकः // rm_1.160{50} //
यदैवं ते दया नास्ति मय्य् उद्यमविवर्जिते / क एवं समुपागत्य प्रोद्धरेन् मां कुशीदिकं // rm_1.161{51} //
पवित्रीभूतम् आत्मानं मन्ये ऽहं ते प्रसादतः / धन्यो ऽस्मि तन् महाभद्रो यच् छास्त्रैवं प्रदर्शितः // rm_1.162{52} //
इति तेनोदिते भूयः सर्वज्ञः स मुनीश्वरः / सुचंदनमयीं यष्टिं दत्वैनं समभाषत // rm_1.163{53} //
वत्सेमां यष्टिम् आधाय प्रकोटय समाहितः / ततस् त्वं सर्वदावश्यं लभेः पुण्यमहोत्सवं // rm_1.164{54} //
इति शास्त्रा प्रदत्तां तां नत्वासौ दारको ऽग्रहीत् / यथादिष्टं मुनीन्द्रेण तथा कर्तुम् उदाचरत् // rm_1.165{55} //
इत्य् एवं तं समादिश्य स संबुद्धः ससांघिकः / स्वं विहारम् उपाश्रित्य धर्मं दिशन् समावसत् // rm_1.166{56} //
अथासौ दारको हर्षात् तां यष्टिं स्वयम् आदधत् / यथादिष्टं मुनीन्द्रेण प्राकोटयत् समाहितः // rm_1.167{57} //
तस्याम् आकोट्यमानायां पुण्यशब्द उदाचरत् / गृहे रत्ननिधानानि प्रादुर् आसन् बहूनि च // rm_1.168{57} //
तच्छब्दश्रवणं कृत्वा दारको ऽसौ प्रमोदितः / गृहे रत्ननिधानानि दृष्ट्वाश्चर्य्यं समाययौ // rm_1.169{59} //
ततश् च विस्मितो हर्षात् पुनर् एवं व्यचिन्तयत् / बतेदं सुमहाशौर्य्यं वीर्य्यं प्रारम्भये ततः // rm_1.170{60} //
तथा रत्नाकरं गत्वा रत्नानि समुपार्जयन् / ससंघं सुगतं नित्यं उपतिष्ठेय संभजन् // rm_1.171{61} //
इति ध्यात्वा समुत्साहं संनिबध्य स दारकः / रत्नाकरं समागन्तुं प्रारेभे सह वाणिजैः // rm_1.172{62} //
ततो ऽसौ दारको वीरस् तस्यां पूर्य्यां समन्ततः / सार्थवाहं स्वम् आत्मानं कृत्वा घोषम् अकारयत् // rm_1.173{63} //
तथा तद् घोषणां श्रुत्वा ये वीरास् ते वणिग्जनाः / तेन सार्द्धं महोत्साहैर् महाब्धिं गन्तुम् ऐछन् // rm_1.174{64} //
ततो ऽसौ पुरुषो वीरः सर्वैस् तैश् च वणिग्जनैः / सह रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् // rm_1.175{65} //
ततः सार्थपतिः सर्वैः सार्थैः सार्द्धं महोदधेः / क्षेमेन सहसोत्तीर्य्य स्वदेशं समुपाययौ // rm_1.176{66} //
अथ सार्थपतिस् तत्र यात्रासिद्धिप्रमोदितः / सर्वान् सार्थान् समामंत्र्य दृष्ट्वैवं समभाषत // rm_1.177{67} //
भवन्तः श्रूयतां सर्वैर् यत् स्वस्ति प्रागता वयं / तत् प्रभावं विजानीध्वं जिनेन्द्रस्य प्रसादताः // rm_1.178{68} //
तस्माद् अस्य मुनीन्द्रस्य कृत्वा दर्शनम् आदरात् / पूजयित्वा प्रणत्वा च पश्चाद् गेहं व्रजेम हि / इति तस्य वचः श्रुत्वा सर्व्वे ऽपि ते वणिग्जनाः / दृष्टसत्यानुमोदन्तः तथेति प्रतिमेनिरे / इति संभाषणां कृत्वा सर्व्वसार्थसमन्वितः / ततः सार्थपतिः शीघ्रं विहारं समुपाययौ / तत्र दृष्ट्वा जिनेन्द्रं तं सर्व्वे ते संप्रहर्षिताः / पादौ नत्वा मुनेस् तस्य परिवृत्योपतस्थिरे // rm_1.179{69} //
अथासौ भगवान् दृष्ट्वा सर्वान् सार्थगणान् अपि / धर्मोत्साहप्रावृद्ध्यर्थैः समामंत्र्य समब्रवीत् // rm_1.180{70} //
आगताः स्थ समायात मा स्थ श्रान्ताश् च खेदिताः / यात्रासाफल्यसिद्धिश् च कच्चिद् वः कुशलानि च // rm_1.181{71} //
एवं पृष्टे जिनेन्द्रेण सर्वे ते संप्रमोदिताः / कृताञ्जलिपुटो नत्वा संबुद्धं प्रोचुर् आदरात् // rm_1.182{72} //
भगवन् भवताम् एवं कृपादृष्टिप्रसादतः / यात्रासिद्धिः कथं न स्यात् सर्वत्र कुशलं हि नः // rm_1.183{73} //
यद् वयं शास्तर् आयाताः शुभरत्नसमन्विताः / तत् सर्वं त्वत्प्रभावेन सत्यम् एतत् प्रमाण्यते // rm_1.184{74} //
तद् भवन्तं सुशास्तारं द्रष्टुं सर्वे समागताः / पूजयितुं समिछामस् तत् प्रसीद जगद्गुरो // rm_1.185{75} //
इति विज्ञापनां कृत्वा सह सार्थैः स सार्थभृत् / ससंघं पूजयित्वा च रत्नानि समढौकत // rm_1.186{76} //
नमस् ते भगवन् नाथ व्रजामः शरणं तव / पाहि नः सर्वदाप्य् एवं त्वम् एव जगदीश्वरः // rm_1.187{77} //
एवं स्तुत्वा मुनीन्द्रं तं सर्वे ते संप्रसादिताः / कृताञ्जलिपुटा नत्वा स्वगृहं गन्तुम् ईहिरे // rm_1.188{78} //
ततश् च भगवान् दृष्ट्वा तान् सर्वान् स्वगृहोत्सुकान् / दत्वाशीर्वचनं स्पृष्ट्वा व्रजतेति व्यसर्जयत् // rm_1.189{79} //
ततः सर्वे ऽपि ते सार्थाः कृत्वा प्रदक्षिणत्रयं / शास्तारं सुगतं नत्वा स्वं स्वं गेहं समाययुः // rm_1.190{80} //
ततो भूयस् तथान्यैश् च प्रार्थ्यमानः स वीर्य्यवान् / षड्ढा रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् // rm_1.191{81} //
ततश् च गृहपतिः श्रेष्ठी सार्थवाहः सुवीर्य्यवान् / ससङ्घं सुगतं गेहे प्रणीत्वार्चितुम् आरभत् // rm_1.192{[82]} //
ततो भोजनसामग्रीं साधयित्वा निवेशने / ससंघैः बुद्धम् आमंत्र्य न्यवेशयच् छुभासने // rm_1.193{[83]} //
ततः पूजोपहारैश् च पूजयित्वा विधानतः / प्रत्येकं चीवरं दत्वा भोजनैः समतोषयत् // rm_1.194{84!} //
ततश् च भोजनान्ते ऽसौ सार्थवाहः कृताञ्जलिः / ससंघं सुगतं नत्वा प्रणिधानं तथाकरोत् // rm_1.195{85} //
यत् किञ्चित् प्रकृतं दानं संबुद्धशासने मया / एतत्पुण्यफलेन स्यां संबुद्धो ऽयं जिनो यथा // rm_1.196{86} //
इति तस्य गृहस्थस्य चित्तं संबोधिवांछितं / ज्ञात्वासौ भगवान् बुद्धः स्मितं कृत्वाभ्यनंदत // rm_1.197{87} //
तदा भगवतो वक्त्रान् निश्चेरुः पंचवर्णिकाः / रश्मयस् ताः समन्ताच् च त्रैलोक्यं शामभासयन् // rm_1.198{88} //
याः काश् चिद् रश्मयो याता अधस्तान् नरकेष्व् अपि / ताश् च निश्चरितास् तावत् संजीवं कालसूत्रकं // rm_1.199{[89]} //
संघातं रौरवं चापि महारौरवविश्रुतं / तपनाख्यं तथा चैवं प्रतापनाह्वयं ततः // rm_1.200{90} //
अवीचिम् अर्बुदं चैवं निरर्बुदं तथाटटं / हहवं हुहुवं चैवम् उत्पलं पद्मकं ततः // rm_1.201{91} //
महापद्माख्यम् एतानि षोडश निलयानि हि / तत्रोष्णनरका ये तु तेषु सर्वेषु निःसृताः // rm_1.202{92} //
शीतीभूता विनिःपत्य प्रभासयन् समंततः / ये शीतनरकास् तेषु तूष्णीभूताप्य् अभासयन् // rm_1.203{93} //
तेषु ये नारकाः सत्वा नानादुःखाभिवेदिनः / ते ताभी रश्मिभिः स्पृष्टा महत्सौख्यं प्ररेभिरे // rm_1.204{94} //
अथ सर्वे ऽपि ते सत्वा महत्सौख्यसमन्विताः / विस्मितास् तत्र संमील्य मिथश् चैवं वभाषिरे // rm_1.205{95} //
अहो भवन्त आश्चर्य्यं किं चास्माकं भवेत् खलु / यद् वयं सर्वदापीत्थं नानादुःखैः प्रपीडिताः / तन्मुक्ताः सांप्रतं सर्वे वयं सौख्यसमन्विताः // rm_1.206{96} //
किं ततो हि वयं मुक्ता अन्यत्र चरिता ननु / इति विस्मितचित्तानां सर्वेषां चित्तबोधने // rm_1.207{97} // भगवान् निर्मितं तेषां पुरस्तात् समदर्शयत् // rm_1.208{98} // तत्र तं निर्मितं दृष्ट्वा सर्वे ऽपि ते ऽतिविस्मिताः / परस्परं मुखं दृष्ट्वा तथैवं संवभाषिरे // rm_1.209{99} //
भो भवन्त इतश् च्युत्वा नान्यत्र गमिता वयं / किं त्व् अयं सुगताकार आयातो ऽपूर्वदर्शनः // rm_1.210{100} // नूनम् अस्यानुभावेन वयम् इत्थं सुखान्विताः // rm_1.211{1} // इति संभाष्य ते सर्वे तस्मिं सौगतनिर्मिते / चित्तं प्रसाद्य बुद्धाय नम इति प्रणेमिरे // rm_1.212{2} //
ततस् ते निर्मितं दृष्ट्वा नत्व चित्तप्रसादितः / सर्वपापविनिर्मुक्ताः सर्वे ऽपि सुगतिं ययुः // rm_1.213{3} //
याश् च काश् चिद् गता ऊर्द्ध्वं ता महाराजिकान् गताः / त्रयस्त्रिंशांश् च यामांश् च तुषितांश् च गतास् ततः // rm_1.214{4} //
निर्माणरतिम् आभास्य निर्मितवशवर्त्तिकान् / ब्रह्मकायिकलोकांश् च गता ब्रह्मपुरोहितान् // rm_1.215{5} //
महाब्रह्मालयं चापि परीताभांस् तथा गताः / अप्रमाणाभलोकांश् च तत आभास्वरान् गताः // rm_1.216{6} //
परीत्तशुभलोकांस् तदाप्रमाणशुभान् गताः / शुभकृत्स्नान् अनभ्रांश् च पुण्यप्रसवकांस् ततः // rm_1.217{7} //
बृहत्फलांस् ततश् चैवम् अवृहान् अतपान् गताः / ःसुदृशांश् च ततो याता तथा चैवं सुदर्शनान् // rm_1.218{8} //
अकनिष्ठं तथा गत्वा सर्वान् एतान् व्यभासयन् / तेषु ये संस्थिता लोकाः सर्वे ताभिश् च रश्मिभिः // rm_1.219{9} //
परिस्पृष्टाः सुखप्राप्ता दृष्ट्वा तां चैवम् ऊचिरे / अहो चित्रं शुभा काम्या कस्य पुण्यप्रभा इमाः // rm_1.220{10} //
याभिर् वयं परिस्पृष्टा महत्सौख्यं लभामहे / इति विस्मितचित्तानां तेषां चित्तविनोदने // rm_1.221{11} //
तथा ता रश्मयश् चैनां गाथाभिः समचोदयन् / अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं // rm_1.222{12} //
अतः क्लेशगणांस् त्यक्त्वा भजध्वं सुगतं सदा / निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने // rm_1.223{13} //
धुनीत मारसैन्यांश् च नडागारम् इव द्विपः / यो ह्य् अस्मिं धर्मवैनेये ऽत्यप्रमत्तश् चरेत् सुधीः // rm_1.224{14} //
प्रहाय स भवे क्लेशान् दुःखस्यान्तं करिष्यति / इति ता रश्मयः सर्वा अवभास्य समन्ततः // rm_1.225{15} //
प्रेरयित्वा शुभे सत्वान् पुनर् मुनेः पुरोगताः / ततो भगवतस् तस्य कृत्वा त्रयप्रदक्षिणां // rm_1.226{16} //
तथा ता रश्मयः सर्वा उष्णीषे ऽन्तर्हितं ययुः / अथानन्दः समुत्थाय कृताञ्जलिपुटो मुदा // rm_1.227{17} //
भगवन्तं प्रणम्यैवं पप्रच्छ स्मितकारणं / भगवंस् तव शुभा रश्मिः स्मितोद्भवा विनिर्गता // rm_1.228{18} //
ययावभासिता लोकाः सूर्य्येणोदयता यथा / नाकस्माद् दर्शयन्त्य् एवं स्मितं बुद्धा जिनाः क्वचित् // rm_1.229{19} //
तत् कस्माद् भगवान् स्मितं संदर्शयति सांप्रतं / यस्यार्थे भवताप्य् एवं स्मितं संदर्शितं तथा // rm_1.230{20} //
तं दृष्ट्वा विस्मिताः सर्वे श्रोतुम् इछन्ति सज्जनाः / तद् अत्र भगवाञ् छास्ता ह्य् एसां धर्माभिकांक्षिणां // rm_1.231{21} //
सर्वेषां तत् समादिश्य संदेहं छेत्तुम् अर्हति / इत्य् आनंदोदितं श्रुत्वा भगवांश् च तम् अब्रवीत् // rm_1.232{22} //
एवम् एतत् तथानंद यथा त्वं भाषसे किल / नाकारणे जिनं सर्वं स्मितं संदर्शितं क्वचित् // rm_1.233{23} //
तद् अर्थं शृणु वक्ष्ये ऽहं यद् अर्थं संस्मितं मम / पश्यानन्द गृहस्थो ऽयं दारको यः कुशीदितः // rm_1.234{24} //
मम संदर्शनाद् एवं विर्य्योत्साहं समाप्नुवन् / इत्थं रत्नानि संसाध्य बुद्धिमांश् च समृद्धितः // rm_1.235{25} //
एवं श्राद्धः प्रसन्नात्मा शासने मे ऽनुमोदितः / सत्कृत्य शरणं कृत्वा भजति मां ससांघिकं // rm_1.236{26} //
यद् अयं सार्थभृन् नन्दो मम धर्माभिसंरतः / अस्य पुण्यविपाकेन बोधिचित्तं समाप्नुयात् // rm_1.237{27} //
ततः चिक्षाः समासाद्य पूर्य्य पारमिता दश / क्रमान् मारगणाञ् जित्वा संबोधिं समवाप्नुयात् // rm_1.238{28} //
ततो ऽर्हन्न् अभिवन्द्यो ऽतिबलवीर्य्यपराक्रमः / इति नाम्ना प्रसिद्धो ऽयं संबुद्धः सुगतो जिनः // rm_1.239{29} //
सर्वधर्माधिपः शास्ता सर्वविद्यागुणाकरः / सर्वज्ञस् त्रिजगद्भर्त्ता तथागतो भविष्यति // rm_1.240{30} //
तस्माद् एवं सदानंद कर्त्तव्यं बुद्धदर्शनं / बुद्धदर्शनपुण्येन धर्मोत्साहं समापुण्यात् // rm_1.241{31} //
ततो वीर्य्यसमारूढः सद्धर्मं साधयेन् मुदा / ततो धर्मबलैर् माराञ् जित्वा संबोधिम् आप्नुयात् // rm_1.242{32} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः / अनुमोद्य गुरुं नत्वा तथेति प्राभ्यनंदत // rm_1.243{33} //
एवं मे गुरुणादिष्टं धर्मोत्साहप्रवृद्धये / तथा तव मया ख्यातं सत्यम् एतत् प्रधार्य्यतां // rm_1.244{34} //
एवं राजंस् त्वयाप्य् एवं कृत्वानुमोदनां तथा / धर्मप्रोत्साहनां कृत्वा कर्त्तव्यं बुद्धदर्शनं // rm_1.245{35} //
सद्धर्मचरणोत्साहे चारणीयाः प्रजाः सदा / इत्य् एतद् गुरुणादिष्टं श्रुत्वाशोकः स भूमिपः // rm_1.246{36} // सत्यम् एवं प्रतिश्रुत्य प्राभ्यनन्दत् सपार्षदः // rm_1.247{37!} // तत् कौशीद्यावदानं मुनिवरकथितं श्रद्धया यः शृणोति / श्रुत्वा यः श्रावयेद् यः प्रतिदिनम् अनिशं बुद्धसेवानुरक्तः / हित्वा क्लेशान् प्रदुष्टान् सकलकलिवलान् मारपक्षांश् च जित्वा / पारं गत्वा गुणाब्धेर् व्रजति स सुभगं श्रीघनस्य चरित्रं /
++ इति रत्नमालायां कौशीद्यवीर्य्योत्साहनावदानं ++
इइ स्नातावदान अथाशोको नृपेन्द्रो ऽसौ सद्धर्मचरणोत्सवः / उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत् // rm_2.1{1} //
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / यथा ते गुरुणा ख्यातं तथा मे ख्यातुम् अर्हसि // rm_2.2{2} //
इति तेन नृपेशेन प्रार्थ्यमानो जिनांशजः / उपगुप्तः समामंत्र्य तं क्षितीशं समब्रवीत् // rm_2.3{3} //
साधु सुष्ठु महारज शृणु धर्मं समाहितः / यथा मे गुरुणादिष्टं तथात्र ते प्रचक्ष्यते // rm_2.4{5!} //
पुरैकसमये यो ऽभूच् छाक्यसिंहो दयाकरः / धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः // rm_2.5{6} //
सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः / समन्तभद्रकृन् नाथो विनायकस् तथागतः // rm_2.6{7} //
स श्रावस्त्यां महोद्याने जेतारामे मनोहरे / अनाथपिण्डदस्यैव विहारे मणिमण्डिते // rm_2.7{8} //
श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः / देवासुरमहाराजैर् मनुजेन्द्रं सपार्षदैः // rm_2.8{9} //
सर्वलोकाधिपैश् चापि त्रैधातुकनिवासितैः / चतुर्वर्णैश् च पौरैश् च तथान्यैश् च शुभार्थिभिः // rm_2.9{10} //
सत्कृतो मानितश् चाभिवन्दितः संस्तुतो ऽर्चितः / गुरुकृतः पुरस्कृत्य परिवृतो ऽवलोकितः // rm_2.10{11} //
आदिमध्यान्तकल्याणं धर्मं लोके प्रकाशयन् / सर्वसत्वहितार्थेन विजहार समाहितः // rm_2.11{12} //
तस्मिंश् च समये तत्र श्रावस्त्यां ये वणिग्जनाः / ते पंचशतमात्राणि रत्नाकरं समागताः // rm_2.12{13} //
ततः प्रत्यागताः सर्वे कान्तारं समुपाविशन् / तत्र ते भ्रमिता मार्गात् परिभ्रष्टा विचेरिरे // rm_2.13{14} //
विमार्गेण चरन्तस् ते वालुकास्थलम् उपाविशन् / तत्र प्रप्ताश् च ते सर्वे मध्याह्ने द्योतितातपे // rm_2.14{15} //
भानोस् तीक्ष्णकरैस् तप्ता घर्मतापाभिखेदिताः / क्षीणपथ्यादनाश् चापि क्षुत्तृष्णा परिपीडिताः // rm_2.15{16} //
तीव्रदुःखाभिसंतप्ताः पर्यावर्त्तन्त तत्र च / स्थलप्राप्ता यथा मीना मृत्युभयविकंपिताः // rm_2.16{17} //
तदा सर्वे ऽपि ते सार्थाः श्रद्धया शरणं गताः / स्वस्वकुलेशस्वस्वेष्टदेवताः संययाचिरे // rm_2.17{18} //
केचित् स्वयंभुवं स्मृत्वा केचिन् नारायणं तथा / केचिच् छिवं महारौद्रं केचित् सूर्य्यग्रहाधिपं // rm_2.18{19} //
केचिच् चंद्रं च तारेशं केचिद् इंद्रं सुराधिपं / केचिद् अग्निं यमं चैव नैऋत्यं च तथापरे // rm_2.19{20} //
वारुणं च तथा वायुकुवेरं च महेश्वरैः / भैरवं मातृकाश् चैवं केचित् स्कन्धं विनायकं // rm_2.20{21} //
महाकालं तथा चैवं केचिद् ऋषीन् यतीश्वरान् / केचिद् दैत्याधिपान् वीरान् केचिन् नागाधिपांस् तथा // rm_2.21{22} //
केचिच् चातुर्महाराजान् केचिद् यक्षाधिपान् तथा / एवम् अन्यांस् त्रिधातुस्थांस् सर्वान् स्मृत्वा ययाचिरे // rm_2.22{23} //
तैर् एवं याच्यमानानां देवतानं न कश् चन / एको ऽप्य् आसीत् तदा त्राता वाणिजां दुःखभागिनां // rm_2.23{24} //
ततस् ते वणिजः सर्वे मृत्युभयविकंपिताः / निराशया विषीदन्तस् तस्थुर् निश्चेष्टमानसाः // rm_2.24{25} //
तत्र यः सुगतोपासी दृष्टसत्यः स धीरवान् / तान् सार्थान् विपन्नाशां दृष्ट्वामंत्र्यैवम् अब्रवीत् // rm_2.25{26} //
भवन्तो मा विषीदध्वं किं विषादेन सेत्स्यते / तस्मात् त्यक्त्वा विषादत्वं धीर्य्यम् आलम्ब्य तिष्ठत // rm_2.26{27} //
धैर्य्येण तारयेद् दुःखं महाकृच्छ्रं विपत्स्व् अपि / तस्माद् धैर्य्यं समाधाय स्मरध्वं च जिनं द्रुतं // rm_2.27{28} //
जिन एव जगन्नाथस् त्राता सर्वानुकंपकः / तद् अस्मद्वचनं श्रुत्वा संबुद्धं स्मरतादरात् // rm_2.28{29} //
तत्राप्य् एवं भये ऽस्माकं त्राता को ऽन्यो भविष्यति / बुद्ध एव जगद्बंधुस् तद् व्रजध्वं जिनं द्रुतं // rm_2.29{30} //
सर्वथा नो जिनेन्द्रो ऽसौ सर्वसत्वानुकनिपकः / डृष्ट्वास्मान् करुणादृष्ट्या संरक्षेत् सहसा खलु // rm_2.30{31} //
इति तेनोदितं श्रुत्व सर्वे ते वणिजस् तथा / संबुद्धं शरणं कृत्वा स्मृत्वाभयं ययाचिरे // rm_2.31{32} //
नमस् ते भगवन् नाथ सर्वज्ञो ऽसि जगत्प्रभुः / भवतैव जगत् सर्वं पालितं पुत्रवत् सदा // rm_2.32{33} //
अद्याग्रेण वयं सर्वे यावज्जीवं सदापि हि / भवतां शरणं यामस् तद् रक्षास्माञ् जगद्गुरो // rm_2.33{34} //
भवान् एव जगद्धर्मं संसारे पालितं सदा / भगवन् सर्वविन् नाथ त्रातुम् अर्हसि सर्वथा // rm_2.34{35} //
पंचशतसर्वाणि वाणिजाश् च समागताः / विमार्गेण चरन्तस् ते मध्याह्ने द्योतितातपे // rm_2.35{36} //
तत्र प्राप्ताश् च ते सर्वे वालुकास्थले संस्थिताः / भानो तीक्ष्णकरे तप्ता क्षुत्तृषार्त्ता परिपीडिताः // rm_2.36{37} //
तीव्रातिवेदनाक्रान्ता मृत्युभयं समागताः / नमो बुद्धाय धर्माय संघायेति नमो नमः // rm_2.37{38} //
दृष्ट्वास्मान् करुणा सर्वान् पंचशतानि वाणिजान् / भवान् एव जगत्स्वामिं तथा बुद्धानुभावतां // rm_2.38{39} //
तदा स भगवान् तेभ्य माहेन्द्रवृष्टिम् आचरन् / शीतला वायवो याति तेन शीतत्वम् आगताः // rm_2.39{40} //
तद् दृष्ट्वा सार्थपतिना सर्वान् सार्थान् समब्रवीत् / भवन्तः श्रूयतां सर्वे यन् मया प्रोच्यते हितं // rm_2.40{41} //
तद् भवद्भिः समाधृत्वा कर्त्तव्यं कृतवेदिभिः / यद् वयं मृत्युसंप्राप्ता परलोकाद् इवागताः // rm_2.41{42} //
तद् ज्ञेयं जिनेन्द्रस्य कृपादृष्टिप्रसादतः / तस्मात् सर्वे वयं तस्य बुद्धस्य शरणं गताः // rm_2.42{43} //
सद्धर्म्मं समुपाश्रित्य चरेमहि सदापि हि / अनित्यं खलु संसारम् अनित्यं जीवितं सुखं // rm_2.43{44} //
क्षणध्वंसि शरीरं च भवे नित्यं न किं चन / धर्म एव महासारं येनैवं रक्ष्यते जगत् // rm_2.44{45} //
तस्माद् धर्मं समाधर्तुं गन्तव्यं शरणं मुनेः / इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा // rm_2.45{46} //
तथेत्य् अभ्यनुमोदन्तस् ततो गंतुम् उपाक्रमत् / अथ सार्थपतिश् चैवं कृत्वा तं सह संमतं // rm_2.46{47} //
विहारे सुगतं द्रष्टुं धर्मं चाप्तुम् अगान् मुदा / तत्रोपेत्य प्रविष्टो ऽसौ सर्वसार्थगणान्वितः // rm_2.47{48} //
दृष्ट्वा तं सुगतं नत्वा विषसाद पुरो मुनेः / अथासौ भगवांस् तेषां दृष्ट्वाशयविशुद्धतां / आर्य्यसत्यार्य्यमार्गाङ्गं दिदेश धर्मम् उत्तमं // rm_2.48{49} //
तदा सर्वे ऽपि ते सत्वाः श्रुत्वा तं धर्मम् आदरात् / सत्कायदृष्टिनिर्मुक्ता बोधिचित्तं प्रलेभिरे // rm_2.49{50} //
तत्र केचिन् महाश्राद्धा धर्मानुसारिणो ऽभवन् / श्रोतापन्नास् तथा केचित् सकृदागामिनो परे // rm_2.50{51} //
तथानागामिनः केचित् केचिद् भवपराङ्मुखाः / संसारक्लेशसंघांश् च हित्वा सुविमलाशयाः // rm_2.51{52} //
साक्षात् सद्धर्म्मम् आसाद्य बभूवुर् धर्मचारिणः / केचिच् छ्रावकबोधौ च प्रत्येकायां तथापरे // rm_2.52{53} //
केचिद् अनुत्तरायां च संबोधौ प्रणिधिं दधुः / एवं ताः पर्षदः सर्वाः संबुद्धशरणे स्थिताः // rm_2.53{54} //
सद्धर्म्माचरणे रक्ताः संघभक्ता बभूविरे / अथ ते भिक्षवो दृष्ट्वा तान् सर्वान् बोधिचारिणः // rm_2.54{55} //
संबुद्धं प्रयता नत्वा पप्रछुर् विस्मयान्विताः / आश्चर्य्यं भगवन् यावद् यद् इमे वणिजस् तथा // rm_2.55{56} //
कांतारपतिताः सर्वे भवता परिपालिताः / भवच्चिन्तितमात्रे ऽपि माहेन्द्रवृष्टिम् आचरन् // rm_2.56{57} //
शीतला वायवो वातास् तत् कथं वक्तुम् अर्हसि / इति तैर् भिक्षुभिः पृष्टो भगवांस् तान् अभाषत // rm_2.57{58} //
शृणुध्वं भिक्षवः कर्म्म यन् मया कृत कृतं कथ्यते / यन् मया प्रकृतं कर्म को ऽन्यो भुंज्याद् धि तत्फलं // rm_2.58{59} //
येन यत् प्रकृतं कर्म स एवाद्याद् धि तत् फलं / अभुक्तं क्षीयते कर्म नैव क्वापि कथं चन // rm_2.59{60} //
अग्निभिर् दह्यते नैव वायुभिर् नापि शुष्यते / उदकैः क्लिद्यते नापि भूमिषु // rm_2.60{61} //
अपि तु पच्यते स्कन्धषड्धात्वायतनेषु हि / अन्यथा चापि कर्माणि न ददन्ति फलानि च // rm_2.61{62} //
यथैव यत् कृतं कर्म तथैव तत् फलं मतं / शुभकर्म शुभं दद्यात् पापकर्माशुभं खलु // rm_2.62{63} //
मिश्रितम् उभयं दद्याद् इति मत्वा शुभे चरेत् / न प्रणश्यंति कर्माणि कल्पकोटिशतैर् अपि // rm_2.63{64} //
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां / यन् मया प्रकृतं पूर्वं तत् फलं प्राप्यते ऽधुना // rm_2.64{65} //
कथ्यते तत् पुरावृत्तं साधु शृणुत सादरं / पुरैकसमये बुद्धश् चंदनो नाम धर्मराट् // rm_2.65{66} //
सर्वज्ञो ऽर्हञ् जगन्नाथः शास्ता लोकाधिपेश्वरः / विद्याचरणसंपन्नः सुगतो लोकविज् जिनः // rm_2.66{67} //
तथागतो महाभिज्ञः संबुद्धो ऽभूद् विनायकः / तदैकसमये तत्र चंदनः स मुनीश्वरः // rm_2.67{38!} //
भिक्षुभिः सह सद्धर्म्मं प्रकाशयन् समंततः / हिताय सर्वसत्वानां जानपदेषु संचरन् // rm_2.68{69} //
अन्यतमां पुरीं रम्यां राजधानीम् उपाश्रयत् / तत्र सत्वहितार्थेन बोधिचर्यां प्रकाशयन् // rm_2.69{70} //
श्रावकैर् भिक्षुभिः सार्द्धं विजहार जिनाश्रमे / अथ तदाधिपो राजा श्रुत्वा तं बुद्धम् आगतं // rm_2.70{71} //
स मंत्रिजनपौरैश् च सह प्रत्युद्ययौ मुदा / तत्रासौ सहसोपेत्य दृष्ट्वा तं सुगतं मुनिं // rm_2.71{72} //
कृतांजलिपुटो नत्वा तस्थाव् एकांतिके मुदा / अथासौ भगवान् दृष्ट्वा तं नृपं समुपस्थितं // rm_2.72{73} //
आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं / शृणु राजन् भवे सारं धर्मं नित्यम् अतंद्रितं // rm_2.73{74} //
धर्मेण जायते लोको धर्मेण स्वर्गम् आरुहेत् / तस्माद् धर्मं पुरस्कृत्य संपालयन् प्रजा सदा // rm_2.74{75} //
प्रजारक्षाव्रतं धर्मं मूलं राज्ञां विदुर् बुधाः / प्रजारक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः // rm_2.75{76} //
तेन राजन् त्वया धर्मे पालनीयाः प्रजाः शुभे / तद् दशाकुशलेभ्यश् च विनिवार्य त्वया सदा // rm_2.76{77} //
योजनीयाः प्रजा धर्मे तत्पुण्यैस् त्वं प्रमोक्ष्यसे / आदौ दाने प्रजान् योज्याः संबोधिपदकारणे // rm_2.77{78} //
तत्पुण्यैः प्रचरिष्यन्ति प्रजाः संवर्द्धिताः शुभे / शुभकर्मरते लोके तत्पुण्यैः वर्द्ध्यते नृपः // rm_2.78{79} //
तस्माद् दानं स्वयं दत्वा प्रजा शीले नियोजय / शीलेन शुद्ध्यते कायः शुद्धकायो भवेत् सुधीः // rm_2.79{80} //
सुबुद्धिः क्षमया सर्वाच् छत्रूं जित्वा विराजते / ततो वीर्य्यबलैः सर्वान् सत्वान् सौख्ये नियोजयेत् // rm_2.80{81} //
ततः क्लेशान् विनिर्जित्य ध्यात्वा बोधिं प्रसाधयेत् / बोधिप्रणिधिचित्तेन कृती प्रज्ञां प्रसाधयेत् // rm_2.81{82} //
ततः प्राज्ञ उपायैश् च जगद् बोधौ नियोजयेत् / ततो मारान् विनिर्जित्य संबोधिज्ञानम् आप्नुयात् // rm_2.82{83} //
तत्र प्राप्य रसाभिज्ञा दशभूमीश्वरो भवेत् / ततः कृत्वा वशे सर्वांस् त्रैधातुकनिवाशिनः // rm_2.83{84} // संस्थाप्य सौगते धर्मे स्वयं निर्वृतिम् आचरेत् // rm_2.84{85} // एवं ज्ञात्वा महाराज निर्वाणगतिसाधनं / यदि ते निर्वृतौ वांछा तदैतासु समाचर // rm_2.85{86} //
ततस् ते मंगलं नित्यं संवृत्तिसुखम् आप्नुयाः / क्रमात् पारमिताः पूर्य्य निर्वृतिं समवाप्नुयाः // rm_2.86{87} //
निर्वाणं परमं ज्ञानं निर्वाणं परमं सुखं / निर्वाणं परमं पुण्यं निर्वाणं परमां गतिं // rm_2.87{88} //
एवं हि सुकृतं सर्वं ज्ञात्वा निर्वाणकारणं / तथा धर्मे स्वयं स्थित्वा प्रेरणीयाः प्रजा अपि // rm_2.88{89} //
एवं स चंदनो बुद्धो बोधयित्वा च तं नृपं / बोधिमार्गे प्रतिस्थाप्य विरराम क्षणं ततः // rm_2.89{90} //
अथ स नृपती राजा श्रुत्वा तद् धर्मम् आदरात् / प्रमोदितः समुत्थाय उत्तरासंगम् उद्वहन् // rm_2.90{91} //
जानुभ्यां भुवि संस्थित्वा कृतांजलिपुटो नतः / सुप्रसन्नमुखः पादौ नत्वा तं प्रार्थयन् मुनिं // rm_2.91{92} //
नमस् ते भगवन् नाथ भवतां शरणं व्रजे / सद्धर्मम् आदिशन्न् अत्र विजयस्व गणैः सह // rm_2.92{93} //
इति तेन नृपेन्द्रेण प्रार्थिते स मुनीश्वरः / तथेति प्रतिसंश्रुत्य त्रैमास्यम् अध्यवासयत् // rm_2.93{94} //
ततः सान्तःपुरा राजा तं मुनीन्द्रं ससांघिकं / सदा सत्कारपूजाङ्गैर् भोज्यैः प्रारागयन् मुदा // rm_2.94{95} //
तस्मिंश् च समये तत्र लोकानाचरकोपिताः / वर्षाधिदेवता मेघावृष्टिं न मुमुचुर् भुवि // rm_2.95{96} //
ततस् तस्याम् अनावृष्ट्यां तडागादि जलाश्रयाः / दिने दिने प्रहीनांभः पंकशेषविशोषिताः // rm_2.96{97} // निःपुष्पा निष्फला वृक्षाः शाखापत्त्रविशीर्ण्णिताः // rm_2.97{97!} // स्थाणुकल्पा निराभोग्याः पक्षिसंपातवर्जिताः / महीशस्यविपन्नाश् च बीजांकुलविशोषिताः // rm_2.98{98} //
निस्तृणा प्रखलीभूता मरुकल्पाभवत् तदा / अन्नपानवियोगेन मृता अनेकजन्तवः // rm_2.99{99} //
क्षुत्पिपासहताः केचिन् न्यषीदन्त मृता इव / केचिद् गेहे विषण्णास्या मृत्युशंकाविषादिताः // rm_2.100{100} //
परस्परं मुखं दृष्ट्वा निःश्वसन्तो निषेदिरे / केचिन् मेघं च खे दृष्ट्वा प्रायाचन्त दिवानिशं // rm_2.101{1} //
हा हतास्म इति प्रोक्त्वा केचित् तस्थुर् निराशिताः / एवं नानाप्रकारेण विलपन्तो विखेदिताः // rm_2.102{2} //
सर्वे ऽपि पौरिकास् तत्र चिखेदुर् मृत्युशंकिताः / तद् दृष्ट्वा नृपतिश् चापि मृत्युत्रस्तानुकंपितः // rm_2.103{3} //
मंत्रिणः सचिवान् सर्वान् समामंत्र्याब्रवीद् इति / हा कष्टं कथम् अत्रैवं दुर्भिक्षं वर्त्तते ऽधुना / किं करोमि न मन्ये ऽहं वदध्वं तत् प्रतिक्रियां // rm_2.104{4} //
येन तदा महापापदुर्भिक्षं शाम्यते द्रुतं / तदुपायं प्रकुर्याम तत् कुरुध्वं यथाविधिं // rm_2.105{5} //
इति श्रुत्वा नृपाज्ञां ते समंत्रिजनपौरिकाः / देवता विधिनाराध्य तच् छान्तिं संययाचिरे // rm_2.106{6} //
भो देवताः प्रसीदध्वं नमो वः प्रणता वयं / अपराधं यद् अस्मासु क्षन्तव्यं सर्वथापि तत् // rm_2.107{7} //
इमं दुर्भिक्षनिर्वृष्टिं प्राप्तं शमयत द्रुतं / सुवृष्टिं कारयित्वात्र सुभिक्षं कुरुत ध्रुवं // rm_2.108{8} //
एवं केचिद् विधातारं केचिद् विष्णुं जनार्दनं / केचिच् छिवं महेशानं इंद्रं केचित् सुराधिपं // rm_2.109{9} //
केचिद् ग्रहाधिपं केचिल् लोकपालान् महर्द्धिकान् / केचिच् च मातृकादेवीं स्कंदविघ्नेशभैरवान् // rm_2.110{10} //
महाकालगणांश् चापि केचिन् नागाञ् जलाधिपान् / केचिन् मेघान् समालोक्य नत्वा वृष्टिं ययाचिरे // rm_2.111{11} //
एवं सर्वे ऽपि लोकाश् च स्वस्वेष्टकुलदेवताः / विधिनाराध्य संप्रार्थ्य सुवृष्टिं प्रययाचिरे // rm_2.112{12} //
एवं तैः प्रार्थ्यमानास् ताः सर्वाश् च देवता अपि / तत्र वृष्टिं समुत्स्रष्टुं नैव शेकुर् विघातिताः // rm_2.113{13} //
ततः सर्वे च ते लोका दृष्ट्वा तद् वृष्टिघातितां / हाहाकारविरावन्तो विचिखेदुर् निराशिताः // rm_2.114{14} //
अथ राजा स तान् दृष्ट्वा दुर्भिक्षाक्षोभिताशायान् / तथा च ग्रहाम् आलोक्य विसण्णास्यो व्यचिन्तयत् // rm_2.115{15} //
अहो कष्टं महोत्पातं मम राज्ये भविष्यति / कथम् अत्र प्रतीकारं तत् प्रशान्त्यै करिष्यते // rm_2.116{16} //
किं मया नृपभूतेन यशोधर्मविघातिना / न शक्यंते प्रजा येन रक्षितुम् ईतिपीडिते / धिग् मां नृपाधमीभूतं किं पापं प्रकृतं मया / येन यस्य प्रजा एव क्षुत्पिपासहता मृताः / किम् एव मम राज्ये न भोग्यैश् चापि धनैर् अपि / किं तेन जीवितेनापि यशोधर्मविनाशिना // rm_2.117{18} //
येन राज्ञा न रक्ष्यन्ते प्रजाः स्वविषयाश्रिताः / स किं राजा बलिष्ठो ऽपि कृतान्त इव मन्यते // rm_2.118{19} //
यश् च राजा स्वभोग्यार्थं केवलं दण्डम् आहरन् / न विपत्सु प्रजाः पाति स किं राजापि चौरवत् // rm_2.119{20} //
येषाम् एव हितार्थाय यश् च राजाभिषिच्यते / स तेषां न हितं कुर्य्यात् स किं राजा कृतार्थहा // rm_2.120{21} //
धिक् प्रवादहतः सो ऽत्र यशोधर्मसुखार्थहा / स्वयं नष्टः परान् हत्वा नरकेषु व्रजेद् ध्रुवं // rm_2.121{21!} //
किं चाहम् अपि मानुष्यः समान इंद्रियैर् अपि / यतो मे क्रियते सर्वैः सेवो नित्यं समाहितैः // rm_2.122{22} //
यदि न क्रियते रक्षा मयाप्य् एषां विपत्स्व् अपि / कथम् एतदृशैर् मुक्तः कदा यास्यामि सद्गतिं // rm_2.123{23} //
सर्वदैतदृणैर् बद्धः सर्वथा प्रतिबंधितः / कर्मभिः प्रेर्य्यमाणो ऽहं यास्यामि नरकान् ध्रुवं // rm_2.124{24} //
तदाहं किं करिष्यामि यमदूतैर् अधिष्ठिते / दृष्ट्वा तां भीषणां क्रूरान् पतिष्यामि विमोहितः // rm_2.125{25} //
तदा तत्र न विद्येत कश्चित् त्राता दयान्वितः / धर्म एव तदा रक्षेत् तद् धर्मं साधयेच् छुभं // rm_2.126{26} //
धर्माश् च बहुधा प्रोक्तास् तेषां प्राहुर् मुनीश्वराः / आदिमध्यान्तकल्याणं सौगतं धर्मम् उत्तमं // rm_2.127{27} //
येनैव शुभतां कृत्वा सर्वत्र भुवनेष्व् अपि / सर्वसत्वाश् च पाल्यन्ते सर्वदेह परत्र च // rm_2.128{28} //
तथात्रापि शुभं कर्तुं संबुद्धं शरणं व्रजन् / सद्धर्मं समवाप्तुं च सेवितव्यं ससांघिके // rm_2.129{29} //
तेनात्र सहसा कृत्वा पुष्करणीमनोरमां / संबुद्धसुगतं तत्र स्नापयित्वा ससांघिकं // rm_2.130{30} //
महत्सत्कारपूजाभिर् भोजनैश् च प्रतोषयन् / ततस् तं सुगतं नत्वा तद् दुर्भिक्षं प्रशांतये // rm_2.131{31} //
सुवृष्टिचारणे लोके प्रार्थयिष्यामि सादरं / तदा स भगवान् अत्र सुवृष्टिं चारयेद् ध्रुवं // rm_2.132{32} //
सर्वत्र शुभतां कृत्वा सुभिक्षं कारयेत् सदा / ततो ऽत्र सर्वदाप्य् एवं दुर्भिक्षं न कदा चन // rm_2.133{33} //
सुभिक्षं सर्वतो भद्रं भवेन् नूनं समंततः / इति ध्यात्वा विनिश्चित्य मनसा स नराधिपः // rm_2.134{34} //
सहसा सचिवान् सर्वान् समामंत्र्याब्रवीत् तथा / शृणुध्वं मंत्रिणो यन् मे मनसा संविचिंतितं // rm_2.135{35} //
तद् अनुमोद्य युष्माभिः प्रकर्त्तव्यं समाहितैः / यद् अद्य जायते ऽवृष्टिं दुर्भिक्षं चोपवर्त्तते // rm_2.136{36} //
तद् अस्मत्पापतो नूनं तत् पापपरिहाणये / संबुद्धशरणं कृत्वा सद्धर्मसमवाप्तये // rm_2.137{37} //
ससंघं सेवितुं नित्यम् इछे तद् अनुमोद्यतां / स एव भगवान् नाथः कृत्वात्र शुभतां सदा // rm_2.138{38} //
सुवृष्टिं चारयित्वा च सुभिक्षं कारयेद् ध्रुवं / ततो ऽस्माकं तदाप्य् अत्र मंगलं स्यात् समंततः // rm_2.139{39} //
सदा सद्धर्मम् आधाय सौख्यं भुक्त्वा भजेमहि / धर्मेण शुभता नित्यं धर्मेण जीयते विपत् // rm_2.140{40} //
धर्मेण पाल्यते सर्वं धर्मेण सद्गतिं व्रजेत् / धर्मं तु सौगतं भद्रं सर्वे प्राहुर् मुनीश्वराः // rm_2.141{41} //
सद्धर्मं समवाप्तुं तं संबुद्धं भजतादरात् / बुद्ध एव जगद्बंधुः सर्वसत्वहितंकरः // rm_2.142{42} //
बुद्ध एव जगन्मित्रं सर्वसत्वसुखप्रदः / बुद्ध एव जगत्त्राता सर्वसत्वानुकंपकः // rm_2.143{43} //
बुद्ध एव जगद्भर्ता धर्मार्थसुखसंप्रदः / बुद्ध एव जगच्छास्ता सर्वसत्त्वानुबोधकः / बुद्ध एव जगन्नाथो बोधिसंभारपूरकः / बुद्ध एव जगत्स्वामी संबोधिमार्गदेशकः / बुद्ध एव महावीरः सर्वमारप्रभंजकः // rm_2.144{44} //
बुद्ध एव महासत्वः षडभिज्ञो जगत्प्रभुः / बुद्ध एव त्रिलोकेषु धर्मरूजा मुनीश्वरः / येनैव त्रिजगल्लोकं पालितं पुत्रवत् सदा // rm_2.145{47!} //
स एव भगवान् बुद्धः सेवनीयः शुभार्थिभिः / येनैवं त्रिषु लोकेषु सर्वलोकाधिपेश्वरः // rm_2.146{48} //
राजते जयते तेन सिद्धो ऽयं धर्म्मराज् जिनः / यथा च त्रिषु लोकेषु बोधिचर्याः प्रकाशयन् / करोति भद्रतां नित्यं तथात्रापि करिष्यति // rm_2.147{19} //
संस्थापयति सद्धर्मे यथा त्रैधातुवासिनः / सत्वान् प्रबोधयन्न् अस्मान् निवेशयेत् तथा खलु // rm_2.148{20} //
ततः सर्वे वयं धृत्वा सद्धर्मं शुभदं शिवं / यशोपुण्यसुखं भुक्त्वा यास्यामो ऽन्ते सुखावतीं // rm_2.149{21} //
इति मत्वा तथास्माभिश् चन्दनो ऽयं जिनेश्वरः / महत्सत्कारपूजाभिः सेवितव्यो मुदा सदा // rm_2.150{22} //
इति संभाष्य तैः सर्वैस् तथेत्य् अभ्यनुमोदितैः / मंत्रिभिः सह राजा स प्रययौ तज् जिनाश्रमं // rm_2.151{23} //
तत्र प्राप्तः प्रविष्टश् च दृष्ट्वा तं चंदनं मुनिं / कृतांजलिपुटो नत्वा चकार प्रार्थनाम् इति // rm_2.152{24} //
नमस् ते भगवच् छास्तः वयं ते शरणं गताः / तत् प्रसन्नो भवास्माकं क्षन्तव्या चापराधता // rm_2.153{24} //
यद् अवृष्टिः प्रवृत्तात्र तद् अस्मत्पापतः खलु / तत्पापपरिहाणाय सद्धर्मं देष्टुम् अर्हसि // rm_2.154{26} //
तद् भवन्तं वयं सर्वे स्नापयित्वा ससांघिकान् / यथाशक्त्य् उपचारैश् च समिछामो ऽर्चितुं पुरे // rm_2.155{27} //
तत् प्रसीद मुनीन्द्रो ऽसि यथास्माकं हितं भवेत् / तथास्मत्पुरम् आगत्वा शुभं कर्तुं समर्हसि // rm_2.156{28} //
इति तेनार्थितं राज्ञा श्रुत्वा स चंदनो मुनिः / तूष्णीभूत्वा तथेत्य् एवं अध्युवास स सांघिकः // rm_2.157{29} //
ततः स नृपतिर् ज्ञात्वा तद् अधिवासितं मुनेः / पादौ नत्वा पुनर् दृष्ट्वा सहसा स्वं पुरं ययौ // rm_2.158{60!} //
ततः पुरे च मार्गेषु शोधयित्वा समंततः / सुगंधिजलसंसिक्तम् अकारयन् महीतलं // rm_2.159{61} //
ततः पुष्पावकीर्ण्णं च कारयित्वा समंततः / ध्वजच्छत्रवितानैश् च तत्पुरं पर्य्यभूषयत् // rm_2.160{62} //
ततस् तन् नगरे मध्ये कारयित्वा सरो वरं / तद् गंधोदकसंपूर्णम् अकारयत् प्रशोभितं // rm_2.161{63} //
तत्र पुष्पाभिः संयुक्तं कृत्वा तीरे समंततः / छत्रध्वजपताकानि वितत्य पर्य्यमण्डयत् // rm_2.162{64} //
आसनानि च प्रज्ञप्य ससंघस्य क्रमान् मुनेः / स्वर्णकुंभांश् च संस्थाप्य शुचिगंधाम्बुपूरितान् // rm_2.163{65} //
ततो पूजोपचारां भोज्योपकरणानि च / साधयित्वोपसंस्थाप्य संगीतिसहितानि च // rm_2.164{66} //
ततो राजा स सामात्यैः पौरिकैश् च समन्वितः / तं बुद्धं पुरम् आनेतुं जिनाश्रमम् अगान् मुदा // rm_2.165{67} //
तत्र स सहसा प्राप्तो दृष्ट्वा तं चन्दनं मुनिं / कृतांजलिपुटो नत्वा गमनं प्रार्थयद् इति // rm_2.166{68} //
सर्वज्ञ भगवं गन्तुं समयो वर्त्तते ऽधुना / सर्वं च साधितं सिद्धं तदाश्व् आगन्तुम् अर्हसि // rm_2.167{69} //
एवं तेनार्थिते राज्ञा स संबुद्धः ससांघिकः / पात्रचीवरम् आदाय प्रागात् तत्पुरसंमुखः // rm_2.168{70} //
यदासौ भगवान् बुद्धाः प्रातिहार्य्यं प्रदर्शयन् / लोकान् भासावसंभास्य प्राचरन् प्राप्तगोपुरं // rm_2.169{71} //
तदाकम्पद् रसा साब्धिर् ववौ वायुः सुमंगलं / क्षुत्पिपासा हता ये च ते सर्वे परितृप्तिताः // rm_2.170{72} //
ये च हीनेन्द्रियाः सत्वास् ते च पूर्णेन्द्रिया बभुः / निर्धना धनिनाश् चासन् रोगिनो निरुजो ऽभवन् // rm_2.171{73} //
बंधनस्था विमुक्ताश् च दुःखिताः सुखिनो ऽभवन् / उन्मत्ताः सुस्मृतिं प्राप्ता नग्ना आसन् सुवस्त्रिकाः // rm_2.172{74} //
गुर्विण्या याश् च ताः सर्वाः प्रमदाः सुखसूतिकाः / चिरवैरानुसंबद्धा मैत्रीभूताः समाचरन् // rm_2.173{75} //
ये च पापरताः सत्वा दशाकुशलचारिकाः / ते सर्वे परिसंतृप्ताः पुण्यकामाः प्रचेरिरे // rm_2.174{76} //
एवम् अन्ये च ये तत्र पापका उपसर्गिकाः / ते सर्वे विलयं याताः ते सर्वे संशुभाङ्किताः // rm_2.175{77} //
एवं सर्वप्रकारेण हत्वा सर्वम् अमङ्गलं / कृत्वा भद्रं च सर्वत्र ससंघः स पुरे ऽविशत् // rm_2.176{78} // क्रमात् प्रदक्षिणेनैवं प्रचरित्वा महोत्सवैः // rm_2.177{79} //वंद्यमानस् तु तैः सर्वैः सदेवासुरमानवैः // rm_2.178{80} // तं नृपं पुरतः कृत्वा राजमार्गम् उपासरन् / तत् सरोवरसंप्राप्तो दृष्ट्वा तीरे समाश्रयत् // rm_2.179{81} //
ततः स भगवान् बुद्धो यथा प्रज्ञप्त आसने / एकचीवरकस् तस्थौ स्नातुं तत्र सरोवरे // rm_2.180{82} //
ततो नृपादयः सर्वे लोकास् तं चंदनं मुनिं / ससंघं स्नापयाम् आसुः स्वर्णकुम्भाम्बुभिः क्रमात् // rm_2.181{83} //
कृत्वा स्नानं ततो ऽन्यत्र यथाप्रज्ञप्त आसने / ससंघो भगवान् तस्थौ स्वप्रभावं प्रदर्शयन् // rm_2.182{84} //
अथ राजा स तं बुद्धं समासीनं ससांघिकं / चीवरप्रावृतं कृत्वा पूजाङ्गैः समपूजयत् // rm_2.183{85} //
ततश् च भोजनैः शुद्धैः प्रणीतैर् व्यञ्जनैर् अपि / पंचामृतैश् च पानैश् च सुतृप्तिं समतोषयत् // rm_2.184{86} //
ततश् च भोजनांते संशोधयित्वा मुखादिकं / नीचासने समासीनः कृतांजलिपुटो नृपः // rm_2.185{87} //
सुप्रसन्नमुखाम्भोजः स मंत्रीजनपौरिकैः / नत्वा क्षमापयित्वा तं ससंघं प्रार्थयत् तथा // rm_2.186{88} //
सर्वज्ञ भगवन् नाथ क्षमस्व नो ऽपराधतां / प्रसीद सर्वथा रक्ष दृष्ट्वास्मान् पापचारिणः // rm_2.187{89} //
तद् दुर्भिक्षविनाशाय सुवृष्टिं चारय द्रुतं / सर्वसत्वहितार्थाय सद्धर्मं च समादिश // rm_2.188{90} //
इत्य् एवं प्रार्थिते तेन राज्ञा लोकहितार्थिना / संबुद्धो भगवांश् चैवं स्वाशीर्वचनम् अब्रवीत् // rm_2.189{91} //
आरोग्यम् अस्तु ते राजन् सर्वत्रापि च मंगलं / सुभिक्षं सर्वदाप्य् अत्र निर्विघ्नं बोधिम् आप्नुहि // rm_2.190{92} //
इति स्वाशीर्वचो दत्वा संबुद्धः स ससांघिकः / ततश् च स्वाश्रमं प्रागात् स नृपजनम् अन्वितः // rm_2.191{93} //
एवम् अस्य मुनीन्द्रस्य त्रैमास्यं च निरंतरं / तेनाकारि नृपेन्द्रेण सेवा सत्कारपूजनैः // rm_2.192{94} //
ततः शक्रो महेन्द्रो ऽसौ दृष्ट्वा तत् सुगतार्चितां / तद् दुर्भिक्षप्रशांत्यर्थं सुवृष्टिं समचारयत् // rm_2.193{95} //
ततो जलाश्रयान्य् अम्बुपूरितानि समंततः / पद्मोत्पलादिपुष्पैश् च छन्नानि रुरुचुस् तदा // rm_2.194{96} //
तृणैर् नवाङ्कुरोद्भूतं साद्वलैश् च प्ररूढितैः / प्रतिछन्ना हरिद्वस्त्रैः प्रावृतैव रराज भूः // rm_2.195{97} //
वृक्षाश् चापि हरित्पत्रैः समाछन्नाः प्रशोभिताः / पुष्पैः प्रस्फुल्लितैर् अम्यैः फलैश् च संचकासिरे // rm_2.196{98} //
क्रमाच् चैवं प्ररूढानि शस्यानि वर्द्धितानि च / परिनिष्पन्नसिद्धानि प्रविपेचुः समंततः / ततः सर्वे जनाश् चैवं संप्रयातां सुभिक्षतां / दृष्ट्वानंदं समुच्चार्य्य प्रचेरिरे प्रहर्षिताः // rm_2.197{99} //
अथ राजा स तान् सर्वान् महाहर्षप्रमोदितान् / दृष्ट्वा भूयः समामंत्र्य वभाष संप्रबोधयन् // rm_2.198{100} //
भवन्तो दृश्यताम् अस्य संबुद्धस्यानुभावता / यस्य पुण्यानुभावेन प्रजातैव सुभिक्षता // rm_2.199{1} //
तस्मान् नित्यं तथैवास्य संबुद्धस्य जगत्प्रभोः / महत्सत्कारपूजाभिः कर्त्तव्यं भजनं सदा // rm_2.200{2} //
एवं यदि सदा चास्य संबुद्धस्य जगत्प्रभोः / पूजाभिः सत्करिष्यन्ति सदात्र मंगलं भवेत् // rm_2.201{3} //
तस्माद् अस्य मुनीन्द्रस्य नखकेशविदर्भितः / गन्धस्तूपः प्रतिस्थाप्य सेवितव्यः सदार्चनैः // rm_2.202{4} //
इति संभाष्य राजासौ तैस् तथेत्य् अनुमोदितैः / सह बौद्धाश्रमं गत्वा नत्वा तं प्रार्थयन् मुनिं // rm_2.203{5} //
नमस् ते भगवं छास्तर् वयं ते शरणस्थिताः / सदा चैवं करिष्यामो भवत्सेवाम् उपास्थिताः // rm_2.204{6} //
तत् प्रसीद सदा पात्र विहृत्य धर्मम् आदिशन् / विजयस्व न चान्यत्र मा व्रज नो ऽनुकंपया // rm_2.205{7} //
तेनैवं प्रार्थिते राज्ञा भगवांश् च स चंदनः / तं नृपं सजनं दृष्ट्वा प्रसन्नास्यो ऽब्रवीत् तथा // rm_2.206{8} //
नैव राजन् मया बोधिर् एकस्यार्थे प्रसाधिता / अपि च सर्वसत्वानां हितार्थे ह्य् अनुकंपिना // rm_2.207{9} //
तस्माद् अत्र सदा नैव स्थास्याम्य् अहं ससांघिकः / सर्वत्रापि चरेयाहं सद्धर्मं संप्रकाशितुं // rm_2.208{10} //
यदि मे श्रद्धया नित्यं सेवां कर्तुं समिछथ / केशस्तूपं प्रतिस्थाप्य सेव्यत सर्वदार्चनैः // rm_2.209{11} //
ततस् ते ऽत्र सदा राज्ये सुभिक्षं मंगलं भवेत् / दुर्भिक्षता च कुत्रापि नाक्रमिष्यति कदा चन // rm_2.210{12} //
इति मत्वा त्वया गत्वा त्रिरत्नशरणं स्वयं / सर्वसत्वाश् च सद्धर्मे प्रेरणीयाः प्रयत्नतः // rm_2.211{13} //
इत्य् आदिश्य मुनींद्रो ऽसौ छित्वा स्वान् नखरांस् तथा / केशांश् चाप्य् अवतार्य्यैवं तस्मै राज्ञे स्वयं ददौ // rm_2.212{14} //
ततो राजा स तं बुद्धं नत्वा केशां नखांश् च तान् / समादाय प्रहर्षेण प्रत्याययौ स्वम् आलयं // rm_2.213{15} //
तत्र प्राप्तः पुरे मध्ये पुष्करिण्यास् तटान्तिके / तत् केशनखरान् रोप्य गंधस्तूपम् अकारयत् // rm_2.214{16} //
तस्मिं सिद्धे प्रतिस्थाप्य विधिना च महोत्सवैः / नित्यं सत्कारपूजाभिः सेवां चक्रे प्रसन्नधीः // rm_2.215{17} //
एतत् पुण्यानुभावेन लोके ऽंधे ऽपरिणायके / जगल्लोके हितं कर्तुं भवेयं सुगतस् तथा // rm_2.216{18} //
इति धृत्वा प्रचित्ते ऽसौ प्रणिधानं नराधिपः / गंधजलैश् च तं स्तूपं स्नापयित्वा सदार्चयत् // rm_2.217{19} //
प्रतिस्थाप्य महं चापि गत्वा च शरणे मुदा / अष्टांगैश् च प्रणत्वैवं महोत्साहैर् असेवयत् // rm_2.218{20} //
तथा सर्वे जनाश् चापि श्रद्धया तं प्रभेजिरे / ये गताः शरणं तत्र ते सर्वे निर्वृतिं ययुः // rm_2.219{21} //
अहम् एवावसिष्टः स तेषां यो ऽभून् नराधिपः / संबोधिप्रणिधिं धृत्वा नैवं निर्वाणम् आययौ // rm_2.220{22} //
एतत् पुण्यानुभावैश् च सुवृष्टिः संप्रचारिता / सर्वदाप्य् अभवत् तत्र सुभिक्षं निरुपद्रवं // rm_2.221{23} //
एतद् धर्मानुभावैश् च सर्वत्र सांप्रतं लभे / पूजासत्कारमान्यानि यशोधर्मसुखानि च // rm_2.222{24} //
यत्र यत्र प्रगछामि तत्र तत्र समंततः / इत्थं सत्कारपूजाभिर् मानितो ऽहं ससांघिकः // rm_2.223{25} //
तच् छास्तारं समाराध्य यशोधर्मसुखेप्सुभिः / शुभेषु सर्वदा नित्यं चरितव्यं प्रयत्नतः // rm_2.224{26} //
शुभेन सुखता नित्यं भवेल् लोके समंततः / पापेन दुःखता चैवं मिश्रितेनापि मिश्रिता // rm_2.225{27} //
तस्मात् पापं विरम्यैवं मिश्रितानि विहाय च / शुभेष्व् एव प्रयत्नेन चरितव्यं सुखार्थिभिः // rm_2.226{28} //
इत्य् आदिष्टं मुनीन्द्रेण सर्वे ते सांघिकास् तथा / श्रुत्वा प्रमेनिरे सत्यं कर्मभावं भवालये // rm_2.227{29} //
पापेभ्यो विरता नित्यं मिश्रितेभ्यो ऽपि ते सदा / सदा शुभेषु निरताः सर्वे संचेरिरे समाहिताः // rm_2.228{30} //
एवं राजंस् त्वया नित्यं पापाच् च मिश्रिताद् अपि / विरम्य सर्वथा धर्मे चरितव्यं सुखाप्तये // rm_2.229{31} //
प्रजाश् चापि विनिर्वार्य्य सर्वथा पापचारणात् / श्रावयित्वा च सद्धर्मं योजनीयाः शुभे सदा // rm_2.230{32} //
तथा ते सर्वदा नित्यं सर्वत्र विषयेष्व् अपि / सुवृष्टिः प्रचरेच् चैवं मंगलं निरुपद्रवं // rm_2.231{23!} //
इति तेन समादिष्टं उपगुप्तेन शासिना / श्रुत्वाशोको नृपो ऽस्त्व् एवम् इत्य् अनन्दत् सपार्षदः // rm_2.232{24} //
स्नातावदानं तद् इदं निशम्य ये श्रावयन्ति प्रतिबोध्य लोकान् / ते पापनिर्मुक्तविशुद्धदेहाः प्रयान्ति नूनं सुगतालयेषु // rm_2.233{25} //
++ इति रत्नावदानमालायां स्नातावदानं समाप्तम् ++
इइइ चक्रावदान अथाशोको नरेन्द्रो ऽसौ भूयो नत्वा कृतांजलिः / उपगुप्तं गुरुं प्राह श्रोतुम् अन्यत् सुभाषितं // rm_3.1{1} //
भदन्त श्रोतुम् इछामि भूयो ऽप्य् अन्यत् सुभाषितं / यथा ते गुरुणा ख्यातं तथा मे वक्तुम् अर्हसि // rm_3.2{2} //
इति तेनार्थिते राज्ञा भूयो ऽप्य् असौ जिनांशजः / उपगुप्तो यतिर् भिक्षुस् तं नृपम् एवं अब्रवीत् // rm_3.3{3} //
यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते सुभाषितं / साधु चित्तं समाधाय शृणु राजन् समाहितः // rm_3.4{4} //
यः पुरासीन् महाबुद्धः सर्वज्ञः श्रीघनो जिनः / सर्वविद्याकलाभिज्ञो धर्मराजस् तथागतः // rm_3.5{5} //
शास्तार्हन् सुगतो नाथस् त्रैधातुकविनायकः / स शाक्याधिपतिर् लोके हिताय च समंततः // rm_3.6{6} //
सद्धर्मदेशनां कृत्वा बोधिमार्गं प्रकाशयन् / भिक्षुश्रावकसंघैश् च बोधिसत्वैश् च सांघिकैः // rm_3.7{7} //
उपासिकागणैश् चैवम् उपासकगणं सह / राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे // rm_3.8{8} //
कलंदके निवापाख्ये महोद्याने समाश्रितः / आदिमध्यांतकत्याणं दिदेश धर्मम् उत्तमं // rm_3.9{9} //
तद् धर्मदेशनां श्रोतुं देवासुरमनुष्यकाः / यक्षकिन्नरगंधर्वाः सिद्धविद्याधरादयः // rm_3.10{10} //
गरुडा नागराजाश् च महाहर्षसमन्विताः / ब्राह्मणा क्षत्रियाश् चैव राजानो राजपुत्रकाः // rm_3.11{11} //
वैश्याश् च श्रेष्ठिनः शूद्रा मंत्रिणो मातृकाजनाः / सार्थवाहाश् च पौराश् च धनिनश् च वणिग्जनाः // rm_3.12{12} //
एवम् अन्ये ऽपि लोकाश् च सर्वे ते संप्रहर्षिताः / महत्सत्कारपूजाभिः सर्वोपकरणैस् तथा // rm_3.13{13} //
पूजयित्वा प्रवंदित्वा संबुद्धं सुगतं मुनिं / परिवृत्य पुरस्कृत्य तस्थौ सर्वान्य तस्थिरे // rm_3.14{14} // सद्धर्मवांछिताः सर्वे श्रोतुं तत्र समागताः // rm_3.15{15} // तस्मिंश् च समये पूर्य्यां श्रावस्त्यां सुभगो वणिक् / अन्यत्तमः सार्थवाह आसीन् महाधनः सुधीः // rm_3.16{16} //
तेन भार्य्या सुभद्रांगी जातिधर्मसमानिका / परिणीता कुलस्थित्यै कुलधर्मानुसारतः // rm_3.17{17} //
ततस् तौ दंपती रक्तौ स्नेहानुबन्धितौ मुदा / यथाकामं प्रभुंजानौ सन्रमाते यथेछया // rm_3.18{18} //
ततस् तस्य गृहस्थस्य भोग्येष्व् एवाभिरागिणः / स्वकुलवृत्तिधर्मेषु प्रमादाद् अनपेक्षिणः // rm_3.19{19} //
व्यवहारे विरक्तस्य प्रोद्यमरहितस्य च / अर्जनोपायमंदस्य केवलं व्ययकुर्वतः // rm_3.20{20} //
दिने दिने क्रंआन् नित्यं अतिव्ययान् निरागमत् / संपदः क्षीणतां याता ग्रिष्मकाल इव ह्रदाः // rm_3.21{21} //
ततस् तस्य गृहस्थस्य भार्या या कुलधर्मिका / संपदः क्षीनतां दृष्ट्वा गृहे चैवं व्यचिन्तयत् // rm_3.22{22} //
अयं मे पुरुषो भर्त्ता सार्थवाहो वणिक् धनी / भाग्यम् एव गृहे भुक्त्वा निवसति निरुद्यमः // rm_3.23{23} //
अत्यर्थव्ययता यत्र विद्यते न तथागमः / सा च संपत् कियत् कालं तिष्ठेत् क्षीणं व्रजेत् क्रमात् // rm_3.24{24} //
तद् अयं पुरुषश् चापि कथं सुस्थो भविष्यति / केन संधार्य्यते लोकैर् विहीने भोग्यसंचये // rm_3.25{25} //
वृद्धो ऽप्य् अयं भवेन् नूनं दरिद्रो ऽपि भवेत् तथा / तदा किं परिभुक्त्वैवं गृहे तिस्थेत् कथं सुखी // rm_3.26{26} //
यस्य संपद् गृहे नास्ति कथं स पुरुषः सुखी / स्वयं भोक्तुं न शक्तः स्यात् किं पुनर् दानम् आचरेत् // rm_3.27{27} //
दानं विना न संसारे किं सारसुखम् आप्स्यते / दानेनैव हि लभ्यन्ते यशोधर्मसुखानि च // rm_3.28{28} //
दानेन शुद्ध्यते चित्तं शुद्धचित्तो भवेत् सुधिः / सुधिया साध्यते शीलं शीलवान् स्याच् छुभंकरी // rm_3.29{29} //
शुभकर्मा च सद्धर्मं कृत्वा यास्यति सद्गतिं / तस्माद् अहम् इमं नाथं भर्त्तारं पुरुषं प्रभुं // rm_3.30{30} //
सद्धर्मसुखसंप्राप्त्यै प्रेरयेयं धनार्जने / धनवान् पुरुषो लोके सर्वार्थसाधने कृती // rm_3.31{31} //
धर्मार्थकाममोक्षाणां मूलं प्राहुर् धनं बुधाः / भर्तुर् हि पुरुषस्यापि त्रिवर्गकार्य्यसाधने // rm_3.32{32} //
सहायः कथ्यते प्राज्ञैः सती भार्य्यानुचारिणी / अस्य भर्तुर् ह्य् अहं भर्य्या सती धर्मार्थसाधने // rm_3.33{33} // मनः प्रोत्साहितं कृत्वा प्रेरयेयं धनार्जने // rm_3.34{34!} // इति निश्चित्य सा साध्वी दृष्ट्वा भर्त्तारम् आदरात् / धर्मार्थसाधने चैवं प्रोत्साहयितुम् अब्रवीत् // rm_3.35{34!} //
स्वामि भर्त्तासि मे नाथो देवतापि त्वम् एव हि / तन् मया वक्ष्यते तथ्यं परत्रेह सुखाय ते // rm_3.36{35} // तथ्यं च तच्छृणुष्वैवम् अन्यथा चेत् तु मा कुरु // rm_3.37{36} // यद् भवान् पुरुसः प्राढ्यः सार्थवाहो वणिक् प्रभुः / सदा भोग्यानि भुक्त्वैव स्थित्वा नैवं प्रशोभति // rm_3.38{37} //
तत् प्रमादं परित्यक्त्वा यशोधर्मसुखाप्तये / सत्यधर्मानुसारेण कुरुष्व धनसाधनं // rm_3.39{38} //
धनेन साधयेद् भोग्यं भोग्येन पालयेत् तनुं / देहेन साधयेद् धर्मं धर्मेण सत्सुखं लभेत् // rm_3.40{39} //
किं च यत्र गृहे स्वामी व्यवहारनिरुद्यमः / तत्र सर्वे जनाश् चापि निषत्स्यंत्य् अवसादिनः // rm_3.41{40} //
अपि यत्र गृहे स्वामी व्यवहारसमुद्यतः / तत्र सर्वे जनाश् चैव प्रचरेयुः समुद्यमाः // rm_3.42{41} //
यच् च दानमहोत्साहं यत्र गेहे न विद्यते / स किं गेहो न रम्यः स्याच् छून्यारण्ये श्मशानवत् // rm_3.43{41!} //
यस्मिन् गृहे सदा नित्यं दानपुण्यमहोत्सवं / स एव मन्दिरो रम्यस्वर्गवत् प्रतिभास्यते // rm_3.44{42} //
यस्मिंश् चापि गृहस्थो हि दानपुण्यनिरुत्सहः / स्वयम् एव प्रभुक्त्वैवं वसते पशुवत् स किं // rm_3.45{43} //
धन्यास् ते पुरुषा वीरा यशोधर्मसुखान्विताः / कृत्वा दानवृषोत्साहं सुखं भुक्त्वा वसंति ये // rm_3.46{44} //
तेषाम् एव हि संसारे सुसारं जीवितं खलु / ये कृत्वा दानपुण्यानि स्वयं सौख्यं च भुंजते // rm_3.47{45} //
दानेनैव हि लोभ्यंते यशोधर्मसुखानि च / अन्यथा नैव लप्स्यन्ते ततः संपन् निरर्थिता // rm_3.48{46} //
कियत् कालं च जीवेयुर् ये भुक्त्वैव सुखं स्थिताः / अवश्यं सर्वशो हित्वा मृता यायुर् यमालयं // rm_3.49{47} //
तत्र कर्मसहायांस् तान् दृष्ट्वा धर्माधिपो यमः / निर्णयित्वा च तत् कर्म प्रेरयेत् कर्मभुक्तये // rm_3.50{48} //
ये च पापकरा दुष्टा प्रेरयेत् तान् तु दुर्गतौ / ये तु पुण्यकरा भद्राः प्रेरयेत् तांश् च सद्गतौ // rm_3.51{49} //
तत्र कर्मफलान्य् एवं दुःखानि च / सुखानि च सर्वथेह परत्रापि भुंजते सर्वजांतवः // rm_3.52{50} //
शुभेन सद्गतिं ययाद् यशोधर्मसुखान्विताः / पापेन दुर्गतिं यायाद् धिक्प्रवादासुखान्विताः // rm_3.53{51} //
एवं मत्वा प्रभो स्वामिन् यशोधर्मसुखाप्तये / स्वकुलवृत्तिम् आधाय प्रोद्यमस्व धनार्जने // rm_3.54{52} //
सदा दानमहोत्साहं कृत्वा सद्गतिलब्धये / यथेछया सुखं भुक्त्वा पालयस्व सदा जनान् // rm_3.55{53} //
ततस् ते मंगलं नित्यं भवेद् इह परत्र च / सफलं मानुषं जन्म नूनं सद्गतिम् आप्नुयात् // rm_3.56{54} //
इति भार्यावचः श्रुत्वा स गृहस्थो वणिक् सुधीः / भार्यां तां वल्लभां कान्तां दृष्ट्वा चैवं समब्रवीत् // rm_3.57{55} //
अयि प्रिये सुभद्रासि मम भार्यानुचारिणी / यत् त्वया भाषितं सत्यं तत् करिष्यामि सर्वथा // rm_3.58{56} //
किं तु त्वं मे प्रिया भार्या वल्लभातिमनोहरा / तत् कथं त्वां प्रियां त्यक्त्वा कुत्र यास्ये धनार्थतः // rm_3.59{57} //
सार्थवाहो ह्य् अहं चापि तत् कथं नीचवृत्तिभिः / रत्नार्जनं करिष्यामि ततो रत्नाकरं व्रजे // rm_3.60{58} //
तस्मात् प्रिये सुभद्रांगी सति धर्मानुचारिणी / गृहकार्य्यं समाधार्य्य वस भुक्त्वा यथासुखं // rm_3.61{59} //
यावन् नाहं गृहे प्राप्तस् तावद् धैर्य्यं समाश्रय / शीघ्रम् एवागमिष्यामि मं स्मृत्वा मान्वतप्यथाः // rm_3.62{60} //
इति भर्त्तोदितं श्रुत्वा सा च भार्यानुतापिता / गलदश्रुमुखी नत्वा स्वामिनं तम् अभाषत // rm_3.63{61} //
हे नाथ सुप्रिय स्वामिन् मां विहाय कथं व्रजेः / त्वया विना कथं गेहे तिष्ठेयाहं यथा वने // rm_3.64{62} //
दर्शने श्रवणे वापि गंधतैलानुलेपने / स्पर्शने भोजने पाने सुवस्त्रपरिभूषणे // rm_3.65{63} //
सौरभ्या ऽङ्गने चापि भाषने गमने क्वचित् / निद्राभोगे तथा नैव विद्येत मे ऽभिलाषता // rm_3.66{64} //
तवैव स्मरणं कृत्वा निःश्वसन्ती मुहुर् मुहुः / विरहानलसंतप्ता व्रजेयं मरणं ध्रुवं // rm_3.67{65} //
मृतायां मयि ते गेहे को ऽनुरक्षेन् नु संपदः / श्रुत्वा मे मरणं नूनं धक्ष्यसे विरहानलैः // rm_3.68{66} //
तदैताभिश् च संपत्तिरत्नैश् च किं करिष्यसि / अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्यति // rm_3.69{67} //
तदात्मना विखिद्यैवं दूरं मा गा विहायतां / गृहे स्थित्वा मया सार्द्धां सुखं भुक्त्वोद्यमं कुरु // rm_3.70{68} //
अत्रापि बहवः सन्ति वणिक्संघा महाजनाः / पण्यं प्रसार्य्य तं सार्द्धं साधयस्व धनं सुखं // rm_3.71{69} //
कियत् कालं च जीवेव सन्ततिश् च न विद्यते / तत् किं नौ बहुभी रत्नैर् मा गा रत्नाकरं ह्य् अतः // rm_3.72{70} //
यावज्जीवं सुखं भुक्त्वा दानं कृत्वा सदार्थिने / संवृत्या प्रार्जय द्रव्यं स्वगेहे संस्थितो रम // rm_3.73{71} //
मा धाव प्रिय कुत्रापि किं वा रत्नाकरे लभेत् / स्वगृहे ऽपि लभेज् जन्तुः स्वकर्मनिर्मितं धनं // rm_3.74{72} //
स्वकृतं कर्म तद् भावि निर्माणसदृशं फलं / सर्वत्रापि लभन्त्य् एव महान्तः क्षुद्रिका अपि // rm_3.75{73} //
तथा ये सुजना लोके सधना सद्गुणाश्रयाः / ते ऽपि क्षणाद् भवन्त्य् एव निर्धना भिक्षुताश्रिताः // rm_3.76{74} //
ये चापि दुर्जना लोके निर्धना निर्गुणाश् च ये / ते ऽपि लभन्ति मान्यार्हं सेव्यन्ते चापि सज्जनैः // rm_3.77{75} //
तथा ये वणिजो धीराः सार्थवाहा मणीछया / रत्नाकरं गतास् तेषां के चित् स्वस्तिसमागताः // rm_3.78{76} //
के चित् तत्र समुद्रे वा भग्ननौका धनैः सह / पतिताः सन्निमज्जन्ता मृताश् च विलयं गताः // rm_3.79{77} //
के चिद् वीर्यबलेनैवैः समुत्तीर्य प्रयत्नतः / अकिंचन्याः परिभ्रष्टा रिक्तहस्ता गृहागताः / एवं सर्वे ऽपि सत्वाश् च स्वकृतकर्मनिर्मितं / फलं भुक्त्वा भ्रमन्त्य् एवं संसारे षड्गतिष्व् अपि // rm_3.80{78} //
इति कर्मप्रमाणत्वं ज्ञात्वा संपद्विपत्तिता / मा खेदय स्वम् आत्मानं धर्मं कृत्वा सुखं वस // rm_3.81{79} //
तथा नौ मंगलं नित्यं सर्वत्रापि भवेत् खलु / यावज्जीवं सुखं भुक्त्वा सद्गतिं च व्रजेमहि // rm_3.82{80} //
इति भार्योदितं श्रुत्वा सार्थवाहात्मजः स च / तं प्रियां रमणीं भार्य्यां दृष्ट्वैवं समभाषत // rm_3.83{81} //
भद्रे सत्यं त्वं या प्रोक्तं यत् स्वकर्मप्रमानता / इति मत्वाहम् इछामि गन्तुं रत्नाकरे ऽपि हि // rm_3.84{82} //
यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा / सर्वत्रापि भवेन् नूनं तेनाब्धिं गन्तुम् ईह्यते // rm_3.85{83} //
यदि भाग्यं ममास्त्य् एवं स्वस्ति स्याद् गमने खलु / रत्नानि बहुशो लब्धा प्रत्यागछेय सिद्धिताः // rm_3.86{84} //
अथ मे भाग्यता नैव नूनं तत्र विपत्तिता / महत्तीर्थे निमग्नो ऽहं मृतो यास्ये सुरालयं // rm_3.87{85} //
यथा भट्टा महावीरा यशोधर्मसुखाप्तये / शत्रुं जेतुं महोत्साहैर् विशन्ति रणमण्डले // rm_3.88{86} //
तत्र के चिद् धता वीरा यशोधर्मान्विता मृताः / सहसा ते प्रयान्त्य् एवं स्वर्गसौख्यानुभोगिनः // rm_3.89{87} //
अहम् अपि वणिक्पुत्रः सार्थवाहात्मजो ह्य् अहं / तत् तथाहं गंइष्यामि रत्नाकरं न चान्यतः // rm_3.90{88} //
यदि स्वस्ति गृहं प्राप्स्ये यशोरत्नसुखान्वितः / मृतो ऽथ निर्मलीभूत्वा स्वर्गे सौख्यम् अवाप्नुयां // rm_3.91{89} //
इति मत्वा प्रिये भद्रे मा विषीद सुखां वस / यावन् नाहं गृहं प्राप्तस् तावद् भजेष्टदेवतां // rm_3.92{90} //
सर्वथाहं गमिष्यामि स्वकुलकीर्तिलब्धये / अनिवर्त्ती ह्य् अहं कार्य्ये तन् मां त्वं मा निवारय // rm_3.93{91} //
इति भर्त्तुर् वचः श्रुत्वा निर्बन्धं गमनं प्रति / सा सती तं स्वभर्त्तारं नत्वा प्राह कृतांजलिः // rm_3.94{92} //
स्वामिंस् त्वं सर्वथा गन्तुं यदीछसि महाम्बुधिं / धैर्य्यम् आलम्व्य संपश्यन् मार्गे व्रज समाहितः // rm_3.95{93} //
स्वस्ति ते व्रजतो मार्गे सर्वत्रापि दिवानिशं / स्वस्ति प्रत्यागते चैवं भूयान् नित्यं शुभं सदा // rm_3.96{94} //
यात्रासिद्धिमहासंपद्यशोधर्मसुखान्वितः / स्वस्ति शीघ्रं समागछ व्रजा ते ऽस्तु सदा शिवं // rm_3.97{95} //
इति भार्योदितं श्रुत्वा सार्थवाहस् तथेति सः / प्रतिज्ञाय वंक्संघान् सर्वान् आहूय चाब्रवीत् // rm_3.98{96} //
भवन्तो ऽहं समिछामि योशोधर्मसुखाप्तये / स्वकुलवृत्तिम् आधाय गन्तुं रत्नाकरांबुधौ // rm_3.99{97} //
तत्र गन्तुं मया सार्द्धं यदि यूयं समिछथ / तत् पण्यं सहसादाय समायात चरेमहि // rm_3.100{98} //
इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा / सहसा पण्यम् आदाय तत्र गन्तुम् उपाक्रमन् // rm_3.101{99} //
अथ सार्थपतिः शीघ्रं तैश् च पंचशतैः सह / स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः // rm_3.102{100} //
ततः क्रमाद् अतिक्रम्य ग्रामजनपदानि ते / विलंघ्यारण्यदेशांश् च तीरं प्रापुर् महोदधेः // rm_3.103{1} //
ततो नावं समारुह्य तानि पंचशतानि च / प्रवितत्य ध्वजं शुभ्रं जगाहिरे ऽम्बुधौ क्रमात् // rm_3.104{2} //
तथा ते वहनारूढा वातानुकूलतो ध्रुवं / क्रमाद् द्वीपांश् च लंघित्वा रत्नाकरं समाययुः // rm_3.105{3} //
तत्र रत्नाकरं प्राप्ता देवता सुप्रमोदतः / ते मिथः कलहं कृत्वा प्रत्यागंतुं न शेकिरे // rm_3.106{4} //
चिरम् एवं विरोधित्वाद् रत्नानि च न लेभिरे / बांधवांश् च मुहुः स्मृत्वा तस्थुः सर्वे विलंविताः // rm_3.107{5} //
अत्रांतरे च सा नारी सार्थवाहप्रिया सती / भर्त्त्रा विना गृहं शून्यम् अमन्यत निरुत्सवात् // rm_3.108{6} //
यद् दिने प्रस्थितो भर्ता सार्थवाहः पुराद् वहिः / तद् दिनारभ्य सा नारी गणयन्ती दिनं प्रति // rm_3.109{7} //
भर्त्तुर् एव मुहुः स्मृत्वा विरहवेदनातुरा / निःश्वसन्ती मुहुश् चैवम् अधैर्य्या परितापिनी // rm_3.110{8} //
कृशाङ्गा पाण्डुवर्णा च विरुक्षाकीर्णकेशिनी / प्रसाधनानभीछन्ती मलिनवसनावृता // rm_3.111{9} //
दर्शनश्रवणे चापि गंधान्वाहरणे ऽपि च / भोजनेष्व् अपि पाने च स्पर्शने गमनेष्व् अपि // rm_3.112{10} //
कुतूहरे तथान्यत्र मनोरमे ऽपि चाद्भुते / सर्वत्र विषयेष्व् एवं न प्रोत्सहे यथातुरा // rm_3.113{11} //
भर्त्तुर् वियोगदुःखार्त्ता रोगिनीव विषादिनी / असह्यमदनाक्रान्ता धैर्य्योपायविचेतना // rm_3.114{12} //
भर्तुर् आगतिम् आलम्ब्य क्षणं धैर्य्यसमाश्रिता / भर्तारम् एव संस्मृत्वा गृह एव न्यषीदत // rm_3.115{13} //
न निद्रां शयने भेजे नान्यस्मृतौ मनो ऽनुदत् / प्रभुम् एवं समाध्यात्वा तस्थौ ध्यायीव योगवित् // rm_3.116{14} //
अथैवं विकलीभूतां यौवनीं तां पतिव्रतां / काचिद् एका सखी भद्रा संनिरीक्ष्याब्रवीद् रहः // rm_3.117{15} //
भद्रे किन् ते विषाद त्वं विभासि त्वैः यथातुरा / मा विषीद यद् अर्थन् ते तद् वदस्व मयि प्रिये // rm_3.118{16} //
कथं नोत्सहसे भद्रे स्वकुलधर्मचारिणि / कौतुके चाद्भुते चापि सर्वत्र विषयेष्व् अपि // rm_3.119{17} //
भोजने भूषणे चापि द्रष्टुं श्रोतुं न वांछसि / किं विषादेन सिद्धं ते तत् प्रभुक्ष्व यथासुखं // rm_3.120{18} //
इति तयोदिते सख्या सार्थवाहप्रियापि स / तां सखीं प्रमदां कान्तां दृष्ट्वा चैवम् अभाषत // rm_3.121{19} //
नाहं भोगार्थिनी भद्रे नापि कामातिरागिणी / किं तु धर्मानुरक्तास्मि तत् कथं स्वामिनं विना // rm_3.122{20} //
तेनाहं विषयां त्यक्त्वा स्मृत्वा भर्त्तारम् एव तं / स्वागार एव तिष्ठामि भोग्येष्व् अपि च निस्पृहा // rm_3.123{21} //
कदा स मे प्रियो भर्त्ता गृहे प्रत्यासरिष्यति / इति चिंतां समाधाय तिष्ठामि योगिनी यथा // rm_3.124{22} //
यावच् च स प्रियः स्वामी नायाति स्वगृहं प्रति / तावद् एवं न भोक्ष्ये ऽहं भोग्यानि सुरसान्य् अपि // rm_3.125{23} //
विषयेष्व् अपि सर्वेषु न मे वांछा प्रियं विना / नान्यच्चिंता च मे चित्ते तस्माद् एवं स्थिता सदा // rm_3.126{24} //
यावत् स्वामी न मे दृष्टस् तावत् स्थास्याम्य् अहं तथा / अपि मे जिवितं यातु न च यायां गृहाद् बहिः // rm_3.127{25} //
स्त्रीणां हि देवता स्वामी धर्मो ऽपि भर्तृसेवया / तस्मात् स्मृत्वैव भर्त्तारं भाजाम्य् अहं पतिव्रता // rm_3.128{26} //
कुत्र धर्मं चरिष्यामि यस्या नास्ति गृहे पुमान् / तत् मनसैव भर्त्तारं ध्यात्वा भजे दिवानिशं // rm_3.129{27} //
धिग् मे जन्म निरर्थं स्याद् यस्या न यौवने पतिः / वृद्धत्वे किं करिष्यामि स्वामिना च धनैर् अपि // rm_3.130{28} //
वरम् एवाद्य मे मृत्युर् न मिथ्या चिरजीवितं / यस्माच् चिरम् अपि स्थित्वा मृत्युदुःखं तद् एव हि // rm_3.131{29} //
यम् एवालंव्य जीवामि स यदि नागमिष्यति / किम् एव जीवितेनापि केवलदुःखभाविना // rm_3.132{30} //
धन्यास् ता हि स्त्रियो भद्राः स्वस्वामिसहचारिकाः / कृत्वा धर्मं सदा गेहे सौख्यं भुक्त्वा वसन्ति याः // rm_3.133{31} //
मा भूत् तु मादृशि काचिद् अभद्रा दुःखभागिनी / सम्यग्भोग्यैश् च किं तस्या यस्या भर्त्ता न यौवने // rm_3.134{32} //
तथापि किं करिष्यामि नार्य्य् अहं हि पतिव्रता / तस्मात् तम् एव भर्त्तारं स्मृत्वा स्थास्यामि सर्वदा // rm_3.135{33} //
इति तयोदितं श्रुत्वा सा सखी हितकारिणी / तदुपायहितं कर्तुं तां सखीं च समब्रवीत् // rm_3.136{34} //
भद्रे सत्यं त्वया प्रोक्तं स्त्रीणां हि देवता पतिः / तथापि वक्ष्यते भद्रे तव प्रीत्या च तच् छृणु // rm_3.137{35} //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
