Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
सुवर्णवर्णावदान
- Thông tin
- GRETIL — Sitaram Roy: Suvarṇavarṇāvadāna [Decipherment and historical study of a palm-leaf Sanskrit manuscripts-an unknown Mahāyāna(avadāna) text from Tibet.], Patna : K.P. Jayaswal Research Institute 1971 (Historical Research Series, vol. VII); compared with: Rajapatirana, Tissa (1974), Suvarṇavarṇāvadāna, translated and edited together with its Tibetan translation and the Lakṣacaityasamutpatti, A thesis submitted for the Degree of Doctor of Philosophy in the Australian National University, Canberra. pdf part 1, pdf part 2. Also consulted: Dharmaśrībhadra and Rin chen bzaṅ po, "gSer mdog gi r
स्व रोय् 309,2 - 312,5 [112] तच् छ्रुत्वा भृतकपुरुषः प्रसादकण्टकितः सहसैवोत्पन्नातिदुर्ल्लभप्रतिभानस् तम् उवाच ॥ कर्णेन सार्थवाहेन तृष्णयानुप्रदत्तं माषपूपकम् एवंविधे परमदक्षिणीये भगवति विपश्यिनि तथागते तत्क्षणाद् एवैष सार्थवाहो ऽदरिद्रः स्याम् इत्य् एवंविधं चिन्तामणिरत्नभूतं तथागतम् आसाद्यातिपरीत्तविभवमात्रकहेतभूतं प्रणिधानं कृतवान् । अहन् तु पुनर् यद् भगवन्तं तथागतम् अर्हन्तं सम्यकसम्बुद्धम् अनेककल्पकोटीनियुतशतसहस्रैर् अप्य् अनासाद्य दर्शनम् अतिदर्शनीयम् अनुत्तरम् अनन्तरकल्पशतसहस्रसम्भृताशेषसत्त्वप्रवृतोत्तमपुण्यसम्भारानुप्रवृत्तकारुण्यम् अनेकविधसांसारिकक्लेशविषमहोरगोपदष्ट_अतिदीनानुकम्पकं पतितजनविशेषवत्सलम् अनुपकृतबान्धवम् अनेककालानासादितविभवो ऽहम् अनयाभिपरीत्तया क्षेत्रपालितार्जितया भक्तभिक्षया प्रतिपादयितुम् आसादयामि । तदा तादृशं प्रणिधानं करिष्यामि येन सर्वसत्त्वोत्तमो भविष्यामीत्य् आशयोद्गीर्णवचनावसानसमनन्तरं भगवान् विपश्यी सम्यक्सम्बुद्धस् तस्य चेतसो चित्तम् आज्ञाय ऋद्धया गत्वाग्रतः स्थितो ऽद्राक्षीत् स भृतकपुरुषो विपश्यिनं तथागतम् असेचनकदर्शनम् अभिरुचिरचारुचामीकरामरगिरिशिखरतररुणविकिरणविसरचितान्तरोद्भासितभासुरतरशरीरद्युतिं दृष्ट्वा च पुनः परमप्रीतिसौमनस्य जातो ऽतिमहता प्रसादवेगेन तां भक्तपुटिकाम् आदाय भगवतो विपश्यिनः सम्यक्सम्बुद्धस्य पात्रे प्रतिपाद्य तीव्रेण प्रसादवेगेन पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः ॥
स्व रोय् 312,5 - 314,3 [113] अनेन नाथ पुण्येन इतः प्रभृति जन्मनः । सर्वसत्त्वहिताध्यायी भूयशः करुणात्मकः ।1। यथा त्वं लक्षणोपेतो ऽनुत्तरा बोधिम् आप्तवान् । तथाहम् अपि सम्बोधिम् अतुलां समवाप्नुयां ।2। यथा देशयसे धर्मसर्वज्ञत्वं यथा त्वया । प्राप्तं तथाहम् अप्य् एव सर्वज्ञत्वम् अवाप्नुयां ।3। निर्जितस् ते यथा मारो धर्मचक्रं प्रवर्तितं । तथाहमपि निर्जित्य धर्मचक्रं प्रवर्तये ।4। तीर्णस् तारयसे नाथ यथा संसारसागरात् । अत्वान् बहूंस् तथा चाहं ताराये मुनिसत्तम ।5।
अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैर् उवाच । भद्रमुख ।
अथ स भगवान् विपश्यी सम्यक्ससम्बुद्धः सकलजलदगम्भीरोदात्तेन स्वरेणोच्चैर् उवाच । भद्रमुख ।
भविष्यसि त्वं हि महानुभावः सर्वार्थसिद्धो भुवि नाम शास्ता । जित्वेह मारं सबलं प्रसह्य भीमं समन्ताद् अभिनिष्पतन्तं ।6। इत्य्
स्व रोय् 314,3 - 316,3 [114] अथ विपश्यी सम्यक्सम्बुद्धस् तं पुरुषम् अनुत्तरायां सम्यक्सम्बोधौ व्याकृत्य प्रक्रान्तो ऽयञ् च वृत्तान्तो बन्धुमत्यां राजधान्यां समन्ततो निःसृतः । यावद् राज्ञां बन्धुमता श्रुतं । श्रुत्वा च पुनस् तेन स्वयम् एवागत्य ततकुशलमूलसंभारोत्साहितमतिना स पुरुषो ऽति महता सत्कारेण हस्तिस्कन्धे समारोप्य भवनं नीत्वार्धासनं निषाद्यार्द्धराज्यानुप्रदानेन पूजितः । स कथयति । महाराज नाहं कामैर् अर्थी तदनुजानीस्व मां प्रव्रज्य ब्रह्मचर्यञ् चरामीति । स राज्ञानुज्ञातः स्वाख्याते धर्मविनये प्रव्रजितः स तत्र यावद् आप्तब्रह्मचर्यं चरित्वा कालगतो निर्माणरतिषु देवेषूप्रपन्नः । बन्धुमान् अपि राजा कालगतः । तस्य पुत्रो राज्ये प्रतिष्ठितः । सो ऽपि किञ्चित् कालं राज्यं कारयित्वा कालगतो ऽमात्यैर् महता सत्कारेण सुरूपो राज्ये प्रतिष्ठापितस् तेन षष्ठिवर्षहस्राणि धर्मेण राज्यं कारितं । ततः कालं कृत्वा तुषितदेवनिकाये उपपन्नः ।
स्व रोय् 316,4 - 318,5 [115] किं मन्यसे महाराजान्यः स तेन कालेन तेन समयेन सुरूप्रो नाम राजा ऽभूद् इति । न खल्व् एवं दृष्टव्यं । अपि त्व् एष सुवर्णवर्णः स तेन कालेन तेन समयेन सुरूपो ऽनाम राजाभूद् यद् अनेन विपश्यिनि तथागते हरिद्रारक्तं वस्त्रखण्डम् अनुप्रदतं प्रणिधानञ् च कृतं तस्य कर्मणो विपाकेनानेन देवमनुष्येष्व् अनन्तं देव्यमानुष्यकं सुखम् अनुभूतं यत्र यत्रोपपद्यते तत्र तत्र सुवर्णकायः सुवर्णवर्णवस्त्राच्छादितशरीरः कर्णिकारकुसुमवर्षं चास्य जातिसमये प्रपतति स्म ॥ यावद् एतर्ह्य् अप्य् एवं पुण्यमहेशाख्यो यत् कायाद् असकृद् अपनीते वस्त्रे ऽन्यद् वस्त्रं तत्क्षणाद् एव शरीरे समुत्पद्यत इति । यो ऽसौ कर्णः सार्थवाहो ऽयम् एवासौ दिवाकरः सार्थवाहस् तेन कालेन तेन समयेन या सा कर्णस्य सार्थवाहस्य भार्या । एषैव दिवाकरस्य सार्थवाहस्य भार्या । दासी काशिसुन्दरी दासः प्रचण्डो ऽग्रामात्यस् तेन कालेन तेन समयेन ।
स्व रोय् 318,5 - 320,321 [116] पुनर् अपि राजा ऽजातशत्रुः स्थविरानन्दम् इदम् अवोचत् । किं भदन्तानन्द सुवर्णवर्णेन भिक्षुणा कर्म कृतं । यस्य कर्मणो विपाकेनादूश्य् अनपकारी शूले समारोपितः । प्रव्रज्यञ् चार्हत्वं प्राप्तम् इति । स्थविरानन्दः कथयति । भूतपूर्वं महाराजातीते ध्वनि चन्द्रो नाम सम्यक्सम्बुद्धो लोक उदपादि तथागतो ऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानाञ् च मनुष्यानाञ् च बुद्धो भगवान् असौ ऽन्यतमां राजधानीम् उपनिःसृत्य विहरति स्म । तेन खलु समयेनान्यतमस्मिंश् च विहारे ऽन्यतमो भिक्षुः धार्मकथिकः स कालेन कालम् आगतागतानां ब्राह्मणगृहपतीनां धर्मं देशयति । तस्य महान् लाभसत्कार उत्पद्यते ।
स्व रोय् 320,3 - 323,4 [117] यावद् अपरेण समयेनाजितो नाम भिक्षुः धार्मकथिको युक्तमुक्तप्रतिभानश् चित्रकथो मधुरकथो । जनपदचारिकाञ् चरन् तं विहारम् आगतः स चतसृणां पर्षदां धर्म देशयत्य् आदौ कल्याणं मध्ये कल्याणं पर्यवशाने कल्याणं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं सम्प्रकाशयति । तेन सर्व एवासौ कर्वटनिवासीजनकायो ऽभिप्रसादितः । स लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां । तस्य नैवासिकस्य धार्मकथिकस्य भिक्षोर् लाभसत्कारसमुच्छिन्नस् तस्यैतद् अभवद् अजितेन मे भिक्षुणा लाभसत्कार समुच्छेदः कृतः । तद् यावद् एष इहावतिष्ठते तावत् कुतो मे लाभसत्कारो भविष्यति । उपायम् अस्य गमनाय चिन्तयितव्यम् इति । पुनश् चिन्तयति । असत्कारभीरवश् चैव बहुश्रुताः । असत्कारो ऽस्य प्रयोक्तव्य इति विदित्वान्यतमां ब्राह्मणकुमारिकाम् आह । भगिन्य् अहन् ते वासोयुगम् अनुप्रदास्याम्य् एतम् अजितं भिक्षुं दूषय मया सार्द्धम् अब्रह्मचारीति । सा कथयत्य् आर्य यद्य् अहम् एवं वक्ष्यामि तत् को मां परिणेष्यति । ननु यावज्जीवम् मातापितृपोष्या भविष्यामीति । स कथयत्य् अहं तथा करिष्यामि यथा न महाजनविदितं भविष्यति । यदा त्वं स्वैर् आलापेन कथयिष्यसीति । अपि तु यदायं तृभिश् चतुर्भिः परैर् भिक्षुभिः सार्द्धं निषण्ण इहावतिष्ठते । तया प्रतिज्ञातम् एवं करिष्यामीति ।
स्व रोय् 323,4 - 326,4 [118] यावद् अपरस्मिन् दिवसे स धार्मकथिको भिक्षुर् भिक्षुभिः सार्द्धं लयनद्वारे निषण्णः कथासांकथ्येनावतिष्ठते तया च ब्राह्मणदारिकया गत्वाभिहितः । आर्य प्रव्रजिता यूयम् इति कृत्वा वयम् इह विस्रब्धा उपसंक्रमितव्यं मन्यामहे । तत् कथम् एतद् युक्तं यद् अहम् अनेनाप्य् अजितेन भिक्षुणा हठाद् गृहीत्वा विकुमारी कृतेति । ततस् तैर् भिक्षुभिः कर्णौ पिधायाभिहितं । भगिनि मैवम् वद नैतच् छ्रोतव्यम् इति । ततस् तेन धार्मकथिकेन भिक्षुणा न साधु कृतं न साधु कृतम् इत्य् उक्त्वा अजितस्य भिक्षोर् अवर्णो निश्चारितः । यावच् छ्रवणपरंपरया ऽजितेन भिक्षुणा श्रुतं श्रुत्वा कथयति । क एवम् आहेति । एष धार्मकथिको भिक्षुर् इति । स येन धार्मकथिको भिक्षुस् तेनोपसंक्रान्तः । उपसंक्राम्य कथयति । भदन्त किम् मया तवापराधं कृतं यद् एवम् अवर्णनिश्चारणं मे कृतवान् असीति । तेन तस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तादृशं त्वया पापकर्म कृतं येन त्वं शुलम् अर्हसीति । तच् छ्रुत्वा अजितस्य भिक्षोर् एतद् अभवत् । दुःखितो ऽयं तपस्व्य् उपहतश् चेति विदित्वा पात्रचीवरम् आदाय यथापरिभुक्तं शयनासनं प्रतिशमाय्य तस्माद् विहारान् निष्क्रम्य संप्रस्थितः । तञ् च संप्रस्थितम् अवलोक्य भिक्षवो भिक्षुण्यः स च कर्वटकनीवासीजनकायस् तं निवर्त्तयितुकामाः पृष्ठतो ऽनुबद्धा ॥
स्व रोय् 326,4 - 329,330 [119] तस्य धार्मकथिकस्य भिक्षोः कौकृत्यम् उत्पन्नं न शोभनं मया कृतं यल् लाभसत्कारकारणाद् ईदृशम् अपायगतिसम्वर्तनीयं कर्म कृतम् इत्य् उत्पन्नवैमनस्यो गच्छाम्य् एनं क्षमापयामीति त्वरितत्वरितं तस्माद् विहारान् निष्क्रम्यातिसम्विग्नमना अश्रुधारावसिच्यमानदीनवदनो बालदारक इवोच्चैः प्ररुदरन् पश्यता तेषाम् अनेकेषां ब्राह्मणगृहपतिशतसहस्राणाम् अजितस्य भिक्षोः पादयोर् निपत्यात्ययम् अत्ययतो देशयितुम् आरब्धः । क्षमस्व भदन्त यथा बालेन यथा मूढेन यथाव्यक्तेनाकुशलेन लाभसत्काराभिभूतेन मया तवाभूतेनावर्णो निश्चारितस् तद् अत्ययम् अत्यतो देशयत क्षमस्वानुकम्पाम् उपादयेति । अजितो भिक्षुः कथयति । आयुष्मान् क्षान्तम् इत्य् उक्त्वातीवसंविग्नचित्तो ऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य तेन तस्मिन्न् एव परमसम्वेगद्रवीकृतचेतसा उद्यच्छता घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा यावत् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च सम्वृत्तः । स विततपक्ष इव हंसराजो गगनतलम् उत्पत्य तस्य महतो जनकायस्य मनांस्य् अभिप्रसाद्यन् विविधानि प्रातिहार्याणि प्रदर्शयितुम् आरब्धः । स च धार्मकथिको भिक्षुस् तं गगनतलस् तम् अवलोक्य हा कस्टम् ईदृशस्य मया महर्षेर् अन्तिके चित्तं प्रदूषितम् इत्य् उक्त्वा मूर्छितः पृथिव्यां निपतितः ॥
स्व रोय् 330,1 - 332,333 [120] अत्रान्तरे भगवांश् चन्द्रः सम्यक्सम्बुद्धो महाकरुणया परिगतहृदयः मा खल्व् अयं धार्मकथिको भिक्षुर् उष्णं शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा ऋद्धया तं कर्वटकम् आगतः । ततो भगवता चन्द्रेण सम्यक्सम्बुद्धेन चक्रस्वस्तिकनन्द्यावर्तजालाववद्धेनानेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरेण करेण स धार्मकथिको भिक्षुः शिरसि परामृष्टः । स्पृष्टमात्रश् च भगवता स भिक्षुश् चेतनां प्रतिलभ्योत्थितो ऽत्ययम् अत्ययतो देशयितुम् आरब्धाः ॥ अथ भगवांश् चन्द्रः सम्यक्सम्बुद्धस् तस्यां वेलायां गाथा भाषते ।
puruṣasya hi jātasya kuṭhārī jāyate mukhe | cchinnatti hi yayātmānaṃ vācā durbhāṣitaṃ vadan |1| yo nindyajanaṃ praśaṃsati praśaṃsyañ ca janaṃ vinindati | sa cinoti mukhena taṃ kaliṃ kalīnāṃ yena sukhaṃ na vandati |2| alpamātro hy ayaṃ kalir ya ihākṣaiḥ svadhanaṃ parājayet | ayam atra mahattaraḥ kalir yaḥ sugateṣu manaḥ pradūṣayet |3| śataṃ sahasrāṇi nirarbudānāṃ ṣaṭtriṅśataṃ pañca caivārbudāni | yān āryagarhī narakān upaiti vācaṃ manaś ca praṇidhāya pāpakaṃ |4| ( for a verse in tibetan corresponding to udānavarga viii.6) cittapradūṣaṇāhetoḥ satvā gacchanti durggatiṃ | cittaprasādanāhetoḥ satvā gacchanti sadgatiṃ |5|
इत्य् एष भगवांश् चन्द्र सम्यक्सम्बुद्धस्तां पर्षदं धार्मया कथया यावत् संप्रहर्ष्योत्थायासनात् प्रक्रान्तः ॥
स्व रोय् 333,2 - 336,5 [121] किम् मन्यसे महाराजान्यः स तेन कालेन तेन समयेन धार्मकथिको भिक्षुर् अभूद् इति । न खल्व् एवं द्रष्टव्यम् अपि त्व् एष एव सुवर्णवर्णः तेन कालेन तेन समयेन तस्य भिक्षोर् अन्तिके चित्त प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पञ्चजन्मशतानि नरकेषु पत्त्वा मनुष्येषु चोत्पन्नः पञ्चजातिशतानि अदूष्य् अनपकारी शूलम् आरोपितो यावद् एतर्ह्य् अपि तेनैव कर्मवशेणादूष्य् अनपकारी शूलम् आरापितो यद्य् अनेन तत् कर्म कृत्वा नात्ययम् अत्ययतो देशितं स्यात् तद् एष पञ्चजन्मशतान्य् एकैकस्मिं महानिरये पक्वः स्यात् । पञ्चजन्मशतानि प्रेतेषु पञ्चजन्मशतानि तिर्यक्षुपपन्नः स्यात् । यद् अनेन भगवतश् चन्द्रस्य सम्यक्सम्बुद्धस्य शासने ब्रह्मचर्यञ् चरितं तस्य कर्मणो विपाकेनैतर्ह्य् अनेन भगवच्छासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् इति ॥ तस्मात् तर्हि महाराज आत्मनो दुःखम् अन्विच्छता न परेषाम् अन्तिके चित्तप्रदूषणं कर्तव्यं ॥ अयशोभीतेन च न परेषाम् अयशो ऽनुप्रदेश्यं । आत्मनः सुखम् अन्विच्छता परेषाम् अपि सुखोपसंहारः कर्तव्य इत्य् अथास्मिन् धर्मपर्याये भाष्यमाणे ऽनेकैः प्राणिशतसहस्रैर् महां विशेषो ऽधिगतः । कैश्चित् श्रोतापत्तिफलं कैश्चित् सकृदागामिफलं कैश्चिद् अनागामिफलं कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं । कैश्चिद् अनुत्तरायां सम्यक्सम्बोधौ चित्तान्य् उत्पादितानि । कैश्चित् श्रावकबोधौ । कैश्चिच् चरणगमनशिक्षापदानि गृहीतानि । यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यस्थापिता ॥
स्व रोय् 336,5 - 339,3 [122] अथ दिवाकरः सार्थवाह एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य कृतकरपुटः स्थविरानन्दम् एतद् अवोचत् । आर्यानन्द मया बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्ग्गृहे उपनिमन्त्र्य षड्रसेनाहारेण भोजयित्वा एकैको भिक्षुः शतसहस्रकेण चीवरेणाच्छादयितव्य इति विचिन्तितं स च भगवान् परिनिर्वृतस् तद् इच्छाम्य् आयीनन्दप्रमुखं भिक्षुसंघम् अधुना भोजयितुम् इति ॥ स्थविरानन्दः कथयति । सार्थवाहैवं कुरुष्वाहं तथा करिष्यामि सर्व एव जाम्बूद्वीपावस्थिता भगवतः श्रावका इहागमिष्यन्तीति । अथ दिवाकरः सार्थवाहः प्रहर्षपूर्णमना राजगृहस्य नगरस्य बहिर् मण्डलवाटकम् अपगतपाषाणशर्करकठलं समुच्छ्रितध्वजपताकं चन्दनवारिसिक्तम् आमुक्तपट्टदामकलापां नानापुष्पावकीर्णं सुरभिधूपघटिकोपधूपघटिकोपनिबद्धम् अतिरुचिरवितानतोरणम् अतिरमणीयं कारयित्वा ताम् एव रात्रिं शुचिप्रणीतं खादनीयं समुदानीय काल्यम् एवोत्थायासनप्रज्ञप्तिं कृत्वोदकमणी प्रतिष्ठाप्य स्थविरानन्दस्य दूतेन कालम् आरोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं कालं मन्यसे । इत्य्
स्व रोय् 339,3 - 341,5 [123] अथ स्थविरानन्दो नभस्तलम् उत्प्लुत्य ऋद्ध्या सकलम् इदं जम्बुद्वीपम् विलीनकनक_वभासया प्रभयावभास्य स्वयम् एव गण्डीम् आकोट्य सजलजलधरगम्भीरओदात्तेन स्वरेणोद्घोषितवान् ये भगवतः श्रावका ऋद्धेर् लाभिनस् ते स्वकीयया ऋद्ध्या आगच्छन्तु ये पृथग्जनास् ते मदीयया ऋद्ध्या आगच्छन्त्व् इति । ततस् तां गण्डीम् उपश्रुत्य हिमवद्विन्ध्यमलयपारियात्रकगन्धमादनसुमेरुयुगन्घरेषाधारखदिरकसुदर्शनाश्वकर्णनिमिन्धरादिषु सकाननसरितसुसीता समुद्रपत्तनवरद्रुमविहारावशषु मेठीशून्यागारश्माशानादिषु च ये भिक्षवः समाधिसमापत्तिसुखलाभिन्नः प्रतिवसन्ति तत्क्षणआत् सर्वम् इदं नभस्तलमशोककिंशुसदृशैः सन्ध्यालोहितैर् इव जीमूतवृन्दैर् आच्छादयन्तो राजगृहनगरम् आगत्य तस्मिं मण्डलवाटे ऽवतीर्णाः । तत्क्षणाद् एव तिस्रः कोट्यो भिक्षुण्याः ऽसन्निपतितः । एका क्षीणास्रवणां । द्वितीय शैक्षणां । तृतीया पृथकग्जनकल्याणकानां ततो यथा वृद्धिकया प्रज्ञप्तेषु स्वेषु स्वेष्व् आशनेषूपविष्टाः ॥
स्व रोय् 341,5 - 345,1 [124] अथ दिवाकर सार्थवाहः सुखोपनिषण्णम् आर्यस्थविरानन्दप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति । यावद् भिक्षुसंघं भुक्तवदन्तं विदित्वा धौतहस्तम् अपनीतपात्रं शतसहस्रेण त्रिचीवरेणाच्छादयितुकामस् तं भिक्षुसंघम् अवलोक्य प्रीतिमना अभवत् । सुवर्णवर्णश् च तस्याशयम् अवगम्याह अल्पोत्सुक त्वं भव हि । अहम् एव भिक्षुसंघं सुवर्णवर्णपीतेन त्रिचीवरेणाच्छादयामीति ॥ ततः सुवर्णवर्णेन भिक्षुणा तस्मिन्न् एव क्षणे स्वशरीरात् सुवर्णपीतानि वस्राणि अवतार्यावतार्य शतसहस्रमूल्यानां यथा वृद्धिकया तिसृणां भिक्षुकोटीनां त्रिचीवरम् अनुप्रदत्तं ॥ अत्रान्तरे ऽनेकैर् देवतासहस्रैर् हा हाकारो मुक्तः । विविधानि च वाद्यानि संप्रवादितानि । दिव्यञ् च पुष्पपूर्णवर्षम् उत्सृष्टं यथासौ नानादिग्देशाभ्यागतो जनकायो राजा चाजातशत्रुः सान्तःपुरकुमारामत्यपौरजानपदसहायस् तं तथाविधम् आश्चर्यम् अवलोक्य विस्मयोत्फुल्ललोचनस् त्रिर् उदानम् उदानयत्य् अहो पुण्यफलविपाकः अहो पुण्यानां सामर्थ्य अहो दक्षिणीयक्षेत्रावरोपितस्य दानबीजस्यानतिक्रान्तो विपाकस् तत् केन नाम विदुषा एवंविधं पुण्यफलविपाकम् अभिसमीक्ष्य तद्दक्षिणीयक्षेत्रे दानं न देयम् इत्य् एवम् अनेकानि प्राणिशतसहस्राणि शिरस्य् आञ्जलिम् उपनिधाय नमो बुद्धायेत्य् उच्चैर् घोषितवन्तो ऽथ स्थविरानन्देन दक्षिणादेशना कृता ।
स्व रोय् 345,1 - 346,3 [125] ततो दिवाकरः सार्थवाह उथायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिब्यां प्रतिष्ठाप्य येन स्थविरानन्दस् तेनाञ्जलीं प्रणम्य त्रिर् उदानम् उदानयतीदं भदन्तास्माकं न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् नेष्टेन स्वजनबन्धुवर्गेण पूर्वप्रेतेन श्रवणब्राह्मणैर् यद् आनन्देनास्माकं कृतं प्रच्छोषिता रुधिराश्रुसमुद्रा इति ॥
जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय । भवसहस्रसुदुर्लभं दर्शन सफलम् अद्य मुनेस् तव दर्शनं ।1। इत्य्
स्व रोय् 346,3 - 5 [126] अथ स्थविरानन्दस् तां सराजिकां पर्षदं धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संग्रहर्ष्य तैर् देवताशतसहस्रैर् अनेकैश् च राजगृहवासिभिः प्राणिशतसहस्रैर् नमस्यमान उत्थायासनात् प्रक्रान्तः । एवम् अल्पम् अपि भगवति बुद्धे कृतम् अनल्पफलम् भवतीति ।
स्व रोय् 346,5 - 347,3 ये धर्मा हेतुप्रभवा हेतुं (6) तेषान् तथागतो ह्य् अवदत् । तेषाञ् च यो निरोध एवम्वादी महाश्रमणः ।1।
[127] देयधर्मो ऽयं प्रवरमहायानयायिनः शाक्यभिक्षुबुद्धाकरगुप्तस्य यद् अत्र पुण्यन् तद् भवत्व् आचार्योपाध्यायमातापितृपूर्वङ्गमं कृत्वा सकलसत्त्वराशेर् अनुत्तरज्ञानफलवाप्तय इति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
