Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

रत्नमालावदान

Thông tin
GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

यावन् निवसते गेहे भर्ता कामरसारतः / तावत् स्त्री सेवयेन् नित्यं धर्मं भर्तुर् अनुज्ञया // rm_3.138{36} //

यदा भर्त्ता गृहे न स्याद् दूरदेशं गतस् तथा / यावद् गृहं न चायातस् तावद् देवं भजेत् पतिः // rm_3.139{37} //

पतेस् ते देवतास्माकं विष्णुर् नारायणो हरिः / तस्माद् एनं प्रभोर् नाम्ना स्मृत्वा नित्यं भजार्चय // rm_3.140{38} //

स एव कामदो देवः कामधात्वीश्वराधिपः / संसारस्थितिधर्मस्थो रतिभोग्यसुखप्रदः // rm_3.141{39} //

तस्यैव ह्य् अनुभावेन प्रेर्य्यमानो मनो भुवाः / भर्त्ता ते सहसा प्रायात् स्वस्ति रत्नैश् च संयुतः // rm_3.142{40} //

ततस् ते सफलं जन्म संसारे प्रभुना सह / दानं कृत्वा सुखं भुक्त्वा यावज्जीवं सुखं वस // rm_3.143{41} //

एवं सख्योदितं श्रुत्वा रमणी सा पतिव्रता / तथेति प्रतिसंश्रुत्य पुनस् ताम् अवदत् सखीं // rm_3.144{42} //

सत्यं भद्रे यथा प्रोक्तं त्वया मे हितकारणं / तथाहं संभजिष्यामि स्मृत्वा नाम्ना प्रभोर् हरिं // rm_3.145{43} //

यथा स्वस्ति समायातः स्वामी रत्नसमृद्धिभृत् / तदा ह्य् एकं सुवर्णस्य चक्रं दास्यामि विष्णवे // rm_3.146{44} // इत्य् एवं सा प्रतिज्ञाय विष्णुम् एवं समस्मरत् // rm_3.147{45} // नमस् ते भगवन् विष्णो हरे नारायण प्रभो / प्रसीद पश्य मां नारीं प्रभुं च प्रापयाशु मे // rm_3.148{46} //

यदा मे पुरुषो भर्त्ता स्वस्ति गेहसमागतः / तदोपढौकयिष्यामि स्वर्णचक्रं हरे तव // rm_3.149{47} //

इति सख्याः पुरः प्रोक्त्वा स्मृत्वा नित्यं हरिं मुदा / स्वर्णचक्रं च संकल्प्य तस्थौ भर्तुः स्मरन्ति स // rm_3.150{48} //

तदैव सार्थवाहो ऽसौ सर्वसार्थगणैः सह / बहुरत्नानि संगृह्य प्रतस्थे सहसा ततः // rm_3.151{49} //

ततः स्वस्ति समुत्तीर्य्य महोदधेस् तदागतः / सर्वसार्थगणैः सार्द्धं सहसा गृहम् आययौ // rm_3.152{50} //

ततस् तं गृहसंप्राप्तं दृष्ट्वा सा नंदिता सती / पादौ नत्वा पुरः स्थित्वा स्वं प्रवृत्तम् अभाषत // rm_3.153{51} //

स्वामिन् यदा भवान् गेहात् प्रस्थितो मां विहाय च / तदारभ्य सदा स्मृत्वा त्वाम् एवास्मि स्थिता गृहे // rm_3.154{52} //

तदाहम् अनया सख्या दृष्ट्वा त्वद्विरहातुरा / तद् दुःखं मे विनोदार्थं प्रेरिता स्मरणे हरेः // rm_3.155{53} //

तदारभ्य सदा नित्यं स्मृत्वा तवेष्टदेवतां / भजामि सततं भक्त्या तवाशु गमनार्थिनी // rm_3.156{54} //

चक्रं एकं सुवर्णस्य संकल्प्य श्रद्धया मया / प्रार्थनापि कृता नित्यं तव यात्राप्रसिद्धये // rm_3.157{55} //

यथा मे प्रार्थितं सर्वं तथा सिद्धं हि सांप्रतं / तन् मे संकल्पितं देव पूरयेयं तथा प्रभो // rm_3.158{56} //

तत् पूजांगं समादाय शक्रं समुपढोकितुं / देवकुलं गमिष्यामि तद् अनुज्ञां प्रदेहि मे // rm_3.159{57} //

इति भार्योदितं श्रुत्वा सार्थवाहो ऽनुमोदितः / पूरय त्वं प्रिये सत्यं गच्छेत्य् एवम् अभाषत // rm_3.160{58} //

ततः सानुज्ञया भर्तुः सती सार्द्धं सखीजनैः / पूजांगानि च तं चक्रं धृत्वा देवकुलं ययौ // rm_3.161{59} //

तस्मिं क्षणे स संबुद्धो भगवान् करुणामयः / लोके सत्वान् समुद्धर्तुम् अपश्यद् बुद्धचक्षुषा // rm_3.162{60} //

ताम् एवं प्रस्थितां दृष्ट्वा भद्रां सद्धर्मचारिणीं / प्रैक्षच् च भगवान् एनां प्रत्येकबोधिलाभिनीं // rm_3.163{61} //

ततो ऽसौ भगवान् बुद्धः संनिरीक्ष्य च तां सतीं / सर्वान् भिक्षुगणां छिष्यान् समामंत्र्याब्रवीत् तथा // rm_3.164{62} //

पश्यध्वं भिक्षवो यूयं दारिकं तां सुभद्रिकां / नूनं मद्दर्शनाद् एषा बोधिचित्तम् अवाप्नुयात् // rm_3.165{63} //

सम्यक्कुशलमूलानि समवरोपयिष्यति / ध्रुवं प्रत्येकबोधौ च प्रणिधानं करिष्यति // rm_3.166{64} //

तस्मात् संदर्शनं दत्वा दारिकां तां सुभाविनीं / प्रत्येकबोधिचर्यायां सुप्रतिस्थापयाम्य् अहं // rm_3.167{65} //

तत्र च गन्तुम् इछन्ति ये मया सह भिक्षवः / पात्रचीवरम् आदाय ते प्रायातं चरेमहि // rm_3.168{66} //

इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः / पात्रचीवरसंयुक्तास् तत्र गंतुम् उपाचरन् // rm_3.169{67} //

ततो ऽसौ भगवान् बुद्धः स्वप्रभावं प्रदर्शयन् / सर्वैश् च सांघिकैः सार्द्धं राजगृहम् उपासरत् // rm_3.170{68} //

तत्र मार्गे समायाता दारिका ससखीवृता / तं बुद्धं श्रीघनं दूराद् ददर्श संप्रभास्वरं // rm_3.171{69} //

द्वात्रिंशल्लक्षणोपेतम् अशीतिव्यंजनान्वितं / दिव्यातिक्रान्तसौन्दर्य्यं समन्तभद्ररूपकं // rm_3.172{70} //

सहस्रेणातिरिक्ताभं सौम्यं कान्तं मनोहरं / पुण्डरीकम् इवोद्भासं रत्नाङ्गम् इव जंगमं // rm_3.173{71} //

साक्षात् पुण्यावतारं च दृष्ट्वा चात्यनुमोदिता / सहसोपेत्य तच् चक्रम् उपढौकितुम् ऐछत // rm_3.174{72} //

एवं तां चक्रम् आदाय संबुद्धम् उपढौकितुं / प्रयातं तां सखी दृष्ट्वा निवारयितुम् अब्रवीत् // rm_3.175{73} //

नायं नारायणो भद्रे सुगतो ऽयं जितेन्द्रियः / तद् अस्मै मा प्रदेहीदं चक्रं संकल्पितं हरेः // rm_3.176{74} //

एवं निवार्य्यमानापि सखीभिः सा च भद्रिका / सद्धर्मगुणवांछन्ती ताः सखीः पुनर् अब्रवीत् // rm_3.177{175} //

सख्यो भाग्यान् मयाप्य् एवं संबुद्धो दृश्यते ऽधुना / तद् अद्य सफलं जन्म संसारे जीवितं च मे // rm_3.178{76} //

यदाभास्पर्शिता चापि सत्वाः क्लेशविमोचिताः / संवृत्तिसुखसंप्राप्ता निर्वृत्तिम् अपि चाप्नुयुः // rm_3.179{77} //

यन्नामोच्चारणाद् वापि संभाव्यस्मरणाद् अपि / मारपाशविनिर्मुक्ताः संबोधिपदम् आप्नुयुः // rm_3.180{78} //

यद्धर्मश्रवणाद् एवं नित्यानुमोदनाद् अपि / सर्वपापविनिर्मुक्ताः सद्गतिं समवाप्नुयुः // rm_3.181{79} //

यत्संघेषु सुपात्रेषु किंचिन्मात्रार्प्पनाद् अपि / संसारे ऽनन्तसौख्यानि भुक्त्वा यायुः सुखावतीं // rm_3.182{80} //

येनैवं पालिताः सत्वाः षड्गतिचरिता अपि / बोधयित्वा च सद्धर्मे स्थापिता निर्वृताव् अपि // rm_3.183{81} //

यस्य धर्मानुभावाच् च मंगलं भुवनत्रये / सर्वे सत्वा सुखाढ्याश् च संबोधिपदचारिणः // rm_3.184{82} //

सो ऽप्य् अयं भगवान् नाथः शास्ता त्रैलोक्याधिपः / नूनं मे पुण्यभाग्येन दृश्यते ऽयत्नतो ऽधुना // rm_3.185{83} //

तद् अहं कुशलिनी स्यां हि संबुद्धेन दर्शिता / महाभाग्यवती चास्मि यद् अयं सद्गुरुः सुधीः // rm_3.186{84} //

अमृग्यमान एवेत्थं लभ्यते पुरतो मया / तद् अहं पूजयित्वेमं चक्रं च समुपढौकितुं // rm_3.187{85} //

इछाम्य् अस्मै मुनींद्राय निर्वृतिपदलब्धये / अपि चात्र सदा नैव संबुद्धो लप्स्यते तथा // rm_3.188{86} //

कदा चिद् धि जिनोत्पत्तिः पुष्पम् औदुन्वरं यथा / मानुष्ये ऽपि सदा नैव जन्म भवानुचारिणां / पुण्यैर् एव हि मानुष्यं लप्ष्यते जन्म दुल्लभं // rm_3.189{87} //

मानुष्ये ऽलभ्यमाने तु कथं बुद्धानुसेवना / बुद्धसेवां विना केन बोधिचित्तम् अवाप्नुयात् // rm_3.190{88} //

बोधिचित्तं विना कस्य सद्धर्मेषु मतिश् चरेत् / विना धर्ममतिं को हि बोधिचर्य्यां समाचरेत् // rm_3.191{89} //

बोधिचर्यां विना लोके हितं कर्तुं कथं चरेत् / लोके हितम् अकृत्वैव कुतः पुण्यम् अवाप्नुयात् // rm_3.192{90} //

अपुण्येन कथं क्लेशान् हित्वा निर्वृतिम् आप्नुयात् / तस्मात् क्लेशविमुक्त्यर्थं निर्वृत्तिपदलब्धये // rm_3.193{91} //

इमं बुद्धं जगन्नाथम् इछाम्य् अभ्यर्चितुं मुदा / बुद्ध एव जगन्नाथः सर्वसत्वहितार्थदः // rm_3.194{92} //

सद्धर्मदेशकः शास्ता संबोधिज्ञाननायकः / तस्माद् एनं समुत्सृज्य नान्यम् इछामि चार्चितुं // rm_3.195{93} // अस्यैव शरणं गत्वा भजिष्यामि सदाप्य् अहं // rm_3.196{94} // इति सा दारिका प्रोक्त्वा चक्रम् आदाय मोदिता / संबुद्धं चार्प्पितुं तस्मै पूजां कर्तुम् उपाययौ // rm_3.197{95} //

अथ सा तं मुनिं नत्वा पूजाभिश् च समर्चयत् / तं चक्रं समुपस्थाप्य नत्वैवं प्रणिधिं व्यधात् // rm_3.198{96} //

यथायं सुगतो बुद्धो निःक्लेशो विजितेन्द्रियः / तथाहम् अपि शुद्धात्मा निर्वृतिपदम् आप्नुयां // rm_3.199{97} //

तथासौ भगवान् बुद्धो दृष्ट्वा तत्प्रणिधिं ततः / सुप्रसन्नमुखाम्भोजाद् व्यसृजत् संस्मितामृतं // rm_3.200{98} //

तत्स्मितसहोच्चार्यमाणा पंचविधांशवः / के चिद् ऊर्द्ध्वं गताः के चिद् अधो याताश् च ते ऽंशवः // rm_3.201{99} //

ये च याता अधोलोके ते संजीवनरके गताः / कालसूत्रे च संघाते तथा च रौरवे ततः // rm_3.202{100} //

महारौरवके चापि तपने च प्रतापने / अवीचौ चार्बुदे चापि निरर्बुदे तथाटटे // rm_3.203{1} //

हहवे हुहुवे चैवम् उत्पले पद्मके तथा / महापद्मे ऽपि चैतेषु षोडशेषु समंततः // rm_3.204{2} //

तथोपनारकेष्व् एवं सर्वेष्व् अपि च ते ऽंशवः / प्रसृता भासयित्वैवं प्राकाशयन् समंततः // rm_3.205{3} //

ये शीतनरकास् तेषु तूष्णीभूता निपातिताः / ये उष्णनरकास् तेषु शीतीभूता व्यभासयन् // rm_3.206{4} //

तेषु ये पापिनः सत्वा दुःखातिवेदनातुराः / ते सर्वे तद्द्युतिस्पृष्टास् तद्दुःखवेदनोज्झिताः // rm_3.207{5} //

शांतसौख्यानुभूताश् च विस्मयोद्धतमानसाः / दृष्ट्वैव सह संमील्य मिथश् चैवम् अभाषत // rm_3.208{6} //

अहो चित्रं भवन्तो ऽद्य किं नु वयम् इतश् च्युताः / अन्यत्र चरिताः स्मः किं वताहोस्विन् न मन्यते // rm_3.209{7} //

इति संदिग्धचित्तानां तेषां चित्तप्रबोधने / भगवान् निर्मितं तत्र प्रैषयच् च समंततः // rm_3.210{8} //

अथ तं निर्मितं सौम्यं दृष्ट्वा ते संप्रसादिताः / भूयो दृष्ट्वाभिमोदन्तो मिथश् चैवं वभाषिरे // rm_3.211{9} //

भवन्तो नु वयं सर्वे नान्यत्र चरिता इतः / अपि त्व् अयम् इहायातः सत्वो ह्य् अपूर्वदर्शनः // rm_3.212{10} //

नूनम् अस्यानुभावेन निर्दुःखा सुसुखा वयं / इति ते निर्मिते तस्मिन् बौद्धे चित्तं प्रसाद्य च // rm_3.213{11} //

नमो बुद्धाय ते तायिन्न् इत्य् उक्त्वा शरणं ययुः / ततः सर्वे च ते सत्वास् तद्बुद्धस्मृतिधारिणः // rm_3.214{12} //

निःपापाः कुशलाध्याश् च सद्गतिं सहसा ययुः / ये तथोर्द्धं गतास् ते च बुद्धस्मितोत्सृताः कराः // rm_3.215{13} //

गत्वा चातुर्महाराजभुवनेषु ततो गताः / त्रयस्त्रिंशाश् च यामाश् च तथा च तुषितां गताः // rm_3.216{14} //

निर्माणरतिकां चान्यनिर्मितवशवर्त्तिनः / ब्रह्मकायिकलोकं च तथा ब्रह्मप्रोहितं // rm_3.217{15} //

महाब्राह्मणलोकांश् च परीत्ताभं तथा गताः / अप्रमाणं ततो याता आभास्वरां तथा गताः // rm_3.218{16} //

परीत्तशुभम् एवं च ह्य् अप्रमाणशुभं तथा / शुभकृत्स्नम् अनभ्रं च पुण्यप्रसवसंज्ञिकं // rm_3.219{17} //

बृहत्फलं तथा चैवम् अबृहम् अतपं तथा / सुदृशं भुवनं चैव सुदर्शनं तथा गताः // rm_3.220{18} // अकनिष्ठं तथा गत्वा प्रोच्चैर् एवम् अघोषयन् // rm_3.221{19} // अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं / इति मत्वा त्रिरत्नानि संभजध्वं समाहिताः // rm_3.222{20} //

निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने / धुनीत मृत्युसैन्याश् च नडागारं यथा करी // rm_3.223{21} //

यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरिष्यति / स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति // rm_3.224{22} //

एवं ता अर्चिषः सर्वांल् लोकधातून् समंततः / अवभास्य शुभे सत्वान् विनीय पुनर् आगताः // rm_3.225{23} //

भगवतो ऽग्रतः स्थित्वा कृत्वा प्रदक्षिणत्रयं / ऊर्णायां च मुनीन्द्रस्य सर्वा अन्तर्दधुस् त्विषः // rm_3.226{24} //

तदानन्दः समुत्थाय कृतांजलिपुटो नतः / जानुभ्यां भुवि संस्थित्वा भगवन्तं समब्रवीत् // rm_3.227{25} //

नानारङ्गकलापस् ते वक्त्रान् निष्कसितो मुनेः / येनावभासिताः सर्वा सूर्येणोदयता यथा // rm_3.228{26} //

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणं शंखमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः // rm_3.229{27} //

तत्कालं स्वयम् अधिगम्य धीरबुद्ध्या श्रोतॄणां श्रमणजिनेन्द्र कांक्षितानां / धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः // rm_3.230{28} //

नाकस्माल् लवणजलाद्रिराजधैर्य्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति जनौघाः // rm_3.231{29} //

इत्य् आनंदवचः श्रुत्वा संबुद्धो भगवान् असौ / तत् स्मितहेतुम् आदेष्टुं तम् आनन्दं समब्रवीत् // rm_3.232{30} //

एवम् एतत् तथानन्द नाहेत्वप्रत्ययं स्मितं / प्राविष्कुर्वन्ति संबुद्धा अर्हन्तः सुगता जिनाः // rm_3.233{31} //

पश्यानन्दानया नार्य्या चक्रं मे समुपार्प्पितं / पूजयित्वा प्रणत्वा च बोधौ च प्रणिधिः कृता // rm_3.234{32} //

अनेन दानधर्मेण कुशलैश् च समन्विताः / दारिकेयं सुभद्रांशा दिव्यभोग्यं समाप्नुयात् // rm_3.235{33} //

न पंचदशकल्पानि विनिपातं गमिष्यति / ततश् चक्रान्तरो नाम प्रत्येकसुगतो सुधीः // rm_3.236{34} //

अर्हं क्लेशविमुक्तात्मा पंचाभिज्ञो जितेन्द्रियः / सर्वसत्वानुकंपी च ब्रह्मचारी भविष्यति // rm_3.237{35} //

यन् मयि सुगते बुद्धे चित्तम् अस्याः प्रसीदति / तेन पुण्यबलेनेयं प्रत्येकबोधिम् आप्स्यति // rm_3.238{36} //

सुगतेषु कृतं पुण्यं न क्षिणोति कदा चन / क्रमात् तेन विशुद्धात्मा संबोधिम् अपि चाप्नुयात् // rm_3.239{37} //

इति मत्वा त्रिरत्नेषु चित्तम् एवं प्रसाद्य च / श्रद्धया संप्रकर्त्तव्यं सत्कारं बोधिवांछिभिः // rm_3.240{38} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे जनाश् च ते / तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नसेविनो ऽभवन् // rm_3.241{39} //

ततो बुद्धानुभावेन तच् चक्रं खे समुद्गतं / क्षणं बुद्धोपरि स्थित्वा छत्रम् इवोज्ज्वलन् बभौ // rm_3.242{40} //

ततश् च वियतो गत्वा हरिहर्म्योपरि स्थितं / सुदर्शनम् इवोद्दीप्तं बभौ रस्मिसमुत्किरन् // rm_3.243{41} //

ततो ऽसौ भगवान् बुद्धो दृष्ट्वा तां दारिकां स्वयं / शिरसि पाणिना स्पृष्ट्वा स्वाशीर्वचनम् आदिशत् // rm_3.244{42} //

भद्रे ते मंगलं भूया विनिपातं न चाप्नुहि / क्रमात् पारमिताः पूर्य्य प्रत्येकं बोधिं आप्नुहि // rm_3.245{43} //

इत्य् आशीर्वचनं दत्वा संबुद्धो ऽसौ मुनीश्वरः / ततो राजगृहं गंतुं उपाचरत् ससांघिकः // rm_3.246{44} //

ततो ऽसौ दारिका चापि नत्वा तं सुगतं पुनः / दृष्ट्वैवं मुहुः स्मृत्वा स्वगेहं समुपाययौ // rm_3.247{45} //

तत्र गेहे प्रविष्ट्वासौ दारिका संप्रमोदिता / भर्त्तुर् अग्रे च तद्वृत्तम् आचख्ये सर्वम् आदरात् // rm_3.248{46} //

भर्त्ताप्य् असौ तथा श्रुत्वा बुद्धधर्मानुमोदितः / तयैवं भार्यया सार्द्धं भेजे रत्नत्रयं सदा // rm_3.249{47} //

एवं मे गुरुणा ख्यातं तथा ते कथ्यते मया / त्वम् अप्य् एवं महाराज त्रिरत्नानि सदा भज // rm_3.250{48} //

प्रजाश् चापि त्रिरत्नानां भजने प्रेरय प्रभो / तथा ते मंगलं नित्यं बोधिं चापि समाप्नुयाः // rm_3.251{49} //

इति तेनोपगुप्तेन भाषितं तत् सुभाषितं / श्रुत्वाशोको नरेन्द्रो ऽसौ मुमोद सह पार्षदैः // rm_3.252{50} //

एतच् चक्रावदानं मुनिवरगुणदं यः शृणोति प्रसाद्य / श्रुत्वा यश् चानुमोद्य प्रमुदितमनसा श्रावयत्य् एवम् अन्यान् / स जित्वा क्लेशसंघान् विगतकलिमलो बुद्धधर्मानुचारी / पूतात्मा सद्गुणाढ्यः मुनिवरनिलयैः संप्रयाति प्रमोदात् // rm_3.253{51} //

++ इति रत्नावदानमालायं चक्रावदानो नाम समाप्तम् ++

इव् प्रेतिकावदान अथाशोको महीपालः सद्धर्मचरणोत्सवः / उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत् // rm_4.1{1} //

भदन्त श्रोतुम् इछामि पुनरन्यत् सुभाषितं / यथा मे गुरुणा प्रोक्तं तथा वक्तुं समर्हसि // rm_4.2{2} //

इति तेन नरेन्द्रेण प्रार्थिते ऽसौ जिनांशजः / उपगुप्तो महाभिज्ञस् तं नरेशम् अभाषत // rm_4.3{3} //

यथा मे गुरुणादिष्टं तथा वक्ष्यामि ते ऽधुना / तथापि श्रूयतां राजन् तव धर्मप्रवृद्धये // rm_4.4{4} //

पुरैकसमये चासौ संबुद्धो भगवाञ् जिनः / चैलकैश् च तथान्यैस् तत्सद्धर्मगुणवांछिभिः // rm_4.5{5} //

राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे / करण्डकनिवापाख्ये तस्थौ धर्मं समादिशत् // rm_4.6{6} //

तद् धर्म्मदेशनां श्रोतुं सदेवासुरमानुषाः / सिद्धविद्याधराश् चापि यक्षगंधर्वकिन्नराः // rm_4.7{7} //

गरुडा नागराजाश् च राक्षसाश् च महोरगाः / सर्वे लोकाधिपाश् चापि ससैन्यपरिवारकाः // rm_4.8{8} //

राजानो राजमात्राश् च ब्राह्मणाश् च महाजनाः / मंत्रिणो श्रेष्ठिनश् चापि सार्थवाहाश् च पौरिकाः // rm_4.9{9} //

ऋषयो योगिनश् चापि यतयो ब्रह्मचारिणः / एवम् अन्ये ऽपि लोकाश् च परिवृत्य समंततः // rm_4.10{10} //

सत्कृत्य स्वर्य्य पूजाङ्गैः सर्वोपकरणैर् अपि / मानयित्वा च तं नाथं दृष्ट्वा तस्थुः समाहिताः // rm_4.11{11} //

तस्मिंश् च समये तत्र मौद्गल्यायन आत्मवित् / स प्रेतभुवने गत्वा चरन् प्रेतीम् अपश्यत // rm_4.12{12} //

स्वकेशरोमसंछन्नां दग्धस्थूनामहाकृतिं / सूचीमुखीं महत्कायीं पर्वतसंनिभोदरां // rm_4.13{13} //

पिङ्गलकेशिनीं रौद्रीं प्रदीप्ताग्निशिखाम् इव / तीव्रातिवेदनाक्रान्तां तृषार्त्तं परिमूर्छितां // rm_4.14{14} //

तत्रायुष्मान् स मौद्गल्यो दृष्ट्वा तां प्रेतिकां चिरं / कैषेति सहसोपेत्य पप्रछ समुपागतां // rm_4.15{15} //

किं त्वया प्रकृतं पापं येनैवं दुःखभागिनी / तृषार्त्ता जलमार्गन्ती भ्रमित्वा चरसे ऽधुना // rm_4.16{16} //

इति तेन यतीशेन पृष्ट्वा सा प्रेतिका ततः / तं यतिं सौगतं नत्वा प्ररुदित्वावदत् तथा // rm_4.17{17} //

भदन्त तद् विजानीयाः पापकारिण्य् अहं यतः / एवं तृष्णाप्रतप्ताङ्गा भ्रमामि जललालसा // rm_4.18{18} //

यत्राहम् उदकं पातुं गछामि तृष्णयान्विता / अत्र पश्यामि नद्यादिजलाधारान् विशोषितान् // rm_4.19{19} //

यदा वर्षति देवे च दृष्ट्वा तदम्बुपातितं / पातुम् इछन्त्ल् तृष्णार्त्ता सहसाहं प्रधाविता // rm_4.20{20} //

तदा पश्यामि तद्विन्दुविस्फुलिङ्गनिभोज्वलान् / दृष्ट्वैवं निराशान्धा भ्रमामि दिक्षु सर्वतः // rm_4.21{21} //

किं मया प्रकृतं पापं येनास्म्य् एवं सुपापिनी / तन् मे पापं जगच्छास्ता पृछ्यतां भवतादरात् // rm_4.22{22} //

नूनं सो भगवाञ् छास्ता यन् मे कर्मपुराकृतं / व्याकरिष्यति तत् सर्वं तथा लोकप्रबोधने // rm_4.23{23} //

यच् छ्रुत्वान्ये ऽपि सत्वाश् च संविग्नमनसो द्रुतं / विरम्य पापमार्गेभ्यश् चरिष्यन्ति शुभे सदा // rm_4.24{24} //

तस्माद् भदन्त सर्वज्ञस् तव शास्ता स पृछ्यतां / व्याकुर्यान् मम सर्वत्र यत् कर्म प्रकृतं पुरा // rm_4.25{25} //

अस्मन्नाम्ना स संबुद्धो वंद्यतां भवता यथा / इत्य् उक्त्वा सा तम् आत्मजं नत्वा प्रेता गृहं ययौ // rm_4.26{26} //

स मौद्गल्यस् तथेत्य् उक्त्वा तत् संदेशम् अनुस्मरन् / सहसैतत् परिप्रष्टुं वेणुवनम् उपाययौ // rm_4.27{27} //

तदादौ भगवान् दृष्ट्वा तन् मौद्गल्यम् उपागतं / प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् / कंचित् ते कुशलं वत्स कुतो ऽत्रासि समागतः / लोकेषु किं प्रवृत्तांतं तत् प्रचक्ष्व महामते / इति पृष्टे जिनेन्द्रेण स मौद्गल्यः पुरोगतः // rm_4.28{28} //

आदौ तस्य मुनेर् नत्वा तत् प्रवृत्तम् उदाहरत् / आगतो ऽस्मि भदन्तो ऽहं चरित्वा प्रेतभूमिषु // rm_4.29{29} //

तत्र स्थितो ऽहम् ईक्षन् तां प्रेतीम् एकां भयानकीं / दग्धस्थूणानिभां नग्नां पर्वतसन्निभोदरां // rm_4.30{30} //

सूचीछिद्रमुखच्छिद्रां कंकारयन्त्रिकाम् इव / स्वकेशरोमसंछन्नां ज्वलिताग्निशिखाम् इव // rm_4.31{31} //

तिव्रातिवेदनाक्रान्ताम् आर्त्तस्वरानुरोदिनां / दुर्गन्धाम् अशुचिव्याप्तां स्वकेशपरितापितां // rm_4.32{32} //

विण्मूत्रानुभोक्तुं च साक्षात् पापावतारिकां / भगवन् सा मया दृष्ट्वा तृष्णार्त्ता जललालसा // rm_4.33{33} //

भ्रमन्ती जलमार्गन्ती जलाश्रयेषु सर्वतः / नदीकूपतडागादिन् उदपानजलाश्रयान् // rm_4.34{34} //

स्वेछाम्बुपूरितान् दृष्ट्वा प्राधावत् सहसा यदा / तस्या दर्शणमात्रेण ते सर्वे ऽपि जलाश्रयाः // rm_4.35{35} //

निर्जलाः पंकशेषेण शुशुषुश् च समंततः / तथा विशोषितां दृष्ट्वा नद्यादींस् ताञ् जलाश्रयान् // rm_4.36{36} //

निराशा परितप्ताङ्गा सा प्रेती पर्यमूर्छत / ततश् च पुनर् उत्थाय क्षुत्तृष्णोन्मादचारिणी // rm_4.37{37} //

जलं चान्नं समन्वेष्टुं बभ्राम दिक्षु सर्वतः / तथापि सा जलं नासादयत् कुहापि वा // rm_4.38{38} //

ततो ऽतितृष्णया तप्ता विण्मूत्रभोक्तुम् ऐछत / तद् अपि कृच्छ्रतो ऽन्विष्य भुक्त्वा तृप्तिं न सा ययौ // rm_4.39{38} //

तथामेध्यानि भुक्त्वापि कदाचिन् नैव तृप्तिता / क्षुत्तृष्णाहताक्लान्ता पतिता खेदितावसत् // rm_4.40{40} //

मां दृष्ट्वा सहसोत्थाय शनैर् मन्दस्वरावदत् / स्वागतं भो भवान् ऐतु रक्ष मां पापिनीं लघु // rm_4.41{41} //

पानीयं देहि मे भद्र पानीयं दातुम् अर्हसि / इति प्रोक्ताभिधावन्ति पानीयं माम् अयाचत // rm_4.42{42} //

ततो ऽहम् अवदं चैनां पानीयं नात्र विद्यते / कात्वम् एवं नु दुःखानि भुक्त्वात्र वससे कथं // rm_4.43{43} //

किं त्वया हि कृतं पापं येनैवं दुःखताधुना / वक्तव्यं चेच् च तत् पापं सर्वं मे वक्तुम् अर्हसि // rm_4.44{44} //

इति मे गदितं श्रुत्वा स प्रेती पुनर् अब्रवीत् / किं मया वक्ष्यते पापं यत् पुरा कुधिया कृतं // rm_4.45{45} //

सर्वज्ञो हि भवच्छास्ता स एवं परिपृछ्यतां / तत् सर्वाणि च मे पापं स व्याकुर्यात् स सर्ववित् // rm_4.46{46} //

अस्मन्नाम्ना च संबुद्धो वंद्यतां भवतादरात् / इति तयोदितं श्रुत्वा प्रतिज्ञाय तथेति च // rm_4.47{47} //

भवन्तं प्रष्टुम् आयामि तत् समादेष्टुम् अर्हसि / आर्त्तस्वरा रुदन्ती सा प्रेती विन्दति वेदनां // rm_4.48{48} //

येन विण्मूत्रधानानि तेन धावति दुःखिता / तद् अपि कृच्छ्रतो लब्ध्वा भुंक्ते किं चित् कदा चन // rm_4.49{49} //

एवं सा पापिनी प्रेती दृष्टातिदुःखिता मया / किं तया प्रकृतं पापं मर्त्यलोके सुदारुणं // rm_4.50{50} //

येनैवंविधदुःखं सा ह्य् अनुभवति सांप्रतं / कदा सा पापतो मुक्ता कथं च सुगतिं व्रजेत् // rm_4.51{51} //

तत् सर्वं वदतां शास्त सर्वसत्वप्रबोधने / इति तेनार्थिते चासौ भगवान् पुनर् अब्रवीत् // rm_4.52{52} //

मौद्गल्यायन सा प्रेती पापिनी मत्सरी कुधीः / तया यत् प्रकृतं पापं येन सा दुःखभागिनी // rm_4.53{53} // तत् सर्वं ते प्रवक्ष्यामि शृणु श्रोतुं यदीछसि // rm_4.54{54} // पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् / सर्वविद्याधिपो नाथो धर्मराजस् तथागतः // rm_4.55{55} //

समन्तभद्रकृच् छास्ता त्रैधातुकविनायकः / जिनो ऽर्हन् सुगतस् त्रायी संबोधिमार्गदेशकः // rm_4.56{56} //

स सत्वानां हितार्थेन बोधिचर्याः प्रकाशयन् / वाराणसीम् उपाश्रित्य मृगदावे जिनाश्रमे // rm_4.57{57} //

श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि / तस्मिन्न् एव पर्षत्मध्ये तस्थौ धर्मं समादिशत् // rm_4.58{58} //

तस्मिंश् च समये तस्य भिक्षुर् अन्यतमो यतिः / अन्यत्रनगरे गत्वा प्रत्यागछत् स्वम् आश्रमं // rm_4.59{59} //

तत्र मार्गे तृषार्त्तो ऽसौ दूरात् कूपं विलोकयन् / सहसा समुपागत्य कूपान्तिकम् उपाययौ // rm_4.60{60} //

तदैका दारिका तत्र पूरयित्वा घटं जलैः / सहसा शिरसोहित्वा गृहं गन्तुम् उपाचरत् // rm_4.61{61} //

स तृषार्त्तो यतिर् दृष्ट्वा ताम् अम्बुघटवाहिकां / समुपेत्य जलं पातुं प्रार्थयन् समुपाचरत् // rm_4.62{62} //

भगिन्यो ऽहं तृषार्त्तो ऽस्मि दूरदेशाद् उपागतः / त्वां दृष्ट्वा सहसोपेत्य जलं पातुम् इहागतः // rm_4.63{63} //

तद् भगिनी जलं देहि जीवय मां तृषातुरं / दत्वा मे जीवनं त्वं तच् चिरं जीव्या निरोगिनी // rm_4.64{64} //

इति तेनार्थितं दृष्ट्वा दारिकासौ दुराशया / मात्सर्य्यप्रहतत्वाता तं भिक्षुं पर्य्यभाषत // rm_4.65{65} //

अरे भिक्षो ऽत्र मायाहि म्रियसे यदि वा खलु / न ते ददामि पानीयं घटो पूर्णो भवेन् मम // rm_4.66{66} //

कूपे यत्नात् समुद्धृत्य पूरयित्वाम्बुना घटे / प्रोहित्वायं मयानीतस् त्वदर्थे किं न मन्यते // rm_4.67{67} //

निर्लज्ज क्व नु ते लज्जा परकीयाम्बुम् इछसि / राजा किं त्वं धनी वासि गुरुर् वा किं न मन्यते // rm_4.68{68} //

इत्य् आक्षेपं प्रतिक्षिप्य तं भिक्षुं सौगतं यतिं / अदत्वैवामृतं किं चित् सत्वरा सा गृहं ययौ // rm_4.69{69} //

ततो भिक्षुस् तृषार्त्तो ऽपि लज्जयासौ न्यवर्त्तते / अन्यत्रैवं समायाच्य पीत्वा ययौ स्वम् आश्रमं // rm_4.70{70} //

तत्राश्रमे तरोर् मूले पर्यण्कम् उपभुज्य सः / अनुशोचय तां नारीं मनसैवं व्यचिंतयत् // rm_4.71{71} //

अहो सा दुर्मती नारी मात्सर्य्यप्रहताशया / कथं न मन्यते ह्य् एवं मानुष्यजन्म दुर्ल्लभं // rm_4.72{72} //

मानुष्यं पुण्यतो लब्ध्वा निस्फलं क्रियते तया / धिक् तां दुराशयां मूढां यस्या जन्म निरर्थकं // rm_4.73{73} //

कदैषा पापतो मुक्त्वा सद्गतिं समवाप्स्यति / मा गात् सा नरके दुःखं भूयाद् धर्मानुमोदिनी // rm_4.74{74} //

शीघ्रं लोकेश्वरस्मार्त्तं लब्ध्वा व्रजतु सन्मतिं / इत्य् एवंमनसा भाष्य स भिक्षुर् विजितेन्द्रियः // rm_4.75{75} //

त्रिरत्नस्मरणं कृत्वा तस्थौ ध्यानसमाहितः / ततो ऽसौ दारिका गेहे प्राप्ता भर्तुः पुरोगता // rm_4.76{76} //

एतत् सर्वं प्रवृत्तांतं विस्तरेणाब्रवीन् मुदा / स्वामिन् नद्याम्बुसंपूर्णं घटं धृत्वागता पथि // rm_4.77{77} //

ततो भिक्षुर् उपागत्य पानीयं मां प्रयाचति / अदत्वैवं जलं तस्मै भिक्षवे सत्वरागता // rm_4.78{71} //

वहुशो याच्यमानापि किं चिन् नैव ददाम्य् अहं / इति तयोक्तमात्रे ऽसौ भर्त्ता साधुर् अपि क्रुधा / तां भार्यां रुक्षणेत्रेण दृष्ट्वा चैवम् अभाषत // rm_4.79{72} //

अरे पापिनि दुर्बुद्धे कथं न दीयते त्वया / कियद् व्येति जलं दत्वा भिक्षवे तृषिताय ते // rm_4.80{71!} //

जलमात्रप्रदाने ऽपि यस्याः श्रद्धा न विद्यते / सा किम् अन्नं धनं रत्नं कथां दातुं समुत्सहेत् // rm_4.81{72} //

धिक् त्वां पापिनीं दुष्टां यस्या नास्ति दयार्थिने / किं त्वया मम सत्यापि यशोधर्मप्रघातया // rm_4.82{73} //

यद्य् एवं न प्रदद्यास् त्वं कस्मै चिद् अर्थिने जलं / प्रेयसीम् अपि भार्ये त्वां परित्यक्ष्याम्य् अहं खलु // rm_4.83{74} //

यदि मे प्रियतां कर्तुम् इछसि स्नेहचेतसा / अर्थिनो मानयित्वा तद् दानं कर्तुं समुत्सहेः // rm_4.84{75} //

नो चेद् एवं मया त्यक्ता व्रज मा तिष्ठ मे गृहे / अवश्यं नौ वियोगः स्याद् एकान्ते मरणं ध्रुवं // rm_4.85{76} //

किं त्वादृश्या स्त्रिया पुंसः केवलं धर्महानये / धर्मं विना न मे कार्य्यं दाक्षिण्यापि च भार्यया // rm_4.86{77} //

किं त्वया कांतयाप्य् एवं मात्सर्य्यकुलदुर्धिया / धर्म एव विनश्येत तद् व्रज मा गृहे वस // rm_4.87{78} //

धर्मेण रक्ष्यते लोकः कान्तया किं हि रक्ष्यते / तत् कान्तापि परित्याज्या यदि पापनुरगिनी // rm_4.88{79} //

भार्या हि पालनीया सा यदि धर्मार्थिनी सती / किं त्वं पापार्थिनी दुष्टा यशोधर्मविनाशिनी // rm_4.89{80} //

नैवाहं च त्वया सार्द्धं भोक्तुं रन्तुं समुत्सहे / क्रियते चेत् त्वया धर्मस् तथा वस मया सह // rm_4.90{81} //

नो चेद् एवं मया त्यक्ता त्वं मा तिष्ठ गृहे व्रज / एवं भर्त्त्रोच्यमानापि प्रमदा सा न बोधिता // rm_4.91{82} //

मात्सर्य्यालीढचित्तत्वाद् रोषिता चैवम् अब्रवीत् / नैव स्थास्याम्य् अहं यास्ये किं स्थित्वैवं विनिन्दिता // rm_4.92{83} //

कियत् त्वय्य् अपराधं मे यत् तथाहं विमोचिता / किं स भिक्षुर् गुरुर् राजा मित्रं वा ते पिता सुहृत् // rm_4.93{84} //

ज्ञातिर् वा स सखा वन्धुः किं च भ्राता प्रभुर् धनी / प्रदत्तं किं अदत्तं च कियन् नष्टं भवेत् यतः // rm_4.94{85} //

नैव किंचिच् च दास्यामि कस्मै चिद् भिक्षवे ऽर्थितं / अदत्वा मे भवेत् किं हि दास्याम्य् अहं यथेछया // rm_4.95{86} //

दास्यामि वा न दास्यामि का चर्चात्र तथा तव / पापश् चेन् मयि पच्येत धर्मो वापि तथा मम // rm_4.96{87} //

त्वम् अत्र मा कृथाश् चिन्तां किं त्वयात्र विचार्य्यते / शुभं वाप्य् अशुभं वा मे तव किं तद् विचारता // rm_4.97{88} //

तथापि मम दोषं चेद् यास्यामि न वसाम्य् अहं / वरं प्राणपरित्याज्यं न तु दानं ददाम्य् अहं // rm_4.98{89} //

इत्य् असौ प्रमदाक्रुष्य भर्तुर् आक्षिप्य गर्विता / क्वचित् किंचिच् च कस्मैचिद् ददौ नैव कदाचन // rm_4.99{90} //

गृहे तिथीन् उपायातान् दृष्ट्वैवातिप्ररोषिता / वहुधा क्रुष्य तान् गेहान् न्यकासयद् बलादपि // rm_4.100{91} //

तदाशीर्वचनान्य् एवं श्रुत्वापि परिकोपिता / हसति निन्दयित्वैनां परिभाष्य न्यकासयत् // rm_4.101{92} //

सदा बध्वा गृहद्वारं याचकागतिशंकया / कोष्ठ एव समासीना कदाचिन् न विनिर्ययौ // rm_4.102{93} //

सर्वदा स्वामिना सार्द्धं कृत्वैवं कलहं मुहुः / स्वयम् एव प्रभुक्त्वासौ कालम् एवम् अयापयत् // rm_4.103{94} //

ततः काल उपायाते प्रमदा सा रुजान्विता / तदाप्य् एवं न चोत्सेहे किंचिद् दातुं समर्थिने // rm_4.104{95} //

ततः प्रवृद्धरोगार्त्ता तृष्णार्त्ता परिशोषिता / मृता सा नरके याता प्रेती भवति सांप्रतं // rm_4.105{96} //

या चाभूद् दारिका दुष्टा मात्सर्य्यप्रहताशया / सैवैषा हि त्वया दृष्टा प्रेती नरकवासिनी // rm_4.106{97} //

इति मौद्गल्य दृष्ट्वैवं प्रत्यक्षं पापदुःखिनीं / सर्वादा श्रद्धयार्थिभ्यो दातव्यं जलम् आदरात् // rm_4.107{98} //

सर्ववस्तुप्रदानानां जलदानं महत्तरं / सर्वेषां जीवनं यस्माद् अमृतं संवरं जलं // rm_4.108{99} //

जलपानं विना सर्वे न जीवन्ति हि जन्तवः / तद् अमृतं जलं शुद्धं दातव्यम् अर्थिने सदा // rm_4.109{100} //

जलम् एव हि पीत्वा ते निराहारास् तपस्विनः / योगिनो ऽनेकवर्षानि जीवन्ति प्राणिनो यथा // rm_4.110{1} //

सर्वाहाराभिसंत्यक्ता जिवंति प्राणिनो जलैः / सर्वान् न परिभुक्त्वापि न जीवन्ति जलैर् विना // rm_4.111{2} //

तद् अमृतप्रदानं तज् जीवदानं प्रचक्ष्यते / सर्ववस्तुप्रदानेभ्यो जलदानं प्रशस्यते // rm_4.112{3} //

विशेषाद् ग्रीष्मकाले तु तृषार्त्ताय च रोगिने / बालवृद्धातुरेभ्यश् च दातव्यं जलम् आदितः // rm_4.113{4} //

जलदानं महादानं जलदानसमं न हि / येनाभिधार्य्यते प्राणं तत् फलं संप्रशस्यते // rm_4.114{5} //

सर्वधातुप्रदानेभ्यः सर्वरत्नप्रदानतः / सर्वान्नभोग्यदानेभ्यो जलदानं महीयते // rm_4.115{6} //

कन्याकोटिप्रदानाच् च गजकोटिप्रदानतः / गवां कोटिप्रदानाच् च जलदानं महीयते // rm_4.116{7} //

सप्तरत्नमयीभूमिप्रदानाच् च महीयते / एवं सर्वप्रदानेभ्यो जलदानं महत्तरं // rm_4.117{8} //

तृप्यन्ते देवताः सर्वे पितृलोकास् तथापरे / सर्वे भूताश् च सत्वाश् च जलेनैव सदापि हि // rm_4.118{9} //

तथा द्रव्यानि सर्वाणि भूतानि ह्य् अशुचिन्य् अपि / जलाभिषिक्तमात्रेण शुद्ध्यन्ते सर्वदा खलु // rm_4.119{10} //

जलं विना न तृप्यन्ते भुक्त्वापि दिव्यभोजनं / तस्मात् सर्वप्रदानानां जलदानं महीयते // rm_4.120{11} //

तथा ये च सुधां पीत्वा दिव्यकान्ता समर्पिता / रमन्ति त्रिदशाः स्वर्गे ते हि सर्वे जलप्रदाः // rm_4.121{12} //

चक्रवर्त्ती नृपेन्द्रो यो रमणीभिः सहामृतं / भुक्त्वा रमति संमोदी सो ऽपि चाम्बुप्रदानतः // rm_4.122{13} //

एवं चान्ये ऽपि ये लोका यथेछा सुखभोगिनः / निःक्लेशा निरुजा भद्रास् ते हि सर्वे जलप्रदाः // rm_4.123{14} //

ये तु नीचाशयादीनाः क्षुत्पिपासातुराः कृशाः / याचकाः प्रेष्यकाश् चापि सर्वे ते ऽम्भोऽप्रदानिकाः // rm_4.124{15} //

जलदानोद्भवं पुण्यं संख्यातुं नैव शक्यते / सर्वैर् अपि मुनींद्रैश् च किम् अन्यैर् विबुद्धैर् जनैः // rm_4.125{16} //

मत्वेति श्रद्धया नित्यं दिव्यामृताभिवांछिभिः / अर्थिभ्यः सर्वसत्वेभ्यो दातव्यं जलम् आदरात् // rm_4.126{17} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च भिक्षवः / सर्वेभ्यः सर्वदा कर्तुं जलदानं समैछन् // rm_4.127{18} //

अथानन्दः समुत्थाय नत्वा तं श्रीघनं गुरुं / कृतांजलिपुटो पृछन् तत्पापपरिमोचनं // rm_4.128{19} //

कदा सा भगवन् प्रेती तत्पापात् परिमोक्ष्यते / सर्वसत्वाभिबोधार्थं तत् समादेष्टुम् अर्हसि // rm_4.129{20} //

इत्य् आनन्देन पृष्टे ऽसौ सर्वज्ञो भगवांस् तदा / तम् आनंदं समारभ्य प्राह पापविमोचनं // rm_4.130{21} //

शृण्व् आनंद समाधाय येन सा परिमोक्ष्यते / सर्वसत्वप्रबोधाय तद् उपायैः प्रचक्ष्यते // rm_4.131{22} //

सा प्रेती नरकेष्व् एवं सर्वेषु भ्रमिता सदा / दुःखाभिवेदनाखिन्ना परितप्तानुतापिता // rm_4.132{23} //

ततः कालान्तरे सैवं स्मृत्वा रत्नत्रयं यदि / नमो बुद्धाय धर्माय संघायेति वदेद् यदा // rm_4.133{24} //

तदा लोकेश्वरो सर्वलोकनाथो जिनात्मजः / दृष्ट्वा तां सहसोपेत्य स्वप्रभाभिः परिस्पृशेत् // rm_4.134{25} //

यदा लोकेश्वराभाभिः स्पर्शिता सा सुधी सती / तदातिसौख्यतां लब्ध्वा विस्मितैवं व्यचिन्तयेत् // rm_4.135{26} //

अहो सौख्यं मया लब्धं कस्यानुभावतो ऽधुना / किम् आहोस्विद् इतश् च्युत्वागतो ऽन्यत्र वसाम्य् अहं // rm_4.136{27} //

इति चिन्तारि तिष्ठन्ती विस्मयोद्धतमानसीं / दृष्ट्वा लोकेश्वरश् चैनां बोधयितुम् उपाचरेत् // rm_4.137{28} //

उपेत्य तर्पयित्वा च स्वतनुनिःसृतैर् जलैः / विविधैर् भोजनैश् चापि प्रतर्प्पयेत् स बोधिराट् // rm_4.138{29} //

ततो ऽसौ पापिनी प्रेती पीत्वा तत् तनुजामृतं / परितृप्ता विशुद्धाङ्गा नत्वा तं प्रार्थयेत् तथा // rm_4.139{30} //

नमस् ते भगवन् नाथ कृपया मां समुद्धर / दर्शय धर्ममार्गं मे सदा ते शरणं व्रजे // rm_4.140{31} //

तयैवं प्रार्थिते चासौ लोकनाथो दयानिधिः / दर्शयित्वार्यमार्गं च श्रावयेद् धर्मदेशनां // rm_4.141{32} //

यां श्रुत्वैव च सा प्रेती सर्वपापविमोचिता / ततश् च्युत्वा विशुद्धात्मा जन्म बोधिकुले लभेत् // rm_4.142{33} //

तत्र बोधिचरीः प्राप्तुं चरेद् व्रतम् उपोषधं / तद्व्रतपुण्यभावैश् च बोधिचर्य्याः समाचरेत् // rm_4.143{34} //

क्रमाद् बोधिचरीः पूर्य्य बोधिप्रणिधिमानसः / बोधिसत्वो महासत्वो भविष्यति न संशयः // rm_4.144{35} //

ततो लोकहितं कृत्वा संबोधिपदम् आश्रयन् / सर्वदा च सुखं भुक्त्वा सुखावतीं गमिष्यति / तत्रामिताभसंबुद्धं सेवित्वा समुपाश्रयन् / संबोधिज्ञानं आसाद्य निर्वृतिं चाप्य् अवाप्स्यति // rm_4.145{36} //

यद्य् असौ स्मरते प्रेती त्रिरत्नानां समाहिता / तदा चैवं ततश् च्युत्वा सौखावतीं गमिष्यति // rm_4.146{37} //

नो चेद् एवं हि सा प्रेती सदापि नरके वसेत् / यावन् न स्मरते बुद्धं तावन् न मोक्ष्यते ततः // rm_4.147{38} //

एवं सर्वे ऽपि ये सत्वा यावन्तो नरकास्थिताः / तावन्तस् ते ऽपि सर्वे च दुष्टाः पापानुचारिकाः // rm_4.148{39} //

यदैषां ये त्रिरत्नानां स्मरन्त्य् अनुतापिताः / नमो बुद्धाय धर्माय संघायेति वदंति च // rm_4.149{40} //

तदा तत्पापनिर्मुक्ता विशुद्धाङ्गाः शुभाशयाः / सद्धर्माचरणं कर्तुम् उत्सहेयुः समाहिताः // rm_4.150{41} //

ततो लोकेश्वरो दृष्ट्वा तान् सत्वान् धर्मभाजनान् / बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजयेत् // rm_4.151{41!} //

ततः सर्वे च ते सत्वा बोधिप्रणिधिमानसाः / सर्वसत्वहितार्थेन समिछेयुः शिवां चरीं // rm_4.152{42} //

ततस् ते नरकाच् च्युत्वा संप्रयायुः सुखावतीं / तत्रामिताभनाथस्य धर्मं श्रुत्वानुमोदिताः // rm_4.153{33!} //

बोधिचर्य्याः समाश्रित्य कुर्युर् लोकहितानि ते / क्रमाद् बोधिचरीः पूर्य्य सर्वक्लेशविमुक्तिगाः // rm_4.154{34} //

संबोधिज्ञानम् आसाद्य निर्वृतिं समवाप्नुयुः / एवम् अन्ये ऽपि ये सत्वा लोकेशसरणं गताः // rm_4.155{35} //

ते आशु पापनिर्मुक्ताः सुखावतीं व्रजन्ति हि / ये ये लोकेश्वरं स्मृत्वा भजन्ति सततं मुदा / ते ते सर्वे च निःपापा भवन्ति बोधिभागिनः // rm_4.156{36} //

तस्माल् लोकेश्वरं स्मृत्वा गत्वा च शरणं सदा / त्रिमण्डलविशुद्धेन चरितव्यं व्रतोत्तमं // rm_4.157{37} //

व्रतोत्तमं समाख्यातम् आर्याष्टांगिकपोषाधं / सर्वेषां अपि पुण्यानां तद्व्रतपुण्यम् उत्तमं // rm_4.158{38} //

येनैवाशु विशुद्ध्यंते घोरपातकिनापि च / तस्माद् एतत् महत्पुण्यं व्रतराजं विदुर् जिनाः // rm_4.159{39} //

यस्य पुण्यानुभावेन पूर्य्य पारमितागणाः / सर्वक्लेशान् विनिर्जित्य शीघ्रं बोधिम् अवाप्नुयुः // rm_4.160{40} //

ये ऽप्य् अतीताश् च संबुद्धाः सर्वज्ञाः सुगता जिनाः / ते ऽपि तद्व्रतपुण्यैस् तु शीघ्रं बोधिम् अवाप्नुवन् // rm_4.161{41} //

ये ऽप्य् एतर्हि च संबुद्धाः संबोधिधर्मदेशकाः / ते ऽप्य् एतद्व्रतपुण्यैश् च भवन्ति बोधिपारगाः // rm_4.162{42} //

ये चाप्य् अनागता बुद्धा भविष्यन्ति तथागताः / ते ऽप्य् एतद्व्रतपुण्यैस् तु लप्स्यन्ते बोधिसंपदं // rm_4.163{43} //

एवम् अन्ये ऽपि ये प्राज्ञाः संबोधिपदवांछिताः / ते ऽप्य् एतद्व्रतम् आधाय लभन्ति बोधिसंपदं // rm_4.164{44} //

तस्माद् एतद्व्रतं धृत्वा दातव्यं दानम् अदरात् / एतत् फलं सदाक्षीणं सूते कल्पतरुर् यथा // rm_4.165{45} //

एतद्व्रतधराः सत्वाः सद्धर्माचरणोद्यताः / सर्वथा न व्रजंत्य् एव दुर्गतिषु कदाचन // rm_4.166{46} //

सदैव सुगतिं प्राप्ताः सर्वसत्वानुकंपिनः / सद्धर्माचरणं धृत्वा बोधिसत्वा भवन्ति ते // rm_4.167{47} //

ये च लोकेश्वरं स्मृत्वा चरन्त्य् एतद्व्रतं सदा / ते पश्यन्ति सदाप्य् एनं लोकनाथं जगत्प्रभुं // rm_4.168{48} //

तेन लोकेश्वरेणापि दृश्यंते ते ऽपि सर्वदा / ये च लोकेशसंदृष्टास् ते सर्वे बोधिभागिनः // rm_4.169{49} //

बोधिसत्वा महासत्वाः संबोधिं समवाप्नुयुः / ये स्मरन्ति सदा नित्यं लोकेशं करुणामयं / सहसा दुर्गतिं त्यक्त्वा मुक्त्वा यायुः सुखावतीं // rm_4.170{50} //

ये च तच्छरणं गत्वा भजंति तं जिनात्मजं / सर्वपापविनिर्मुक्तास् ते ऽपि यायुः सुखावतिं // rm_4.171{51} //

ये सुगन्धैर् जलैः शुद्धैः स्नापयन्ति जगद्गुरुं / मन्दाकिन्यां च ते स्नात्वा शुद्धा यांति सुखावतिं // rm_4.172{52} //

पंचगंधादिसौरभ्यैर् लोकेशं लेपयंति ये / चक्रवर्त्तिपदं भुक्त्वा ते ऽपि यांति सुखावतीं // rm_4.173{53} //

चीवरं ये ददंत्य् अस्मै ते दिव्यवस्त्रसंयुताः / सर्वधर्माधिनाथाश् च यांति चांते सुखावतीं // rm_4.174{53*} //

सत्कृत्य श्रद्धया ये ऽपि पुष्पैस् तम् अर्चयन्ति ये / ते सुरेन्द्रपदं प्राप्य यान्ति चान्ते सुखावतीं // rm_4.175{54} //

सौरभ्ययोजितैर् धूपैर् ये भजन्ति तम् ईश्वरं / ते नरेन्द्रपदं भुक्त्वा यांति चान्ते सुखावतिं // rm_4.176{55} //

ये ददन्ति च भैषज्यं तस्मै लोकाधिपाय च / चक्रवर्त्तिपदं प्राप्य यांति ते च सुखावतीं // rm_4.177{56} //

ये ददन्ति प्रदीपानि तस्मै लोकेश्वराय च / ते महेन्द्रपदं भुक्त्वा यान्ति चान्ते सुखावतीं // rm_4.178{57} //

नैवेद्यं ये ददन्त्य् अस्मै ते भवन्ति नरेश्वराः / दिव्यभोग्यानि भुक्त्वा च यान्ति चान्ते सुखावतीं // rm_4.179{58} //

ये च पानं ददन्त्य् अस्मै ते पीत्वा सततं सुधां / स्वर्गे रमन्ति देवेन्द्रा यान्ति चान्ते सुखावतीं // rm_4.180{59} //

फलमूलादिकं दत्तं यैश् च तस्मै सुतायिने / यथेप्सितसुखं भुक्त्वांते ऽपि यांति सुखावतीं // rm_4.181{60} //

ताम्बूलं पूगसंयुक्तं लोकेशाय ददन्ति ये / सुरूपाः सत्सुखं भुक्त्वांते ऽपि यान्ति सुखावतीं // rm_4.182{61} //

शय्यासनं प्रदत्तं यैस् तस्मै सत्वानुकंपिने / ते क्षितीशश्रियं भुक्त्वा यान्त्य् अंते च सुखावतीं // rm_4.183{62} //

सिंहासनं प्रदत्तं यैस् तस्मै धर्मानुशासिने / ते वंद्याः सर्वलोकैश् च यान्त्य् अन्ते च सुखावतीं // rm_4.184{63} //

छत्रं तस्मै प्रदत्तं यैस् ते नृपाश् चक्रवर्त्तिनः / यशोधर्मसुखं भुक्त्वा संप्रयान्ति सुखावतीं // rm_4.185{64} //

पताकां ये प्रयछन्ति तस्मै लोकाधिपाय चा / ते ऽपि सर्वां महीं भुक्त्वा यान्ति चान्ते सुखावतीं // rm_4.186{65} //

तस्मै ये च प्रयछन्ति धातुरत्नगणानि च / ते नरेन्द्राश् चतुर्द्वीपां भुक्त्वा यान्ति सुखावतीं // rm_4.187{66} //

ये वितानं वितन्वंति गेहे तस्य कृपानिधेः / ते नरेन्द्राः सुरेन्द्राश् च भूत्वा यांति सुखावतीं // rm_4.188{67} //

त्रैलोक्याधिपतेस् तस्य ये कुर्वन्ति प्रदक्षिणां / ते नरेन्द्रश्रियं भुक्त्वा यान्ति चान्ते सुखावतीं // rm_4.189{68} //

संगीतैर् ये प्रकुर्वन्ति पूजां तस्य जगत् प्रभोः / सदा सुभाषितान्य् एव शृण्वन्ति ते गुणाकराः // rm_4.190{69} //

चामरैर् व्यजनैर् वापि तं नाथं वीजयन्ति ये / ते नृपाः सुरलक्ष्मीं च भुक्त्वा यांति जिनालये // rm_4.191{70} //

शोधयन्ति च ये नित्यं विहारे कारुणानिधेः / दिव्यनेत्राश् च ते सौख्यं भुक्त्वा यांति सुरालयं // rm_4.192{71} //

कृत्वा रम्यं विहारं च लोकेशाय ददन्ति ये / ते महेन्द्रश्रियं भुक्त्वा संप्रयान्ति सुखावतीं // rm_4.193{72} //

विहारे तत्र संसिद्धे यष्टिम् आरोप्य ये नराः / सुवर्णकलशांश् छत्रध्वजघण्टावलीयुतान् // rm_4.194{73} //

पंचवर्णपताकाभिः पुष्पस्रग्भिश् च संयुतान् / संप्रतिस्थां प्रकुर्वति महोत्साहैर् विधानतः // rm_4.195{74} //

ते नरेन्द्राः सुरेन्द्राश् च यशोधर्मसुखान्विताः / माहेश्वर्य्यश्रियं भुक्त्व यान्ति चान्ते सुखावतीं // rm_4.196{75} //

पद्यगद्यमयैः स्तोत्रैर् ये स्तुवंति तं ईश्वरं / निःपापाः सुखिनः प्राज्ञास् ते प्रयान्ति सुखावतीं // rm_4.197{76} //

ये चाष्टांगप्रणामानि अस्मै शास्त्रे प्रकुर्वंते / चक्रवर्तीपदं भुक्त्वा ते प्रयान्ति जिनालयं // rm_4.198{77} //

ये स्मरन्ति सदा नित्यं तम् ईशं सुगतात्मजं / ते सद्यः पापनिर्मुक्ता अन्ते यान्ति सुखावतीं // rm_4.199{78} //

ये ये सत्वाश् च तं नाथं स्मृत्वा भजन्ति सर्वदा / ते ते सर्वे न यान्त्य् एव दुर्गतिषु कदाचन // rm_4.200{80} //

सदापि सद्गतिष्व् एव याताः सौख्यसमन्विताः / सद्धर्माचरणं कृत्वा संप्रयान्ति सुखावतीं // rm_4.201{81} //

एवं ये पापिनश् चापि लोकेशं शरणं गताः / ते ऽपि पापविनिर्मुक्ताः शुद्धा यांति जिनालयं // rm_4.202{82} //

एवं लोकेश्वरो नाथः पुण्यक्षेत्रं शुभप्रदः / चिंतामणिः कल्पवृक्षो यथेप्सितफलप्रदः // rm_4.203{83} //

न हि तेन समः कश्चिन् महत्पुण्यफलप्रदः / कुतो ऽधिकस् तु विद्येत त्रैधातुभुवनेष्व् अपि // rm_4.204{84} //

तेनैव सकलाः सत्वा बोधयित्वा प्रयत्नतः / आर्य्यमार्गे प्रतिष्ठाप्य प्रेरिता निर्वृताव् अपि // rm_4.205{85} //

पापिष्ठो अपि सत्वाश् च तेनोपेत्य स्वयं तथा / नरकेभ्यः समुद्धृत्य संप्रेरिताः सुखावतीं // rm_4.206{86} //

एवं सर्वे ऽपि सत्वाश् च नानोपायविधानतः / दर्शयित्वार्य्यमार्गाणि तेन बोधौ निवेशिताः // rm_4.207{87} //

तस्मात् सर्वाधिकेशः स लोकेश्वरो महेश्वरः / सर्वधर्मानुभर्ता स लोकनाथः प्रतीयते / केनापि गंतुं तस्य पुण्यस्कंधं न शक्यते / मयापि शक्यते नैवं सर्वैश् चापि मुनीश्वरैः / एवं मत्वा त्वम् आनंदः लोकनथं दयोदधिं // rm_4.208{88} //

सर्वदेवाधिदेवेशं स्मृत्वैव सततं भज / ततस् ते मंगलं नित्यं सर्वदापि समंततः // rm_4.209{89} //

कुतश् चिन् नैव विद्येरन् भयानि विविधान्य् अपि / यत्र लोकेश्वरस्मृतिस् तत्रोत्पातभयं न हि // rm_4.210{90} //

अग्नेर् अपि भयं नैव नाप्य् उत्पातमरुद्भयं / न चोदकभयं तत्र न च भूमिभयं खलु // rm_4.211{91} //

विद्युत्पातभयं नापि न चाशनिभयं सदा / न च शत्रुभयं क्वापि नापि राजभयं तथा // rm_4.212{92} //

न च चौरभयान्य् एवं न च रोगभयानि च / सर्वभयः प्रशाम्यन्ते लोकेशस्मृतिभावतः // rm_4.213{93} //

सर्वे ऽप्य् उपद्रवाश् चैवं प्रयांति विलयं ततः / एवं लोकेश्वरो नाथो महत्पुण्यानुभाववान् // rm_4.214{94} //

येनैवं त्रिजगल्लोकं पालितं पुत्रवत् सदा / तस्माल् लोकेश्वरो नित्यं सेवितव्यः शुभार्थिभिः // rm_4.215{95} //

यस्य धर्मानुभावेन सर्वत्रापि शिवं सदा / इति मत्वा त्वयानंद तद् धर्माञ् छ्रावयन् सदा // rm_4.216{97} //

प्रेरयित्वा च तद्भक्तौ संबोधौ संप्रवेशय / एतत्पुण्यानुभावैस् त्वम् अप्य् एवं कुशली भवन् // rm_4.217{98} // बोधिसत्वो महासत्वो भवेन् नूनं जिनात्मजः // rm_4.218{99} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः / तथेति प्रतिमोदित्वा सदा लोकेशम् अस्मरत् // rm_4.219{100} //

एवं राजंस् त्वया चापि स्मृत्वा लोकेश्वरः सदा / सेवितव्यः प्रयत्नेन बोधिप्रणिधिचेतसा // rm_4.220{1} //

ततस् त्वं सहसा सर्वपापेभ्यः परिमोचितः / बोधिसत्वो विशुद्धात्मा प्रयास्यसि सुखावतीं // rm_4.221{2} //

इत्य् एवं गुरुणादिष्टं उपगुप्तेन धीमता / श्रुत्वा राजानुमोदित्वा सो ऽभ्यनन्दत् सपार्षदः // rm_4.222{3} //

इदं श्रुत्वावदानं ये श्रावयित्वा परान् अपि / भजंति लोकनाथं ते संप्रयायुः सुखावतीं // rm_4.223{4} //

++ इति रत्नावदानमालायं प्रेतिकावदानं समाप्तम् ++

व् शालपुष्पावदान अथाशोको महीपालो भूयः श्रोतुं सुभासितैः / उपगुप्तं गुरुं नत्वा कृतांजलिर् अवोचत् // rm_5.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद् अर्हसि समादेष्टुं लोकानां पुण्यवृद्धये // rm_5.2{2} //

इति विज्ञापिते तेन नृपेन्द्रेण प्रसादिना / उपगुप्तो यतिश् चापि तं नृपं प्रत्यभाषत // rm_5.3{3} //

शृणु राजन् महाभाग सर्वलोकहितार्थभृत् / यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते तथा खलु // rm_5.4{4} //

पुरैकसमये बुद्धो भगवाञ् छ्रीघनो जिनः / श्रावस्त्यां जेतकारण्ये विहारे मणिमण्डिते // rm_5.5{5} //

श्रावकैर् भिक्षुभिः संघैर् बोधिसत्वगणैः सह / सद्धर्मदेशनां कर्तुं व्यहरल् लोकशासितुं // rm_5.6{6} //

तद्धर्मदेशनां श्रोतुं सर्वे सत्वाः समागताः / ब्राह्मणाः क्षत्रियाश् चापि राजानो राजमात्रिकाः // rm_5.7{7} //

वैश्याः शूद्रा अमात्याश् च मंत्रिणः साधवो जनाः / श्रेष्ठिनः सार्थवाहाश् च धनिनश् च वणिग्गणाः // rm_5.8{8} //

पौराजानपदाश् चापि नानादेशसमागताः / देवा दैत्याश् च गन्धर्वा यक्षकिन्नरराक्षसाः // rm_5.9{9} //

सिद्धाविद्याधराः साध्या वसवश् च ग्रहाधिपाः / नागेंद्रा गरुडाश् चैवम् ऋषयो ब्रह्मचारिणाः // rm_5.10{10} //

योगिनो यतयश् चापि लोकपालाः ससैन्यकाः / सर्वे तं सुगतं नत्वा धर्मं श्रोतुम् उपागताः // rm_5.11{11} //

सत्कृत्य पूजयित्वा च कृतांजलिपुटो मुदा / परिवृत्य पुरस्कृत्य दृष्ट्वा तस्थुः समाहिताः // rm_5.12{12} //

अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मवांछिनः / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_5.13{13} //

तत्र देवादयः सर्वे तत् सद्धर्मामृतं मुदा / पीत्वा चाभ्यनुमोदन्तः प्रापुर् ज्ञानविशेषतां // rm_5.14{14} //

श्रावस्तेयात् तदानेके दारिका दारकाश् च ते / कुसुमान् याचितं शालभंजिकाख्यं गिरिं ययुः // rm_5.15{15} //

तत्र ते सहसा गत्वा दृष्ट्वा पुष्पाण्य् अनेकशः / प्रादाय समुपागत्वा श्रावस्त्याम् अचरन् मुदा // rm_5.16{16} //

तत्रैका दारिका वाला श्रेष्ठिपुत्री प्रमोदिता / शनैः सा शालपुष्पाणि प्रादाय पृष्ठतो ऽचरत् // rm_5.17{17} //

तदा च भगावान् बुद्धो भिक्षुसंघसमन्वितः / श्रावस्त्यां भोजनं भुक्त्वा ततो बहिर् विनिर्ययौ // rm_5.18{18} //

तत्र सा दारिकाद्राक्षीद् भगवन्तं तम् आगतं / द्वात्रिंशल् लक्षणाशीतिव्यंजनं समलंकृतं // rm_5.19{19} //

व्यामप्रभाविराजन्तं सहस्रेणाधिकप्रभं / जंगमम् इव रत्नाङ्गं समन्तभद्ररूपिकं // rm_5.20{20} //

दृष्ट्वैवं श्रीघनं नाथं दारिका सा प्रमोदिता / श्रद्धयार्चयितुं पुष्पैर् मनसैवं व्यचिंतयत् // rm_5.21{21} //

अहो पुण्यं मया लब्धं यत् संबुद्धो दृश्यते ऽधुना / एवं कदा कथं कुत्र द्रक्ष्यते ऽयं मुनीश्वरः // rm_5.22{22} //

भाग्येनैवं मया लब्धं संबुद्धदर्शनं तथा / नूनं भाग्यवती चास्मि यत् पुण्यनिधिर् आप्यते // rm_5.23{23} //

तस्मात् पुण्यं महारत्नं प्राप्तुम् उपेत्य सादरं / एतैश् च कुसुमैः सर्वैर् अर्हाम्य् एतं समर्चितुं // rm_5.24{24} //

कदायं लप्स्यते भूयः परवश्या स्त्रिया मया / तद् अहं सहसोपेत्य पुष्पाण्य् अस्माय् उपाकिरे // rm_5.25{25} //

सदा नोत्पद्यते नात्र संबुद्धो हि कदा चन / अतिसुदुर्ल्लभं ह्य् अस्य दर्शनं च सदा न हि // rm_5.26{26} //

मानुष्यं दुर्ल्लभं जन्म विना पुण्यैर् न लभ्यते / मानुष्ये ऽलभ्यमाने ऽपि संबुद्धे सेव्यते कथं // rm_5.27{27} //

मानुष्ये लभ्यमाने ऽपि क्षणं संपत् सुदुर्ल्लभा / नरैर् अप्य् अक्षणप्राप्तैः कथं बुद्धे ऽनुसेव्यते // rm_5.28{28} //

तद् अद्य मानुषी भूत्वा प्राप्यैवं सुकृतौ क्षणं / यद्य् अत्र कुसुमैर् एभिः संबुद्धं नार्चयाम्य् अहं // rm_5.29{29} //

ततो मे निष्फलं जन्म मानुष्ये व्यर्थम् एव हि / किं ममानेन देहेन सर्वथैकान्तनाशिना // rm_5.30{30} //

किम् अनेनापि जीवेन मृत्यौ नित्यं पुरःस्थिते / कियत् कालं च जीवेयं गछेयं मरणं ध्रुवं // rm_5.31{31} //

चिरं स्थित्वापि किं सारं संबुद्धभजनं विना / वरं प्राणपरित्यागं कृत्वा संबुद्धदर्शनं // rm_5.32{32} //

अनित्यं खलु संसारं सर्वदेहादिकं धनं / एतद् एव तु सत्सारं यद् बुद्धे भजनं सदा // rm_5.33{33} //

तदैतैः कुसुमैः सर्वैः पूजयामि मुनीश्वरं / कथं न पूजयिस्यामि संबुद्धं त्रिजगद्गुरुं // rm_5.34{34} //

इति निश्चित्य सा वाला दृष्ट्वा तं सुगतं मुदा / सहसोपेत्य तैः सर्वैः सालपुष्पैर् अवाकिरन् // rm_5.35{35} //

ततः प्रदक्षिणीकृत्य प्रणम्य तं प्रहर्षिता / किं चिद् दूरे परावृत्य तस्थौ दृष्ट्वा मुनिं मुदा // rm_5.36{36} //

ततो ऽसौ भगवान् बुद्धस् तस्या आयुर्विहीनतां / मत्वा तां संन्रीक्स्यैवं स्वं विहारं समाययौ // rm_5.37{37} //

अथ सा दारिका भूयस् तथान्यत्कुसुमानि च / गृहस्यार्थे समादातुं ततः शालवनं ययौ // rm_5.38{38} //

तत्र शालतरुं दृष्ट्वा प्रफुल्लकुसुमान्वितं / तत्पुष्पाणि समाचेतुं सहसा सा रुरोह तं // rm_5.39{39} //

तत्रावरुह्य पुष्पाणि चिन्वन्ती सा प्रमोदतः / अग्रशाखासमारूढा पपात सहसा ततः // rm_5.40{40} //

पतिता सा विरुग्नाङ्गा तीव्रातिवेदनातुरा / हा हतास्मीति निश्चित्य संबुद्धस्मरणं व्यधात् // rm_5.41{41} //

नमो बुद्धाय धर्माय संघाय सुगताय च / इति प्रोक्त्वैव संबुद्धं स्मरन्ति मरणं ययौ // rm_5.42{42} //

ततः स्वर्गोपपन्ना सा विस्मितैवं व्यचिन्तयत् / कुतश् च्युत्वा कुहोत्पन्ना केन वा कुशलेन च // rm_5.43{43} //

इति चिन्तापरीता सा सहसैवं व्यबुद्ध्यत / मर्त्याच् च्युत्वागता स्वर्गे बुद्धे पुष्पप्रदानतः // rm_5.44{44} //

इति बुद्ध्वा च सा भद्रा सुप्रसादितमानसी / तम् एव सुगतं नाथं स्मृत्वा नत्वाभ्यनन्दत // rm_5.45{45} //

ततो देवैर् उपनीतं दिव्यपुष्पस्वलंकृतं / विमानं सा समारुह्य देवसभाम् उपाययौ // rm_5.46{46} //

तस्मिंश् च समये शक्रः सुधर्मायां सुरैः सह / संबुद्धवर्णनां कृत्वा तस्थौ देवान् प्रमोदयन् // rm_5.47{47} //

तथा तां समुपायातां शालपुष्पाभ्यलंकृतां / दृष्ट्वा दिव्यातिवर्णाभां पप्रछ विस्मितो हरिः // rm_5.48{48} //

गात्रं केन विमृष्टकांचननिभं पद्मोत्पलाभं तव / दिव्यश्रीर् अतुलाकृतेयम् इह ते केन प्रभा निःसृता / वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव / कस्य त्वं वरदेवते फलम् इदं यत् कर्मजं भुज्यते // rm_5.49{49} //

इति प्रोक्ते सुरेन्द्रेण सा भद्रा देवकन्यका / तं देवाधिपतिं नत्वा कृतांजलिपुटो ऽब्रवीत् // rm_5.50{50} //

सश्रावका नरादित्य आकीर्णशालपुष्पकैः / तत्कर्मकुशलं कृत्वा राजते मे ऽधिकं तनुः // rm_5.51{51} //

जलजेन्दुविशुद्धाभं वदनं मे ऽभिरोचते / एतत्कर्मानुभावेन विजानीयाः सुरेश्वर // rm_5.52{52} //

तयेति प्रोदितं श्रुत्वा देवेन्द्रो ऽसौ सुविस्मितः / दृष्ट्वा चैनां सुभद्राङ्गीं प्रहर्षयन्न् अभाषत // rm_5.53{53} //

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितं / यत्र न्यस्तं त्वया वीजम् इत्थं स्वर्गोपपत्तये // rm_5.54{54} //

को नार्चयेत् प्रवरकांचनराशिगौरं बुद्धं विबुद्धकमलायतपत्रनेत्रं / यत्राधिकारजनितानि विशोभितानि कांतामुखानि कमलायतलोचनानि // rm_5.55{55} //

धन्यो ऽसि त्वं सुभद्रांगि संबुद्धगुणभाविनि / सर्वथा हि स संबुद्धः सेवितव्यः सदापि च // rm_5.56{56} //

यस्य पुण्यप्रसादात् त्वं सद्यः स्वर्गे समागता / स एव भगवान् नाथः संस्मृत्वा सेव्यतां सदा // rm_5.57{57} //

ततस् ते सर्वदा नित्यं मंगलं स्यात् समंततः / चिरं दिव्यसुखं भुक्त्वा यायाश् चान्ते सुखावतीं // rm_5.58{158} //

इत्य् आदिष्टं सुरेन्द्रेण सा देवकन्यका सुधीः / अनुमोद्य च तं शक्रं नत्वा स्वम् आलयं ययौ // rm_5.59{59} //

ततः सा संस्थिता देवीप्रासादे दिव्यमण्डिते / दिव्यभोग्यसुखप्राप्ता मोदित्वैवं व्यचिन्तयेत् // rm_5.60{60} //

यच् च्युत्वाहं मनुष्येभ्यो ऽधुना स्वर्गसमागता / तत् संबुद्धप्रसादेन जानामि नान्यथा खलु // rm_5.61{61} //

यन् मया पूजितो बुद्धः शालपुष्पैर् वनोद्भावैः / तत्पुण्यफलभोग्यार्थे आगताहं सुरालयं // rm_5.62{62} //

यद् दिव्यसुखसंप्राप्तं तत् संबुद्धप्रसादतः / तेन तम् एवं संबुद्धं पुनर् गछेय वंदितुं // rm_5.63{63} //

न युक्तं सौगते गन्तुं पर्य्युषितेन वाससा / युक्तं तु सौगते गंतुम् अपर्युषितवाससा // rm_5.64{64} //

इति सा मनसा मत्वा देवकन्या सुभद्रिका / स्नात्वा सौरभ्यलिप्तांगा दिव्यशुद्धाम्वरावृता // rm_5.65{65} //

दिव्यालंकारमालादिमौलीकुण्डलमंडिता / अनेकदेवकन्याभिर् अप्सरोभिः समन्विता // rm_5.66{66} //

दिव्यपूजोपचाराणि गृहीत्वा सहसा ययौ / तस्याम् एव निशि स्वर्द्ध्या भासयन्ती समंततः // rm_5.67{67} //

जेतवनम् उपेत्यासौ प्रविवेश जिनालयं / ततः प्रदक्षिणं कृत्वा प्रणम्य चरणौ मुनेः // rm_5.68{68} //

पंचोपहारपूजाभिः पूजयित्वा कृतांजलिः / नत्वा च पुरतः तस्थौ सद्धर्मश्रवणोत्सुका // rm_5.69{69} //

अथासौ भगवांस् तस्या ज्ञात्वाशयविशुद्धतां / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_5.70{70} //

चत्वारि चार्य्यसत्यानि निःक्लेशपुण्यलब्धये / दशकुशलमूलानि सम्यक्सत्वविशुद्धये // rm_5.71{71} //

आर्य्याष्टाङ्गिकमार्गांश् च संबोधिमार्गलब्धये / बोधिपाक्षिकधर्मांश् च संबुद्धगुणलब्धये // rm_5.72{72} //

अथासौ देवकन्या तां सद्धर्मदेशणं मुनेः / श्रुत्वानुमोदिता चापि प्राप्य धर्मविशेषतां // rm_5.73{73} //

ज्ञानवज्रेण सत्कायदृष्टिशैलं विभेद सा / श्रोतापत्तिफलं प्राप्ता दृष्टसत्याभवत् तदा // rm_5.74{74} //

ततो भूयः प्रणम्यैवं भगवन्तं कृतांजलिः / सुप्रसन्नमुखाम्भोजो त्रिर् उदानम् उदाहरत् // rm_5.75{75} //

भगवन्न् इदम् अस्माकं महापुण्यसुखोदयं / जनन्यापि कृतं नापि न पित्रा न च वंधुभिः // rm_5.76{76} //

न ज्ञातिभिर् न मित्रैश् च न सहायसुहृज्जनैः / नापि सालोहितैश् चापि पितृलोकैर् न चापरैः // rm_5.77{77} //

न राज्ञा न चामात्यैर् न मंत्रिभिर् न च पौरिकैः / न गुरुभिर् न विप्रैश् च न यतिभिर् न तापसैः // rm_5.78{78} //

न देवैर् नापि दैत्यैश् च नापि लोकाधिपैर् अपि / तथान्यैश् च कृतं नैव यद् इदं भवता कृतं // rm_5.79{79} //

उछोषितो यद् अस्माकं रुधिराश्रुसरित्पतिः / अस्थिमयो महाछैलो यद् अस्माभिश् च लंघितः // rm_5.80{80} //

तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः / अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः // rm_5.81{81} //

भवत्प्रसादान् निरुपेतदोषं मयाद्य लब्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्य्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि // rm_5.82{82} //

नरवरेन्द्रसुरासुरपूजिते विगतजन्मजरामरणादयः / भवसहस्रसुदुल्लभदर्शने सफलम् अद्य मुने तव दर्शनं // rm_5.83{83} //

ततः प्रणत्वा चरणारविंदौ मुनेः प्रकृत्वा तृप्रदक्षिणां च / प्रजातहर्षा सुगतं जिनेंद्रं स्मृत्वा च भूयो दिवम् आययौ सा // rm_5.84{84} //

तथा स्वर्गसमायाता देवकन्या मुमोद सा / यथा वणिग् लब्धलाभो रोगमुक्तो यथातुरः // rm_5.85{85} //

सम्यग्निष्पन्नशस्याप्तो यथा च कृषिकार्मिकः / सिद्धयात्राप्रलब्धार्थः सार्थवाहो वणिग् यथा // rm_5.86{86} //

अथ ते भिक्षवः सर्वे दृष्ट्वैवम् अवभासितं / संदिग्धविस्मिताश् चैवं पप्रछुस् तं मुनीश्वरां // rm_5.87{87} //

भगवन्न् अद्य रात्रौ को भवतो ऽन्तिकम् आगतः / ब्रह्मा वा सुरराजो वा लोकपालगणा अपि // rm_5.88{88} //

अस्माभिर् ज्ञायते नायं यो ऽद्य रात्राव् इहागतः / तद् अस्मान् विस्मितान् सर्वान् बोधयितुं समर्हसि // rm_5.89{89} //

इति तैर् भिक्षुभिः पृष्टो भगवान् स मुनीश्वरः / तांश् च भिक्षुगणान् सर्वान् समामंत्र्याब्रवीत् तथा // rm_5.90{90} //

न हि स भिक्षवो ब्रह्मा नापि वासौ सुराधिपः / नैव लोकाधिपालाश् च याद्य रात्राव् इहागता // rm_5.91{91} //

अपि तु दारिका दृष्टा युष्माभिः सगता पथि / ययाहं सालपुष्पैश् च प्रावकीर्य्याभितोषितः // rm_5.92{92} //

सा मां पुष्पैर् अवाकीर्य्य गृहस्यार्थे पुनर् वनं / गता पुष्पाण्य् उपाहर्तुं वृक्षारूढापतत् तरोः // rm_5.93{93} //

ततो ऽसौ पतनोद्विग्ना वेदनाक्रांतचेतसा / त्रिरत्नानि स्मरन्त्य् एव देहं त्यक्त्वा दिवं ययौ // rm_5.94{94} //

तत्र स्वर्गे समासाद्य स्मृत्व मां सुगतं पुनः / द्रष्टुं धर्मं च मे श्रोतुम् इहासौ समुपागता // rm_5.95{95} //

तन् मया देशितं तस्यै संबोधिधर्मम् उत्तमं / श्रुत्वा सा चानुमोद्यैवं संहर्षिता दिवं ययौ // rm_5.96{96} //

इत्य् एवं भिक्षवो मत्वा त्रिरत्नानि शुभार्थिभिः / सेवितव्यानि संस्मृत्वा गत्वा च शरणं सदा // rm_5.97{97} //

ये भजन्ति त्रिरत्नानि संस्मृत्वा शरणं गताः / दुर्गतिं ते न गछंति व्रजन्ति सद्गतिं सदा // rm_5.98{98} //

ये निन्दन्ति त्रिरत्नानि प्रतिक्षिप्य प्रमादतः / सद्गतिं ते न गछन्ति वसन्ति नरके सदा // rm_5.99{99} //

तस्मान् नित्यां त्रिरत्नानि संस्मृत्वा शरणं गताः / सत्कृत्य भावयित्वा च भजध्वं बोधिवांछया // rm_5.100{100} //

तथा वो मङ्गलं नित्यं सर्वत्र सर्वदा भवेत् / क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि लप्स्यथ // rm_5.101{1} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा / तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नानि सदाभजन् // rm_5.102{2} //

इत्य् एवं गुरुणादिष्टं मयैवं ते प्रचक्ष्यते / श्रुत्वैतच् छ्रावयित्वा च त्रिरत्नानि सदा भज // rm_5.103{3} //

ततस् त्वं क्रमशश् चैव बोधिचर्यां समाचरन् / सर्वपापविनिर्मुक्तः सुखावतीं समाव्रजेः // rm_5.104{3*} //

इत्य् एतद् गुरुणादिष्टं उपगुप्तेन भिक्षुणा / श्रुत्वा राजा तथेत्य् एवम् अभ्यनन्दत् सपार्षदः // rm_5.105{4} //

तत् संबुद्धानुभावं मुनिवरकथितं शालपुष्पावदानं / ये श्रुत्वा श्रावयन्ति प्रमुदितमनसः श्रद्धया बोधिकामाः / ते सर्वक्लेशमुक्ताः सकलगुणधरा बोधिचर्य्यानुरक्ताः / कृत्वा लोके हितार्थं जिनवरवसतिं संप्रयंति प्रहर्षैः // rm_5.106{5} //

++ इति शालपुष्पावदानं समाप्तं ++

वि सूकर्यवदान पुनर् एवं यतीशो ऽसाव् उपगुप्तो जिनांशजः / त्रिरत्नस्मृतिजं पुण्यं ख्यातुं नृपम् अब्रवीत् // rm_6.1{1} //

महत्पुण्यानुभावत्वं त्रिरत्नस्मृतिसंभवं / तद् अहं ते प्रवक्ष्यामि शृणु राजन् समाहितः // rm_6.2{2} //

धर्मता खलु देवानां स्वर्गच्यवनधर्म्मिणां / पंचपूर्वनिमित्तानि प्रादुर्भवेयुर् आत्मनि // rm_6.3{3} //

अक्लिष्टानि हि वासांसि क्लिश्येयुश् च्यवनान्तिके / अम्लानानि च माल्यानि म्लायेरन् सहसा खलु // rm_6.4{4} //

दौर्गन्धं निःसरेद् देहात् कक्षाभ्यां स्वेद उद्भवेत् / प्रच्युतिसमये प्राप्ते स्वासने न धृतिं लभेत् // rm_6.5{5} //

एतत्पंचनिमित्तानि स्वर्गाच् च्यवनधर्मिणां / सर्वेषां प्रोद्भवेयुश् च प्रच्युतिसमयागमे // rm_6.6{6} //

पुरैकदेवपुत्रस्य तथा च्यवनधर्मिणः / एतत्पंचनिमित्तानि प्रादुर् आसंश् च्युतेः पुरः // rm_6.7{7} //

अथ च्यवनधर्मासौ देवपुत्रो विषादितः / अवश्यं च्यवनं स्वर्गान् मत्वा रौत्सीद् अधीरितः // rm_6.8{8} //

आवर्त्य स्वविमानस्थः परिवर्त्त्य विमूर्छितः / पुनश् चैतन्यम् आसाद्य विलपं पर्य्यदेवतः // rm_6.9{9} //

हा मन्दाकिनि हेमाव्जव्याप्ते पुण्याम्बुवाहिनि / त्वयि स्नात्वप्य् अहं च्युत्वा यास्यामि दुर्गतिं कथं // rm_6.10{10} //

हा चैत्ररथम् उत्सृज्य क्व क्रीडेयं यथेछया / हा नन्दनवनं रम्यं त्यक्त्वाहं क्व रमेय च // rm_6.11{11} //

हा मिश्रिकावनं दिव्यं त्यक्त्वा रम्ये कुहाधुना / हा पारुष्यवनं त्यक्त्वा क्व रम्याम्य् अप्सरोगणैः // rm_6.12{12} //

क्व सुखं लप्स्यते पाण्डुकंवलकशिलां विना / हा देवसमितिं त्यक्त्वा क्व श्रोष्यामि सुभाषितां // rm_6.13{13} //

हा हा सुदर्शनं रम्यं पुरं त्यक्त्वा व्रजे च्युतः / प्रासादं वैजयंतञ् च कदा द्रक्ष्याम्य् अहं पुनः // rm_6.14{14} //

हा शक्रप्रमुखैर् देवैः सार्द्धं कृदाप्रमोदितः / अधुना मे क्व तत् सौख्यं श्रोतुं चापि न लप्स्यते // rm_6.15{15} //

हा देव्यम् अमृतं त्यक्त्वा किं प्रभोक्ष्यामि सांप्रतं / दिव्यकामसुखं भुक्त्वा पुनर् दुर्गतिम् आश्रयन् // rm_6.16{16} //

कियद् दुःखं च संभोक्तुं यास्यामि नरकेष्व् अहं / एतद् दिव्यमहोत्साहाद् भ्रष्टो ऽहं नरके गतः // rm_6.17{17} //

महद्दुःखाभिसंतप्तः सहिष्यामि कथं तदा / हा हतो ऽस्मि स्वपापेन किं पापं प्रकृतं मया // rm_6.18{18} //

येनेतः स्वर्गतश् च्युत्वा पुनर् यास्यामि नारकान् किं / उपायं करिष्यामि न यायां येन दुर्गतिं // rm_6.19{19} //

को मे शास्तात्र विद्येत यो मां धर्मे नियोजयेत् / धर्मेण रक्ष्यते प्राणी नरके संस्थितो ऽपि च // rm_6.20{20} //

धर्मं विनात्र देवो ऽपि स्वर्गात् प्रभ्रन्स्यते पुनः / किं करोमि क्व यास्यामि नात्रोपायं तु मन्यते // rm_6.21{21} //

सर्वथाहम् इतश् च्युत्वा गछेयं दुर्गतिं खलु / इतश् च्युतस्य मे जन्म लब्धव्यं भुवने कुह // rm_6.22{22} //

इति धैर्यं समाधाय मनसैवं व्यलोकयत् / च्युत्वेतः सौकरं जन्म प्राप्तव्यं सप्तमे दिने // rm_6.23{23} //

एवं स्वाप्तगतिं दृष्ट्वा पपात सविमूर्छितः / अथाद्राक्षीन् महेन्द्रस् तं पतितं भुवि मूर्छितं // rm_6.24{24} //

दृष्ट्वा च सहसोपेत्य सुधासेकैर् असिंचयत् / ततो ऽसौ चेतनां लब्ध्वा शनैर् उत्थाय तं प्रभुं // rm_6.25{25} //

दृष्ट्वा पादौ परिष्वज्य नत्वैवं प्रार्थयद् रुदन् / हा हा नाथ महेन्द्रो ऽसि सर्वलोकाधिपः प्रभुः // rm_6.26{26} //

माम् अधः पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हसि / भवान् हि जगतां राजा स्वामी भर्त्ता पतिः प्रभुः // rm_6.27{27} //

नाथो धर्मानुशास्ता च तन् मां रक्षतुम् अर्हसि / त्वदृते ऽन्यो न मे कश्चिद् रक्षको विद्यते ऽत्र हि // rm_6.28{28} //

तद् अनुकंपया दृष्ट्या धृत्वा माम् उद्धर प्रभो / यदि मां रक्षितुं नाथ न शक्नोति भवान् अपि // rm_6.29{29} //

को मां समुद्धरेद् अन्यो हा हतो नरके व्रजे / मंडाकिन्यां त्वया सार्द्धं स्नात्वा पूतात्मको ऽप्य् अहं // rm_6.30{30} //

कथं च नरके गत्वा वसेयम् अशुचिं चरन् / सहाप्सरोगणैर् नित्यं चरित्वा नंदने वने // rm_6.31{31} //

दिव्यसंगीतिवाद्यैश् च रमामि संप्रमोदितः / अद्येतः पतितो पृथ्व्यां राजगृहोपजांगले // rm_6.32{32} //

सौकरं जन्म लप्स्यामि सप्तमे दिवसे खलु / तत्र मूत्रपुरिषादीन् अमेध्यान् अपि कृच्छ्रतः // rm_6.33{33} //

लब्ध्वा भुक्त्वा चरिष्यामि व्याधसंघैर् उपद्रुतः / बहुवर्षसहस्राणि भूत्वैवं सूकरात्मजः // rm_6.34{34} //

अमेध्यकर्दमे नित्यं वत्स्याम्य् आवर्त्य संचरन् / एवं दिव्यामृतं भुक्त्वा रमित्वा भवता सह // rm_6.35{35} //

कथं हि नारके गत्वा भोक्ष्ये ऽमेध्यानि संचरः / इमं कल्पतरुं त्यक्त्वा यथेप्सितफलप्रदं // rm_6.36{36} //

जांगलं वृक्षम् आश्रित्य स्थितो भोक्ष्यामि किं तदा / सर्वथाहं च्युतो ऽस्मीतः प्रेरितो हि स्वकर्मणा // rm_6.37{37} //

विविधानि च दुःखानि भोक्तुं यास्यामि नारके / तद् उपायं प्रदातव्यं भवता मे ऽनुकंपिना // rm_6.38{38} //

येनाशु दुर्गतेर् मुक्तः प्रागछेयं च स्वर्गतिं / सर्वथा रक्ष मां नाथ यद्य् अस्ति ते कृपा मयि // rm_6.39{39} //

भवान् मां पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हति / भवान् एव जगच्छास्ता सर्वलोकाधिपः प्रभुः // rm_6.40{40} //

तद् आशु मां प्रयत्नेन समुद्धर्तुं समर्हति / इदं ते दर्शनं नाथ पश्चिमं मे भवेत् खलु // rm_6.41{41} //

जन्मशतसहस्रैश् च दुर्लभं स्याद् धि संगमं / इत्य् एवं विलपं देवपुत्रस् स तं सुराधिपं // rm_6.42{42} //

नत्वा पादौ निरीक्ष्यैव तस्थाव् अश्रुगलन्मुखः / अथ शक्रः सुरेन्द्रो ऽसौ दृष्ट्वैवं प्रविलापितं // rm_6.43{43} //

कारुण्या क्रान्तचित्तस् तम् आश्वासयन्न् अभाषत / मा कृथा रोदनं भद्र समाश्वसि हि धीरय // rm_6.44{44} //

क्रियन्ते किं प्रयत्नानि सर्वथा मरणं ध्रुवं / मृत्युर् महावलिष्ठो हि सर्वसत्वान्तकारकः // rm_6.45{45} //

ह्रीयन्ते मृत्युना सर्वे मृत्युः केन निहन्यते / अनिर्वायो हि सर्वत्र सर्वत्रैधातुकेष्व् अपि // rm_6.46{46} //

सर्वेषाम् अपि जन्तूनाम् एकान्ते मरणं ध्रुवं / तस्मान् मा भेस् तथा मृत्योः किं विषादेन सिध्यते // rm_6.47{47} //

तद् धैर्य्यतैः समालंव्य त्रिरत्नं शरणं व्रज / गत्वा च शरणं तेषां स्मर नित्यं समाहितः // rm_6.48{48} //

ततस् त्वं दुर्गतिं मुक्त्वा सद्गतिं समवाप्नुयाः / एतद् एव हि संसारे महोपायं शुभाप्तये // rm_6.49{49} //

नान्यद् धि विद्यते किंचिन् मृत्यौ साधारणे ध्रुवे / तद् अन्यच्चेतनां हित्वा त्रिरत्नान्य् अभिसंस्मरन् // rm_6.50{50} //

नमो बुद्धाय धर्माय संघायेति वदन् भज / ये त्रिरत्नस्मृतिं धृत्वा मृतास् ते पुण्यभागिनः // rm_6.51{51} //

क्रमाद् बोधिचरीं प्राप्य यायुश् चान्ते सुखवतीं / त्वं चापि त्रिरत्नानं स्मृत्वा मृतः सुपुण्यधृक् // rm_6.52{52} //

क्रमाद् बोधिचरीं प्राप्य संप्रयायाः सुखावतीं / इतीन्द्रेण समादिष्टं श्रुत्वा देवसुतो ऽथ सः // rm_6.53{53} //

तथेत्य् अनुसंमोद्य पुनर् नत्वैवम् अब्रवीत् / अद्यारभ्य महेन्द्राहं त्रिरत्नानं सदा स्मरन् // rm_6.54{54} //

गत्वा च शरणं तेषां उपासको भवे खलु / इत्य् उक्त्वा स महेन्द्रस्य पुरः स्थित्वा कृताञ्जलिः // rm_6.55{55} //

अनुस्मृत्य त्रिरत्नानां नमस्कृतिम् उदाहरत् / नमो बुद्धाय भद्राय नमो धर्माय तायिने // rm_6.56{56} //

नमः संघाय नाथाय सर्वदापि नमे भजे / अद्यारभ्य त्रिरत्नानां सदाहं शरणं व्रजे // rm_6.57{57} //

उपासको भवेन् नित्यं नमामि सततं स्मरेत् / इत्य् उक्त्वा देवपुत्रो ऽसौ कालधर्मयुतश् च्युतः // rm_6.58{58} //

तुषिते देवलोके ऽभूद् उपपन्नः सुपुण्यतः / धर्मता खलु देवानां ये देवाः स्वर्गतश् च्युताः // rm_6.59{59} //

ते ऽधोलोकेषु गछेयुर् न तूर्द्ध्वभुवनेषु हि / अथ शक्रो नरेन्द्रो ऽसौ दृष्ट्वा तं स्वर्गतश् च्युतं // rm_6.60{60} //

कुत्रासौ लभते जन्म इत्य् अधस्ताद् व्यलोकयत् / किम् असौ सूकरीगर्भ उत्पन्नो वा न वेति च // rm_6.61{61} //

अपश्यत् सर्वतश् चैनं न ददर्श कुहापि स / ततो ऽसौ विस्मितः शक्रो दिव्येन चक्षुषा पुनः // rm_6.62{62} //

कुत्रासौ लभते जन्म इत्य् एवं समलोकयत् / वत तिर्य्यक्षु जातो ऽसौ प्रेतेषु च प्रजायते // rm_6.63{63} //

अथ नरकेषु वा जात इत्य् एवं समलोकयत् / तेषु त्रिष्व् अप्य् अपायेषु नाद्राक्षीत् तं समंततः // rm_6.64{64} //

ततो मनुष्यलोकेषु जातो वेति ददर्श च / तत्रापि च स सर्वत्र नाद्राक्षीत् तं सुरेश्वरः // rm_6.65{65} //

ततश् चतुर्महाराजभुवनेषु प्रजायते / इति तेषु च सर्वत्र विलोकयन् ददर्श न // rm_6.66{66} //

ततश् च विस्मितः शक्रस् त्रयस्त्रिंशे व्यलोकयन् / तत्रापि तं न चाद्राक्षीत् कुत्रापि च समंततः / एवं सर्वत्र लोकेषु विलोकयंस् तदुद्भवं / अदृष्ट्वा विस्मितः शक्रः पुनर् एवं व्यचिंतयत् / अहो वत महाश्चर्य्यं यन् मयापि न दृश्यते // rm_6.67{67} //

कुत्रासौ जायते नूनं न मन्ये तत् प्रवृत्तितां / को नु ज्ञास्यति तद्वृत्तिं बुद्धाद् अन्यो न कश्चन // rm_6.68{68} //

बुद्ध एव जगद्दर्शी षडभिज्ञस् त्रिकालवित् / तस्माद् अहम् इतो गत्वा संबुद्धे समुपाचरन् // rm_6.69{69} //

विज्ञप्यैवं च तद्वृत्तिं प्रष्टुम् अर्हामि सांप्रातं / इत्य् एवं मनसा ध्यात्वा देवेन्द्रो ऽसौ सविस्मयः // rm_6.70{70} //

सहसा जेतकारण्ये जिनाश्रमम् अवातरत् / तत्रासौ सुगतं दृष्ट्वा सहर्षविस्मयान्वितः // rm_6.71{71} //

प्रणम्य पुरतः स्थित्वा कृतांजलिपुटो ऽवदत् / भगवंस् तद् विजानीया यद् इहाहम् उपागतः // rm_6.72{72} //

तथापि प्रष्टुम् इछामि तत् समादेष्टुम् अर्हसि / एकः कालगतो देवपुत्रः स्वर्गाच् च्युतो गतः // rm_6.73{73} //

षट्सु लोकेषु सर्वत्र दृश्यते न मया ह्य् असौ / कुत्रासौ जायते शास्तर् मया न दृश्यते क्वचित् // rm_6.74{74} //

तस्योत्पत्तिः कुह स्थाने तत् समादेष्टुम् अर्हसि / इतीन्द्रवचनैः श्रुत्वा स संबुद्धो मुनीश्वरः // rm_6.75{75} //

तस्य पुण्यात्मनः स्थानं इंद्राय समचक्षतच् / कौशिक तुषितो नाम लोकधातुः प्रसिद्धितः // rm_6.76{76} //

तत्रासौ मोदते देवो गत्वा त्रिशरणं च्युतः / इत्यादिष्टंअ मुनीन्द्रेण श्रुत्वा स त्रिदशाधिपः // rm_6.77{77} //

विस्मितः सुप्रसन्नात्मा प्रणत्वैवंम् उदानयत् / अहो बुद्धम् अहो धर्मम् अहो संघं शुभंकरं // rm_6.78{78} //

यत् संशरणमात्रे ऽपि सत्वा यान्ति शुभालयं / ये बुद्धं शरणं यान्ति न ते गछंति दुर्गतिं // rm_6.79{79} //

प्रहाय पातकान् सर्वान् दिव्यलोकम् उपासते / ये धर्मं शरणं यान्ति न ते गछंति दुर्गतिं / प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते // rm_6.80{80} //

ये संघं शरणं यान्ति न ते गछन्ति दुर्गतिं / प्रहाय सर्वदुःखानि दिव्यसौख्यान्य् उपासते // rm_6.81{81} //

धन्यास् ते पुरुषा भद्राः संबोधिपदगामिनः / ये संस्मृत्वा त्रिरत्नानि व्रजन्ति मरणं ध्रुवं // rm_6.82{82} //

अथासौ भगवाञ् छ्रुत्वा शक्रेणैवं सुभाषितं / तथानुवर्णयन् प्राह कौशिकं तं सुराधिपं // rm_6.83{83} //

एवम् एतद् धि देवेन्द्र यथैवं त्वं प्रभाषसे / धन्यास् ते पुरुषा भद्रा त्रिरत्नं भजंति ये // rm_6.84{84} //

ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं / क्लेशवैरीं विनिर्जित्य संबोधिं समवाप्नुयुः // rm_6.85{85} //

ये धर्मं शरणं यान्ति न ते गछन्ति दुर्गतिं / मारधर्मविनिर्मुक्ता बोधिधर्मान् अवाप्नुयुः / ये संघं शरणं यांति न ते गछंति दुर्गतिं / पातकेभ्यो विनिर्मुक्ताः संप्रयान्ति सुखावतीं // rm_6.86{86} //

न भजन्ति मुनीन्द्रं ये ते भ्रमंति भवार्णवे / संबोधिमार्गतो भ्रष्टा नष्टा गछन्ति दुर्गतिं // rm_6.87{87} //

ये शृण्वंति न सद्धर्मं ते क्लेशपरिदाहिताः / मारधर्मरता दुष्टाः प्रणष्टा यांति दुर्गतिं / न मानयंति ये संघं न ते जानंति सद्गतिं / सदा दुःखाभिसंतप्ता भ्रष्टा गछंति दुर्गतिं / निन्दन्ति ये त्रिरत्नानि ते दुष्टा मारपाक्षिकाः / नैव चरंति सन्मार्गे विनष्टा यंति दुर्गतिं / तस्माद् ये मानवाः सन्तो वांछन्ति सद्गतिं सदा / तैः संस्मृत्वा त्रिरत्नानां कर्त्तव्यं शरणं मुदा // rm_6.88{88} //

ये स्मरन्ति त्रिरत्नानां न ते गछंति दुर्गतिं / प्रहाय पातकान् सर्वाञ् शीघ्रं यान्ति सुखावतीं // rm_6.89{89} //

सुखावत्यां जिनेन्द्रस्य धर्मं श्रुत्वानुमोदिताः / बोधिचित्तं समासाद्य चरन्ति बोधिचारिकां // rm_6.90{90} //

ततस् ताः क्रमतः पूर्य्य संवृत्तिपारम् आगताः / परमार्थचरीं प्राप्य निर्वृत्तिं समवाप्नुयुः // rm_6.91{91} //

इदं हि बोधिमार्गानां वीजं विज्ञाय कौशिक / त्रिरत्नस्मरणं नित्यं कर्त्तव्यं बोधिवांछिभिः // rm_6.92{92} //

कदापि नैव मोक्तव्यं त्रिरत्नस्मरणं सदा / गत्वा च शरणं तेषां त्रिरत्नानां समाचर // rm_6.93{93} //

एवं तेन मुनीन्द्रेण समादिष्टं स कौशिकः / श्रुत्वैवम् इत्य् अनुज्ञाय प्राभ्यनन्दत् प्रसादितः // rm_6.94{94} //

ततो ऽसौ भगवन्तं तं नत्वा स रचितांजलिः / त्रिधा प्रदक्षिणीकृत्य पुनर् नत्वा दिवं ययौ // rm_6.95{95} //

ततो देवपुरे गत्वा सुधर्ममंदिरे स्थितः / देवलोकान् समामंत्र्य तत् प्रवृत्तं समब्रवीत् // rm_6.96{96} //

भो भो देवगणाः सर्वे शृणुध्वं तत् समाहितः / यद् अद्भुतं महापुण्यं संबोधिहेतुम् उच्यते // rm_6.97{97} //

धर्मता खलु देवानां ये ये देवा हि नाकतः / च्युतास् ते ते प्रयान्त्य् अधो न तूर्द्ध्वं यान्ति के चन // rm_6.98{98} //

इदानीं तु व्रजेयुस् ते ये देवाः स्वर्गतश् च्युताः / त्रिरत्नशरणं कृत्वोर्द्ध्वगतिं न त्व् अधोगतिं // rm_6.99{99} //

दृश्यताम् अमुको देवपुत्रस् त्रिशरणं गतः / स्वर्गाच् च्युत्वा समुत्पन्नस् तुषिते ऽसौ प्रमोदते // rm_6.100{100} //

यूयम् अपि च तद् दृष्ट्वा त्रिरत्नानां समाहिताः / गत्वा च शरणं नित्यं स्मृत्वा भजध्वम् आदरात् // rm_6.101{1} //

ततो यूयं न यायात दुर्गतिषु कदा चन / सदा दिव्यसुखं भुक्त्वा प्रयास्यथ सुखावतीं // rm_6.102{2} //

ये बुद्धे शरणं यांति न ते गछन्ति दुर्गतिं / क्लेशवैरान् विनिर्जित्य संबोधिपदम् आप्नुयुः // rm_6.103{3} //

ये धर्मे शरणं यान्ति न ते गछन्ति दुर्गतिं / मारधर्मविनिर्मुक्ता बुद्धधर्माण्य् अवाप्नुइयुः // rm_6.104{4} //

ये संघे शरणं गत्वा न ते गछन्ति दुर्गतिं / सर्वपातकनिर्मुक्ता प्रयास्यंति सुखावतीं // rm_6.105{5} //

न भजन्ति त्रिरत्नं ये ते भ्रमन्ति भवार्णवे / सद्धर्मनिन्दका भ्रष्टा नष्टा गछन्ति दुर्गतिं // rm_6.106{6} //

दुर्गतिषु भ्रमंतस् ते दुःखानि विविधानि च / भुक्त्वा चरन्ति दुष्टांशा नैव गछंति सद्गतिं // rm_6.107{7} //

तद् दुःखं हातुम् इछंति सुखं प्राप्तुं च ये सदा / ते त्रिरत्नं सदा स्मृत्वा भजंतां शरणं गताः // rm_6.108{8} //

ततो वो मंगलं नित्यं नैव यायात दुर्गतिं / सद्गतिम् एव यायात संबोधिम् अपि लप्स्यथ // rm_6.109{9} //

इति तेन सुरेन्द्रेण समादिष्टं हितार्थिना / श्रुत्वा सर्वे ऽपि ते देवास् तथेत्य् उक्त्वा ननन्दिरे // rm_6.110{10} //

तदा सर्वे ऽपि देवाश् च त्रिरत्नं शरणं गताः / सर्वदानुस्मरन्तश् च सत्कृत्यैवं प्रभेजिरे // rm_6.111{11} //

एवं देवास् तदा ये ये त्रिरत्नशरणं गताः / ते ते स्वर्गाद् अपि च्युत्वा नैवागछन्न् अधोगतिं // rm_6.112{12} //

तत ऊर्द्ध्वं समुद्गम्य प्रागछंस् तुषितालये / त्रिरत्नशरणं याता मैत्रेयं समुपाश्रयन् // rm_6.113{13} //

तथा शक्रश् च तान् सर्वान् मैत्रेयसमुपाश्रितान् / दृष्ट्वानुमोदनां कुर्वन् प्राभ्यनन्दत् सुरैः सह // rm_6.114{14} //

इति मे गुरुणा ख्यातं तथा ते वक्ष्यते मया / एवं मत्वा महाराज त्रिरत्नशरणं व्रज // rm_6.115{15} //

ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिचरीः प्राप्य संबोधिपदम् आप्नुयाः // rm_6.116{16} //

प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः / त्रिरत्नशरणे स्थाप्य त्वया धर्मप्रवृद्धये // rm_6.117{17} //

इत्य् एवम् उपगुप्तेन समादिष्टं सुभाषितं / श्रुत्वा राजा तथेत्य् एवं प्रान्वमोदत् सपार्षदः // rm_6.118{18} //

ये पुण्यप्राप्तुकामास् तद् इदम् अविरतं सूकरीकावदानं / शृण्वन्ति श्रवयन्ति प्रमुदितमनसा दुर्गतिं ते न यान्ति / निर्जित्य क्लेशसंघांस् त्रिगुणहितकरा बोधिचर्य्यानुरक्ता / मैत्रेयं बोधिसत्वं तुषितभुवनागाः संभजन्ति प्रकामं // rm_6.119{19} //

++ इति रत्नावदानमालायां सूकर्य्यवदानं समाप्तं ++

विइ वपुष्मत्कुमारावदान अथशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_7.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / सर्वसत्वहितार्थाय तत् समादेष्टुम् अर्हसि // rm_7.2{2} //

इति संप्रार्थिते तेन राज्ञाशोकेन भूभुजा / उपगुप्तो यतिश् चासौ दृष्ट्वा तं नृपम् अब्रवीत् // rm_7.3{3} //

साधु राजन् समाधाय श्रूयतां पुण्यवृद्धये / यथा मे गुरुणा ख्यातं तथा ते वक्ष्यते मया // rm_7.4{4} //

पुरासीद् भगवान् बुद्धः श्रीघनः शक्यकेशरी / सर्वविद्यागुणाचार्य्यस् त्रैधातुकविनायकः // rm_7.5{5} //

सुगतो ऽर्हन् महाभिज्ञो धर्मराजस् तथागतः / जिनः समन्तभद्रांशश् चतुर्ब्रह्मविहारकः // rm_7.6{6} //

स एकसमये तत्र कपिलाख्ये पुरोत्तमे / न्यग्रोधारमके रम्ये व्यहरच् छ्रावकैः सह // rm_7.7{7} //

तस्मिंश् च समये तत्र धर्म्मं श्रोतुं समागताः / देवासुरमहाराजा यक्षगंधर्वकिन्नराः // rm_7.8{8} //

गरुडा नागराजाश् च सिद्धविद्याधरा ग्रहाः / योगिनो यतयश् चापि मुनयो ब्रह्मचारिणः // rm_7.9{9} //

राजानः क्षत्रियाश् चापि वैश्यामात्याश् च मंत्रिणः / श्रेष्ठिनः सार्थवाहाश् च पौरा जानपदा अपि // rm_7.10{10} //

एवम् अन्ये ऽपि सत्वाश् च ये सद्धर्मगुणवांछिनः / ते सर्वे समुपागत्य वंदित्वा तं मुनीश्वरं // rm_7.11{11} //

पूजयित्वा पुरस्कृत्य परिवृत्य समन्ततः / कृतांजलिपुटो धर्मं श्रोतुं समुपतस्थिरे // rm_7.12{12} //

अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मकांक्षिणः / आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं // rm_7.13{13} //

तं च धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः / सत्कृत्य श्रद्धया नित्यं भजन्त उपतस्थिरे // rm_7.14{14} //

भगवांश् च तथा नित्यं सर्वसत्वहितार्थतः / सद्धर्मदेशनां कृत्वा व्यहरत् सांघिकैः सह // rm_7.15{15} //

तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि / आसीच् छाक्यो महासाधुर् महाभोगो महाधनः // rm_7.16{16} //

तेन कलत्रम् आनीतं स्वकुलसदृशात् कुलात् / तया स कान्तया सार्द्धं रराम परिचारयन् // rm_7.17{17} //

तस्यैवं रममाणस्य सा भार्यासीत् सुगर्भिणी / ततो ऽसौ समये ऽसूत दारकं दिव्यसुंदरं // rm_7.18{18} //

मर्त्यातिक्रान्तवर्णाभं दिव्यकल्पसुवर्णितं / सूक्ष्मछविं सुभद्रांगं गौरवर्णं मनोहरं // rm_7.19{19} //

महेशाख्यं मनापं च दर्शनीयं प्रसादिकं / अभिरूपं सुपुष्टांगं सर्वलक्षणमण्डितं // rm_7.20{20} //

तत्रासौ जनको दृष्ट्वा दारकं तं सुभद्रिकं / मोदितः सहसा ज्ञातिं समाहूयाब्रवीत् तथा // rm_7.21{21} //

भवन्तः पश्यतां पुत्रो ममायं दिव्यसुंदरः / अस्य जातिमहं कृत्वा नामधेयं प्रचक्ष्यतां // rm_7.22{22} //

इति तेनोदितं श्रुत्वा ज्ञातयस् ते ससंमताः / दृष्ट्वा तं वालकं दिव्यं कल्यवर्णं सुसुंदरं // rm_7.23{23} //

संमील्य संमतं कृत्वा दृष्ट्वा तस्याङ्गलक्षणं / कृत्वा जातिमहं नाम स्थापितुं संवभाषिरे / यद् अयं दारको दिव्यवपुः कल्यातिसुंदरः / तस्माद् भवतु नाम्नायं वपुस्मान् इति विश्रुतः / इति संभाषणां कृत्वा सर्वे ते ज्ञातिवर्गिकाः // rm_7.24{24} //

पुरस्तात् तस्य शाक्यस्य गत्वा चैवं वभाषिरे / यद् अयं भवतः पुत्रो दिव्यवपुर् गुणान्वितः // rm_7.25{25} //

तस्माद् भवतु नाम्नायं वपुष्मान् इति विश्रुतः / तथेति समभिख्याय पित्रा स सुत आत्मजः // rm_7.26{26} //

अष्टाभ्य उपमातृभ्य उपन्यस्तो ऽभिपालने / ततो ऽसौ दारकस् ताभिर् धात्रीभिर् उपचारणैः // rm_7.27{27} //

पालितो वर्द्धितः पुष्ट आसीत् पद्मं यथा ह्रदे / क्रमात् प्रवर्द्धितश् चासौ कुमारो ऽभूद् यदा ततः // rm_7.28{28} //

तदा सुहृत्सहायैश् च सार्द्धं क्रीडितुम् आचरत् / यत्र यत्र वपुष्मान् स चक्राम भुवि संचरं // rm_7.29{29} //

तत्र तत्राभवन् मेध्या भूप्रदेशाः समंततः / एवंविधमहापुण्यमहेशाख्यः शिवाशयः // rm_7.30{30} //

कारुणिको महाश्राद्धः स्वपरात्महितार्थभृत् / धर्मकामः सुभद्रात्मा पूज्यो मान्यो जितेन्द्रियः // rm_7.31{31} //

अभिवाद्यः कुमारो ऽपि वपुष्मान् स व्यराजत / ततः कर्मविपाकेन प्रेर्य्यमानः कुमारकः // rm_7.32{32} //

स वपुष्मान् सुहृत्संघैः सार्द्धं पुरो विनिर्ययौ / ततो ऽसौ जेतकारण्यं दूराद् दृष्ट्वा प्रमोदितः // rm_7.33{33} //

रमितुं तत्र महोद्याने सहसा समुपाचरत् / ततः समुपविष्टो ऽसौ दृष्ट्वोद्यानं प्रमोदितः // rm_7.34{34} //

शान्तरूपान् यतीन् पश्यन् विहारे हर्षितो ऽविशत् / तत्रासौ भगवन्तं तं ददर्श समितिस्थितं // rm_7.35{35} //

द्वात्रिंशल्लक्षणाशीतिव्यञ्जनपरिमण्डितं / व्यामाभालंकृतं काम्यं शतसूर्य्याधिकप्रभं // rm_7.36{36} //

समंतभद्ररूपं च रत्नांगम् इव जंगमं / दृष्ट्वासौ सुप्रसन्नात्मा समुपेत्य पुरोगतः // rm_7.37{37} //

पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुम् उपाविशत् / अथासौ भगवान् दृष्ट्वा तस्य चित्तं विशोधितं // rm_7.38{38} //

अर्य्यसत्यानि मार्गं च दिदेश बोधिसाधनं / तच् छ्रुत्वा सुगतोदितं वपुष्मान् स प्रहर्षितः // rm_7.39{39} //

भवाभिसरणोद्विग्नः सद्धर्मगुणम् ऐछत / भित्वा स ज्ञानवज्रेण सत्कायदृष्टिपर्वतं // rm_7.40{40} //

श्रोतापत्तिफलं लब्ध्वा दृष्टसत्यो ऽभवत् सुधीः / संसारं चास्थिरं मत्वा भवभोग्यसुनिस्पृहः // rm_7.41{41} //

प्रव्रज्यां चरितुम् ऐछत् स्वाख्याते सुगताश्रमे / ततो ऽसौ पुरतो गत्वा मुनीन्द्रस्य कृतांजलिः // rm_7.42{42} // पादौ नत्वा प्रसन्नास्यः प्रव्रज्यां समयाचत // rm_7.43{43} // नमस् ते भगवञ् छास्तः शरणं भवतां व्रजे / तत् प्रव्रज्याव्रतं देहि चरिष्ये ब्रह्मचारिकां // rm_7.44{44} //

इति तेनार्थितं दृष्ट्वा भगवांस् तं कुमारकं / प्रव्रज्याचरणारक्तं मत्वा चैवं समब्रवीत् // rm_7.45{45} //

कुमार यदि ते वांछा प्रव्रज्याचरणे ऽस्ति हि / पित्रोर् आदेशम् आसाद्य प्रागछ दास्यते तदा // rm_7.46{46} //

इति श्रुत्वा मुनीन्द्रस्य निर्देशं तत् तथेति सः / नंदितश् चरणौ नत्वा स्वगृहं सहसागतः // rm_7.47{47} //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.