Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सर्वतथागततत्त्वसंग्रह
- Thông tin
- GRETIL — Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वज्रगर्भं स्वमूर्धे तु प्रतिष्ठाप्य विभावयेत् / यदा तु ज्वालते तत्तु तदैवोर्ध्वगमो भवेद् // इति // 4 //
तत्रैषां हृदयानि भवन्ति / ओं हृदय गर्भ देहि धनं //
ओं रत्नाभिषेकगर्भाभिषिञ्च //
ओं वाग्गर्भ सिध्य / ओं रत्नगर्भोष्णीषाकाशं गच्छ //
वज्रगर्भमहामुद्रां भावयं सुसमाहितः / याचयेद् देहि सिद्धिं मे इति-रत्नेति सिध्यति // 1 //
आकाशगर्भ समयीम्बध्वा तु सुसमाहितः / याचयेदभिषेकाणि मिलि-रत्नेति लप्स्यति // 2 //
वज्रगर्भसमाधिन्तु भावयं सुसमाहितः / याचयेद् देहि मे धर्म चिलि-रत्नेति लप्स्यति // 3 //
आकाशगर्भकर्माग्रीं बध्वा तु सुसमाहितः / याचे[त्सर्वर]त्नानि किलि-रत्नेति लप्स्यतीति // 4 //
अथैषां हृदयानि भवन्ति / ओं इलि //
ओं मिलि //
ओं चिलि //
ओं किलि //
मुद्र
ततो मणिज्ञानरहस्यमुद्राज्ञानं[शिक्षयेत् //]
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयेत् / आकाशे वान्यदेशे वा परां सिद्धिमवाप्नुते // 1 //
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् / आलेख्य चित्रलिखितं प्राप्नुयादभिषेचनं // 2 //
द्वयेन्द्रियसमापत्त्या वज्रगर्भं तु भावयन् / तं प्रियं यस्य रमयेत्सर्वलोकं स रागयेत् // 3 //
द्वयेन्द्रियसमापत्त्या वज्रगर्भ तु भावयन् / सर्वाकाशरजोविश्वैः सर्वसिद्धिर्भवेद्रध्रुवम् // इति // 4 //
तत्रासां हृदयानि भवन्ति / आकाशगुह्यज्ञान साधय हूं //
चित्रगुह्यज्ञानाभिषिञ्च हूं //
प्रियानुस्मृतिज्ञानगुह्य सर्वलोकं रामय हूं //
सर्वगुह्यज्ञान सर्वसिद्धिं मे प्रयच्छ हूं //
ततो महामुद्रां यथावद् बध्नीयात् / तादृशा एव सिद्धिः /
ततो वज्रमणिं वज्रज्ञानमण्डलयोगेन स्थापयेत् //
अथ धर्ममुद्रा भवन्ति / सः, राः, रा, साः, राः, तेः, केः, हाः, धं, तीः, हे, भा, क, र, यः, सः /
कर्ममुद्रा समासेन यथा स्थानेषु संस्थयेद् // इति //
सर्वतथागतकर्मसमयात् महाकल्पराजाज्ज्ञानमण्डलविधिविस्तरः परिसमाप्तः //
chapter 22 karma-mandala-vidhi-vistara emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागताभिषेककर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं सर्वतथागतकर्माभिषेके हूं //
अथ वज्रापाणिर्महाबोधिसत्व इमां स्वकर्मसंभवां विद्योत्तमामभाषत् ओं वज्रहुंकाराभिषेके //
अथ वज्रगर्भो बोधिसत्व इमां स्वविद्योत्तमामभाषात् ओं सर्वाकाशसमताभिषेके हूं //
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं सद्धर्माभिषेकरत्ने //
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं विश्वाभिषेके //
delineation of the mandala
अथाकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलकर्ममण्डलमभाषत् /
अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं / वज्रधातुप्रतीकाशं रत्नकर्ममिति स्मृतं // 1 //
महामण्डलयोगेन सूत्रयेत्सर्वं मण्डलं / तस्य मध्ये यथान्यायं बुद्धबिम्बन्निवेशयेत् // 2 //
महासत्वप्रयोगेण रत्नसत्व्यः समालिखेद् // इति // // 3 //
तत्रासां मुद्रा भवन्ति / ओं मणिरत्नपूजाग्र्य // 1 // ओं सर्वार्थसिद्धिवज्ररत्नाभिषेके हूं // 2 //ओं वज्रमणिधारिणिसमये हूं // 3 //ओं मणिरत्नाकर्षे कर्मसमये हूं // 4 //ओं मणिरत्नरागरति कर्मपूजे प्रवर्त // 5 //ओं मणिरत्नसाधुकारपूजासमये // 6 //ओं महामणिरत्नदृष्ट्याकर्षे // 7 //ओं मणिरत्नमालापूजे // 8 //ओं मणिरत्नसूर्यालोकपूजे // 9 //ओं मणिरत्नध्वजपताकापूजे // 10 // //ओं मणिरत्नाट्टहासपूजे // 11 //ओं पद्ममणिसमाधिसमये हूं // 12 //ओं सर्वत्यागानुस्मृतिसमाधिकर्मकारि हूं // 13 //ओं मणिरत्नतीक्ष्णसमये च्छिन्द हूं // 14 //ओं मणिरत्नचक्रसमये हूं // 15 //ओं मणिरत्नभाषे वद वद हूं // 16 //ओं मणिरत्नवृष्टिकर्मसमये हूं // 17 //ओं मणिरत्नकर्मणि हूं // 18 //ओं मणिरत्नकवचे रक्ष हूं // 19 //ओं मणिरत्नदंष्ट्री खाद खाद हूं // 20 //ओं मणिरत्नकर्ममुष्टि हूं // 21 //ओं मणिरत्नलास्ये पूजय होः // 22 //ओं मणिरत्नमालाभिषेके पूजय // 23 //ओं मणिरत्नगीते पूजय // 24 //ओं मणिरत्ननृत्ये पूजय // 25 //ओं मणिरत्नधूपे पूजय // 26 //ओं मणिरत्नपुष्पे पूजय // 27 //ओं मणिरत्नदीपे पूजय // 28 //ओं मणिरत्नगन्धे पूजय // 29 //ओं मणिरत्नाङ्कुश्याकर्षे ज्जः // 30 //ओं मणिरत्नपाशे हूं // 31 //ओं मणिरत्नस्फोटे वं // 32 //ओं मणिरत्नावेशे अः // 33 // initiation into the mandala
अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा प्रवेश्यैवं वदेत् / "न त्वया कस्यचिदयं वक्तव्यः / मा ते कर्मावरणधिष्ठितस्यैव मरणं भवेद्" इति, उक्त्वा, मणिकर्मज्ञानानि शिक्षयेत् /
मुद्र
वज्रगर्भमहामुद्रां बध्वा तु समाहितः / पूजयं सर्वपूजाभिः सर्वबुद्धान् वशन्नयेत् // 1 //
बध्वा चैकतराम्मुद्रां समयग्रीं समाधिना / पूजयं सर्वबुद्धां हि स्वभिषेकां स लप्स्यति // 2 //
वज्रगर्भसमाधिं तु भावयं सुसमाहितः / पूजयं सर्वबुद्धांस्तु नाशयेज्जगदुत्तमं // 3 //
बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना / पूजयं सर्वबुद्धांस्तु सवार्थां लभते क्षणाद् // इति // // 4 //
तत्रैषां हृदयानि भवन्ति / ओं रत्नपूजा वशीकुरु //
ओं रत्नपूजासमयाभिषिञ्च //
ओं रत्नपूजाधर्म नाशय पतिं //
ओं रत्नपूजाकर्म सर्वार्थान् मे दद //
अथ रहस्यमुद्राकर्मज्ञानं भवति /
द्वयेन्द्रियसमापत्त्या वज्रगर्भसमाधिना / पूजयं सर्वबुद्धांस्तु सर्वलोकं स रागयेद् // इति //
ततो यथावन्महामुद्राज्ञानेनोत्तमसिद्धय // इति //
अथ समयमुद्राज्ञानं शिक्षयेत् /
वज्ररत्नं समाधायस्थानेषु संस्थयेत् / वज्रकार्यप्रयोगेण यथावदनुपूर्वशः //
अथ धर्ममुद्राज्ञानं भवति /
त्वः, जः, गः, ध्रुः, त्नः, जाः, तुः, सः, मीः, क्ष्णः, नुः, षः, र्मः, क्षः, क्षः, धीः /
वज्ररत्नां द्विधीकृत्य कर्ममुद्राः समाधयेद् // इति //
सर्वतथागतकर्मसमयान् महाकल्पराजात् कर्ममण्डलविधिविस्तरः परिसमाप्तः //
chapter 22b epilogue of the sarva-tathagata-karma-samaya nama maha-kalpa-raja mandala iv.5 emanation of deities from samadhi
अथ भगवान् रत्नमुद्रान् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्ररत्ने त्रां //
अथ वज्रपाणिर्बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्रमाले हूं //
अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं मणिरत्ने //
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां [स्वमु]द्रामभाषत् ओं धर्मरत्ने //
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं विश्वदृष्टि //
delineation of the mandala
अथार्याकाश[गर्भो बोधि]सत्व इदं मणिकुलचतुर्मुद्रामण्डलमभाषत् /
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं / चतुर्मुद्राप्रयोगेण मण्डलं परिकल्पयेत् //
ततो यथावत् प्रवेश्य शिक्षयेत् "न त्वया कस्यचिद् वक्तव्यम्" इति //
ज्नन
ततो ज्ञानान्युत्पादयेत् /
वज्ररत्नं समाधाय वज्ररत्नसमाधिना / ललाटे तु प्रतिष्ठाप्य सर्वसिद्धिमवाप्नुयाद् // इति //
अथात्र हृदयं भवति /
ओं वज्ररत्न सर्वाभिषेक सर्वसिद्धयो मे प्रयच्छ रल रल हूं त्रः //
मुद्र
ततो रहस्यमुद्रां दर्शयेत् /
पतिं वापि प्रियां वापि स्त्रियं वा पुरुषो ऽपि वा / ललाटद्वयसन्धानाच्चुम्बं द्वावपि सिध्यतः //
तत्रास्याः साधनहृदयं भवति ओं वज्ररत्नसखि विद्याधर त्वं प्रयच्छ शीघ्रमभिषिञ्चाहि ह ह ह ह त्रः //
ततो यथावच्चतुर्मुद्राबन्धं चतुर्विधं शिक्षयेत् /
तथैव सिद्धय इति //
चतुमुद्रामण्डलं //
iv. 6 ekamudra-mandala of sarvarthasiddhi
अथाकाशगर्भो बोधिसत्वो महासत्व इदं सर्वार्थसिद्धिं नाम मण्डलमभाषत् ओं वज्रमणिधर सर्वार्थसिद्धिं मे प्रयच्छ हो भगवन् वज्ररत्न हूं //
delineation of the mandala
अथात्र मण्डलं भवति /
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं / यथावत्तु समालेख्यं सर्वसिद्धेस्तु मण्डलम् // इति //
मुद्र
अथात्र ज्ञानरहस्यमुद्राज्ञानं शिक्षयेत् / रूपादीनां तु कामानामविरक्तः सुखानि तु / निर्यातयंस्तु बुद्धेभ्यः कल्पसिद्धिमवाप्नुत // इति //
ततश्चतुर्विधं मुद्राज्ञानं शिक्षयेत् //
एवं पटादिषु सत्वं मुद्रां वा मण्डलेषु लिख्य साधयेदिति //
अथ सर्वतथागताः पुनः समाजमागम्याकाशगर्भं महाबोधिसत्वमनेन साधुकारदानेनाच्छादितवन्तः /
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते / साधु ते वज्रधर्माय साधु ते वज्रकर्मणे //
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसंग्रहम् // इति //
सर्वतथागततत्वसंग्रहात्सर्वतथागतकर्मसमयो नाम महाकल्पराजः परिसमाप्तः //
छप्तेर् 23 सर्व-कल्पोपय-सिद्ध्i-vidhi-vistara-tantra
अथ वज्रपाणिर्महाब्रोधिसत्व इदं सर्वतथागतमहातत्वविधिविस्तरतन्त्रमुदाजहार / तत्र प्रथमं तावत् महामुद्रोत्तमसिद्धितन्त्रं भवति /
तथागतमहामुद्रां बध्वा सर्वखधातुषु / बुद्धबिम्बानधिष्ठाय स्वहृदिस्तु प्रवेशयेत् // 1 //
इहैव जन्मनि वरं यदीच्छेदुत्तमं शिवं / बुद्धत्वं तेन कामेदं न चेत् सिद्धिर्यथोपरि // 2 //
महामुद्रां समाधाय महातत्वमुदाहरन् / पदशः सर्वमेवाहं भावयेत्सत्वयोगतः // 1 //
इहैव जन्मनि पदं यदीच्छेत् सौरित्वं शुभं / आत्मनस्तेन कामेदं न चेत्सिद्धिर्यथोपरि // 2 //
अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति /
यथा वज्रधरः सिद्धस्तथाहमिति भावयन् / बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- // ति //
अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति /
स्वभावशुद्ध्या वाचा वै सर्वधर्मा इति ब्रूवन् / बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- // ति //
अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति / सर्वस्य सर्वशुद्धित्वात्सर्वकर्माणि शोधयन् / बुद्धसौरित्वमाप्नोति न चेत्सिद्धिर्यथोपरी- // ति //
तथागतकुलोत्तमसिद्धयः //
अथ वज्रपाणिः स्वकुलोत्तमसिद्धितन्त्रमुदाजहार /
बुद्धाज्ञां सर्वसत्वार्थात् सर्वसिद्धिप्रयोगतः / साधयंस्तु महामुद्रां बुद्धत्वमिह जन्मनी- // ति //
अथ समयोत्तमसिद्धितन्त्रं भवति /
यथा वज्रधरः सिद्धिस्तथाहमिति भावयन् / महामुद्राप्रयोगेण क्षणात्सौरित्वमाप्नुत // इति //
अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति / अनक्षरेषु धर्मेषु प्रपञ्चो न हि विद्यते / इमं वदंस्तु धर्माग्रीं भावयन् सौरितां ब्रजेद् // इति //
अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति / यत्करोति हि कर्म वै शुभं वा यदि वाशुभं / निर्यातयं जिनेष्वस्तु क्षणात्सौरितां व्रजेद् // इति //
अथ वज्रपाणिर्महाबोधिसत्वः पद्मकुलोत्तमसिद्धितन्त्रमुदाजहार / तत्र प्रथमन्तावन्महामुद्रोत्तमसिद्धितन्त्रं भवति /
रागः शुद्धः स्वभावेन तीर्थिकैरवसन्यते / तस्याविरागो धर्मो ऽस्मिं महायाने तु सिध्यती- // ति //
अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति /
अभ्यसंस्तु महामैत्रीन् समाधिदृढयोगतः / स्फरेद्विधिवद्योगात् क्षणात्सौरित्वमाप्नुयाद् // इति //
अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति /
स्वभावशुद्धः संराग इति ब्रूयादिमं नयं / रागपारमिताप्राप्ते क्षणात्सौरित्वमाप्नुयाद् // इति //
अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति /
दर्शनस्पर्शनाभ्यां तु श्रवणस्मरणेन वा / स्यामहं सर्वसत्वानां सर्वदुःखान्तकस्थितिर् // इति //
अथ वज्रपाणिर्महाबोधिसत्वो मणिकुलोत्तमसिद्धितन्त्रमुदाजहार / तत्र महामुद्रोत्तमसिद्धितन्त्रं भवति /
सर्वबुद्धाभिषेको ऽहं भवेयं वज्रगर्भवत् / भावयं विभावयन् वै क्षणात्सौरित्वमाप्नुत // इति //
अथ समयमुद्रोत्तमसिद्धितन्त्रं भवति / भवेयं सर्वसत्वानां सर्वाशापरिपूरकः / आकाशगर्भसदृशः क्षणात्सौरित्वमाप्नुत // इति //
अथ धर्ममुद्रोत्तमसिद्धितन्त्रं भवति / आत्मनस्तु समुत्सृज्य धनदानान् सुहर्षितः / वदन् धर्ममयीं मुद्रामिह सौरित्वमाप्नुत // इति //
अथ कर्ममुद्रोत्तमसिद्धितन्त्रं भवति / दारिद्राणां हितार्थाय धनोत्पादने तत्परः / उद्योगात्सौरितां याति न चेत्सिद्धिर्यथोपरी- // ति //
सर्वकुलमुद्राणां बुद्धबोधिसत्वोत्तमसिद्ध्यवाप्तिविधिविस्तरः //
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागत[समयसि]द्धितन्त्रमुदाजहार / तत्रायं सर्वतथागतसमयसिद्धितन्त्रं भवति /
यस्य रागसमापत्तिस्तस्य रागेण शोधयेत् / इति बुद्धन्महामुद्रा ज्ञानस्य समयः स्मृतः //
अथ तथागतकुलसमयसिद्धितन्त्रं भवति /
कामानामविरागस्तु समयः सुमहानयं / तथागतकुलशुद्धो ऽनातिक्रम्यो जिनैरपि //
अथ वज्रकुलसमयसिद्धितन्त्रं भवति /
अक्रोधस्यापि सत्वार्थान्महाक्रोधप्रदर्शनं / महावज्रकुले त्वेष समयो दुरतिक्रमः //
अथ पद्मकुलसमयसिद्धितन्त्रं भवति /
स्वभावशुद्धिज्ञानेन तस्य कार्यं स करोति / महापद्मकुले त्वेष समयो दुरतिक्रमः //
अथ रत्नकुलसमयसिद्धितन्त्रं भवति /
अल्पत्वे वा बहुत्वे वा यथाभिरुचितं पुनः / अवश्यो दिवसः कार्यो दानेन समयो ह्ययम् // इति //
सर्वकुलसमयविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्ममुद्राज्ञानसिद्धितन्त्रमुदाजहार / तत्रेयं सर्वतथागतधर्मसिद्धितन्त्र भवति /
बुद्धो धर्म इति ख्यात इत्युक्त्वा धर्मताक्षरं / बुद्धधर्ममहामुद्राज्ञानस्य परमनयं //
तत्रेदं तथागतकुलधर्मसिद्धितन्त्रं / रागाच्छ्रद्धतरन्नास्ति धर्मः सर्वसुखप्रदः / तथागतकुलेप्येष धर्मः सिद्धिकरः परः //
तत्रेदं वज्रकुलधर्मसिद्धितन्त्रं /
बुद्धाज्ञाच्छोधनार्थाद्वा सत्वत्राणार्थतस्तथा / अक्रोधो ऽपि हि संदुष्टान्मारयंच्छुद्धिमाप्नुते //
तत्रेदं पद्मकुलधर्मसिद्धितन्त्रं /
अलिप्तं सलिलैः पद्मं तथा रागो न दुष्यति / इति ब्रूवन्नकार्याणि कुर्वं पापैर्न लिप्यते //
तत्रेदं मणिकुलसिद्धितन्त्रं /
दानात्समो न धर्मो ऽस्ति प्रतिपत्त्या ब्रवीति हि / महामणिकुले धर्मः न चेत्सिद्धिर्यथोपरी- // ति //
सर्वकुलधर्मसिद्धिविधिविस्तरतन्त्रम् //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलकर्मसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतकर्मसिद्धितन्त्रं भवति /
बुद्धत्वं सर्वसत्वानां बोधिसत्वत्वमेव च / यथावद्विनयं चैव कर्ममुद्राग्रसिद्धिदा //
तत्रेदं तथागतकुलकर्मसिद्धितन्त्रं भवति /
चतुर्विधाभिः पूजाभिः सदा योगाच्चतुर्विधं / चतुःकालयोगेन कुर्वन् कर्माणि साधयेत् //
तत्रेदं वज्रकुलकर्मसिद्धितन्त्रम् /
दुष्टसत्वोपघाताय यद्यत्कार्य करोति सः / कर्मवज्रकुले ऽप्येष सर्वसिद्धिप्रदायकः //
तत्रेदं पद्मकुलकर्मसिद्धितन्त्रं /
भयात्मनामभयदो यथावद्विनयस्तथा / एतत्पद्मकुले कर्म बुद्धसिद्धिप्रदायकं //
अथ मणिकुलकर्मसिद्धितन्त्रं /
अभिषेकस्तथा दानं सर्वाशापरिपूरयः / बुद्धानां देहिनां चैव कर्म सर्वार्थसाधकम् // इति //
सर्वकुलकर्मसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलधर्मतामुद्राज्ञानतन्त्रमुदाजहार /
तत्रेदं तथागतधर्मताज्ञानसिद्धितन्त्रं भवति /
वज्रसत्वसमाधिस्तु बुद्धानां धर्मता स्मृता / एतद्बुद्धस्य बुद्धत्वं न बुद्धो भवते ऽन्यतः //
तत्रेदं तथागतकुलधर्मताज्ञानसिद्धितन्त्रं /
भावयंस्तु महामुद्रां साधयेत्सर्वसिद्धयः / तथागतकुले ऽप्येष धर्मतोत्तमसिद्धिदा //
तत्रेदं वज्रकुलधर्मताज्ञानसिद्धितन्त्रं //
बद्धाभिः समयाग्र्याभिः सर्वकर्माणि साधयेत् / महामुद्राप्रयोगेण वज्रसिद्धिमवाप्नुयात् //
तत्रेदं पद्मकुलधर्मताज्ञानसिद्धितन्त्रं /
धर्ममुद्राप्रयोगेण धर्ममुद्राः प्रवर्तयेत् / अनया साधयं धर्मान् धर्मतावज्रधर्मिणः //
तत्रेदं मणिकुलधर्मताज्ञानसिद्धितन्त्रं /
कर्ममुद्राप्रयोगेण कर्मवज्रं हृदि स्थितं / भावयं धर्मतामेतावाप्नोति स्वकर्मताम् // इति //
सर्वकुलधर्मताज्ञानसिद्धितन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलज्ञानसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतज्ञानसिद्धितन्त्रं भवति /
वज्रसत्वसमाधिस्थः चन्द्रवज्रप्रयोगतः / यथा वर्णौ तु तौ वेत्ति तथा लोकं तु वेत्ति सः // 1 //
शुद्धे शुद्धमिति ज्ञेयं पाण्डरे तु प्रभास्वरं / रक्ते रक्तंतरे क्रुद्धं यादृग्वर्ण तदात्मकं // 2 //
तत्रेदं तथागतकुलज्ञानसिद्धितन्त्रं /
महामुद्रां समाधाय चन्द्रमण्डलसप्रभां / स्वयं कायं यथा वेत्ति तथा वेद्यं जगन्मनः //
तत्रेदं वज्रकुलज्ञानसिद्धितन्त्रं /
आकाशे वान्यदेशे क्रुद्धः सन्मण्डलानि तु / यादृशानि तु पश्येद्वै विज्ञेयन्तादृशन्मनः //
तत्रेदं पद्मकुलज्ञानसिद्धितन्त्रं /
सूक्ष्ममक्षरपङिक्तर्वा पश्यन्नाकाशभूमिषु / यादृग्वर्ण समासेन वेत्ति चित्तं स तादृशं //
तत्रेदं मणिकुलज्ञानसिद्धितन्त्रं /
सर्वलोकं निरीक्षन् वै प्रतिभासो हि यादृशः / पश्यते तादृशं चैव जगच्चित्तं तु लक्षयेद् // इति //
एतमेव समापत्त्यो गमनागमनानि तु / कुर्वन्त्यश्च भ्रमन्त्यो वा यथा पश्येत्तथागमः // 1 //
यस्य यस्य च सत्वस्य समापत्त्या तु चिन्तयेत् / तस्य तस्य तथा चैव सर्वचित्तानि बुध्यती- // 2 //
त्याह भगवान् वज्रधरः //
सर्वकुलज्ञानविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसिद्धिज्ञानतन्त्रमुदाजहार / तत्रेदं तथागतसिद्धिज्ञानतन्त्रं /
सत्वाधिष्ठानयोगेन बुद्धबिम्बात्मभावना / अनेन ज्ञानयोगेन बुद्धसिद्धिमवाप्नुयात् //
तत्रेदं तथागतकुलसिद्धिज्ञानतन्त्रं /
आकाशे वा ऽन्यदेशे वा श्वेतपीताभमण्डलान् / स्वमुद्रासत्वमात्मानं साक्षादिव स पश्यति //
तत्रेदं वज्रकुलसिद्धिज्ञानतन्त्रं /
तादृशेष्वेव बिम्बेषु मध्ये श्यामं निर्यच्छति / सिद्धिर्वज्रकुलस्याग्रा भवेच्छीघ्रं यदिच्छति //
तत्रेदं पद्मकुलसिद्धिज्ञानतन्त्रं /
तान्येवाकाशनीलानि पद्माकाराणि पश्यति / महापद्मकुले विद्यासिद्धय संभवन्ति हि //
तत्रेदं मणिकुलसिद्धिज्ञानतन्त्रं /
आकाशे वान्यदेशे वा त एवाकाशनिर्मलाः / स्फुरन्तो रश्मिमण्डानि पश्यत् सि[द्धिमवाप्नुया]द् // इति //
वज्रसत्वादयः सत्वाचश्चन्द्रमण्डलसप्रभाः / प्राग् दर्शयन्ति चात्मानं सिद्धिकाले स्वरूपतः //
सर्वकुल[सिद्धिज्ञानवि]धिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलाभिज्ञासिद्धिज्ञानमुद्रातन्त्रमुदाजहार /
तत्रेदं तथागता[भिज्ञासिद्धिज्ञान] तन्त्रं /
वज्रसत्वसमाधिस्थः सर्वकाये तथागतान् / भावयन् बोधिसत्वांश्च दर्शयेत्कायतस्तथा //
तत्रेदं तथागतकुलाभिज्ञासिद्धि[तन्त्रं] /
वज्रसत्वमहामुद्रां बध्वा तु सुसमाहितः / पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः //
तत्रेदं दिव्यचक्षुज्ञानं भवति /
महामुद्रां समाधाय चक्षुर्विज्ञानमावहेत् / तेन यच्चिन्तयेत् किंचित् सुदूरापि पश्यती- //
त्याह भगवान् वज्रसत्वः //
महामुद्रां समाधाय श्रोत्रविज्ञानमावहेत् / तेन यच्चिन्तयेत्कार्यं सुदूरस्थं शृणोति ही- //
त्याह भगवान् वज्रधरः //
महामुद्रां समाधाय मनोविज्ञानमावहेत् / तेन य सत्वमुद्वीक्षेत् चित्तं जानाति तस्य सः // 1 //
महामुद्रां समाधाय आत्मनो वा परस्य वा / मनसा पश्यते रूपं यतो जन्म स आवहेद् // 2 //
इत्याह भगवान् वज्रपाणिः //
अथ ऋद्धिविधिज्ञानसिद्धिर्भवति /
महामुद्रां समाधाय यां यां ऋद्धिमभीष्यति / यत्र वा तत्र वा तद्वै संदर्शयेत्समाधिने- //
त्याह भगवान् महाबोधिचित्तः //
तत्रेदं वज्रकुलाभिज्ञासिद्धितन्त्रं //
त्रिलोकविजयाग्रीं वै बध्वा तु सुसमाहितः / पञ्चाभिज्ञानवाप्नोति विधिनानेन साधकः // 1 //
क्रुद्धः सः सर्वकार्याणि यथावदनुपूर्वशः / दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भवेत् क्षणाद् // 2 //
इत्याह भगवान् वज्रसत्वः //
तत्रेदं पद्मकुलाभिज्ञासिद्धितन्त्रं /
जगद्विनयमुद्राग्रीं सन्धाय सुसमाहितः / पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः // 1 //
रागसक्तस्तु विधिवद्यथानुक्रमतस्तथा / दिव्यचक्ष्वादियोगेन सर्वाभिज्ञो भविष्यति- // 2 //
त्याह भगवान् लोकेश्वरः //
तत्रेदं मणिकुलाभिज्ञासिद्धितन्त्रं /
सर्वार्थसिद्धिसन्मुद्रां बध्वा तु सुसमाहितः / पञ्चाभिज्ञामवाप्नोति विधिनानेन साधकः // 1 //
बुद्धपूजां प्रकुर्वन्वै यथानुक्रमतस्तथा / दिव्यचक्ष्वादियोगेन पञ्चाभिज्ञां स पश्यती- //
त्याह भगवानाकाशगभः //
सर्वकुलाभिज्ञाज्ञानविधिविस्तरतन्त्रः //
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलसत्यसिद्धितन्त्रमुदाजहार / तत्र तथागतसत्यसिद्धितन्त्रं भवति /
सत्यानुपरिवर्तिन्या वाचा तु शपथक्रिया / पालयंस्तु महासत्यं लघु बुद्धत्वमाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलसत्यसिद्धितन्त्रं /
समये शपथा कार्या तथागतकुलोद्गता / पालयन् वज्रसत्यं तु सिद्धिमग्र्यामवाप्नुत //
इत्याह भगवान् वज्रधरः /
तत्रेदं वज्रकुलसत्यसिद्धितन्त्रं /
वज्रधार्यासु शपथां कृत्वा तु दुरतिक्रमान् / पालयेत्सत्यमेतद्धि यदिच्छेत् सिद्धिमुत्तमाम् //
इत्याह भगवान् वज्रधरः /
तत्रेदं पद्मकुलसत्यसिद्धितन्त्रं /
सद्धर्मे शपथाङ्कृत्वा महापद्मकुलोत्तमं / पालयेत्सत्यसमयं यदिच्छेत् सिद्धिमुत्तमाम् //
इत्याह भगवान् [वज्रध]र्मः //
तत्रेदं मणिकुलसत्यसिद्धितन्त्रं /
बुद्धपूजासु शपथां कृत्वा तु दुरतिक्रमान् / पालयेदुत्तमं सत्यमभिषेकं स लप्स्यती //
[त्याह भगवान्] बुद्धपूजः //
सर्वकुलशपथसिद्धितन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयतत्वसिद्धितन्त्रमुदाजहार / तत्रेदं सर्वतथागतसमयतत्वसिद्धितन्त्रं भवति /
समयस्त्वमिति प्रोक्ते सर्वमुद्रान् कुलेष्वपि / स्वयं बध्वा दृढं यान्ति ततः पश्चादसाधिता //
इत्याह भगवान् महासमयसत्वः //
तत्रेदं तथागतकुलसमयतत्वसिद्धितन्त्रं /
सुरतस्त्वमिति प्रोक्ते सर्वमुद्रा असाधिताः / स्वयं बध्वा तु सिध्यन्ते तत्वचोदान् महात्मन //
इत्याह भगवान् महासमयसत्वः //
तत्रेदं वज्रकुलसमयतत्वसिद्धितन्त्रं /
एकहुंकारमात्रेण सर्वमुद्राः समासतः / स्वयं बन्धेद् वन्धयेद्वापि स्वयं वापि परस्य वे- // ति //
तत्रेदं पद्मकुलसमयतत्वसिद्धितन्त्रं /
सर्वशुद्ध इति प्रोक्ते स्वतो वापि परस्य वा / स्त्रीसङ्गाद्यास्तु संयोगा न मोक्षं यान्ति सर्वश // इति //
तत्रेदं मणिकुलसमयतत्वसिद्धितन्त्रं //
ओंकारेणैव सिध्यन्ते सर्वमुद्राः समासतः //
सर्वलोकेषु चैवाग्र्याः पूजाश्चैव स्वयंभुवाम् // इति //
सर्वकुलसमयतत्वसिद्धिमुद्राविधिविस्तरतन्त्रं //
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसिद्धिमुद्रातन्त्रमुदाजहार / तत्र सर्वतथागतसिद्धितन्त्रं भवति /
बुद्धमुद्रां तु संधाय तथागतमनुस्मरन् / साधयन् सिध्यते शीघ्रं बुद्धबोधिरपि स्थिरा //
तत्रेदं तथागतकुलसिद्धितन्त्रं /
वज्रसत्वमहामुद्रां बध्वा तु परिभावयन् / पुरतो वज्रसत्वं च सिद्धिः शीघ्रतरा भवेत् //
तत्रेदं वज्रकुलसिद्धितन्त्रं /
बध्वा तु समयाग्रीं वै वज्रसत्वसमाधिना / भावयन् वज्रसत्वं च सिद्धिस्तु द्विगुणा भवेत् //
तत्रेदं पद्मकुलसिद्धितन्त्रं /
बध्वा धर्ममयीं मुद्रां लोकेश्वरसमाधिना / भावयन् लोकनाथं च सिद्धिस्तु द्विगुणा भवेत् //
तत्रेदं मणिकुलसिद्धितन्त्रं /
कर्ममुद्रां समाधाय वज्रगर्भसमाधिना / भावयन् वज्रगर्भं च सिद्धिस्तु द्विगुणा भवेत् //
सर्वकुलसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वसिद्धिसाधनतन्त्रमुदाजहार / तत्रेदं सर्वतथागतसिद्धिसाधनतन्त्रं /
आत्मनो वाथ परतो बुद्धानुस्मृतिसाधकः / बध्वा वै सर्वमुद्रास्तु ततः सिध्यन्ति तत्क्षणाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलादिसर्वसिद्धिसाधनतन्त्रं /
साधयेत्सर्वमुद्रास्तु कामो ऽहमिति भावयन् / वज्रजापप्रयोगेण सर्वसिद्ध्यग्रसाधनम् //
इत्याह भगवान् वज्रसत्वः //
तत्रेदंवज्रकुलसर्वसिद्धिसाधनतन्त्रं /
वज्रबिम्बं स्वमात्मानं भावयन् [सुसमाहितः] / बध्नीयात्सर्वमुद्रास्तु सिद्धिं यान्ति हि तत्क्षणाद् //
इत्याह भगवान् सर्वतथागतवज्रः //
तत्रेदं पद्मकुलसर्वसिद्धिसाधनतन्त्रं /
पद्मबिम्बं स्व[मात्मानं] भावयन् स्वयमात्मना / सर्वज्ञानमयी सिद्धिर्महापद्मकुले स्मृते- //
त्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलसर्वसिद्धिसाधनतन्त्रं /
भावयेत्स्वयमात्मानं मणिरत्नंकरो ज्वालं / सर्वपूजामयी सिद्धिर्महामणिकुले स्मृते- //
त्याह भगवानाकाशगर्भः //
सर्वकुलोत्तमसिद्धिविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताधिष्ठानमुद्रासिद्धितन्त्रमुदाजहार / तत्रेदन्तथागताधिष्ठानसिद्धितन्त्रं /
वज्रधात्वीश्वरीं मुद्रां बध्वा तु सुसमाहितः / हृद्यूर्णायां गले मूर्ध्नि स्थाप्य बुद्धैरधिष्ठ्यत् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलाधिष्ठानसिद्धितन्त्रं भवति /
सत्ववज्रीन् दृढीकृत्य वज्रसत्वसमाधिना / हद्यूर्णायां तथा कण्ठे मूर्ध्नि स्थाप्याधितिष्ठ्यते / इत्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलाधिष्ठानसिद्धितन्त्रं /
वज्रहूंकारमुद्रां वै बध्वा तु सुसमाहितः / हृद्यूर्णाकण्ठमूर्धस्था समाधिष्ठानि तत्क्षणाद् //
इत्याह भगवान् वज्रनाथः //
तत्रेदं पद्मकुलाधिष्ठानसिद्धितन्त्रं /
वज्रपद्मां दृढीकृत्य लोकेश्वरसमाधिना / हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठापय कल्पत //
इत्याह भगवानवलोकितेश्वरः /
तत्रेदं मणिकुलाधिष्ठानसिद्धितन्त्रं /
महावज्रमणिं बध्वा वज्रगर्भसमाधिना / हृद्यूर्णाकण्ठमूर्धस्था स्वधिष्ठानाय कल्पयेद् //
इत्याह भगवान् वज्रगर्भः //
सर्वकुलाधिष्ठानविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागताभिषेकमुद्रासिद्धितन्त्रमुदाजहार / तत्रेदं तथागताभिषेकसिद्धितन्त्रं /
सज्ररत्नां समाधाय ललाटे तु प्रतिष्ठितां / कृत्वा तु वज्ररत्नेभ्यामभिषिक्तो जिनेर्भवेद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलाभिषेकसिद्धितन्त्रं /
वज्रधात्वीश्वर्याद्याभिर्बुद्धमुद्राभिरग्रतः / समारभ्य चतुःपार्श्वमालया त्वभिषिच्यती- // ति //
तत्रेदं वज्रकुलाभिषेकसिद्धितन्त्रं /
वज्राभिषेकमालां तु सन्धाय च ललाटगान् / तया मालाभिषेकेण वज्रिणा सो ऽभिषिच्यती- // ति //
तत्रेदं पद्मकुलाभिषेकसिद्धितन्त्रं /
धर्मवज्रीं समाधाय पुरः शीर्षे प्रतिष्ठितां / तयाभिषिक्तो बुद्धैस्तु लोकेश्वर्ये ऽभिषिच्यती- //
त्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलाभिषेकसिद्धितन्त्रं /
वज्ररत्नाङ्कुरां बध्वा ललाटे तु प्रतिष्ठितां / तयाभिषिक्तो बुद्धैस्तु पूजैश्वर्ये ऽभिषिच्यती- //
त्याह भगवानाकाशगर्भः //
सर्वकुलाभिषेकसिद्धितन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिसिद्धितन्त्रमुदाजहार / तत्रेदं सर्वतथागतसमाधिसिद्धितन्त्रं /
आहारतः सर्वबुद्धानां मुद्रां बध्वा समाहितः / जपन् वै मन्त्रविद्यास्तु शीघ्रं सिद्धिमवाप्नुते- //
त्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलसमाधिसिद्धितन्त्रं /
समाधिर्वज्रधर्मेण सत्वाधिष्ठानयोगतः / हृन्मुद्रामन्द्रविद्यास्तु शीघ्रं सिध्यन्ति जापत //
इत्याह भगवान् बुद्धसमाधिः //
तत्रेदं वज्रकुलसमाधिसिद्धितन्त्रं /
रागात्त्वमसि संभूतः क्रोधो ऽहमिति भावयन् / हृन्मुद्रामन्त्रविद्यानामाशुसिद्धिकरं भवेद् //
इ[त्याह भगवा]न् वज्रधरः //
तत्रेदं पद्मकुलसमाधिसिद्धितन्त्रं /
मैत्रीस्फरणतायोगः साधयेद्धृदयादयः / लोकेश्वरकुले जापः सिद्धिं शीघ्रं[तु ददाति- //
त्या]ह भगवानार्यावलोकितेश्वरः //
तत्रेदं मणिकुलसमाधिसिद्धितन्त्रं /
सर्वाकाशसमाधिस्तु भावयन् सुसमाहितः / हृन्मुद्रामन्त्रविद्यासु साधयन् सर्वगो भवेद् //
इत्याह भगवानाकाशगर्भः //
सर्वकुलसमाधिसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजामुद्रासिद्धितन्त्रमुदाजहार / तत्रेदं तथागतपूजासिद्धितन्त्रं /
पूर्वं धूपादिभिः पूजां कृत्वा तु सुसमाहितः / ततस्तु सिद्धिकामो वै साधयन् सिद्धिमाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलपूजासिद्धितन्त्रं /
गुह्यपूजाचतुष्ठेन पूजागुह्यमुदाहरन् / आत्मनिर्यातनाद्यैवां पूजां कुर्वस्तु सिध्यती- //
त्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलपूजासिद्धितन्त्रं /
क्रोधवज्रमहापूजां क्रोधगुह्यमुदाहरन् / क्रोधमुष्टि प्रकुर्वन् वै शीघ्रं सिध्येत् कुलं ममे- //
त्याह भगवान् वज्रधरः //
तत्रेदं पद्मकुलपूजासिद्धितन्त्रं /
गंभीरोदारसूत्रान्तप्रयोगसमुदाहृताः / निर्यातयन्मनोवाग्भिः शीघ्रं सिद्धिमवाप्नुयाद् //
इत्याह भगवानार्यावलोकितेश्वर /
तत्रेदं मणिकुलपूजासिद्धितन्त्रं /
च्छत्रध्वजपताकाभिः राजपूजाभिरर्चयन् / सिध्यते मणिकुलं सर्वददन् दानानि वा सिध्यती- //
त्याह भगवान् वज्रगर्भः //
स्वाधिष्ठानादिसंयुक्तो वज्रसत्वसमो भवेत् / चतुर्भिः प्रातिहार्यस्तु वज्रविश्वं समाधयेत् //
सर्वसिद्धय इत्याह भगवान् वज्रसत्वः //
सर्वकुलाधिष्ठानाभिषेकसमाधिपूजासिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागता[भिज्ञाज्ञा]नसिद्धितन्त्रमुदाजहार / तत्रेदं तथागताभिज्ञाज्ञानसिद्धितन्त्रं भवति /
काये बुद्धसमाधिस्तु स्वभिज्ञा सौगती त्वियं / तस्याः सुप्रति[वेदित्य]बौद्धीं सिद्धिमवाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलाभिज्ञाज्ञानसिद्धितन्त्रं /
दिव्यचक्ष्वादयो ऽभिज्ञा भावयन् सुसमाहितः / पञ्चाभिज्ञः स्वयंभूत्वा वज्रसत्वत्वमाप्नुयाद् //
इत्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलाभिज्ञाज्ञानसिद्धितन्त्रं /
क्रोधाभिज्ञां समुत्पाद्य साधयन् सुसमाहितः / पञ्चाभिज्ञः स्वयंभूत्वा परां सिद्धिमवाप्नुयाद् //
इत्याह भगवान् वज्रधरः //
तत्रेदं पद्मकुलाभिज्ञाज्ञानसिद्धितन्त्रं /
रागाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः / पञ्चाभिज्ञः स्वयंभूत्वा शुद्धां सिद्धिमवाप्नुयाद् //
इत्याह भगवान् वज्रनेत्रः //
तत्रेदं मणिकुलाभिज्ञाज्ञानसिद्धितन्त्रं /
पूजाभिज्ञां समुत्पाद्य भावयन् सुसमाहितः / पञ्चाभिज्ञः स्वयंभूत्वा सर्वसिद्धिर्वरा भवेद् //
इत्याह भगवान् वज्रधरः //
सर्वकुलाभिज्ञाज्ञानसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतबोधिज्ञानसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतबोधिज्ञानसिद्धितन्त्रं /
वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिमान् स्वयं / बुद्धबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलामहाबोधिज्ञानसिद्धितन्त्रं /
वज्रसत्वसमाधिस्थो महामुद्रां तु भावयन् / महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् //
इत्याह भगवान् महाबोधिसत्वः //
तत्रायं वज्रकुलमहाबोधिज्ञानसिद्धितन्त्रः /
क्रोधराजसमाधिस्थः समयाग्र्या करग्रहः / महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् //
इत्याह भगवान् वज्रधरः //
तत्रेदं पद्मकुलमहाबोधिज्ञानसिद्धितन्त्रं /
लोकेश्वरसमाधिस्थो धर्ममुद्रां जपंस्तथा / महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् //
इत्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलमहाबोधिज्ञानसिद्धितन्त्रं /
वज्रगर्भसमाधिस्थः कर्ममुद्रा सुकर्मकृत् / महाबोधिरियं ज्ञानं भावयन् सिद्धिमाप्नुयाद् //
इत्याह भगवानाकाशगर्भः //
सर्वकुलमहाबोधिज्ञानसिद्धिविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानुरागणसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतानुरागणसिद्धितन्त्रं /
सत्वार्थं च प्रकुर्वन् वै बुद्धबोध्यर्थिकः स्वयं / बुद्धानुस्मृतिमां भूत्वा सर्वबुद्धानुरागणम् //
इत्याह भगवान् वज्ररागः //
तत्रेदं तथागतकुलानुरागणसिद्धितन्त्रं /
यथा विषयवां भूत्वा वज्रसत्व[स्तु] साधयेत् / तत्वचोदनया शीघ्रमनुरक्तः स सिध्यती- //
त्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलानुरागणसिद्धितन्त्रं /
बुद्धाज्ञाकारितार्थं हि दुष्टानामभिचारुकैः / क्रोधान् सत्वविशुद्ध्यर्थमिदं वज्रानुरागणम् //
इत्याह भगवांस्त्रिलोकविजयः //
तत्रेदं पद्मकुलानुरागणसिद्धितन्त्रं /
रागावलोकनं मैत्रीकारुण्य धर्मवादिता / सर्वाभयप्रदानं च सर्वबुद्धानुरागणम्ं //
इत्याह भगवान् वज्रनेत्रः //
तत्रेदं मणिकुलानुरागणसिद्धितन्त्रं /
अभिषेकप्रदानं च प्रदानं धनसंचयं / तच्च बुद्धार्थतो योज्यमिदं बुद्धानुरागणम् //
इत्याह भगवानार्याकाशगर्भः /
सर्वकुलानुरागणसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतवशीकरणसिद्धितन्त्रमुदाजहार / तत्रेदं तथागत वशीकरणसिद्धितन्त्रं //
रागो वै नावमन्तर्यो विशुद्धः सुखदस्तथा / सवसत्वार्थतो योग इदं बुद्धवशङ्करम् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलवशीकरणसिद्धितन्त्रं /
कामं सेव्य सुखात्मा तु सुरतस्त्वमिति कुर्वन् / साधयेद् वज्रसत्वं तु तत्वचोदवशीकृतम् //
इत्याह भगवान् समन्तभद्रः //
तत्रेदं वज्रकुलवशीकरणसिद्धितन्त्रं /
बुद्धाज्ञान् सत्वशुद्ध्यर्थमभयार्थं च देहिनां / बुद्धशासनरक्षार्थं मारयं वशमानयेद् //
इत्याह भगवान् वज्रहुंकार //
तत्रेदं पद्मकुलवशीकरणसिद्धितन्त्रं /
रागशुद्धिं परीक्षत् वै पद्मपत्रविकासतः / रञ्जेद्वा रागयेच्चैव विनयार्थं वशंकरम् //
इत्याह आर्यावलोकितेश्वरः //
तत्रेदं मणिकुलवशीकरणसिद्धितन्त्रं /
सर्वबुद्धाभिषेकार्थं वज्ररत्नं दिनेदिने / शीर्षे स्थाप्याभिषिच्यतां सर्वबुद्धान् वशं नयेद् //
इत्याह भगवानाकाशगर्भः //
सर्वकुलवशीकरणसिद्धितन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमारणसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतमारणसिद्धितन्त्रं /
अपश्यं सर्वसत्वार्थ बुद्धतत्वा न शोधयन् / मनसा कर्मवाग्भ्यां वा मारणसिद्धिमाप्तयाद् //
इत्याह भगवांस्तथागतः //
तत्रेदं तथागतकुलमारणसिद्धितन्त्रं /
अलाभात्सर्वसिद्धीनामनुद्योगात्कुलस्य च / आस्फोटमहावज्रस्य मारयन् लघु सिध्यत //
इत्याह भगवान् वज्रपाणिः //
तत्रेदं वज्रकुलमारणसिद्धितन्त्रं /
अदुष्टदमनात्क्रोधादसत्वविनेयात् तथा / आत्मनो दुःखदानाच्च हुंकारेण तु मारयेद् //
इत्याह भगवान् वज्रधरः //
तत्रेदं पद्मकुलमारणसिद्धितन्त्रं //
अकारुण्यादमैत्र्यात्तु दुःसत्वानामशोधनात् / आत्मनश्च विसंवादान मारयन् सिद्धिमाप्नुयाद् //
इत्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलमारणसिद्धितन्त्रं /
अत्यागादात्मनो ऽनर्थात् अर्थकारादनर्थतः / दारिद्र्याच्चैव सत्वानां मारयन् सिद्धिमाप्नुयाद् //
इत्याह भगवान् सर्वाशापरिपूरकः //
केचिदप्राप्तियोगेन बुद्धानां मारणात्मकाः / तेषामुद्धरणार्थाय लघु सिद्धिप्रदा वयम् //
इत्याह भगवानार्यसमन्तभद्रः //
सर्वकुलमारणसिद्धिविधिविस्तरतन्त्रं //
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतरक्षामुद्रासिद्धितन्त्रमुदाजहार / तत्रेदं तथागतरक्षासिद्धितन्त्रं /
सर्वसत्वापरित्यागो बुद्धपूजात्मता सदा / नित्यं बुद्धमनस्कारो रक्षेयं परमाद्भुत- //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलरक्षासिद्धितन्त्रं /
वज्रसत्वे सकृद्वारां नाममात्रपरिग्रहः / इयं रक्षा तु महती शाश्वती सिद्धिदा क्षणाद् //
इत्याह भगवान् वज्रधरः /
तत्रेदं वज्रकुलरक्षासिद्धितन्त्रं /
विद्यातन्त्रेषु संतोषः त्रिलोकविजयात्मता / भक्तिर्वै वज्रहुंकारे रक्षेयं स्वपरस्य वे- //
त्याह भगवान् वज्रहुंकारः //
तत्रेदं पद्मकुलरक्षासिद्धितन्त्रं /
रागशुद्धिर्महामैत्री सत्वेषु अभयदानता / लोकेशनामजापश्य रक्षेयं परमाद्भुते- //
त्याह भगवान् वज्रधर्मः /
तत्रेदं मणिकुलरक्षासिद्धितन्त्रं /
अबन्ध्यो दिवसः कार्यो यथा शक्त्या प्रयोगतः / त्यागेन बुद्धसत्वाभ्यां रक्षेयं परमाद्भूते- //
त्याह भगवान् वज्ररक्षः //
सर्वकुलरक्षासिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वो भगवन्तमेतदवोचत् / "प्रतिगृहाण भगवन्निदं सर्वतथागतकुलतन्त्रं / येन सर्वसत्वाः सर्वकल्पैश्वर्यतयाधिगमं कृत्वा, शीघ्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्त" इति //
अथ भगवान् वज्रपाणये बोधिसत्वाय महासत्वाय साधुकारमदात् / "साधु साधु वज्रपाणे सुभाषितं, प्रतिगृहीतो ऽस्माभिरधिष्ठितश्चे-" ति //
अथ सर्वतथागताः पुनः समाजमागम्य, वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददन् /
"साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते / वज्रधर्माय ते साधु साधु ते वज्रकर्मणे //
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसंग्रहम् // " इति //
सर्वतथागततत्वसंग्रहात् सर्वकल्पोपायसिद्धिविधिविस्तरतन्त्रः परिसमाप्तः //
छप्तेर् 24 सर्व-कुल-कल्प-गुह्य-विध्i-vistara-tantra
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यसिद्धितन्त्रमुदाजहार / तत्रादित एव सर्वतथागतोत्तमसिद्धिगुह्यतन्त्रं /
बुद्धबोधिसमाधिन्तु भावयन् सुसमाहितः / सुखेन लभ्यते बोधिरिति चिन्त्यावबुध्यती- //
त्याह भगवान् सर्वतथागतः //
तत्रेदं तथागतकुलोत्तमसिद्धिगुह्यतन्त्रं /
सत्ववज्रां हृदि बध्वा भार्या मे त्वमिति प्रिया / दृढीभव इति प्रोक्ते सर्वमुद्रास्तु साधयेत् // 1 //
अनेन विधियोगेन असिद्धापि स्वकर्मभिः / गुह्यभार्यामिति प्रोक्त्वा सुतरां सिद्धिमाप्नुयाद् //
इत्याह भगवान् सत्ववज्रः //
तत्रेदं वज्रकुलोत्तमसिद्धिगुह्यतन्त्रं /
यथा तथा हि कुपितो वज्र-हुं-कारमुद्रया / मारयन् सर्वबुद्धांस्तु भयात् सिद्धि[न्ददङ्करेद् //
इत्याह] भगवान् सर्वतथागतहुङ्कारः //
तत्रेदं पद्मकुलोत्तमसिद्धिगुह्यतन्त्रं /
समाधिमुद्रां सन्धाय निरीक्षन् वज्रदृष्टिना / स्वदारं परदारं वा प्रियां सिद्धिमवाप्नुयते- //
त्याह भगवान् पद्मरागः //
तत्रेदं मणिकुलोत्तमसिद्धिगुह्यतन्त्रं /
द्वयेन्द्रियसमापत्त्या सुखमग्रमिति ब्रूवन् / स्वेन्द्रियं सर्वबुद्धानां निर्यात्य लघु सिध्यती- //
त्याह भगवान् मणिरागः //
सर्वकुलोत्तमसिद्धिगुह्यतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयसिद्धिगुह्यतन्त्रमुदाजहार / तत्रेदं तथागतसमयसिद्धिगुह्यतन्त्रं /
समयस्त्वमिति प्रोक्त्वा रागयेत्सर्वयोषितः / म विरागय सत्वार्थं ध्रुवं बुद्धां स रागयेद् //
इत्याह भगवान् महावैरोचनः //
तत्रेदं तथागतकुलसमयसिद्धिगुह्यतन्त्रं /
रागो हि नावमन्तव्यो रागयेत्सर्वयोषितः / वज्रिणो गुह्यसमयमिदं रक्षंस्तु सिध्यती- //
त्याह भगवान् वैरोचनः //
तत्रेदं वज्रकुलसमयसिद्धिगुह्यतन्त्रं /
मारयन्मारयेल्लोकं कायवाक्कर्मसत्क्रियैः / हूं-कारैस्तु विशुद्ध्यर्थं समयो ह्यर्थसिद्धिद //
इत्याह भगवान् त्रिलोकविजयः /
तत्रेदं पद्मकुलसमयसिद्धिगुह्यतन्त्रं /
रागः शुद्धात्मनां शुद्धो ह्यशुद्धस्तीर्थ्ययोगिनां / शुद्धात्मनां तु समयं पालयन् सिद्धिमाप्नुयाद् //
इत्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलसमयसिद्धिगुह्यतन्त्रं /
बध्वा वज्रमणिं पूर्वं वज्रगर्भसमाधिना / दुष्टानां तु हरन्नर्थान् समयः सिद्धिदो भवेद् //
इ]त्याह भगवान् वज्ररत्नः //
सर्वकुलसमयसिद्धिगुह्यविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसिद्धिगुह्यतन्त्रमुदाजहार / तत्रेदं तथागतधर्मसिद्धिगुह्यतन्त्रं /
स्वभावशुद्धिं धर्माणां भावयन् सुसमाहितः / सर्वकार्याणि कुर्वन् वै बोधीं सिद्धिमवाप्नुते- //
त्याह भगवान् वज्रधातुः //
तत्रेदं तथागतकुलधर्मसिद्धिगुह्यतन्त्रं /
सर्वसत्वानुरागश्च विषयेष्वविरागिता / रामारामणशुद्धिस्तु गुह्यधर्मः सुसिद्धिद //
इत्याह भगवान् वज्रगुह्यः //
तत्रेदं वज्रकुलधर्मसिद्धिगुह्यतन्त्रं /
नासाहुंकारयोगेन सर्वदुष्टांस्तु मारयन् / सूक्ष्मवज्रसमाधिस्थः परां सिद्धिमवाप्नुयाद् //
इत्याह भगवान् धर्महुंकारः //
तत्रेदं पद्मकुलधर्मसिद्धिगुह्यतन्त्रं /
सूक्ष्मवज्रप्रयोगेण रामयेत्सर्वयोषितः / धर्मसिद्धिमवाप्नोति वज्रधर्मसमाधिने- //
त्याह भगवानवलोकितेश्वरः /
तत्रेदं मणिकुलधर्मसिद्धिगुह्यतन्त्रं /
द्वयेन्द्रियसमापत्त्या सर्वाशा परिपूरयन् / योषितां वा प्रियाणां वा सिद्धिमाप्नोत्यनुत्तराम् /
इत्याह भगवान् वज्ररत्नः //
सर्वकुलधर्मसिद्धिगुह्यविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसिद्धिगुह्यतन्त्रमुदाजहार / तत्रेदं तथागतकर्मसिद्धिगुह्यतन्त्रं /
वज्रसत्वसमाधिस्थो बुद्धानुस्मृतिभावकः / स्त्रीकायं प्रविशन्योन्या वशीकुर्यात्तु योषित //
इत्याह भगवान् वैरोचनः //
तत्रेदं तथागतकुलकर्मसिद्धिगुह्यतन्त्रं /
वज्रसत्वसमाधिस्थो भगेन प्रविशंस्तथा / स्त्रिया काये स्फरेत्सम्यग् निश्चेष्टामपि रागयेद् //
इत्याह भगवान् वज्ररागः //
तत्रेदं वज्रकुलकर्मसिद्धिगुह्यतन्त्रं /
वज्रहुंकारमुद्रां वै बध्वा तु सुसमाहितः / प्रविशंस्तु भगे क्रुद्धः मनसा स तु पातयेद् //
इत्याह भगवान् वज्रसमयः //
तत्रेदं पद्मकुलकर्मसिद्धिगुह्यतन्त्रं /
धर्मकर्ममयीमुद्रां बध्वा पद्मसमाधिना / भगेन प्रविशन् रक्षेदपि सर्वास्तु योषित //
इत्याह भगवान् वज्रपद्मः /
तत्रेदं मणिकुलकर्मसिद्धिगुह्यतन्त्रं /
कर्मवज्रमणिं बध्वा वज्ररत्नसमाधिना / भगेन प्रविशन् स्त्रीणां क्षणादाविश्य नर्तती- //
त्याह भगवान् वज्ररत्नः //
सर्वकुलकर्मसिद्धिगुह्यविधिविस्तरतन्त्रं //
अथवज्रपाणिर्महाबोधिसत्वः सर्वतथागतमण्डलशुद्धिसिद्धिगुह्यतन्त्रमुदाजहार / तत्रेदं सर्वतथागतचक्रशुद्धिसिद्धिगुह्यतन्त्रं भवति / धर्मचक्रसमाकारं कुर्याद्वा गुह्यमण्डलं / मुद्रा भार्या परिवृतं तत्र बुद्धन्निवेशयेत् // 1 //
प्रविष्ट्वैव हि तद्गुह्यं ब्रूयाद्बुद्धस्य तत्क्षणात् / "भार्या ह्येतास्तव विभो ददस्व मम सर्वद" // 2 //
एवं ब्रूवंस्तु सर्वेषु कुलमुद्रा नयेषु च / गुह्यसिद्धिमवाप्नोति बुद्धानामसमत्विषाम् // 3 //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं /
वज्रधातुप्रतीकाशं मण्डलं तु समालिखेत् / तथागतकुलानां तु सर्वेषां परमन्नयं //
[सिद्धिकामस्त्वाशु] ब्रूयात्प्रवि[ष्टैव तन्मण्डलं] / सुरते समयस्त्वंहोः, वज्रसत्वाद्य सिध्य मां // 2 //
इदं जपंस्तु हृदयं साधयेत् सर्वसिद्धयः / [तत्वचोदनयोगे]न तुष्टः स त्वाशु सिध्यती- //
त्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलसर्वमण्डलसिद्धिगुह्यतन्त्रं /
त्रिलोकविजयाकारं सर्ववज्रकुलस्य हि / सर्वमण्डलयोगं तु संलिखेत विचक्षणः // 1 //
तं प्रविष्ट्वैव शीघ्रं वै ब्रूयात्सिद्धिं तु याचयन् / "रागात्त्वमसि संभूत" , एवं सर्वेषु सिध्यती- // 2 //
त्याह भगवान् वज्रहुंकारः //
तत्रेदं पद्मकुलमण्डलसिद्धिगुह्यतन्त्रं /
जगद्विनययोगेन सर्वपद्मकुलेषु वै / मण्डलानि लिखेत्प्रज्ञस्तं प्रविष्ट्वैव वाग्वदेत् // 1 //
"रागधर्म महापद्म प्रसिध्य लघु मे विभो" / एवमुक्त्वा तु सर्वेषु मण्डलेषु स सिध्यती- // 2 //
त्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलमण्डलसिद्धिगुह्यतन्त्रं /
सर्वार्थसिद्धियोगेन मण्डलानि समालिखेत् / महामणिकुलानां तु तं प्रविष्ट्वैव वाग्वदेत् // 1 //
"सर्वाभिप्रायसिद्धीनां रागाशासिद्धिरुत्तमा / सिध्य सिध्य महासत्व भगवन् सर्वसिद्धये" // 2 //
एवं ब्रूवंस्तु सर्वेषु मण्डलेषु प्रवेशतः / महासिद्धिमवाप्नोति पूजागुह्यमनुत्तरं // 3 //
ततः प्रभृति सिद्धात्मा साधयन् सिद्धयः सदा / यदा न लघु सिद्धिः स्यात् सिध्यन्ते तत्वचोदनैर् // 4 //
इत्याह भ[गवान् वज्रसत्वः //]
सर्वकुलमण्डलसिद्धिगुह्यविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वमुद्रागुह्यसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतमुद्रागुह्यसिद्धितन्त्रं /
तथागतमहादेव्यः प्रियाः सर्वसुखप्रदाः / सत्यानुपरिवर्तिन्या वास्सत्यैः सापि ता यन्न सिध्यत //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलमहामुद्रागुह्यसिद्धितन्त्रं /
महामुद्रां तु वै बध्वा यथावदनुपूर्वशः / इदं तत्वं रहस्यं च वज्रवाचा वदेत्वयं // 1 //
वज्रसत्वः स्वयमहं त्वम्मे भार्या हृदि स्थिता / सर्वकायं परिष्वज्य वज्रगर्वे समुत्क्षिप // 2 //
वज्रगर्वा महादेवी तत्वचोदानुरागिता / सर्वकाये दृढीभूत्वा यथावत्सिध्यते लघुर् // 3 //
इत्याह भगवान् वज्रगर्वापतिः //
तत्रेदं वज्रकुलसमयमुद्रागुह्यसिद्धितन्त्रं /
"सिध्य सिध्याद्य समये समयो ऽहं त्वं प्रिया मम" / इति चोदनया शीघ्रमनुरक्ता प्रसिध्यती- //
त्याह भगवान् वज्रसत्वः //
तत्रेदं पद्मकुलधर्ममुद्रागुह्यसिद्धितन्त्रं /
"बुध्य बुध्य महासत्वि भार्या मे त्वमतिप्रिया" / इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- //
त्याह भगवान् वज्रधर्मः //
तत्रेदं मणिकुलकर्ममुद्रागुह्यसिद्धितन्त्रं /
"सर्वकर्मकरी भार्या त्वं मे सिध्याद्य वज्रिणि" /
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- //
त्याह भगवानाकाशगर्भः //
सर्वकुलसर्वमुद्रा[गुह्यसि]द्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयगुह्यसिद्धितन्त्रमुदाजहार / तत्रेदं तथाग[तसमयगु]ह्यसिद्धितन्त्रं /
तीर्थिकानां हितार्थाय बुद्धभार्या प्रगोपिता / लेख्या मुद्रा प्रयोगेण इति विज्ञेय सिध्यती- //
त्याह भगवान् सर्वतथागत[समयः //]
तत्रेदं तथागतकुलसमयगुह्यसिद्धितन्त्रं /
सर्वसत्वमनोव्यापी सर्वसत्वसुखप्रदः / सर्वसत्वपिता चैव कामो ऽग्रः समयाग्रिणाम् //
इत्याहुर्भगवन्तः सर्वतथागताः //
इदं तत्सर्वबुद्धानां रहस्यं परमाद्भुतं /
विज्ञेय श्रद्दधच्छ्द्धो दुःसाध्यो ऽपि हि सिध्यती- //
त्याह भगवान् वज्रधरः //
तत्रेदं वज्रकुलसमयगुह्यसिद्धितन्त्रं /
रागशुद्ध्यै विरक्तानां तीर्थ्यदृष्टिकृतात्मनां / मारणं समयं त्वग्रमिदं विज्ञेयं सिध्यती- //
त्याह भगवान् वज्रधरः //
तत्रेदं पद्मकुलसमयगुह्यसिद्धितन्त्रं /
महाभूतोद्भवं सर्वं, कथं त्वशुचिरुच्यते? / तीर्थिकानां विनाशाय ध्रुवं सिद्धिमवाप्नुयाद् //
इत्याह भगवान् वज्रनेत्रः //
तत्रेदं मणिकुलसमयगुह्यसिद्धितन्त्रं /
स्त्रीप्रसङ्गात्तु रत्नानां संचयः क्रियते यदा / स्त्रियो ह्यनुत्तरं रत्नमिति चिन्त्यते सिध्यती- //
त्याह भगवानाज्ञाकरः //
सर्वकलसमयगुह्यसिद्धिविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजागुह्यसिद्धितन्त्रमुदाजहार / तत्रायं तथागतपूजागुह्यसिद्धितन्त्रः /
स्त्रीभिः परिवृतो भूत्वा परिहासक्रिया सुखं / निर्यात्य बुद्धपूजायां पूजासिद्धिमवाप्नुयाद् //
इत्याह भगवान् बुद्धः /
तत्रेदं तथागतकुलपूजागुह्यसिद्धितन्त्रं /
सुरतश्रमखिन्नस्तु तत्सौख्यं सुरतोद्भवं / चतुःप्रणामे पूजायां निर्यात्य लघु सिध्यती- //
त्याह भगवान् वज्रधरः //
तत्रेदं वज्रकुलपूजागुह्यसिद्धितन्त्रं /
हुंकारसमयां बध्वा परिष्वज्य स्त्रियं जनं / तत्परिष्वङ्गसौख्यं तु निर्यात्य हि स सिध्यती- //
त्याह भगवान् वज्रहुंकारः //
तत्रेदं पद्मकुलपूजागुह्यसिद्धितन्त्रं /
लोकेश्वरमहं भाव्य प्रियावक्त्रं निरीक्षन्वै / तन्निरीक्षणसौरव्यं तु निर्यात्य हि स सिध्यती- /
त्याह भगवान् पद्मनेत्रः //
तत्रेदं मणिकुलपूजागुह्यसिद्धितन्त्रं /
कर्ममुद्राधरो भूत्वा सर्वाभरणभूषितः / स्त्रियं परिष्वज्य पूजायां विभूतिं निर्यात्य सिध्यती- //
त्याह भगवान् वज्ररत्नः //
सर्वकुलपूजागुह्यसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यपूजासिद्धितन्त्रमुदाजहार / तत्रेदं तथागतगुह्यपूजासिद्धितन्त्रं /
रमयन् परदाराणि यथा[क]श्चिन्न वेदयेत् / भावयन् बुद्धमात्मानं पूजया सिद्धिमाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागत[कुल]गुह्यपूजासिद्धितन्त्रं /
वज्रलास्यां समाधाय वज्रमालां तु बन्ध[येत्] / वज्रगीतां ततो बध्वा पूजयेद् वज्रनृत्यया //
का[मरत्याभिषेका]ग्र्या नृत्यगीतसुखात्सुखं / नान्यदस्ति हि तेनेयं गुह्यपूजा निरुत्तरा //
तत्रेदं वज्रकुलगुह्यपूजासिद्धितन्त्रं //
यथावद् विधियोगेन पूज[येद्] गुह्यपूजया / त्रिलोकविजयं भाव्य पूजासिद्धिम वाप्नुयाद् //
इत्याह भगवान् वज्रगुह्यः /
तत्रेदं पद्मकुलगुह्यपूजासिद्धितन्त्रं /
य[थावद् गु]ह्ययोगेन धर्ममुद्रा सुपूजयन् / जगद्विनयमुद्रास्थः पूजासिद्धिमवाप्नुते- //
त्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलगुह्यपूजासिद्धितन्त्रं /
यथावद् गुह्ययोगेन कर्ममुद्रा सुसाधयन् / सर्वार्थसिद्धियोगेन पूजासिद्धिमवाप्नुते- //
त्याह भगवान् वज्रगर्भः //
सर्वकुलगुह्यपूजाविधिविस्तरतन्त्रं //
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलोद्घाटनगुह्यसिद्धितन्त्रमुदाजहार / तत्रेदं तथागततत्वोत्पत्तिसिद्धिगुह्यतन्त्रं /
समाधिज्ञानसंभूतं बुद्धत्वं हि समासतः / सत्वरागणयोगेन शीघ्रमाप्नोत्यनुत्तरम् //
इत्याह भगवांस्तथागतः /
तत्रेदं तथागतकुलमहातत्त्वोद्घाटनसिद्धिगुह्यतन्त्रं /
अनादिनिधनः सत्वः आकाशोत्पत्तिलक्षणः / समन्तभद्रः सर्वात्मा कामः सर्वजगत्पतिः // 1 //
यच्चित्तं सर्वसत्वानां दृढत्वात् सत्वनुच्यते / समाधानाद् वज्रसमो निश्चयैर्याति वज्रतां // 2 //
सत्वाधिष्ठानयोगेन वज्रसत्वः पुनर्भवेत् / स एव भगवान् सत्वो वज्रकायस्तथागतः // 3 //
स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि / स एव भगवान् सर्वतथागतकुलं भवेद् //
इत्याह भगवाननादिनिधनसत्वः //
तथागतकुलं सैव सैव वज्रकुलं स्मृतं / सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम् //
इत्याह भगवान् सर्वतथागतचक्रः //
सर्वकुलोत्पादनगुह्यसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राचिन्हाभिधानसिद्धिगुह्यतन्त्रमुदाजहार /
तत्रेदं तथागतचिन्हाभिधानसिद्धिगुह्यतन्त्रं भवति /
स एव भगवान् सत्वो वज्रसत्वो हृदि स्थितः / समाधानात्समाधिस्तु बुद्धबोधिप्रसाधक //
इत्याह भगवान् बुद्धः //
तत्रेदं तथाकुलचिन्हाभिधानसिद्धिगुह्यतन्त्रं /
वज्रं सुप्रतिवेधत्वादङ्कुशं ग्रहमोचकः / सूक्ष्मवेधितया वाणं साधुकारस्तु तुष्टितः // 1 //
रत्नस्तु रचनादुक्तः सूर्यस्तेजो विधानतः / केतुः समुच्छ्रयः प्रोक्तः स्मितो हासस्तु कीर्तितः // 2 //
रागशुद्धितया पद्मं कोशः क्लेशारिच्छेदनात् / चक्रो मण्डलयोगात्तु वाग्लापाज्जपनुच्यते // 3 //
सर्ववज्रं तु विश्वत्वाद् वर्मदुर्भेद्ययोगतः / दंष्ट्रा भीषणयोगात्तु बन्धो मुद्राप्रयोगतः // 4 //
यथा हि भगवान् शाश्वो वज्रसत्वस्तु सर्वगः / तथा वज्रां तु चिह्नादि भावयन्निति सिध्यती- //
त्याह भगवान् सर्वतथागतचिन्हः /
सर्वकुलचिह्नाभिधानसिद्धिगुह्यतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रमुदाजहार / तत्रेदं तथागतमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं /
बध्वा वै वज्रपर्यङ्कङ्कराभ्यां वज्रबन्धतः / वज्रसत्वसमाधिस्थः शीघ्रं बुद्धत्वमाप्नुयाद् //
इत्याह भगवान् बुद्धः //
[तत्रे]दं तथागतकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं /
यथा राज्ञां स्वमुद्राभिः मुद्र्यते राजशासनं / महात्मनां स्वमुद्राभिरामुद्र्यन्ते तथा जनाः // 1 //
कायवाक्चित्तवज्राणां प्रतिबिम्बप्रयोगतः / महात्मनां महामुद्रा इति विज्ञाय सिध्यती- // 2 //
त्याह भगवान् महामुद्रः //
तत्रेदं वज्रकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं /
यथाहि समयैस्तीव्रैः कश्चिद्बन्धो भवेज्जनः / अनतिक्रमणीयैस्तु तथा सर्वतथागताः // 1 //
बद्धा हि वज्रबन्धाग्र्यमुद्रासमयबन्धनैः / नातिक्रमन्त्यामरणादिति विज्ञाय सिध्यती- //
त्याह भगवान् वज्रसमयः //
तत्रेदं धर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं /
अनतिक्रमणीया हि वज्रवास्सर्वशो जिनैः / अयं बन्ध इति ज्ञात्वा धर्ममस्य प्रसिध्यती- //
त्याह भगवान् वज्रधर्मः //
तत्रेदं कर्मकुलमुद्राबन्धोत्पत्तिसिद्धिगुह्यतन्त्रं /
अनतिक्रमणीया हि वज्राज्ञा कर्मभूरि च / आज्ञावतस्तु तत्कर्म विज्ञाय लघु सिध्यती- //
त्याह भगवान् वज्रः //
सर्वकुलमुद्राबन्धोत्पत्तिसिद्धिविधिविस्तरगुह्यतन्त्रं //
अथ खलु भगवान् वज्रपाणिं महाबोधिसत्वमेवमाह / "इदमपि मया भगवन् परिगृहीतमधिष्ठितं चे-" ति //
अथ सर्वतथागताः पुनः समाजमागम्य वज्रपाणये सर्वतथागतधिपतये साधुकाराण्यददुः //
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते / वज्रधर्माय ते साधु साधु ते वज्रकर्मणे //
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसंग्रहम् // इति //
सर्वतथागततत्वसंग्रहात्सर्वकुलकल्पगुह्यविधिविस्तरतन्त्रं समाप्तं //
छप्तेर् 25 सर्व-कल्प-गुह्योत्तर-तन्त्र-विधि-विस्तर
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मोत्तमसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतधर्मोत्तमसिद्धितन्त्रं
बुद्धधर्मसमाधिं तु भावयन् सुसमाहितः / बुद्धानुस्मृतियोगेन सिद्धिमाप्नोत्युत्तमाम् //
इत्याह भगवांस्तथागतः /
तत्रेदं तथागतकुलधर्मोत्तमसिद्धितन्त्रं /
सर्वसत्वसमाधिस्थः भावयन् सुसमाहितः / रागानुस्मृतियोगेन प्राप्नुयात् सिद्धिमुत्तमाम् //
इत्याह भगवान् सर्वतथागतसमाधिः //
तत्रेदं वज्रकुलधर्मोत्तमसिद्धितन्त्रं /
त्रिलोकविजयाकारं भावयन् पुरतस्तथा / वज्रपाणिबलो भूत्वा त्रिलोकविजयी भवेद् //
इत्याह भगवान् वज्रसत्वः //
तत्रेदं पद्मकुलधर्मोत्तमसिद्धितन्त्रं /
जगद्विनयधर्मं तु भावयन् पुरतस्त[था /] सर्वाकारवरोपेतं विनयं प्रकरोति स //
इत्याह भगवान् वज्रधर्मः //
तत्रेदं मणिकुलधर्मोत्तमसिद्धितन्त्रं /
सर्वार्थसिद्धिरा[कारं भावयन् पुरतस्तथा / सर्वाकारवरोपेतमर्थसंपत्स लप्स्यते- //
त्याह भगवान् वज्रपाणिः //
सर्वकुलधर्मोत्तमसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतधर्मसमयसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतधर्मसमयसिद्धितन्त्रं /
बुद्धा[नुस्मृ]तिमां भूत्वा वज्र वज्र इति ब्रूवन् / सूक्ष्मवज्रप्रयोगेण बुद्धसिद्धिमवाप्नुते- //
त्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलधर्मसमयसिद्धितन्त्रं /
वज्रसत्वसमाधिन्तु भावयन् सूक्ष्मवज्रतः / वज्रसत्वत्वमाप्नोति वज्रसत्वमुदाहरन्न //
इत्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलधर्मसमयसिद्धितन्त्रं /
त्रिलोकविजयाकारन् संस्मरन् पुरतस्तथा / हुं हुं हुं हुमिति प्रोच्य सिद्धिमाप्नोत्यनुत्तराम् //
इत्याह भगवान् वज्रहुंकारः /
तत्रेदं पद्मकुलधर्मसमयसिद्धितन्त्रं /
जगद्विनयरूपं तु भावयन् सूक्ष्मवज्रतः / शुध्य शुध्य इति प्रोच्य उत्तमां सिद्धिमाप्नुते- //
त्याह भगवान् वज्रधर्मः /
तत्रेदं मणिकुलधर्मसमयसिद्धितन्त्रं /
सर्वार्थसिद्धिरूपं तु भावयन् सूक्ष्मवज्रतः / सिध्य सिध्य इति प्रोच्य अर्थसिद्धिः परा भवेद् //
इत्याह भगवान् मणिधर्मः //
सर्वकुलधर्मसमयसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रापाणिर्महाबोधिसत्वः सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्रमुदाजहार / तत्रेदं सर्वतथागतसद्धर्मज्ञानसिद्धितन्त्र /
अनक्षरं तु सद्धर्मं समाधिज्ञानसंभवं / अकारस्तेन धर्माणामनुत्पाद इति स्मृतः // 1 //
अनेन मुद्राप्रयोगेण भावयन् प्रज्ञया ततः / सर्वाक्षरमयं ज्ञानं सिध्यते सौगतं क्षणाद् // 2 //
इत्याह भगवान् आर्यमञ्जुश्रीसर्वतथागतः //
तत्रेदं तथागतकुलसद्धर्मज्ञानसिद्धितन्त्रं /
सर्वतथागतं तत्वमिदं सूत्रं तु श्रद्दधन् / धारयन् वाचयन् श्राद्धः सिद्धिमाप्नोत्यनुत्तराम् //
इत्याह भगवान् वज्रसत्वः /
तत्रेदं वज्रकुलसद्धर्मज्ञानसिद्धितन्त्रं /
पापसत्वहितार्थाय बुद्धाज्ञाकरणाय च / दुष्टानां विनयार्थाय मारणेन तु सिध्यती- //
त्याह भगवान् वज्रकुलः //
तत्रेदं पद्मकुलसद्धर्मज्ञानसिद्धितन्त्रं /
स्वभावशुद्धिमागम्य परमार्थमिति स्मृतं / भावयन्निदमाद्यं तु धर्मेणाशु प्रसिध्यती- //
त्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलसद्धर्मज्ञानसिद्धितन्त्रं /
सर्वसत्वार्थदानं च सर्वाशापरिपूरये / इमं मणिकुले धर्म भावयन्नाशु सिध्यती- //
त्याह भगवान् धर्मरत्नः //
सर्वकुलसद्धर्मज्ञानसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमाधिकर्मसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतसमाधिकर्मसिद्धितन्त्रं /
समाधिकर्म बुद्धानां बुद्धबोधिप्रसाधकं / इदं भावयमानस्तु परां सिद्धिमवाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं [तथागत] कुलसमाधिकर्मसिद्धितन्त्रं //
वज्रसत्वसमाधीनामुत्तमं कर्मभूरि च / सर्वसत्वकरं विश्वमिति भावेन सिध्यती- //
त्याह भगवान् वज्रः //
तत्रेदं वज्रकुलसमाधिकर्मसिद्धितन्त्रं /
पापशुद्धिनिमित्तं हि सर्वपापप्रदामकं / मारणं सर्वसत्वानां श्रद्दधानात्तु सिध्यती- //
त्याह भगवान् वज्री //
तत्रेदं पद्मकुलसमाधिकर्मसिद्धितन्त्रं /
सर्वपापविशुद्धात्मा सर्वशुद्ध्या करोति सः / सर्वकार्याणि कर्मेयमिति भावेन सिध्यति //
इत्याह भगवान् पद्मः //
तत्रेदं मणिकुलसमाधिकर्मसिद्धितन्त्रः /
सर्वाशिनां दरिद्राणां सर्वाशाः परिपूरयन् / सर्वार्थसिद्धिः सर्वात्मा सिध्यते नात्र संशय //
इत्याह भगवान् रत्नध्वजः //
सर्वकुलसमाधिकर्मसिद्धिविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसूक्ष्मज्ञानसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतसूक्ष्मज्ञानसिद्धितन्त्रं भवति /
सूक्ष्मवज्रविधिं शाश्वत् योजयं सर्वभावतः / सर्वाकारवरोपेतां पञ्चाभिज्ञामवाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं सर्वतथागतकुलसूक्ष्मज्ञानसिद्धितन्त्रं /
नानाचार्यस्य नान्यस्य नाशिष्यस्यासुतस्य वा / पुरतः प्रकाशयेन्मुद्राः सिद्धिरासां सुगुह्यत //
इत्याह भगवान् वज्रधरः /
तत्रेदं वज्रकुलसूक्ष्मज्ञानसिद्धितन्त्रं /
सूक्ष्मवज्रप्रयोगेण नासा हुं-कारयोगतः / वज्रक्रोधसमाधिस्थः सर्वकार्याणि साधयेद् //
इत्याह भगवान् वज्रः //
तत्रेदं पद्मकुलसूक्ष्मज्ञानसिद्धितन्त्रं /
वज्रदृष्टिं समाधाय सूक्ष्मवज्रप्रयोगतः / महापद्मसमाधिस्थः रागसिद्धिमवाप्नुयाद् //
इत्याह भगवान् पद्मरागः //
तत्रेदं मणिकुलसूक्ष्मज्ञानसिद्धितन्त्रं /
दीप्तदृष्टिः सुसूक्ष्मा तु वज्ररत्नसमाधिना / सूक्ष्मवज्रप्रयोगेण सर्वार्थाकर्षो भवेद् //
इत्याह भगवान् वज्रपाणिः /
सर्वकुलसूक्ष्मज्ञानसिद्धितन्त्रं //
अथ वज्रपाणीर्महाबोधिसत्वः सर्वतथागतचक्षुर्ज्ञानसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतचक्षुर्ज्ञानसिद्धितन्त्रं /
यदा मुद्रा समाधिर्वा साधनायोपयुज्यति / तदा खे धातवः शुभ्रास्तारकाकाराः स पश्यति // 1 //
तदा जानीत मतिमां बुद्धचक्षुरिदं मम / ततः प्रभृति बुद्धानां सर्वकल्पानि साधयेद् // 2 //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलचक्षुर्ज्ञानसिद्धितन्त्रं /
यावन्तो भावा विद्यन्ते स्थावरा जंगमास्तथा / तेषां प्रतिबिम्बानि पश्यति खे प्रधावतः // 1 //
आगच्छं गच्छतो वै वज्रचक्षुर्विशुद्धितां / जानन्वै पूजया सिद्धिमाप्नोत्यनुत्तराम् // 2 //
इत्याह भगवान् वज्रसत्वः //
तत्रेदं वज्रकुलचक्षुर्ज्ञानसिद्धितन्त्रं /
सव्यापसव्यवर्तिभ्यो खे तः पश्यति चक्षुषा / आकाशधातवः शीघ्रं भ्रमन्तो अंभ्रसन्निभाः // 1 //
तां दृष्ट्वा न हि बिभ्येत मुद्रास्ता वज्रसंभवाः / तेषां ग्रहणतो मुद्राः सिध्यन्ते मुद्रचक्षुषा // 2 //
इत्याह भगवान् वज्रः //
तत्रेदं पद्मकुल चक्षुर्ज्ञानसिद्धितन्त्रं /
श्वेतां रक्तां सितां पितां यदा पश्यन्ति मण्डलान् / तदाभि[प्रायं वै] यान्ति सिध्यन्ते वज्रचक्षुषा // 2 //
इत्याह भगवानवलोकितेश्वरः /
तत्रेदं मणिकुलचक्षुर्ज्ञानसिद्धितन्त्रं /
आकाशे रत्नसंकाशा हिरण्यादिषु सादृशाः / यदा तु पश्यते खे तु खचक्षुः सिध्यते सदे- /
त्याह भगवान् वज्रगर्भः /
सर्वकुलचक्षुर्ज्ञानसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मोत्तमसिद्धितन्त्रमुदाजहार / तत्रेदं तथागतकर्मोत्तमसिद्धितन्त्रं /
कर्ममण्डलयोगेन पूजयं सर्वनायकान् / रागसौख्यविपाकार्थं बुद्धसिद्धिमवाप्नुयाद् //
इत्याह भगवान् बुद्धः //
तत्रेदं तथागतकुलकर्मोत्तमसिद्धितन्त्रं /
गुह्यपूजां प्रकुर्वाणो रागो ऽहमिति भावयन् / प्राप्नुयादुत्तमां सिद्धिं वज्ररागसमद्युतिम् //
इत्याह भगवान् कामः //
तत्रेदं वज्रकुलकर्मोत्तमसिद्धितन्त्रं /
गुह्यपूजां प्रकुर्वाणो क्रोधो ऽहमिति भावयन् / प्राप्नुयादुत्तमां सिद्धिं त्रिलोकविजयोपमाम् //
इत्याह भगवान् वज्रपाणिः //
तत्रेदं पद्मकुलकर्मोत्तमसिद्धितन्त्रं /
अन्तर्गतेन मनसा कामशुद्धिं तु भावयन् / स्वरे ऽतो बिन्दुभिर्बुद्धां पूजयं सिद्धिमाप्नुयाद् //
इत्याह भगवानवलोकितेश्वरः //
तत्रेदं मणिकुलकर्मोत्तमसिद्धितन्त्रं /
वज्रगर्वा समाधाय नमेदाशयकम्पितैः / प्रणामपरमो नित्यमभिषेकां समाप्नुयाद् //
इत्याह भगवान् वज्राभिषेकरत्नः //
सर्वकुलकर्मोत्तमसिद्धिविधिविधिविस्तरतन्त्रः //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मसमयगुह्यसिद्धितन्त्रमुदाजहार / तत्रायं तथागतकर्मसमयगुह्यसिद्धितन्त्रः /
कामाद्याः सर्वसौख्या मे सदैव हृदये स्थिताः / अहो सत्वार्थानामविरागो यत्र देश्यते // 1 //
अयं हि कर्मसमयस्तथागतसमाधिना / भावयं पूजयेद् बुद्धामुत्तमां सिद्धिमाप्नुयाद् // 2 //
इत्याह भगवान् बुद्धः //
तत्रायं तथागतकुलकर्मसमयगुह्यसिद्धितन्त्रः /
समन्तभद्रः कामो ऽहं सर्वसत्वसुखप्रदः / वज्रसत्वसमाधिस्थः पूजयं सिद्धिमाप्नुयाद् //
इत्याह भगवान् कामः //
तत्रायं वज्रकुलकर्मसमयगुह्यसिद्धितन्त्रः /
समन्तभद्रः क्रोधो ऽहं सर्वसत्वहितंकरः / वज्रहुंकारयोगेन पूजयं सिद्धिमाप्नुयाद् //
इत्याह भगवान् वज्रपाणिः //
तत्रायं पद्मकुलकर्मसमयगुह्यसिद्धितन्त्रः /
समन्तभद्रो रागो ऽहं सर्वसौख्यप्रदः स्वयं / जगद्विनयरूपस्थः पूजयं सिद्धिमाप्नुयाद् //
इत्याह भगवान् पद्मरागः //
तत्रायं मणिकुलकर्मसमयगुह्यसिद्धितन्त्रः /
समन्तभद्रो राजाहं सर्वसत्व[महार्थदः / सर्वार्थसिद्धिरूपेण] पूजयं सिद्धिमाप्नुयाद् //
इत्याह भगवान् सर्वार्थसिद्धिः //
सर्वकुलकर्मसमयगुह्यसिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मधर्मतोत्तमसिद्धितन्त्रमुदाजहार / तत्रायं तथागतकर्मधर्मतोत्तमसिद्धितन्त्रः /
दक्षिणाग्र्याभिमुखतः कवचं स्वसमाधिना / निबध्योष्णीषसंस्था तु रक्षात्यन्तं भविष्यती- //
त्याह भगवान् बुद्धः //
तत्रायं तथागतकुलकर्मधर्मोत्तमसिद्धितन्त्रः /
संलिख्य तु भगाकारं कुड्ये मेढ्रं समुच्छ्रितं / यां स्त्रियं चिन्तयन् मृदुं कुर्यात्सास्य वशीभवेद् //
इत्याह भगवानार्यवज्रपाणिः //
तत्रायं वज्रकुलकर्मधर्मोत्तमसिद्धितन्त्रः /
भूमौ यक्षमुखं लिख्य तस्याग्र्याङ्गु लितो नखं / निहत्य चक्षुर्देशे तु समाकर्षेत्स्त्रियो वराः //
इत्याह भगवान् वज्रसत्वः //
तत्रायं पद्मकुलकर्मधर्मोत्तमसिद्धितन्त्रः /
पद्मं गृह्य कराभ्यां तु निरीक्ष्य रागशुद्धितां / वज्रदृष्ट्या तु स स्त्रीणां रागयेदभितस्तथे- //
त्याह भगवान् वज्रधरः //
तत्रायं मणिकुलकर्मधर्मोत्तमसिद्धितन्त्रः /
वज्ररत्नसमाधिस्थो मणिं गृह्य [द्वि]पाणिना / रत्नहुंकारयोगेन मारयेत्सर्वयोषितः //
इत्याह भगवान् वज्रहुंकारः //
सर्वकुलकर्मधर्मोत्तमसिद्धिविधिविस्तरत्नत्रः // //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकर्मकार्यसिद्धितन्त्रमुदाजहार / तत्रायं तथागतकर्मकार्यसिद्धितन्त्रः /
पूजाकर्मविधिं योज्य यद्यत् कार्यं तु चिन्तयेत् / तत्तद् विज्ञाप्य मुद्रां तु साधयेत विचक्षणः //
इत्याह भगवान् वज्रधातुः //
तत्रायं तथागतकुलकर्मकार्यसिद्धितन्त्रः /
गुह्यपूजाविधिं योज्य वज्रसत्वसमाधिना / यत्कार्यं वदते तत्तु शीघ्रं सिद्धिमवाप्नुयाद् //
इत्याह भगवान् वज्रधरः //
तत्रायं वज्रकुलकर्मकार्यसिद्धितन्त्रः /
कुलगुह्यमहापूजां कृत्वा क्रोधसमाधिना / यत्किञ्चिच्चिन्तयेत्प्राज्ञः स शीघ्रं सिद्धिमेष्यती- //
त्याह भगवान् वज्रक्रोधः /
तत्राय पद्मकुलकर्मकार्यसिद्धितन्त्रः /
कृत्वा तु मनसीं पूजां लोकेश्वरसमाधिना / यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं शीघ्रमाप्नुयाद् //
इत्याह भगवान् पद्मधरः //
तत्रायं मणिकुलकर्मकार्यसिद्धितन्त्रः /
कृत्वा धूपादिभिः पूजां वज्रगर्भसमाधिना / यत्कार्यं चिन्तयेत्प्राज्ञः तत्सर्वं सिध्यति क्षणाद् //
इत्याह भगवान् वज्रगर्भः //
सर्वकुल[कर्मकार्य]सिद्धिविधिविस्तरतन्त्रं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राभावना[धिष्ठानयोगसिद्धितन्त्रमुदाजहार /] तत्रायं तथागताधिष्ठानयोगसिद्धितन्त्रो भवति /
सूक्ष्मवज्रप्रयोगेण बुद्धयोगसमाहितः / उत्तमासि[द्धिमाप्नुयाद्] बुद्धमुद्राप्रसाधक //
इत्याह भगवान् वज्रपाणिस्तथागतः //
तत्रायं तथागतकुलसत्वाधिष्ठानयोगसिद्धितन्त्रः /
सत्वो हि [सर्वात्मभावः काये ऽ]प्यात्मनि संस्थितः / इत्यधिष्ठाय सत्वो ऽहमहंकारेण भावयन् //
सिध्यतीत्याह भगवान् सर्वतथागतमहायानाभिसमय[वज्रसत्वः //
तत्रायं व]ज्रकुलवज्राधिष्ठान[योगसिद्धितन्त्रः /]
यथा सत्वस्तथा मुद्रा यथा मुद्रास्तथा ह्यहं / अनेन भावयोगेन सर्वमुद्राः सु[साधयेद् //
इत्याह भगवान् वज्रधरः //
तत्रायं पद्मकुलधर्मा]धिष्ठानयोगसिद्धितन्त्रः /
धर्ममुद्राप्रयोगेण सूक्ष्मवज्रेण भावना / वाङ्मुद्राणां [तु तत्सर्वं महासत्वस्य समाधि //
इत्याह भगवानार्यावलोकितेश्वरः //] तत्रायं मणिकुलकर्माधिष्ठानयोगसिद्धितन्त्रः /
सर्वबुद्धाभिषेकाणि [पजासमयसिद्धयः / भगवानिति भावयन् वज्रकर्माणि साधयेद् //
इत्याह भगवान्] वज्रकर्म //
सर्वकुलमुद्राभाव[नासिद्धितन्त्रं //
अथ] भगवन्[सर्वतथागताः] पुनः समाजमागम्य, भगवते सर्वतथागतचक्रवर्तिने वज्रपाणये महाबोधिसत्वाय साधुकाराण्यददुः /
साधु ते वज्रसत्वाय [वज्ररत्ना]य साधु ते / [वज्रधर्माय ते साधु साधु ते] वज्रकर्मणे //
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसं[ग्रहम् // इति //]
सर्वतथागततत्वसंग्रहात् सर्वकल्पगुह्योत्तरतन्त्रविधिविस्तरः परिसमाप्तः //
छप्तेर् 26अ सर्व-कल्पनुत्तर-तन्त्र
अथ वज्रपाणिर्महाबोधिसत्व इमा[मुदानमुदानयामास /]
दुर्दृष्टीनां विरक्तानामिदं गुह्यन्न युज्यते / सर्वसत्वहितार्थाय वक्ष्यामि विधयस्तथे- // ति //
अथवज्रपाणिर्महाबोधिसत्वः [सर्वतथागत] कुलोपचारविधिविस्तरमभाषत् /
तत्रेदं सर्वतथागतकुलोपचारविधिविस्तरतन्त्रं /
तत्रायं हृदयोपचारविधि[विस्तरतन्त्रो भवति] / महामण्डलं दृष्ट्वा धूपपुष्पदीपगन्धपूजामुद्राभिर् कृत्वा, ततो वज्र[वाचा जापमारभ्यति /]
तत्रायं जापविधिर्भवति / यथा स्थानस्थितश्चतुर्मासं चतुःसन्ध्यं धूपादिभिर्यथावत्पूजां कृत्वा, सर्वतथागतमहायानाभिसमयनामाष्टशतेन सर्वतथागतानभिष्टुत्य, चतुर्मुद्राप्रणामयोगेन प्रणमन्नात्मनिर्यातनपूजा कार्यनेन मन्त्रचतुष्टयेन /
ओं सर्वतथागतपूजोपस्थानायात्मानं निर्यातयामि सर्वतथागतवज्रसत्वाधितिष्ठस्व मां //
ओं सर्वतथागतपूजाभिषेकायात्मानं निर्यातयामि सर्वतथागतवज्ररत्नाभिषिञ्च मां //
ओं सर्वतथागतपूजाप्रवर्तनायात्मानं निर्यातयामि सर्वतथागतवज्रधर्म प्रवर्तय मां //
ओं सर्वतथागतपूजाकर्मणे आत्मानं निर्यातयामि सर्वतथागतवज्रकर्म कुरु मां //
"ततो ऽविरक्तः सर्वकामगुणेषु सर्वाहारः सर्वकामोपभोगीहृदयार्थः स्वमात्मानं बुद्धबिम्बं पुरतो वाङ्मात्रेणापि भावयन् यथाकामकरणीयतया, अष्टशतं वज्रवाचा जपन्नाशु प्रसिध्यती-" त्याह भगवान् वज्रसत्वः //
"अथोत्तमसिद्धिमिच्छेत्ततः पटे भगवन्तं तथागतं मध्ये लेखयेत् / तस्य चतुर्महासत्वमण्डलयोगेन यथाभिरुचितवर्णाभरणा महासत्वाश्चन्द्रमण्डलप्रतिष्ठिता लेख्याः कोणभागेषु कुलदेव्य इति / ततः पटस्योदारां पूजां कृत्वा यथावज्जपयोगेन तावज्जपेत् यावन्मासचतुष्टयं, ततः सकलां रात्रिं जपेत् / ततः प्रभाते सर्वतथागततत्वादीनुत्तमसिद्धीनवाप्नोती-" त्याह भगवान् वज्रधरः /
"अथमुद्रासाधनमिच्छेत्तेन सर्वतथागतसत्ववज्रिमुद्रां बध्वा पटस्याग्रतो वज्रवाचां शतसहस्रं यथाकामकरणीयतया यथावद् बन्धन् मुञ्चंश्च जपेत् / ततो ऽन्ते सकलां रात्रिं, अविश्रमतो किञ्चित्कालं मुञ्चन्, यथावच्च बन्धन् जपेत् / ततो मुद्रा ज्वलत्याविशत्युत्तिष्ठति वाचं मुञ्चतीति / ततो मुद्राबन्धनेनोत्पतति कामरूपी भवति अन्तर्धाति सर्वकर्माणि च करोति / सर्वमुद्राश्च बन्धमात्रा यथावत्सर्वकर्माणि कुर्वन्ती-"त्याह भगवान् वज्रधरः //
"अथ समाधयो इष्येत् तेन सूक्ष्मवज्रादारब्धव्य समाधिमभिरोचेत् तं हृदययोगतो ऽभ्यसेत्, तावद्यावच् चतुर्मासं / ततो ऽन्ते सकलां [रात्रिं पर्यङ्काविक्षप्तसमापन्नेन तिष्ठेत् / ततः प्रभाते सर्वतथागताद्याः] सर्वसिद्धय आमुखीभवन्ति / ततो यादृशी अभिरुचिस्तादृ[शीमवाप्नोती-"त्याह भगवान् वज्रसत्वः //]
अथ कर्मसाधनं भवति / तथैव जपन्मासमेकं साधयेत् / ततो ऽन्ते सकलां रात्रिं ज[पेत् / ततः सर्वकर्माणि सिध्यन्ती-"त्याह भगवान् वज्रध]रः //
"अथ कर्माणि भवन्ति / सकृदुच्चारितेनात्मपरग्रामनगररक्ष भवति // कवचब[न्धादिनावेशमपि कृत्वा चन्दनगन्धेन ग्रहाग्रह]स्पृष्टवज्राङ्कु शशरहस्तरत्नसूर्यध्वजदन्तपङ्क्तिपद्मखड्गचक्रजिव्हासर्ववज्रकवचदंष्ट्रामुष्टिमुद्रादिनिसर्वभावानाविशयति सकृज्जप्तेन // मायाकर्म च मयूरपत्रपिञ्च्छके वज्रं चिध्वा बन्धयेत् / ततस्तं मयूराङ्गपिञ्च्छकं सत्ववज्रि मुद्र[या बध्यात् ता]वज्जपेद्यावत् सर्वतथागतमुद्रा आविशति / ततश्च पिञ्च्छकान् नानाद्यानि रूपाणि पश्यति / ततः प्रभृति तेन पिञ्च्छकेन सर्वरूपाणि विधिवद् दर्शयति / तेनैव पिञ्च्छकेन सकृज्जप्ते भ्रामितेनात्मनः सर्वरूपाणि दर्शयति / तेनैव पिञ्च्छकेन लौकिकानि मायाकर्माणि दर्शयति / बुद्धबोधिसत्वबिम्बान्यपि दर्शयति / दशसु दिक्षु सर्वबुद्धक्षेत्रेषु तथागताः सपर्षन्मण्डलाः समारसेनाधर्षणादिबुद्धर्द्धिविकुर्वितानि कुर्वन्तो दर्शयति / यावत्सर्वाकारवरोपेतं बुद्धरूपमात्मानं भवती-"ति //
"वशीकरणं कर्तुकामः सर्वतथागतसत्वमुद्रां बध्वा तावज्जपेद् यावत्सा मुद्रां ज्वलति / ततः प्रभृति मुद्राबन्धेन सर्वतथागतानभ्यारागयति वशीकरोति / किं पुनरन्यां सत्वान्? //
"अथ लौकिकोत्तमसिद्धयः साधयितुकामेन तेनादित एव तथैव जपता मासमेकमष्टसाहस्रिकेण जप्तव्यः / ततो ऽन्ते मुद्रां बध्वा तथैव सकलां रात्रिं जपेत्, यावन्मुद्रा ज्वलति / ततः प्रभृति मुद्राबन्धेन लौकिकसिद्धिविद्याधरसिद्धीनामेकतरो भवती-"त्याह भगवां वज्रधरः //
तथागतकुलोपचारविधिविस्तरः परिसमाप्तः //
अथ वज्रकुलोपचारविधिविस्तरो भवति /
"तत्रादित एव पूर्वमेवं कुर्यात् / तथैव यथाकामकरणीयतया, अक्षरलक्षं जपेत् / अस्य सकलां रात्रिं जपेत् / ततः प्रभृति सर्वसत्वनिग्रहानुग्रहक्षमो भवती-"त्याह भगवां वज्रधरः //
अथ साधयितुमिच्छेत् तेन यथावत्पटं चित्रापयितव्यः / ततस्तथैव पूजां कृत्वा मासमेकं सर्वकामभोजी यथाकामकरणीयतया, अष्टसाहस्रिकेण जापेन चतुःसन्ध्य वज्रवाचा जपेत्, तावद्यावन्मासान्ते पटस्योदारां पूजां कृत्वा वज्र-हुंकारमहामुद्रां बध्वा तावज्जपेद्यावत्तस्मात् मुद्रां बन्धात्, हुंकारशब्दो विनिःसृतः / ततः प्रभाते महेश्वरादयो देवाधिपतयः सगणपरिवाराः पुरःस्थित्वाज्ञां मार्गयन्ति / ततो विद्याधरेणैवं वक्तव्यं "यदाहं ब्रूयामागच्छतेदं कुरुत तदा भवद्भिरागत्य ममाज्ञा कार्ये-"ति / ततः प्रभृति सकलत्रिलोकाधिपतिर्भवति / यथेच्छया च मुहूर्तमात्रेण सकलं त्रिभुवनमाज्ञापयन् भ्रमति / पुनरप्येति च, निग्रहानुग्रहं कुर्वं, दिव्यानि च त्रिलोकभोगानि चोपभुञ्जन् यथाकामकरणीयतया, सर्वसुराधिपतियोषिताद्याः सर्वयोषिता आरागयित्वोपभुञ्जति / न च तस्य कश्चित् किंचिच्छक्नोति कर्तुं, हुंकारेण च सर्वदुष्टदे[वादीन् प्रमर्दित्वा ततस्तावत्कल्पशतसहस्रान् जीवती-"त्याह भगवान् वज्रधरः //
"अथ मुद्रासाधनमिच्छेद्] यथावज्जपं कृत्वा मासान्ते वज्र-हुं-कारसमयमुद्रां बध्वा सकलां रात्रिं जपेत् / ततः प्रभाते मुद्राः सिद्धा भवन्ति / ततो यथावन् मुद्राबन्धेन हुंकारप्रयुक्तेन आकाशगमनविश्वसंदर्शनान्तर्धानमायासन्दर्शनसर्वावेशनाकर्षणवशीकरणसर्वतुष्टिसंजननसर्वरत्नाभिहरणमहातेजोज्वालासन्दर्शनरत्नवृष्टिसन्दर्शनमहाट्टहासप्रमुञ्चनसर्वसत्वसंशोधनच्छिन्दनभिन्दनऋतुचक्रपरिवर्तनयथावत्तत्वोल्लापनसर्वकर्मप्रवर्तनरक्षजंभनस्तंभनत्रासनमारणसर्वसत्वमुद्रणकामरतिक्रियाप्रवर्तनाभिषेकसर्वभावगायापननृत्यापनाह्वायनप्रवेशनस्फोटनावेशनादीनि सर्वकर्माणि करोती-"त्याह भगवान् वज्रधरः //
"अथ सूक्ष्मज्ञानसाधनमिच्छेत् तेन वज्र-हुं-कारसमाधिमभ्यसता तथैव जापयोगेन मासं साधयितव्यं / ततो ऽन्ते ऽनेनैव समाधिना सकलां रात्रिं जपेत् / तावद् यावत् प्रभाते पञ्चाभिज्ञा भूत्वा सर्वसत्वानुग्रहनिग्रहक्षमो भवती-"त्याह भगवान् वज्रधरः //
"अथ कर्मसाधनमिच्छेत् तेन तथैव जपता मासमेकं साधयितव्यं / ततो ऽन्ते सकलां रात्रिं जपेत् / ततः सर्वकर्माणि सिध्यन्ती"त्याह भगवान् वज्रधरः // ततः कर्माणि भवन्ति सकृदुच्चारितेन मनीषितया रक्षादीनि सर्वकर्माणि करोति //
वज्रकुलोपचारसिद्धिविधिविस्तरः [परिसमा]प्तः //
अथ पद्मकुलोपचारविधिविस्तरो भवति /
"तत्रादित एव तावच्छतसहस्रं जपेत्, पूर्वमेवाकृता भ[वति]ततः साधनं भवति / पटे भगवान् सर्वजगद्विनयाद्याः कर्तव्यास्तस्य सर्वपार्श्वेषु चतुर्मण्डलयोगेन महासत्वचतुष्टयः कार्यः अन्ते च देव्यः / ततः स एव जापविधिविस्तरो मासान्ते सकलां रात्रिं जपेत् / ततः सर्वजगद्विनयो भगवानागच्छति, यथाकालं वरेणाभिप्रचारयती-"ति आह भगवान् वज्रधरः //
"अथ मुद्रासाधनमिच्छेत् तेन तथैव पद्मवज्रिमुद्राबन्धं कृत्वा यथावन् मुच्याष्टसाहस्रिकेण जापेन चतुःसन्ध्यं जपेत् / ततः सकलां रात्रिं मुद्राबन्धेन जपेत् / प्रभाते सिद्धिर्भवति / ततो मुद्राबन्धेन यथावत् सर्वजगद्विनयं करोती-"त्याह भगवानवलोकितेश्वरः //
"अथ समाधिनयसाधनममिच्छेत् तेन तथैव मासान्ते सकलां रात्रिं यथाभिरुचितेन समाधिना जापो दातव्यः / ततः प्रभाते सर्वसमाधय आमुखीभवन्ती-"त्याह भगवान् वज्रधर्मः //
अथ कर्मसाधनमिच्छेत् तथैव जपन्मासान्ते सकलां रात्रिं जपेत् / ततः सर्वकर्मक्षयो भवती-"त्याह भगवां वज्रधरः //
पद्मकुलोपचारविधिविस्तरः परिसमाप्तः //
अथ मणिकुलोपचारविधिविस्तरो भवति //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
